०१

विश्वास-प्रस्तुतिः

उभ᳘यᳫँ᳭ हैतद᳘ग्रे प्रजा᳘पतिरास॥
म᳘र्त्यं चै᳘वामृ᳘तं च त᳘स्य प्राणा᳘ ऽए᳘वामृ᳘ता ऽआसुः श᳘रीरं म᳘र्त्यᳫँ᳭ स᳘ ऽएते᳘न क᳘र्मणैत᳘या ऽऽवृ᳘तैक᳘धा ऽज᳘रममृ᳘तमात्मा᳘नमकुरुत त᳘थै᳘वैतद्य᳘जमान ऽउभ᳘यमेव᳘ भवति मर्त्यं[[!!]] चै᳘वामृ᳘तं च त᳘स्य प्राणा᳘ ऽए᳘वामृ᳘ता भ᳘वन्ति श᳘रीरं म᳘र्त्यᳫँ᳭ स᳘ ऽएते᳘न क᳘र्मणैत᳘या ऽऽवृ᳘तैक᳘धा ऽज᳘रममृ᳘तमात्मा᳘नं कुरुते॥

मूलम् - श्रीधरादि

उभ᳘यᳫँ᳭ हैतद᳘ग्रे प्रजा᳘पतिरास॥
म᳘र्त्यं चै᳘वामृ᳘तं च त᳘स्य प्राणा᳘ ऽए᳘वामृ᳘ता ऽआसुः श᳘रीरं म᳘र्त्यᳫँ᳭ स᳘ ऽएते᳘न क᳘र्मणैत᳘या ऽऽवृ᳘तैक᳘धा ऽज᳘रममृ᳘तमात्मा᳘नमकुरुत त᳘थै᳘वैतद्य᳘जमान ऽउभ᳘यमेव᳘ भवति मर्त्यं[[!!]] चै᳘वामृ᳘तं च त᳘स्य प्राणा᳘ ऽए᳘वामृ᳘ता भ᳘वन्ति श᳘रीरं म᳘र्त्यᳫँ᳭ स᳘ ऽएते᳘न क᳘र्मणैत᳘या ऽऽवृ᳘तैक᳘धा ऽज᳘रममृ᳘तमात्मा᳘नं कुरुते॥

मूलम् - Weber

उभ᳘यᳫं हैतद᳘ग्रे प्रजा᳘पतिरास॥
म᳘र्त्यं चैॗवामृ᳘तं च त᳘स्य प्राणा᳘ एॗवामृ᳘ता आसुः श᳘रीरम् म᳘र्त्यᳫं स᳘ एते᳘न क᳘र्मणैत᳘यावृ᳘तैकॗधाज᳘रममृ᳘तमात्मा᳘नमकुरुत त᳘थैॗवैतद्य᳘जमान उभ᳘यमेव᳘ भवति म᳘र्त्यं चैॗवामृ᳘तं च त᳘स्य प्राणा᳘ एॗवामृ᳘ता भ᳘वन्ति श᳘रीरम् म᳘र्त्यᳫं स᳘ एते᳘न क᳘र्मणैत᳘यावृ᳘तैकॗधाज᳘रममृ᳘तमात्मा᳘नं कुरुते॥

मूलम् - विस्वरम्

उभयं हैतदग्रे प्रजापतिरास- मर्त्यं चैवामृतं च । तस्य प्राणा एवामृता आसुः । शरीरं मर्त्यम् । स एतेन कर्मणैतया ऽऽवृतैकधा ऽजरममृतमात्मानमकुरुत । तयैवैतद्यजमान उभयमेव भवति- मर्त्यं चैवामृतं च । तस्य प्राणा एवामृता भवन्ति । शरीरं मर्त्यम् । स एतेन कर्मणैतया ऽऽवृतैकधा ऽजरममृतमात्मानं कुरुते ॥ १ ॥

सायणः

चतुर्थे ब्राह्मणे षट्सङ्ख्याका इष्टकाचितयः प्रजापतेरमृतशरीरगतप्राणापानव्यानोदानसमानवाग्रूपत्वेन, षट्पुरीषचितयः प्रजापतेर्मरणधर्मकस्थूलशरीरगतमज्जास्थिस्रावमांसमेदो ऽसृक्त्वग्रूपत्वेन, एकैकस्या इष्टकाचितेरुपरि निधीयमानाया एकैकस्याः पुरीषचितेरमृतत्वसम्पत्त्या अन्तिमायाश्चितेरुपरिनिहितविकर्णीस्वयमातृण्णेष्टकाहिरण्यशकलाहवनीयनिधानं प्रजापतेर्हिरण्मयरूपत्वेन, प्रणीते ऽग्नौ हूयमानाः समिधो देवानामन्नत्वेन च स्तूयन्ते । अथाग्निचितः पक्षिभक्षणवर्जनव्रतं च प्रतिपाद्यते । अनन्तरातीतब्राह्मणे यत्प्रजापतेर्मर्त्यामृतभेदेन द्वैविध्यमित्युक्तम् (श. प. १० । १ । ३ । ६) तद्द्वयोर्मर्त्यामृतयोरर्थं वक्तुं तत्स्मारयति- उभयं हैतदग्र इति । ‘अग्रे’ पूर्वम् । अमृतशब्देन वाक्सहिताः पञ्च प्राणा विवक्षिताः । मर्त्यपदेन स्थूलगतमज्जास्थिस्रावमांसमेदो ऽसृक्त्वचो ऽभिधीयन्ते । स एवं मर्त्यामृतभेदेन द्विप्रकारः प्रजापतिरेतेनाग्निकर्मणा एतावता ऽऽवृता क्रियया एकधा एकप्रकारमात्मानम् अजरं जरारहितम् ‘अमृतं’ मरणधर्मरहितं कृतवान् । एवं यजमानो ऽपि मर्त्यामृतभेदेन द्विप्रकार एतेन अग्निचयनकर्मणा एकमेव स्वात्मानं जरामरणधर्मरहितं कृतवान् भवति ॥ १ ॥

Eggeling
  1. Now, at the beginning, Prajāpati was (composed of) both these, the mortal and the immortal–his vital airs alone were immortal, his body mortal: by this sacrificial performance, and by this order of proceeding, he made his body uniformly undecaying and immortal. And in like manner is the Sacrificer (composed of) both the mortal and the immortal–his vital airs alone are immortal, his body mortal: by this sacrificial performance, and by this order of proceeding, he makes his body uniformly undecaying and immortal.

०२

विश्वास-प्रस्तुतिः

स᳘ प्रथमां चि᳘तिं चिनोति॥
सा᳘ हास्यैषा᳘ प्राण᳘ ऽएव तद्वै त᳘दमृ᳘तममृ᳘तᳫँ᳭ हि᳘ प्रा᳘णः सै᳘षा ऽमृतचितिर᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘न्म᳘ज्जैव तद्वै तन्म᳘र्त्यं म᳘र्त्यो हि᳘ मज्जा त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - श्रीधरादि

स᳘ प्रथमां चि᳘तिं चिनोति॥
सा᳘ हास्यैषा᳘ प्राण᳘ ऽएव तद्वै त᳘दमृ᳘तममृ᳘तᳫँ᳭ हि᳘ प्रा᳘णः सै᳘षा ऽमृतचितिर᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘न्म᳘ज्जैव तद्वै तन्म᳘र्त्यं म᳘र्त्यो हि᳘ मज्जा त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - Weber

स᳘ प्रथमां चि᳘तिं चिनोति॥
सा᳘ हास्यैषा᳘ प्राण᳘ एव तद्वै त᳘दमृ᳘तमृ᳘तᳫं 1 हि᳘ प्राॗणः सैॗषामृतचितिर᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘न्मॗज्जैव तद्वै तन्म᳘र्त्यम् म᳘र्त्यो हि᳘ मज्जा त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तम् भवति॥

मूलम् - विस्वरम्

स प्रथमां चितिं चिनोति- सा हास्यैषा प्राण एव । तद्वै तदमृतम् । अमृतं हि प्राणः । सैषा ऽमृतचितिः । अथ पुरीषं निवपति- तद्धास्यैतन्मज्जैव । तद्वै तन्मर्त्यम् । मर्त्यो हि मज्जा । तदेतस्मिन्नमृते प्रतिष्ठापयति । तेनास्यैतदमृतं भवति ॥ २ ॥

सायणः

स प्रथमां चितिमिति । कण्डिकाया अयमर्थः- प्रथमा इष्टकाचितिरमृतात्मकप्राणादिषट्कमध्ये प्राणरूपा, प्राणेष्टकाचित्योरमृतत्वव्यवहाराद्द्वयमप्यमृतम्; तस्या उपरि निधीयमाना पुरीषचितिर्मर्त्यशरीरगतमज्जात्मिका; अतस्तस्याममृतरूपायां प्रथमेष्टकाचितौ निहितां मर्त्यरूपपुरीषचितिममृतां कृतवान् भवति ॥ २ ॥

Eggeling
  1. He lays down the first layer,–this, doubtless, is his out- (and in-) breathing 2, and it is an immortal (element), for the out-breathing is something immortal: this, then, is an immortal layer. He then scatters loose soil thereon,–this, doubtless, is his marrow, and it is a mortal (element), for the marrow is mortal: he establishes it on that immortal (element), and thereby this part of him becomes immortal.

०३

विश्वास-प्रस्तुतिः

द्विती᳘यां चि᳘तिं चिनोति॥
सा᳘ हास्यै᳘षा ऽपान᳘ ऽएव तद्वै त᳘दमृ᳘तममृ᳘त᳘ᳫँ᳘ ह्यपानः᳘[[!!]] सै᳘षा ऽमृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तो ऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तं भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘द᳘स्थ्येव तद्वै तन्म᳘र्त्यं म᳘र्त्यᳫँ᳭ ह्य᳘स्थि त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - श्रीधरादि

द्विती᳘यां चि᳘तिं चिनोति॥
सा᳘ हास्यै᳘षा ऽपान᳘ ऽएव तद्वै त᳘दमृ᳘तममृ᳘त᳘ᳫँ᳘ ह्यपानः᳘[[!!]] सै᳘षा ऽमृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तो ऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तं भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘द᳘स्थ्येव तद्वै तन्म᳘र्त्यं म᳘र्त्यᳫँ᳭ ह्य᳘स्थि त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - Weber

द्विती᳘यां चि᳘तिं चिनोति॥
सा᳘ हास्यैॗषापान᳘ एव तद्वै त᳘दमृ᳘तममृ᳘तᳫं ह्य᳘पाॗनः सैॗषामृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तोऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तम् भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैतद᳘स्थ्येव तद्वै तन्म᳘र्त्यम् म᳘र्त्यᳫं ह्य᳘स्थि त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तम् भवति॥

मूलम् - विस्वरम्

द्वितीयां चितिं चिनोति- सा हास्यैषा ऽपान एव । तद्वै तदमृतम् । अमृतं ह्यपानः । सैषा ऽमृत चितिः । तदेतन्मर्त्यमुभयतो ऽमृतेन परिगृह्णाति । तेनास्यैतदमृतं भवति । अथ पुरीषं निवपति- तद्धास्यैतदस्थ्येव । तद्वै तन्मर्त्यम् । मर्त्यं ह्यस्थि । तदेतस्मिन्नमृते प्रतिष्ठापयति । तेनास्यैतदमृतं भवति ॥ ३ ॥

सायणः

एवं द्वितीयां चितिं चिनोतीत्याद्याः पञ्च कण्डिका व्याख्येयाः । तत्र इष्टकाचितीनाममृतरूपापानव्यानौदानसमानवाग्रूपत्वम् । पुरीषचितीनामस्थिस्रावमांसमेदो ऽसृक्त्वगात्मकत्वम् । षष्ठ्याः पुरीषचितेरसृक्त्वं त्वक्त्वं चेति द्वयरूपत्वमिति विशेषः । तदेतन्मर्त्यमुभयतो ऽमृतेन परिगृह्णातीति । ‘तदेतत्’ ‘मर्त्यम्’ पुरीषचितिरूपम् ‘उभयतो ऽमृतेन’ इष्टकाद्वयेन ‘परिगृह्णाति’ मध्यस्थितं करोति । तेन कारणेन अस्य प्रजापतेस्तन्मर्त्यं रूपममृतं भवति । एवमुत्तरत्र योजनीयम् ॥ ३-६ ॥

Eggeling
  1. He lays down the second layer,–this, doubtless, is his downward breathing, and it is an immortal (element), for the downward breathing is something immortal: this, then, is an immortal layer. He thus encompasses that mortal (element) on both

sides by an immortal one, and thereby that part of him becomes immortal. He then scatters loose soil thereon,–this, doubtless, is his bones, and it is a mortal (element), for the bone is mortal: he establishes it on that immortal (element), and thereby this part of him becomes immortal.

०४

विश्वास-प्रस्तुतिः

तृती᳘यां चि᳘तिं चिनोति॥
सा᳘ हास्यैषा᳘ व्व्यान᳘ ऽएव तद्वै त᳘दमृ᳘तममृ᳘तᳫँ᳭ हि᳘ व्व्यानः᳘[[!!]] सै᳘षा ऽमृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तो ऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तं भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘त्स्ना᳘वैव तद्वै तन्म᳘र्त्यं म᳘र्त्यᳫँ᳭ हि᳘ स्ना᳘व त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - श्रीधरादि

तृती᳘यां चि᳘तिं चिनोति॥
सा᳘ हास्यैषा᳘ व्व्यान᳘ ऽएव तद्वै त᳘दमृ᳘तममृ᳘तᳫँ᳭ हि᳘ व्व्यानः᳘[[!!]] सै᳘षा ऽमृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तो ऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तं भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘त्स्ना᳘वैव तद्वै तन्म᳘र्त्यं म᳘र्त्यᳫँ᳭ हि᳘ स्ना᳘व त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - Weber

तृती᳘यां चि᳘तिं चिनोति॥
सा᳘ हास्यैषा᳘ व्यान᳘ एव तद्वै त᳘दमृ᳘तममृ᳘तᳫं हि᳘ व्याॗनः सैॗषामृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तोऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तम् भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘त्स्नाॗवैव तद्वै तन्म᳘र्त्यᳫं हि᳘ स्नाव 3 त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तम् भवति॥

मूलम् - विस्वरम्

तृतीयां चितिं चिनोति- सा हास्यैषा व्यान एव । तद्वै तदमृतम् । अमृतं हि व्यानः । सैषा ऽमृत- चितिः । तदेतन्मर्त्यमुभयतो ऽमृतेन परिगृह्णाति- तेनास्यैतदमृतं भवति । अथ पुरीषं निवपति । तद्धास्यैतत्स्नावैव । तद्वै तन्मर्त्यम् । मर्त्ये हि स्त्राव । तदेतस्मिन्नमृते प्रतिष्ठापयति । तेनास्यैतद- मृतं भवति ॥ ४ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. He lays down the third layer,–this, doubtless, is his through-breathing 4, and it is an immortal (element), for the through-breathing is something immortal: this, then, is an immortal layer. He thus encompasses that mortal (element) on both sides by an immortal one, and thereby that part of him becomes immortal. He then scatters loose soil thereon,–this, doubtless, is his sinews, and it is a mortal (element), for the sinew is mortal: he establishes it on that immortal (element), and thereby this part of him becomes immortal.

०५

विश्वास-प्रस्तुतिः

चतुर्थीं चि᳘तिं चिनोति॥
सा᳘ हास्यै᳘षोदान᳘ ऽएव तद्वै त᳘दमृ᳘तममृ᳘त᳘ᳫँ᳘ ह्युदानः᳘[[!!]] सै᳘षा ऽमृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तो ऽमृ᳘तेन प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तं भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘न्माᳫँ᳭स᳘मेव तद्वै तन्म᳘र्त्यं म᳘र्त्यᳫँ᳭ हि᳘ माᳫँ᳭सं त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - श्रीधरादि

चतुर्थीं चि᳘तिं चिनोति॥
सा᳘ हास्यै᳘षोदान᳘ ऽएव तद्वै त᳘दमृ᳘तममृ᳘त᳘ᳫँ᳘ ह्युदानः᳘[[!!]] सै᳘षा ऽमृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तो ऽमृ᳘तेन प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तं भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘न्माᳫँ᳭स᳘मेव तद्वै तन्म᳘र्त्यं म᳘र्त्यᳫँ᳭ हि᳘ माᳫँ᳭सं त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - Weber

चतुर्थीं चि᳘तिं चिनोति॥
सा᳘ हास्यैॗषोदान᳘ एव तद्वै त᳘दमृ᳘तममृ᳘तॗम् ह्युदाॗनः सैॗषामृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तोऽमृ᳘तेन प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तम् भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैत᳘न्मांस᳘मेव तद्वै तन्म᳘र्त्यम् म᳘र्त्यᳫं हि᳘ मांसं त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तम् भवति॥

मूलम् - विस्वरम्

चतुर्थीं चितिं चिनोति- सा हास्यैषोदान एव । तद्वै तदमृतम्। अमृतं ह्युदानः । सैषा ऽमृतचितिः । तदेतन्मर्त्यमुभयतो ऽमृतेन परिगृह्णाति । तेनास्यैतदमृतं भवति । अथ पुरीषं निवपति । तद्धास्यैतन्मांसमेव । तद्वै तन्मर्त्यम् । मर्त्यं हि मांसम् । तदेतस्मिन्नमृते प्रतिष्ठापयति । तेनास्यैतदमृतं भवति ॥ ५ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. He lays down the fourth layer,–this, doubtless, is his upward breathing 5, and it is an immortal (element), for the upward breathing is something immortal: this, then, is an immortal layer. He thus encompasses that mortal (element) on both sides by an immortal one, and thereby that part of him becomes immortal. He then scatters loose soil thereon,–this, doubtless, is his flesh, and it is a mortal (element), for flesh is mortal: he establishes it on that immortal (element), and thereby this part of him becomes immortal.

०६

विश्वास-प्रस्तुतिः

पञ्चमीं चि᳘तिं चिनोति॥
सा᳘ हास्यैषा᳘ समान᳘ ऽएव तद्वै त᳘दमृ᳘तममृ᳘तᳫँ᳭ हि᳘ समानः᳘[[!!]] सै᳘षा ऽमृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तो ऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृतं भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैतन्मे᳘द ऽएव तद्वै तन्म᳘र्त्यं म᳘र्त्यᳫँ᳭ हि मे᳘दस्त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - श्रीधरादि

पञ्चमीं चि᳘तिं चिनोति॥
सा᳘ हास्यैषा᳘ समान᳘ ऽएव तद्वै त᳘दमृ᳘तममृ᳘तᳫँ᳭ हि᳘ समानः᳘[[!!]] सै᳘षा ऽमृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तो ऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृतं भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैतन्मे᳘द ऽएव तद्वै तन्म᳘र्त्यं म᳘र्त्यᳫँ᳭ हि मे᳘दस्त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - Weber

पञ्चमीं चि᳘तिं चिनोति॥
सा᳘ हास्यैषा᳘ समान᳘ एव तद्वै त᳘दमृ᳘तममृ᳘तᳫं हि᳘ समाॗनः सैॗषामृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तोऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृतम् भवत्य᳘थ पु᳘रीषं नि᳘वपति त᳘द्धास्यैतन्मे᳘द एव तद्वै तन्म᳘र्त्यम् म᳘र्त्यᳫं हि मे᳘दस्त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तम् भवति॥

मूलम् - विस्वरम्

पञ्चमीं चितिं चिनोति- सा हास्यैषा समान एव । तद्वै तदमृतम् । अमृतं हि समानः । सैषा ऽमृतचितिः । तदेतन्मर्त्यमुभयतो ऽमृतेन परिगृह्णाति । तेनास्यैतदमृतं भवति । अथ पुरीषं निवपति । तद्धास्यैतन्मेद एव । तद्वै तन्मर्त्यम् । मर्त्यं हि मेदः । तदेतस्मिन्नमृते प्रतिष्ठापयति । तेनास्यैतदमृतं भवति ॥ ६ ॥

सायणः

[व्याख्यानं तृतीये]

Eggeling
  1. He lays down the fifth layer,–this, doubtless,

is his central (or pervading) breathing 6, and it is an immortal (element), for the central breathing is something immortal: this, then, is an immortal layer. He thus encompasses that mortal (element) on both sides by an immortal one, and thereby that part of him becomes immortal. He then scatters loose soil thereon,–this, doubtless, is his fat, and it is a mortal (element), for the fat is mortal: he establishes it on that immortal (element), and thereby this part of him becomes immortal.

०७

विश्वास-प्रस्तुतिः

षष्ठीं चि᳘तिं चिनोति॥
सा᳘ हास्यैषा व्वा᳘गेव तद्वै त᳘दमृ᳘तममृ᳘तᳫँ᳭ हि व्वा᳘क्सै᳘षा ऽमृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तो ऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तं भवत्य᳘थ पु᳘रिषं नि᳘वपति त᳘द्धास्यैतद᳘सृगेव त्व᳘गेव तद्वै तन्म᳘र्त्यं म᳘र्त्यᳫँ᳭ ह्य᳘सृङ्म᳘र्त्या त्वक्त᳘देत᳘स्मिन्नमृते[[!!]] प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - श्रीधरादि

षष्ठीं चि᳘तिं चिनोति॥
सा᳘ हास्यैषा व्वा᳘गेव तद्वै त᳘दमृ᳘तममृ᳘तᳫँ᳭ हि व्वा᳘क्सै᳘षा ऽमृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तो ऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तं भवत्य᳘थ पु᳘रिषं नि᳘वपति त᳘द्धास्यैतद᳘सृगेव त्व᳘गेव तद्वै तन्म᳘र्त्यं म᳘र्त्यᳫँ᳭ ह्य᳘सृङ्म᳘र्त्या त्वक्त᳘देत᳘स्मिन्नमृते[[!!]] प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तं भवति॥

मूलम् - Weber

षष्ठीं चि᳘तिं चिनोति॥
सा᳘ हास्यैषा वा᳘गेवतद्वै त᳘दमृ᳘ तममृ᳘तᳫं हि वाॗक्सैॗषामृतचितिस्त᳘देतन्म᳘र्त्यमुभय᳘तोऽमृते᳘न प᳘रिगृह्णाति ते᳘नास्यैत᳘दमृ᳘तम् भवत्य᳘थ पु᳘रिषं नि᳘वपति त᳘द्धास्यैतद᳘सृगेव त्व᳘गेव तद्वै तन्म᳘र्त्यम् म᳘र्त्यᳫं ह्य᳘सृङ्म᳘र्त्या त्वक्त᳘देत᳘स्मिन्नमृ᳘ते प्र᳘तिष्ठापयति ते᳘नास्यैत᳘दमृ᳘तम् भवति॥

मूलम् - विस्वरम्

षष्ठीं चितिं चिनोति- सा हास्यैषा वागेव । तद्वै तदमृतम् । अमृतं हि वाक् । सैषा ऽमृतचितिः । तदेतन्मर्त्यमुभयतो ऽमृतेन परिगृह्णाति । तेनास्यैतदमृतं भवति । अथ पुरीषं निवपति- तद्धास्यैतदसृगेव, त्वगेव । तद्वै तन्मर्त्यम् । मर्त्यं ह्यसृक्, मर्त्या त्वक् । तदेतस्मिन्नमृते प्रतिष्ठापयति । तेनास्यैतदमृतं भवति ॥ ७ ॥

सायणः

षष्ठीं चितिमिति । स्तोमभागानन्तरं पुरीषनिवपनविधानात्तदन्ता पञ्चमी चितिः । तत ऊर्ध्वं पुरीषचितेः प्राक् याः नाकसत्पञ्चचूडच्छन्दस्यादय इष्टका उपधीयन्ते- सा षष्ठी चितिः इति अष्टमे काण्डे प्रपञ्चेन निरूपितम्- “स्तोमभागा उपधाय पुरीषं निवपति सा पञ्चमी चितिः । अथ यदेतदूर्ध्वमा पुरीषात्सा षष्ठी चितिः” (श. प. ब्रा. ८ । ३ । ७) इति ॥ ७ ॥

Eggeling
  1. He lays down the sixth layer,–this, doubtless, is his voice, and it is an immortal (element), for the voice is something immortal: this, then, is an immortal layer. He thus encompasses that mortal (element) on both sides by an immortal one, and thereby that part of him becomes immortal. He then scatters loose soil thereon,–this, doubtless, is his blood and his skin, and it is a mortal (element), for blood is mortal, and skin is mortal: he establishes it on that immortal (element), and thereby this part of him becomes immortal.

०८

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएताः[[!!]]॥
ष᳘डिष्टकाचित᳘यः ष᳘ट्पुरीषचित᳘यस्तद्द्वा᳘दश द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘त्प्रजा᳘पतिरेक᳘धा ऽज᳘रममृ᳘तमात्मा᳘नमकुरुत त᳘थै᳘वैतद्य᳘जमान ऽएक᳘धा ऽज᳘रममृ᳘तमात्मा᳘नं कुरुते᳘॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः[[!!]]॥
ष᳘डिष्टकाचित᳘यः ष᳘ट्पुरीषचित᳘यस्तद्द्वा᳘दश द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘त्प्रजा᳘पतिरेक᳘धा ऽज᳘रममृ᳘तमात्मा᳘नमकुरुत त᳘थै᳘वैतद्य᳘जमान ऽएक᳘धा ऽज᳘रममृ᳘तमात्मा᳘नं कुरुते᳘॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
ष᳘डिष्टकाचित᳘यः ष᳘ट् पुरीषचित᳘यस्तद्द्वा᳘दश द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सॗरोऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘त्प्रजा᳘पतिरेकॗधाज᳘रममृ᳘तमात्मा᳘नमकुरुत त᳘थैॗवैतद्य᳘जमान एकॗधाज᳘रममृ᳘तमात्मा᳘नं कुरुते॥

मूलम् - विस्वरम्

ता वा एताः षडिष्टकाचितयः, षट् पुरीषचितयः, तद् द्वादश । द्वादश मासाः संवत्सरः । संवत्सरो ऽग्निः। यावानग्निर्यावत्यस्य मात्रा तावतैव तत्प्रजापतिरेकधा ऽजरममृतमात्मानमकुरुत । तथैवैतद्यजमान एकधा ऽजरममृतमात्मानं कुरुते ॥ ८ ॥

सायणः

चितिद्वयगतां संख्यामनूद्य सम्भूय संवत्सररूपाग्न्यात्मना प्रशंसति- ता वा एताः पडिष्टकाचितयः, षट् पुरीषचितय इति ॥ ८ ॥

Eggeling
  1. These, then, are six layers of bricks, and six layers of earth, that makes twelve,–the year (consists of) twelve months, and Agni is the year: as great as Agni is, as great as is his measure, with so much did Prajāpati then make his body uniformly undecaying and immortal; and in like manner does the Sacrificer now make his body uniformly undecaying and immortal.

०९

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ व्विकर्णीं᳘ च स्वयमातृण्णां᳘ चोपधा᳘य॥
हिरण्यशकलैः प्रो᳘क्षत्यग्नि᳘मभ्या᳘दधाति रूप᳘मेव त᳘त्प्रजा᳘पतिर्हिरण्मय᳘मन्तत᳘ ऽआत्म᳘नो ऽकुरुत तद्य᳘दन्ततस्त᳘स्मादिदम᳘न्त्यमात्म᳘नो रूपं त᳘स्मादाहुर्हिरण्म᳘यः प्रजा᳘पतिरि᳘ति त᳘थै᳘वैतद्य᳘जमानो रूप᳘मेव᳘ हिरण्मय᳘मन्तत᳘ ऽआत्म᳘नः कुरुते तद्य᳘दन्ततस्त᳘स्मादिदम᳘न्त्यमात्म᳘नो रूपं त᳘स्माद्ये᳘ चैत᳘द्विदुर्ये᳘ च न᳘ हिरण्म᳘यो ऽग्निचि᳘दमु᳘ष्मिल्ँ लोके स᳘म्भवती᳘त्ये᳘वाहुः॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ व्विकर्णीं᳘ च स्वयमातृण्णां᳘ चोपधा᳘य॥
हिरण्यशकलैः प्रो᳘क्षत्यग्नि᳘मभ्या᳘दधाति रूप᳘मेव त᳘त्प्रजा᳘पतिर्हिरण्मय᳘मन्तत᳘ ऽआत्म᳘नो ऽकुरुत तद्य᳘दन्ततस्त᳘स्मादिदम᳘न्त्यमात्म᳘नो रूपं त᳘स्मादाहुर्हिरण्म᳘यः प्रजा᳘पतिरि᳘ति त᳘थै᳘वैतद्य᳘जमानो रूप᳘मेव᳘ हिरण्मय᳘मन्तत᳘ ऽआत्म᳘नः कुरुते तद्य᳘दन्ततस्त᳘स्मादिदम᳘न्त्यमात्म᳘नो रूपं त᳘स्माद्ये᳘ चैत᳘द्विदुर्ये᳘ च न᳘ हिरण्म᳘यो ऽग्निचि᳘दमु᳘ष्मिल्ँ लोके स᳘म्भवती᳘त्ये᳘वाहुः॥

मूलम् - Weber

अ᳘थ विकर्णीं च स्वयमातृणां᳘ चोपधा᳘य॥
हिरण्यशकलैः प्रो᳘क्षत्यग्नि᳘मभ्या᳘दधाति रूप᳘मेव त᳘त्प्रजा᳘पतिर्हिरण्म᳘यमन्तत᳘ आत्म᳘नोऽकुरुत तद्य᳘दन्ततस्त᳘स्मादिदम᳘न्त्यमात्म᳘नो रूपं त᳘स्मादाहुर्हिरण्म᳘यः प्रजा᳘पतिरि᳘ति त᳘थैॗवैतद्य᳘जमानो रूप᳘मेव᳘ हिरण्म᳘यमन्तत᳘ आत्म᳘नः कुरुते तद्य᳘दन्ततस्त᳘स्मादिदम᳘न्त्यमात्म᳘नो रूपं त᳘स्माद्ये᳘ चैत᳘द्विदुर्ये᳘ च न᳘ हिरण्म᳘योऽग्निचि᳘दमु᳘ष्मिंलोके स᳘म्भवती᳘त्येॗवाहुः॥

मूलम् - विस्वरम्

अथ विकर्णीं च स्वयमातृण्णां चोपधाय- हिरण्यशकलैः प्रोक्षति । अग्निमभ्यादधाति । रूपमेव तत्प्रजापतिर्हिरण्मयमन्तत आत्मनो ऽकुरुत । तद्यदन्ततः- तस्मादिदमन्त्यमात्मनो रूपम् । तस्मादाहुः- हिरण्मयः प्रजापतिरिति । तथैवैतद्यजमानो रूपमेव हिरण्मयमन्तत आत्मनः कुरुते । तद्यदन्ततः- तस्मादिदमन्त्यमात्मनो रूपम् । तस्माद्ये चैतद्विदुः ये च न,- हिरण्मयो ऽग्निचिदमुष्मिल्ँ लोके सम्भवती-त्येवाहुः ॥ ९ ॥

सायणः

विकर्ण्यादीष्टकाहिरण्यशकलाहवनीयनिधानं हिरण्मयरूपत्वेन प्रशंसति- अथ विकर्णीं च स्वयमातृण्णामिति । विकर्णीनामिका स्वयमातुण्णानामिका च इष्टका । ‘सुवर्णशकलैः’ चित्याग्निं प्रोक्ष्य आहवनीयं निदधाति । एवमिष्टकाग्निविधानेन प्रजापतिः ‘अन्ततः’ अन्ते ‘हिरण्मयम्’ सुवर्णमयं रूपं स्वात्मनः कृतवान् । अतो ऽन्ते ‘आत्मनः’ सुवर्णरूपकरणेन प्रजापतिर्हिरण्मय इति वेदवादिन आहुः । तथा ऽयं यजमानः सर्वचितीनामन्ते हिरण्यशकलप्रोक्षणानन्तरमाहवनीयनिधानेन स्वात्मनो ऽपि हिरण्मयं ‘रूपं’ करोति । ‘तस्मात्’ विद्वांसो ऽभिज्ञाः पुरुषाः ‘ये’ चानभिज्ञास्ते उभये ऽपि ‘अग्निचित्’ अग्निं चितवान् यजमानः ‘अमुष्मिन्’ स्वर्गे ‘लोके’ ‘हिरण्मयो’ हिरण्यसमानवर्णः ‘सम्भवतीति’ अविवादेन वदन्तीत्यर्थः ॥ ९ ॥

Eggeling
  1. Having then laid down the Vikarṇī and Svayamātr̥ṇṇā, he scatters chips of gold, and places

the fire thereon: Prajāpati then finally made a golden form for his body; and inasmuch as (he did so) finally, this was the final form of his body; whence people speak of ’the golden Prajāpati 7.’ And in like manner does the Sacrificer now finally make a golden form for his body; and inasmuch as (he does so) finally, this is the final form of his body; and hence, whether they know this or not, people say that the Agnicit (he who has built an altar) is born in yonder world as one made of gold 8.

१०

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘द्धैतच्छा᳘ण्डिल्यश्च सा᳘प्तरथवाहनिश्च॥
(श्चा) आचार्यान्तेवासि᳘नौ᳘ व्यूदाते रूप᳘मे᳘वास्यैतदि᳘ति ह स्माह शा᳘ण्डिल्यो लो᳘मानी᳘ति सा᳘प्तरथवाहनिः॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘द्धैतच्छा᳘ण्डिल्यश्च सा᳘प्तरथवाहनिश्च॥
(श्चा) आचार्यान्तेवासि᳘नौ᳘ व्यूदाते रूप᳘मे᳘वास्यैतदि᳘ति ह स्माह शा᳘ण्डिल्यो लो᳘मानी᳘ति सा᳘प्तरथवाहनिः॥

मूलम् - Weber

त᳘द्धैतछा᳘ण्डिल्यश्च सा᳘प्तरथवाहनिश्च॥
आचार्यान्तेवासि᳘बौॗ व्यूदाते रूप᳘मेॗवास्यैतदि᳘ति ह स्माह शा᳘ण्डिल्यो लो᳘मानी᳘ति सा᳘प्तरथवाहनिः 3

मूलम् - विस्वरम्

तद्धैतच्छाण्डिल्यश्च साप्तरथवाहनिश्चाचार्यान्तेवासिनौ व्यूदाते । रूपमेवास्यैतदिति ह स्माह शाण्डिल्यः । लोमानीति साप्तरथवाहनिः ॥ १० ॥

सायणः

हिरण्यशकलाहवनीयनिधानं प्रजापतेर्हिरण्मयरूपमित्युक्तम् । तत्र गुरुशिष्ययोः संवादं दर्शयति- तद्धैतच्छाण्डिल्यश्च साप्तरथवाहनिश्चेति । ‘आचार्यान्तेवासिनौ’ ‘शाण्डिल्य’ आचार्यः इतरः शिष्यः ‘व्यूदाते’ विवादं कृतवन्तौ । विवादस्वरूपमाह- रूपमेवास्यैतदिति । ‘अस्य’ प्रजापतेः ‘एतत्’ हिरण्मयं रूपमिति शाण्डिल्यमतम् । ‘लोमानि’ एव न रूपमिति साप्तरथवाहनेः शिष्यस्य मतम् ॥ १० ॥

Eggeling
  1. Now, on this point, Śāṇḍilya and Sāptarathavāhani, teacher and pupil, were once disputing with one another: ‘This is his form,’ said Śāṇḍilya; ‘his hair,’ said Sāptarathavāhani.

११

विश्वास-प्रस्तुतिः

स᳘ होवाच शा᳘ण्डिल्यः॥
(ल्यो) रूपं वाव लो᳘मवद्रूप᳘मलो᳘मकᳫँ᳭ रूप᳘मे᳘वास्यैतदि᳘ति तद्वै तत्त᳘था य᳘था तच्छा᳘ण्डिल्य ऽउवा᳘च सं᳘चिते ऽग्निः प्र᳘णीयते प्र᳘णीतादूर्ध्व᳘ᳫँ᳘ समि᳘ध ऽआ᳘हुतय ऽइ᳘ति हूयन्ते॥

मूलम् - श्रीधरादि

स᳘ होवाच शा᳘ण्डिल्यः॥
(ल्यो) रूपं वाव लो᳘मवद्रूप᳘मलो᳘मकᳫँ᳭ रूप᳘मे᳘वास्यैतदि᳘ति तद्वै तत्त᳘था य᳘था तच्छा᳘ण्डिल्य ऽउवा᳘च सं᳘चिते ऽग्निः प्र᳘णीयते प्र᳘णीतादूर्ध्व᳘ᳫँ᳘ समि᳘ध ऽआ᳘हुतय ऽइ᳘ति हूयन्ते॥

मूलम् - Weber

स᳘ होवाच शा᳘ण्डिल्यः॥
रूपं वाव लो᳘मवद्रूप᳘मलो᳘मकं रूप᳘मेॗवास्यैतदि᳘ति तद्वै तत्त᳘था य᳘था तछा᳘ण्डिल्य उवा᳘च सं᳘चितेऽग्निः प्र᳘णीयते प्र᳘णीतादूर्ध्व᳘ᳫं᳘ समि᳘ध आ᳘हुतय इ᳘ति हूयन्ते॥

मूलम् - विस्वरम्

स होवाच शाण्डिल्यः- रूपं वाव लोमवत्, रूपमलोमकम्, रूपमेवास्यैतदिति । तद्वै तत् तथा-यथा तच्छाण्डिल्य उवाच । संचिते ऽग्निः प्रणीयते । प्रणीतादूर्ध्वं समिध आहुतय इति हूयन्ते ॥ ११ ॥

सायणः

एवं विवादे आचार्यः शाण्डिल्यो रूपमित्येव सोपपत्तिकं निश्चितवानित्याह- स होवाच शाण्डिल्य इति । ‘लोमवत्’ लोमयुक्तमपि ‘रूपम्’ भवति । ‘अलोमकम्’ लोमरहितमपि ‘रूपं’ भवति । अत ‘एतत्’ हिरण्मयत्वम् ‘अस्य’ प्रजापतेः ‘रूपं’ रूपमेवेत्यर्थः । शाण्डिल्योक्तमर्थं श्रुतिरनुमोदते- तद्वै तत्तथा यथा तच्छाण्डिल्य उवाचेति । चित्याग्निमभिलक्ष्याहवनीयाग्नेः प्राङ्मुखत्वेन प्रणयनं प्रशंसितुमाह- संचिते ऽग्निः प्रणीयत इति । ‘सञ्चिते’ इष्टकाचिते ऽग्नौ ‘अग्निः’ आहवनीयः ‘प्रणीयते’ प्राङ्मुखो नीयते ‘प्रणीतादूर्ध्वम्’ प्रणीते ऽग्नौ ‘समिध आहुतय’ इत्येवं ‘हूयन्ते’ ॥ ११ ॥

Eggeling
  1. Śāṇḍilya said, ‘Surely, there is a hairy form (as well as) a hairless form: his form it certainly is;’ and this, indeed, is as Śāṇḍilya has said: when it (the altar) is completely built, Agni is led forward; and after he has been led forward, logs of wood 9 are offered as ‘oblations.’

१२

विश्वास-प्रस्तुतिः

प्राणे᳘न वै᳘ देवा ऽअ᳘न्नमदन्ति॥
(न्त्य) अग्नि᳘रु देवा᳘नां प्राणस्त᳘स्मात्प्रा᳘ग्देवे᳘भ्यो जुह्वति प्राणे᳘न हि᳘ देवा ऽअ᳘न्नमद᳘न्त्यपाने᳘न मनु᳘ष्या ऽअ᳘न्नमदन्ति त᳘स्मात्प्रत्य᳘ङ्मनु᳘ष्येष्व᳘न्नं धीयते ऽपाने᳘न हि᳘ मनु᳘ष्या ऽअ᳘न्नमद᳘न्ति॥

मूलम् - श्रीधरादि

प्राणे᳘न वै᳘ देवा ऽअ᳘न्नमदन्ति॥
(न्त्य) अग्नि᳘रु देवा᳘नां प्राणस्त᳘स्मात्प्रा᳘ग्देवे᳘भ्यो जुह्वति प्राणे᳘न हि᳘ देवा ऽअ᳘न्नमद᳘न्त्यपाने᳘न मनु᳘ष्या ऽअ᳘न्नमदन्ति त᳘स्मात्प्रत्य᳘ङ्मनु᳘ष्येष्व᳘न्नं धीयते ऽपाने᳘न हि᳘ मनु᳘ष्या ऽअ᳘न्नमद᳘न्ति॥

मूलम् - Weber

प्राणे᳘न वै᳘ देवा अ᳘न्नमदन्ति॥
अग्नि᳘रु देवा᳘नाम् प्राणस्त᳘स्मात्प्रा᳘ग्देवे᳘भ्यो जुह्वति प्राणे᳘न हि᳘ देवा अ᳘न्नमद᳘न्त्यपाने᳘न मनुॗष्या अ᳘न्नमदन्ति त᳘स्मात्प्रत्य᳘ङ्मनुॗष्येष्व᳘न्नं धीयतेऽपाने᳘न हि᳘ मनुॗष्या अ᳘न्नमद᳘न्ति॥

मूलम् - विस्वरम्

प्राणेन वै देवा अन्नमदन्ति । अग्निरु देवानां प्राणः । तस्मात्प्राग् देवेभ्यो जुह्वति । प्राणेन हि देवा अन्नमदन्ति | अपानेन मनुष्या अन्नमदन्ति । तस्मात्प्रत्यङ्मनुष्येष्वन्नं धीयते । अपानेन हि मनुष्या अन्नमदन्ति ॥ १२ ॥

सायणः

प्राणेन वै देवा अन्नमदन्तीत्यादेरयमर्थः । यतः ‘अग्निः’ ‘देवानाम्’ प्राणभूतः ‘तस्मात्’ प्राणस्योर्ध्वगतित्वात्, ‘देवेभ्यः प्राक्’ प्राचा हस्तेनोर्ध्वं ‘जुह्वति’ होमं कुर्वन्ति यतो ‘देवाः’ ‘प्राणेन’ ‘अन्नमदन्ति’ ‘मनुष्याः’ खलु ‘अपानेन’ अवाङ्मुखेन वायुना भुञ्जते, तस्मादग्नेः प्रणयनं देवानां प्राङ्मुखत्वेन हवनमित्यर्थः ॥ १२ ॥

Eggeling
  1. By means of (the channel of) the out- (and in-) breathing the gods eat food, and Agni (the sacrificial fire) is the out-breathing of the gods; whence it is in front (of the sacrificial ground) that offering is made to the gods, for by means of the (channel of the) out-breathing the gods eat food. By means of the down-breathing men eat food, whence food

is introduced into men (from the front) towards the back, for by their down-breathing men eat food.

१३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्न) न व्व᳘यसो ऽग्निचि᳘दश्नीयाद्व᳘यो वा᳘ ऽएष᳘ रूपं᳘ भवति᳘ यो ऽग्निं᳘ चिनुत᳘ ऽईश्वर ऽआ᳘र्तिमा᳘र्तोस्त᳘स्मान्न व्व᳘यसो ऽग्निचि᳘दश्नीयादि᳘ति तद्वै का᳘ममे᳘वैवंवि᳘दश्नीयादग्नेर्व्वा᳘ ऽएष᳘ रूपं᳘ भवति᳘ यो ऽग्निं᳘ चिनुते स᳘र्व्वं वा᳘ इद᳘मग्नेर᳘न्नᳫँ᳭ स᳘र्व्वं म ऽइदम᳘न्नमि᳘त्येवैवंवि᳘द्विद्यादि᳘ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्न) न व्व᳘यसो ऽग्निचि᳘दश्नीयाद्व᳘यो वा᳘ ऽएष᳘ रूपं᳘ भवति᳘ यो ऽग्निं᳘ चिनुत᳘ ऽईश्वर ऽआ᳘र्तिमा᳘र्तोस्त᳘स्मान्न व्व᳘यसो ऽग्निचि᳘दश्नीयादि᳘ति तद्वै का᳘ममे᳘वैवंवि᳘दश्नीयादग्नेर्व्वा᳘ ऽएष᳘ रूपं᳘ भवति᳘ यो ऽग्निं᳘ चिनुते स᳘र्व्वं वा᳘ इद᳘मग्नेर᳘न्नᳫँ᳭ स᳘र्व्वं म ऽइदम᳘न्नमि᳘त्येवैवंवि᳘द्विद्यादि᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
न व᳘यसोऽग्निचि᳘दश्नीयाद्व᳘यो वा᳘ एष᳘ रूप᳘म् भवतिॗ योऽग्निं᳘ चिनुत᳘ ईश्वर आ᳘र्तिमा᳘तोस्तस्मान्न व᳘यसोऽग्निचि᳘दश्नीयादि᳘ति तद्वै का᳘ममेॗवैवंवि᳘दश्नीयादग्नेर्वा᳘ एष᳘ रूप᳘म् भवतिॗ योऽग्निं᳘ चिनुते स᳘र्वं वा᳘ इद᳘मग्नेर᳘न्नᳫं स᳘र्वम् म इदम᳘न्नमि᳘त्येवैवंवि᳘द्विद्यादि᳘ति॥

मूलम् - विस्वरम्

तदाहुः- न वयसो ऽग्निचिदश्नीयात् । वयो वा एष रूपं भवति- यो ऽग्निं चिनुते । ईश्वर आर्तिमार्तोः । तस्मान्न वयसो ऽग्निचिदश्नीयात्- इति । तद्वै काममेवैवंविदश्नीयात् । अग्निर्वा एष रूपं भवति यो ऽग्निं चिनुते । सर्वं वा इदमग्नेरन्नम् । सर्वं म इदमन्नमित्येवैवंविद्विद्यात्- इति ॥ १३ ॥

सायणः

अग्निचितः कञ्चिद्धर्मं विधत्ते- तदाहुर्न वयसो ऽग्निचिदिति । अग्निं चितवान् यजमानः ‘वयसः’ पक्षिणो ‘न अश्नीयात्’ 10 इति । तत्र हेतुमाह- वयो वा एष रूपमिति । ‘यो ऽग्निं चिनुते’ ‘एषः वयो रूपं’ ‘भवति’ । चित्याग्निरेव पक्षी अग्निचितः स्वरूपम् अतः पक्षिमांसभक्षणेन चित्याग्निमेव भक्षितवान् भवति । तथा च तैत्तिरीयके- “वयो वा अग्निर्यदग्निचित्पक्षिणो ऽश्नीयात्तमेवाग्निमद्यात्”- (तै. सं. ५ । ७ । ६) इति । ईश्वर आर्तिमार्तोरिति । ‘आर्त्तिम्’ दुःखम् ‘आर्त्तोः’ गन्तुमीश्वरो भवति । एवं पक्षिभक्षणवर्जननियममनूद्य तं दूषयति- तद्वै काममेवैवंविदश्नीयादिति । ‘एवंवित्’ चित्याग्निरूपः पक्षी स च स्वात्मा एवं जानानः पुरुषः ‘कामम्’ स्वेच्छया ‘अश्नीयात्’ । अत्र हेतुमाह- अग्निर्वा एष रूपमिति । ‘यः’ अग्निचित् स हि अग्निरूपः अतो यथा ऽग्नेः ‘सर्वम् अन्नम् भवति’ एवं मे अग्निरूपस्य मम ‘सर्वम् अन्नं भवति’ ‘इत्येव’- ‘एवंविद्’ ‘विद्यात्’ जानीयात् । तस्मात् कामं पक्षिणो ऽद्यादित्यर्थः ॥ १३ ॥

Eggeling
  1. Here, now, they say, ‘He who has built an altar must not eat of any bird, for he who builds a fire-altar becomes of a bird’s form; he would be apt to incur sickness: the Agnicit therefore must not eat of any bird.’ Nevertheless, one who knows this may safely eat thereof; for he who builds an altar becomes of Agni’s form, and, indeed, all food here belongs to Agni: whosoever knows this will know that all food belongs to him.

१४

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
किं त᳘दग्नौ᳘ क्रियते ये᳘न य᳘जमानः पुनर्मृत्युमपज᳘यती᳘त्यग्निर्व्वा᳘ ऽएष[[!!]] देव᳘ता भवति᳘ यो ऽग्निं᳘ चिनु᳘ते ऽमृ᳘तमु वा᳘ ऽअग्निः श्री᳘र्देवाः श्रि᳘यं गच्छति य᳘शो देवा य᳘शो ह भवति य᳘ ऽएवं व्वे᳘द॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
किं त᳘दग्नौ᳘ क्रियते ये᳘न य᳘जमानः पुनर्मृत्युमपज᳘यती᳘त्यग्निर्व्वा᳘ ऽएष[[!!]] देव᳘ता भवति᳘ यो ऽग्निं᳘ चिनु᳘ते ऽमृ᳘तमु वा᳘ ऽअग्निः श्री᳘र्देवाः श्रि᳘यं गच्छति य᳘शो देवा य᳘शो ह भवति य᳘ ऽएवं व्वे᳘द॥

मूलम् - Weber

त᳘दाहुः॥
किं त᳘दग्नौ᳘ क्रियते ये᳘न य᳘जमानः पुनर्मृत्यु᳘मपज᳘यती᳘त्यग्निर्वा᳘ 11 एष देव᳘ता भवतिॗ योऽग्निं᳘ चिनुॗतेऽमृ᳘तमु वा᳘ अग्निः श्री᳘र्देवाः श्रि᳘यं गछति य᳘शो देवा य᳘शो ह भवति य᳘ एवं वे᳘द॥

मूलम् - विस्वरम्

तदाहुः- किं तदग्नौ क्रियते- येन यजमानः पुनर्मृत्युमपजयतीति । अग्निर्वा ऽएष देवता भवति- यो ऽग्निं चिनुते । अमृतमु वा अग्निः, श्रीर्देवाः, श्रियं गच्छति । यशो देवाः । यशो ह भवति- य एवं वेद ॥ १४ ॥

सायणः

अग्निचयनसाध्यं फलं वेदवादिप्रश्नोत्तराभ्यां निरूपयति- तदाहुः किं तदग्नौ क्रियत इति । ‘येन’ कर्मणा ‘यजमानः’ ‘पुनर्मृस्युमपजयति’ तिरस्करोति तत्कर्म ‘किम् अग्नौ क्रियते’ इति तदर्थजातमाहुः पृष्टवन्तः । इतिशब्दः प्रश्नसमाप्त्यर्थः । उत्तरम्- अग्निर्वा इति । यो ऽग्निचित् ‘एषः’ अग्निर्देवता भवति । ‘अग्निः’ हि अमृतम् एवं यष्टा अमृतो भवति । पुनर्मृत्युं जितवान् भवति । ‘श्रीर्देवाः’ अग्न्यादयो देवाः श्रीरूपाः, अग्निकर्मणा ‘श्रियं गच्छति’ किं च ‘देवाः’ ‘यशः’-स्वरूपाः तदपि अग्निकर्मणा आप्नोति । वेदितुः फलमाह- यशो ह भवति य एवं वेदेति । यशोरूपो भवतीति भावः ॥ १४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे प्रथमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (१०-१-४)

Eggeling
  1. Here, now, they say, ‘What is done here in (the building of) the altar, whereby the Sacrificer conquers recurring death?’ Well, he who builds an altar becomes the deity Agni; and Agni (the fire), indeed, is the immortal (element);–the gods are splendour: he enters splendour; the gods are glory: he becomes glorious whosoever knows this.

  1. त᳘दमृ᳘तममृ᳘तᳫ. ↩︎

  2. 292:1 That is, the breath-proper, of the mouth and nose, passing upward into the air from the middle of the body. ↩︎

  3. हि स्ना᳘व A. ↩︎ ↩︎

  4. 293:1 The Vyāna, through-breathing, or circulating air, is the vital air which serves the upward air (or out- and in-breathing, prāṇa) and downward air (apana). Maitryup. II, 6 (Cowell). ↩︎

  5. 293:2 Or, outward breathing,–‘That which belches forth or keeps downwards the food eaten or drunken, this is the udāna;’ Cowell, ib. ↩︎

  6. 294:1 ‘The Samāna (equalizing air) distributes the digested pieces through the limbs.’ Maitryup. II, 6 (Cowell). ↩︎

  7. 295:1 Apparently an allusion to Hiraṇyagarbha, the golden germ, or the golden egg (XI, I, 6, I), from which the Purusha, creator of the universe, arose. Cf. also Aitareyār. II, I, 3, with Sāyaṇa’s commentary. ↩︎

  8. 295:2 Sāyaṇa assigns to ‘hiraṇmaya’ the meaning ‘of a colour resembling gold’ (hiraṇyasamānavarṇaḥ). ↩︎

  9. 295:3 See IX, 2, 3, 36 seq. ↩︎

  10. पक्ष्यभोजनम् । का. श्रौ. सू. १८ । ११२ । ↩︎

  11. पुनर्मृत्युम᳘पजयती᳘त्य A. ↩︎