०१
विश्वास-प्रस्तुतिः
इ᳘न्द्र ऽएत᳘त्सप्तर्च᳘मपश्य᳘त्॥ (न्न्यू) न्यूनस्या᳘प्त्या ऽअतिरिक्तस्या᳘नतिरिक्त्यै᳘ व्यृद्धस्य स᳘मृद्ध्या ऽअ᳘थ ह वा᳘ ऽईश्व᳘रो ऽग्निं᳘ चित्वा किं᳘चिद्दौरितमा᳘पत्तोर्व्वि᳘ वा ह्व᳘लितोर्य᳘द्वा यदा᳘ ह वा᳘ ऽएतच्छ्र्या᳘पर्णः सायकायनः᳘[[!!]] शुश्रावा᳘थ हैतत्कर्मो᳘पदधर्ष᳘॥
मूलम् - श्रीधरादि
इ᳘न्द्र ऽएत᳘त्सप्तर्च᳘मपश्य᳘त्॥ (न्न्यू) न्यूनस्या᳘प्त्या ऽअतिरिक्तस्या᳘नतिरिक्त्यै᳘ व्यृद्धस्य स᳘मृद्ध्या ऽअ᳘थ ह वा᳘ ऽईश्व᳘रो ऽग्निं᳘ चित्वा किं᳘चिद्दौरितमा᳘पत्तोर्व्वि᳘ वा ह्व᳘लितोर्य᳘द्वा यदा᳘ ह वा᳘ ऽएतच्छ्र्या᳘पर्णः सायकायनः᳘[[!!]] शुश्रावा᳘थ हैतत्कर्मो᳘पदधर्ष᳘॥
मूलम् - Weber
इन्द्र एतत्त्सर्प्तच्चमपष्यत् न्यूनस्याप्त्या अतिरिक्त्यै व्यृद्धस्य स᳘मृद्ध्या अ᳘थ ह वा᳘ ईश्वॗरो ऽग्निं᳘ चित्वा किं᳘चिद्दौरितमा᳘पत्तोर्वि᳘ वा ह्व᳘लितोर्य᳘द्वा यदा᳘ ह वा᳘ एतछ्या᳘पर्णः 1 सायकाय᳘नः शुश्रावा᳘थ हैतत्कर्मो᳘पदधर्ष᳟᳟॥
मूलम् - विस्वरम्
अथ सर्वचित्यन्तसाधारणोपस्थानम् ।
इन्द्र एतत्सप्तर्चमपश्यत्- न्यूनस्याप्त्यै, अतिरिक्तस्यानतिरिक्त्यै, व्यृद्धस्य समृद्ध्यै । अथ ह वा ईश्वरो ऽग्निं चित्वा किंचिद्दौरितमापत्तोर्वि वा ह्वलितोः यद्वा । यदा ह वा एतच्छ्र्यापर्णः सायकायनः शुश्राव- अथ हैतत्कर्मोपदधर्ष ॥ १ ॥
सायणः
अथ “ये ऽअग्नयः पाञ्चजन्याः” इत्यस्य मन्त्रस्यानन्तरं “वार्त्रहत्याय शवसे” इत्यादयः सप्त मन्त्राः समाम्नायन्ते 2 तेषामिदानीं विनियोगमभिधातुमुपोद्घातमाह 3- इन्द्र एतदिति । ‘एतत्’ इति वक्ष्यमाणपरामर्शः । सप्त ऋचो यस्मिन् समुदाये स सप्तर्चः “ऋक्पूरब्धूःपथामानक्षे” (पा. सू. ५ । ४ । ७४) इति अकारः समासान्तः । ‘एतत्’ इति लिङ्गव्यत्ययः छान्दसः । ‘इन्द्र एतं सप्तर्चमपश्यत्’ । किमर्थं तमपश्यदिति तत्राह- न्यूनस्येति । ‘न्यूनस्य’ अकृतस्य कर्मणः प्राप्त्यै, आधिक्येन कृतस्यानाधिक्याय, अन्यथा कृतस्य च यथाकरणाय सप्तर्चमपश्यत् इति 4 ॥ १ ॥
Eggeling
- Indra saw this seven-versed (hymn, suitable) for making good what is deficient 5, for reducing what is redundant, and for perfecting what is imperfect. And, indeed, after building the fire-altar, one is (still) apt to get into trouble, or to stumble, or what not. Now, when Śyāparṇa Sāyakāyana heard this, he ventured upon this performance.
०२
विश्वास-प्रस्तुतिः
सैषा᳘ त्रय᳘स्य स᳘मृद्धिः॥
(र) अग्नेः स᳘मृद्धि᳘र्यो ऽग्निं᳘ चिनुते त᳘स्य स᳘मृद्धि᳘र्यो ऽग्निं᳘ चिनो᳘ति त᳘स्य स᳘मृद्धिः॥
मूलम् - श्रीधरादि
सैषा᳘ त्रय᳘स्य स᳘मृद्धिः॥
(र) अग्नेः स᳘मृद्धि᳘र्यो ऽग्निं᳘ चिनुते त᳘स्य स᳘मृद्धि᳘र्यो ऽग्निं᳘ चिनो᳘ति त᳘स्य स᳘मृद्धिः॥
मूलम् - Weber
सैषा᳘ त्रयस्य स᳘मृद्धिः॥
अग्नेः स᳘मृद्धिॗर्यो ऽग्निं᳘ चिनुते त᳘स्य स᳘मृद्धिॗर्यो ऽग्निं᳘ चिनो᳘ति त᳘स्य स᳘मृद्धिः॥
मूलम् - विस्वरम्
सैषा त्रयस्य समृद्धिः । अग्नेः समृद्धि (१) । यो ऽग्निं चिनुते तस्य समृद्धिः (२) । यो ऽग्निं चिनोति तस्य समृद्धिः (३) ॥ २ ॥
सायणः
…
Eggeling
- Now, there is here a perfecting of three things,–the perfecting of the fire-altar, the perfecting of
him who has it built for him, and the perfecting of him who builds it.
०३
विश्वास-प्रस्तुतिः
(स्त) तद्य᳘देते᳘नोपति᳘ष्ठते॥
य᳘दे᳘वास्या᳘त्र व्विद्वान्वा᳘ ऽविद्वान्वा᳘ ऽति[[!!]] वा रेच᳘यति न᳘ वा ऽभ्याप᳘यति त᳘दे᳘वास्यैते᳘न स᳘र्व्वमाप्तं᳘ भवति य᳘दस्य किं चा᳘नाप्तं य᳘ ऽउ त᳘स्यामनुष्टु᳘भ्यृचि कामो᳘ ऽत्रैव त᳘माप्नोत्य᳘थो ऽएत᳘स्मादे᳘वैतत्क᳘र्मणो र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति᳘ नो हैनमनुव्याहारि᳘ण स्तृण्वते त᳘स्माद᳘प्येवंवित्का᳘मं प᳘रस्मा ऽअग्निं᳘ चिनुयादीश्वरो᳘ ह श्रे᳘यान्भ᳘वितोः॥
मूलम् - श्रीधरादि
(स्त) तद्य᳘देते᳘नोपति᳘ष्ठते॥
य᳘दे᳘वास्या᳘त्र व्विद्वान्वा᳘ ऽविद्वान्वा᳘ ऽति[[!!]] वा रेच᳘यति न᳘ वा ऽभ्याप᳘यति त᳘दे᳘वास्यैते᳘न स᳘र्व्वमाप्तं᳘ भवति य᳘दस्य किं चा᳘नाप्तं य᳘ ऽउ त᳘स्यामनुष्टु᳘भ्यृचि कामो᳘ ऽत्रैव त᳘माप्नोत्य᳘थो ऽएत᳘स्मादे᳘वैतत्क᳘र्मणो र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति᳘ नो हैनमनुव्याहारि᳘ण स्तृण्वते त᳘स्माद᳘प्येवंवित्का᳘मं प᳘रस्मा ऽअग्निं᳘ चिनुयादीश्वरो᳘ ह श्रे᳘यान्भ᳘वितोः॥
मूलम् - Weber
तद्य᳘देते᳘नोपति᳘ष्ठते॥
य᳘देॗवास्या᳘त्र विद्वान्वा᳘विद्वा᳘ति वा रेच᳘यति न᳘ वाभ्याप᳘यति त᳘देॗवास्यैते᳘न स᳘र्वमाप्त᳘म् भवति य᳘दस्य किं चा᳘नाप्तं य᳘ उ त᳘स्यामनुष्टु᳘भ्यृचि कामो᳘ ऽत्रैव त᳘माप्नोत्य᳘था एत᳘स्मादेॗवैतत्क᳘र्मणो र᳘क्षांसि नाष्ट्रा अ᳘पहन्तिॗ नो हैनमनुव्याहारि᳘ण स्तृण्वते त᳘स्माद᳘प्येवंवित्का᳘मम् प᳘रस्मा अग्निं᳘ चिनुयादीश्वरो᳘ ह श्रे᳘यान्भ᳘वितोः॥
मूलम् - विस्वरम्
तद्यदेतेनोपतिष्ठते- यदेवास्यात्र विद्वान्वा ऽविद्वान्- वा- अति वा रेचयति, न वा ऽभ्यापयति- तदेवास्यैतेन सर्व्वमाप्तं भवति- यदस्य किं चानाप्तम् । य उ तस्यामनुष्टुभ्यृचि कामः- अत्रैव तमाप्नोति । अथो एतस्मादेवैतत्कर्मणो रक्षांसि नाष्ट्रा अपहन्ति । नो हैनमनुव्याहारिणः स्तृण्वते । तस्मादप्येवंवित् कामं परस्मा अग्निं चिनुयात्- ईश्वरो ह श्रेयान्भवितोः ॥ ३ ॥
सायणः
…
Eggeling
- Thus, when he reverently stands by (the altar) with this (hymn), everything is thereby made good 6 for him that, knowing or unknowing, he either does in excess, or does not carry to the end, in this building of the altar–in short, whatever was not secured for him. And whatever wish there is in that anushṭubh verse 7, that he secures even now; and, moreover, he thereby keeps off the fiends, the Rakshas, from this sacred work, and they do not wreck him, whilst uttering imprecations. Wherefore one who knows this may readily build a fire-altar even for an enemy, for he is able to gain the better of him.
०४
विश्वास-प्रस्तुतिः
(र्व्वा᳘) व्वा᳘र्त्रहत्याय श᳘वसे॥
सह᳘दानुं पुरुहूत क्षिय᳘न्तमि᳘ति व्वा᳘र्त्रघ्नीभ्यां प्रथमा᳘भ्यामु᳘पतिष्ठत ऽएतद्वै᳘ देवा᳘ व्वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मान ऽएतत्क᳘र्माकुर्व्वत त᳘थै᳘वैतद्य᳘जमानो व्वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मैतत्क᳘र्म कुरुते॥
मूलम् - श्रीधरादि
(र्व्वा᳘) व्वा᳘र्त्रहत्याय श᳘वसे॥
सह᳘दानुं पुरुहूत क्षिय᳘न्तमि᳘ति व्वा᳘र्त्रघ्नीभ्यां प्रथमा᳘भ्यामु᳘पतिष्ठत ऽएतद्वै᳘ देवा᳘ व्वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मान ऽएतत्क᳘र्माकुर्व्वत त᳘थै᳘वैतद्य᳘जमानो व्वृत्रं᳘ पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मैतत्क᳘र्म कुरुते॥
मूलम् - Weber
वा᳘र्त्रहत्याय श᳘वसे॥
सह᳘दानुम् पुरुहूत क्षिय᳘न्तमि᳘ति वा᳘र्त्रघ्नीभ्याम् प्रथमा᳘भ्यामु᳘पतिष्टत एतद्वै᳘ देवा᳘ वृत्र᳘म् पाप्मा᳘नᳫं हत्वा᳘पहतपाप्मान एतत्क᳘र्माकुर्वत त᳘थैॗवैतद्य᳘जमानो वृत्र᳘म् पाप्मा᳘नᳫं हत्वा᳘पहतपाप्मैतत्क᳘र्म कुरुते॥
मूलम् - विस्वरम्
(१) “वार्त्रहत्याय शवसे, (२) सहदानुं पुरुहूत क्षियन्तम्"- (वा. सं. १८ । ६८, ६९) इति वार्त्रघ्नीभ्यां प्रथमाभ्यामुपतिष्ठते । एतद्वै देवा वृत्रं पाप्मानं हत्वा ऽपहतपाप्मान एतत्कर्माकुर्वत । तैथैवतद्यजमानो वृत्रं पाप्मानं हत्वा ऽपहतपाप्मैतत्कर्म कुरुते ॥ ४ ॥
सायणः
…
Eggeling
- [He approaches reverently the fire-altar 8, with, Vāj. S. XVIII, 68-74], ‘For mighty strength that smiteth Vr̥tra, and for victory in battle, we call thee hither, O Indra!’ ‘O much-invoked Indra, crush thou the handless Kuṇāru, lurking here, together with the Dānus; and with might smite thou the footless Vr̥tra, the ever-growing mocker!’ thus he reverently stands by (the fire) with the first two (verses) relating to the slaying of Vr̥tra. For now the gods, having warded off Vr̥tra, evil, performed this rite freed from evil; and in like manner does the Sacrificer, having warded off Vr̥tra, evil, now perform this rite freed from evil.
०५
विश्वास-प्रस्तुतिः
वि᳘ न ऽइन्द्र मृ᳘धो जहि॥
मृगो न᳘ भीमः᳘ कुचरो᳘ गिरिष्ठा ऽइ᳘ति व्वैमृधी᳘भ्यां द्विती᳘याभ्यामेतद्वै᳘ देवा मृ᳘धः पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मान ऽएतत्क᳘र्माकुर्व्वत त᳘थै᳘वैतद्य᳘जमानो मृ᳘धः पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मैतत्क᳘र्म कुरुते॥
मूलम् - श्रीधरादि
वि᳘ न ऽइन्द्र मृ᳘धो जहि॥
मृगो न᳘ भीमः᳘ कुचरो᳘ गिरिष्ठा ऽइ᳘ति व्वैमृधी᳘भ्यां द्विती᳘याभ्यामेतद्वै᳘ देवा मृ᳘धः पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मान ऽएतत्क᳘र्माकुर्व्वत त᳘थै᳘वैतद्य᳘जमानो मृ᳘धः पाप्मा᳘नᳫँ᳭ हत्वा᳘ ऽपहतपाप्मैतत्क᳘र्म कुरुते॥
मूलम् - Weber
वि᳘ न इन्द्र मृ᳘धो जहि॥
मृगो न᳘ भीमः᳘ कुचरो गिरिष्ठा इ᳘ति वैमृधी᳘भ्यां द्विती᳘याभ्यामेतद्वै᳘ देवा मृ᳘धः पाप्मा᳘नᳫं हत्वा᳘पहतपाप्मान एतत्क᳘र्माकुर्वत त᳘थैॗवैतद्य᳘जमानो मृ᳘धः पाप्मा᳘नᳫं हत्वा᳘पहतपाप्मैतत्क᳘र्म कुरुते॥
मूलम् - विस्वरम्
(३) “वि न इन्द्र मृधो जहि, (४) मृगो न भीमः कुचरो गिरिष्ठाः”- (वा. सं. १८ । ७०, ७१) इति वैमृधीभ्यां द्वितीयाभ्याम् । एतद्वै देवा मृधः पाप्मानं हत्वा ऽपहतपाप्मान एतत्कर्माकुर्वत । तथैवैतद्यजमानो मृधः पाप्मानं हत्वा ऽपहतपाप्मैतत्कर्म कुरुते ॥ ५ ॥
सायणः
…
Eggeling
- ‘Scatter thou our scorners, O Indra 9!‘Like a terrible, creeping beast, dwelling in the mountains, hast thou come from the farthest distance: having sharpened thy pointed, piercing thunderbolt 10, O Indra, beat thou off the foes, and scatter the spurners!’ thus with the second two (verses) relating to (Indra) Vimr̥dh 11. For now the gods, having warded off the spurners, evil, performed this rite freed from evil; and in like manner does the Sacrificer now, having warded off the spurners, evil, now perform this rite freed from evil.
०६
विश्वास-प्रस्तुतिः
व्वैश्वानरो᳘ न ऽऊत᳘ये॥
पृष्टो᳘ दिवि᳘ पृष्टो᳘ ऽअग्निः᳘ पृथिव्यामि᳘ति व्वैश्वानरी᳘भ्यां तृती᳘याभ्यामेतद्वै᳘ देवा᳘ व्वैश्वानरे᳘ण पाप्मा᳘नं दग्ध्वा᳘ ऽपहतपाप्मान ऽएतत्क᳘र्माकुर्व्वत त᳘थै᳘वैतद्य᳘जमानो व्वैश्वानरे᳘ण पाप्मा᳘नं दग्ध्वा᳘ ऽपहतपाप्मैतत्क᳘र्म कुरुते॥
मूलम् - श्रीधरादि
व्वैश्वानरो᳘ न ऽऊत᳘ये॥
पृष्टो᳘ दिवि᳘ पृष्टो᳘ ऽअग्निः᳘ पृथिव्यामि᳘ति व्वैश्वानरी᳘भ्यां तृती᳘याभ्यामेतद्वै᳘ देवा᳘ व्वैश्वानरे᳘ण पाप्मा᳘नं दग्ध्वा᳘ ऽपहतपाप्मान ऽएतत्क᳘र्माकुर्व्वत त᳘थै᳘वैतद्य᳘जमानो व्वैश्वानरे᳘ण पाप्मा᳘नं दग्ध्वा᳘ ऽपहतपाप्मैतत्क᳘र्म कुरुते॥
मूलम् - Weber
वैश्वानरो᳘ न ऊत᳘ये॥
पृष्टो᳘ दिवि᳘ पृष्टो᳘ अग्निः᳘ पृथिव्यामि᳘ति वैश्वानरी᳘भ्यां तृती᳘याभ्यामेतद्वै᳘ देवा᳘ वैश्वानरे᳘ण पाप्मा᳘नं दग्ध्वा᳘पहतपाप्मान एतत्क᳘र्माकुर्वत त᳘थैॗवैतद्य᳘जमानो वैश्वानरे᳘ण पाप्मा᳘नं दग्ध्वा᳘पहतपाप्मैतत्क᳘र्म कुरुते॥
मूलम् - विस्वरम्
(५) “वैश्वानरो न ऊतये, (६) पृष्टो दिवि पृष्टो अग्निः पृथिव्याम्”- (वा. सं. १८ । ७२, ७३) इति वैश्वानरीभ्यां तृतीयाभ्याम् । एतद्वै देवा वैश्वानरेण पाप्मानं दग्ध्वा ऽपहतपाप्मान एतत्कर्माकुर्वत । तथैवैतद्यजमानो वैश्वानरेण पाप्मानं दग्ध्वा ऽपहतपाप्मैतत्कर्म कुरुते ॥ ६ ॥
सायणः
…
Eggeling
- ‘May Agni Vaiśvānara come forward from afar to our help, to hear our hymns of praise!’–‘Sought after in the sky, sought after on earth, Agni, sought after, hath entered all the plants: Agni Vaiśvānara, sought after, may guard us from injury by day and by night!’ thus with the third two (verses) relating to (Agni) Vaiśvānara. For now the gods, having, by Vaiśvānara, burnt out evil, performed this rite, freed from evil; and in like manner does the . Sacrificer now, by Vaiśvānara, burn out evil, and perform this rite freed from evil.
०७
विश्वास-प्रस्तुतिः
(ते ऽश्या᳘) अश्या᳘म तं का᳘ममग्ने त᳘वोती᳘ति॥
(त्ये᳘) ए᳘कया का᳘मवत्यैतद्वै᳘ देवाः᳘ षडृचे᳘न पाप्मा᳘नमपहत्यै᳘कया का᳘मवत्यैक᳘धा ऽन्ततः स᳘र्व्वान्का᳘मानात्म᳘न्नकुर्व्वत त᳘थै᳘वैतद्य᳘जमानः षडृचे᳘न पाप्मा᳘नमपहत्यै᳘कया का᳘मवत्यैक᳘धा ऽन्ततः स᳘र्व्वान्का᳘मानात्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
(ते ऽश्या᳘) अश्या᳘म तं का᳘ममग्ने त᳘वोती᳘ति॥
(त्ये᳘) ए᳘कया का᳘मवत्यैतद्वै᳘ देवाः᳘ षडृचे᳘न पाप्मा᳘नमपहत्यै᳘कया का᳘मवत्यैक᳘धा ऽन्ततः स᳘र्व्वान्का᳘मानात्म᳘न्नकुर्व्वत त᳘थै᳘वैतद्य᳘जमानः षडृचे᳘न पाप्मा᳘नमपहत्यै᳘कया का᳘मवत्यैक᳘धा ऽन्ततः स᳘र्व्वान्का᳘मानात्म᳘न्कुरुते॥
मूलम् - Weber
अश्या᳘म त का᳘ममग्ने त᳘वोती᳘ति॥
ए᳘कया का᳘मवत्यैतद्वै᳘ देवाः᳘ पाप्मा᳘नमपहत्यै᳘कया का᳘मवत्यैकॗधान्ततः स᳘र्वान्का᳘मानात्म᳘न्नकुर्वत त᳘थैॗवैतद्य᳘जमानः षडृचे᳘न पाप्मा᳘नमपहत्यै᳘कया का᳘मवत्येकॗधान्ततः स᳘र्वान्का᳘मानात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
(७) “अश्याम तं काममग्ने तवोती”- (वा. सं. १८ । ७४) इति एकया कामवत्या । एतद्वै देवाः षडृचेन पाप्मानमपहत्यैकया कामवत्यैकधा ऽन्ततः सर्वान्कामानात्मन्नकुरुत । तथैवैतद्यजमानः षडृचेन पाप्मानमपहत्यैकया कामवत्यैकधा ऽन्ततः सर्वान्कामानात्मन्कुरुते ॥ ७ ॥
सायणः
…
Eggeling
- ‘May we obtain this wish, O Agni, with thy help! may we obtain, O wealthy one, wealth with abundant heroes! striving for strength, may we obtain strength; may we obtain undecaying glory, O thou ever-young!’ thus with one (verse) containing wishes. For now
the gods, having, by the six-versed (hymn), warded off evil, made once for all, by the one wish-holding (verse), all (objects of) wishes their own; and in like manner does the Sacrificer now, having, by the six-versed (hymn), warded off evil, make once for all, by the one wish-holding (verse), all wishes his own.
०८
विश्वास-प्रस्तुतिः
सप्तर्चं᳘ भवति॥
सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः सप्त दि᳘शः सप्त᳘ देवलोकाः᳘ सप्त स्तो᳘माः सप्त᳘ पृष्ठा᳘नि सप्त च्छ᳘न्दाᳫँ᳭सि सप्त᳘ ग्राभ्याः᳘ पश᳘वः स᳘प्तारण्याः᳘ सप्त᳘ शोर्ष᳘न्प्राणा यत्किं᳘ च सप्त᳘विधमधिदेवत᳘मध्यात्मं त᳘देनेन स᳘र्व्वमाप्नोति ता᳘ ऽअनुष्टु᳘भमभिसं᳘पद्यन्ते व्वाग्वा᳘ ऽअनुष्टु᳘ब्वा᳘चै᳘वास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तम्॥
मूलम् - श्रीधरादि
सप्तर्चं᳘ भवति॥
सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः सप्त दि᳘शः सप्त᳘ देवलोकाः᳘ सप्त स्तो᳘माः सप्त᳘ पृष्ठा᳘नि सप्त च्छ᳘न्दाᳫँ᳭सि सप्त᳘ ग्राभ्याः᳘ पश᳘वः स᳘प्तारण्याः᳘ सप्त᳘ शोर्ष᳘न्प्राणा यत्किं᳘ च सप्त᳘विधमधिदेवत᳘मध्यात्मं त᳘देनेन स᳘र्व्वमाप्नोति ता᳘ ऽअनुष्टु᳘भमभिसं᳘पद्यन्ते व्वाग्वा᳘ ऽअनुष्टु᳘ब्वा᳘चै᳘वास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तम्॥
मूलम् - Weber
सप्तर्च᳘म् भवति॥
सप्तचितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः सप्त दि᳘शः सप्त᳘ देवलोकाः᳘ सप्त स्तो᳘माः सप्त᳘ पृष्ठा᳘नि सप्त छ᳘न्दांसि सप्त᳘ ग्राभ्याः᳘ पश᳘वः सॗप्तारण्याः᳘ सप्त᳘ शोर्ष᳘न्प्राणा यत्किं᳘ च सप्त᳘विधमधिदेवत᳘मध्यात्मं त᳘देनेन स᳘र्वमाप्नोति ता᳘ अनुष्टु᳘भमभिस᳘म्पद्यन्ते वाग्वा᳘ अनुष्टु᳘ब्वाॗचैॗवास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तम्॥
मूलम् - विस्वरम्
सप्तर्चं भवति । सप्तचितिको ऽग्निः सप्त ऽर्तवः, सप्त दिशः, सप्त देवलोकाः, सप्त स्तोमाः, सप्त पृष्ठानि, सप्त च्छन्दांसि, सप्त ग्राम्याः पशवः, सप्तारण्याः, सप्त शीर्षन्प्राणाः- यत्किं च सप्तविधमधिदेवतमध्यात्मं- तदेनेन सर्वमाप्नोति । ता अनुष्टुभमभि सम्पद्यन्ते । वाग्वा अनुष्टुप् । वाचैवास्य तदाप्नोति- यदस्य किं चानाप्तम् ॥ ८ ॥
सायणः
…
Eggeling
- It is (a hymn) of seven verses,–the fire-altar consists of seven layers, (and there are) seven seasons, seven regions, seven worlds of the gods, seven stomas, seven pr̥shṭḥa (sāmans), seven metres, seven domestic animals, seven wild ones, seven vital airs in the head, and whatever else there is of seven kinds, relating to deities and relating to the self,–all that he thereby secures. They become equal to the Anushṭubh 12, for the Anushṭubh is speech, and it is by speech that he secures for him (Agni) all that which is not yet secured for him.
०९
विश्वास-प्रस्तुतिः
(म) अष्टर्चेनो᳘पतिष्ठेते᳘त्यु है᳘क ऽआहुः॥
(र्व्व) व्वयं᳘ ते ऽअद्य᳘ ररिमा हि का᳘ममि᳘ति द्विती᳘यया का᳘मवत्या सप्त पू᳘र्वास्त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तम᳘थो ऽएव᳘ᳫँ᳘ समं᳘ देव᳘ते भजेते ऽइ᳘ति न त᳘था कुर्यादेता वाव᳘ स᳘प्ताष्टा᳘वनुष्टु᳘भो भवन्ति स यो ऽष्टर्चे कामो᳘ ऽत्रैव त᳘माप्नोति॥
मूलम् - श्रीधरादि
(म) अष्टर्चेनो᳘पतिष्ठेते᳘त्यु है᳘क ऽआहुः॥
(र्व्व) व्वयं᳘ ते ऽअद्य᳘ ररिमा हि का᳘ममि᳘ति द्विती᳘यया का᳘मवत्या सप्त पू᳘र्वास्त᳘दष्टा᳘वष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तम᳘थो ऽएव᳘ᳫँ᳘ समं᳘ देव᳘ते भजेते ऽइ᳘ति न त᳘था कुर्यादेता वाव᳘ स᳘प्ताष्टा᳘वनुष्टु᳘भो भवन्ति स यो ऽष्टर्चे कामो᳘ ऽत्रैव त᳘माप्नोति॥
मूलम् - Weber
अष्टर्चेनो᳘पतिष्ठेते᳘त्यु है᳘क आहुः॥
वयं᳘ ते अद्य᳘ ररिमा हि का᳘ममि᳘ति द्विती᳘यया का᳘मवत्या सप्त पू᳘र्वास्त᳘दष्टा᳘वष्टा᳘क्षरो गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तम᳘थो एव᳘ᳫं᳘ समं᳘ देव᳘ते भजेते इ᳘ति न त᳘था कुर्यादेता वाव᳘ सॗप्ताष्टा᳘वनुष्टु᳘भो भवन्ति स यो ऽष्टर्चे कामो᳘ ऽत्रैव त᳘माप्नोति॥
मूलम् - विस्वरम्
अष्टर्चेनोपतिष्ठेतेत्यु हैक आहुः । “वयं ते अद्य ररिमा हि कामम्”- (वा. सं. १८ । ७५) इति द्वितीयया कामवत्या । सप्त पूर्वाः । तदष्टौ । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति यदस्य किं चानाप्तम् । अथो एवं समं देवते भजेते इति । न तथा कुर्यात् । एता वाव सप्ताष्टावनुष्टुभो भवन्ति । स यो ऽष्टर्चे कामः- अत्रैव तमाप्नोति ॥ ९ ॥
सायणः
…
Eggeling
- ‘Let him approach (the fire-altar) with an eight-versed (hymn)!’ say some;–‘with (Vāj. S. XVIII, 75), “We thereby offer unto thee thy wish, reverently approaching thee with open hands: with holiest mind and peaceful thought offer thou sacrifice unto the gods as priest, O Agni!” thus with a second wish-holding one,–and the seven foregoing ones, that makes eight,–the Gāyatrī consists of eight syllables, and Agni is of Gāyatra nature: as great as Agni is, as great as is his measure, by so much he thus secures for him
whatsoever is not yet secured for him; and thus, moreover, the two deities 13 receive the same (amount) for their share.’ Let him, however, not do so, for surely those seven (verses) are (equal to) eight anushṭubh (verses), and thus he even therein obtains whatever wished-for object there is in the eight-versed (hymn).
१०
विश्वास-प्रस्तुतिः
(त्यै) ऐन्द्राग्नी᳘भिरु᳘पतिष्ठते॥
(त ऽऐ) ऐन्द्रा᳘ग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्रै᳘वास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तमिन्द्राग्नी वै स᳘र्व्वे देवाः᳘ सर्व्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा तावतै᳘वास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तम्॥
मूलम् - श्रीधरादि
(त्यै) ऐन्द्राग्नी᳘भिरु᳘पतिष्ठते॥
(त ऽऐ) ऐन्द्रा᳘ग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्रै᳘वास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तमिन्द्राग्नी वै स᳘र्व्वे देवाः᳘ सर्व्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा तावतै᳘वास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तम्॥
मूलम् - Weber
ऐन्द्राग्नी᳘भिरु᳘पतिष्ठते॥
ऐन्द्राॗग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्रैॗवास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तमिन्द्राग्नी वै स᳘र्वे देवाः᳘ सर्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा तावतैॗवास्य त᳘दाप्नोति य᳘दस्य किं चा᳘नाप्तम्॥
मूलम् - विस्वरम्
ऐन्द्राग्नीभिरुपतिष्ठते । ऐन्द्राग्नो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति- यदस्य किं चानाप्तम् । इन्द्राग्नी वै सर्वे देवाः । सर्वदेवत्यो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति यदस्य किं चानाप्तम् ॥ १० ॥
सायणः
…
Eggeling
- With (verses) addressed to Indra and Agni he approaches (the fire);–the fire-altar belongs to Indra and Agni: as great as Agni is, as great as is his measure, by so much he thus gains for him whatever has not been gained for him. And Indra and Agni are all the gods, and the fire-altar belongs to (or Agni is) all the deities: as great as Agni is, as great as is his measure, by so much he thus gains for him whatever has not been gained for him.
११
विश्वास-प्रस्तुतिः
(न्त) तद्धै᳘के॥
क᳘र्मणः कर्मण ऽए᳘वैतां᳘ प्रतिप᳘दं कुर्व्वते᳘ ऽपहतपाप्मान ऽएतत्क᳘र्म करवामहा ऽइति᳘[[!!]] पु᳘रीषवतीं चि᳘तिं कृत्वो᳘पतिष्ठेते᳘त्यु है᳘क ऽआहुस्त᳘त्र हि सा स᳘र्व्वा कृत्स्ना भ᳘वती᳘ति स य᳘था काम᳘येत त᳘था कुर्यादि᳘ति नु च᳘यनस्याथातो᳘ ऽचयनस्य॥
मूलम् - श्रीधरादि
(न्त) तद्धै᳘के॥
क᳘र्मणः कर्मण ऽए᳘वैतां᳘ प्रतिप᳘दं कुर्व्वते᳘ ऽपहतपाप्मान ऽएतत्क᳘र्म करवामहा ऽइति᳘[[!!]] पु᳘रीषवतीं चि᳘तिं कृत्वो᳘पतिष्ठेते᳘त्यु है᳘क ऽआहुस्त᳘त्र हि सा स᳘र्व्वा कृत्स्ना भ᳘वती᳘ति स य᳘था काम᳘येत त᳘था कुर्यादि᳘ति नु च᳘यनस्याथातो᳘ ऽचयनस्य॥
मूलम् - Weber
तद्धै᳘के॥
क᳘र्मणः कर्मण एॗवैताम् प्रतिप᳘दं कुर्वते᳘ ऽपहतपाप्मान एतत्क᳘र्म करवामहा इ᳘ति पु᳘रीषवतीं चि᳘तिं कृत्वो᳘पतिष्ठेते᳘त्यु है᳘क आहुस्त᳘त्र हि सा स᳘र्वा कृत्स्ना भ᳘वती᳘ति स य᳘था काम᳘येत त᳘था कुर्यादि᳘ति नु च᳘यनस्याथातो᳘ ऽचयनस्य॥
मूलम् - विस्वरम्
तद्धैके- कर्मणः कर्मण एवैतां प्रतिपदं कुर्वते । अपहतपाप्मान एतत्कर्म करवामहा इति । पुरीषवर्ती चितिं कृत्वोपतिष्ठेतेत्यु हैक आहुः । तत्र हि सा सर्वा कृत्स्ना भवतीति । स यथा कामयेत तथा कुर्यात् । इति नु चयनस्य । अथातो ऽचयनस्य ॥ ११ ॥
सायणः
…
Eggeling
- Now some make this (hymn) the opening rite of every performance, saying, ‘Freed from evil, we must perform this sacred work!’ And others, indeed, say, ‘Let him approach reverently (each) layer when it is covered with soil, for therein that (layer) becomes whole and complete.’ Let him, then, do as he chooses. So much as to the building; now as to the non-building.
१२
विश्वास-प्रस्तुतिः
त्र᳘यो ह वै᳘ समुद्राः᳘॥
(ऽ) अग्निर्य᳘जुषां महाव्रतᳫँ᳭ सा᳘म्नां मह᳘दुक्थ᳘मृचाᳫँ᳭ स य᳘ ऽएता᳘नि प᳘रस्मै करो᳘त्येता᳘न्ह स᳘ समुद्रा᳘ञ्छोषयते ताञ्छु᳘ष्यतो᳘ ऽन्वस्य च्छ᳘न्दाᳫँ᳭सि शुष्यन्ति च्छ᳘न्दाᳫँ᳭स्य᳘नु लोको᳘ लोकम᳘न्वा᳘त्मा ऽऽत्मा᳘नम᳘नु प्रजा᳘ पश᳘वः स᳘ ह श्वः᳘ श्व ऽएव पा᳘पीयान्भवति य᳘ ऽएता᳘नि प᳘रस्मै करो᳘ति॥
मूलम् - श्रीधरादि
त्र᳘यो ह वै᳘ समुद्राः᳘॥
(ऽ) अग्निर्य᳘जुषां महाव्रतᳫँ᳭ सा᳘म्नां मह᳘दुक्थ᳘मृचाᳫँ᳭ स य᳘ ऽएता᳘नि प᳘रस्मै करो᳘त्येता᳘न्ह स᳘ समुद्रा᳘ञ्छोषयते ताञ्छु᳘ष्यतो᳘ ऽन्वस्य च्छ᳘न्दाᳫँ᳭सि शुष्यन्ति च्छ᳘न्दाᳫँ᳭स्य᳘नु लोको᳘ लोकम᳘न्वा᳘त्मा ऽऽत्मा᳘नम᳘नु प्रजा᳘ पश᳘वः स᳘ ह श्वः᳘ श्व ऽएव पा᳘पीयान्भवति य᳘ ऽएता᳘नि प᳘रस्मै करो᳘ति॥
मूलम् - Weber
त्र᳘यो ह वै᳘ समुद्राः᳟॥
अग्निर्य᳘जुषाम् महाव्रतᳫं सा᳘म्नाम् मह᳘दुक्थ᳘मृचाᳫं स य᳘ एता᳘नि प᳘रस्मै करो᳘त्येता᳘न्ह स᳘ समुद्रा᳘ञ्छोषयते ताञ्छु᳘ष्यतो᳘ ऽन्वस्य छ᳘न्दांसि शुष्यन्ति छ᳘न्दांस्य᳘नु लोको᳘ लोकम᳘न्वाॗत्मात्मा᳘नम᳘नु प्रजा᳘ पश᳘वः स᳘ ह श्वः᳘ श्व एव पा᳘पीयान्भवति य᳘ एता᳘नि प᳘रस्मै करो᳘ति॥
मूलम् - विस्वरम्
त्रयो ह वै समुद्राः- अग्निर्यजुषाम्, महाव्रतं साम्नाम्, महदुक्थमृचाम् । स य एतानि परस्मै करोति- एतान् ह स समुद्राच्छोषयते । ताञ्छुष्यतो ऽन्वस्य च्छन्दांसि शुष्यन्ति । छन्दांस्यनु लोकः । लोकमन्वात्मा । आत्मानमनु प्रजा पशवः । स ह श्वः श्व एव पापीयान्भवति- य एतानि परस्मै करोति ॥ १२ ॥
सायणः
…
Eggeling
- Verily, there are three oceans,–the Fire-altar (being the ocean) of Yajus-formulas, the Mahāvrata (-sāman) 14 that of Sāmans (hymn-tunes), and the Mahad uktham (Great Litany 15) that of R̥c (verses). Whoever performs these (three rites) for another
person causes these oceans to dry up for himself, and after them, thus drying up, the metres 16 dry up for him; and after the metres the world; and after the world his own self; and after his own self his children and cattle: indeed, he who performs these for another person becomes poorer day after day.
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘ ऽएतान्य᳘कृत्वा॥
प᳘रस्मा ऽअ᳘पि स᳘र्व्वैरन्यै᳘र्यज्ञक्रतु᳘भिर्याज᳘येदेते᳘भ्यो है᳘वास्य समुद्रे᳘भ्यश्छ᳘न्दाᳫँ᳭सि पु᳘नरा᳘प्यायन्ते च्छ᳘न्दाᳫँ᳭स्य᳘नु लोको᳘ लोकम᳘न्वा᳘त्मा ऽऽत्मा᳘नम᳘नु प्रजा᳘ पश᳘वः स᳘ ह श्वः᳘ श्व ऽएव श्रे᳘यान्भवति य᳘ ऽएता᳘नि प᳘रस्मै न᳘ करोत्य᳘थैष᳘ ह वा᳘ ऽअस्य दै᳘वो ऽमृ᳘त ऽआत्मा स य᳘ ऽएता᳘नि प᳘रस्मै करो᳘त्येत᳘ᳫँ᳘ ह स दै᳘वमात्मा᳘नं प᳘रस्मै प्र᳘यच्छत्य᳘थ शु᳘ष्क ऽएव᳘ स्थाणुः प᳘रिशिष्यते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘ ऽएतान्य᳘कृत्वा॥
प᳘रस्मा ऽअ᳘पि स᳘र्व्वैरन्यै᳘र्यज्ञक्रतु᳘भिर्याज᳘येदेते᳘भ्यो है᳘वास्य समुद्रे᳘भ्यश्छ᳘न्दाᳫँ᳭सि पु᳘नरा᳘प्यायन्ते च्छ᳘न्दाᳫँ᳭स्य᳘नु लोको᳘ लोकम᳘न्वा᳘त्मा ऽऽत्मा᳘नम᳘नु प्रजा᳘ पश᳘वः स᳘ ह श्वः᳘ श्व ऽएव श्रे᳘यान्भवति य᳘ ऽएता᳘नि प᳘रस्मै न᳘ करोत्य᳘थैष᳘ ह वा᳘ ऽअस्य दै᳘वो ऽमृ᳘त ऽआत्मा स य᳘ ऽएता᳘नि प᳘रस्मै करो᳘त्येत᳘ᳫँ᳘ ह स दै᳘वमात्मा᳘नं प᳘रस्मै प्र᳘यच्छत्य᳘थ शु᳘ष्क ऽएव᳘ स्थाणुः प᳘रिशिष्यते॥
मूलम् - Weber
अ᳘थ य᳘ एतान्य᳘कृत्वा॥
प᳘स्मा अ᳘पि स᳘र्वैरन्यै᳘र्यज्ञक्रतु᳘भिर्याज᳘येदेते᳘भ्यो हैॗवास्य समुद्रे᳘भ्यश्छ᳘न्दांसि पु᳘नरा᳘प्यायन्ते छ᳘न्दांस्य᳘नु लोको᳘ लोकम᳘न्वाॗत्मात्मा᳘नम᳘नु प्रजा᳘ पश᳘वः स᳘ ह श्वः᳘ श्व एव श्रे᳘यान्भवति य᳘ एता᳘नि प᳘रस्मै न᳘ करोत्य᳘थैष᳘ ह वा᳘ अस्य दै᳘वो ऽमृ᳘त आत्मा स य᳘ एता᳘नि प᳘रस्मै करो᳘त्येत᳘ᳫं᳘ ह स दै᳘वमात्मा᳘नम् प᳘रस्मै प्र᳘यछत्य᳘थ शु᳘ष्क एव᳘ स्थाणुः प᳘रिशिष्यते॥
मूलम् - विस्वरम्
अथ य एतान्यकृत्वा परस्मा अपि सर्वैरन्यैर्यज्ञक्रतुभिर्याजयेत्- एतेभ्यो हैवास्य समुद्रेभ्यश्छन्दांसि पुनराप्यायन्ते । छन्दांस्यनु लोकः । लोकमन्वात्मा । आत्मानमनु प्रजा पशवः । स ह श्वः श्व एव श्रेयान् भवति । य एतानि परस्मै न करोति । अथैष ह वा ऽअस्य देवो ऽमृत आत्मा । स य एतानि परस्मै करोति- एतं ह स दैवमात्मानं परस्मै प्रयच्छति । अथ शुष्क एव स्थाणुः परिशिष्यते ॥ १३ ॥
सायणः
…
Eggeling
- And he who, not having performed these (rites) for another person, were to officiate in the performance even of all other sacrifices, for him the metres again replenish themselves from out of those oceans, and after the metres the world, and after the world his own self, and after his own self his children and cattle: indeed, he who does not perform those rites for another person, becomes more prosperous day after day. For, indeed, these (rites) are his divine, immortal body; and he who performs them for another person, makes over to another his divine body, and a withered trunk is all that remains.
१४
विश्वास-प्रस्तुतिः
तद्धै᳘के॥
कृत्वा᳘ कुर्व्व᳘ते वा प्र᳘ति वा कारयन्त ऽएषा प्रा᳘यश्चित्तिरि᳘ति न त᳘था कुर्याद्य᳘था शु᳘ष्कᳫँ᳭ स्थाणु᳘मुदके᳘नाभिषिञ्चे᳘तादृक्तत्पू᳘येद्वा वै स व्वि᳘ वा म्रित्ये᳘न्नैत᳘स्य प्रा᳘यश्चित्तिरस्ती᳘त्येव᳘ व्विद्यात्॥
मूलम् - श्रीधरादि
तद्धै᳘के॥
कृत्वा᳘ कुर्व्व᳘ते वा प्र᳘ति वा कारयन्त ऽएषा प्रा᳘यश्चित्तिरि᳘ति न त᳘था कुर्याद्य᳘था शु᳘ष्कᳫँ᳭ स्थाणु᳘मुदके᳘नाभिषिञ्चे᳘तादृक्तत्पू᳘येद्वा वै स व्वि᳘ वा म्रित्ये᳘न्नैत᳘स्य प्रा᳘यश्चित्तिरस्ती᳘त्येव᳘ व्विद्यात्॥
मूलम् - Weber
तद्धै᳘के॥
कृत्वा᳘ कुर्व᳘ते वा प्र᳘ति वा कारयन्त एषा प्रा᳘यश्चित्तिरि᳘ति न त᳘था कुर्याद्य᳘था शु᳘ष्कᳫं स्थाणु᳘मुदके᳘नाभिषिञ्चेतादृक्तत्पू᳘येद्वा वै स वि᳘ वा म्रित्येॗन्नैत᳘स्य प्रा᳘यश्चित्तिरस्ती᳘त्येव᳘ विद्यात्॥
मूलम् - विस्वरम्
तद्धैके कृत्वा कुर्वते वा, प्रति वा कारयन्ते- एषा प्रायश्चित्तिरिति । न तथा कुर्यात् । यथा शुष्कं स्थाणुमुदकेनाभिषिञ्चेत्- तादृक्तत् । पूयेद्वा वै सः । वि वा म्रित्येत् । नैतस्य प्रायश्चित्तिरस्ति- इत्येव विद्यात् ॥ १४ ॥
सायणः
…
Eggeling
- Now, some (say), ‘Having performed them for another person, they either perform them for themselves or cause them to be performed again: this is the atonement.’ But let him not do this, for it would be as if one were to water a withered trunk; it would rot and die: let him know that there is no atonement for such an one.
१५
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ ह स्माह शा᳘ण्डिल्यः॥
(स्तु) तुरो᳘ ह कावषेयः का᳘रोत्यां देवे᳘भ्यो ऽग्निं᳘ चिकाय त᳘ᳫँ᳘ ह देवाः᳘ पप्रच्छुर्मु᳘ने य᳘दलोक्या᳘मग्निचित्या᳘माहुर᳘थ क᳘स्मादचैषीरि᳘ति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ ह स्माह शा᳘ण्डिल्यः॥
(स्तु) तुरो᳘ ह कावषेयः का᳘रोत्यां देवे᳘भ्यो ऽग्निं᳘ चिकाय त᳘ᳫँ᳘ ह देवाः᳘ पप्रच्छुर्मु᳘ने य᳘दलोक्या᳘मग्निचित्या᳘माहुर᳘थ क᳘स्मादचैषीरि᳘ति॥
मूलम् - Weber
अ᳘थ ह स्माह शा᳘ण्डिल्यः॥
तुरो᳘ ह कावषेयः का᳘रोत्यां देवे᳘भ्यो ऽग्निं᳘ चिकाय त᳘ᳫं᳘ ह देवाः᳘ पप्रछुर्मु᳘ने य᳘दलोक्या᳘मग्निचित्या᳘माहुर᳘थ क᳘स्मादचैषीरि᳘ति॥
मूलम् - विस्वरम्
अथ ह स्माह शाण्डिल्यः- तुरो ह कावषेयः कारोत्यां देवेभ्यो ऽग्निं चिकाय । तं ह देवाः पप्रच्छुः । मुने ! यदलोक्यामग्निचित्यामाहुः- अथ कस्मादचैषीरिति ॥ १५ ॥
सायणः
…
Eggeling
- And Śāṇḍilya once upon a time said–Tura Kāvasheya once built a fire-altar for the gods at Kārotī. The gods asked him, ‘Sage, seeing that they declare the building of the fire-altar not to be conducive to heaven, why then hast thou built one?’
१६
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
किं नु᳘ लो᳘क्यं[[!!]] कि᳘मलोक्य᳘मात्मा वै᳘ यज्ञ᳘स्य य᳘जमानो᳘ ऽङ्गान्यृत्वि᳘जो य᳘त्र वा᳘ ऽआत्मा तद᳘ङ्गानि य᳘त्रो ऽअ᳘ङ्गानि त᳘दात्मा य᳘दि वा᳘ ऽऋत्वि᳘जो ऽलोका भ᳘वन्त्यलोक᳘ ऽउ त᳘र्हि य᳘जमान ऽउभ᳘ये हि᳘ समान᳘लोका भ᳘वन्ति द᳘क्षिणासु᳘ त्वेव न᳘ संवदित᳘व्यᳫँ᳭ संवादे᳘नैव᳘ ऽर्त्वि᳘जो ऽलोका इ᳘ति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
किं नु᳘ लो᳘क्यं[[!!]] कि᳘मलोक्य᳘मात्मा वै᳘ यज्ञ᳘स्य य᳘जमानो᳘ ऽङ्गान्यृत्वि᳘जो य᳘त्र वा᳘ ऽआत्मा तद᳘ङ्गानि य᳘त्रो ऽअ᳘ङ्गानि त᳘दात्मा य᳘दि वा᳘ ऽऋत्वि᳘जो ऽलोका भ᳘वन्त्यलोक᳘ ऽउ त᳘र्हि य᳘जमान ऽउभ᳘ये हि᳘ समान᳘लोका भ᳘वन्ति द᳘क्षिणासु᳘ त्वेव न᳘ संवदित᳘व्यᳫँ᳭ संवादे᳘नैव᳘ ऽर्त्वि᳘जो ऽलोका इ᳘ति॥
मूलम् - Weber
स᳘ होवाच॥
किं नु᳘ लोक्यं᳘ कि᳘मलोक्य᳘मात्मा वै᳘ यज्ञ᳘स्य य᳘जमानो᳘ ऽङ्गान्यृत्वि᳘जो य᳘त्र वा᳘ आत्मा तद᳘ङ्गानि य᳘त्रो अ᳘ङ्गानि त᳘दात्मा य᳘दि वा᳘ ऋत्वि᳘जो ऽलोका 17 भ᳘वन्त्यलोक᳘ उ त᳘र्हि य᳘जमान उभ᳘ये हि᳘ समान᳘लोका भ᳘वन्ति द᳘क्षिणासुॗ त्वेव न᳘ संवदित᳘व्यᳫं संवादे᳘नैव᳘ ऽर्त्वि᳘जो ऽलोका इ᳘ति॥
मूलम् - विस्वरम्
स होवाच- किं नु लोक्यम्, किमलोक्यम् । आत्मा वै यज्ञस्य यजमानः, अङ्गान्यृत्विजः । यत्र वा आत्मा- तदङ्गानि । यत्रो अङ्गानि- तदात्मा । यदि वा ऋत्विजो ऽलोका भवन्ति- अलोक उ तर्हि यजमानः । उभये हि समानलोका भवन्ति । दक्षिणासु त्वेव न सम्वदितव्यम् । संवादेनैवर्त्विजो ऽलोका इति ॥ १६ ॥
इति संचितिप्रकरणं सम्पूर्णम् ।
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे पञ्चमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (९-५-२) ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरबुक्कहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे पञ्चमो ऽध्यायः ॥ (९-५) ॥
सायणः
…
Eggeling
- He said, ‘What is conducive to heaven,
and what is not conducive thereto? The Sacrificer is the body of the sacrifice, and the officiating priests are the limbs; and, surely, where the body is there are the limbs; and where the limbs are there is the body. And, verily, if the priests have no place in heaven, then the Sacrificer has none, for both are of the same world. But let there be no bargaining as to sacrificial fees, for by bargaining the priests are deprived of their place in heaven.’
-
पर्ण्यः A. ↩︎
-
अत्र पंचम्याः सप्तर्चोपस्थानँ सर्व्वोपधानात् । धिष्ण्यान्वा चित्योत्तमासंयोगात् । अभिमृशेदिच्छन् संवत्सरो ऽसीति । एवं यथाचितिः । का. श्रौ. सू. १८ । ५१-५४ । ↩︎
-
चितिं पुरीषवतीमुपतिष्ठते व्वार्त्रहत्यायेति सप्तभिः । अष्टाभिरेके दशभिर्वा । का० श्रौ० सू० १७ । १३५-१३६ । ↩︎
-
इतो ऽग्रे ऽस्य ब्राह्मणस्य सायणभाष्यं वा हरिस्वामिभाष्यं वा नोपलब्धम् । अतो मूलमात्रं ऋजुपाठसहितं मुद्रितम् । यद्येतद्भाष्यं केषांचन महाभागानां सविधे वर्तते तैर्दीयेत चेद्द्वितीयावृत्तौ संगृह्य मुद्रितं भवेदिति से प्रार्थ्यन्ते ॥ ↩︎
-
274:1 Viz. in the building of the fire-altar; literally, for the obtainment of the deficient. ↩︎
-
275:1 Literally, obtained. ↩︎
-
275:2 Viz. the first of the seven verses (R̥g-veda III, 37, 1). ↩︎
-
275:3 According to Kāty. Śr. XVII, 7, 1, this ceremony should take place on the completion of each layer, after it has been covered with loose earth; cf. paragraph 11. ↩︎
-
276:1 For the complete verse, see IV, 6, 4, 4. ↩︎
-
276:2 Thus Mahīdhara. ↩︎
-
276:3 That is, the repeller of spurners, or enemies. ↩︎
-
277:1 The seven verses consist of two Gāyatrīs (twenty-four syllables each), four Trishṭubhs (forty-four each), and one Anushṭubh (thirty-two syllables). Whilst the two Gāyatrīs are sixteen syllables short of two Anushṭubhs, the four Trishṭubhs have forty-eight syllables in excess of four Anushṭubhs. Hence the seven verses consist of 8 × 32 syllables, or eight Anushṭubhs. ↩︎
-
278:1 Viz. Indra and Agni, having each four verses addressed to them. ↩︎
-
278:2 See p. 282, note 5. ↩︎
-
278:3 See p. 110, note 3; p. 111, note 1. ↩︎
-
279:1 That is, the Vedic texts. ↩︎
-
जो लोका ABC. ↩︎