०१
विश्वास-प्रस्तुतिः
प्रजा᳘पतिः प्रजा᳘ ऽअसृजत॥
स᳘ ऽऊर्ध्वे᳘भ्य ऽएव᳘ प्राणे᳘भ्यो देवान᳘सृजत ये᳘ ऽवाञ्चः प्राणास्ते᳘भ्यो म᳘र्त्याः प्रजा ऽअ᳘थोर्ध्व᳘मेव᳘ मृत्युं᳘ प्रजा᳘भ्योऽऽत्ता᳘रमसृजत॥
मूलम् - श्रीधरादि
प्रजा᳘पतिः प्रजा᳘ ऽअसृजत॥
स᳘ ऽऊर्ध्वे᳘भ्य ऽएव᳘ प्राणे᳘भ्यो देवान᳘सृजत ये᳘ ऽवाञ्चः प्राणास्ते᳘भ्यो म᳘र्त्याः प्रजा ऽअ᳘थोर्ध्व᳘मेव᳘ मृत्युं᳘ प्रजा᳘भ्योऽऽत्ता᳘रमसृजत॥
मूलम् - Weber
प्रजा᳘पतिः प्रजा᳘ असृजत॥
स᳘ ऊर्ध्वे᳘भ्य एव᳘ प्राणे᳘भ्यो देवान᳘सृजत ये᳘ऽवाञ्चः प्राणास्ते᳘भ्यो म᳘र्त्याः प्रजा अ᳘थोर्ध्व᳘मेव᳘ मृत्यु᳘म् प्रजा᳘भ्योऽत्ता᳘रमसृजत॥
मूलम् - विस्वरम्
प्रजापतिः प्रजा असृजत । स ऊर्ध्वेभ्य एव प्राणेभ्यो देवानसृजत । ये ऽवाञ्चः प्राणास्तेभ्यो मर्त्याः प्रजाः । अथोर्ध्वमेव मृत्युं प्रजाभ्यो ऽत्तारमसृजत ॥ १ ॥
सायणः
अग्निचयनेष्टकाहेतवो मृदापश्च, चित्याग्नेः पञ्चेष्टकाचितयः, पञ्च पुरीषचितयः चित्युपस्थानमन्त्रश्च । तत्र प्रजापतिरूपेणेष्टकाचितयः, पुरीषचितयः प्रजापतेर्मर्त्यामृतशरीरात्मना, मन्त्रोपस्थानं कृत्स्नशरीरसम्पादकत्वेन च तृतीयब्राह्मणे स्तूयते- प्रजापतिः प्रजा इति । पूर्वं ‘प्रजापतिः’ प्रजासर्जनकाले ऊर्ध्वप्राणेभ्यो देवप्रजाः सृष्टवान् । अवाग्भ्यः प्राणेभ्यो ‘मर्त्याः प्रजाः,’ । अथ चरमसृष्टानां मर्त्यप्रजानाम् ‘अत्तारम्’ भक्षयितारं ‘मृत्युं’ च सृष्टवान् ॥ १ ॥
Eggeling
- Prajāpati created living beings. From the out- (and in-) breathings he created the gods, and from the downward breathings the mortal beings; and
p. 290
above the (mortal) beings he created Death as their consumer.
०२
विश्वास-प्रस्तुतिः
त᳘स्य ह प्रजा᳘पतेः॥
(र) अर्ध᳘मेव म᳘र्त्यमा᳘सीदर्ध᳘ममृ᳘तं तद्य᳘दस्य म᳘र्त्यमा᳘सीत्ते᳘नमृत्यो᳘रबिभेत्स बि᳘भ्यदिमां प्रा᳘विशद्द्वयं᳘ भूत्वा मृच्चा᳘पश्च॥
मूलम् - श्रीधरादि
त᳘स्य ह प्रजा᳘पतेः॥
(र) अर्ध᳘मेव म᳘र्त्यमा᳘सीदर्ध᳘ममृ᳘तं तद्य᳘दस्य म᳘र्त्यमा᳘सीत्ते᳘नमृत्यो᳘रबिभेत्स बि᳘भ्यदिमां प्रा᳘विशद्द्वयं᳘ भूत्वा मृच्चा᳘पश्च॥
मूलम् - Weber
त᳘स्य ह प्रजा᳘पतेः॥
अर्ध᳘मेव म᳘र्त्यमा᳘सीदर्ध᳘ममृ᳘तं तद्य᳘दस्य म᳘र्त्यमा᳘सीत्ते᳘न मृत्यो᳘रबिभेत्स बि᳘भ्यादिमाम् प्रा᳘विशद्द्वय᳘म् भूत्वा मृच्चा᳘पश्च॥
मूलम् - विस्वरम्
तस्य ह प्रजापतेरर्धमेव मर्त्यमासीत् । अर्धममृतम् । तद्यदस्य मर्त्यमासीत्तेन मृत्योरबिभेत् । स बिभ्यदिमां प्राविशद्- द्वयं भूत्वा । मृच्चापश्च ॥ २ ॥
सायणः
एवंविधाः प्रजाः सृष्टवतः प्रजापतेः शरीरस्यार्द्धं ‘मर्त्यं’ मरणधर्मकं जातम्, ‘अर्धममृतम्’ । तत्र मर्त्यरूपेण स्वयमपि मर्त्यप्रजाभक्षकात् ‘मृत्योरबिभेत्’ ‘स बिभ्यदिमाम्’ भूमिं मृज्जलरूपेण प्रविष्टवान् ॥ २ ॥
Eggeling
- Now, one half of that Prajāpati was mortal, and the other half immortal: with that part of him which was mortal he was afraid of death; and, being afraid, he became twofold, clay and water, and entered this (earth).
०३
विश्वास-प्रस्तुतिः
स᳘ मृत्यु᳘र्देवा᳘नब्रवी᳘त्॥
(त्क्व) क्व᳘ नु᳘ सो ऽभूद्यो नो᳘ ऽसृष्टे᳘ति त्वद्बि᳘भ्यदिमां प्रा᳘विक्षदि᳘ति᳘ सो ऽब्रवीत्तं वा ऽअ᳘न्विच्छाम तᳫँ᳭ स᳘म्भराम न वा᳘ ऽअहं त᳘ᳫँ᳘ हिᳫँ᳭सिष्यामी᳘ति तं᳘ देवा᳘ ऽअस्या ऽअ᳘धि स᳘मभरन्य᳘दस्याप्स्वा᳘सीत्ता᳘ ऽअपः स᳘मभरन्न᳘थ य᳘दस्यां तां मृ᳘दं त᳘दुभ᳘यᳫँ᳭ सम्भृ᳘त्य मृ᳘दं चापश्चे᳘ष्टकामकुर्व्वंस्त᳘स्मादेत᳘दुभ᳘यमि᳘ष्टका भवति मृच्चा᳘पश्च॥
मूलम् - श्रीधरादि
स᳘ मृत्यु᳘र्देवा᳘नब्रवी᳘त्॥
(त्क्व) क्व᳘ नु᳘ सो ऽभूद्यो नो᳘ ऽसृष्टे᳘ति त्वद्बि᳘भ्यदिमां प्रा᳘विक्षदि᳘ति᳘ सो ऽब्रवीत्तं वा ऽअ᳘न्विच्छाम तᳫँ᳭ स᳘म्भराम न वा᳘ ऽअहं त᳘ᳫँ᳘ हिᳫँ᳭सिष्यामी᳘ति तं᳘ देवा᳘ ऽअस्या ऽअ᳘धि स᳘मभरन्य᳘दस्याप्स्वा᳘सीत्ता᳘ ऽअपः स᳘मभरन्न᳘थ य᳘दस्यां तां मृ᳘दं त᳘दुभ᳘यᳫँ᳭ सम्भृ᳘त्य मृ᳘दं चापश्चे᳘ष्टकामकुर्व्वंस्त᳘स्मादेत᳘दुभ᳘यमि᳘ष्टका भवति मृच्चा᳘पश्च॥
मूलम् - Weber
स᳘ मृत्यु᳘र्देवा᳘नब्रवीत्॥
क्व᳘ नुॗ सोऽभूद्यो नो᳘ऽसृष्टे᳘ति त्वद्बि᳘भ्यदिमाम् प्रा᳘विक्षदि᳘तिॗ सोऽब्रवीत्तं वा अ᳘न्विछाम तᳫं स᳘म्भराम न वा᳘ अहं त᳘ᳫं᳘ हिंसिष्यामी᳘ति तं᳘ देवा᳘ अस्या अ᳘धि स᳘मभरन्य᳘दस्याप्स्वा᳘सीत्ता᳘ अपः स᳘मभरन्न᳘थ य᳘दस्यां ताम् मृ᳘दं त᳘दुभ᳘यᳫं सम्भृ᳘त्य मृ᳘दं चापश्चे᳘ष्टकामकुर्वंस्त᳘स्मादेत᳘दुभ᳘यमि᳘ष्टका भवति मृच्चा᳘पश्च॥
मूलम् - विस्वरम्
स मृत्युर्देवानब्रवीत्- क्व नु सो ऽभूत्- यो नो ऽसृष्टेति । त्वद्बिभ्यदिमां प्राविक्षदिति । सो ऽब्रवीत् । तं वा ऽअन्विच्छाम । तं सम्भराम । न वा ऽअहं तं हिंसिष्यामीति । तं देवा अस्या अधि समभरन् । यदस्याप्स्वासीत्, ताः- अपः समभरन् । अथ यदस्यां- तां मृदम् । तदुभयं सम्भृत्य मृदं चापश्चेष्टकामकुर्वन् । तस्मादेतदुभयमिष्टका भवति । मृच्चापश्च ॥ ३ ॥
सायणः
भूप्रवेशमेव मृत्युदेवप्रश्नप्रतिवचनाभ्यामाह- स मृत्युर्देवानिति । एवं मृत्युभयेन प्रजापतो मृदुदकात्मना भूमिं प्रविष्टवति ‘मृत्युर्देवानब्रवीत्’ हे देवाः ! यः ‘नः’ अस्मान् मां युष्मांश्च ‘असृष्ट’ सृष्टवान् । ‘स क्व’ प्रदेशे ‘अभूत्’ इति मृत्योर्वचनम् । अथ देवा ऊचुः- हे मृत्यो ! ‘त्वत्’ त्वत्तः सकाशात् ‘बिभ्यत्’ ‘इमाम्’ भूमिं ‘प्राविक्षत्’ । विशेर्लुङि ‘शल इगुपधादनिटः क्सः"- (पा. सू. ३ । १ । ४५) । एवं देवैरुक्ते ‘स’ मृत्युः ‘अब्रवीत्’- तं स्रष्टारम् ‘अन्विच्छाम’ अन्विष्याम । ‘तं’ मृज्जलरूपं सम्भराम इच्छतेर्भरतेश्च लोटि बहुवचनम् । देवसाहित्येन ‘अहं’ तु ‘तं’ प्रजापतिं ‘न हिंसिष्यामि’ इति मृत्युनोक्ते देवाः ‘तम्’ प्रजापतिम् ‘अस्या ऽअधि’ अधिः पञ्चम्यर्थानुवादी; भूमेः सकाशात् सम्भृतवन्तः । तत्र मृदुदकयोः सम्भरणस्थानमाह- यदस्येति । ‘यद्’ अङ्गं प्रजापतेः ‘अप्सु’ प्रविष्टं ‘ताः अपः’ सम्भृतवन्तः । ‘यद्’ भूमौ ‘तां मृदम्’ इति ‘तदुभयं सम्भृत्य’ उभयेन इष्टकाः कृतवन्तः । तस्मादिदानीं मृज्जलाभ्यामिष्टकाः क्रियन्ते ॥ ३ ॥
Eggeling
- Death spake unto the gods saying, ‘What has become of him who has created us?’–‘Being afraid of thee, he has entered this (earth),’ they said. He spake, ‘Let us search for him, let us gather him up for I shall not injure him.’ The gods gathered him from out of this (earth): that part of him which was in the water, they gathered as water, and that which was in this (earth, they gathered) as clay. Having gathered together both clay and water, they made a brick, whence a brick consists of both clay and water.
०४
विश्वास-प्रस्तुतिः
त᳘देता वा᳘ ऽअस्य ताः[[!!]]॥
प᳘ञ्च म᳘र्त्यास्तन्व᳘ ऽआसल्ँलो᳘म त्व᳘ङ्माᳫँ᳭सम᳘स्थि मज्जा᳘ ऽथैता᳘ ऽअमृ᳘ता म᳘नो व्वा᳘क्प्राणश्च᳘क्षुः श्रो᳘त्रम्॥
मूलम् - श्रीधरादि
त᳘देता वा᳘ ऽअस्य ताः[[!!]]॥
प᳘ञ्च म᳘र्त्यास्तन्व᳘ ऽआसल्ँलो᳘म त्व᳘ङ्माᳫँ᳭सम᳘स्थि मज्जा᳘ ऽथैता᳘ ऽअमृ᳘ता म᳘नो व्वा᳘क्प्राणश्च᳘क्षुः श्रो᳘त्रम्॥
मूलम् - Weber
त᳘देता वा᳘ अस्य ताः᳟॥
प᳘ञ्च म᳘र्त्यास्तन्व᳘ आसंलो᳘म त्व᳘ङ्मांसम᳘स्थि मज्जा᳘थैता᳘ अमृ᳘ता म᳘नो वा᳘क्प्राणश्च᳘क्षुः श्रो᳘त्रम्॥
मूलम् - विस्वरम्
तदेता वा अस्य ताः पञ्च मर्त्यास्तन्व आसन्- लोम, त्वक्, मांसम्, अस्थि, मज्जा । अथैता अमृताः- मनः, वाक्, प्राणः, चक्षुः श्रोत्रम् ॥ ४ ॥
सायणः
अग्निचयने पञ्च इष्टकाचितयः, पञ्च पुरीषचितयः सन्ति । ताः प्रजापतेः मर्त्यामृतशरीराणीति प्रतिपादयति- तदेता वा ऽअस्य ता इति । ‘अस्य’ मृज्जलात्मनः प्रजापतेर्मरणधर्माणः पञ्चसंख्याका लोमत्वङ्मांसास्थिमज्जात्मकाः देहाः आसन् । लोमादीनि स्थूलशरीरगतानीति मर्त्यशब्देनोक्तानि । अथ मनो-वाक्-प्राण-चक्षुः-श्रोत्ररूपाः पञ्च अमृतरूपास्तन्वः । मनःप्रभृतीनां सूक्ष्मशरीरधर्मत्वात् स्थूलदेहनाशे ऽपि तदनाशादमृतत्वम् ॥ ४ ॥
Eggeling
- And, indeed, these five forms (bodily parts) of him are mortal–the hair on the mouth, the skin, the flesh, the bone, and the marrow; and these are immortal–the mind, the voice, the vital air; the eye, and the ear.
०५
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स यः स᳘ प्रजा᳘पतिः॥
(र) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘ ऽअस्य ताः प᳘ञ्च म᳘र्त्यास्तन्व᳘ ऽआ᳘सन्नेतास्ताः᳘ पुरीषचितयो᳘ ऽथ या᳘ ऽअमृ᳘ता ऽएतास्ता᳘ ऽइष्टकाचित᳘यः॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स यः स᳘ प्रजा᳘पतिः॥
(र) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘ ऽअस्य ताः प᳘ञ्च म᳘र्त्यास्तन्व᳘ ऽआ᳘सन्नेतास्ताः᳘ पुरीषचितयो᳘ ऽथ या᳘ ऽअमृ᳘ता ऽएतास्ता᳘ ऽइष्टकाचित᳘यः॥
मूलम् - Weber
स यः स᳘ प्रजा᳘पतिः॥
अय᳘मेव सॗ योऽय᳘मग्नि᳘श्चीयते᳘ऽथ या᳘ अस्य ताः प᳘ञ्च म᳘र्त्यास्तन्व᳘ आ᳘सन्नेतास्ताः᳘ पुरीषचितयो᳘ऽथ या᳘ अमृ᳘ता एतास्ता᳘ इष्टकाचित᳘यः॥
मूलम् - विस्वरम्
स यः स प्रजापतिः । अयमेव स यो ऽयमग्निश्चीयते । अथ या अस्य ताः पञ्च मर्त्यास्तन्व आसन्- एतास्ताः पुरीषचितयः । अथ या अमृताः- एतास्ता इष्टकाचितयः ॥ ५ ॥
सायणः
उभय्यः पञ्च तन्वश्चित्याग्नेरेवेति वक्तुं प्रजापतेस्तदात्मकतामाह- स यः स प्रजापतिरिति । तत्र ‘याः’ ‘मर्त्याः’ ‘पञ्च तन्वः’ ता एकैकेष्टकाचितेरुपरि निधीयमानाः पञ्च पुरीषचितयः । मनःप्रभृतयो ‘याः’ अमृततन्वः, ‘ता’ ‘इष्टकाचितयः’ ॥ ५ ॥
Eggeling
- Now, that Prajāpati is no other than the Fire-altar which is here built up, and what five mortal parts there were of him, they are these layers of earth; and those which were immortal they are these layers of bricks.
०६
विश्वास-प्रस्तुतिः
(स्ते᳘) ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्न) अमृ᳘तमिमं᳘ करवामे᳘ति त᳘स्यैता᳘भ्याममृ᳘ताभ्यां तनू᳘भ्यामेतां म᳘र्त्यां तनूं᳘ परिगृ᳘ह्यामृ᳘तामकुर्व्वन्निष्टकाचिति᳘भ्यां पुरीषचितिं त᳘था द्विती᳘यां त᳘था तृती᳘यां त᳘था चतुर्थीम्[[!!]]॥
मूलम् - श्रीधरादि
(स्ते᳘) ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्न) अमृ᳘तमिमं᳘ करवामे᳘ति त᳘स्यैता᳘भ्याममृ᳘ताभ्यां तनू᳘भ्यामेतां म᳘र्त्यां तनूं᳘ परिगृ᳘ह्यामृ᳘तामकुर्व्वन्निष्टकाचिति᳘भ्यां पुरीषचितिं त᳘था द्विती᳘यां त᳘था तृती᳘यां त᳘था चतुर्थीम्[[!!]]॥
मूलम् - Weber
ते᳘ देवा᳘ अब्रुवन्॥
अमृ᳘तमिमं᳘ करवामे᳘ति त᳘स्यैता᳘भ्याममृ᳘ताभ्यां तनू᳘भ्यामेताम् म᳘र्त्यां तनू᳘म् परिगृ᳘ह्यामृ᳘तामकुर्वन्निष्टकाचिति᳘भ्याम् पुरीषचितिं त᳘था द्विती᳘यां त᳘था तृती᳘यां त᳘था चतुर्थी᳘म्॥
मूलम् - विस्वरम्
ते देवा अब्रुवन्- अमृतमिमं करवामेति । तस्यैताभ्याममृताभ्यां तनूभ्यामेतां मर्त्यां तनूं परिगृह्यामृतामकुर्वन् । इष्टकाचितिभ्यां पुरीषचितिम् । तथा द्वितीयाम् । तथा तृतीयाम् । तथा चतुर्थीम् ॥ ६ ॥
सायणः
अथ मर्त्यशरीराणाममृतत्वकरणं दर्शयति- ते देवा अब्रुवन्नमृतमिममिति । ‘इमं’ मर्त्यामृतरूपेण द्विविधं प्रजापतिम् ‘अमृतम्’ ‘करवामेति’ ‘देवा’ विचार्य द्वाभ्याममृततनूभ्याम् एकां ‘मर्त्यां’ तनूं मध्ये निहिताम् ‘अमृताम्’ कृतवन्तः । अमृतशरीरद्वयेन एकमर्त्यशरीरस्यामृतीकरणं चित्याग्नौ दर्शयति- इष्टकाचितिभ्यां पुरीषचितिमिति । यथा प्रथमद्वितीयेष्टकाचितिभ्यामेकां प्रथमचितेरुपरि निहितां प्रथमां पुरीषचितिममृतां कृतवन्तः । एवं द्वितीयतृतीयाभ्यामितरां पुरीषचितिं तृतीयाचतुर्थीभ्यामपरां चतुर्थीपञ्चमीभ्यामन्यामिति पञ्चेष्टकाचितिभिश्चतस्रः पुरीषचितयो ऽमृतीकृताः ॥ ६ ॥
Eggeling
- The gods spake, ‘Let us make him immortal!’ Having encompassed that mortal form by those immortal forms of his, they made it immortal–the layer of earth by means of two layers of bricks: in like manner the second, the third, and the fourth (layers of earth).
p. 291
०७
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ पञ्चमीं चि᳘तिमुपधा᳘य॥
पु᳘रीषं नि᳘वपति त᳘त्र व्विकर्णीं᳘ च स्वयमातृण्णां चो᳘पदधाति हिरण्यशकलैः प्रो᳘क्षत्यग्नि᳘मभ्या᳘दधाति सा᳘ सप्तमी चि᳘तिस्त᳘दमृ᳘तमेव᳘मस्यैता᳘भ्याममृ᳘ताभ्यां तनू᳘भ्यामेतां म᳘र्त्यां तनूं᳘ परिगृ᳘ह्यामृतामकुर्व्वन्निष्टकाचिति᳘भ्यां[[!!]] पुरीषचितिं त᳘तो वै᳘ प्रजा᳘पतिरमृ᳘तो ऽभवत्त᳘थै᳘वैतद्य᳘जमान ऽएत᳘ममृ᳘तमात्मा᳘नं कृत्वा᳘ सो ऽमृ᳘तो भवति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ पञ्चमीं चि᳘तिमुपधा᳘य॥
पु᳘रीषं नि᳘वपति त᳘त्र व्विकर्णीं᳘ च स्वयमातृण्णां चो᳘पदधाति हिरण्यशकलैः प्रो᳘क्षत्यग्नि᳘मभ्या᳘दधाति सा᳘ सप्तमी चि᳘तिस्त᳘दमृ᳘तमेव᳘मस्यैता᳘भ्याममृ᳘ताभ्यां तनू᳘भ्यामेतां म᳘र्त्यां तनूं᳘ परिगृ᳘ह्यामृतामकुर्व्वन्निष्टकाचिति᳘भ्यां[[!!]] पुरीषचितिं त᳘तो वै᳘ प्रजा᳘पतिरमृ᳘तो ऽभवत्त᳘थै᳘वैतद्य᳘जमान ऽएत᳘ममृ᳘तमात्मा᳘नं कृत्वा᳘ सो ऽमृ᳘तो भवति॥
मूलम् - Weber
अ᳘थ पञ्चमीं चि᳘तिमुपधा᳘य॥
पु᳘रीषं नि᳘वपति त᳘त्र वकर्णीं᳘ च स्वयमातृणां चो᳘पदधाति हिरण्यशकलैः प्रो᳘क्षत्यग्नि᳘मभ्या᳘दधाति सा᳘ सप्तमी चि᳘तिस्त᳘दमृ᳘तमेव᳘मस्यैता᳘भ्याममृ᳘ताभ्यां तनू᳘भ्यामेताम् म᳘र्त्यां तनू᳘म् परिगृ᳘ह्यामृ᳘तामकुर्वन्निष्टकाचिति᳘भ्याम् पुरीषचितिं त᳘तो वै᳘ प्रजा᳘पतिरमृ᳘तोऽभवत्त᳘थैॗवैतद्य᳘जमान एत᳘ममृ᳘तमात्मा᳘नं कृत्वाॗ सोऽमृ᳘तो भवति॥
मूलम् - विस्वरम्
अथ पञ्चमीं चितिमुपधाय पुरीषं निवपति । तत्र विकर्णीं च स्वयमातृण्णां चोपदधाति । हिरण्यशकलैः प्रोक्षति, अग्निमभ्यादधाति । सा सप्तमी चितिः । तदमृतम् । एवमस्यैताभ्याममृताभ्यां तनूभ्यामेतां मर्त्यां तनूं परिगृह्यामृतामकुर्वन्- इष्टकाचितिभ्यां पुरीषचितिम् । ततो वै प्रजापतिरमृतो ऽभवत् । तथैवैतद्यजमान एतममृतमात्मानं कृत्वा सो ऽमृतो भवति ॥ ७ ॥
सायणः
यदि द्वाभ्यामेकस्यामृतीकरणं चेत् पञ्चम्याः पुरीषचितेरुपरि चित्यन्तराभावात्तस्या अमृतत्वं नास्तीत्याशङ्क्याह- अथ पञ्चमीं चितिमिति । पञ्चम्या इष्टकाचितेरुपरि निहितायाः पञ्चम्याः पुरीषचितेरुपरि विकर्णीं नामैकामिष्टकां स्वयमातृण्णां नामैकामिष्टकां ‘चोपधाय’ ‘हिरण्यशकलैः’ सम्प्रोक्ष्य तत्राहवनीयाग्नेराधानं सप्तमी चितिरिति व्यवह्रियते अतः पञ्चमीसप्तमीभ्यामिष्टकाचितिभ्यां तन्मध्यस्थितायाः पुरीषचितेरमृतीकरणमिति प्रजापतेः सर्वशरीराणाममृतत्वात् तस्यैवामृतत्वं संपन्नम् । एवं यजमानो ऽपि भाविशरीररूपचित्याग्नेरिष्टकाभिरमृतीकरणेन स्वयममृतो भवतीत्यर्थः ॥ ७ ॥
Eggeling
- And having laid down the fifth layer (of bricks), he (the Adhvaryu) scatters earth on it; thereon he lays the Vikarṇī and the Svayamātr̥ṇṇā, scatters chips of gold, and places the fire: that is the seventh layer, and that (part) is immortal; and in this way, having encompassed that mortal form of his by those two immortal forms, they made it immortal,–the layer of earth by means of two layers of bricks. Thereby, then, Prajāpati became immortal; and in like manner does the Sacrificer become immortal by making that body (of the altar) immortal.
०८
विश्वास-प्रस्तुतिः
ते वै᳘ देवास्तं᳘[[!!]] नाविदुः॥
(र्य᳘) य᳘द्येनᳫँ᳭ स᳘र्व्वं वा᳘ ऽकुर्व्वन्न᳘ वा स᳘र्व्वं यद्य᳘ति वा᳘ ऽरेचयन्न᳘ वा ऽभ्या᳘पयंस्त᳘ ऽएतामृ᳘चमपश्यन्धामच्छ᳘दग्निरि᳘न्द्रो ब्रह्मा᳘ देवो बृ᳘हस्प᳘तिः॥ स᳘चेतसो व्वि᳘श्वे देवा᳘ यज्ञं प्रा᳘वन्तु नः शुभ ऽइ᳘ति॥
मूलम् - श्रीधरादि
ते वै᳘ देवास्तं᳘[[!!]] नाविदुः॥
(र्य᳘) य᳘द्येनᳫँ᳭ स᳘र्व्वं वा᳘ ऽकुर्व्वन्न᳘ वा स᳘र्व्वं यद्य᳘ति वा᳘ ऽरेचयन्न᳘ वा ऽभ्या᳘पयंस्त᳘ ऽएतामृ᳘चमपश्यन्धामच्छ᳘दग्निरि᳘न्द्रो ब्रह्मा᳘ देवो बृ᳘हस्प᳘तिः॥ स᳘चेतसो व्वि᳘श्वे देवा᳘ यज्ञं प्रा᳘वन्तु नः शुभ ऽइ᳘ति॥
मूलम् - Weber
ते वै᳘ देवाॗस्तं नाविदुः॥
य᳘द्येनᳫं स᳘र्वं वा᳘कुर्वन्न᳘ वा स᳘र्वं यद्य᳘ति वा᳘रेचयन्न᳘ वाभ्या᳘पयंस्त᳘ एतामृ᳘चमपश्यन्धामछ᳘दग्निरि᳘न्द्रो ब्रह्मा᳘ देवो बृ᳘हस्प᳘तिः॥
स᳘चेतसो वि᳘श्वे देवा᳘ यज्ञम् प्रा᳘वन्तु नः शुभ इ᳘ति॥
मूलम् - विस्वरम्
ते वै देवास्तं नाविदुः- यद्येनं सर्वं वा ऽकुर्वन्- न वा सर्वं, यद्यति वा ऽरेचयन्- न वा ऽभ्यापयन् । त एतामृचमपश्यन् । “धामच्छदग्निरिन्द्रो ब्रह्मा देवो बृहस्पतिः । सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभे”- (वा. सं. १८ । ७६) इति ॥ ८ ॥
सायणः
चित्याग्नेर्न्यूनातिरेकपरिहाराय मन्त्रेणोपस्थानं देवाः कृतवन्त इत्यर्थ श्रुतिः स्वयमेव देवकर्तृकाज्ञानपुरःसरं निरूपयति- ते वै देवास्तं नाविदुरिति । ‘ते’ ‘देवाः’ ‘तम्’ अर्थम् ‘नाविदुः’ न ज्ञातवन्तः । ‘यदि’ ‘एनम्’ अग्निं सम्पूर्णं कुर्युः, अथवा ‘सर्वं’ न कुर्युः । यदि वा अतिरिक्तं कुर्युः । ‘न’ ‘वा ऽभ्यापयन्’ न्यूनं वा कुर्युरित्येवमर्थं न ज्ञातवन्त इत्यर्थः । तत्तद्दोषपरिजिहीर्षया उपस्थानमन्त्रं दृष्टवन्त इत्याह- त एतामृचमिति । ऋचो ऽयमर्थः- धामानि तेजांसि स्थानानि वा च्छादयतीति ‘धामच्छदग्निः’ एते ऽग्न्यादयो ‘देवाः’ ‘सचेतसः समानमनस्काः’ ‘नः’ अस्मदीयं यज्ञं ‘शुभे’ शोभने विषये ‘प्रावन्तु’ रक्षन्तु पूरयन्त्विति ॥ ८ ॥
Eggeling
- But the gods knew not whether they had made him complete, or not; whether they had made him too large, or left him defective. They saw this verse (Vāj. S. XVIII, 76), ‘The seat-hiding Agni, Indra, god Brahman, Br̥haspati, and the wise All-gods may speed our sacrifice unto bliss!’
०९
विश्वास-प्रस्तुतिः
त᳘स्या ऽअ᳘स्त्ये᳘वाग्नेयम्[[!!]]॥
(म᳘) अ᳘स्त्यैन्द्रम᳘स्ति व्वैश्वदेवं तद्य᳘दस्या ऽआग्नेयं य᳘दे᳘वैत᳘स्याग्ने᳘राग्नेयं त᳘दस्य ते᳘न स᳘मस्कुर्व्वन्य᳘दैन्द्रं त᳘दैन्द्रे᳘ण य᳘द्वैश्वदेवं त᳘द्वैश्वदेवे᳘न तम᳘त्रैव स᳘र्व्वं कृत्स्नᳫँ᳭ स᳘मस्कुर्व्वन्॥
मूलम् - श्रीधरादि
त᳘स्या ऽअ᳘स्त्ये᳘वाग्नेयम्[[!!]]॥
(म᳘) अ᳘स्त्यैन्द्रम᳘स्ति व्वैश्वदेवं तद्य᳘दस्या ऽआग्नेयं य᳘दे᳘वैत᳘स्याग्ने᳘राग्नेयं त᳘दस्य ते᳘न स᳘मस्कुर्व्वन्य᳘दैन्द्रं त᳘दैन्द्रे᳘ण य᳘द्वैश्वदेवं त᳘द्वैश्वदेवे᳘न तम᳘त्रैव स᳘र्व्वं कृत्स्नᳫँ᳭ स᳘मस्कुर्व्वन्॥
मूलम् - Weber
त᳘स्या अ᳘स्त्येॗवाग्नेय᳘म्॥
अ᳘स्त्यैन्द्रम᳘स्ति वैश्वदेवं तद्य᳘दस्या आग्नेयं य᳘देॗवैत᳘स्याग्ने᳘राग्नेयं त᳘दस्य ते᳘न स᳘मस्कुर्वन्य᳘दैन्द्रं त᳘दैन्द्रे᳘ण य᳘द्वैश्वदेवं त᳘द्वैश्वदेवे᳘न तम᳘त्रैव स᳘र्वं कृत्स्नᳫं स᳘मस्कुर्वन्॥
मूलम् - विस्वरम्
तस्या अस्त्येवाग्नेयम् । अस्त्यैन्द्रम् । अस्ति वैश्वदेवम् । तद्यदस्या आग्नेयम्- यदेवैतस्याग्नेराग्नेयम् । तदस्य तेन समस्कुर्वन् । यदैन्द्रम्- तदैन्द्रेण । यद्वैश्वदेवम्- तद्वैश्वदेवेन । तमत्रैव सर्वं कृत्स्नं समस्कुर्वन् ॥ ९ ॥
सायणः
मन्त्रगताग्नीन्द्रविश्वदेवपदैः प्रतिपाद्याभिः सवनदेवताभिः सवनत्रयव्यापिचित्याग्नेः संस्कृतत्वमाह- तस्या अस्त्येवाग्नेयमिति । यदस्या ऋच ‘आग्नेयम्’ अग्निदेवतासन्बन्धस्तेन ‘अग्नेः’ आग्नेयेन स्वरूपेण ‘तं’ चित्याग्निं संस्कृतवन्त इत्यनेन प्रातःसवनव्यापित्वमुक्तम् । एवं माध्यन्दिने सवने ऐन्द्रेण स्वरूपेण । तृतीये विश्वदेवरूपेण संस्कृतवन्त इत्यनेनाग्नेः कृत्स्नसंस्कार उक्तः ॥ ९ ॥
Eggeling
- Of this (verse) one part is Agni’s, one part Indra’s, and one part the All-gods’;–with that part thereof which is Agni’s they made up that part of him (Prajāpati) which is Agni’s, and with Indra’s (part) that which is Indra’s, and with the All-gods’ (part) that which is the All-gods’: in this very (fire-altar) they thus made him up wholly and completely.
१०
विश्वास-प्रस्तुतिः
(र्व्वंस्त) तद्य᳘देत᳘योपति᳘ष्ठते॥
य᳘दे᳘वास्या᳘त्र व्विद्वान्वा᳘ ऽविद्वान्वा᳘ ऽति वा रेच᳘यति न᳘ वा ऽभ्याप᳘यति त᳘दे᳘वास्यैत᳘या स᳘र्व्वमाप्नोति य᳘दस्य किंचा᳘नाप्तमनुष्टु᳘ब्धामच्छ᳘द्भवति व्वाग्वा᳘ ऽअनुष्टु᳘ब्वा᳘ग्धामच्छ᳘द्वा᳘चै᳘वास्य त᳘दाप्नोति य᳘दस्य किञ्चा᳘नाप्तं पु᳘रीषवतीं चि᳘तिं कृत्वो᳘पतिष्ठेते᳘त्यु है᳘क ऽआहुस्त᳘त्र हि सा स᳘र्व्वा कृत्स्ना भ᳘वती᳘ति॥
मूलम् - श्रीधरादि
(र्व्वंस्त) तद्य᳘देत᳘योपति᳘ष्ठते॥
य᳘दे᳘वास्या᳘त्र व्विद्वान्वा᳘ ऽविद्वान्वा᳘ ऽति वा रेच᳘यति न᳘ वा ऽभ्याप᳘यति त᳘दे᳘वास्यैत᳘या स᳘र्व्वमाप्नोति य᳘दस्य किंचा᳘नाप्तमनुष्टु᳘ब्धामच्छ᳘द्भवति व्वाग्वा᳘ ऽअनुष्टु᳘ब्वा᳘ग्धामच्छ᳘द्वा᳘चै᳘वास्य त᳘दाप्नोति य᳘दस्य किञ्चा᳘नाप्तं पु᳘रीषवतीं चि᳘तिं कृत्वो᳘पतिष्ठेते᳘त्यु है᳘क ऽआहुस्त᳘त्र हि सा स᳘र्व्वा कृत्स्ना भ᳘वती᳘ति॥
मूलम् - Weber
तद्य᳘देत᳘योपति᳘ष्ठते॥
य᳘देॗवास्या᳘त्र विद्वान्वा᳘विद्वान्वा᳘ति वा रेच᳘यति न᳘ वाभ्याप᳘यति त᳘देॗवास्यैत᳘या स᳘र्वमाप्नोति य᳘दस्य किं चा᳘नाप्तमनुष्टु᳘ब्धामछ᳘द्भवति वाग्वा᳘ अनुष्टुब्वा᳘ग्धामछ᳘द्वाॗचैॗवास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तम् पु᳘रीषवतीं चि᳘तिं कृत्वो᳘पतिष्ठेते᳘त्यु है᳘क आहुस्त᳘त्र हिसा स᳘र्वा कृत्स्ना भ᳘वती᳘ति॥
मूलम् - विस्वरम्
तद्यदेतयोपतिष्ठते, यदेवास्यात्र विद्वान्वा ऽविद्वान्वा ऽति वा रेचयति, न वा ऽभ्यापयति, तदेवास्यैतया सर्वमाप्नोति । यदस्य किञ्चानाप्तम् । अनुष्टुब्धामच्छद्भवति । वाग्वा अनुष्टुब्, वाग्धामच्छद्, वाचैवास्य तदाप्नोति- यदस्य किञ्चानाप्तम् । पुरीषवतीं चितिं कृत्वोपतिष्ठेतेत्यु हैक आहुः । तत्र हि सा सर्वा कृत्स्ना भवतीति ॥ १० ॥
सायणः
अनया ऋचोपस्थाने पूर्वोक्तासर्वकरणादिदोषपरिहारो भवतीत्याह - तद्यदतेयोपतिष्ठत इति । यदस्य किञ्चेति । ‘अस्य’ अग्नेः यत्किञ्चन स्वरूपमनाप्तं तत् ‘सर्वम्’ ‘एतया’ ऋचा आप्तवान् भवति । ऋग्गतमनुष्टुप्छन्दो वाग्रूपेण प्रशंसति- अनुष्टुब्धामच्छदिति । धामच्छदग्निः इत्यृक् अनुष्टुप् वाग्रूपा, चतुष्पात्त्वसाम्यात् । “चत्वारि वाक्परिमिता पदानि” (श. प. ४ । १ । ३ । १७) इति वाचः पादचतुष्टयमाम्नातम् । परा, पश्यन्ती, मध्यमा, वैखरी, इत्येतत्पदचतुष्टयमन्यैर्व्याख्यातम् । “अग्निर्वाग्भूत्वा मुखं प्राविशत्”- इत्यग्नेर्वाक्त्वम् । उपस्थानकालमाह- पुरीषवतीं चितिमिति । अन्तिमां ‘पुरीषवतीम्’ ‘चितिम्’ कृत्वा, अनेन मन्त्रेणोपस्थानमिति ‘एके’ आचार्या आहुरिति । सर्वासां चितीनामन्ते उपस्थानेन ‘सा चितिः समिष्टा’ ‘कृत्स्ना’ संपूर्णा भवतीति । उपस्थाने मन्त्रभेदं वक्तुम् ‘एक आहुः’ इति पक्षान्तरमुक्तं न तु चित्यन्तरान्ते उपस्थानमिति वक्ष्यमाणो ऽपि वैकल्पिको मन्त्रो ऽन्तिमपुरीषचितेरनन्तरमेवोपस्थाने विनियोक्तव्यः ॥ १० ॥
Eggeling
- And when he stands by (the altar, worshipping it) with this (verse), he thereby secures (makes good) all that part of him (Prajāpati) which, whether he knows it or not, he either does in excess or insufficiently in this (fire-altar),–whatever has not been secured for him. The ‘seat-hiding’ (verse) is an Anushṭubh, for the Anushṭubh is speech, and the seat-hider is speech: it is by speech that he
p. 292
secures for him what was not secured for him. ‘Let him approach (the altar with this verse) when he has covered a layer with earth,’ say some, ‘for then that (layer) becomes whole and complete.’
११
विश्वास-प्रस्तुतिः
त᳘दु वा᳘ ऽआहुः॥
(र्य᳘) य᳘विष्ठवत्यैवो᳘पतिष्ठेतैत᳘द्धास्य प्रियं धा᳘म यद्य᳘विष्ठ ऽइ᳘ति तद्य᳘दस्य प्रियं धा᳘म ते᳘नास्य त᳘दाप्नोति य᳘दस्य किंचा᳘नाप्तमाग्ने᳘य्या ऽग्निकर्म हि᳘ गायत्र्या᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्य त᳘दाप्नोति य᳘दस्य किंचा᳘नाप्तम᳘निरुक्तया स᳘र्व्वं वा ऽअ᳘निरुक्तᳫँ᳭ स᳘र्व्वेणै᳘वास्य त᳘दाप्नोति य᳘दस्य किंचा᳘नाप्तं त्वं᳘ यविष्ठ दाशु᳘ष ऽइ᳘ति त᳘स्योक्तो ब᳘न्धुः पु᳘रीषवतीं चि᳘तिं कृत्वो᳘पतिष्ठेत त᳘त्र हि सा स᳘र्व्वा कृत्स्ना भ᳘वति॥
मूलम् - श्रीधरादि
त᳘दु वा᳘ ऽआहुः॥
(र्य᳘) य᳘विष्ठवत्यैवो᳘पतिष्ठेतैत᳘द्धास्य प्रियं धा᳘म यद्य᳘विष्ठ ऽइ᳘ति तद्य᳘दस्य प्रियं धा᳘म ते᳘नास्य त᳘दाप्नोति य᳘दस्य किंचा᳘नाप्तमाग्ने᳘य्या ऽग्निकर्म हि᳘ गायत्र्या᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्य त᳘दाप्नोति य᳘दस्य किंचा᳘नाप्तम᳘निरुक्तया स᳘र्व्वं वा ऽअ᳘निरुक्तᳫँ᳭ स᳘र्व्वेणै᳘वास्य त᳘दाप्नोति य᳘दस्य किंचा᳘नाप्तं त्वं᳘ यविष्ठ दाशु᳘ष ऽइ᳘ति त᳘स्योक्तो ब᳘न्धुः पु᳘रीषवतीं चि᳘तिं कृत्वो᳘पतिष्ठेत त᳘त्र हि सा स᳘र्व्वा कृत्स्ना भ᳘वति॥
मूलम् - Weber
त᳘दु वा᳘ आहुः॥
य᳘विष्ठवत्यैवो᳘पतिष्ठेतैत᳘द्धास्य प्रियं धा᳘म यद्य᳘विष्ठ इ᳘ति तद्य᳘दस्य प्रियं धा᳘म ते᳘नास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तमाग्नेॗय्याग्निकर्म हि᳘ गायत्र्या᳘गायॗत्रोऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव᳘स्य त᳘ दाप्नोति य᳘दस्य किं चा᳘नाप्तम᳘निरुक्तया स᳘र्वं वा अ᳘निरुक्तᳫं स᳘र्वेणैॗवास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तं त्वं᳘ यविष्ठ दाशु᳘ष इ᳘ति त᳘स्योक्तो ब᳘न्धुः पु᳘रीषवतीं चि᳘तिं कृत्वो᳘पतिष्ठेत त᳘त्र हि सा स᳘र्वा कृत्स्ना भ᳘वति॥
मूलम् - विस्वरम्
तदु वा आहुः- यविष्ठवत्यैवोपतिष्ठेत । एतद्धास्य प्रियं धाम यद्यविष्ठ इति । तद्यदस्य प्रियं धाम तेनास्य तदाप्नोति । यदस्य किञ्चानाप्तम् । आग्नेय्या । अग्निकर्म हि । गायत्र्या । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति- यदस्य किञ्चानाप्तम् | अनिरुक्तया । सर्वं वा अनिरुक्तम्, सर्वेणैवास्य तदाप्नोति- यदस्य किञ्चानाप्तम् । “त्वं यविष्ठ दाशुषः”- (वा. सं. १८ । ७७) इति । तस्योक्तो बन्धुः । पुरीषवतीं चितिं कृत्वोपतिष्ठेत । तत्र हि सा सर्वा कृत्स्ना भवति ॥ ११ ॥
सायणः
तं मन्त्रमाह- तदु वा आहुर्यविष्ठवत्येति । यविष्ठपदवत्या ऋचेत्यर्थः । पूर्वं धामच्छदग्निरिति- अग्नेर्धामच्छदिति गुणो ऽभिहितः । अत्रापि तमेव गुणं दर्शयितुं यविष्ठपदस्य धामार्थतामाह- एतद्धास्य प्रियं धाम यद्यविष्ठ इति । धामनामेत्यर्थः । अस्या ऋचो ऽग्निदेवत्यत्वं च प्रशंसति- आग्नेय्या ऽग्निकर्म हीति । यस्माद् ‘अग्नेः’ ‘कर्म’ तस्माद् ‘आग्नेय्या’ अग्निदेवत्यया उपस्थानम् । ‘गायत्र्या’ अनया । अग्नेर्गायत्रत्वं षष्ठे काण्डे ऽभिहितम्- “अष्टावग्निरूपाणि, अष्टाक्षरा गायत्री, गायत्रो ऽग्निः” (श. प. ब्रा. ६ । १ । ३ । १९) इति । ‘अग्निर्यावान्’ यावत्परिमाण इति अवयविपरिमाणवचनम् । ‘अस्य’ अग्नेः यावती मात्रा इति अवयवपरिमाणवचनम् । अस्याग्नेस्तद्रूपं तावता तत्परिमाणरूपेण आप्तवान् भवति । अनिरुक्तयेति । अस्पष्टाग्निलिङ्गया ऋचेत्यर्थः । सर्वं वा अनिरुक्तमिति । निर्वक्तुमनर्हम् अनिरुक्तम् । यविष्ठपदवतीमृचं पठति- त्वं यविष्ठ दाशुष इति । एषा ऽऽग्नेयी, यद्यपि अग्न्यादिपदं स्पष्टतया न प्रतीयते अथापि सूक्तस्याग्नेयत्वादस्या अप्याग्नेयत्वं प्रकरणादवसीयते । अस्य मन्त्रस्य व्याख्यापकं ब्राह्मणमतिदिशति- तस्योक्तो बन्धुरिति । सप्तमकाण्डस्योपरिभागे- “यद्वै जात इदं सर्वमयुवत तस्माद्यविष्ठस्त्वं यविष्ठ दाशुष इति, यजमानो वै दाश्वान्” (श. प. ७ । ५ । २ । ३८ । ३९) इत्यादिना । उपस्थानकालमाह- पुरीषवतीं चितिं कृत्वेति । पूर्ववद् व्याख्येयम् ॥ ११ ॥
इति श्रीसायणाचार्यविरचितमाधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे प्रथमे ऽध्याये तृतीयं ब्राह्मणम् ॥ (१०-१-३) ॥