०१
विश्वास-प्रस्तुतिः
अग्नि᳘रेष᳘ पुर᳘स्ताच्चीयते॥
संव्वत्सर᳘ ऽउप᳘रिष्टान्मह᳘दुक्थ᳘ᳫँ᳘ शस्यते प्रजा᳘पतेर्व्वि᳘स्रस्तस्या᳘ग्रᳫँ᳭ र᳘सो ऽगच्छत्॥
मूलम् - श्रीधरादि
अग्नि᳘रेष᳘ पुर᳘स्ताच्चीयते॥
संव्वत्सर᳘ ऽउप᳘रिष्टान्मह᳘दुक्थ᳘ᳫँ᳘ शस्यते प्रजा᳘पतेर्व्वि᳘स्रस्तस्या᳘ग्रᳫँ᳭ र᳘सो ऽगच्छत्॥
मूलम् - Weber
अग्नि᳘रेष᳘ पुर᳘स्ताच्चीयते॥
संवत्सर᳘ उप᳘रिष्टान्मह᳘दुक्थं᳘ शस्यते प्रजा᳘पतेर्वि᳘स्रस्तस्या᳘ग्रं र᳘सोऽगछत्॥
मूलम् - विस्वरम्
अग्निरेष पुरस्ताच्चीयते संवत्सरः । उपरिष्टान्महदुक्थं शस्यते । प्रजापतेर्विस्रस्तस्याग्रं रसोगच्छत् ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
षष्ठादिकाण्डचतुष्टये उखासम्भरणादिसञ्चितिकर्मान्तमग्निचयनं साङ्गं निरूपितम् । तत्र कर्मणां भावनापुरःसरमनुष्ठाने फलविशेषो भविष्यतीति प्रतिपादयितुं दशमकाण्डमारभ्यते । षष्ठादिकाण्डचतुष्टयेन प्रतिपादितकर्मणो भावनोपयोगिता ऽनुष्ठानाङ्गयुक्तकर्मप्रतिपादकतया च सर्वशेषत्वादस्य काण्डस्याग्निरहस्यमिति संज्ञा; रहसि भवं रहस्यम्, अग्निविषयं रहस्यज्ञानमित्यर्थः । तत्र अग्निशब्देनाहवनीयाधिकरणं सप्तपुरुषाद्यैकशतपुरुषपरिमितं चितं क्षेत्रमभिधीयते । “इष्टकाभिरग्निं चिनोति”- इति श्रुतेः । तथा “अग्निमारोहति, अग्निं प्रोक्षति” (श. प. ९ । २ । १ । २) इति च आरोहणप्रोक्षणे स्थूलस्यैवोच्येते । तस्य चित्याग्नेरुपरि निधीयमान आहवनीयो ऽग्निस्तत्कर्म चाग्निशब्देनोच्यते । तद्विषयं पूर्वमनुक्तमग्निमानादिकं तद्रहस्यं च ध्यानभागो ऽस्मिन् काण्डे वक्ष्यत इति “अग्निरहस्यम्” इति- नामधेयं युक्तम् । “तत्राग्निं चिनुते” (श. प. १० । १ । ४ । १३-१४) इत्यनारभ्य विहितस्य “अन्तरोपसदौ चिनोति” (श. प. १० । २ । ५ । १) “प्रायणीयेन प्रचर्य सीरं युनक्ति” (श. प. ७ । २ । २ । २ ) इति “चितो गार्हपत्यो भवत्यचित आहवनीयो ऽथ राजानं क्रीणाति” (श. प. ७ । ३ । १ । १) इत्येवमादिगुणयोगादग्नेः सोमयागाङ्गत्वे ऽपि “तस्मादेतानि सर्वाणि सहोपेयादग्निं महाव्रतं महदुक्थम्” - (श. प. १० । १ । २ । २) इति समाम्नानात् महाव्रतस्य क्रतुविशेषे नियमदर्शनादन्यत्र प्रथमज्योतिष्टोमाग्निष्टोमसंस्थाव्यतिरिक्तेष्विच्छया ऽनुष्ठानम्- तथा च कात्यायनः- “अग्निः सोमाङ्गं तद्गुणव्यतिषङ्गात्” “इच्छतः स महाव्रते नियमः” “न प्रथमाहारे” “उत्तरवेद्यग्निनिधानात्”- (का. श्रौ. सू. १६, १-४) इति । महाव्रतं नाम संवत्सरसाध्यस्य गवामयनस्योपान्त्यमहः, तत्राग्निचयनमहाव्रतसामबृहदुक्थानां नियमेन सह प्रयोज्यत्वात्तानि त्रीण्येवं सह भावनीयानीति वक्तुमग्निबृहदुक्थे प्रथममनुवदति- अग्निरेष पुरस्तादिति । आद्यन्तवर्त्तिचयनार्थयोर्ग्रहणेन तन्मध्यपतितं महाव्रतसामापि सङ्गृहीतं भवति । ‘एषो ऽग्निः’ संवत्सरात्मकः ‘पुरस्तात्’ पूर्वम् ‘चीयते’ इष्टकाभिः । अग्नेः संवत्सरात्मकत्वं षष्ठे काण्डे प्रतिपादितम् (श. प. ६ । २ । १ । ३६) । ‘उपरिष्टात्’ मरुत्वतीयशस्त्रादनन्तरं महाव्रतसामोद्गात्रा गीयते । तस्मादनन्तरं ‘महदुक्थं’ नाम बृहतीसहस्रात्मकं शस्त्रं होत्रा ‘शस्यते’ । संवत्सरात्मकाग्नेः पूर्वं चयनं, बृहदुक्थस्यान्ते शंसनम् इति यदुक्तं तत् प्रशंसितुमाह- प्रजापतेरिति । अग्निचयनं नाम प्रजापतिसन्धानार्थमिति षष्ठे प्रपञ्चेन प्रतिपादितम् । ‘विस्रस्तस्य’ विश्लिष्टावयवस्य ‘प्रजापतेः’ ‘रसः’ शरीरगतः ‘अग्रम्’ ऊर्ध्वलोकम् ‘अगच्छत्’ तद्रसो महदुक्थमभवदिति वक्ष्यति ॥ १ ॥
Eggeling
०२
विश्वास-प्रस्तुतिः
(त्स) स यः स᳘ प्रजा᳘पतिर्व्व्य᳘स्रᳫँ᳭सत॥
संव्वत्सरः सो᳘ ऽथ या᳘न्यस्य ता᳘नि प᳘र्व्वाणि व्य᳘स्रᳫँ᳭सन्ताहोरात्रा᳘णि ता᳘नि॥
मूलम् - श्रीधरादि
(त्स) स यः स᳘ प्रजा᳘पतिर्व्व्य᳘स्रᳫँ᳭सत॥
संव्वत्सरः सो᳘ ऽथ या᳘न्यस्य ता᳘नि प᳘र्व्वाणि व्य᳘स्रᳫँ᳭सन्ताहोरात्रा᳘णि ता᳘नि॥
मूलम् - Weber
स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रंसत॥
संवत्सरः सो᳘ऽथ या᳘न्यस्य ता᳘नि प᳘र्वाणि व्य᳘स्रंसन्ताहोरात्रा᳘णि ता᳘नि॥
मूलम् - विस्वरम्
स यः स प्रजापतिर्व्यस्रंसत- संवत्सरः सः । अथ यान्यस्य तानि पर्वाणि व्यस्रंसन्त- अहोरात्राणि तानि ॥ २ ॥
सायणः
प्रजापतेः संवत्सररूपतामाह- स यः स प्रजापतिरिति । यस्य रस ऊर्ध्वं गतः । एकस्तच्छब्दः प्रसिद्धवाची । अपरस्तच्छब्दः प्रतिनिर्द्देशः । ‘स यः’ ‘प्रजापतिः’ विस्रस्तः ‘स’ एव ‘संवत्सरः’ । तदेवोपपादयति- अथ यानीति । विस्रंसनसमये ‘यानि’ प्रजापतेः ‘पर्वाणि’ सन्धयः विस्रस्तानि ‘तानि’ ‘अहोरात्राणि’ यथा शरीरस्यावयविनः पर्वाण्यवयवाः एवं संवत्सरस्यावयविनः अहोरात्रा अवयवा इति प्रजापतिविस्रंसनं संवत्सरविस्रंसनं, पर्वविस्रंसनम् अहोरात्रविस्रंसनमित्यर्थः ॥ २ ॥
Eggeling
- Now, that Prajāpati who became relaxed is the year; and those joints of his which became relaxed are the days and nights.
०३
विश्वास-प्रस्तुतिः
स यः स᳘ संव्वत्सरः᳘ प्रजा᳘पतिर्व्व्य᳘स्रᳫँ᳭सत॥ (ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘न्यस्य ता᳘न्यहोरात्रा᳘णि प᳘र्व्वाणि व्य᳘स्रᳫँ᳭सन्ते᳘ष्टका ऽएव तास्तद्य᳘देता᳘ ऽउपद᳘धाति या᳘न्ये᳘वास्य ता᳘न्यहोरात्रा᳘णि प᳘र्व्वाणि व्य᳘स्रᳫँ᳭सन्त ता᳘न्यस्मिन्नेतत्प्र᳘तिदधाति त᳘देतद᳘त्रैव य᳘जुश्चितम᳘त्राप्तम्[[!!]]॥
मूलम् - श्रीधरादि
स यः स᳘ संव्वत्सरः᳘ प्रजा᳘पतिर्व्व्य᳘स्रᳫँ᳭सत॥ (ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘न्यस्य ता᳘न्यहोरात्रा᳘णि प᳘र्व्वाणि व्य᳘स्रᳫँ᳭सन्ते᳘ष्टका ऽएव तास्तद्य᳘देता᳘ ऽउपद᳘धाति या᳘न्ये᳘वास्य ता᳘न्यहोरात्रा᳘णि प᳘र्व्वाणि व्य᳘स्रᳫँ᳭सन्त ता᳘न्यस्मिन्नेतत्प्र᳘तिदधाति त᳘देतद᳘त्रैव य᳘जुश्चितम᳘त्राप्तम्[[!!]]॥
मूलम् - Weber
स यः स᳘ संवत्सरः᳘ प्रजा᳘पतिर्व्य᳘स्रंसत॥
अय᳘मेव सॗ योऽय᳘मग्नि᳘श्चीयते᳘ऽथ या᳘न्यस्य ता᳘न्यहोरात्रा᳘णि प᳘र्वाणि व्य᳘स्रंसन्ते᳘ष्टका एव तास्तद्य᳘देता᳘ उपद᳘धाति या᳘न्येॗवास्य ता᳘न्यहोरात्रा᳘णि प᳘र्वाणि व्य᳘स्रंसन्त ता᳘न्यस्मिन्नेतत्प्र᳘तिदधाति त᳘देतद᳘त्रैव य᳘जुश्चितम᳘त्राप्त᳘म्॥
मूलम् - विस्वरम्
स यः स संवत्सरः प्रजापतिर्व्यस्रंसत- अयमेव सः- यो ऽयमग्निश्चीयते । अथ यान्यस्य तान्यहोरात्राणि पर्वाणि व्यस्रंसन्त- इष्टका एव ताः । तद्यदेता उपदधाति- यान्येवास्य तान्यहोरात्राणि पर्वाणि व्यस्रंसन्त, तान्यस्मिन्नेतत्प्रतिदधाति । तदेतदत्रैव यजुश्चितम् । अत्राप्तम् ॥ ३ ॥
सायणः
चीयमानाग्नेः संवत्सरप्रजापतिरूपतामाह- स यः स संवत्सर इति । ‘अयमेव’ इत्यस्य विवरणम्- यो ऽयमग्निश्चीयत इति । ‘यः’ इदानीमिष्टकाभिः ‘चीयते’ स एव प्रजापतिरित्यर्थः । संवत्सररूपस्य प्रजापतेः अवयवभूताहोत्ररूपाणि विस्रस्तानि ‘पर्वाणि’ ‘एव’ ‘इष्टकाः’ अभूवन् । तत्तस्माद् ‘एताः’ इष्टका उपदधातीति यत् एतद् एतेनोपधानेन प्रजापतेर्विस्रस्तानवयवान्पुनः प्रतिसंहितवान् भवति । इष्टकाश्च सप्तत्युत्तरशताधिकैकादशसहस्रसंमिता उपधेया इति । तथा च कात्यायनेनोक्तम्- “अथातः सर्वासां पक्वेष्टकानां समासेन सङ्ख्याप्रमाणान्यनु व्याख्यास्यामः । सहस्राण्येकादश सप्ततिं च शतमिति” (का. श्रौ. सू. परिशिष्टे पूरणसूत्रे ९ । १-२) इति । अत्र यावत्य इष्टका यजुर्मन्त्रैरुपहिताः तावत्य एव प्रजापत्यवयवात्मना प्रतिसंहिता इत्याह- तदेतदत्रैवेति । ‘अत्रैव’ अग्नौ एतत् ‘यजुश्चितम्’ यजुर्मन्त्रैरिष्टकाभिश्चयनं कृतम् तदत्र प्रजापतौ आप्तं प्रतिसंहितम् । अवयवात्मना युक्तं संवत्सरसम्बन्धिनामहोरात्राणां पर्वरूपाणां यजुष्मतीनामिष्टकानां च सङ्ख्यासाम्यात्ताभिरेव कृत्स्नं प्रजापतिशरीरमापद्यत इत्यभिप्रायः ॥ ३ ॥
Eggeling
- And that Prajāpati who became relaxed is this very Fire-altar which here is built; and those joints of his, the days and nights, which became relaxed are no other than the bricks;–thus, when he lays down these (in the layers of the altar), he thereby restores to him those joints of his, the days and nights, which had become relaxed: and thus
it is even in this (building of the altar) that this Yajus is built up 4 and secured (for Prajāpati).
०४
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ᳘ यो ऽस्य सो᳘ ऽग्रᳫँ᳭ रसो᳘ ऽगच्छत्॥
(न्म) महत्त᳘दुक्थं त᳘मस्य तᳫँ᳭ र᳘समृक्सामा᳘भ्याम᳘नुयन्ति तद्यत्त᳘त्र य᳘जुः पुर᳘स्तादे᳘त्यभिने᳘तैव त᳘देति य᳘था ऽदो᳘ मे ऽमुत्रै᳘कं तदा᳘हरिष्यामी᳘त्येवं तद्य᳘जुः पुर᳘स्तादेति त᳘ᳫँ᳘ संव्वत्सर᳘ ऽआप्नुवन्ति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ᳘ यो ऽस्य सो᳘ ऽग्रᳫँ᳭ रसो᳘ ऽगच्छत्॥
(न्म) महत्त᳘दुक्थं त᳘मस्य तᳫँ᳭ र᳘समृक्सामा᳘भ्याम᳘नुयन्ति तद्यत्त᳘त्र य᳘जुः पुर᳘स्तादे᳘त्यभिने᳘तैव त᳘देति य᳘था ऽदो᳘ मे ऽमुत्रै᳘कं तदा᳘हरिष्यामी᳘त्येवं तद्य᳘जुः पुर᳘स्तादेति त᳘ᳫँ᳘ संव्वत्सर᳘ ऽआप्नुवन्ति॥
मूलम् - Weber
अ᳘थॗ योऽस्य सो᳘ऽग्रं रसो᳘ऽगछत्॥
महत्त᳘दुक्थं त᳘मस्य तं र᳘समृक्सामा᳘भ्याम᳘नुयन्ति तद्यत्त᳘त्र य᳘जुः पुर᳘स्तादे᳘त्यभिनेॗतैव त᳘देति य᳘थादो᳘ मेऽमुत्रै᳘कं तदा᳘हरिष्यामी᳘त्येवं त्॥
मूलम् - विस्वरम्
अथ यो ऽस्य सो ऽग्रं रसो ऽगच्छत्- महत्तदुक्थम् । तमस्य तं रसमृक्सामाभ्यामनुयन्ति । तद्यत्तत्र यजुः पुरस्तादेति- अभिनेतैव तदेति । यथा ऽदो मे ऽमुत्रैकं तदाहरिष्यामीति । एवं तद्यजुः पुरस्तादेति । तं संवत्सर ऽआप्नुवन्ति ॥ ४ ॥
सायणः
एवं चित्यमग्निं प्रजापत्यात्मना स्तुत्वा स्तोत्रशस्त्रे स्तोतुमाह- अथ यो ऽस्य सो ऽग्रमिति । ‘यो रसः’ पूर्वं विस्रस्तस्य प्रजापतेः सम्बन्धी ऊर्ध्वं गतः स एव ‘महदुक्थम्’ अभूत् । अत्रोक्थशब्दः स्तुतशस्त्रसाधारणः । उत्तरत्र द्वयोरपि स्तूयमानत्वात् । “ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकुर्यात्” इति ग्रहग्रहणं वा चमसोन्नयनं वा स्तोत्रप्रारम्भकालः । स्तुतमनुशंसतीति स्तोत्रादनन्तरं शस्त्रं शंसनीयम् । अत इदानीं तत्पूर्वभाविग्रहग्रहणं प्रशंसितुं तत्र ग्रहे सिच्यमानं चमसं स्तौति- तमस्य तं रसमिति । ‘अस्य’ प्रजापतेः ‘तम्’ ऊर्ध्वं गतं ‘तं’ प्रसिद्धं ‘रसम्’ ‘ऋक्सामाभ्याम्’ ‘अनुयन्ति’ अनुगमयन्ति । यथा ऽदो मे ऽमुत्रेति । लोके यथा ‘अमुत्र’ विप्रकृष्टे प्रदेशे ‘अदः’ दृष्टं ‘मे’ मदीयम् ‘एकम्’ वस्तु ‘आहरिष्यामि’ अहमिति पूर्वं गच्छति- ‘एवं’ यजुर्मन्त्रः ऋक्सामाभ्यां प्रथमं रसानयनाय गच्छति । ‘तं रसं संवत्सरे’ संवत्सरसाध्यगवा मयनोपान्त्यदिवसनिष्पाद्ये महाव्रते ‘आप्नुवन्ति’ ॥ ४ ॥
Eggeling
- And that vital fluid (essence) of his which flowed upwards (became) the Great Litany: it is in quest of that vital fluid that (the priests) go by means of the R̥c and Sāman. And when the Yajus marches in front in this (quest) 5, it is in order to fetch something that that (Veda) goes–even as (one might say), ‘That one thing there is mine, I will fetch it,’ so does that Yajus go in front (or forward). That (vital fluid) they obtain in the course of a year 6.
०५
विश्वास-प्रस्तुतिः
त᳘मध्वर्युर्ग्र᳘हेण गृह्णाति॥
य᳘द्गृह्णा᳘ति त᳘स्माद्ग्र᳘हस्त᳘स्मिन्नुद्गाता᳘ महाव्व्रते᳘न र᳘सं दधाति स᳘र्व्वाणि हैता᳘नि सा᳘मानि य᳘न्महाव्व्रतं त᳘दस्मिन्त्स᳘र्वैः सा᳘मभी र᳘सं दधाति त᳘स्मिन्होता[[!!]] मह᳘तोक्थे᳘न र᳘सं दधाति स᳘र्व्वा हैता ऽऋ᳘चो य᳘न्मह᳘दुक्थं त᳘दस्मिन्त्स᳘र्वाभिर्ऋग्भी र᳘सं दधाति॥
मूलम् - श्रीधरादि
त᳘मध्वर्युर्ग्र᳘हेण गृह्णाति॥
य᳘द्गृह्णा᳘ति त᳘स्माद्ग्र᳘हस्त᳘स्मिन्नुद्गाता᳘ महाव्व्रते᳘न र᳘सं दधाति स᳘र्व्वाणि हैता᳘नि सा᳘मानि य᳘न्महाव्व्रतं त᳘दस्मिन्त्स᳘र्वैः सा᳘मभी र᳘सं दधाति त᳘स्मिन्होता[[!!]] मह᳘तोक्थे᳘न र᳘सं दधाति स᳘र्व्वा हैता ऽऋ᳘चो य᳘न्मह᳘दुक्थं त᳘दस्मिन्त्स᳘र्वाभिर्ऋग्भी र᳘सं दधाति॥
मूलम् - Weber
त᳘मध्वर्युर्ग्र᳘हेण गृह्णाति॥
य᳘द्गृह्णा᳘ति त᳘स्माद्ग्र᳘हस्त᳘स्मिअद्य᳘जुः पुर᳘स्तादेति त᳘ᳫं᳘ संवत्सर᳘ आप्नुवन्ति न्नुद्गाता᳘ महाव्रते᳘न र᳘सं दधाति स᳘र्वाणि हैता᳘नि सा᳘मानि य᳘न्महाव्रतं त᳘दस्मिन्त्स᳘र्वैः सा᳘मभी र᳘सं दधाति त᳘स्मिन्हो᳘ता महॗतोक्थे᳘न र᳘सं दधाति स᳘र्वा हैता ऋ᳘चो य᳘न्मह᳘दुक्थं त᳘दस्मिन्त्स᳘र्वाभिरृग्भी र᳘सं दधाति॥
मूलम् - विस्वरम्
तमध्वर्युर्ग्रहेण गृह्णाति । यद्गृह्णाति- तस्माद्ग्रहः । तस्मिन्नुद्गाता महाव्रतेन रसं दधाति । सर्वाणि हैतानि सामानि यन्महाव्रतम् । तदस्मिन्त्सर्वैः सामभी रसं दधाति । तस्मिन् होता महतोक्थेन रसं दधाति । सर्वा हैता ऋचो यन्महदुक्थम् । तदस्मिन्त्सर्वाभिर्ऋग्भी रसं दधाति ॥ ५ ॥
सायणः
रसस्य ग्रहणमाह- तमध्वर्युरिति । गृह्यते अनेन रस इति ग्रहः । करणसाधनः । व्युत्पत्तिं दर्शयति- यद्गृह्णातीति । स महाव्रतीयो ग्रह इत्युच्यते । तथा चोत्तरत्र चतुर्थाध्याये समाम्नास्यते । “एष महाव्रतीयो ग्रहः । तमध्वर्युर्ग्रहेण गृह्णाति” (श. प. १० । ४ । १ । १२-१३) इति । तथा च महाव्रतक्रतुं प्रस्तुत्य सूत्रकृतोक्तम्- “महाव्रतमग्निष्टोमः प्राजापत्य उपालंभ्यो ग्रहं गृह्णाति वि न इन्द्र, वाचस्पतिं विश्वकर्मन्निति वा” (का. श्रौ. सू. १३ । २९-३१) इति । ग्रहग्रहणमेव स्तोत्रप्रारम्भसमय इति यदुक्तं तदिदानीमाह- तस्मिन्नुद्गातेति । तस्मिन्निति निमित्तसप्तमी । यजुषा ग्रहे गृहीते ‘उद्गाता’ ऋत्विक् ‘महाव्रतेन’ एतन्नाम्ना साम्ना ‘रसं दधाति’ । पूर्वमृक्सामाभ्यामनुयन्तीत्युक्तम् । अत्र महाव्रतेनेत्युच्यते । एतत्परस्परविरुद्धमिति तत्राह- सर्वाणि हैतानि सामानि यन्महाव्रतम्इति । यत् ‘तत्सर्वाणि’ ‘सामानि’ तत्र राजन-गायत्र-बृहद्रथन्तरभद्राख्यानि पञ्च ‘सामानि’ विद्यन्ते । स्तुतमनुशंसतीति स्तोत्रादनन्तरं शस्त्रमिति यदुक्तं तदपि दर्शयति- तस्मिन्होता महतोक्थेनेति । बृहदुक्थस्य गायत्रौष्णिहबार्हततृचाशीतित्रयात्मकत्वात् सर्वा ऋचो महदुक्थमित्युपपन्नम् ॥ ५ ॥
Eggeling
- The Adhvaryu takes (draws) it by means of the Graha (Soma-cup); and inasmuch as he thereby takes (grab) it, it is (called) Graha 7. The Udgātr̥ puts the vital fluid into it by means of the (sāman of the) Great Rite (mahāvrata 8); but, indeed, the
(sāman of the) Great Rite is (equivalent to) all these (other) sāmans (hymn-tunes): it is thus by means of all the hymn-tunes that he puts the vital fluid therein. The Hotr̥ puts the vital fluid therein by means of the Great Litany; but, indeed, the Great Litany is the same as all these ric (hymn-verses) 9: it is thus by means of all the hymn-verses that he puts the vital fluid into it (the Soma-cup).
०६
विश्वास-प्रस्तुतिः
ते᳘ यदा᳘ स्तुव᳘ते य᳘दा ऽनुश᳘ᳫँ᳘सति॥
(त्य᳘) अ᳘थास्मिन्नेतं व्व᳘षट्कृते जुहोति त᳘देनमेष रसो᳘ ऽप्येति न वै᳘ महाव्व्रत᳘मिद᳘ᳫँ᳘ स्तुत᳘ᳫँ᳘ शेत ऽइ᳘ति पश्यन्ति᳘ नो मह᳘दिद᳘मुक्थमि᳘त्यग्नि᳘मेव᳘ पश्यन्त्यात्मा᳘ ह्यग्निस्त᳘देनमेते᳘ ऽउभे[[!!]] र᳘सो भूत्वा᳘ ऽपीत ऽऋ᳘क्च सा᳘म च त᳘दुभे᳘ ऽऋक्सामे य᳘जुर᳘पीतः॥
मूलम् - श्रीधरादि
ते᳘ यदा᳘ स्तुव᳘ते य᳘दा ऽनुश᳘ᳫँ᳘सति॥
(त्य᳘) अ᳘थास्मिन्नेतं व्व᳘षट्कृते जुहोति त᳘देनमेष रसो᳘ ऽप्येति न वै᳘ महाव्व्रत᳘मिद᳘ᳫँ᳘ स्तुत᳘ᳫँ᳘ शेत ऽइ᳘ति पश्यन्ति᳘ नो मह᳘दिद᳘मुक्थमि᳘त्यग्नि᳘मेव᳘ पश्यन्त्यात्मा᳘ ह्यग्निस्त᳘देनमेते᳘ ऽउभे[[!!]] र᳘सो भूत्वा᳘ ऽपीत ऽऋ᳘क्च सा᳘म च त᳘दुभे᳘ ऽऋक्सामे य᳘जुर᳘पीतः॥
मूलम् - Weber
ते᳘ यदा᳘ स्तुव᳘ते यॗदानुश᳘ᳫं᳘सति॥
अ᳘थास्मिन्नेतं व᳘षट्कृते जुहोति त᳘देनमेष रसो᳘ऽप्येति न वै᳘ महाव्रत᳘मिद᳘ᳫं᳘ स्तुतं᳘ शेत इ᳘ति पश्यन्तिॗ नो मह᳘दिद᳘मुक्थमि᳘त्यग्नि᳘मेव᳘ पश्यन्त्यात्मा ह्य᳘ग्निस्त᳘देनमेते᳘ उभे र᳘सो भूत्वा᳘पीत ऋ᳘क्च सा᳘म च त᳘दुभे᳘ ऋक्सामे य᳘जुर᳘पीतः॥
मूलम् - विस्वरम्
ते यदा स्तुवते, यदा ऽनुशंसति- अथास्मिन्नेदं वषट्कृते जुहोति । तदेनमेष रसो ऽप्येति । न वै महाव्रतमिदं स्तुतं शेत इति पश्यन्ति, नो महदिदमुक्थमिति । अग्निमेव पश्यन्ति । आत्मा ह्यग्निः । तदेनमेते ऽउभे रसो भूत्वा ऽपीतः । ऋक् च साम च । तदुभे ऋक्सामे यजुरपीतः ॥ ६ ॥
सायणः
पूर्वं प्रजापते रससंयुक्तता स्यात्, अन्यथा रसाभावेन शरीरमदृढं भवेदितीमामाशङ्कां रसस्थापनेन व्युदस्यति- ते यदा स्तुवत इति । ‘यदा’ यस्मिन्काले ‘स्तुवते’ उद्गातृ-प्रस्तोतृ-प्रतिहर्तारः, ऋत्विक्त्रयापेक्षया स्तुवत इति बहुवचनम् । अत एव च्छन्दोगा आमनन्ति,- “सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन्” इति । ‘यदा चानुशंसति’ । स्तोत्रमनुलक्ष्य शस्त्रं पठेत् होता । अत्र होतुरेकत्वात् शंसतीत्येकवचनम् । अथ शस्त्रादनन्तरं वषट्कृते शस्त्रयाज्यान्ते वषट्कारे कृते एनं गृहीतं स्तोत्रशस्त्राभ्यां संस्कृतं रसमस्मिन्नग्नौ प्रजापतिरूपे जुहोति । चित्याग्निरेव प्रजापत्यात्मेतीदानीमुक्तम्- “अयमेव स यो ऽयमग्निश्चीयते”- (श. प. १० । १ । १ । ३ ।) इति । ‘तत्’ तेन होमेन ‘एनम्’ प्रजापतिम् ‘एषः’ हुतो ‘रसो ऽप्येति’ अपिगच्छति संयुक्तो भवति इत्यर्थः । अग्नौ रसस्याप्ययं प्रशंसति- न वै महाव्रतमिदमिति । इदानीमस्मिन् चयनप्रदेशे ‘महाव्रतं’ साम ‘स्तुतम्’ ‘शेते’ तिष्ठति ‘इति न पश्यन्ति’ । महदुक्थं शस्तमिति न पश्यन्ति, किन्तु अग्निं चितमेव पश्यन्ति । अग्निर्हि ‘आत्मा’ स्थूलं शरीरं ‘तत्’ तस्मात् ‘एनम्’ चित्याग्निम् ‘एते उभे’ महाव्रतबृहदुक्थे ‘रसो भूत्वा अपीतः’ अपिगच्छतः एकीभवतः । ‘उभे ऋक्सामे’ ग्रहग्रहणाय ‘यजुरपीतः’ ऋक्सामाभ्यां पुरस्तात् यजुर्मन्त्रेण ग्रहग्रहणात् ॥ ६ ॥
Eggeling
- When those (Udgātr̥s) chant (the stotra), and when he (the Hotr̥) recites (the śastra) afterwards, then he (the Adhvaryu) offers that (vital fluid, in the form of Soma) unto him (Agni-Prajāpati) at the Vashaṭ-call; and thus this vital fluid enters him. For, indeed, they do not see it to be the Great Rite that lies there being praised, nor the Great Litany, but it is Agni alone they see; for Agni is the self (body), and thus those two, the R̥c and the Sāman, enter him in the form of the vital fluid; and thus they both enter (join) the Yajus.
०७
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ मिथु᳘नो ऽग्निः᳘॥
प्रथमा᳘ च चि᳘तिर्द्विती᳘या च तृती᳘या च चतुर्थी चा᳘थ पञ्चम्यै चि᳘तेर्य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते त᳘न्मिथुनं᳘ मिथुन᳘ ऽउ ऽए᳘वाय᳘मा᳘त्मा॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ मिथु᳘नो ऽग्निः᳘॥
प्रथमा᳘ च चि᳘तिर्द्विती᳘या च तृती᳘या च चतुर्थी चा᳘थ पञ्चम्यै चि᳘तेर्य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते त᳘न्मिथुनं᳘ मिथुन᳘ ऽउ ऽए᳘वाय᳘मा᳘त्मा॥
मूलम् - Weber
स᳘ एष᳘ मिथुॗनोऽग्निः᳟॥
प्रथमा᳘ च चि᳘तिर्द्विती᳘या च तृती᳘या च चतुर्थी चा᳘थ पञ्चम्यै चि᳘तेर्य᳘श्चिॗतेऽग्नि᳘र्निधीय᳘ते त᳘न्मिथुन᳘म् मिथुन᳘ उ एॗवाय᳘माॗत्मा॥
मूलम् - विस्वरम्
स एष मिथुनो ऽग्निः । प्रथमा च चितिर्द्वितीया च । तृतीया च चतुर्थी च । अथ पञ्चम्यै चितेर्यश्चिते ऽग्निर्निधीयते- तन्मिथुनम् । मिथुन उ एवायमात्मा ॥ ७ ॥
सायणः
चित्याग्निं मिथुनरूपेण प्रशंसति- स एष मिथुनो ऽग्निरिति । अग्नौ पञ्च चितयः स्वयमातृण्णाद्याः उपधेयाः । तत्र प्रथमाद्वितीये सम्भूयैकं मिथुनं भवति । तृतीयाचतुर्थ्यौ चेत्येकं मिथुनम् । पञ्चम्याः चितेर्मिथुनत्वं सम्पादयति- अथ पञ्चम्यै चितेरिति । पञ्चम्यै इति ‘षष्ठ्यर्थे चतुर्थी”- (पा. सू. २ । ३ । ६२ वा.) । ‘चिते’ चित्याग्नौ यो ऽग्निराहवनीयो ‘निधीयते’ अतः पञ्चमी चितिः तस्या उपरि निधीयमान आहवनीयो ऽग्निरिति द्वयमेकं मिथुनम् । आत्मा ह्यग्निरित्यग्नेर्यदात्मत्वमुक्तम्, तस्मिन्नात्मशब्दवाच्ये शरीरे मिथुनत्वं संपादयितुमाह- मिथुन उ एवायमात्मेति । अथ ‘अयमात्मा’, स्थूलं शरीरं ‘मिथुन उ एव’ मिथुनरूप एव भवति ॥ ७ ॥
Eggeling
- Now, that Agni (fire-altar) consists of pairs–the first layer and the second, and the third and fourth; and of the fifth layer the fire which is placed on the built (altar) is the mate. And, indeed, this body consists of pairs.
०८
विश्वास-प्रस्तुतिः
(त्मा ऽङ्गु᳘) अङ्गु᳘ष्ठा ऽइ᳘ति पु᳘माᳫँ᳭सः॥
(सो ऽङ्गु᳘) अङ्गु᳘लय ऽइ᳘ति स्त्रि᳘यः क᳘र्णावि᳘ति पु᳘माᳫँ᳭सौ भ्रु᳘वावि᳘ति स्त्रि᳘या ऽओ᳘ष्ठावि᳘ति पु᳘माᳫँ᳭सौ ना᳘सिके ऽइ᳘ति स्त्रि᳘यौ द᳘न्ता ऽइ᳘ति पु᳘माᳫँ᳭सो जिह्वे᳘ति स्त्री स᳘र्व्व ऽएव᳘ मिथुनः᳘[[!!]] सो ऽने᳘न मिथुने᳘नात्म᳘नैतं᳘ मिथुन᳘मग्निम᳘प्येति॥
मूलम् - श्रीधरादि
(त्मा ऽङ्गु᳘) अङ्गु᳘ष्ठा ऽइ᳘ति पु᳘माᳫँ᳭सः॥
(सो ऽङ्गु᳘) अङ्गु᳘लय ऽइ᳘ति स्त्रि᳘यः क᳘र्णावि᳘ति पु᳘माᳫँ᳭सौ भ्रु᳘वावि᳘ति स्त्रि᳘या ऽओ᳘ष्ठावि᳘ति पु᳘माᳫँ᳭सौ ना᳘सिके ऽइ᳘ति स्त्रि᳘यौ द᳘न्ता ऽइ᳘ति पु᳘माᳫँ᳭सो जिह्वे᳘ति स्त्री स᳘र्व्व ऽएव᳘ मिथुनः᳘[[!!]] सो ऽने᳘न मिथुने᳘नात्म᳘नैतं᳘ मिथुन᳘मग्निम᳘प्येति॥
मूलम् - Weber
अङ्गु᳘ष्ठा इ᳘ति पु᳘मांसः॥
अङ्गु᳘लय इ᳘ति स्त्रि᳘यः क᳘र्णावि᳘ति पु᳘मांसौ भ्रु᳘वावि᳘ति स्त्रि᳘या ओ᳘ष्ठावि᳘ति पु᳘मांसौ ना᳘सिके इ᳘ति स्त्रि᳘यौ द᳘न्ता इ᳘ति पु᳘मांसो जिह्वे᳘ति स्त्री स᳘र्व एव᳘ मिथुॗनः सोऽने᳘न मिथुने᳘नात्म᳘नैत᳘म् मिथुन᳘मग्निम᳘प्येति॥
मूलम् - विस्वरम्
अंगुष्ठा- इति पुमांसः, अंगुलयः- इति स्त्रियः । कर्णाविति पुमांसौ, भ्रुवाविति स्त्रियौ । ओष्ठाविति पुमांसौ, नासिके इति स्त्रियौ । दन्ताः- इति पुमांसः, जिह्वेति स्त्री । सर्व एव मिथुनः । सो ऽनेन मिथुनेनात्मनैतं मिथुनमग्निमप्येति ॥ ८ ॥
सायणः
मिथुनत्वं नाम स्त्रीपुंसयुगलं, तच्छरीरे प्रदर्शयति- अंगुष्ठा इति पुमांस इत्यादिना । ‘अंगुष्ठा इति’ पुल्ँलिङ्गशब्दवाच्यत्वात् पुमांस इत्युक्तम् । ‘अंगुलयः’ इति स्त्रीलिङ्गशब्दाभिधेयत्वादंगुलीनां स्त्रीत्वम् । तन्मिथुनम् । शरीरे पुंस्त्रीलिङ्गशब्दवाच्यानामन्येषामवयवानां सद्भावे ऽपि सान्निध्ययोगादंगुष्ठांगुलीनां मिथुनत्वम् । एवमुत्तरत्र सान्निध्यान्मिथुनत्वसम्पादनम् । कर्णभ्रुवोः पुंस्त्रीलिङ्गवाच्ययोरवयवयोः सान्निध्यात् मिथुनत्वम् । एकः कर्णः एका भ्रूरिति एकं मिथुनम् । एवम् ओष्ठनासिकयोः । दन्ताः पुमांसः । जिह्वा स्त्री । एवमात्मा स्थूलशरीरं मिथुनरूपः संपन्नः । अस्तु किं प्रस्तुत इति तदाह- सो ऽनेनेति । ‘सः’ वषट्कारान्ते हुतो रसः ‘अनेन’ ‘मिथुनेनात्मना’ शरीरेण ‘एतं’ चितिद्वन्द्वरूपं ‘मिथुनम्’ ‘अग्निम्’ ‘अप्येति’ अपिगच्छति ॥ ८ ॥
Eggeling
- The thumbs (and great toes, ‘aṅgushṭḥa,’ m.) are males, and the fingers and toes (‘aṅguli,’ f.) females; the ears (‘karṇa’ m.) are males, and the eyebrows (‘bhrū,’ f.) females; the lips (‘oshṭḥa,’ m.) are males, and the nostrils (’nāsikā,’ f.) females; the teeth (‘danta,’ m.) are males, and the tongue (‘jihvā,’ f.) is a female: indeed the whole (body) consists of pairs, and with this body, consisting of pairs, that (vital fluid) enters this Agni (the fire-altar), consisting of pairs 10.
०९
विश्वास-प्रस्तुतिः
(त्ये) एषा ऽत्रा᳘पीतिः॥
(र) अथ᳘ हैवं᳘ मिथुन᳘ इत्थ᳘ᳫँ᳘ ह᳘ त्वेवा᳘पि मिथुनो व्वा᳘गे᳘वेयं᳘[[!!]] यो ऽय᳘मग्नि᳘श्चितो᳘ व्वाचा हि᳘ चीयते᳘ ऽथ य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते स᳘ प्राणः᳘ प्राणो वै᳘ व्वाचो व्वृ᳘षा प्राणो᳘ मिथुनं व्वा᳘ग्वे᳘वाय᳘मात्मा᳘ ऽथ य᳘ ऽआत्म᳘न्प्राणस्त᳘न्मिथुन᳘ᳫँ᳘[[!!]] सो ऽने᳘न मिथुने᳘नात्म᳘नैतं᳘ मिथुन᳘मग्निम᳘प्येति॥
मूलम् - श्रीधरादि
(त्ये) एषा ऽत्रा᳘पीतिः॥
(र) अथ᳘ हैवं᳘ मिथुन᳘ इत्थ᳘ᳫँ᳘ ह᳘ त्वेवा᳘पि मिथुनो व्वा᳘गे᳘वेयं᳘[[!!]] यो ऽय᳘मग्नि᳘श्चितो᳘ व्वाचा हि᳘ चीयते᳘ ऽथ य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते स᳘ प्राणः᳘ प्राणो वै᳘ व्वाचो व्वृ᳘षा प्राणो᳘ मिथुनं व्वा᳘ग्वे᳘वाय᳘मात्मा᳘ ऽथ य᳘ ऽआत्म᳘न्प्राणस्त᳘न्मिथुन᳘ᳫँ᳘[[!!]] सो ऽने᳘न मिथुने᳘नात्म᳘नैतं᳘ मिथुन᳘मग्निम᳘प्येति॥
मूलम् - Weber
एषात्रा᳘पीतिः॥
अप्य᳘हैव᳘म् मिथुन᳘ इत्थ᳘ᳫं᳘ हॗ त्वेवा᳘पि मिथुनो वा᳘गेॗवेॗयं योऽय᳘मग्नि᳘श्चितो᳘ वाचा हि᳘ चीयते᳘ऽथ य᳘श्चिॗतेऽग्नि᳘र्निधीय᳘ते स᳘ प्राणः प्राणो वै᳘ वाचो वृ᳘षा प्राणो᳘ मिथुनं वा᳘ग्वेॗवाय᳘मात्मा᳘थ य᳘ आत्म᳘न्प्राणस्त᳘न्मिथुॗनᳫं सोऽने᳘न मिथुने᳘नात्म᳘नैत᳘म् मिथुन᳘मग्निम᳘प्येति॥
मूलम् - विस्वरम्
एषा ऽत्रापीतिः । अथ हैवं मिथुनः । इत्थं ह त्वेवापि मिथुनः । वागेवेयं यो ऽयमग्निश्चितः । वाचा हि चीयते । अथ यश्चिते ऽग्निर्निधीयते स प्राणः । प्राणो वै वाचो वृषा । प्राणो मिथुनम् । वाग्वेवायमात्मा । अथ य आत्मन् प्राणः- तन्मिथुनम् । सो ऽनेन मिथुनेनात्मनैतं मिथुनमग्निमप्येति ॥ ९ ॥
सायणः
एषा ऽत्रापीतिरिति । उक्तमिथुनरूपेणाप्ययनप्रकारः प्रदर्शित इत्यर्थः । पुनश्चित्याग्निं मिथुनरूपेण स्तोतुं प्रकारान्तरेण मिथुनत्वं प्रतिजानीते- अथ हैवमिति । ‘एवम्’ इति वक्ष्यमाणप्रकारेणापि मिथुनो ऽग्निः । तुशब्दः पक्षान्तरद्योतनार्थः । इत्यमेव वा मिथुनः । पूर्वं चित्याग्नेः चितिद्वन्द्वेन मिथुनत्वम् । आत्मरूपेणापि मिथुनत्वमिति मिथुनद्वयमुक्तम् । एवमुत्तरत्र मिथुनद्वयं सम्पादयितुं “अथ हैवं मिथुन इत्थं ह त्वेवापि मिथुनः” इति मिथुनद्वयं प्रतिज्ञातमित्यर्थः । तद्द्वयं दर्शयति- वागेवेयमित्यादिना । ‘यो ऽयम्’ इष्टकाभिः ‘चितः’ सा ‘वागेव’ ‘हि’ यस्मात् ‘वाचा’ मन्त्रेण ‘चीयते’ साधनसाध्ययोरभेदादेवमुक्तम् । ‘चिते’ अग्नौ यः ‘अग्निः’ आहवनीयो ‘निधीयते’ ‘स’ प्राणरूपः । शरीरं यथा प्राणेन व्याप्रियमाणं सत् फलसम्पादकम् एवं चित्याग्निरपि आहवनीयेनाग्निना फलसम्पादक इति प्राण इत्युक्तम् । अतः ‘वाचः’ स्त्रियाः ‘प्राणो’ ‘वृषा’ पुमान् । तस्मात् प्राणो मिथुनात्मक इति एकं मिथुनम् । अन्यदाह- ‘वागेवात्मा’ शरीरं तात्स्थ्यात्ताच्छब्द्यम् । आत्मन् । सप्तम्या लुक् । शरीरे यः प्राणः तदन्यन्मिथुनम् । तस्माद्वषट्कृते हुतो रसः अनेन मिथुनेनात्मना शरीरप्राणरूपेण एनं मिथुनं वाक्प्राणरूपं ‘अग्निमप्येति’ ॥ ९ ॥
Eggeling
- This, then, is the entering therein;–even thus, indeed, he (Agni) consists of pairs 11; but in this
way also he consists of pairs:–the fire-altar here built up is no other than this speech, for with speech it is built up; and the fire which is placed on the built (altar) is the breath; and the breath (‘prāṇa,’ m.) is the male, the mate, of speech (‘vāc,’ f.). And, indeed, this body is speech; and the breath which is in the body is its mate: with this mated body that (vital fluid) thus enters into the mated Agni.
१०
विश्वास-प्रस्तुतिः
(त्ये᳘) ए᳘षो ऽअत्रा᳘पीतिः॥
(र्न᳘) न᳘ ह वा᳘ ऽअस्यापुत्र᳘तायै का᳘चन᳘ शङ्का᳘ भवति य᳘ ऽएव᳘मेतौ᳘ मिथुना᳘वात्मा᳘नं चाग्निं᳘ च व्वेदा᳘न्नᳫँ᳭ ह᳘ त्वे᳘वाय᳘मात्मा द᳘क्षिणा᳘ ऽन्नं व्वनुते यो᳘ न ऽआत्मे᳘ति ह्यप्यृ᳘षिणा᳘ ऽभ्युक्तम्॥
मूलम् - श्रीधरादि
(त्ये᳘) ए᳘षो ऽअत्रा᳘पीतिः॥
(र्न᳘) न᳘ ह वा᳘ ऽअस्यापुत्र᳘तायै का᳘चन᳘ शङ्का᳘ भवति य᳘ ऽएव᳘मेतौ᳘ मिथुना᳘वात्मा᳘नं चाग्निं᳘ च व्वेदा᳘न्नᳫँ᳭ ह᳘ त्वे᳘वाय᳘मात्मा द᳘क्षिणा᳘ ऽन्नं व्वनुते यो᳘ न ऽआत्मे᳘ति ह्यप्यृ᳘षिणा᳘ ऽभ्युक्तम्॥
मूलम् - Weber
एॗषो अत्रा᳘पीतिः॥
न᳘ ह वा᳘ अस्यापुत्र᳘तायै का᳘ चन᳘ शङ्का᳘ भवति य᳘ एव᳘मेतौ᳘ मिथुना᳘वात्मा᳘नं चाग्निं᳘ च वेदा᳘न्नᳫं हॗ त्वेॗवाय᳘मात्मा द᳘क्षिणा᳘न्नं वनुते यो᳘ न आत्मे᳘ति ह्यप्यृ᳘षिणाॗभ्युक्तम्॥
मूलम् - विस्वरम्
एषो ऽअत्रापीतिः । न ह वा अस्यापुत्रतायै का चन शङ्का भवति । य एवमेतौ मिथुनौ- आत्मानं चाग्निं च वेद । अन्नं ह त्वेवायमात्मा । “दक्षिणा ऽन्नं वनुते यो न आत्मा”- इति ह्यप्यृषिणा ऽभ्युक्तम् ॥ १० ॥
सायणः
अथ मिथुनपरम्परावेदितुः फलमाह- न ह वा अस्येति । ‘यः’ पुरुष एवमुक्तप्रकारेण मिथुनरूपमात्मानं मिथुनरूपमग्निं च वेत्ति ‘अस्यापुत्रतायै’ पुत्रराहित्याय काचन शङ्का नास्ति । सन्तानप्रतिबन्धकं कारणं नास्ति । प्रत्युत पुत्रवत्त्वसम्पादकमस्तीत्यर्थः । प्रकारान्तरेणाप्यमुं प्रकारं वक्तुमात्मनो ऽन्नरूपत्वमाह- अन्नं ह त्वेवायमात्मेति । ‘अयम्’ ‘आत्मा’ अन्नमेव तत्साध्यत्वात् । उक्तार्थे मन्त्रं संवादयति- दक्षिणा ऽन्नं वनुत इति । स मन्त्रो दाशतय्यामेवं दक्षिणादानस्तावकसूक्ते समाम्नायते- “दक्षिणा ऽश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद्धिरण्यम् । दक्षिणा ऽन्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन्” (ऋ. सं.) इति । अस्यार्थः- न इत्यस्माच्छब्देन मन्त्रद्रष्टा ऋषिरुच्यते । नो ऽस्मभ्यमश्वादिकं दक्षिणारूपेण ददाति । य आत्मा ऽस्ति तदन्नं दक्षिणाचतुष्टयमन्त्रात्मकमात्मानं च दक्षिणात्वेन ददाति । “वनु याचने”- (धा. पा. तु. उ. ९) इत्ययं धातुश्छन्दसि दाने वर्त्तते । “ब्रह्म वन्वानो अजरं सुवीरम्”- इत्यादिमन्त्रान्तरेषु दानार्थस्य दृष्टत्वात् । दक्षिणां प्रयच्छन् पुरुषः विजानन् दक्षिणां वर्म कवचं कृणुते करोतीति । अस्य मन्त्रस्य तृतीयपादे आत्मनो ऽन्नरूपत्वमुक्तमिति स तृतीयपाद एव संवादत्वेनोक्तः ॥ १० ॥
Eggeling
- This also is the entering therein;–there is indeed no fear of him (Agni) being without offspring to whosoever thus knows these two, the body and Agni, to be a pair; but, indeed, this body is food, as is said by the R̥shi (R̥g-veda X, 107, 7), ‘The Dakshiṇā winneth food which is our own self (breath).’
११
विश्वास-प्रस्तुतिः
(न्त᳘) त᳘दिदम᳘न्नं जग्धं᳘ द्वेधा᳘ भवति॥
य᳘दस्यामृ᳘तमूर्ध्वं तन्ना᳘भेरूर्ध्वैः᳘ प्राणैरु᳘च्चरति त᳘द्वायुम᳘प्येत्य᳘थ यन्म᳘र्त्यं प᳘राक्तन्ना᳘भिम᳘त्येति त᳘द्द्वयं᳘ भू᳘त्वेमाम᳘प्येति मू᳘त्रं च पु᳘रीषं च तद्य᳘दिमा᳘मप्ये᳘ति᳘ यो ऽय᳘मग्नि᳘श्चितस्तं तद᳘प्येत्य᳘थ य᳘द्वायु᳘मप्ये᳘ति य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते तं तद᳘प्ये᳘त्ये᳘षो ऽएवात्रा᳘पीतिः॥
मूलम् - श्रीधरादि
(न्त᳘) त᳘दिदम᳘न्नं जग्धं᳘ द्वेधा᳘ भवति॥
य᳘दस्यामृ᳘तमूर्ध्वं तन्ना᳘भेरूर्ध्वैः᳘ प्राणैरु᳘च्चरति त᳘द्वायुम᳘प्येत्य᳘थ यन्म᳘र्त्यं प᳘राक्तन्ना᳘भिम᳘त्येति त᳘द्द्वयं᳘ भू᳘त्वेमाम᳘प्येति मू᳘त्रं च पु᳘रीषं च तद्य᳘दिमा᳘मप्ये᳘ति᳘ यो ऽय᳘मग्नि᳘श्चितस्तं तद᳘प्येत्य᳘थ य᳘द्वायु᳘मप्ये᳘ति य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते तं तद᳘प्ये᳘त्ये᳘षो ऽएवात्रा᳘पीतिः॥
मूलम् - Weber
त᳘दिदम᳘न्नं जग्धं᳘ द्वेधा᳘ भवति॥
य᳘दस्यामृ᳘तमूर्ध्वं तन्ना᳘भेरूर्ध्वै᳘ प्राणैरु᳘च्चरति त᳘द्वायुम᳘प्येत्य᳘थ यन्म᳘र्त्यम् प᳘राक् तन्ना᳘भिम᳘त्येति त᳘द्द्वय᳘म् भूॗत्वेमाम᳘प्येति मू᳘त्रं च पु᳘रीषं च तद्य᳘दिमा᳘मप्ये᳘तिॗ योऽय᳘मग्नि᳘श्चितस्तं तद᳘प्येत्य᳘थ य᳘द्वायु᳘मप्ये᳘ति य᳘श्चिॗतेऽग्नि᳘र्निधीय᳘ते तं तद᳘प्येत्येॗषो एवात्रा᳘पीतिः॥
मूलम् - विस्वरम्
तदिदमन्नं जग्धं द्वेधा भवति । यदस्यामृतम्- ऊर्ध्वं तन्नाभेरूर्ध्वैः प्राणैरुच्चरति- तद्वायुमप्येति । अथ यन्मर्त्यं पराक् तन्नाभिमप्येति । तद्द्वयं भूत्वेमामप्येति- मूत्रं च पुरीषं च । तद् यदिदमप्येति- यो ऽयमग्निश्चितस्तं तदप्येति । अथ यद्वायुमप्येति- यश्चिते ऽग्निर्निधीयते- तं तदप्येति । एषो ऽएवात्रापीतिः ॥ ११ ॥
सायणः
यदर्थमन्नरूपत्वमुक्तं तद्दर्शयति- तदिदमन्नं जग्धमिति । ‘तत्’ ‘अन्नम्’ ‘जग्धम्’ भक्षितं सत् ‘द्वेधा’ द्विप्रकारं मर्त्यामृतभेदेन ‘भवति’ । तत्र ‘अस्य’ जग्धस्यान्नस्य ‘यद्’ ‘अमृतम्’ सूक्ष्मरूपमस्ति ‘तत् नाभेः’ ऊर्ध्वप्रदेशे स्थित्वा ‘ऊर्ध्वैः’ नासिकापुटादुद्गच्छद्भिः ‘प्राणैः’ सह ‘उच्चरति’ उद्गच्छति । तदुद्गच्छदन्नं ‘वायुम्’ प्राणरूपम् ‘अप्येति’ संयौति । ‘यत् मर्त्यं’ स्वरूपं ‘तत्’ नाभेरधस्तात्तिष्ठति । मर्त्यस्य द्वैविध्यमाह- तद्द्वयमिति । ‘तत्’ मर्त्यं ‘द्वयम्’ मूत्रपुरीषभेदेन द्विप्रकारं भूत्वा ‘इमां’ भूमिम् ‘अप्येति’ । ‘इमाम्’ इत्यस्यार्थमाह- यो ऽयमग्निश्चित इति । भूमावग्निश्चीयते, अत आधाराधेययोरभेदोपचारेण भूमेरग्नित्वं सम्पन्नम् । पूर्वम् “अन्नस्यामृतभागो वायुमप्येति”- इत्युक्तं तत्प्रकृते योजयति- यद्वायुमप्येतीति । यश्चिते ऽग्निरिति । ‘चिते’ अग्नौ ‘यो ऽयम्’ आहवनीयो ऽग्निः ‘निधीयते’ ‘तम्’ अग्निं तदमृतमन्नरूपं कर्तृ ‘अप्येति’ संयुक्तं भवति । अनेनैतदुक्तं भवति, चितो ऽग्निर्जग्धान्नस्थविष्ठभागात्मना भावनीयः । तस्योपरि निहितो ऽग्निरन्नस्याणिष्ठभागात्मना ध्येय प्रति ॥ ११ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये दशमकाण्डे प्रथमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (१०-१-१) ॥
Eggeling
- Now, this food, when eaten, becomes of two kinds,–that part of it which is immortal (remains) above the navel: by the upward vital airs it moves upwards and enters the air; but that part of it which is mortal tends to move away: it passes beyond the navel, and, having become twofold, enters this (earth), as urine and faeces. Now that which enters this (earth) enters the fire-altar 12 built here; and that which enters the air enters that fire which is placed on the built (altar). This also is the entering therein.
-
281:1 Or, possibly, ’that Agni is built in a year,’ as paragraph 4 might seem to suggest. Sāyaṇa, however, takes it in the above sense,–eshogniḥ Saṁvatsarātmakaḥ purastāt pūrvaṁ ciyate. The Agnicayana, when properly performed, requires a full year, whence Agni-Prajāpati is constantly identified with the year and the seasons. ↩︎
-
281:2 According to Sāyaṇa, the intermediate Mahāvrata-sāman (see note 1, p. 283), chanted prior to the recitation of the Mahad uktham, is likewise implied here. ↩︎
-
281:3 Thus–ūrdhvalokam agacchat–Sāyaṇa takes ‘agram.’ ↩︎
-
282:1 Viz. inasmuch as yajus-formulas have to be used with the laying down of many of the bricks (the so-called ‘yajushmatīs’). Whilst, in the case of the R̥c and Sāman, other rites are necessary to secure them for the restored Prajāpati, the Yajus is secured for him in the very act of building up his body, the fire-altar. ↩︎
-
282:2 The Adhvaryu priest has to do all the practical work connected with the sacrificial performance, the building of the altar, &c. and inasmuch as it is with yajus-formulas he does so throughout, the Yajus is said here to take the lead; cf. X, 3, 5, 3. ↩︎
-
282:3 Viz. by means of the sacrificial session of sacrificing, chanting, and reciting, called ‘Gavām ayanam’ (procession of the cows), lasting for one year, on the last day but one of which the Mahāvrata, or Great Rite, is performed. ↩︎
-
282:4 The particular cup of Soma here referred to is the Mahāvratīya-graha, the special cup of the Great Rite; cf. X, 4, 1, 12 seq. ↩︎
-
282:5 The central feature of the Mahāvrata consists in the chanting, at the mid-day service–as the Hotr̥’s Pr̥shṭḥa-stotra–of the so-called Mahāvrata-sāman. It consists of five different parts which,–like those of which the Mahad uktham, recited after it, is composed,–are considered as representing different parts of Agni-Prajāpati’s body, viz.: I. Gāyatra-sāman, representing the head; it is chanted in the trivr̥t-stoma (nine-versed hymn-form) and consists of the triplets, Sāma-v. II, 146-8 (= R̥g-veda I, 7, 1-3: indram id gāthino br̥hat), II, 263-5 (indro dadhīko asthabhir), and II, 800-2 (ud ghed abhi śrutāmagham); though, according to others, the Sāma-triplets corresponding to R̥g-veda I, 7, I-9 may be chanted instead. 2. Rathantara-sāman (Sāma-v. II, 30-I), representing the right wing, chanted in the Pañcadaśa-stoma, or fifteen-versed form. 3. Br̥hat-sāman (II, 159-60), the left wing, in the Saptadaśa-stoma, or seventeen-versed form. 4. Bhadra-sāman (on II, 460-2; Of. Calc. ed., vol. v, p. 402), the tail, in the Ekaviṁśa, or twenty-one-versed form. 5. Rājana- sāman (on II, 833-5; cf. Calc. ed., vol. v, p. 449), the body (ātman), in the Pañcaviṁśa-stoma, or twenty-five-versed form; instead of this the Vāmadevya-sāman (on II, 32-4) may be chanted in the pañcanidhana form (Calc. ed., vol. v, p. 45I).–The chanting of this Stotra is preceded by the singing of thirteen sāmans, called parimādaḥ (see X, 1, 2, 8), followed by certain ceremonies–buckling armour on a nobleman, driving in a sunwise direction round the sacrificial ground, shooting arrows at two ox-hides, beating of drums, &c.–apparently symbolising the driving off of evil spirits from the sacrifice, or a combat for the possession of (the light of) the sun. The chanting itself is, according to some authorities, performed by the Udgātr̥s, whilst, according to others, all the priests (except the Hotr̥, for whom the Maitrāvaruṇa acts), as well as the Gr̥hapati, or Sacrificer, take part in turn in the singing of the sāmans; the Prastotr̥ and Pratihartr̥; assistants of the Udgātr̥; joining in with the successive performers in the Nidhanas, or finales. ↩︎
-
283:1 See p. 110, note 3; p. 112, note 1. During his recitation of the Great Litany, the Hotr̥ is seated on a swing, the Adhvaryu making his responses whilst standing on a plank, and the Hotr̥’s assistants being seated on bundles of grass. ↩︎
-
284:1 Or, with this body as a mate it thus enters this Agni, its mate; literally, with this body forming one of a (productive) pair, it thus enters this Agni, forming one (i. e. the other) of a pair. ↩︎
-
284:2 That is, he has in him the generative energy. Apparently ‘mithuna,’ m. has also the sense of paired,’ ‘mated,’ i.e. ‘one who has his complement or mate,’ and so perhaps here. ↩︎
-
285:1 Viz. inasmuch as the altar is built on the earth, and the latter forms its foundation. Comm. ↩︎