०१
विश्वास-प्रस्तुतिः
स᳘र्व्वे हैते᳘ यज्ञा᳘ यो ऽय᳘मग्नि᳘श्चितः[[!!]]॥
स य᳘त्पशु᳘माल᳘भते त᳘दग्न्याधे᳘यम᳘थ य᳘दुखा᳘ᳫँ᳘ संभ᳘रति ता᳘न्यग्न्याधेयहवीᳫँ᳭ष्य᳘थ यद्दी᳘क्षते त᳘दग्निहोत्रम᳘थ य᳘द्दीक्षितः᳘ समि᳘धावाद᳘धाति ते᳘ ऽअग्निहोत्राहुती[[!!]]॥
मूलम् - श्रीधरादि
स᳘र्व्वे हैते᳘ यज्ञा᳘ यो ऽय᳘मग्नि᳘श्चितः[[!!]]॥
स य᳘त्पशु᳘माल᳘भते त᳘दग्न्याधे᳘यम᳘थ य᳘दुखा᳘ᳫँ᳘ संभ᳘रति ता᳘न्यग्न्याधेयहवीᳫँ᳭ष्य᳘थ यद्दी᳘क्षते त᳘दग्निहोत्रम᳘थ य᳘द्दीक्षितः᳘ समि᳘धावाद᳘धाति ते᳘ ऽअग्निहोत्राहुती[[!!]]॥
मूलम् - Weber
स᳘र्वे हैते᳘ यज्ञाॗ योऽय᳘मग्नि᳘श्चितः᳟॥
स य᳘त्पशु᳘माल᳘भते त᳘दग्न्याधे᳘यम᳘थ य᳘दुखा᳘ᳫं᳘ सम्भ᳘रति ता᳘न्यग्न्याधेयहवीम्ष्य᳘थ यद्दी᳘क्षते त᳘दग्निहोत्रम᳘थ य᳘द्दीक्षितः᳘ समि᳘धावाद᳘धाति ते᳘ अग्निहोत्राहुती᳟॥
मूलम् - विस्वरम्
सर्वे हैते यज्ञाः- यो ऽयमग्निश्चितः । स यत्पशुमालभते- तदग्न्याधेयम् । अथ यदुखां सम्भरति- तान्यग्न्याधेयहवींषि । अथ यदीक्षते- तदग्निहोत्रम् । अथ यद्दीक्षितः समिधावादधाति- ते अग्निहोत्राहुती ॥ १ ॥
सायणः
अग्निचयनकर्म अग्न्याधानादिहविरग्निहोत्रदर्शपूर्णमासेष्टिपशुचातुर्मास्यसोमाध्वरराजसूयादिसर्वयज्ञात्मकमिति पञ्चमे ब्राह्मणे स्तूयते । यज्ञवीर्याणां मीमांसा च वक्ष्यते । तत्र प्रथमं संक्षेपत एवाग्नेः सर्वयज्ञात्मकतामाह- सर्वे हैते यज्ञा यो ऽयमग्निश्चित इति । विविच्य दर्शयति- स यत् पशुमालभत इति । सो ऽग्निं चिकीषमाणः ‘पशुम्’ पुरुषाश्वादीन् पशून् ‘आलभते’ इति ‘यत्’ ‘तदग्न्याधेयम्’ आधानम्, प्रथमकरणसाम्यात् पश्वालम्भनमेवाधानरूपत्वेन स्तूयते । एवमुत्तरत्र । अथ यदुखां सम्भरतीति । उखार्थद्रव्यसम्भरणं “अष्टकायामुखां सम्भरति” (श. प. । ६ । २ । २ । २३) इति यत् तदग्न्याधानहवींषि आग्नेयपावमानादीनि तदात्मकमित्यर्थः । दीक्षैव ‘अग्निहोत्रम्’ । दीक्षितः पुरुषः संवत्सरपर्यन्तं प्रत्यहं सायं प्रातः समिधमेकैकामग्नौ ‘आदधाति’ तदेवाग्निहोत्राहुतिद्वयम् ॥ १ ॥
Eggeling
- This built fire-altar, in truth, (includes) all these sacrifices:–when he slaughters an animal victim, that is the Agnyādheya (establishment of the sacred fires) 1; when he collects (the materials for) the fire-pan, that constitutes the oblations of the Agnyādheya; when he performs the initiation,
that is the Agnihotra; and when the initiated puts two logs on (the fire) 2, these are the two oblations of the Agnihotra.
०२
विश्वास-प्रस्तुतिः
ते वै᳘ सायं᳘प्रातरा᳘दधाति॥
सायं᳘प्रातर्ह्यग्निहोत्राहुती[[!!]] जु᳘ह्वति समाने᳘न म᳘न्त्रेण समाने᳘न हि म᳘न्त्रेणाग्निहोत्राहुती जु᳘ह्वत्य᳘थ य᳘द्वनीवा᳘हनं च भ᳘स्मनश्चाभ्यवह᳘रणं तौ᳘ दर्शपूर्णमासाव᳘थ यद्गा᳘र्हपत्यं चिनो᳘ति ता᳘नि चातुर्मास्यान्य᳘थ य᳘दूर्ध्वं गा᳘र्हपत्यादा᳘ सर्व्वौषधात्ता ऽइ᳘ष्टयो᳘ ऽथ य᳘दूर्ध्व᳘ᳫँ᳘ सर्व्वौषधा᳘त्प्राची᳘नं चि᳘तिभ्यस्ते᳘ पशुबन्धा य᳘ ऽए᳘वैते᳘षु यज्ञे᳘षु व्विष्णुक्रमास्ते᳘ व्विष्णुक्रमा यज्ज᳘प्यं त᳘द्वात्सप्र᳘म्॥ (अर्धप्रपाठकः॥४७॥)
मूलम् - श्रीधरादि
ते वै᳘ सायं᳘प्रातरा᳘दधाति॥
सायं᳘प्रातर्ह्यग्निहोत्राहुती[[!!]] जु᳘ह्वति समाने᳘न म᳘न्त्रेण समाने᳘न हि म᳘न्त्रेणाग्निहोत्राहुती जु᳘ह्वत्य᳘थ य᳘द्वनीवा᳘हनं च भ᳘स्मनश्चाभ्यवह᳘रणं तौ᳘ दर्शपूर्णमासाव᳘थ यद्गा᳘र्हपत्यं चिनो᳘ति ता᳘नि चातुर्मास्यान्य᳘थ य᳘दूर्ध्वं गा᳘र्हपत्यादा᳘ सर्व्वौषधात्ता ऽइ᳘ष्टयो᳘ ऽथ य᳘दूर्ध्व᳘ᳫँ᳘ सर्व्वौषधा᳘त्प्राची᳘नं चि᳘तिभ्यस्ते᳘ पशुबन्धा य᳘ ऽए᳘वैते᳘षु यज्ञे᳘षु व्विष्णुक्रमास्ते᳘ व्विष्णुक्रमा यज्ज᳘प्यं त᳘द्वात्सप्र᳘म्॥ (अर्धप्रपाठकः॥४७॥)
मूलम् - Weber
ते वै᳘ साय᳘म्प्रातरा᳘दधाति॥
साय᳘म्प्रातर्ह्य᳘ग्निहोत्राहुती जु᳘ह्वति समाने᳘न म᳘न्त्रेण समाने᳘न हि म᳘न्त्रेणाग्निहोत्राहुती जु᳘ह्वत्य᳘थ य᳘द्वनीवा᳘हनं च भ᳘स्मनश्चाभ्यवह᳘रणं तौ᳘ दर्शपूर्णमासाव᳘थ यद्गा᳘र्हपत्यं चिनो᳘ति ता᳘नि चातुर्मास्यान्य᳘थ य᳘दूर्ध्वं गा᳘र्हपत्यादा᳘ सर्वौषधात्ता इ᳘ष्टयो᳘ऽथ य᳘दूर्ध्व᳘ᳫं᳘ सर्वौषधा᳘त्प्राची᳘नं चि᳘तिभ्यस्ते᳘ पशुबन्धा य᳘ एॗवैते᳘षु यज्ञे᳘षु विष्णुक्रमास्ते᳘ विष्णुक्रमा यज्ज᳘प्यं त᳘द्वात्सप्र᳘म्॥
मूलम् - विस्वरम्
ते वै सायंप्रातरादधाति । सायंप्रातर्ह्यग्निहोत्राहुती जुह्वति । समानेन मन्त्रेण । समानेन हि मन्त्रेणाग्निहोत्राहुती जुह्वति । अथ यद्वनीवाहनं च भस्मनश्चाभ्यवहरणम्- तौ दर्शपूर्णमासौ । अथ यद्गार्हपत्यं चिनोति- तानि चातुर्मास्यानि । अथ यदूर्ध्वं गार्हपत्याद्- आ सर्वौषधात्- ता इष्टयः । अथ यदूर्ध्वं सर्वौषधात्, प्राचीनं चितिभ्यः- ते पशुबन्धाः । य एवैतेषु यज्ञेषु विष्णुक्रमाः- ते विष्णुक्रमाः । यज्जप्यम्- तद्वात्सप्रम् ॥ २ ॥
सायणः
‘ते’ च समिधौ ‘समानेन मन्त्रेण’ । प्रातःकालीन एक एव मन्त्रः । सायन्तनो ऽप्येक एव । “रात्रिं 3 रात्रिमप्रयावम्"- (वा. सं. ११ । ७५) इति सायन्तनो मन्त्रः । “अहरहरप्रयावम्” (वा. सं. ११ । ७५) इति प्रातःकालीनो मन्त्रः । अग्निहोत्राहुत्योरपि मन्त्र एक एव । “अग्निर्ज्योतिः”- (वा. सं. ३ । ९) इति सायंकालीनः । “सूर्यो ज्योतिः”- (वा. सं. ३ । ९) इति प्रातर्मन्त्रः । ‘अथ यद्वनीवाहनम्’ देवयजनं प्रत्यग्नेः प्रणयनं ‘भस्मनो ऽभ्यवहरणम्’ अप्सूख्यभस्मावपनम् । ‘तौ’ ते कर्मणी ‘दर्शपूर्णमासौ’ । ‘गार्हपत्यं चेष्यन्’ (श. प. ७ । १ । १) इत्यादिविहितं गार्हपत्यचयनमेव चातुर्मास्यत्वेन स्तूयते । गार्हपत्यचयनादूर्ध्वभावीनि चित्याग्निक्षेत्रे सर्वौषधवपनपर्यन्तं यानि कर्माणि ता इष्टयः । ओषधिवपनादूर्ध्वभावि इष्टका- ‘चितिभ्यः’ ‘प्राचीनं’ कर्मजातं निरूढपशुबन्धात्मकम् । ‘एतेषु’ दर्शपूर्णमासादियज्ञेषु ये ‘विष्णुक्रमाः’ त एव अग्निचयने क्रियमाणा ‘विष्णुक्रमाः’ अत्रत्या विष्णुक्रमाः त एव । यज्ञेषु ‘यत् जप्यम्’ अस्ति तद् ‘वात्सप्रम्’ 4 सूक्तम् ॥ २ ॥
Eggeling
- He puts them on in the evening and in the morning, for in the evening and in the morning the Agnihotra oblations are offered;–with one and the same formula, for with one and the same formula the two Agnihotra oblations are offered 5. Then the driving about (of the fire in the pan 6), and the taking down (to the water) of the ashes, these two (constitute) the New and Full-moon offerings; and when he builds the Gārhapatya hearth 7, that is the Cāturmāsya (seasonal offerings); and what takes place from (the building of) the Gārhapatya up to the (sowing of) all-herb (seed 8, that constitutes) the ishṭis 9, and what takes place after the all-herb (sowing) and prior to (the building
of) the layers, that is the animal sacrifices 10; and the Vishṇu-strides 11 which are (performed) at these sacrifices are just these Vishṇu-strides; and what muttering of formulas there is that is the Vātsapra 12.
०३
विश्वास-प्रस्तुतिः
(ᳫँ᳭) सौ᳘म्यो ऽध्वरः᳘ प्रथमा चि᳘तिः॥
(र्य᳘) य᳘त्प्राची᳘नᳫँ᳭ सवे᳘भ्यो राजसू᳘यो द्विती᳘या व्वाजपे᳘यस्तृती᳘या ऽश्वमेध᳘श्चतु᳘र्थ्यग्निसवः᳘[[!!]] पञ्चमी यै᳘श्चितᳫँ᳭ सा᳘मभिः परिगा᳘यति त᳘न्महाव्व्रतम᳘थ यत्त᳘त्रोद्गातुः᳘ पुर᳘स्ताज्ज᳘प्यं त᳘च्छतरुद्रि᳘यं व्व᳘सोर्धा᳘रा मह᳘दुक्थम᳘थ य᳘दूर्ध्वᳫँ᳭ सा᳘मभ्यः प्राची᳘नं व्व᳘सोर्धा᳘रायै य᳘देव त᳘त्र हो᳘तुः पुर᳘स्ताज्ज᳘प्यं तत्तद᳘थ य᳘दूर्ध्वं व्व᳘सोर्धा᳘रायै ते᳘ गृहमेधा᳘ ऽएता᳘वन्तो वै स᳘र्व्वे यज्ञास्ता᳘नग्नि᳘ना ऽऽप्नोति॥
मूलम् - श्रीधरादि
(ᳫँ᳭) सौ᳘म्यो ऽध्वरः᳘ प्रथमा चि᳘तिः॥
(र्य᳘) य᳘त्प्राची᳘नᳫँ᳭ सवे᳘भ्यो राजसू᳘यो द्विती᳘या व्वाजपे᳘यस्तृती᳘या ऽश्वमेध᳘श्चतु᳘र्थ्यग्निसवः᳘[[!!]] पञ्चमी यै᳘श्चितᳫँ᳭ सा᳘मभिः परिगा᳘यति त᳘न्महाव्व्रतम᳘थ यत्त᳘त्रोद्गातुः᳘ पुर᳘स्ताज्ज᳘प्यं त᳘च्छतरुद्रि᳘यं व्व᳘सोर्धा᳘रा मह᳘दुक्थम᳘थ य᳘दूर्ध्वᳫँ᳭ सा᳘मभ्यः प्राची᳘नं व्व᳘सोर्धा᳘रायै य᳘देव त᳘त्र हो᳘तुः पुर᳘स्ताज्ज᳘प्यं तत्तद᳘थ य᳘दूर्ध्वं व्व᳘सोर्धा᳘रायै ते᳘ गृहमेधा᳘ ऽएता᳘वन्तो वै स᳘र्व्वे यज्ञास्ता᳘नग्नि᳘ना ऽऽप्नोति॥
मूलम् - Weber
सौॗम्योऽध्वरः᳘ प्रथमा चि᳘तिः॥
य᳘त्प्राची᳘नᳫं सवे᳘भ्यो राजसू᳘यो द्विती᳘या वाजपे᳘यस्तृती᳘याश्वमेध᳘श्चतुर्थ्य᳘ग्निसवः᳘ पञ्चमी यै᳘श्चितᳫं सा᳘मभिः परिगा᳘यति त᳘न्महाव्रतम᳘थ यत्त᳘त्रोद्गातुः᳘ पुर᳘स्ताज्ज᳘प्यं त᳘छतरुद्रि᳘यं व᳘सोर्धा᳘रा मह᳘दुक्थम᳘थ य᳘दूर्ध्वᳫं सा᳘मभ्यः प्राची᳘नं व᳘सोर्धा᳘रायै य᳘देव त᳘त्र हो᳘तुः पुर᳘स्ताज्ज᳘प्यं तत्तद᳘थ य᳘दूर्ध्वं व᳘सोर्धा᳘रायै ते᳘ गृहमेधा᳘ एता᳘वन्तो वै स᳘र्वे यज्ञास्ता᳘नग्नि᳘नाप्नोति॥
मूलम् - विस्वरम्
सौम्यो ऽध्वरः प्रथमा चितिः- यत्प्राचीनं सवेभ्यः । राजसूयो द्वितीया । वाजपेयस्तृतीया । अश्वमेधश्चतुर्थी । अग्निसवः पञ्चमी । यैश्चितं सामभिः परिगायति- तन्महाव्रतम् । अय यत्तत्रोद्गातुः पुरस्ताज्जप्यम्- तच्छतरुद्रियम् । वसोर्धारा महदुक्थम् । अथ यदूर्ध्वं सामभ्यः, प्राचीनं वसोर्धारायै- यदेव तत्र होतुः पुरस्ताज्जप्यं तत्तत् । अथ यदूर्ध्वं वसोर्धारायै- ते गृहमेधाः । एतावन्तो वै सर्वे यज्ञाः । तानग्निना ऽऽप्नोति ॥ ३ ॥
सायणः
‘प्रथमा’ स्वयमातृण्णाद्या ‘चितिः’ सवा नाम अभिषेकयुक्ता यज्ञाः, तेभ्यः प्राचीनः ‘सौम्योऽध्वरः’ सौमिको यज्ञः प्रथमा चितिः सौमिकयज्ञरूपा । द्वितीयाद्याश्चतस्रः अभिषेकयुक्तराजसूयवाजपेयाश्वमेधाग्निसवात्मिकाः । चितमग्निं यैः सामभी रथन्तरादिभिः परिगायति तत्सामजातं महाव्रतम् । तत्र महाव्रतयज्ञे सामगानात् प्रागुद्गात्रा पुरस्ताज्जप्यो मन्त्रो ऽस्ति तदत्र ‘शतरुद्रियं’ शतरुद्रियमेवोद्गातुः ‘पुरस्तात्’ जप्यस्थानीयमित्यर्थः । वसोर्धारा नाम चमकसूक्तैर्हूयमाना ऽऽज्यधारा सा बृहदुक्थम् । बृहतीसहस्रात्मकं शस्त्रं बृहदुक्थस्यादौ होत्रा जप्यं मन्त्रजातमस्ति तत्सामभ्य ‘ऊर्ध्वं’ वसोर्धारायाः प्राचीनं कर्मजातम् । तस्या ऊर्ध्वभावि यत् ‘ते’ ‘गृहमेधाः’ सत्रयागाः । ‘एतावन्तो वै’ इष्टिपशुसोमरूपाः । सौमिकेषु च एकाहाहीनसत्रात्मका एतावन्त एव ‘यज्ञाः’ ‘तान्’ सर्वान् ‘अग्निना’ अग्निचयनकर्मणा ऽऽप्तवान् भवति । एवमग्नेः सर्वयज्ञात्मकत्वमुक्तम् ॥ ३ ॥
Eggeling
- The first layer is the Soma-sacrifice; the second the Rājasūya as prior to the consecrations 13; the third the Vājapeya; the fourth the Aśvamedha (horse-sacrifice); and the fifth the Agnisava 14. Then the sāmans he sings around the built (altar) are the Mahāvrata(-sāman); the Udgātr̥’s preliminary muttering (of the text of his chants) on that occasion is the Śatarudriya; the ‘shower of wealth’ the Great Litany; and what takes place subsequent to (the singing of) the sāmans, and prior to the shower of wealth, that is the Hotr̥’s preliminary muttering on that occasion; and what takes place after the shower of wealth is the Gr̥hamedhas 15 (house-sacrifices). Such are all the sacrifices: these he secures by (building) the fire-altar.
०४
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो यज्ञवीर्या᳘णामेव᳘॥
सायं᳘प्रातर्ह वा᳘ ऽअमु᳘ष्मिल्ँलो᳘के ऽग्निहोत्रहु᳘दश्नाति ता᳘वती ह त᳘स्मिन्यज्ञ ऽऊ᳘र्गर्धमा᳘से ऽर्धमासे दर्शपूर्णमासयाजी᳘ चतु᳘र्षु चतुर्षु मा᳘सेषु चातुर्मास्ययाजी᳘ षट्सु᳘ षट्सु पशुबन्धयाजी᳘ संव्वत्सरे᳘ संव्वत्सरे सोमयाजी᳘ शते᳘ शते संव्वत्सरे᳘ष्वग्निचित्का᳘ममश्ना᳘ति का᳘मं न त᳘द्धैतद्या᳘वच्छत᳘ᳫँ᳘ संव्वत्सरास्ता᳘वदमृ᳘तमनन्त᳘मपर्यन्तᳫँ᳭ स यो᳘ हैत᳘देवं व्वे᳘दैव᳘ᳫँ᳘ है᳘वास्यैत᳘दमृ᳘तमनन्त᳘मपर्यन्तं᳘ भवति त᳘स्य यद᳘पीषी᳘कयेवोपहन्यात्त᳘दे᳘वास्यामृ᳘तमनन्त᳘मपर्यन्तं᳘ भवति॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो यज्ञवीर्या᳘णामेव᳘॥
सायं᳘प्रातर्ह वा᳘ ऽअमु᳘ष्मिल्ँलो᳘के ऽग्निहोत्रहु᳘दश्नाति ता᳘वती ह त᳘स्मिन्यज्ञ ऽऊ᳘र्गर्धमा᳘से ऽर्धमासे दर्शपूर्णमासयाजी᳘ चतु᳘र्षु चतुर्षु मा᳘सेषु चातुर्मास्ययाजी᳘ षट्सु᳘ षट्सु पशुबन्धयाजी᳘ संव्वत्सरे᳘ संव्वत्सरे सोमयाजी᳘ शते᳘ शते संव्वत्सरे᳘ष्वग्निचित्का᳘ममश्ना᳘ति का᳘मं न त᳘द्धैतद्या᳘वच्छत᳘ᳫँ᳘ संव्वत्सरास्ता᳘वदमृ᳘तमनन्त᳘मपर्यन्तᳫँ᳭ स यो᳘ हैत᳘देवं व्वे᳘दैव᳘ᳫँ᳘ है᳘वास्यैत᳘दमृ᳘तमनन्त᳘मपर्यन्तं᳘ भवति त᳘स्य यद᳘पीषी᳘कयेवोपहन्यात्त᳘दे᳘वास्यामृ᳘तमनन्त᳘मपर्यन्तं᳘ भवति॥
मूलम् - Weber
अथा᳘तो यज्ञवीर्या᳘णामेव᳟॥
साय᳘म्प्रातर्ह वा᳘ अमु᳘ष्मिंलोॗकेऽग्निहोत्रहु᳘दश्नाति ता᳘वती ह त᳘स्मिन्यज्ञ ऊ᳘र्गर्धमाॗसेऽर्धमासे दर्शपूर्णमासयाजी᳘ चतु᳘र्षु-चतुर्षु मा᳘सेषु चातुर्मास्ययाजी᳘ षट्सु᳘-षट्सु पशुबन्धयाजी᳘ संवत्सरे᳘-संवत्सरे सोमयाजी᳘ शते᳘-शते संवत्सरे᳘श्वग्निचित्का᳘ममश्नाति का᳘मं न त᳘द्धैतद्या᳘वछत᳘ᳫं᳘ संवत्सरास्ता᳘वदमृ᳘तमनन्त᳘मपर्यन्तᳫं स सो᳘ हैत᳘देवं वे᳘दैव᳘ᳫं᳘ हैॗवास्यैत᳘दमृ᳘तमनन्त᳘मपर्यन्त᳘म् भवति त᳘स्य यद᳘पीषी᳘कयेवोपहन्यात्त᳘देॗवास्यामृ᳘तमनन्त᳘मपर्यन्त᳘म् भवति॥
मूलम् - विस्वरम्
अथातो यज्ञवीर्याणामेव । सायंप्रातर्ह वा अमुष्मिल्ँ लोके ऽग्निहोत्रहुदश्नाति । तावती ह तस्मिन्यज्ञ ऽऊर्क् । अर्धमासे ऽर्धमासे दर्शपूर्णमासयाजी । चतुर्षु चतुर्षु मासेषु चातुर्मास्ययाजी । षट्सु षट्सु पशुबन्धयाजी । सम्वत्सरे संवत्सरे सोमयाजी । शते-शते सम्वत्सरेष्वग्निचित्काममश्नाति कामम् । न तद्धैतद् यावच्छतं सम्वत्सराः- तावदमृतमनन्तमपर्यन्तम् । स यो हैतदेवं वेद- एवं हैवास्यैतदमृतमनन्तमपर्यन्तं भवति । तस्य यदपीषीकयेवोपहन्यात्तदेवास्यामृतमनन्तमपर्यन्तं भवति ॥ ४ ॥
सायणः
अथात इति । अथ ‘यज्ञवीर्याणामेव’ मीमांसा वक्ष्यत इति शेषः । सायंप्रातरिति । यो यजमान ‘सायंप्रातः’ अग्निहोत्रं जुहोति स ‘अमुष्मिन्’ स्वर्गे ‘लोके’ प्रतिदिनं सायंप्रातरश्नाति । अत्रत्यमाहुतिद्वयं परलोकं भोज्यत्वेन परिणमत इत्यर्थः । तावती हेति । तावत्परिमाणा च ‘तस्मिन्’ अग्निहोत्रात्मके यज्ञे ‘ऊर्क्’ भवति । एवं ‘अर्धमासे ऽर्धमासे दर्शपूर्णमासयाजी’ इत्यादिकं व्याख्येयम् । पशुबन्धः षट्सु षट्सु मासेषु क्रियते । “वसन्ते वसन्ते ज्योतिषा वजेत”- इति सोमयागः संवत्सरे विधीयते । अतस्तद्याजी तावत्कालपरिमित तत्फलम् ‘अश्नाति’ । अग्निचितस्तु विशेषमाह- शत इति । अग्निं चितवान् पुरुषस्तु शतसंख्याकेषु संवत्सरेषु ‘कामम्’ अपरिमितं ‘कामम्’ अभीष्टं तत्फलम् ‘अश्नाति’ । शतशब्दस्यापरिमितार्थमाह- न तद्धैतदिति । ‘तदेतत्’ ‘शतम्’ ‘न’ एतत् परिमितं न- किन्तु अपरिमितमेव । अतो यावन्तः शतं संवत्सराः ‘तावदमृतम्’ देवत्वप्रापकम् ‘अनन्तम्’ अपरिमितमन्नं भवति । वेदितुः फलमाह- स यो हैतदेवं वेदेति । ‘तस्य यदपि’ इत्यादेरयमर्थः- तस्य चयनकर्मण एकदेशभूतं यत् किञ्चिदपि ‘इषीकया’ सूक्ष्मतृणाग्रेण ‘उपहन्यात्’ पृथक्कुर्यात् । उपपूर्वस्य हन्तेः पृथक्करणमर्थः । तथा चापस्तम्बप्रयोगः- “अपि वा सकृदुपहत्य जुहुयात्” (आप० श्रौ. सू.) इति । तत्कर्मण एकदेशो ऽपि अस्य चितवतो ऽदृष्टम् ‘अमृतम्’ ‘अनन्तमपर्यन्तम्’ ‘भवति’ किल । किमुत सकलं कर्मेति फलस्तुतिः ॥ ४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे प्रथमे ऽध्याये पञ्चमं ब्राह्मणम् ॥ (१०-१-५) ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे प्रथमोऽध्यायः ॥ (१०-१) ॥
Eggeling
- Now, then, as to the powers (conferred by the performance) of sacrifices. Verily, he who (regularly) performs the Agnihotra eats food in the evening and in the morning (when he comes to be) in yonder world, for so much sustenance is there in that sacrifice. And he who performs the New and Full-moon sacrifice (eats food) every half-month; and he who performs the Seasonal sacrifice (does so) every four months; and be who performs the animal sacrifice (twice a year, eats food) every six months; and the Soma-sacrificer once a year; and the builder of the fire-altar at his pleasure eats food every hundred years, or abstains therefrom 16; for a hundred years is as much as immortality 17, unending and everlasting: and, verily, for him who knows this, there shall thus be immortality, unending and everlasting; and whatever he as much as touches, as it were, with a reed, shall be for him immortal, unending and everlasting.
-
296:1 Though no animal sacrifice takes place at the Agnyādhāna, the latter, as the fundamental ceremony pre-supposed by all subsequent sacrificial performances, is here compared with the immolation of five victims (VI, 2, 1, 15 seq.) which, taking place as it does on the Upasavatha, or day of preparation, i.e. the day before the Soma-sacrifice on the newly built fire-altar, is, as it were, a preliminary ceremony. ↩︎
-
297:1 This refers to the two samidhs (kindling-sticks) put on the Ukhya Agni,–one in the evening, and one in the morning,–after the ashes had been cleared out of the fire-pan (ukhā); see VI, 6, 4, 1 seq. ↩︎
-
‘अहरहः’ इत्यत्र ‘रात्रिं रात्रिम्’ इत्यूहः । मंत्रस्तु- स एवेत्यर्थः । ↩︎
-
‘दिवस्परि प्रथमं जज्ञे’ इत्याद्याः ‘विवव्रुः’ इत्यन्ता वाजसनेयसंहितायां द्वादशाध्यायगता (१८-१८) एकादश मन्त्रा वात्सप्रसूक्तमिति वेदवादिन आहुरिति । ↩︎
-
297:2 Both in the evening and in the morning two libations of milk are offered (the pūrvāhuti and the uttarāhuti), but only the first is offered with a formula, the evening formula being, ‘Agni is the light, the light is Agni, hail!’ whilst the morning formula is, ‘Sūrya is the light, the light is Sūrya, hail!’ See II, 3, 1, 30. For alternative formulas–‘With the divine Savitr̥, with the Night (or Dawn, respectively) wedded to Indra, may Agni (or Indra, respectively) graciously accept, hail!’ see II, 3, 1, 37. 38. ↩︎
-
297:3 See VI, 8, 1, 1 seq. Sāyaṇa takes it to refer to the Agnipraṇayana, or leading forward of the fire to the fire-altar; but that would not fit in well with the ceremony next referred to, viz. the removal of the fishes of the Ukhyāgni, or fire in the pan; for which see VI, 8, 2, 1 seq. ↩︎
-
297:4 VII, 1, 1, 1 seq. ↩︎
-
297:5 Viz. on the newly ploughed altar-site, see VII, 2, 4, 13 seq. ↩︎
-
297:6 That is, offerings for the fulfilment of some special wishes. ↩︎
-
298:1 That is, animal sacrifices performed independently of other ceremonies. ↩︎
-
298:2 See VI, 7, 2, 12 seq. ↩︎
-
298:3 See VI, 7, 4, 1 seq. ↩︎
-
298:4 That is, the ceremonies connected with the Vājaprasavīya oblations, V, 2, 2, 4 seq.; and the devasū-havīṁshi, or oblations to the Divine Quickeners (by whom the king is supposed to be first consecrated), V, 3, 3, 1 seq. ↩︎
-
298:5 See IX, 3, 4, 7. 9. It is strange that the Agnisava should be mentioned here, as it is said to be confined to the Agnicayana. It would seem that some independent ceremony, such as the Br̥haspatisava (consecration of Br̥haspati, cf. V, 2, 1, 19; and part iii, introd. p. xxiv seq.), may he referred to. ↩︎
-
298:6 Sāyaṇa identifies these with the offerings of sacrificial sessions (sattra), during which the Sacrificer is indeed called the Gr̥hapati, or master of the house; see IV, 6, 3, 5 seq.; and part ii, p. 97, note 1. ↩︎
-
299:1 That is to say, the food eaten the first time will sustain him for a hundred years, after which time he may, or may not, take food, being sure of everlasting life and a godlike nature. ↩︎
-
299:2 Or, perhaps, for so long lasts the Amrita (the food of the immortals);–agniṁ citavān purushas tu śatasaṁkhyākeshu saṁvatsareshu teshu kāmam aparimitam aśnāti yato yāvantaḥ śataṁ saṁvatsarās tāvad amr̥tam devatvaprāpakam anantam aparimitam annum bhavati. Sāy. ↩︎