०१
विश्वास-प्रस्तुतिः
यान्वै ता᳘न्त्सप्त पु᳘रुषान्॥
(ने᳘) ए᳘कं पु᳘रुषम᳘कुर्व्वन्त्स᳘ प्रजा᳘पतिरभवत्स᳘ प्रजा᳘ ऽअसृजत स᳘ प्रजाः᳘ सृ᳘ष्ट्वोर्ध्व ऽउ᳘दक्रामत्स᳘ ऽएतं᳘ लोक᳘मगच्छद्य᳘त्रैष᳘ ऽएतत्त᳘पति᳘ नो ह त᳘र्ह्यन्य᳘ ऽएत᳘स्माद᳘त्र यज्ञि᳘य ऽआस तं᳘ देवा᳘ यज्ञे᳘नैव य᳘ष्टुमध्रियन्त॥
मूलम् - श्रीधरादि
यान्वै ता᳘न्त्सप्त पु᳘रुषान्॥
(ने᳘) ए᳘कं पु᳘रुषम᳘कुर्व्वन्त्स᳘ प्रजा᳘पतिरभवत्स᳘ प्रजा᳘ ऽअसृजत स᳘ प्रजाः᳘ सृ᳘ष्ट्वोर्ध्व ऽउ᳘दक्रामत्स᳘ ऽएतं᳘ लोक᳘मगच्छद्य᳘त्रैष᳘ ऽएतत्त᳘पति᳘ नो ह त᳘र्ह्यन्य᳘ ऽएत᳘स्माद᳘त्र यज्ञि᳘य ऽआस तं᳘ देवा᳘ यज्ञे᳘नैव य᳘ष्टुमध्रियन्त॥
मूलम् - Weber
यान्वै ता᳘न्त्सप्त पु᳘रुषान्॥
ए᳘कम् पु᳘रुषम᳘कुर्वन्त्स᳘ प्रजा᳘पतिरभवत्स᳘ प्रजा᳘ असृजत स᳘ प्रजाः᳘ सृॗष्ट्वोर्ध्व उ᳘दक्रामत्स᳘ एतं᳘ लोक᳘मगछद्य᳘त्रैष᳘ एतत्त᳘पतिॗ नो ह त᳘र्ह्यन्य᳘ एत᳘स्माद᳘त्र यज्ञि᳘य आस तं᳘ देवा᳘ यज्ञे᳘नैव य᳘ष्टुमध्रियन्त॥
मूलम् - विस्वरम्
यान्वै तान्त्सप्त पुरुषानेकं पुरुषमकुर्वन्- स प्रजापतिरभवत् । स प्रजा असृजत । स प्रजाः सृष्ट्वोर्ध्व उदक्रामत् । स एतं लोकमगच्छत्- यत्रैष एतत्तपति । नो ह तर्ह्यन्य एतस्मादत्र यज्ञिय आस । तं देवा यज्ञेनैव यष्टुमध्रियन्त ॥ १ ॥
सायणः
द्वितीये ब्राह्मणे चित्याग्नेः सप्तपुरुषप्रमाणतां पक्षपुच्छयोश्चारत्निवितस्तिप्रमाणतां विधत्ते- यान्वै तान्सप्त पुरुषानिति । ‘वै’ शब्दः प्रसिद्धिद्योतकः । यच्छब्दो विप्रकृष्टवचनः, तच्छब्दः प्रकृतवचनः, ‘यांस्तान्’ ‘सप्त पुरुषान्’ ‘एकं पुरुषमकुर्वन्’ ‘स’ एव पुरुषः ‘प्रजापतिरभवत्’ इति षष्ठकाण्डादौ सप्त प्राणाः स्वस्वाश्रयान्नानादेहानाश्रित्य सङ्घसाध्यव्यापारासमर्थाः सन्तः सर्वेन्द्रियाधारमेकं पुरुषमकुर्वन्नित्यभिहितम्- “न वा इत्थं संतः शक्ष्यामः प्रजनयितुमिमान् सप्त पुरुषान् एकं पुरुषं करवामेति त एतान् सप्त पुरुषानेकं पुरुषमकुर्वन्”- (श. प. ६ । १ । १ । ३) इति । “स एव पुरुषः प्रजापतिरभवत्”- (श. प. ६ । १ । १ । ५) इति च । तथाविधस्य प्रजापतेः प्रतिनिधिः सप्तपुरुषसम्मितः प्राकृतो ऽग्निरित्यमुमर्थं मन्त्रसंवादपुरःसरं प्रतिपादयति- स प्रजा असृजतेति । ‘सः’ सप्तपुरुषात्मकः प्रजापतिः ‘प्रजां’ सृष्ट्वा कृतकर्त्तव्यः ‘ऊर्ध्वः’ सन् ‘उदक्रामत्’ ‘सूर्यलोकमगच्छत्’ । ‘अत्र’ लोके ‘तर्हि’ तदा ‘एतस्मात्’ सवितुः ‘अन्यो’ ‘यज्ञियो’ यज्ञार्हो यष्टव्यो ‘नास’ न बभूव । ‘तम्’ यज्ञियं सवितारं ‘यज्ञेन’ अग्निकर्मणा ‘देवाः’ ‘यष्टुमध्रियन्त’ निश्चितवन्तः । यष्टव्यः प्रजापतिस्तु सूर्यलोकं गतः । अतस्तत्र सूर्य एव यष्टव्य इति निश्चितवन्त इत्यनेन चयनस्य सूर्यलोकप्राप्तिः फलमिति सूचितं भवति ॥ १ ॥
Eggeling
- Now the one person which they made out of those seven persons 1 became this Prajāpati. He produced living beings (or offspring), and having produced living beings he went upwards,–he went to that world where that (sun) now shines. And, indeed, there was then no other (victim) meet for sacrifice but that one (Prajāpati), and the gods set about offering him up in sacrifice.
०२
विश्वास-प्रस्तुतिः
त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तम्॥
यज्ञे᳘न यज्ञ᳘मयजन्त देवा ऽइ᳘ति यज्ञे᳘न हि तं᳘ यज्ञम᳘यजन्त देवास्ता᳘नि ध᳘र्माणि प्रथमा᳘न्यासन्नि᳘ति ते हि ध᳘र्माः प्रथमे᳘ ऽक्रियन्त ते᳘ ह ना᳘कं महिमा᳘नः सचन्ते᳘ति स्वर्गो वै᳘ लोको ना᳘को देवा᳘ महिमा᳘नस्ते᳘ देवाः᳘ स्वर्गं᳘ लोक᳘ᳫँ᳘ सचन्त ये᳘ तं᳘ यज्ञम᳘यजन्नि᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तम्॥
यज्ञे᳘न यज्ञ᳘मयजन्त देवा ऽइ᳘ति यज्ञे᳘न हि तं᳘ यज्ञम᳘यजन्त देवास्ता᳘नि ध᳘र्माणि प्रथमा᳘न्यासन्नि᳘ति ते हि ध᳘र्माः प्रथमे᳘ ऽक्रियन्त ते᳘ ह ना᳘कं महिमा᳘नः सचन्ते᳘ति स्वर्गो वै᳘ लोको ना᳘को देवा᳘ महिमा᳘नस्ते᳘ देवाः᳘ स्वर्गं᳘ लोक᳘ᳫँ᳘ सचन्त ये᳘ तं᳘ यज्ञम᳘यजन्नि᳘त्येतत्[[!!]]॥
मूलम् - Weber
त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तम्॥
यज्ञे᳘न यज्ञ᳘मयजन्त देवा इ᳘ति यज्ञे᳘न हि तं᳘ यज्ञम᳘यजन्त देवास्ता᳘नि ध᳘र्माणि प्रथमा᳘न्यासन्नि᳘ति ते हि ध᳘र्माः प्रथमे᳘ऽक्रियन्त ते᳘ ह ना᳘कम् महिमा᳘नः सचन्ते᳘ति स्वर्गो वै᳘ लोको ना᳘को देवा᳘ महिमा᳘नस्ते᳘ देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ सचन्त ये᳘ 2 तं᳘ यज्ञम᳘यजन्नि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
तस्मादेतदृषिणा ऽभ्यनूक्तम् । “यज्ञेन यज्ञमयजन्त देवाः”- इति । यज्ञेन हि तं यज्ञमयजन्त देवाः । “तानि धर्म्माणि प्रथमान्यासन्”- इति । ते हि धर्माः प्रथमे ऽक्रियन्त । “ते ह नाकं महिमानः सचन्त”- इति । स्वर्गो वै लोको नाकः । देवा महिमानः । ते देवा स्वर्गं लोकं सचन्त- ये तं यज्ञमयजन् इत्येतत् ॥ २ ॥
सायणः
यज्ञार्हस्य यज्ञेन यजनकरणे मन्त्रसंवादं दर्शयति- तस्मादेतदृषिणा ऽभ्यनूक्तमिति । ऋषिर्मन्त्रः । देवाः ‘यज्ञेन’ चयनरूपेण ‘यज्ञम्’ यष्टव्यम् । यजेः कर्मणि ‘यजपाचयतविच्छप्रच्छरक्षो नङ्"- (पा. सू. ३ । ३ । ८३) ‘तम्’ सवितारम् ‘अयजन्त’ ततः ‘प्रथमानि’ आदिमानि ‘तानि’ ‘धर्माणि’ कर्माणि ‘आसन्,’ देवैः सम्पादितानि बभूवुः । ‘महिमानो’ महत्त्वयुक्ताः ‘ते’ देवाः ‘नाकम्’ दुःखरहितं स्वर्गलोकं ‘सचन्त’ सम्भजन्ते । यत्र लोके पूर्वे चिरन्तनाः साध्या देवाः प्रजापतेः स्रष्टारः सन्ति । मन्त्रं प्रतिपादमनूद्य व्याचष्टे- यज्ञेन हि तं यज्ञमिति । ये तं यज्ञमयजन्नित्येतदिति । उक्तार्थस्य तात्पर्यकथनम् । साध्यपदस्यार्थमाह- प्राणा वै साध्या देवा इति । ‘अग्रे’ पूर्वं ते ‘प्राणाः’ ‘एतम्’ एव प्रजापतिम् ‘असाधयन्’ “सप्त प्राणा एक पुरुषमकुर्वन्”- (श. प. ६ । १ । १ । ३) इति प्रागुक्तम् । किमर्थमेवं साधितवन्त इति तत्राह- एतदेव बुभूषन्त इति । प्राणाः स्वयमपि प्रजापत्यात्मना भवितुमिच्छन्तः, अतः ‘एतर्हि’ इदानीमपि ‘त एव’ प्राणाः ‘साधयन्ति’ कार्यम् । प्राणवतैव हि कार्यं साध्यते । अनेन मन्त्रेणैतदुक्तं भवति- सूर्यलोकं गतं प्रजापतिं लब्धुं सूर्यं यष्टुमध्रियन्त इति । तस्य प्रजापतेः कथं लब्धिरित्याशङ्कां परिहर्तुं यत्र साध्याः सन्तीति प्राणरूपकारणसद्भावः प्रदर्शितः । कारणे विद्यमाने कार्यमुत्पद्यत इत्यभिप्रायः । एवं सूर्यो यज्ञरूपप्रजापत्यात्मना यष्टव्य इत्युक्तम् । सृष्ट्यादौ प्रजापतिव्यतिरिक्तस्य यष्टव्यदेवजातस्य विरहात्सूर्य एव पक्ष्यात्मकप्रजापतिरूपेण यष्टव्य इत्यमुमर्थं च मन्त्रान्तरेण प्रतिपादयति- पश्चेदमन्यद्भवद्यजत्रमिति । अयं दाशतय्याम् “सविता यन्त्रैः पृथिवीमरम्णाद्”- (ऋ. सं. ८ । ८ । ७ । १) इति सावित्रसूक्ते समाम्नातो मन्त्रः । अयमर्थः- पश्चाद् देवानां प्रजापतिमुद्दिश्य यागादनन्तरम् अमर्त्यस्य मरणधर्मरहितस्य भुवनस्य सर्वलोकाधिष्ठातुः, भूना इमनिचो मकारस्य लोपः । ‘भूम्ना’ बहुभावेन ‘अन्यद्’ इतरत् ‘यजत्रम्’ यष्टव्यमिन्द्रादिदेवतान्तरमभवदुत्पन्नम् । सवितृसकाशात् पूर्वोत्पन्नत्वं समर्थितम्, अतो ऽन्यो यज्ञियस्तदानीं नासीदिति भावः । पूर्वार्धगतं यजत्रपदं व्याचष्टे- पश्चा हैवेदमन्यद्यज्ञियमिति ॥ २ ॥ ३ ॥
Eggeling
- Wherefore it is with reference to this that the R̥shi has said (Vāj. S. XXXI, 16, R̥g-veda X, 90, 16), ‘The gods offered up sacrifice by sacrifice,’–for by sacrifice they did offer up him (Prajāpati), the sacrifice;–’these were the first ordinances:’–for these laws were instituted first;–’these powers clung unto the firmament,’–the firmament is the world of heaven, and the powers are the gods: thus, ‘Those gods who offered up that sacrifice shall cling to the world of heaven;’–
०३
विश्वास-प्रस्तुतिः
(द्य᳘) य᳘त्र पू᳘र्व्वे साध्याः स᳘न्ति देवा ऽइ᳘ति॥
प्राणा वै᳘ साध्या᳘ देवास्त᳘ ऽएतम᳘ग्र ऽएव᳘मसाधयन्नेत᳘देव बु᳘भूषन्तस्त᳘ ऽउ ऽएवा᳘प्येत᳘र्हि साधयन्ति प᳘श्चेद᳘मन्य᳘दभवद्य᳘जत्रम᳘मर्त्यस्य भु᳘वनस्य भूने᳘ति पश्चा᳘ है᳘वेद᳘मन्य᳘द्यज्ञि᳘यमास यत्कि᳘ञ्चामृ᳘तम्॥
मूलम् - श्रीधरादि
(द्य᳘) य᳘त्र पू᳘र्व्वे साध्याः स᳘न्ति देवा ऽइ᳘ति॥
प्राणा वै᳘ साध्या᳘ देवास्त᳘ ऽएतम᳘ग्र ऽएव᳘मसाधयन्नेत᳘देव बु᳘भूषन्तस्त᳘ ऽउ ऽएवा᳘प्येत᳘र्हि साधयन्ति प᳘श्चेद᳘मन्य᳘दभवद्य᳘जत्रम᳘मर्त्यस्य भु᳘वनस्य भूने᳘ति पश्चा᳘ है᳘वेद᳘मन्य᳘द्यज्ञि᳘यमास यत्कि᳘ञ्चामृ᳘तम्॥
मूलम् - Weber
य᳘त्र पू᳘र्वे साध्याः स᳘न्ति देवा इ᳘ति॥
प्राणा वै᳘ साध्या᳘ देवास्त᳘ एतम᳘ग्र एव᳘मसाधयन्नेत᳘देव बु᳘भूषन्तस्त᳘ उ एवा᳘प्येत᳘र्हि साधयन्ति पॗश्चेद᳘मन्य᳘दभवद्य᳘जत्रम᳘मर्त्यस्य भु᳘वनस्य भूने᳘ति पश्चा᳘हैॗवेद᳘मन्य᳘द्यज्ञि᳘यमास यत्किं᳘ चामृ᳘तम्॥
मूलम् - विस्वरम्
“यत्र पूर्वे साध्याः सन्ति देवाः”- (वा. सं. ३१ । १६) इति । प्राणा वै साध्या देवाः । त एतमग्र एवमसाधयन्- एतदेव बुभूषन्तः । त उ एवाप्येतर्हि साधयन्ति । “पश्चेदमन्यदभवद् यजत्रममर्त्यस्य भुवनस्य भूना”- इति । पश्चा हैवेदमन्यद्यज्ञियमास- यत्किञ्चामृतम् ॥ ३ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- ‘Where first the perfect gods were,’–the perfect 3 gods, doubtless, are the vital airs, for it is they that perfected him in the beginning 4 when they
were desirous of becoming that (body of Prajāpati 5); and even now, indeed, they do perfect (him).–[R̥g-veda X, 149, 3]–‘Thereafter this other became meet for sacrifice by the abundance of the immortal world,’–for thereafter, indeed, other things here–whatsoever is immortal–became fit for sacrifice.
०४
विश्वास-प्रस्तुतिः
(ᳫँ᳭) सुपर्णो᳘ ऽअङ्गं᳘ सवितु᳘र्गरु᳘त्मान्॥
(न्पू᳘) पू᳘र्व्वो जातः स᳘ ऽउ ऽअस्या᳘नु धर्मे᳘ति प्रजा᳘पतिर्व्वै सुपर्णो᳘ गरु᳘त्मानेष᳘ सवि᳘तैत᳘स्य प्रजा᳘पतिर᳘नु ध᳘र्ममि᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(ᳫँ᳭) सुपर्णो᳘ ऽअङ्गं᳘ सवितु᳘र्गरु᳘त्मान्॥
(न्पू᳘) पू᳘र्व्वो जातः स᳘ ऽउ ऽअस्या᳘नु धर्मे᳘ति प्रजा᳘पतिर्व्वै सुपर्णो᳘ गरु᳘त्मानेष᳘ सवि᳘तैत᳘स्य प्रजा᳘पतिर᳘नु ध᳘र्ममि᳘त्येतत्[[!!]]॥
मूलम् - Weber
सुपर्णो᳘ अङ्ग᳘ᳫं᳘ सवितु᳘र्गरु᳘त्मान्॥
पू᳘र्वो जातः स᳘ उ अस्या᳘नु धर्मे᳘ति प्रजा᳘पतिर्वै᳘ सुपर्णो᳘ गरु᳘त्मानेष᳘ सविॗतैत᳘स्य प्रजा᳘पतिर᳘नु ध᳘र्मनि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“सुपर्णो अङ्ग सवितुर्गरुत्मान् पूर्वो जातः स उ अस्मानु धर्म”- इति । प्रजापतिर्वै सुपर्णो गरुत्मान् । एष सविता । एतस्य प्रजापतिरनुधर्ममित्येतत् ॥ ४ ॥
सायणः
‘सुपर्णः’ शोभनपतनः ‘गरुत्मान्’ पक्षवान् चित्याग्न्यात्मको विराड्रूपः प्रजापतिः सवितुः सर्वप्रेरकाद्धिरण्यात्मकात् सूर्यात् ‘पूर्वो’ ‘जातः’ प्रथममुत्पन्नः । ‘सः’ खलु ‘गरुत्मान् अस्य’ सवितुः ‘अनुधर्म’ धारणमनुकरोति तदात्मको भवतीति यावत् । उत्तरार्धस्य तात्पर्यमाह- प्रजापतिर्वै सुपर्ण इति ॥ ४ ॥
Eggeling
- ‘Savitr̥’s well-winged eagle verily was first born, and he was according to his ordinance,’–the well-winged eagle, doubtless, is Prajāpati, and Savitr̥ is that (sun): thus, ‘In accordance with his (the sun’s) law he indeed (comported himself).’
०५
विश्वास-प्रस्तुतिः
(त्स) स वै᳘ सप्तपुरुषो᳘ भवति॥
सप्तपुरुषो᳘ ह्ययं[[!!]] पु᳘रुषो य᳘च्चत्वा᳘र ऽआत्मा त्र᳘यः पक्षपुच्छा᳘नि चत्वा᳘रो हि त᳘स्य पु᳘रुषस्यात्मा त्र᳘यः पक्षपुच्छा᳘नि॥
मूलम् - श्रीधरादि
(त्स) स वै᳘ सप्तपुरुषो᳘ भवति॥
सप्तपुरुषो᳘ ह्ययं[[!!]] पु᳘रुषो य᳘च्चत्वा᳘र ऽआत्मा त्र᳘यः पक्षपुच्छा᳘नि चत्वा᳘रो हि त᳘स्य पु᳘रुषस्यात्मा त्र᳘यः पक्षपुच्छा᳘नि॥
मूलम् - Weber
स वै᳘ सप्तपुरुषो᳘ भवति॥
सप्तपुरुषो ह्य᳘यम् पु᳘रुषो य᳘च्चत्वा᳘र आत्मा त्र᳘यः पक्षपुछा᳘नि चत्वा᳘रो हि त᳘स्य पु᳘रुषस्यात्मा त्र᳘यः पक्षपुछा᳘नि॥
मूलम् - विस्वरम्
स वै सप्तपुरुषो भवति । सप्तपुरुषो ह्ययं पुरुषः । यत् चत्वार आत्मा, त्रयः पक्षपुच्छानि । चत्वारो हि तस्य पुरुषस्यात्मा, त्रयः पक्षपुच्छानि ॥ ५ ॥
सायणः
तस्य सप्तपुरुषात्मकत्वमाह- स वा इति । ‘सः’ सुपर्णरूपः प्रजापतिः सप्तपुरुषसम्मितो भवेत् । हि यस्माद् ‘अयम्’ ‘पुरुषः’ सप्तभिः पुरुषैर्निर्मितः । तानेव पुरुषानाह- यच्चत्वार आत्मा त्रयः पक्षपुच्छानीति । मध्यभागः चतुःपुरुषप्रमाणः । दक्षिणः पक्ष एकपुरुषप्रमाणः । तथा पुच्छम् । तथोत्तरः पक्ष इत्यर्थः ॥ ५ ॥
Eggeling
- He indeed consists of seven persons, for that Person 6 consisted of seven persons;–to wit, the body of four, and the wings and tail of three, for of four the body of that Person consisted, and of three his wings and tail.
०६
विश्वास-प्रस्तुतिः
तं वा ऽउ᳘द्बाहुना पु᳘रुषेण मिमीते॥
पु᳘रुषो वै᳘ यज्ञस्ते᳘नेदᳫँ᳭ स᳘र्व्वं मितं त᳘स्यैषा᳘ परमा मा᳘त्रा यदु᳘द्बाहुस्त᳘द्या ऽस्य परमा मा᳘त्रा ता᳘मस्य त᳘दाप्नोति त᳘यैनं त᳘न्मिमीते तत्रो᳘प यत्प्र᳘पदेनाभ्यु᳘च्छ्रितो भ᳘वति त᳘त्परिश्रि᳘द्भिराप्नोति त᳘स्मादु बा᳘ह्येनैव ले᳘खां परिश्रि᳘द्भ्यः खनेत्॥
मूलम् - श्रीधरादि
तं वा ऽउ᳘द्बाहुना पु᳘रुषेण मिमीते॥
पु᳘रुषो वै᳘ यज्ञस्ते᳘नेदᳫँ᳭ स᳘र्व्वं मितं त᳘स्यैषा᳘ परमा मा᳘त्रा यदु᳘द्बाहुस्त᳘द्या ऽस्य परमा मा᳘त्रा ता᳘मस्य त᳘दाप्नोति त᳘यैनं त᳘न्मिमीते तत्रो᳘प यत्प्र᳘पदेनाभ्यु᳘च्छ्रितो भ᳘वति त᳘त्परिश्रि᳘द्भिराप्नोति त᳘स्मादु बा᳘ह्येनैव ले᳘खां परिश्रि᳘द्भ्यः खनेत्॥
मूलम् - Weber
तं वा उ᳘द्बाहुना पु᳘रुषेण मिमीते॥
पु᳘रुषो वै᳘ यज्ञस्ते᳘नेदᳫं स᳘र्वम् मितं त᳘स्यैषा᳘ परमा मा᳘त्रा यदु᳘द्बाहुस्तॗद्यास्य परमा मा᳘त्रा ता᳘मस्य त᳘दाप्नोति त᳘यैनं त᳘न्मिमीते तत्रो᳘प यत्प्र᳘पदेनाभ्यु᳘छ्रितो 7 भ᳘वति त᳘त्परिश्रि᳘द्भिराप्नोति त᳘स्मादु बा᳘ह्येनैव ले᳘खाम् परिश्रि᳘द्भ्यः खनेत्॥
मूलम् - विस्वरम्
तं वा उद्बाहुना पुरुषेण मिमीते । पुरुषो वै यज्ञः । तेनेदं सर्वं मितम् । तस्यैषा परमा मात्रा- यदुद्बाहुः । तद् या ऽस्य परमा मात्रा- तामस्य तदाप्नोति । तयैनं तन्मिमीते । तत्रोप यत्प्रपदेनाभ्युच्छ्रितो भवति- तत्परिश्रिद्भिराप्नोति । तस्मादु बाह्येनैव लेखां परिश्रिद्भ्यः खनेत् ॥ ६ ॥
सायणः
पुरुषप्रमाणं विधत्ते- तं वा उद्बाहुना पुरुषेणेति । समस्थितेन यजमानेनोर्ध्वबाहुना चित्याग्नेर्मानं कुर्यादित्यर्थः। उद्बाहुत्वं प्रशंसति- पुरुषो वै यज्ञ इति । पुरुषस्योर्ध्वबाहुत्वमेव ‘परमा मात्रा’ प्रमाणम् । ‘तेन’ मानेन तत्प्रमाणमग्नावाप्तवान् भवति । ययोर्ध्वबाहुत्वं प्रमाणम्, एवं प्रपदेनोच्छ्रितत्वमपि प्रमाणम् । तेनाप्यग्निर्मातव्य इत्याशङ्क्य तत्प्रमाणमन्यतः सिद्धमिति दर्शयति- तत्रोप यत्प्रपदेनेति । ‘प्रपदेन’ पादाग्रेणावस्थानादुन्नतो भवतीति यत्प्रमाणमस्ति ‘तत्परिश्रिद्भिः’ शर्कराभिराप्तवान् भवति । परिश्रिदर्थः सूत्रकृतोक्तः । “ऊर्ध्वाः शर्कराः खाते” (का. श्रौ. सू. १६ । २५४) इति । तस्मादु बाह्येनेति । यस्मात्परिश्रितः चित्याग्निक्षेत्रमध्यपातिन्यः अतः ‘परिश्रिद्भ्यो’ बाह्यतः ‘लेखां खनेत्’ ॥ ६ ॥
Eggeling
- He measures it (the altar) by the man with upstretched arms 8; for the sacrifice is a man, and by him everything here is measured; and that is his highest measure when he stands with up-stretched arms: he thus secures for him what is his highest measure, and therewith he then measures it. And what (space) there is over and above that when he is raised on the forepart of his foot, that he secures by the enclosing-stones; and hence he
should dig a line for the enclosing-stones outside (the altar-ground).
०७
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ पक्ष᳘योररत्नी᳘ ऽउपा᳘दधाति॥
पक्ष᳘योस्त᳘द्वी᳘र्यं[[!!]] दधाति बाहू वै᳘ पक्षौ᳘ बाहु᳘भ्यामु वा ऽअ᳘न्नमद्यते᳘ ऽन्नायैव त᳘मवकाशं᳘ करोति तद्य᳘त्पक्ष᳘योररत्नी᳘ ऽउपाद᳘धात्यरत्निमात्राद्ध्य᳘न्नमद्यते[[!!]]॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ पक्ष᳘योररत्नी᳘ ऽउपा᳘दधाति॥
पक्ष᳘योस्त᳘द्वी᳘र्यं[[!!]] दधाति बाहू वै᳘ पक्षौ᳘ बाहु᳘भ्यामु वा ऽअ᳘न्नमद्यते᳘ ऽन्नायैव त᳘मवकाशं᳘ करोति तद्य᳘त्पक्ष᳘योररत्नी᳘ ऽउपाद᳘धात्यरत्निमात्राद्ध्य᳘न्नमद्यते[[!!]]॥
मूलम् - Weber
अ᳘थ पक्ष᳘योररत्नी᳘ उपा᳘दधाति॥
पक्ष᳘योस्त᳘द्वीर्यं᳘ दधाति बाहू वै᳘ पक्षौ᳘ बाहु᳘भ्यामु वा अ᳘न्नमद्यते᳘ऽन्नायैव त᳘मवकाशां᳘ करोति तद्य᳘त्पक्ष᳘योररत्नी᳘ उपाद᳘धात्यरत्निमात्राद्ध्य᳘न्नमद्य᳘ते॥
मूलम् - विस्वरम्
अथ पक्षयोररत्नी उपादधाति- पक्षयोस्तद्वीर्यं दधाति । बाहू वै पक्षौ । बाहुभ्यामु वा ऽअन्नमद्यते । अन्नायैव तमवकाशं करोति । तद् यत्पक्षयोररत्नी ऽउपादधाति । अरत्निमात्राद्ध्यन्नमद्यते ॥ ७ ॥
सायणः
“चित्याग्निः सार्द्धसप्तपुरुषप्रमाणः”- इत्यापस्तम्बवचनम् । अत्र सप्तपुरुषप्रमाणमेवोच्यते- अधिकमर्धपुरुषप्रमाणं नोक्तमिति तद्विधत्ते- अथ पक्षयोररत्नी इति । “पुरुषः पञ्चारत्निकः”- (का. श्रौ. सू. परिशिष्ट शुल्बसूत्रे ८२) इत्युक्तम् । पक्षद्वये ऽरत्निद्वयं पुच्छे वितस्तिरिति वक्ष्यते । उभयं मिलित्वा सार्द्धमरत्निद्वयमर्द्धपुरुषप्रमाणं लभ्यते । पक्षौ अरत्नी च प्रशंसति- बाहू वै पक्षाविति । यतः ‘पक्षौ’ बाहुस्थानीयौ, ‘बाहुभ्यां’ हि ‘अन्नमद्यते’ अतः पक्षकरणेन आद्यस्यान्नस्यावकाशं कृतवान् भवति । बाह्वोरभावे आद्यान्नस्यावकाश एव नास्ति केनाश्नीयादिति । यतो ‘अरत्निमात्रात्’ बाहोः ‘अन्नमद्यते’ अतो बाहुरूपयोः पक्षयोररत्निप्रमाणोपधानं युक्तमित्यर्थः ॥ ७ ॥
Eggeling
- Two cubits he gives to the two wings: he thereby lays strength into the wings. And the wings are (the bird’s) arms, and by means of the arms food is eaten: it is thus for the sake of food that he gives them that space; and when he gives two cubits to the two wings, it is because food is taken from the distance of a cubit.
०८
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ पु᳘च्छे व्वि᳘तस्तिमुपा᳘दधाति॥
प्रतिष्ठा᳘यां त᳘द्वी᳘र्यं[[!!]] दधाति प्रतिष्ठा वै पु᳘च्छᳫँ᳭ ह᳘स्तो व्वि᳘तस्तिर्ह᳘स्तेन वा ऽअ᳘न्नमद्यते᳘ ऽन्नायैव त᳘मवकाशं᳘ करोति तद्यत्पु᳘च्छे व्वि᳘तस्तिमुपाद᳘धात्य᳘न्न ऽए᳘वैनं तत्प्र᳘तिष्ठापयति तद्यत्त᳘त्र क᳘नीय ऽउपाद᳘धात्य᳘न्ने᳘ ह्ये᳘वैनं तत्प्र᳘तिष्ठापयत्य᳘थो ऽएता᳘वद्वा᳘ ऽइदं᳘ मितं᳘ भवत्येता᳘वदिदं तद्य᳘देवं मि᳘मीत ऽएत᳘स्यैवा᳘प्त्यै॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ पु᳘च्छे व्वि᳘तस्तिमुपा᳘दधाति॥
प्रतिष्ठा᳘यां त᳘द्वी᳘र्यं[[!!]] दधाति प्रतिष्ठा वै पु᳘च्छᳫँ᳭ ह᳘स्तो व्वि᳘तस्तिर्ह᳘स्तेन वा ऽअ᳘न्नमद्यते᳘ ऽन्नायैव त᳘मवकाशं᳘ करोति तद्यत्पु᳘च्छे व्वि᳘तस्तिमुपाद᳘धात्य᳘न्न ऽए᳘वैनं तत्प्र᳘तिष्ठापयति तद्यत्त᳘त्र क᳘नीय ऽउपाद᳘धात्य᳘न्ने᳘ ह्ये᳘वैनं तत्प्र᳘तिष्ठापयत्य᳘थो ऽएता᳘वद्वा᳘ ऽइदं᳘ मितं᳘ भवत्येता᳘वदिदं तद्य᳘देवं मि᳘मीत ऽएत᳘स्यैवा᳘प्त्यै॥
मूलम् - Weber
अ᳘थ पु᳘छे वि᳘तस्तिमुपा᳘दधाति॥
प्रतिष्ठा᳘यां त᳘द्वीर्यं᳘ दधाति प्रतिष्ठा वै पु᳘छᳫं ह᳘स्तो वि᳘तस्तिर्ह᳘स्तेन वा अ᳘न्नमद्यते᳘ऽन्नायैव त᳘मवकाशं᳘ करोति तद्यत्पु᳘छे वि᳘तस्तिमुपाद᳘धात्य᳘न्न एॗवैनं तत्प्र᳘तिष्ठापयति तद्यत्त᳘त्र क᳘नीय उपाद᳘धात्य᳘न्नेॗह्येॗवैनं तत्प्र᳘तिष्ठापयत्य᳘थो एता᳘वद्वा᳘ इद᳘म् मित᳘म् भवत्येता᳘वदिदं तद्य᳘देवम् मि᳘मीत एत᳘स्यैवा᳘प्त्यै॥
मूलम् - विस्वरम्
अथ पुच्छे वितस्तिमुपादधाति- प्रतिष्ठायां तद्वीर्यं दधाति । प्रतिष्ठा वै पुच्छम्, हस्तो वितस्तिः । हस्तेन वा अन्नमद्यते । अन्नायैव तमवकाशं करोति । तद् यत्पुच्छे वितस्तिमुपादधाति- अन्न एवैनं तत्प्रतिष्ठापयति । तद् यत्तत्र कनीय उपादधाति- अन्ने ह्येवैनं तत्प्रतिष्ठापयति । अथो एतावद्वा इदं मितं भवति । एतावदिदम् । तद् यदेवं मिमीते- एतस्यैवाप्त्यै ॥ ८ ॥
सायणः
पुच्छे वितस्तिप्रमाणोपधानं विधत्ते- अथ पुच्छे वितस्तिमिति । प्रतिष्ठा वै पुच्छमिति । हस्तो वितस्तिरिति । मणिबन्धादारभ्य साङ्गुलिरग्रकरो ‘वितस्तिः’ तेन हि अन्नमद्यते, अतः पुच्छकरणेन आद्यान्नस्यावकाशं कृतवान् भवति । तत्र पुच्छे वितस्तिकरणेन ‘एनं’ यजमानमन्ने प्रतिष्ठितं करोति । पक्षप्रमाणात् न्यूनप्रमाणकरणं प्रतिष्ठाहेतुत्वेन प्रशंसति- तद्यत्तत्र कनीय इति । वासस्थानमल्पं भोग्यं बहु चेति युक्तम् । स्थानमधिकं भोग्यमल्पं न युक्तमित्यर्थः । अरत्निवितस्तिप्रमाणं सम्भूय स्तौति- अथो एतावद्वा इदं मितमिति । ‘इदम्’ पक्षक्षेत्रम् ‘एतावन्मितम्’ अरत्निभ्याम्, ‘एतावदिदम्’ पुच्छक्षेत्रं वितस्त्या, ‘एतस्यैव’ पक्षपुच्छक्षेत्रस्यैव ‘आप्त्यै’ प्राप्तये एवं मानं कर्तव्यमित्यर्थः ॥ ८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे द्वितीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (९०-२-२) ॥
Eggeling
- To the tail he gives a span: he thus lays strength into the support, for the tail is the support. The span means the hand 9, and by means of the hand food is eaten: it is thus for the sake of food that he gives it that space; and when he gives a span to the tail, he thereby settles him (Agni) in (the midst of) food; and when he gives less (space) to this (part of the body), it is because he thereby settles him in (the midst of) food 10. But, indeed, so much does this (the bird’s wing) measure, and so much this (the bird’s tail), and hence when he thus measures them, it is for the sake of securing for him that (natural measure).
-
304:1 Literally, those seven persons which they made into one person. See VI, 1, 1, 1 seq. ↩︎
-
लोक᳘ᳫ᳘ सचंते ये᳘ A. pr. m. B1. pr. m. ↩︎
-
304:2 It is difficult to see what meaning the author assigns to ‘sādhya’ applied to minor classes of deities. ↩︎
-
304:3 See VI, 1, 1, 1. ↩︎
-
305:1 Tad eva bubhūshanta iti, prāṇāḥ svayam api prājāpatyātmanā (? prājāpatyātmāno) bhavitum icchantaḥ. Sāy. ↩︎
-
305:2 See VI, 1, 1, 3-6. ↩︎
-
तत्रो᳘प यन्प्र᳘प A. यत्प्रप B 1. पत्प्रप B 2. ↩︎
-
305:3 That is to say, wherever he speaks of man’s lengths, the height to which a man reaches with his upstretched arms is understood; the particular man who supplies this (relative) standard of measure being the Sacrificer. ↩︎
-
306:1 The span of thumb and little finger is taken to be equal to the distance from the wrist to the tip of the middle finger. ↩︎
-
306:2 That is to say, he makes him so as to occupy but small space, and to be surrounded by abundant food. ↩︎