०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिरिमाल्ँ᳘लोका᳘नैप्सत्॥
(त्स᳘) स᳘ ऽएतं व्व᳘योविधमात्मा᳘नमपश्यदग्निं तं᳘ व्यधत्त[[!!]] ते᳘नेमं᳘ लोक᳘माप्नोत्स᳘ द्विती᳘यं व्व᳘योविधमात्मा᳘नमपश्यन्महाव्व्रतं त᳘द्व्यधत्त[[!!]] ते᳘नान्त᳘रिक्षमाप्नोत्स᳘ तृती᳘यं व्वयो᳘विधमात्मा᳘नमपश्यन्मह᳘दुक्थं[[!!]] त᳘द्व्यधत्त[[!!]] ते᳘न दि᳘वमाप्नोत्॥

मूलम् - श्रीधरादि

प्रजा᳘पतिरिमाल्ँ᳘लोका᳘नैप्सत्॥
(त्स᳘) स᳘ ऽएतं व्व᳘योविधमात्मा᳘नमपश्यदग्निं तं᳘ व्यधत्त[[!!]] ते᳘नेमं᳘ लोक᳘माप्नोत्स᳘ द्विती᳘यं व्व᳘योविधमात्मा᳘नमपश्यन्महाव्व्रतं त᳘द्व्यधत्त[[!!]] ते᳘नान्त᳘रिक्षमाप्नोत्स᳘ तृती᳘यं व्वयो᳘विधमात्मा᳘नमपश्यन्मह᳘दुक्थं[[!!]] त᳘द्व्यधत्त[[!!]] ते᳘न दि᳘वमाप्नोत्॥

मूलम् - Weber

प्रजा᳘पतिरिमां᳘लोका᳘नैप्सत्॥
स᳘ एतं व᳘योविधमात्मा᳘नमपश्यदग्निं तं व्य᳘धत्त ते᳘नेमं᳘ लोक᳘माप्नोत्स᳘ द्विती᳘यं व᳘योविधमात्मा᳘नमपश्यन्महाव्रतं तद्व्य᳘धत्त ते᳘नान्त᳘रिक्षमाप्नोत्स᳘ तृती᳘यं वयो᳘विधमात्मा᳘नमपश्यन्मह᳘दुक्थं᳘ 1 तद्व्य᳘धत्त ते᳘न दि᳘वमाप्नोत्॥

मूलम् - विस्वरम्

प्रजापतिरिमाल्ँ लोकानैप्सत् । स एतं वयोविधमात्मानमपश्यत् । अग्निं तं व्यधत्त । तेनेमं लोकमाप्नोत् । स द्वितीयं वयोविधमात्मानमपश्यत् । महाव्रतं तद्व्यधत्त । तेनान्तरिक्षमाप्नोत् । स तृतीयं वयोविधमात्मानमपश्यत् । महदुक्थं तद्व्यधत्त । तेन दिवमाप्नोत् ॥ १ ॥

सायणः

पूर्वं महाव्रतयज्ञे सह प्रयुक्तानि अग्निचयनमहाव्रतसाममहदुक्थशस्त्राणि त्रीण्यपि पक्ष्याकाराणि अधिदैवं, पृथिव्यन्तरिक्षद्युलोकात्मकानि अध्यात्मं मनःप्राणवाग्रूपाणि चेति द्वितीयब्राह्मणे प्रतिपाद्यते । ज्योतिष्टोमयज्ञ एवैतेषां त्रयाणां सम्पादनप्रकारश्चोच्यते- प्रजापतिरिमाल्ँ लोकानैप्सदिति । ‘ऐप्सत्’ आप्तुमैच्छत्, आप्नोतेः सनि (पा. सू. ७ । ४ । ५४) अभ्यासलोपे (पा. सू. ७ । ४ । ५८) “आप्ज्ञप्यृधामीत्”- (पा. सू. ७ । ४ । ५५) पश्चादाडागमे वृद्धौ रूपम् । ‘सः’ प्रजापतिः ‘एतम्’ ‘आत्मानं’ ‘वयोविधम्’ पक्ष्याकारम् ‘अपश्यत्’ ‘तम्’ पक्ष्याकारम् ‘अग्निम्’ चित्याग्निं ‘व्यधत्त’ । चित्याग्नेः पक्ष्याकारत्वं श्रूयते- “श्येनचितं चिन्वीत, कङ्कचितं चिन्वीत”- (तै. सं. ५ । ४ । ११) इत्यादि । ‘तेन’ अग्निना ‘एनम्’ भूलोकम् ‘आप्नोत्’ । ‘द्वितीयं’ पक्ष्याकारम् ‘आत्मानम्’ महाव्रतसामत्येनाकरोत् । ‘तेन’ साम्ना ‘अन्तरिक्षमाप्नोत्’ । ‘तृतीयम्’ पक्ष्याकारम् ‘आत्मानम्’ ‘बृहदुक्थम्’ बृहतीसहस्रात्मकं शस्त्रं ‘व्यधत्त’ । ‘तेन’ शस्त्रेण द्युलोकं प्राप्तवान् ॥ १ ॥

Eggeling
  1. Prajāpati was desirous of gaining these worlds. He saw this bird-like body, the Fire-altar: he

fashioned it, and thereby gained this (terrestrial) world. He saw a second bird-like body, the (chant of the) Great Rite 2: he fashioned it, and thereby gained the air. He saw a third bird-like body, the Great Litany 2: he fashioned it, and thereby gained the sky.

०२

विश्वास-प्रस्तुतिः

(द) अयं वाव᳘ लोक᳘ ऽए᳘षो ऽग्नि᳘श्चि᳘तः[[!!]]॥
(तो ऽन्त᳘) अन्त᳘रिक्षं महाव्व्रतं द्यौ᳘र्मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्व्वाणि सहो᳘पेयादग्निं᳘ महाव्व्रतं᳘ मह᳘दुक्थ᳘ᳫँ᳘ सह᳘ हीमे᳘ लोका ऽअ᳘सृज्यन्त तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘ते ऽय᳘ᳫँ᳘[[!!]] ह्येषां᳘ लोका᳘नां प्रथ᳘मो ऽसृज्यते᳘त्यधिदेवतम्[[!!]]॥

मूलम् - श्रीधरादि

(द) अयं वाव᳘ लोक᳘ ऽए᳘षो ऽग्नि᳘श्चि᳘तः[[!!]]॥
(तो ऽन्त᳘) अन्त᳘रिक्षं महाव्व्रतं द्यौ᳘र्मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्व्वाणि सहो᳘पेयादग्निं᳘ महाव्व्रतं᳘ मह᳘दुक्थ᳘ᳫँ᳘ सह᳘ हीमे᳘ लोका ऽअ᳘सृज्यन्त तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘ते ऽय᳘ᳫँ᳘[[!!]] ह्येषां᳘ लोका᳘नां प्रथ᳘मो ऽसृज्यते᳘त्यधिदेवतम्[[!!]]॥

मूलम् - Weber

अयं वाव᳘ लोक᳘ एॗषोऽग्नि᳘श्चितः᳟॥
अन्त᳘रिक्षम् महाव्रतं द्यौ᳘र्मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्वाणि सहो᳘पेयादग्नि᳘म् महाव्रत᳘म् मह᳘दुक्थ᳘ᳫं᳘ सहॗ हीमे᳘ लोका अ᳘सृज्यन्त तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘तेॗऽयᳫं ह्येषां᳘ लोका᳘नाम् प्रथॗमोऽसृज्यते᳘त्यधिदेवत᳘म् 3

मूलम् - विस्वरम्

अयं वाव लोकः- एषो ऽग्निश्चितः । अन्तरिक्षं महाव्रतम् । द्यौर्महदुक्थम् । तस्मादेतानि सर्वाणि सहोपेयात् । अग्निम्, महाव्रतम्, महदुक्थम् । सह हीमे लोका असृज्यन्त । तद्यदग्निः प्रथमश्चीयते- अयं ह्येषां लोकानां प्रथमो ऽसृज्यत । इत्यधिदेवतम् ॥ २ ॥

सायणः

उक्तानां भूम्यादिलोकानामग्न्यादेश्चाभेदविवक्षया तदात्मकतामाह**- अयं वाव लोक एषो ऽग्निरि**ति । यस्मादिमे त्रयो लोकाः सहासृज्यन्त । ‘तस्मादेतानि’ त्रीणि अग्निमहाव्रतबृहदुक्थानि सहानुतिष्ठेत् । तत्र त्रिषु मध्ये ‘प्रथमः’ ‘अग्निः’ इष्टकाभिः ‘चीयते’ । एवं ‘लोकानां’ मध्ये भूलोक एव प्रथमः सृष्टः ‘इत्यधिदेवतम्’ त्रयाणामग्न्यादीनामर्थ उक्तः ॥ २ ॥

Eggeling
  1. This built Fire-altar, doubtless, is this (terrestrial) world, the Great Rite the air, and the Great Litany the sky: all these, the Fire-altar, the Great Rite, and the Great Litany, one ought therefore to undertake together, for these worlds were created together; and as to why the Fire-altar is built first, it is because of these worlds this (terrestrial) one was created first. Thus with regard to the deity.

०३

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थाध्यात्मम्[[!!]]॥
(म्म᳘) म᳘न ऽए᳘वाग्निः᳘ प्राणो᳘ महाव्व्रतं व्वा᳘ङ्मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्व्वाणि सहो᳘पेयात्सह हि म᳘नः प्राणो व्वाक्तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘ते म᳘नो हि᳘ प्रथमं᳘ प्राणा᳘नाम्॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थाध्यात्मम्[[!!]]॥
(म्म᳘) म᳘न ऽए᳘वाग्निः᳘ प्राणो᳘ महाव्व्रतं व्वा᳘ङ्मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्व्वाणि सहो᳘पेयात्सह हि म᳘नः प्राणो व्वाक्तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘ते म᳘नो हि᳘ प्रथमं᳘ प्राणा᳘नाम्॥

मूलम् - Weber

अ᳘थाध्यात्म᳘म्॥
म᳘न एॗवाग्निः᳘ प्राणो᳘ महाव्रतं वा᳘ङ्मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्वाणि सहो᳘पेयात्सह हि म᳘नः प्राणो वाक्तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘ते म᳘नो हि᳘ प्रथम᳘म् प्राणा᳘नाम्॥

मूलम् - विस्वरम्

अथाध्यात्मम् । मन एवाग्निः । प्राणो महाव्रतम् । वाङ्महदुक्थम् । तस्मादेतानि सर्वाणि सहोपेयात् । सह हि मनः प्राणो वाक् । तद्यदग्निः प्रथमश्चीयते । मनो हि प्रथमं प्राणानाम् ॥ ३ ॥

सायणः

अध्यात्ममपि दर्शयति- अथाध्यात्ममिति | आत्मन्यधिकृत्य अध्यात्मम् । विभक्त्यर्थे ऽव्ययीभावः (पा. सू. २ । १ । ६) “अनश्च”- (पा. सू. ५ । ४ । १०८) इति समासान्तष्टच् प्रत्ययः । अग्न्यादीनि त्रीणि मनःप्राणवागात्मकानि यथा ऽग्निः ‘प्रथमश्चीयते’ एवं ‘प्राणानां’ ‘मन’ एव ‘प्रथमम्’ ॥ ३ ॥

Eggeling
  1. Now with regard to the body. The Fire-altar is the mind, the (chant of the) Great Rite the breath, and the Great Litany speech: all these one ought therefore to undertake together, for mind, breath, and speech belong together; as to why the Fire-altar is built first, it is because the mind is prior to the breathings.

०४

विश्वास-प्रस्तुतिः

(मा᳘) आ᳘त्मै᳘वाग्निः᳘॥
प्राणो᳘ महाव्व्रतं व्वा᳘ङ्मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्व्वाणि सहो᳘पेयात्सह᳘ ह्यात्मा᳘ प्राणो व्वाक्तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘त ऽआत्मा हि᳘ प्रथमः᳘ संभ᳘वतः संभ᳘वति॥

मूलम् - श्रीधरादि

(मा᳘) आ᳘त्मै᳘वाग्निः᳘॥
प्राणो᳘ महाव्व्रतं व्वा᳘ङ्मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्व्वाणि सहो᳘पेयात्सह᳘ ह्यात्मा᳘ प्राणो व्वाक्तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘त ऽआत्मा हि᳘ प्रथमः᳘ संभ᳘वतः संभ᳘वति॥

मूलम् - Weber

आॗत्मैॗवाग्निः᳟॥
प्राणो᳘ महाव्रतं वा᳘ङ् मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्वाणि सहो᳘पेयात्सहॗ ह्यात्मा᳘ प्राणो वाक्तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘त आत्मा हि᳘ प्रथमः᳘ सम्भ᳘वतः सम्भ᳘वति॥

मूलम् - विस्वरम्

आत्मैवाग्निः । प्राणो महाव्रतम् । वाङ्महदुक्थम् । तस्मादेतानि सर्वाणि सहोपेयात् । सह ह्यात्मा प्राणो वाक् । तद्यदग्निः प्रथमश्चीयते । आत्मा हि प्रथमः सम्भवतः सम्भवति ॥ ४ ॥

सायणः

अध्यात्ममेव प्रकारान्तरेण तानि त्रीणि स्तौति- आत्मैवाग्निरिति । अग्न्यादय आत्मप्राणवागात्मकाः । आत्मा हि प्रथम इति । ‘सम्भवतः’ उत्पद्यमानस्य पुरुषस्य ‘प्रथमः आत्मा’ मध्यशरीरं ‘सम्भवति’ ॥ ४ ॥

Eggeling
  1. The Fire-altar, indeed, is the body (trunk), the Great Rite the breath, and the Great Litany speech: all these one ought therefore to undertake together, for body, breath, and speech belong together; and as to why the Fire-altar is built first, it is because of him who is produced the trunk is produced first.

०५

विश्वास-प्रस्तुतिः

शि᳘र ऽए᳘वाग्निः᳘॥
प्राणो᳘ महाव्व्रत᳘मात्मा᳘ मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्व्वाणि सहो᳘पेयात्सह हि शि᳘रः प्राण᳘ ऽआत्मा तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘ते शि᳘रो हि᳘ प्रथमं जा᳘यमानस्य जा᳘यते त᳘स्माद्य᳘त्रैता᳘नि स᳘र्व्वाणि सह᳘ क्रिय᳘न्ते मह᳘दे᳘वोक्थ᳘मातमां᳘ ख्यायत ऽआत्मा हि᳘ मह᳘दुक्थम्[[!!]]॥

मूलम् - श्रीधरादि

शि᳘र ऽए᳘वाग्निः᳘॥
प्राणो᳘ महाव्व्रत᳘मात्मा᳘ मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्व्वाणि सहो᳘पेयात्सह हि शि᳘रः प्राण᳘ ऽआत्मा तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘ते शि᳘रो हि᳘ प्रथमं जा᳘यमानस्य जा᳘यते त᳘स्माद्य᳘त्रैता᳘नि स᳘र्व्वाणि सह᳘ क्रिय᳘न्ते मह᳘दे᳘वोक्थ᳘मातमां᳘ ख्यायत ऽआत्मा हि᳘ मह᳘दुक्थम्[[!!]]॥

मूलम् - Weber

शि᳘र एॗवाग्निः᳟॥
प्राणो᳘ महाव्रत᳘मात्मा᳘ मह᳘दुक्थं त᳘स्मादेता᳘नि स᳘र्वाणि सहो᳘पेयात्सह हि शि᳘रः प्राण᳘ आत्मा तद्य᳘दग्निः᳘ प्रथम᳘श्चीय᳘ते शि᳘रो हि᳘ प्रथमं जा᳘यमानस्य जा᳘यते त᳘स्माद्य᳘त्रैता᳘नि स᳘र्वाणि सह᳘ क्रिय᳘न्ते मह᳘देॗवोक्थ᳘मातमां᳘ ख्यायत आत्मा हि᳘ मह᳘दुक्थ᳘म्॥

मूलम् - विस्वरम्

शिर एवाग्निः । प्राणो महाव्रतम् । आत्मा महदुक्थम् । तस्मादेतानि सर्वाणि सहोपेयात् । सह हि शिरः प्राण आत्मा । तद्यदग्निः प्रथमश्चीयते । शिरो हि प्रथमं जायमानस्य जायते । तस्माद्यत्रैतानि सर्वाणि सह क्रियन्ते । महदेवोक्थमातमां रूपायते । आत्मा हि महदुक्थम् ॥ ५ ॥

सायणः

अन्यथैतत्त्रयं स्तौति- शिर एवाग्निरिति । अग्निचयनमहाव्रतसामबृहदुक्थानि शिरःप्राणात्मरूपाण्यनुसन्धेयानि, यस्मादग्निः ‘प्रथमः चीयते’ तस्मात् ‘जायमानस्य’ पुरुषस्य शिर एव प्रथमं योनेः सकाशादुत्पद्यते । तस्माद्यत्र यज्ञे ‘एतानि’ ‘सर्वाणि’ त्रीणि ‘सह’ ‘क्रियन्ते’ तत्र ‘महदुक्थम्’ ‘आख्यायतेतमाम्’ सम्पूर्णमुच्यते । बृहतीसहस्रात्मकत्वात्सम्पूर्णोक्तिः । सम्पूर्णोक्तौ युक्त्यन्तरमाह- आत्मा हीति । ‘हि’ यस्मात् ‘महदुक्थम्’ ‘आत्मा’ तत्स्वरूपम् । आत्मनस्तु सर्वाङ्गेभ्यो ऽपि स्थूलत्वात् ॥ ५ ॥

Eggeling
  1. The Fire-altar, indeed, is the head, the Great Rite the breath, and the Great Litany the body:

one ought therefore to undertake all these together, for head, breath, and body belong together; and as to why the Fire-altar is built first, it is because of him who is born the head is born first; and hence, whenever all these are undertaken together the Great Litany, indeed, is accounted the highest (ātamām) 4, for the Great Litany is the body (or self, ātman).

०६

विश्वास-प्रस्तुतिः

(न्त᳘) त᳘दाहुः॥
(र्य᳘) य᳘देता᳘नि स᳘र्व्वाणि सह᳘ दुरुपा᳘पानि᳘ कैते᳘षामु᳘पाप्तिरि᳘ति ज्यो᳘तिष्टोम ऽए᳘वाग्निष्टोमे ज्यो᳘तिष्टोमेनै᳘वाग्निष्टोमे᳘न यजेत॥

मूलम् - श्रीधरादि

(न्त᳘) त᳘दाहुः॥
(र्य᳘) य᳘देता᳘नि स᳘र्व्वाणि सह᳘ दुरुपा᳘पानि᳘ कैते᳘षामु᳘पाप्तिरि᳘ति ज्यो᳘तिष्टोम ऽए᳘वाग्निष्टोमे ज्यो᳘तिष्टोमेनै᳘वाग्निष्टोमे᳘न यजेत॥

मूलम् - Weber

त᳘दाहुः॥
य᳘देता᳘नि स᳘र्वाणि सह᳘ दुरुपा᳘पानिॗ कैते᳘षामु᳘पाप्तिरि᳘ति ज्यो᳘तिष्टोम एॗवाग्निष्टोमे ज्यो᳘तिष्टोमेनैॗवाग्निष्टोमे᳘न यजेत॥

मूलम् - विस्वरम्

तदाहुः- यदेतानि सर्वाणि सह दुरुपापानि । कैतेषामुपाप्तिरिति । ज्योतिष्टोम एवाग्निष्टोमे । ज्योतिष्टोमेनैवाग्निष्टोमेन यजेत ॥ ६ ॥

सायणः

महाव्रतयज्ञे तावदेतान्यग्निमहाव्रतसामबृहदुक्थान्यविनाभूतानि । तेषामधिदैवमध्यात्मं च पृथिव्यादिरूपता मनःप्राणादिरूपता चोक्ता । अधुना प्रथमसंस्थारूपज्योतिष्टोमाग्निष्टोमं महाव्रतयज्ञात्मना स्तोतुं तत्रैवाग्निचयनादित्रयस्योपाप्तिं ब्रह्मवादिप्रश्नोत्तराभ्यां दर्शयति- तदाहुर्यदेतानि सर्वाणीति । यस्मात् ‘एतानि सर्वाणि’ त्रीण्यग्निचयनमहाव्रतसामबृहदुक्थानि सह युगपत्, ‘दुरुपापानि’ आप्नोतेः खल् प्रत्ययः । उपाप्तुमशक्यानि सर्वेषां महाव्रतयज्ञानुष्ठाने प्रयोगबाहुल्येन ऋत्विक्सम्पादनादेर्दुष्करत्वेन चानधिकारात् । तथा चैतरेयकम्- “नादीक्षितो महाव्रतं शंसेन्नानग्नौ न परस्मात्”- इत्यादि । अतः ‘एतेषां’ त्रयाणां ‘का’ कीदृशी ‘उपाप्तिः’ आप्तिः सम्पादनप्रकारः । कुत्र प्रदेशे तेषामाप्तिरिति प्रश्नार्थः । आप्तिस्थानं दर्शयति- ज्योतिष्टोम एवाग्निष्टोम इति । अतस्तस्मिन्पक्षे त्रयाणां सम्पादनात् ज्योतिष्टोमाग्निष्टोमेन यागः कर्त्तव्यः । तत्राग्निष्टोम इति पदेनाग्निस्तवनोक्तेरग्निचयनमुक्तमिति मन्तव्यम् । अग्निष्टोमशब्दस्याग्निस्तवनार्थोक्तिरैतरेयकब्राह्मणे समाम्नाता- “स वा एषो ऽग्निरेव यदग्निष्टोमस्तं यदस्तुवंस्तस्मादग्निस्तोमस्तमग्निस्तोमं सन्तमग्निष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः” (ऐ. ब्रा. १४ । ५ । ४३) इति ॥ ६ ॥

Eggeling
  1. As to this they say, ‘If all these are difficult to obtain together, what (means of) obtaining them is there?’–In the Jyotishṭoma (form of the) Agnishṭoma 5: let him perform offering with the Jyotishṭoma Agnishṭoma.

०७

विश्वास-प्रस्तुतिः

त᳘स्य वा ऽएत᳘स्य ज्यो᳘तिष्टोमस्याग्निष्टोम᳘स्य॥
त्रिवृ᳘द्बहिष्पवमानं त᳘द्व्रत᳘स्य शि᳘रः पञ्चदशसप्तदशा ऽउ᳘त्तरौ प᳘वमानौ तौ᳘ पक्षौ᳘ पञ्चदशᳫँ᳭ हो᳘तुरा᳘ज्यᳫँ᳭ सप्तदशं᳘ पृष्ठ᳘मेकविᳫँ᳭शं᳘ यज्ञायज्ञि᳘यं तत्पु᳘च्छम्॥

मूलम् - श्रीधरादि

त᳘स्य वा ऽएत᳘स्य ज्यो᳘तिष्टोमस्याग्निष्टोम᳘स्य॥
त्रिवृ᳘द्बहिष्पवमानं त᳘द्व्रत᳘स्य शि᳘रः पञ्चदशसप्तदशा ऽउ᳘त्तरौ प᳘वमानौ तौ᳘ पक्षौ᳘ पञ्चदशᳫँ᳭ हो᳘तुरा᳘ज्यᳫँ᳭ सप्तदशं᳘ पृष्ठ᳘मेकविᳫँ᳭शं᳘ यज्ञायज्ञि᳘यं तत्पु᳘च्छम्॥

मूलम् - Weber

त᳘स्य वा एत᳘स्य ज्यो᳘तिष्टोमस्याग्निष्टोम᳘स्य॥
त्रिवृ᳘द्बहिष्पवमानं त᳘द्व्रत᳘स्य शि᳘रः पञ्चदशसप्तदशा उ᳘त्तरौ प᳘वमानौ तौ᳘ पक्षौ᳘ पञ्चदशᳫं हो᳘तुरा᳘ज्यᳫं सप्तदश᳘म् पृष्ठ᳘मेकविंशं᳘ यज्ञायज्ञि᳘यं तत्पु᳘छम्॥

मूलम् - विस्वरम्

तस्य वा एतस्य ज्योतिष्टोमस्याग्निष्टोमस्य त्रिवृद्बहिष्पवमानम् । तद्व्रतस्य शिरः । पञ्चदशसप्तदशा ऽउत्तरौ पवमानौ । तौ पक्षौ । पञ्चदशं होतुराज्यं सप्तदशं पृष्ठम् । एकविंशं यज्ञायज्ञियम् । तत्पुच्छम् ॥ ७ ॥

सायणः

पक्ष्याकारस्य महाव्रतसाम्नो हि शिरः पक्षमध्यपुच्छात्मकाः पञ्चावयवाः । “शिरो गायत्रम् । राथन्तरं दक्षिणः पक्षः । बृहदुत्तरः पक्षः । भद्रसाम पुच्छम् । राजनसाम ह्यात्मा” इति । तत्सर्वमग्निष्टोमे सम्पादयति- तस्य वा एतस्येत्यादिना । त्रिवृद्बहिष्पवमानं तद्द्व्रतस्य शिर इति । ऋक्त्रयात्मकमेकं सूक्तम् । तादृशानि त्रीणि सूक्तानि त्रिवृतो ऽवयवा यस्य स्तोमस्य तदिदं त्रिवृद्बहिष्पवमानं प्रातःसवनिकं त्रिवृत् तृचसूक्तत्रयात्मकं बहिष्पवमानं महाव्रतस्य शिरो भवति । बहिष्पवमानमपि गायत्रीछन्दस्कैस्तृचैर्गातव्यम् । तथा च तैत्तिरीयकम्- “त्रिवृच्छिरो भवति त्रेधाविहितं हि शिरः”- इति । पञ्चदशसप्तदशाविति । माध्यन्दिनः पञ्चदशस्तोत्रियात्मकः पवमानः, तृतीयसवने सप्तदशस्तोत्रियात्मकः आर्भवः पवमानः । तावुभौ ‘पक्षौ’ पक्षस्थानीयौ । ‘पञ्चदशं’ ‘होतुराज्यम्’ होत्रा ऽनुशंसनीयं प्रथममाज्यस्तोत्रं सप्तदशस्तोत्रियात्मकं पृष्ठ्यनामकं होतुः प्रथमं स्तोत्रम् | तदुभयं ‘पृष्ठं’ मध्यात्मरूपम्, मध्यात्मरूपाः परिमादश्च इति वक्ष्यते (श. प. १० । १ । २ । ८ ।) एकविंशम् एकविंशस्यावृत्तिरूपं यज्ञायज्ञियं “यज्ञायज्ञा वो अग्नयः" (वा. सं २७ । ३९) इत्यत्रोत्पन्नं साम तत्पुच्छस्थानीयम् ॥ ७ ॥

Eggeling
  1. In this Jyotishṭoma Agnishṭoma the Bahishpavamāna (stotra) is (in) the Trivr̥t (stoma)–that is the head of the rite; the two other Pavamānas are (in) the Pañcadaśa and Saptadaśa (stomas)–they are the two wings; the Hotr̥'s

Ājya (stotra) is (in) the Pañcadaśa, the Pr̥shṭḥa (stotra in) the Saptadaśa, and the Yajñāyajñiya (stotra in) the Ekaviṁśa (stoma)–they are the tail.

०८

विश्वास-प्रस्तुतिः

(न्त᳘) त᳘योर्व्वा᳘ ऽएत᳘योः॥
पञ्चदशसप्तदश᳘योर्द्वा᳘त्रिᳫँ᳭शत्स्तोत्रि᳘यास्त᳘तो याः प᳘ञ्चविᳫँ᳭शतिः स᳘ पञ्चविᳫँ᳭श᳘ ऽआत्मा᳘ ऽथ याः᳘ स᳘प्तातिय᳘न्ति ताः᳘ परिमा᳘दः पश᳘वो हैताः᳘ पश᳘वः परिमा᳘द ऽएता᳘वद्वै᳘ महाव्व्रतं त᳘देतद᳘त्रैव᳘ महाव्व्रत᳘माप्नोति॥

मूलम् - श्रीधरादि

(न्त᳘) त᳘योर्व्वा᳘ ऽएत᳘योः॥
पञ्चदशसप्तदश᳘योर्द्वा᳘त्रिᳫँ᳭शत्स्तोत्रि᳘यास्त᳘तो याः प᳘ञ्चविᳫँ᳭शतिः स᳘ पञ्चविᳫँ᳭श᳘ ऽआत्मा᳘ ऽथ याः᳘ स᳘प्तातिय᳘न्ति ताः᳘ परिमा᳘दः पश᳘वो हैताः᳘ पश᳘वः परिमा᳘द ऽएता᳘वद्वै᳘ महाव्व्रतं त᳘देतद᳘त्रैव᳘ महाव्व्रत᳘माप्नोति॥

मूलम् - Weber

त᳘योर्वा᳘ एत᳘योः॥
पञ्चदशसप्तदश᳘योर्द्वा᳘त्रिंशत्स्तोत्रि᳘यास्त᳘तो याः प᳘ञ्चविंशतिः स᳘ पञ्चविंश᳘ आत्मा᳘थ याः᳘ सॗप्तातिय᳘न्ति ताः᳘ परिमा᳘दः पश᳘वो हैताः᳘ पश᳘वः परिमा᳘द एता᳘वद्वै᳘ महाव्रतं त᳘देतद᳘त्रैव᳘ महाव्रत᳘माप्नोति॥

मूलम् - विस्वरम्

तयोर्वा एतयोः पञ्चदशसप्तदशयोर्द्वात्रिंशत्स्तोत्रियाः- ततो याः पञ्चविंशतिः, स पञ्चविंश आत्मा । अथ याः सप्तातियन्ति, ताः परिमादः । पशवो हैताः । पशवः परिमादः । एतावद्वै महाव्रतम् । तदेतदत्रैव महाव्रतमाप्नोति ॥ ८ ॥

सायणः

यद् आज्यं पृष्ठमित्युक्तं तयोर्मध्यात्मरूपतामाह- तयोर्वा एतयोरिति । आज्यस्तोत्रं पञ्चदशस्तोत्रियात्मकं पृष्ठं सप्तदशात्मकमुभयं मिलित्वा द्वात्रिंशत्स्तोत्रियात्मकम् । तत्र पञ्चविंशतिः स्तोत्रिया आत्मा । तथा च तैत्तिरीयकम्- “पचविंश आत्मा भवति, तस्मान्मध्यतः पशवो वरिष्ठाः” इति । यास्तत्र सप्ताधिकास्ताः परिमादः परितो हर्षहेतवः महाव्रते क्रियमाणानि यानि परिमान्नामकानि सामानि तत्स्थानीयास्ताः । एताः शिरःपक्षमध्यपुच्छपरिमाद एव महाव्रतं साम तदत्राग्निष्टोमे विद्यत इति तद्यज्ञेन महाव्रतयज्ञमेवाप्तवान्भवति ॥ ८ ॥

Eggeling
  1. Now these two, the Pañcadaśa and Saptadaśa, have thirty-two hymn-verses: twenty-five of these are the twenty-five-fold body 6; and the seven which remain over are the Parimād (sāmans), for these are the cattle (or animals), (for) cattle are sporting all around us (pari-mād 7)–thus much, then, is the

Great Rite: thereby he obtains the Great Rite even in this (Agnishṭoma).

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ हो᳘ता सप्त च्छ᳘न्दाᳫँ᳭सि शᳫँ᳭सति॥
चतुरुत्तरा᳘ण्येकर्चा᳘नि व्विरा᳘डष्टमानि ते᳘षां तिस्र᳘श्चाशीत᳘यो ऽक्ष᳘राणि प᳘ञ्चचत्वारिᳫँ᳭शच्च त᳘तो या᳘ ऽअशीत᳘यः᳘[[!!]] सै᳘वाशीतीनामा᳘प्तिरशीति᳘भिर्हि᳘ मह᳘दुक्थ᳘माख्यायते᳘ ऽथ या᳘नि प᳘ञ्चचत्वारिᳫँ᳭शत्त᳘तो या᳘नि प᳘ञ्चविᳫँ᳭शतिः स᳘ पञ्चविᳫँ᳭श᳘ ऽआत्मा य᳘त्र वा᳘ ऽआत्मा त᳘देव शि᳘रस्त᳘त्पक्षपुच्छान्य᳘थ या᳘नि व्विᳫँ᳭शतिस्त᳘दाव᳘पनमेता᳘वद्वै᳘ मह᳘दुक्थं त᳘देतद᳘त्रैव᳘ मह᳘दुक्थ᳘माप्नोति ता᳘नि वा᳘ ऽएता᳘नि स᳘र्व्वाणि ज्यो᳘तिष्टोम ऽए᳘वाग्निष्टोम᳘ ऽआप्यन्ते त᳘स्मादु ज्यो᳘तिष्टोमेनै᳘वाग्निष्टोमे᳘न यजेत॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ हो᳘ता सप्त च्छ᳘न्दाᳫँ᳭सि शᳫँ᳭सति॥
चतुरुत्तरा᳘ण्येकर्चा᳘नि व्विरा᳘डष्टमानि ते᳘षां तिस्र᳘श्चाशीत᳘यो ऽक्ष᳘राणि प᳘ञ्चचत्वारिᳫँ᳭शच्च त᳘तो या᳘ ऽअशीत᳘यः᳘[[!!]] सै᳘वाशीतीनामा᳘प्तिरशीति᳘भिर्हि᳘ मह᳘दुक्थ᳘माख्यायते᳘ ऽथ या᳘नि प᳘ञ्चचत्वारिᳫँ᳭शत्त᳘तो या᳘नि प᳘ञ्चविᳫँ᳭शतिः स᳘ पञ्चविᳫँ᳭श᳘ ऽआत्मा य᳘त्र वा᳘ ऽआत्मा त᳘देव शि᳘रस्त᳘त्पक्षपुच्छान्य᳘थ या᳘नि व्विᳫँ᳭शतिस्त᳘दाव᳘पनमेता᳘वद्वै᳘ मह᳘दुक्थं त᳘देतद᳘त्रैव᳘ मह᳘दुक्थ᳘माप्नोति ता᳘नि वा᳘ ऽएता᳘नि स᳘र्व्वाणि ज्यो᳘तिष्टोम ऽए᳘वाग्निष्टोम᳘ ऽआप्यन्ते त᳘स्मादु ज्यो᳘तिष्टोमेनै᳘वाग्निष्टोमे᳘न यजेत॥

मूलम् - Weber

अ᳘थ हो᳘ता सप्त छ᳘न्दांसि शंसति॥
चतुरुत्तरा᳘ण्येकर्चा᳘नि विरा᳘डष्टमानि ते᳘षां तिस्र᳘श्चाशीत᳘योऽक्ष᳘राणि प᳘ञ्चचत्वारिंशच्च त᳘तो या᳘ अशीॗत᳘यः सैॗवाशीतीनामा᳘प्तिरशीति᳘भिर्हि᳘ मह᳘दुक्थ᳘माख्यायते᳘ऽथ या᳘नि प᳘ञ्चचत्वारिंशत्त᳘तो या᳘नि प᳘ञ्चविंशतिः स᳘ पञ्चविंश᳘ आत्मा य᳘त्र वा᳘ आत्मा त᳘देव शि᳘रस्त᳘त्पक्षपुछान्य᳘थ या᳘नि विंशतिस्त᳘दाव᳘पनमेता᳘वद्वै᳘ मह᳘दुक्थं त᳘देतद᳘त्रैव᳘ मह᳘दुक्थ᳘माप्नोति ता᳘नि वा᳘ एता᳘नि स᳘र्वाणि ज्यो᳘तिष्टोम एॗवाग्निष्टोम᳘ आप्यन्ते त᳘स्मादु ज्यो᳘तिष्टोमेनैॗवाग्निष्टोमे᳘न यजेत॥

मूलम् - विस्वरम्

अथ होता सप्त च्छन्दांसि शंसति । चतुरुत्तराण्येकर्चानि विराडष्टमानि । तेषां तिस्रश्चाशीतयो ऽक्षराणि पञ्चचत्वारिंशच्च । ततो या अशीतयः । सैवाशीतीनामाप्तिः । अशीतिभिर्हि महदुक्थमाख्यायते । अथ यानि पञ्चचत्वारिंशत् । ततो यानि पञ्चविंशतिः । स पञ्चविंश आत्मा । यत्र वा आत्मा तदेव शिरः । तत्पक्षपुच्छानि । अथ यानि विंशतिः- तदावपनम् । एतावद्वै महदुक्थम् । तदेतदत्रैव महदुक्थमाप्नोति । तानि वा एतानि सर्वाणि ज्योतिष्टोम एवाग्निष्टोम आप्यन्ते । तस्मादु ज्योतिष्टोमेनैवाग्निष्टोमेन यजेत ॥ ९ ॥

सायणः

महदुक्थे ऽपि गायत्रबार्हतौष्णिहतृचाशीतयः पक्षमध्यपुच्छात्मकाश्चावयवाः सन्ति, तत्सर्वमपि अग्निष्टोमे दर्शयति- अथ होता सप्त च्छन्दांसीति । प्रातरनुवाके गायत्र्यादीनि सप्त च्छन्दांसि धान्यादिषु विराट्छन्दश्चाष्टमं होता शंसति । तेषां मध्ये गायत्र्याश्चतुर्विंशत्यक्षराणि, चतुरुत्तराणि तावन्ति उष्णिहः, तथा चोष्णिहो ऽष्टाविंशतिरक्षराणि; एवं चतुरक्षरोत्तराणि सप्त च्छन्दांसि । “विराजस्त्रयस्त्रिंशदक्षराणि”- इति अत्रैव काण्डे पञ्चमाध्याये वक्ष्यते । “अथ यानि त्रयस्त्रिंशत्सा त्रयस्त्रिंशदक्षरा विराड्” (श. प. १० । ५ । ४ । ८) इति । एतेषामष्टानां छन्दसामक्षराण्यशीतित्रयसङ्ख्याकानि पञ्चचत्वारिंशदधिकानि । तत्र होत्रा शंसनीयानां गायत्र्यादिविराडष्टमच्छन्दस्कानां बह्वीनामृचां सद्भावादक्षरैः सह परिगणने अनेकसंख्यान्यक्षराणि भविष्यन्तीति मत्वा ‘एकर्चानि’ इत्युक्तम् । एकैकस्मिन् छन्दसि एकैका ऋक् स्वीकर्त्तव्येत्यर्थः । अत्र या अक्षरपरिगणनेन ‘तिस्रो ऽशीतयः’ सम्पन्नास्ता महदुक्थगतास्तिस्रो ऽशीतयः । बृहदुक्थे ऽशीतित्रयमस्तीति प्रागुक्तम् । बृहदुक्थे महदुक्थे शिरःपक्षाद्यवयवाः सन्ति"- इत्युक्तं तद्दर्शयति- अथ यानि पञ्चचत्वारिंशदिति । अशीतित्रयादधिकानि पञ्चचत्वारिंशदक्षराणि विद्यन्ते तत्र ‘यानि’ पञ्चविंशतिसंख्यान्यक्षराणि तान्यात्मा मध्यशरीरम् । अनेन शिरःपक्षद्वयपुच्छान्यवयवा अप्युक्ता वेदितव्याः । अथ यान्यवशिष्टानि विंशतिरक्षराणि तदावपनं नाम महदुक्थशस्त्रस्योरुभागात्मकत्वेन शसनीयेषु सूक्तेषु- “वनेन वायो धायि चाकन्यो जात एव प्रथमो मनस्वान्”- इत्यनयोः सूक्तयोर्मध्ये आयुष्कामयजमानार्थं कासांचिदृचां शंसनम् । तथा चैतरेयकम्- “ते ऽन्तरेणायाह्यर्वाङुपबन्धुरेष्टा विधुं दद्राणं शमने बहूनाम्”- (ऐ. ब्रा.) इत्येतदावपनं दशतीनामैन्द्रीणां त्रिष्टुब्जगतीनां बृहतीसम्पन्नानां यावतीरावपेरंस्तावत्यूर्ध्वमायुषो वर्षाणि जिजीविषेदिति । एतावद्वा इति । ‘एतावत्’ एव अशीतित्रयं शिरःपक्षपुच्छानि, आत्मा च आवपनम् एतावदेव महदुक्थम् । तत्सर्वमत्राग्निष्टोमे विद्यत इति सप्त च्छन्दसां विराजश्च शंसनेन महदुक्थमेव तत्र सम्भृतवान् भवतीत्यर्थः । यतो ज्योतिष्टोमाग्निष्टोमे एतानि सर्वाणि अग्निमहाव्रतमहदुक्थानि सम्पादनया विद्यन्त इत्येतस्य महाव्रतयज्ञात्मना स्तुतत्वाज्ज्योतिष्टोमयागविधिः प्रशस्त इत्यर्थः ॥ ९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे प्रथमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (१० । १ । २) ॥

Eggeling
  1. And the Hotr̥ recites seven metres–each subsequent one-versed (metre) increasing by four (syllables)–with the Virāj as an eighth: these (eight) consist of three eighties and forty-five syllables. Now by the eighties thereof the eighties (of the mahad uktham) 8 are obtained, for the Great Litany is counted (or recited) by eighties (of triplets); and of the forty-five (syllables which remain) twenty-five are this twenty-five-fold body 9; and where the body is there, indeed, are (included) the head, and the wings and tail; and the twenty (syllables which remain) are the insertion 10;–thus much, then, is the Great Litany: thereby he obtains the Great Litany even in this (Agnishṭoma). All these (three) are indeed obtained in the Jyotishṭoma Agnishṭoma: let him, therefore, perform offering with the Jyotishṭoma Agnishṭoma.

  1. बृहदुक्थं Sây. (and thus often alternately with महदुक्थ). ↩︎

  2. 286:1 The Mahāvrata-sāman and the Mahad uktham, as we have seen (p. 282, note 5; p. 111, note 1), are constructed so as to correspond to the different parts of the bird-like Agni-Prajāpati. ↩︎ ↩︎

  3. अधिदैवतं Sây. (thus also २, ६, ९. १६. - ३, ३,७. - ४, १, २३.). ↩︎

  4. 287:1 The combination ‘ātamāṁ khyāyate’ is, as it were, the superlative of ‘ā-khyāyate;’ cf. anutamāṁ gopāyati, X, 5, 2, 10; and Delbrück, Altind. Syntax, p. 194. ↩︎

  5. 287:2 The Agnishṭoma may be performed in three different modes, according to the variation of stomas (or hymn-forms) employed for the stotras (or chants). In the Jyotishṭoma the order of stomas is that set forth in paragraph 7, viz.: a. Bahishpavamāna-stotra in the Trivr̥t (nine-versed); b. Ājya-stotras, and c. Mādhyandina-pavamāna-stotra, in the Pañcadaśa (fifteen-versed); d. Pr̥shṭḥa-stotras, and e. Ārbhava-pavamāna-stotra, in the Saptadaśa (seventeen-versed); and f. Agnishṭoma-sāman (Yajñāyajñiya) in the Ekaviṁśa (twenty-one-versed) stoma, or hymn-form. In the Goshṭoma, on the other hand, the succession of stomas is a. Pañcadaśa, b. Trivr̥t, c. d. Saptadaśa, e. f. Ekaviṁśa; and in the Āyushṭoma: a. Trivr̥t, b. Pañcadaśa, (c. d.) Saptadaśa, (e. f.) Ekaviṁśa. Cf. part ii, p. 402, note 4; for the scheme of Stotras (and Sastras), ib. p. 325, note 2. The Agnishṭoma is singled out here for the reason that the Mahāvrata-day takes the form of an Agnishṭoma sacrifice. ↩︎

  6. 288:1 See p. 168, note 3. ↩︎

  7. 288:2 Sāyaṇa takes ‘parimād’ here in the sense of ‘a source of pleasure all around’–parito harshahetavaḥ.–The Parimādaḥ are thirteen Sāmans sung (not chanted, in the proper sense of the word) by the Udgātr̥, his two assistants joining merely in the Nidhanas or chorus-like passages. They are given, figured for chanting, in the Araṇyagāna of the Sāma-veda (Calc. ed., ii, p. 387 seq.). This performance takes place immediately after the Adhvaryu has given the sign for, and the Udgātr̥ ‘yoked,’ the Mahāvrata-stotra or sāman (i. e. the Hotr̥’s Pr̥shṭḥastotra of the Great Rite),–or, according to some authorities, before either the ‘yoking,’ or the Adhvaryu’s summons,–and thus serves as an introduction to the central and chief element of the Great Rite, the Mahāvrata-sāman. According to the ritual symbolism, these preliminary sāmans are intended to supply the newly completed Prajāpati with hair (feathers) and nails; but the performance would rather seem to he a solemn mode of doing homage (upasthānam) to the different parts of the bird-like altar and the sacrificial ground; thus corresponding to a similar, though simpler, ceremony performed on the completion of the fire-altar in its simplest form, as described at IX, 1, 2, 35-43. On the present occasion the ceremony is performed in the following order: 1. near the head of the altar (the Āhavanīya fire) he sings the Prāṇa (‘breath;’ Sāma-v., vol. ii, p. 436); 2. near the tail the Apāna (downward-breathing, ii, p. 437); 3. 4. near the right and left wing the two Vratapakshau (ii, p. 438); 5. near the left armpit the Prajāpati-hr̥daya (‘heart of Praj.,’ ii, p. 499); 6. near the Cātvāla or pit, the Vasishṭḥasya Nihava (Sāma-v., vol. v, p. 602); 7. near the Āgnīdhra hearth the Satrasyarddhi (‘success of the sacrificial session,’ ii, p. 465); 8. 9. in front and behind the Havirdhāna carts, the Śloka and Anuśloka (i, pp. 887-9); 10. towards the Mārjālīya the Yāma (ii, p. 461); 11. 12. in front and behind the Sadas, the Āyus, and Navastobha (ii, pp. 450-51); 13. in front of the Gārhapatya the R̥śyasya sāman (ii, p. 324). ↩︎

  8. 289:1 See p. 112, note 1. ↩︎

  9. 289:2 Viz. the body, as consisting of the ten fingers, the ten toes, the arms and legs, and the trunk. ↩︎

  10. 289:3 Towards the end of the Mahad Uktham, in the portion representing the thighs, nine trishṭubh verses (R̥g-veda III, 43, 1-8, and X, 55, 5) are inserted as an ‘āvapanam..’ ↩︎