०१
विश्वास-प्रस्तुतिः
प्रजा᳘पतिः स्वर्गं᳘ लोक᳘मजिगाᳫँ᳭ सत्॥
(त्स᳘) स᳘र्व्वे वै᳘ पश᳘वः प्रजा᳘पतिः पु᳘रुषो᳘ ऽश्वो गौर᳘विरजः स᳘ ऽएतै᳘ रूपै᳘र्नाशक्नोत्स᳘ ऽएतं व्व᳘योविधमात्मा᳘नमपश्यदग्निं तं᳘ व्यधत्त[[!!]] सो᳘ ऽनुपसमुह्या᳘नुपाधायो᳘दपिपतिषत्स᳘ नाशक्नोत्स᳘ ऽउपसमु᳘ह्योपधायो᳘दपतत्त᳘स्माद᳘प्येत᳘र्हि व्व᳘याᳫँ᳭सि य᳘दैव᳘ पक्षा᳘ ऽउपसमू᳘हन्ते यदा प᳘त्राणि व्विसृजन्ते ऽथो᳘त्पतितुᳫँ᳭ शक्नुवन्ति॥
मूलम् - श्रीधरादि
प्रजा᳘पतिः स्वर्गं᳘ लोक᳘मजिगाᳫँ᳭ सत्॥
(त्स᳘) स᳘र्व्वे वै᳘ पश᳘वः प्रजा᳘पतिः पु᳘रुषो᳘ ऽश्वो गौर᳘विरजः स᳘ ऽएतै᳘ रूपै᳘र्नाशक्नोत्स᳘ ऽएतं व्व᳘योविधमात्मा᳘नमपश्यदग्निं तं᳘ व्यधत्त[[!!]] सो᳘ ऽनुपसमुह्या᳘नुपाधायो᳘दपिपतिषत्स᳘ नाशक्नोत्स᳘ ऽउपसमु᳘ह्योपधायो᳘दपतत्त᳘स्माद᳘प्येत᳘र्हि व्व᳘याᳫँ᳭सि य᳘दैव᳘ पक्षा᳘ ऽउपसमू᳘हन्ते यदा प᳘त्राणि व्विसृजन्ते ऽथो᳘त्पतितुᳫँ᳭ शक्नुवन्ति॥
मूलम् - Weber
प्रजा᳘पतिः स्वर्गं᳘ लोक᳘मजिगांसत्॥
स᳘र्वे वै᳘ पश᳘वः प्रजा᳘पतिः पु᳘रुषो᳘ऽश्वो गौर᳘विरजः स᳘ एतै᳘ रूपैॗर्नाशक्नोत्स᳘ एतं व᳘योविधमात्मा᳘नमपश्यदग्निं तं व्य᳘धत्त सो᳘ऽनुपसमुह्या᳘नुपाधायो᳘दपिपतिषत्सॗ नाशक्नोत्स᳘ उपसमु᳘ह्योपधायो᳘दपतत्त᳘स्माद᳘प्येत᳘र्हि व᳘यांसि यॗदैव᳘ पक्षा᳘ उपसमू᳘हन्ते यदा प᳘त्राणि विसृजन्तेऽथो᳘त्पतितुं 1 शक्नुवन्ति॥
मूलम् - विस्वरम्
प्रजापतिः स्वर्गं लोकमजिगांसत् । सर्वे वै पशवः प्रजापतिः- पुरुषः, अश्वः, गौः, अविः, अजः । स एतै रूपैर्नाशक्नोत् । स एतं वयोविधमात्मानमपश्यत् । अग्निं तं व्यधत्त । सो ऽनुपसमुह्यानुपाधायोदपिपतिषत् । स नाशक्नोत् । स उपसमुह्योपाधायोदपतत् । तस्मादप्येतर्हि वयांसि यदैव पक्षा उपसमूहन्ते- यदा पत्राणि विसृजन्ते, अथोत्पतितुं शक्नुवन्ति॥ १॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिल जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
एवं पूर्वाध्यायेन महाव्रतयज्ञे अग्निचयनमहाव्रतबृहदुक्थानि सहप्रयोक्तव्यानीत्युक्त्वा तानि च सर्वैरग्निष्टोम एवाप्तुं शक्यानीत्यग्निष्टोमगतसामशस्त्राण्येव महाव्रतसामबृहदुक्थात्मना स्तुत्वा चित्याग्निं प्रजापत्यात्मना प्रस्तुत्य पञ्चेष्टकाचितीः पुरीषचितीश्च प्रजापतेर्मर्त्यमृतशरीरात्मना प्रतिपाद्य हिरण्यशकलप्रोक्षणमाहवनीयस्थापनं च हिरण्मयरूपत्वेन स्तुत्वा ऽग्निचितो वयोभक्षणवर्जननियमादनन्तरमग्निचयनस्य पुनर्मृत्युजयरूपं फलं तस्याग्निकर्मणः सर्वयज्ञात्मना स्तुतिरुक्ता । अथ द्वितीये ऽध्याये चित्याग्निविषयो विचारो वक्ष्यते, तत्र प्रथमब्राह्मणे चित्याग्नेः पक्षिरूपत्वं पक्षपुच्छयोः प्रमाणं च विधीयते- प्रजापतिः स्वर्गमिति । पूर्वं ‘प्रजापतिः’ ‘स्वर्गम्’ ‘लोकमजिगांसत्’ गन्तुमैच्छत् । इणः सनि (पा. सू. ३ । १ । ७) “सनि च” (पा. सू. २ । ४ । ४७) इति गम्यादेशे छान्दसत्वात्तङीडभावः “अज्झनगमां सनि”- (पा. सू. ६ । ४ । १६) इति । दीर्घः । ‘सर्वे’ ‘पशवः’ पुरुषादिपञ्चपशवः ‘प्रजापतिः’ सर्वात्मकत्वात्तस्य । यद्वा- अग्नेः पशुषु प्रवेशस्य षष्ठकाण्डे समाम्नानात् (श. प. ६ । २ । १ । १-१२ ।), प्रजापतेश्चाग्न्यात्मकत्वादग्निरूपाणि प्रजापतिरूपाणीति कृत्वा प्रजापतिः सर्वपशुरूप इत्युक्तम् । ‘स पशुरूपैर्नाशक्नोत्,’ स्वर्गं गन्तुमिति शेषः । स ‘आत्मानं’ स्वर्गगमनसाधनभूतं ‘वयोविधम्’ पक्षिरूपम् ‘अपश्यत्’ । ‘तम्’ पक्षिणम् ‘अग्निम्’ चित्याग्निं व्यधत्त । पक्षपुच्छानि विधातुं केवलस्य पक्षिरूपात्मनः स्वर्गगमनसामर्थ्याभावं दर्शयति- सो ऽनुपसमुह्येति। ‘स’ केवलः पक्षिरूपः ‘अनुपसमुह्य’ मध्यप्रदेशे ऽवष्टम्भमकृत्वा ‘अनुपाधाय’ कञ्चिदाधारमकृत्वा । अथ वा ‘अनुपसमुह्य’ पक्षाभ्यां मध्यभागमनवष्टभ्य ‘अनुपाधाय’ पक्षाग्राणि अविस्तीर्य ‘उदपिपतिषत्’ उत्पतितुं स्वर्गं प्रति उद्गन्तुमैच्छत् । स ‘नाशक्नोत्’ पक्षरूपमवष्टम्भमकृत्वा न शक्तः। अथ तथा कृत्वा स्वर्गं गत इत्याह- स इति। स प्रजापतिः पक्षाभ्यां मध्यं ‘समुह्य’ पक्षाग्राणि वितत्योत्पतितः ‘तस्माद्’ एतस्मात् ‘एतर्हि’ इदानीं ‘वयांसि’ ‘यदैव पक्षौ’ ‘उपसमूहन्ते’ पक्षाभ्यां मध्यभागं समूहन्ते- पक्षमूलभागं मध्यभागसमीपे सङ्कोचयन्ति । यदा च ‘पत्राणि’ पक्षाग्राणि ‘विसृजन्ते’ विकिरन्ति तदा पक्षिणः ‘उत्पतितुम्’ ‘शक्नुवन्ति’ ॥ १ ॥
Eggeling
- Prajāpati was desirous of going up to the world of heaven; but Prajāpati, indeed, is all the (sacrificial) animals 2–man, horse, bull, ram, and
he-goat:–by means of these forms he could not do so. He saw this bird-like body, the fire-altar, and constructed it. He attempted to fly up, without contracting and expanding (the wings), but could not do so. By contracting and expanding (the wings) he did fly up: whence even to this day birds can only fly up when they contract their wings and spread their feathers.
०२
विश्वास-प्रस्तुतिः
तं वा᳘ ऽअङ्गु᳘लिभिर्मिमीते॥
पु᳘रुषो वै᳘ यज्ञस्ते᳘नेदᳫँ᳭ स᳘र्व्वं मितं त᳘स्यै᳘षा ऽवमा मा᳘त्रा य᳘दङ्गु᳘लयस्त᳘द्या ऽस्यावमा मा᳘त्रा ता᳘मस्य त᳘दाप्नोति त᳘यैनं त᳘न्मिमीते॥
मूलम् - श्रीधरादि
तं वा᳘ ऽअङ्गु᳘लिभिर्मिमीते॥
पु᳘रुषो वै᳘ यज्ञस्ते᳘नेदᳫँ᳭ स᳘र्व्वं मितं त᳘स्यै᳘षा ऽवमा मा᳘त्रा य᳘दङ्गु᳘लयस्त᳘द्या ऽस्यावमा मा᳘त्रा ता᳘मस्य त᳘दाप्नोति त᳘यैनं त᳘न्मिमीते॥
मूलम् - Weber
तं वा᳘ अङ्गु᳘लिभिर्मिमीते॥
पु᳘रुषो वै᳘ यज्ञस्ते᳘नेदᳫं स᳘र्वम् मितं त᳘स्यैॗषावमा मा᳘त्रा य᳘दङ्गु᳘लयस्तॗद्यास्यावमा मा᳘त्रा ता᳘मस्य त᳘दाप्नोति त᳘यैनं त᳘न्मिमीते॥
मूलम् - विस्वरम्
तं वा अङ्गुलिभिर्मिमीते । पुरुषो वै यज्ञः । तेनेदं सर्वं मितम् । तस्यैषा ऽवमा मात्रा यदङ्गुलयः । तद्या ऽस्यावमा मात्रा- तामस्य तदाप्नोति । तयैनं तन्मिमीते ॥ २ ॥
सायणः
उत्तरत्र पक्षपुच्छयोश्चतुरङ्गुलिपरिमाणेन समूहनव्यूहनादिकं विधास्यते, अतश्चित्याग्नेरङ्गुलिपरिमाणं दर्शयति- तं वा अङ्गुलिभिर्मिमीत इति। अङ्गुलिपरिमाणं प्रशंसति- पुरुषो वै यज्ञ इति। निर्वर्त्यनिर्वर्त्तकयोरभेदोपचारेण यज्ञस्य पुरुषात्मकत्वम् । ‘तेन’ पुरुषेण ‘इदम्’ ‘सर्वम्’ यज्ञक्षेत्रं ‘मितम्’ ‘तस्य’ पुरुषस्य ‘अवमा’ ‘मात्रा’ परिमाणं तदेव ‘यदङ्गुलयः’ अङ्गुलिभ्यो ऽर्वाचीनं परिमाणं नास्ति अतस्ता एव ‘अवमा मात्रा’ अतो ऽङ्गुलिमानेन चित्याग्नावपि ‘ताम्’ मात्रामाप्तवान् भवति ॥ २ ॥
Eggeling
- He measures it (the fire-altar) by finger-breadths; for the sacrifice being a man 3, it is by means of him that everything is measured here. Now these, to wit, the fingers, are his lowest measure: he thus secures for him (the sacrificial man 4) that lowest measure of his, and therewith he thus measures him.
०३
विश्वास-प्रस्तुतिः
च᳘तुर्व्विᳫँ᳭शत्या ऽङ्गु᳘लिभिर्मिमीते॥
च᳘तुर्व्विᳫँ᳭शत्यक्षरा वै᳘ गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनं त᳘न्मिमीते॥
मूलम् - श्रीधरादि
च᳘तुर्व्विᳫँ᳭शत्या ऽङ्गु᳘लिभिर्मिमीते॥
च᳘तुर्व्विᳫँ᳭शत्यक्षरा वै᳘ गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनं त᳘न्मिमीते॥
मूलम् - Weber
च᳘तुर्विंशत्याङ्गु᳘लिभिर्मिमीते॥
च᳘तुर्विंशत्यक्षरा वै᳘ गायत्री᳘ गायॗत्रोऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनं त᳘न्मिमीते॥
मूलम् - विस्वरम्
चतुर्विंशत्या ऽङ्गुलिभिर्मिमीते । चतुर्विंशत्यक्षरा वै गायत्री, गायत्रो ऽग्निः। यावानग्निर्यावत्यस्य मात्रा तावतैवैनं तन्मिमीते ॥ ३ ॥
सायणः
सप्तपुरुषाष्टपुरुषादिपरिमाणानामग्नीनामङ्गुलीभिः परिमाणं न शक्यमित्यरत्निपरिमाणं विधत्ते- चतुर्विंशत्या ऽङ्गुलिभिर्मिमीत इति। वितस्तिर्द्वादशांगुलः, वितस्तिद्वयमरत्निः सा चतुर्विंशत्यंगुलपरिमाणा तया ‘मिमीते’ “अथ पक्षयोररत्नी उपादधाति”- (श. प. १० । २ । २ । ७ ।) इति । अरत्नेर्यजमानस्य वक्ष्यमाणत्वात्, चित्याग्निरपि उद्बाहुना पुरुषेण मातव्यः “तं वा उद्बाहुना पुरुषेण मिमीते”- (श. प. १० । २ । २ । ६) इति श्रुतेः । “यजमानेनोर्ध्वबाहुना प्रपदोच्छ्रितेन समस्थितेन वा”- (का. श्रौ. सू. । १६ । २३१) इति कात्यायनवचनाच्च । तादृशः पुरुषो हि पञ्चारत्निः । “अरत्निश्चतुर्विंशत्यङ्गुलिपरिमाणा” इति । अंगुलिभिर्मानमित्युक्तम् । अंगुलिगतां संख्यां प्रशंसति- चतुर्विंशत्यक्षरा वै गायत्रीति । अग्नेर्गायत्रत्वं षष्ठे (श. प. । ६ । १ । १५) प्रतिपादितम् ॥ २ ॥
Eggeling
०४
विश्वास-प्रस्तुतिः
स᳘ चतुरङ्गुल᳘मे᳘वोभय᳘तो ऽन्तरत᳘ ऽउपसमू᳘हति॥
चतुरङ्गुल᳘मुभय᳘तो बाह्यतो व्यु᳘दूहति तद्या᳘वदे᳘वोपसमू᳘हति ता᳘वद्व्यु᳘दूहति तन्ना᳘है᳘वातिरेच᳘यति᳘ नो क᳘नीयः करोति त᳘था पु᳘च्छस्य तथो᳘त्तरस्य पक्षस्य[[!!]]॥
मूलम् - श्रीधरादि
स᳘ चतुरङ्गुल᳘मे᳘वोभय᳘तो ऽन्तरत᳘ ऽउपसमू᳘हति॥
चतुरङ्गुल᳘मुभय᳘तो बाह्यतो व्यु᳘दूहति तद्या᳘वदे᳘वोपसमू᳘हति ता᳘वद्व्यु᳘दूहति तन्ना᳘है᳘वातिरेच᳘यति᳘ नो क᳘नीयः करोति त᳘था पु᳘च्छस्य तथो᳘त्तरस्य पक्षस्य[[!!]]॥
मूलम् - Weber
स᳘ चतुरङ्गुल᳘मेॗवोभय᳘तोऽन्तरत᳘ उपसमू᳘हति॥
चतुरङ्गुल᳘मुभय᳘तो बाह्यतो व्यु᳘दूहति तद्या᳘वदेॗवोपसमू᳘हति ता᳘वद्व्यु᳘दूहति तन्ना᳘हैॗवातिरेच᳘यतिॗ नो क᳘नीयः करोति त᳘था पु᳘छस्य तथो᳘त्तरस्य पक्ष᳘स्य॥
मूलम् - विस्वरम्
स चतुरङ्गुलमेवोभयतो ऽन्तरत उपसमूहति । चतुरङ्गुलमुभयतो बाह्यतो व्युदूहति । तद् यावदेवोपसमूहति । तावद् व्युदूहति । तन्नाहैवातिरेचयति । नो कनीयः करोति । तथा पुच्छस्य । तथोत्तरस्य पक्षस्य ॥ ४ ॥
सायणः
पक्षपुच्छकरणे कञ्चिद्विशेषः कात्यायनेन सूत्रित- “पक्षपुच्छाप्ययेषु चतुरंगुलं चतुरंगुलं संकर्षति विकर्षत्यन्ते” इति (का. श्रौ. सू. १६ । ८ । २०) । अप्ययाः सन्धयः, तदिदं विधत्ते- स चतुरंगुलमेवोभयत इति । ‘उभयतः’ पक्षस्य पार्श्वद्वये ‘अन्तरतः’ चित्याग्नेर्मध्यदेशे ‘चतुरंगुलम्’ ‘उपसमूहति’ संकर्षति प्रवेशयतीत्यर्थः। पक्षस्य पार्श्वद्वये ‘बाह्यतः’ अग्निमध्यात् बाह्यप्रदेशे चतुरङ्गुलं ‘व्युदूहति’ अन्ते विवर्धयति । यावदेवोपसमूहतीत्यादेरयमर्थः- न्यूनातिरेकपरिहारेण समूहनसमानं व्युदूहनकरणं सप्तपुरुषपरिमितचित्याग्नेराधिक्यन्यूनतापरिहाराय इति । एकत्र पक्षे उक्तमर्थम् इतरपक्षे पुच्छे चातिदिशति- तथा पुच्छस्य तथोत्तरस्य पक्षस्येति ॥ ४ ॥
Eggeling
- He contracts 7 (the right wing) inside on both
sides 8 by just four finger-breadths, and expands 9 it outside on both sides 8 by four finger-breadths: he thus expands it by just as much as he contracts it; and thus, indeed, he neither exceeds (its proper size) nor does he make it too small. In the same way in regard to the tail, and in the same way in regard to the left wing.
०५
विश्वास-प्रस्तुतिः
(स्या᳘) अ᳘थ निर्णामौ᳘ पक्ष᳘योः करोति॥
निर्णामौ हि व्व᳘यसः पक्ष᳘योर्भ᳘वतो व्वितृतीये᳘ व्वितृतीये हि व्व᳘यसः पक्ष᳘योर्निर्णामौ भ᳘वतो᳘ ऽन्तरे व्वितृतीये᳘ ऽन्तरे हि व्वितृतीये[[!!]] व्व᳘यसः पक्ष᳘योर्निर्णामौ भ᳘वतः स᳘ चतुरङ्गुल᳘मेव᳘ पुर᳘स्तादुदू᳘हति चतुरङ्गुलं᳘ पश्चा᳘दुपस᳘मूहति तद्या᳘वदे᳘वोदू᳘हति ता᳘वदुपस᳘मूहति तन्ना᳘है᳘वातिरेच᳘यति᳘ नो क᳘नीयः करोति॥
मूलम् - श्रीधरादि
(स्या᳘) अ᳘थ निर्णामौ᳘ पक्ष᳘योः करोति॥
निर्णामौ हि व्व᳘यसः पक्ष᳘योर्भ᳘वतो व्वितृतीये᳘ व्वितृतीये हि व्व᳘यसः पक्ष᳘योर्निर्णामौ भ᳘वतो᳘ ऽन्तरे व्वितृतीये᳘ ऽन्तरे हि व्वितृतीये[[!!]] व्व᳘यसः पक्ष᳘योर्निर्णामौ भ᳘वतः स᳘ चतुरङ्गुल᳘मेव᳘ पुर᳘स्तादुदू᳘हति चतुरङ्गुलं᳘ पश्चा᳘दुपस᳘मूहति तद्या᳘वदे᳘वोदू᳘हति ता᳘वदुपस᳘मूहति तन्ना᳘है᳘वातिरेच᳘यति᳘ नो क᳘नीयः करोति॥
मूलम् - Weber
अ᳘थ निर्णामौ᳘ पक्ष᳘योः करोति॥
निर्णामौ हि व᳘यसः पक्ष᳘योर्भवतो वितृतीये᳘ वितृतीये हि व᳘यसः पक्ष᳘योर्निर्णामौ भ᳘वतो᳘ऽन्तरे वितृतीये᳘ऽन्तरे हि वि᳘तृतीये व᳘यसः पक्ष᳘योर्निर्णामौ भ᳘वतः स᳘ चतुरङ्गुल᳘मेव᳘ पुर᳘स्तादुदू᳘हति चतुरङ्गुल᳘म् पश्चा᳘दुपस᳘मूहति तद्या᳘वदेॗवोदू᳘हति ता᳘वदुपस᳘मूहति तन्ना᳘हैॗवातिरेच᳘यतिॗ नो क᳘नीयः करोति॥
मूलम् - विस्वरम्
अथ निर्णामौ पक्षयोः करोति । निर्णामौ हि वयसः पक्षयोर्भवतः । वितृतीये । वितृतीये हि वयसः पक्षयोर्निर्णामौ भवतः । अन्तरे वितृतीये । अन्तरे हि वितृतीये वयसः पक्षयोर्निर्णामौ भवतः । स चतुरङ्गुलमेव पुरस्तादुदूहति । चतुरङ्गुलं पश्चादुपसमूहति । तद् यावदेवोदूहति तावदुपसमूहति । तन्नाहैवातिरेचयति । नो कनीयः करोति ॥ ५ ॥
सायणः
अथ पक्षयोर्निर्णमनं विधत्ते- अथ निर्णामौ पक्षयोः करोतीति । नितरां नामो नमनं ‘निर्णामः’ चित्याग्नेः पक्षिरूपत्वात् पक्षिणः पक्षयोर्मध्ये ‘निर्णामौ’ यथा तथा ऽत्रेति । निर्णामप्रदेशं विधत्ते- वितृतीय इति । पक्षभागं त्रेधा विभज्य अन्तरे तृतीयभागे निर्णामकरणम् । निर्णामकरणप्रकारमाह- स चतुरङ्गुलमेवेति । एतां श्रुतिमपेक्ष्यैवापस्तम्बेनोक्तम्- “वक्रपक्षो व्यस्तपुच्छो भवति, पश्चात्प्राङुदूहति पुरस्तात्प्रत्युदूहति, एवमेव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते"- (आप. श्रौ. सू.) इति ॥ ५ ॥
Eggeling
- He then makes two bending-limbs 10 in the wings, for there are two bending-limbs in a bird’s
wings. In one-third (of each wing he makes them), for the bending-limbs are in one-third of the bird’s wings;–in the inner third 11, for the bending-limbs are in the inner third of a bird’s wings. He expands (each of these limbs) in front 12 by just four finger-breadths, and contracts it behind by four finger-breadths; he thus expands it by just as much as he contracts it; and thus, indeed, he neither exceeds (its size), nor does he make it too small.
०६
विश्वास-प्रस्तुतिः
स त᳘स्मिन्निर्णामे[[!!]]॥
(म) ए᳘कामि᳘ष्टकामु᳘पदधाति त᳘द्येयं व्व᳘यसः प᳘ततो निर्णामादे᳘का ना᳘ड्युपशे᳘ते तां त᳘त्करोत्य᳘थो ऽइदम्[[!!]]॥
मूलम् - श्रीधरादि
स त᳘स्मिन्निर्णामे[[!!]]॥
(म) ए᳘कामि᳘ष्टकामु᳘पदधाति त᳘द्येयं व्व᳘यसः प᳘ततो निर्णामादे᳘का ना᳘ड्युपशे᳘ते तां त᳘त्करोत्य᳘थो ऽइदम्[[!!]]॥
मूलम् - Weber
स त᳘स्मिन्निर्णामे᳟ 13 ॥
ए᳘कामि᳘ष्टकामु᳘पदधाति तॗद्येयं व᳘यसः प᳘ततो निर्णामादे᳘का नाॗड्युपशे᳘ते तां त᳘त्करोत्य᳘थो इद᳘म्॥
मूलम् - विस्वरम्
स तस्मिन्निर्णाम एकामिष्टकामुपदधाति । तद् येयं वयसः पततो निर्णामादेका नाड्युपशेते । तां तत् करोति । अथो इदम् ॥ ६ ॥
सायणः
निर्णाम इष्टकोपधानं विधत्ते- स तस्मिन्निर्णाम एकामिष्टकामुपदधातीति । इष्टकोपधानं पक्षिपक्षमध्यगतनाडीत्वेन प्रशंसति- तद्येयं वयस इति। ‘निर्णामे’ प्रदेशे एकेष्टकोपधानेन पक्षिरूपचित्याग्नेः पक्षमध्ये एकां नाडीमेव निहितवान् भवति ॥ ६ ॥
Eggeling
- On that bending-limb he places one brick he thereby gives to it that single tube (tubular organ) which joins on to 14 (the body) from the bending-limb of the flying bird. Then here (on the left wing).
०७
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ व्वक्रौ᳘ पक्षौ᳘ करोति॥
व्वक्रौ हि व्व᳘यसः पक्षौ भ᳘वतः स᳘ चतुरङ्गुल᳘मेव᳘ पश्चा᳘दुदू᳘हति चतुरङ्गुलं᳘ पुर᳘स्तादुपस᳘मूहति तद्या᳘वदे᳘वोदू᳘हति ता᳘वदुपस᳘मूहति᳘ तन्ना᳘है᳘वातिरेच᳘यति᳘ नो क᳘नीयः करोति᳘॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ व्वक्रौ᳘ पक्षौ᳘ करोति॥
व्वक्रौ हि व्व᳘यसः पक्षौ भ᳘वतः स᳘ चतुरङ्गुल᳘मेव᳘ पश्चा᳘दुदू᳘हति चतुरङ्गुलं᳘ पुर᳘स्तादुपस᳘मूहति तद्या᳘वदे᳘वोदू᳘हति ता᳘वदुपस᳘मूहति᳘ तन्ना᳘है᳘वातिरेच᳘यति᳘ नो क᳘नीयः करोति᳘॥
मूलम् - Weber
अ᳘थ वक्रौ᳘ करोति॥
वक्रौ हि व᳘यसः पक्षौ भ᳘वतः स᳘ चतुरङ्गुल᳘मेव᳘ पश्चा᳘दुदू᳘हति चतुरङ्गुल᳘म् पुर᳘स्तादुपस᳘मूहति तद्या᳘वदेॗवोदू᳘हति ता᳘वदुपस᳘मूहति तन्ना᳘हैवातिरेच᳘यतिॗ नो क᳘नीयः करोति॥
मूलम् - विस्वरम्
अथ वक्रौ पक्षौ करोति । वक्रौ हि वयसः पक्षौ भवतः । स चतुरङ्गुलमेव पश्चादुदूहति। चतुरङ्गुलं पुरस्तादुपसमूहति । तद् यावदेवोदूहति- तावदुपसमूहति । तन्नाहैवातिरेचयति । नो कनीयः करोति ॥ ७ ॥
सायणः
अथ पक्षयोर्वक्रतां विधत्ते- अथ वक्रौ पक्षौ करोतीति । चतुरङ्गुलमात्रं ‘पश्चाद्भागे’ ‘उदूहति’ विकर्षति, ‘पुरस्ताद्’ भागे चतुरङ्गुलमात्रं ‘समूहति’ सङ्कर्षति । एवं कृते वक्रत्वं भवति ॥ ७॥
Eggeling
- He then makes the wings crooked, for a bird’s wings are crooked; he expands them behind by just four finger-breadths, and contracts them in front by four finger-breadths 15: he thus draws them out by
just as much as he draws them in; and thus, indeed, he neither exceeds (its size) nor does he make it too small.
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ रूप᳘मूत्तमं᳘ करोति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतस्त᳘स्मिन्देवा᳘ ऽएत᳘द्रूप᳘मुत्तम᳘मदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्रूप᳘मुत्तमं᳘ दधाति स᳘ सह᳘स्रमृज्वालिखिता ऽइ᳘ष्टकाः करो᳘ति सह᳘स्रमित्यालिखिताः᳘ सह᳘स्रमित्यालिखिताः[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ रूप᳘मूत्तमं᳘ करोति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतस्त᳘स्मिन्देवा᳘ ऽएत᳘द्रूप᳘मुत्तम᳘मदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्रूप᳘मुत्तमं᳘ दधाति स᳘ सह᳘स्रमृज्वालिखिता ऽइ᳘ष्टकाः करो᳘ति सह᳘स्रमित्यालिखिताः᳘ सह᳘स्रमित्यालिखिताः[[!!]]॥
मूलम् - Weber
अ᳘थ रूप᳘मूत्तमं᳘ करोति 16 ॥
अ᳘त्रैष स᳘र्वोऽग्निः स᳘ᳫं᳘स्कृतस्त᳘स्मिन्देवा᳘ एत᳘द्रूप᳘मुत्तम᳘मदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्रूप᳘मुत्तमं᳘ दधाति स᳘ सह᳘स्रमृज्वालिखिता इ᳘ष्टकाः करो᳘ति सह᳘स्रमित्यालिखिताः᳘ सह᳘स्रमित्यालिखिताः᳟॥
मूलम् - विस्वरम्
अथ रूपमुत्तमं करोति । अत्रैष सर्वो ऽग्निः संस्कृतः । तस्मिन्देवा एतद्रूपमुत्तममदधुः । तथैवास्मिन्नयमेतद्रूपमुत्तमं दधाति । स सहस्रमृज्वालिखिता इष्टकाः करोति, सहस्रमित्यालिखिताः, सहस्रमित्यालिखिताः ॥ ८ ॥
सायणः
अथ पञ्चेष्टका-चित्युपधानानन्तरमात्ममध्ये पक्षद्वये च ऋज्वालिखितदक्षिणावृत्सव्यावृतः सहस्रत्रयसंख्याका इष्टका उपधेयाः, तदुपधानं प्रशंसति- अथ रूपमुत्तममिति । ‘उत्तमम्’ अन्तिमं रूपमग्नेः कुर्यात् । ‘अत्र’ अन्तिमे रूपे ‘एषः’ ‘सर्वो ऽग्निः’ ‘संस्कृतः’ इष्टकाभिश्चितः । यथा पूर्वं ‘तस्मिन्’ अग्नौ ‘देवाः’ ‘एतद्रूपम्’ ऋज्वालिखितादीष्टकोपधानलक्षणमुत्तममदधुः । एवं यजमानो ऽपि तादृशेष्टकोपधानेन ‘उत्तमम्’ रूपं कृतवान् भवति । त्रिविधा इष्टका आह- सहस्रमृज्वालिखिता इति । ऋजुलेखा अकुटिलरेखा ‘इति आलिखिताः’ इतिशब्दो ऽभिनये एवम् ‘आलिखिताः’ इत्यनेन दक्षिणावृतः । द्वितीयेत्यालिखितशब्देन सव्यावृतः । यदाहापस्तम्बः- “ऋजुलेखा दक्षिणावृतः सव्यावृतः”- इति । ताश्च प्रत्येकं सहस्रसंख्याका इति मिलित्वा सहस्रत्रयसंख्याकाः ॥ ८ ॥
Eggeling
- He now gives to it (the altar) the highest form 17. This Agni had now been completely restored, and the gods conferred upon him this highest form; and in like manner does this (Sacrificer) confer upon him this highest form: he makes a thousand bricks marked with straight lines, a thousand marked this way (from left to right), and a thousand marked that way (from right to left).
०९
विश्वास-प्रस्तुतिः
(ऽ) अ᳘थ पञ्चमीं चि᳘तिमुपधा᳘य॥
त्रे᳘धा ऽग्निं व्वि᳘मिमीते स᳘ मध्यमे᳘ व्वितृतीये᳘ सह᳘स्रमृज्वालिखिता ऽइ᳘ष्टका ऽउ᳘पदधाति तद्या᳘नीमा᳘नि व्व᳘यसः प्रत्य᳘ञ्चि शीर्ष्ण ऽआ पु᳘च्छादृजू᳘नि लो᳘मानि ता᳘नि त᳘त्करोति᳘॥
मूलम् - श्रीधरादि
(ऽ) अ᳘थ पञ्चमीं चि᳘तिमुपधा᳘य॥
त्रे᳘धा ऽग्निं व्वि᳘मिमीते स᳘ मध्यमे᳘ व्वितृतीये᳘ सह᳘स्रमृज्वालिखिता ऽइ᳘ष्टका ऽउ᳘पदधाति तद्या᳘नीमा᳘नि व्व᳘यसः प्रत्य᳘ञ्चि शीर्ष्ण ऽआ पु᳘च्छादृजू᳘नि लो᳘मानि ता᳘नि त᳘त्करोति᳘॥
मूलम् - Weber
अ᳘थ पञ्चमीं चि᳘तिमुपधा᳘य॥
त्रेॗधाग्निं वि᳘मिमीते स᳘ मध्यमे᳘ वितृतीये᳘ सह᳘स्रमृज्वालिखिता इ᳘ष्टका उ᳘पदधाति तद्या᳘नीमा᳘नि व᳘यसः प्रत्य᳘ञ्चि शीर्ष्ण आ पु᳘छादृजू᳘नि लो᳘मानि ता᳘नि त᳘त्करोति॥
मूलम् - विस्वरम्
अथ पञ्चमीं चितिमुपधाय- त्रैधा ऽग्निं विमिमीते । स मध्यमे वितृतीये सहस्रमृज्वालिखिता इष्टका उपदधाति । तद् यानीमानि वयसः प्रत्यञ्चि शीर्ष्ण आ पुच्छादृजूनि लोमानि- तानि तत्करोति ॥ ९ ॥
सायणः
तासामुपधानकालं प्रदेशं च दर्शयति- अथ पञ्चमीं चितिमिति । ‘पञ्चमीम्’ इष्टकाचितिम् ‘उपधाय’ ‘अग्निं’ सप्तपुरुषसम्मितं ‘त्रेधा’ विभज्य ‘मध्यमे’ तृतीयभागे ऋजुलेखा इष्टका उपदध्यात् । एतासामुपधानेन पक्षिरूपस्य चित्याग्नेः शीर्षमारभ्य पुच्छपर्यन्तं प्रत्यञ्चि प्रतिलोमानि ऋजूनि लोमानि कृतवान्भवति । लोके हि पक्षिणां लोमानि शिरःप्रभृतिपुच्छपर्यन्तं प्रत्यञ्चि प्रतिलोमानि ऋजूनि भवन्ति तद्वत् ॥ ९ ॥
Eggeling
- And when he has laid down the fifth layer, he measures out the altar in three parts, and on the central part he places the one thousand bricks marked with straight lines: he thereby gives to it those straight plumes of the bird pointing backwards (with their tops, and covering it) from head to tail.
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ सह᳘स्रमित्यालिखिता᳘ दक्षिणत ऽउ᳘पदधाति॥
तद्या᳘नीमा᳘नि व्व᳘यसो दक्षिणतो᳘ व्वक्रा᳘णि लो᳘मानि ता᳘नि त᳘त्करोति᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ सह᳘स्रमित्यालिखिता᳘ दक्षिणत ऽउ᳘पदधाति॥
तद्या᳘नीमा᳘नि व्व᳘यसो दक्षिणतो᳘ व्वक्रा᳘णि लो᳘मानि ता᳘नि त᳘त्करोति᳘॥
मूलम् - Weber
अ᳘थ सह᳘स्रमित्यालिखिता᳘ दक्षिणत उ᳘पदधाति॥
तद्या᳘नीमा᳘नि व᳘यसो दक्षिणतो᳘ वक्रा᳘णि लो᳘मानि ता᳘नि त᳘त्करोति॥
मूलम् - विस्वरम्
अथ सहस्रमित्यालिखिता दक्षिणत उपदधाति । तद् यानीमानि वयसो दक्षिणतो वक्राणि लोमानि- तानि तत्करोति ॥ १० ॥
सायणः
अथ सहस्रमित्यालिखिता इति । ‘दक्षिणतः’ दक्षिणपक्षे ‘इत्यालिखिता’ दक्षिणावृत इष्टकाः । ‘उत्तरतः’ उत्तरस्मिन् पक्षे ‘इत्यालिखिताः’ सव्यावृत इष्टका उपदध्यात् । यथा लोके पक्षिणां पार्श्वद्वयवर्तीनि ‘लोमानि वक्राणि’ । एवं दक्षिणसव्यावृदिष्टकोपधानेन चित्याग्नेः पार्श्वद्वये वक्राणि लोमानि निहितवान् भवतीति । इष्टकागतां त्रित्वसंख्यामनूद्य प्रशंसति- त्रिभिः सहस्रैस्त्रिवृदग्निरिति । अग्नेस्त्रिवृत्त्वं षष्ठे प्रतिपादितम् । “अष्टावग्निरूपाणि कुमारो नवमः सैवाग्नेस्त्रिवृत्ता”- (श. प. ब्रा. का. ६ । १ । ३ । १८) इति । ऋज्वालिखितादिसहस्रत्रयेष्टकोपधानं तत्स्थानविशेषं च संग्रहेणासूत्रयत्- कात्यायनः-सुपर्ण-चित्याग्निं प्रकृत्य “पञ्चम्यामन्तरा विराजः पुच्छस्रक्त्योः पादलोकावष्टौ च मध्यत आपूर्वान्तात् स मध्यमो भागस्तस्मिन्नृज्वालिखिता दक्षिणोत्तरयोर्वक्रालिखिताः”- (का. श्रौ. सू. इष्टकापूरणपरि. ७ । १-२) इति ॥ १० ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये दशमकाण्डे द्वितीयाध्याये प्रथमं ब्राह्मणम् ॥ (१०-२-१) ॥
Eggeling
- On the right side he then lays down the one thousand (bricks) marked ṭḥuś (from left to right): he thereby gives to it those curved plumes on the right side of the bird 18.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ सह᳘स्रमित्यालिखिता᳘ ऽउत्तरत ऽउ᳘पदधाति॥
तद्या᳘नीमा᳘नि व्व᳘यस ऽउत्तरतो᳘ व्वक्रा᳘णि लो᳘मानि ता᳘नि त᳘त्करोति सह᳘स्रेण स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वेणै᳘वास्मिन्नेत᳘द्रू᳘प᳘मुत्तमं᳘ दधाति त्रिभिः᳘ सह᳘स्रैस्त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘द्रू᳘प᳘मुत्तमं᳘ दधाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ सह᳘स्रमित्यालिखिता᳘ ऽउत्तरत ऽउ᳘पदधाति॥
तद्या᳘नीमा᳘नि व्व᳘यस ऽउत्तरतो᳘ व्वक्रा᳘णि लो᳘मानि ता᳘नि त᳘त्करोति सह᳘स्रेण स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वेणै᳘वास्मिन्नेत᳘द्रू᳘प᳘मुत्तमं᳘ दधाति त्रिभिः᳘ सह᳘स्रैस्त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘द्रू᳘प᳘मुत्तमं᳘ दधाति॥
मूलम् - Weber
अ᳘थ सह᳘स्रमित्यालिखिता᳘ उत्तरत उ᳘पदधाति॥
तद्या᳘नीमा᳘नि व᳘यस उत्तरतो᳘ वक्रा᳘णि लो᳘मानि ता᳘नि त᳘त्करोति सह᳘स्रेण स᳘र्वं वै᳘ सह᳘स्रᳫं स᳘र्वेणैॗवास्मिन्नेत᳘द्रूप᳘मुत्तमं᳘ दधाति त्रिभिः᳘ सह᳘स्रैस्त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेत᳘द्रूप᳘मुत्तमं᳘ दधाति॥
मूलम् - विस्वरम्
अथ सहस्रमित्यालिखिता उत्तरत उपदधाति । तद् यानीमानि वयस उत्तरतो वक्राणि लोमानि तानि तत्करोति । सहस्रेण । सर्वं वै सहस्रम् । सर्वेणैवास्मिन्नेतद्रूपमुत्तमं दधाति । त्रिभिः सहस्रैः । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतद्रूपमुत्तमं दधाति ॥ ११ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- On the left side he then lays down the one thousand (bricks) marked ṭḥuś (from right to left): he thereby gives to it those curved plumes on the left side of the bird. With a thousand (bricks he does it each time)–a thousand means everything:
with everything (required) he thus confers that highest form upon him (Agni);–with three thousand–Agni is threefold: as great as Agni is, as great as is his measure, with so much he thus confers the highest form upon him.
-
विसृजन्ति Sây. ↩︎
-
299:3 See VI, 2, 1, 15 seq. ↩︎
-
300:1 The sacrifice, being the substitute of (the sacrificing) man, is represented as identical with the Sacrificer, its measurements being taken from his body and stature; see part i, p. 78. note 1. ↩︎
-
300:2 Or,–for it, viz. the fire-altar, representing both Agni-Prajāpati and the Sacrificer: hence this assumed identity has to be borne in mind to understand the symbolic speculations of the Brāhmaṇa. ↩︎
-
300:3 This measure (24 aṅguli) is equal to one ‘aratni’ or cubit; 12 aṅguli being equal to a ‘vitasti’ or span (of thumb and little finger, or from wrist to tip of middle finger). ↩︎
-
300:4 See VI, 1, 1, 15; 1, 3, 29. ↩︎
-
300:5 Or, he draws in, draws together (upasamūhati). ↩︎
-
301:1 That is, on both sides of that part of the wing which joins the body of the altar he draws in by four finger-breadths the two long sides of the wing, thus changing the parallelogram into a trapezium, without altering the superficial area of the wing. On the plan of the altar given in part ii, p. 419, the effect of this manipulation on the wings and tail is indicated by pointed lines.–Sāyaṇa remarks,–ubhayataḥ pakshasya pārśvadvaye, antarataḥ cityāgner madhyadeśe caturaṅgulam upasamūhati saṁkarshati praveśayatīty arthaḥ; bāhyataḥ agnimadhyād bāhyadeśe caturaṅgulaṁ vyudūhati, ante vivardhayati. ↩︎ ↩︎
-
301:2 Or, he draws out, or draws asunder (vyudūhati). ↩︎
-
301:3 Literally ‘outbendings’ (nirṇāma)–‘Schwunggelenke’ (spring-limbs), St. Petersb. Dict.–This ‘bending-limb’ would seem to include the two inner segments of the (solid part of the) wing–those corresponding to the upper and fore-arm of man–as well as the adjoining and connecting joints or articulations, which portions may be taken roughly as forming the inner third of the wing when covered with feathers. The ‘bending-limb’ would thus derive its name from its ‘bending,’ or drawing, the wing ‘out’ from the body. Sāyaṇa, however, explains it by ’nitarāṁ namati,’ ’that which bends down,’ as if it were formed from the prep. ’ni,’ instead of ’nis.’ The manipulation to which this part of the wing is to be subjected is, however, not quite easy to understand from the description, and the commentary affords very little assistance–vitr̥tīya iti pakshabhāgaṁ tredhā vibhajya antare tr̥tīyabhāge nirnāmakaraṇam . .; etāṁ śrutim apekshyaivāpastambenoktam, ‘vakrapaksho vyastapuccho bhavati, paścāt prāṅ (!) udūhati, purastāt pratyudūhati, evam eva hi vayasām madhye pakshanirṇāmo bhavatīti vijñāyate’ iti. ↩︎
-
302:1 That is, the third part of the wing adjoining the body. ↩︎
-
302:2 That is, at the front edge of the wing of the flying bird, that which cuts through the air. The joint between the second and third segments of the wing, when expanded, would protrude, whilst on the opposite side of the wing the tops of the feathers would somewhat recede; but I am not sure whether this is what is referred to in these indications. ↩︎
-
निर्नाम Sây. ↩︎
-
302:3 Literally, which lies beside, or close to (upaśete, viz. the body, as it would seem) from the bending-limb. The brick is apparently meant to represent symbolically the bone of the upper segment, or some tubular organ by which the vital air is supposed to enter the wing from the body. Sāyaṇa remarks,–pakshipakshamadhyagatanāḍītvena praśaṁsati, . . cityāgneḥ pakshamadhye ekāṁ nāḍīm eva nihitavān bhavati. ↩︎
-
302:4 Comm.–caturaṅgulamātraṁ paścādbhāge udūhati vikarshati, purastādbhāge caturaṅgulamātraṁ samūhati saṁkarshati; evaṁ kr̥te vakratvaṁ bhavati. Cf. Āpastamba’s directions in note 3 of last page. I fail to see, however, in what respect this manipulation differs from that referred to in paragraph 5; and whether the ‘vakratvam’ refers to the irregular shape, or to the curved nature, of the wings. ↩︎
-
अ᳘थ रूप᳘मुपमं᳘ करोति A. ↩︎
-
303:1 That is, he gives to it the last finish. ↩︎
-
303:2 Or, perhaps, those soft feathers of the bird curved towards the right. Sāyaṇa as above–dakshiṇataḥ dakshiṇapakshe ityālikhitā dakshiṇāvr̥ta ishṭakāḥ; uttarataḥ uttarasmin pakshe ityālikhitāḥ savyāvr̥ta ishṭakā upadadhyāt. ↩︎