०१

विश्वास-प्रस्तुतिः

अथा᳘तः पयोव्रत᳘तायै॥
प᳘योव्रतो दीक्षितः᳘ स्याद्देवे᳘भ्यो ह वा᳘ ऽअमृ᳘तम᳘पचक्राम॥

मूलम् - श्रीधरादि

अथा᳘तः पयोव्रत᳘तायै॥
प᳘योव्रतो दीक्षितः᳘ स्याद्देवे᳘भ्यो ह वा᳘ ऽअमृ᳘तम᳘पचक्राम॥

मूलम् - Weber

अथा᳘तः पयोव्रत᳘तायै॥
प᳘योव्रतो दीक्षितः᳘ स्याद्देवे᳘भ्यो ह वा᳘ अमृ᳘तम᳘पचक्राम॥

मूलम् - विस्वरम्

अथ यजमानव्रतमीमांसा ।

अथातः पयोव्रततायै । पयोव्रतो दीक्षितः स्यात् । देवेभ्यो ह वा अमृतमपचक्राम ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथावशिष्टः कृत्स्नो ऽपि प्रयोगः प्रकृतिवदेवेत्यभिप्रायेण तमनभिधाय पयोव्रतस्य मीमांसा क्रियत इति प्रतिजानीते- अथातः पयोव्रतताया इति । षष्ठ्यर्थे चतुर्थी । पयोव्रततायाः मीमांसा क्रियत इति वाक्यशेषः । विधत्ते- पयोव्रत इति । ‘दीक्षितः पयोव्रतः स्यात्’ । व्रतशब्देनात्राभ्यवहार उच्यते । पत्र एव व्रतम् अभ्यवहारो यस्य स पयोव्रतः । अथैतदेव पयोव्रतं प्रशंसितुं कांचित्कथामवतारयति- देवेभ्यो ह वा इत्यादिना । पुरा किलामृतं देवेभ्यः सकाशादपचक्राम । तत् ‘श्रमेण’ तत्साध्येन ‘तपसा’ च ‘इदम्’ अमृतम् ‘अन्विच्छाम’ इति परस्परमुक्त्वा तथैवाकार्षुः । ‘तच्छ्रमेण तपसा ऽन्वैच्छन्’ इत्येतदेव दीक्षित्वेत्यादिना विवृणोति । ‘दीक्षित्वा पयोव्रतो भवेदिति’ यत् तदेव तपः खलु । तस्मात् ते देवा दीक्षित्वा पयोव्रता अभवन् । ततस्तेन तपसा तस्यामृतस्य घोषमाशुश्रुवुः । श्रुत्वा च ते तदमृतं सन्निहितं भवति घोषस्य श्रुतत्वात् इति बुद्ध्वा अतो ऽधिकं तप उपगच्छेमेत्युक्त्वा त्रौन्स्तनानुपेयुः । स्तनत्रयादुत्पन्नं पयो ऽभ्यवहृतवन्तः । अनेन पूर्वं पयोव्रता अभवन्नित्यत्र चतुरः स्तनानुपेयुरित्यर्थो ऽवगम्यते । ततो देवाः ‘तत्’ नेदीयो ऽमृतं पराददृशुः । त्रीन् स्तनानित्यनेन, द्वितीयदिने प्रथमोपसदि त्रिस्तननिर्गलितपयोव्रता भवेयुरिति प्रतिपद्यते ॥ १-३ ॥

Eggeling
  1. Now, then, as to the taking of milk as fast-food: the initiated should take milk for his fast-food. Once upon a time the nectar of immortality departed from the gods.

०२

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
श्र᳘मेण त᳘पसेदम᳘न्विच्छामे᳘ति तच्छ्र᳘मेण त᳘पसा᳘ ऽन्वैच्छंस्ते᳘ दीक्षित्वा प᳘योव्रता ऽअभवन्नेतद्वै त᳘पो यो᳘ दीक्षित्वा प᳘योव्रतो᳘ ऽसत्त᳘स्य घो᳘षमा᳘शुश्रुवुः॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
श्र᳘मेण त᳘पसेदम᳘न्विच्छामे᳘ति तच्छ्र᳘मेण त᳘पसा᳘ ऽन्वैच्छंस्ते᳘ दीक्षित्वा प᳘योव्रता ऽअभवन्नेतद्वै त᳘पो यो᳘ दीक्षित्वा प᳘योव्रतो᳘ ऽसत्त᳘स्य घो᳘षमा᳘शुश्रुवुः॥

मूलम् - Weber

ते᳘ होचुः॥
श्र᳘मेण त᳘पसेदम᳘न्विछामे᳘ति तछ्र᳘मेण त᳘पसान्वैछंस्ते᳘ दीक्षित्वा प᳘योव्रता अभवन्नेतद्वै त᳘पो यो᳘ दीक्षित्वा प᳘योव्रतो᳘ ऽसत्त᳘स्य घो᳘षमा᳘शुश्रुवुः॥

मूलम् - विस्वरम्

ते होचुः- श्रमेण तपसेदमन्विच्छामेति । तच्छ्रमेण तपसा ऽन्वैच्छन् । ते दीक्षित्वा पयोव्रता अभवन् । एतद्वै तपो यो दीक्षित्वा पयोव्रतो ऽसत् । तस्य घोषमाशुश्रुवुः ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. They said, ‘Let us seek for it here by toil and penance!’ They sought for it by toil and penance. Having become initiated, they were living on fast-milk, for penance it is when, after becoming initiated, one lives on fast-milk. They heard the sound of it.

०३

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ होचुः॥
(र्ने᳘) ने᳘दीयो वै᳘ भवति भू᳘यस्त᳘प ऽउपायामे᳘ति ते त्रीन्त्स्त᳘नानु᳘पेयुस्तत्प᳘राददृशुः॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ होचुः॥
(र्ने᳘) ने᳘दीयो वै᳘ भवति भू᳘यस्त᳘प ऽउपायामे᳘ति ते त्रीन्त्स्त᳘नानु᳘पेयुस्तत्प᳘राददृशुः॥

मूलम् - Weber

ते᳘ होचुः॥
ने᳘दीयो वै᳘ भवति भू᳘यस्त᳘प उपायामे᳘ति ते त्रीन्त्स्त᳘नानु᳘पेयुस्तत्प᳘राददृशुः॥

मूलम् - विस्वरम्

ते होचुः- नेदीयो वै भवति, भूयस्तप उपायामेति । ते त्रीन्त्स्तनानुपेयुः । तत्पराददृशुः ॥ ३ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. They said, ‘It is indeed coming nearer: let us practise penance still further!’ They resorted to three teats: they saw it.

०४

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ होचुः॥
(र्ने᳘) ने᳘दीयो वै᳘ भवति भू᳘यस्त᳘प ऽउ᳘पायामे᳘ति ते द्वौ स्त᳘ना ऽउ᳘पेयुस्तन्ने᳘दीयसः प᳘राददृशुः॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ होचुः॥
(र्ने᳘) ने᳘दीयो वै᳘ भवति भू᳘यस्त᳘प ऽउ᳘पायामे᳘ति ते द्वौ स्त᳘ना ऽउ᳘पेयुस्तन्ने᳘दीयसः प᳘राददृशुः॥

मूलम् - Weber

ते᳘ होचुः॥
ने᳘दीयो वै᳘ भवति भू᳘यस्त᳘प उपायामे᳘ति ते द्वौ स्त᳘ना उ᳘पेयुस्तन्ने᳘दीयसः प᳘राददृशुः॥

मूलम् - विस्वरम्

ते होचुः- नेदीयो वै भवति, भूयस्तप उपायामेति । ते द्वौ स्तना उपेयुः । तन्नेदीयसः पराददृशुः ॥ ४ ॥

सायणः

द्वितीयोपसद्दिने पूर्वदिनापेक्षया सन्निहितममृतं दृष्ट्वा भूयस्तप उपायामेति द्विस्तननिर्गलितपयोव्रता अभूवन् इति प्रतिपादितं भवति ॥ ४ ॥

Eggeling
  1. They said, ‘It is indeed coming nearer: let us practise penance still further!’ They resorted to two teats: they saw it still nearer.

०५

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ होचुः॥
(र्ने᳘) ने᳘दीयो वै᳘ भवति भू᳘यस्त᳘प ऽउ᳘पायामे᳘ति त ऽए᳘कᳫँ᳭ स्त᳘नमु᳘पेयुस्तद᳘धिजगाम न᳘ त्वभि᳘पत्तुᳫँ᳭[[!!]] शेकुः॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ होचुः॥
(र्ने᳘) ने᳘दीयो वै᳘ भवति भू᳘यस्त᳘प ऽउ᳘पायामे᳘ति त ऽए᳘कᳫँ᳭ स्त᳘नमु᳘पेयुस्तद᳘धिजगाम न᳘ त्वभि᳘पत्तुᳫँ᳭[[!!]] शेकुः॥

मूलम् - Weber

ते᳘ होचुः॥
ने᳘दीयो वै᳘ भवति भू᳘यस्त᳘प उपायामे᳘ति त ए᳘कᳫं स्त᳘नमु᳘पेयुस्तद᳘धिजगाम न त्व᳘भि᳘पत्तुं शेकुः॥

मूलम् - विस्वरम्

ते होचुः- नेदीयो वै भवति, भूयस्तप उपायामेति । तं एकं स्तनमुपेयुः । तदधिजगाम । न त्वभिपत्तुं शेकुः ॥ ५ ॥

सायणः

तृतीयोपसद्दिने सन्निहिततरं दृष्ट्वा भूयस्तप उपायामेति एकस्तनदुग्धपयोव्रता आसन् इति प्रतिपाद्यते ॥ ५ ॥

Eggeling
  1. They said, ‘It is indeed coming nearer: let us practise penance still further!’ They resorted to one teat: it came nigh unto them, but they could not lay hold of it.

०६

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ होचुः॥ (र᳘) अ᳘धि वा᳘ ऽअगन्न᳘ त्वभि᳘पत्तुᳫँ᳭[[!!]] शक्नुमः स᳘र्व्वं त᳘प ऽउ᳘पायामे᳘ति त᳘ ऽउपवसथे᳘ ऽनाशकमु᳘पेयुरेतद्वै स᳘र्व्वं त᳘पो यद᳘नाशकस्त᳘स्मादुपवसथे᳘ नाश्नीयात्॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ होचुः॥ (र᳘) अ᳘धि वा᳘ ऽअगन्न᳘ त्वभि᳘पत्तुᳫँ᳭[[!!]] शक्नुमः स᳘र्व्वं त᳘प ऽउ᳘पायामे᳘ति त᳘ ऽउपवसथे᳘ ऽनाशकमु᳘पेयुरेतद्वै स᳘र्व्वं त᳘पो यद᳘नाशकस्त᳘स्मादुपवसथे᳘ नाश्नीयात्॥

मूलम् - Weber

ते᳘ होचुः अ᳘धि वा᳘ अगन्न त्व᳘भि᳘पत्तुं शक्नुमः स᳘र्वं त᳘प उपायामे᳘ति त᳘ उपवसथे᳘ ऽनाशकमु᳘पेयुरेतद्वै स᳘र्वं त᳘पो यद᳘नाशकस्त᳘स्मादुपवसथेॗ नाश्नीयात्॥

मूलम् - विस्वरम्

ते होचुः- अधि वा अगत्, न त्वभिपत्तुं शक्नुमः, सर्वं तप उपायामेति । त उपवसथे ऽनाशकमुपेयुः । एतद्वै सर्वं तपो- यदनाशकः । तस्मादुपवसथे नाश्नीयात् ॥ ६ ॥

सायणः

उपवसथीये चतुर्थदिने देवा ऊचुः । सन्निहिततरमप्यमृतं प्राप्तुं न शक्नुम इति सर्वमनाशकात्मकं तप उपायामेति तथैवाकार्षुः । अनाशकस्य सर्वतपस्त्वात् । तस्मादुपवसथे नाश्नीयात् ॥ ६ ॥

Eggeling
  1. They said, ‘It has indeed come nigh unto us, but we cannot lay hold of it: let us undergo the whole (practice of) penance!’ On the day of preparation they underwent entire abstention from food; for the whole (practice of) penance it is when one abstains from food: let him therefore eat nothing on the day of preparation.

०७

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘त्प्रात᳘रभिप᳘द्य॥
(द्या) अभिषु᳘त्याग्ना᳘वजुहवुस्त᳘दग्ना᳘वमृ᳘तमदधुः स᳘र्व्वेषामु हैष᳘ देवा᳘नामात्मा य᳘दग्निस्तद्य᳘दग्ना᳘वमृ᳘तम᳘दधुस्त᳘दात्म᳘न्नमृ᳘तमदधत त᳘तो देवा᳘ ऽअमृ᳘ता ऽअभवन्॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘त्प्रात᳘रभिप᳘द्य॥
(द्या) अभिषु᳘त्याग्ना᳘वजुहवुस्त᳘दग्ना᳘वमृ᳘तमदधुः स᳘र्व्वेषामु हैष᳘ देवा᳘नामात्मा य᳘दग्निस्तद्य᳘दग्ना᳘वमृ᳘तम᳘दधुस्त᳘दात्म᳘न्नमृ᳘तमदधत त᳘तो देवा᳘ ऽअमृ᳘ता ऽअभवन्॥

मूलम् - Weber

त᳘त्प्रात᳘रभिप᳘द्य॥
अभिषु᳘त्याग्ना᳘वजुहवुस्त᳘दग्ना᳘वमृ᳘तमदधुः स᳘र्वेषामु हैष᳘ देवा᳘नामात्मा य᳘दग्निस्तद्य᳘दग्ना᳘वमृ᳘तम᳘दधुस्त᳘दात्म᳘न्नमृ᳘तमदधत त᳘तो देवा᳘ अमृ᳘ता अभवन्॥

मूलम् - विस्वरम्

तत्प्रातरभिपद्य, अभिषुत्य, अग्नावजुहवुः- तदग्नावमृतमदधुः । सर्वेषामु हैष देवानामात्मायदग्निः । तद्यदग्नावमृतमदधुः- तदात्मन्नमृतमदधत । ततो देवा अमृता अभवन् ॥ ७ ॥

सायणः

ततः पञ्चमदिने सुत्याहे तदमृतं सोमरूपं प्राप्य कण्डनं कृत्वा तदग्नावजुहवुः । कुत इत्याह- सर्वेषामिति । ‘एषः’ अग्निः सर्वेषां देवानामात्मा खलु । अतश्चामृतमग्नावदधुरिति यत् तेनात्मन्येवामृतं धृतवन्तः । तेनामृतधारणेन पश्चाद्देवा अमृता अभवन् ॥ ७ ॥

Eggeling
  1. On the morrow, having laid hold of it and pressed it (the Soma), they offered (of it) in the fire,

and thereby bestowed immortality upon Agni. And he, Agni (the fire-altar), indeed, is the body of all the gods; and hence, when they bestowed immortality on Agni (the fire-altar), they bestowed immortality on their own selves, and thereby the gods became immortal.

०८

विश्वास-प्रस्तुतिः

(वंस्त) तद्यत्त᳘दमृ᳘तᳫँ᳭ सो᳘मः सः॥
(०) त᳘दद्या᳘पि य᳘जमानः श्र᳘मेण त᳘पसा᳘ ऽन्विच्छति स᳘ दीक्षित्वा प᳘योव्रतो भवत्येत᳘द्वै त᳘पो यो᳘ दीक्षित्वा प᳘योव्रतो᳘ ऽसत्त᳘स्य घो᳘षमा᳘शृणोतीत्यहे᳘ क्रय ऽइ᳘ति॥

मूलम् - श्रीधरादि

(वंस्त) तद्यत्त᳘दमृ᳘तᳫँ᳭ सो᳘मः सः॥
(०) त᳘दद्या᳘पि य᳘जमानः श्र᳘मेण त᳘पसा᳘ ऽन्विच्छति स᳘ दीक्षित्वा प᳘योव्रतो भवत्येत᳘द्वै त᳘पो यो᳘ दीक्षित्वा प᳘योव्रतो᳘ ऽसत्त᳘स्य घो᳘षमा᳘शृणोतीत्यहे᳘ क्रय ऽइ᳘ति॥

मूलम् - Weber

तद्यत्त᳘दमृ᳘तᳫं सो᳘मः सः॥
त᳘दद्या᳘पि य᳘जमानः श्र᳘मेण त᳘पसा᳘न्विछति स᳘ दीक्षित्वा प᳘योव्रतो भवत्येतद्वै त᳘पो यो᳘ दीक्षित्वा प᳘योव्रतो᳘ ऽसत्त᳘स्य घो᳘षमा᳘शृणोतीत्यहे᳘ क्रय इ᳘ति॥

मूलम् - विस्वरम्

तद्यदमृतं- सोमः सः । तदद्यापि यजमानः श्रमेण तपसा ऽन्विच्छति । स दीक्षित्वा पयोव्रतो भवति । एतद्वै तपो- यो दीक्षित्वा पयोव्रतो ऽसत् । तस्य घोषमाशृणोतीत्यहे क्रय इति ॥ ८ ॥

सायणः

पूर्वं यदुक्तममृतमिति तत्सोम एव नान्यदित्याह- तद्यदिति । इत्थं देवानां कथामवतार्थ तथैवेदानीं तत् सर्वं करोतीत्याह- तदद्यापीत्यादिना । तस्य घोषमाशृणोतीत्यहे क्रय इतीति । ‘अहे’ इति लुप्तान्तादहन्-शब्दात् सप्तमी । ‘इत्यहे’ एतादृशे ऽह्नि सोम-‘क्रयः’ इति घोषमाशृणोतीत्यर्थः ॥ ८ ॥ ९ ॥

Eggeling
  1. Now that same nectar of immortality is Soma. And even to this day the Sacrificer seeks for it by toil and penance; having become initiated he lives on fast-milk; for penance it is when, after being initiated, one lives on fast-milk; he hears the sound of it, saying, ‘On such and such a day the buying (will take place 1)!’

०९

विश्वास-प्रस्तुतिः

स त्रीन्त्स्त᳘नानु᳘पैति॥
तत्प᳘रापश्यति स द्वौ स्त᳘ना ऽउ᳘पैति तन्ने᳘दीयसः प᳘रापश्यति स ऽए᳘कᳫँ᳭ स्त᳘नमु᳘पैति तद᳘धिगच्छति न᳘ त्वभि᳘पत्तुᳫँ᳭[[!!]] शक्नोति स᳘ ऽउपवसथे᳘ ऽनाशकमु᳘पैत्येतद्वै स᳘र्व्वं त᳘पो यद᳘नाशकस्त᳘स्मादुपवसथे᳘ नाश्नीयात्॥

मूलम् - श्रीधरादि

स त्रीन्त्स्त᳘नानु᳘पैति॥
तत्प᳘रापश्यति स द्वौ स्त᳘ना ऽउ᳘पैति तन्ने᳘दीयसः प᳘रापश्यति स ऽए᳘कᳫँ᳭ स्त᳘नमु᳘पैति तद᳘धिगच्छति न᳘ त्वभि᳘पत्तुᳫँ᳭[[!!]] शक्नोति स᳘ ऽउपवसथे᳘ ऽनाशकमु᳘पैत्येतद्वै स᳘र्व्वं त᳘पो यद᳘नाशकस्त᳘स्मादुपवसथे᳘ नाश्नीयात्॥

मूलम् - Weber

स त्रीन्त्स्त᳘नानु᳘पैति॥
तत्प᳘रापश्यति स द्वौ स्त᳘ना उ᳘पैति तन्ने᳘दीयसः प᳘रापश्यति स ए᳘कᳫं स्त᳘नमु᳘पैति तद᳘धिगछति न त्व᳘भि᳘पत्तुं शक्नोति स᳘ उपवसथे᳘ ऽनाशकमु᳘पैत्येतद्वै स᳘र्वं त᳘पो यद᳘नाशकस्त᳘स्मादुपवसथेॗ नाश्नीयात्॥

मूलम् - विस्वरम्

स त्रीन्त्स्तनानुपैति । तत्परापश्यति । स द्वौ स्तना उपैति । तन्नेदीयसः परापश्यति । स एकं स्तनमुपैति । तदधिगच्छति । न त्वभिपत्तुं शक्नोति । स उपवसथे ऽनाशकमुपैति । एतद्वै सर्वं तपो यदनाशकः । तस्मादुपवसथे नाश्नीयात् ॥ ९ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. He resorts to three teats (of the cow): he sees it. He resorts to two teats: he sees it nearer by. He resorts to one teat: it comes nigh to him, but he cannot lay hold of it. He undergoes entire abstinence from food; for the whole (practice of) penance it is when one abstains from food: let him therefore eat nothing on the day of preparation.

१०

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘त्प्रात᳘रभिप᳘द्य॥
(द्या) अभिषु᳘त्याग्नौ᳘ जुहोति त᳘दग्ना᳘वमृ᳘तं दधात्य᳘थ भक्षयति त᳘दात्म᳘न्नमृ᳘तं धत्ते᳘ सो ऽमृ᳘तो भवत्येतद्वै᳘ मनु᳘ष्यस्यामृ᳘तत्वं[[!!]] यत्स᳘र्व्वमायुरे᳘ति[[!!]] त᳘थो हाने᳘नात्म᳘ना स᳘र्व्वमा᳘युरेति॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘त्प्रात᳘रभिप᳘द्य॥
(द्या) अभिषु᳘त्याग्नौ᳘ जुहोति त᳘दग्ना᳘वमृ᳘तं दधात्य᳘थ भक्षयति त᳘दात्म᳘न्नमृ᳘तं धत्ते᳘ सो ऽमृ᳘तो भवत्येतद्वै᳘ मनु᳘ष्यस्यामृ᳘तत्वं[[!!]] यत्स᳘र्व्वमायुरे᳘ति[[!!]] त᳘थो हाने᳘नात्म᳘ना स᳘र्व्वमा᳘युरेति॥

मूलम् - Weber

त᳘त्प्रात᳘रभिप᳘द्य॥
अभिषु᳘त्याग्नौ᳘ जुहोति त᳘दग्ना᳘वमृ᳘तं दधात्य᳘थ भक्षयति त᳘दात्म᳘न्नमृ᳘तं धत्तेॗ सो ऽमृ᳘तो भवत्येतद्वै᳘ मनुष्य᳘स्यामृ᳘तत्वं यत्स᳘र्वमा᳘युरे᳘ति त᳘थो हाने᳘नात्म᳘ना स᳘र्वमा᳘युरेति॥

मूलम् - विस्वरम्

तत्- प्रातरभिपद्य अभिषुत्य अग्नौ जुहोति । तदग्नावमृतं दधाति । अथ भक्षयति । तदात्मन्नभूतं धत्ते, सो ऽमृतो भवति । एतद्वै मनुष्यस्यामृतत्वम्- यत् सर्वमायुरेति । तथो हानेनात्मना सर्वमायुरेति ॥ १० ॥

सायणः

तदग्नावमृतं दधातीति । तेनाग्निलक्षणे स्वस्य दैवात्मनि अमृतं दधाति ॥ १० ॥

Eggeling
  1. And, on the morrow, having laid hold of it, and pressed it, he offers (of it) in the fire, and thereby bestows immortality on Agni. He then drinks (of it), and thereby bestows immortality on his own self, and becomes immortal; for this, assuredly, is immortality to man when he attains the whole (perfect) life: and so, in truth, he attains the whole life by this self of his.

११

विश्वास-प्रस्तुतिः

(त्य) अग्नौ᳘ हुत्वा᳘ ऽथ भक्षयति॥
दै᳘वो वा᳘ ऽअस्यैष᳘ ऽआत्मा᳘ मानु᳘षो ऽयं᳘ देवा᳘ ऽउ वा ऽअग्रे᳘ ऽथ मनु᳘ष्यास्त᳘स्मादग्नौ᳘ हुत्वा᳘ ऽथ भक्षयति॥

मूलम् - श्रीधरादि

(त्य) अग्नौ᳘ हुत्वा᳘ ऽथ भक्षयति॥
दै᳘वो वा᳘ ऽअस्यैष᳘ ऽआत्मा᳘ मानु᳘षो ऽयं᳘ देवा᳘ ऽउ वा ऽअग्रे᳘ ऽथ मनु᳘ष्यास्त᳘स्मादग्नौ᳘ हुत्वा᳘ ऽथ भक्षयति॥

मूलम् - Weber

अग्नौ᳘ हुत्वा᳘थ भक्षयति॥
दै᳘वो वा᳘ अस्यैष᳘ आत्मा᳘ मानुॗषो ऽयं᳘ देवा᳘ उ वा अग्रे᳘ ऽथ मनुॗष्यास्त᳘स्मादग्नौ᳘ हुत्वा᳘थ भक्षयति॥

मूलम् - विस्वरम्

अग्नौ हुत्वा- अथ भक्षयति । दैवो वा अस्यैष आत्मा, मानुषो ऽयम् । देवा उ वा अग्रे, अथ मनुष्याः । तस्मादग्नौ हुत्वा ऽथ भक्षयति ॥ ११ ॥

सायणः

अग्नौ हुत्वा ऽथ भक्षयतीत्यादि । विशदार्थम् ॥ ११ ॥

Eggeling
  1. When he has offered in the fire, he drinks (Soma); for that (fire-altar) is his divine body, and this (Sacrificer’s own body) is his human one; and

the gods were first, and then men: therefore he drinks (Soma), after offering in the fire.

१२

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तः समिष्टयजु᳘षामेव᳘ मीमाᳫँ᳭सा᳘॥
देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ प्रजा᳘पतेः पितु᳘र्दायमु᳘पेयुर्व्वा᳘चमेव᳘ सत्यानृते᳘ सत्यं᳘ चैवा᳘नृतं च त᳘ ऽउभ᳘य ऽएव᳘ सत्यम᳘वदन्नुभये᳘ ऽनृतं ते᳘ ह सदृ᳘शं व᳘दन्तः सदृ᳘शा ऽए᳘वासुः॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तः समिष्टयजु᳘षामेव᳘ मीमाᳫँ᳭सा᳘॥
देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ प्रजा᳘पतेः पितु᳘र्दायमु᳘पेयुर्व्वा᳘चमेव᳘ सत्यानृते᳘ सत्यं᳘ चैवा᳘नृतं च त᳘ ऽउभ᳘य ऽएव᳘ सत्यम᳘वदन्नुभये᳘ ऽनृतं ते᳘ ह सदृ᳘शं व᳘दन्तः सदृ᳘शा ऽए᳘वासुः॥

मूलम् - Weber

अथा᳘तः समिष्टयजु᳘षामेव᳘ मीमांसा᳟॥
देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ प्रजा᳘पतेः पितु᳘र्दायमु᳘पेयुर्वा᳘चमेव᳘ सत्यानृते᳘ सत्यं᳘ चैवा᳘नृतं च त᳘ उभ᳘य एव᳘ सत्यम᳘वदन्नुभये᳘ ऽनृतं ते᳘ ह सदृ᳘शं व᳘दन्तः सदृ᳘शा एॗवासुः॥

मूलम् - विस्वरम्

अथ समिष्टयजुर्मीमांसा ।

अथातः समिष्टयजुषामेव मीमांसा । देवाश्चासुराश्चोभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुः- वाचमेव सत्यानृते । सत्यं चैवानृतं च । त उभय एव सत्यमवदन्, उभये ऽनृतम् । ते ह सदृशं वदन्तः सदृशा एवासुः ॥ १२ ॥

सायणः

अथ समिष्टयजुषां मीमांसा क्रियत इति प्रतिजानीते- अथात इति । अत्रापि पूर्ववत्कांचित्कथामवतारयति- देवाश्चासुराश्चेत्यादिना । पुरा किल प्रजापतेरपत्यभूता देवाश्चा ऽसुराश्चोभये पितुः प्रजापतेः दायमुपेयुः । तमेव दायमाह- वाचमेवेति । कीदृशीं वाचमिति तत्राह- सत्यानृते इति । तदेव विवृणोति- सत्यं चैवानृतं चेति । सत्यानृतरूपां वाचमेव दायमुपेयुरित्यर्थः । ते देवा असुरा उभय एव स सत्यमवदन् । तथा सदृशं वदन्त उभये ऽपि सदृशा बभूवुः ॥ १२ ॥

Eggeling
  1. Now, then, the discussion of the Samishṭayajus (oblations): The gods and the Asuras, both of them sprung from Prajāpati, entered upon their father Prajāpati’s inheritance, to wit, speech–truth and untruth, both truth and untruth: they, both of them, spake the truth, and they both spake untruth; and, indeed, speaking alike, they were alike.

१३

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ देवा᳘ ऽउत्सृज्या᳘नृतम्॥
(ᳫँ᳭) सत्य᳘मन्वा᳘लेभिरे᳘ ऽसुरा ऽउ होत्सृ᳘ज्य स᳘त्यम᳘नृतमन्वा᳘लेभिरे॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ देवा᳘ ऽउत्सृज्या᳘नृतम्॥
(ᳫँ᳭) सत्य᳘मन्वा᳘लेभिरे᳘ ऽसुरा ऽउ होत्सृ᳘ज्य स᳘त्यम᳘नृतमन्वा᳘लेभिरे॥

मूलम् - Weber

ते᳘ देवा᳘ उत्सृज्या᳘नृतम्॥
सत्य᳘मन्वा᳘लेभिरे᳘ ऽसुरा उ होत्सृ᳘ज्य सत्यम᳘नृतमन्वा᳘लेभिरे॥

मूलम् - विस्वरम्

ते देवा उत्सृज्यानृतं सत्यमन्वालेभिरे । असुरा उ होत्सृज्य सत्यमनृतमन्वालेभिरे ॥ १३ ॥

सायणः

पश्चात्ते देवा वैषम्यसिद्धये अनृतमुत्सृज्य सत्यमेव स्वीकृतवन्तः । तथा ऽसुरा अपि तेभ्यो वैलक्षण्यसिद्धये सत्यमुत्सृज्य अनृतं स्वीकृतवन्तः ॥ १३ ॥

Eggeling
  1. The gods relinquished untruth, and held fast to truth, and the Asuras relinquished truth, and held fast to untruth.

१४

विश्वास-प्रस्तुतिः

त᳘द्धेद᳘ᳫँ᳘ सत्य᳘मीक्षां᳘चक्रे॥
यद᳘सुरेष्वा᳘स देवा वा᳘ ऽउत्सृज्या᳘नृतᳫँ᳭ सत्य᳘मन्वा᳘लप्सत ह᳘न्त तद᳘यानी᳘ति त᳘द्देवाना᳘जगाम᳘॥

मूलम् - श्रीधरादि

त᳘द्धेद᳘ᳫँ᳘ सत्य᳘मीक्षां᳘चक्रे॥
यद᳘सुरेष्वा᳘स देवा वा᳘ ऽउत्सृज्या᳘नृतᳫँ᳭ सत्य᳘मन्वा᳘लप्सत ह᳘न्त तद᳘यानी᳘ति त᳘द्देवाना᳘जगाम᳘॥

मूलम् - Weber

त᳘द्धेद᳘ᳫं᳘ सत्य᳘मीक्षां᳘ चक्रे॥
यद᳘सुरेष्वा᳘स देवा वा᳘ उत्सृज्या᳘नृतᳫं सत्य᳘मन्वा᳘लप्सत ह᳘न्त तद᳘यानी᳘ति त᳘द्देवाना᳘जगाम॥

मूलम् - विस्वरम्

तद्धेदं सत्यमीक्षाञ्चक्रे- यदसुरेष्वास । देवा वा ऽउत्सृज्यानृतं सत्यमन्वालप्सत- हन्त तदयानीति । तद्- देवानाजगाम ॥ १४ ॥

सायणः

ततो ऽसुरेषु विद्यमानं सत्यं देवा अनृतं विसृज्य सत्यमेव स्वीकृतवन्तः, तत्रैव गच्छानीति विचार्य देवानाजगाम । हन्तेति निपातः स्वाश्रयप्राप्तिनिमित्तं हर्षं द्योतयति । देवेषु विद्यमानमनृतं च तथैव विचार्यासुरानाजगाम । ततो देवा असुरेषु विद्यमानस्य सत्यस्यात्रागमनात् सर्वं सत्यमवदन् । असुराश्च देवेषु विद्यमानस्यानृतस्थात्रागमनात् सर्वमनृतमवदन् ॥ १४ ॥ १५ ॥

Eggeling
  1. The truth which was in the Asuras beheld this, and said, ‘Verily, the gods have relinquished untruth, and held fast to truth: well, then, I will go thither!’ Thus it went over to the gods.

१५

विश्वास-प्रस्तुतिः

(मा᳘) अ᳘नृतमु हेक्षां᳘चक्रे॥
य᳘द्देवेष्वासा᳘सुरा वा᳘ ऽउत्सृ᳘ज्य सत्यम᳘नृतमन्वा᳘लप्सत ह᳘न्त तद᳘यानी᳘ति तद᳘सुराना᳘जगाम॥

मूलम् - श्रीधरादि

(मा᳘) अ᳘नृतमु हेक्षां᳘चक्रे॥
य᳘द्देवेष्वासा᳘सुरा वा᳘ ऽउत्सृ᳘ज्य सत्यम᳘नृतमन्वा᳘लप्सत ह᳘न्त तद᳘यानी᳘ति तद᳘सुराना᳘जगाम॥

मूलम् - Weber

अ᳘नृतमु हेक्षां᳘ चक्रे॥
य᳘द्देवेष्वासा᳘सुरा वा᳘ उत्सृ᳘ज्य सत्यम᳘नृतमन्वा᳘लप्सत ह᳘न्त तद᳘यानी᳘ति तद᳘सुराना᳘जगाम॥

मूलम् - विस्वरम्

अनृतमु हेक्षाञ्चक्रे- यद्देवेष्वास । असुरा वा उत्सृज्य सत्यमनृतमन्वालप्सत- हन्त तदयानीति । तदसुरानाजगाम ॥ १५ ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. And the untruth which was in the gods beheld this, and said, ‘Verily, the Asuras have relinquished truth, and held fast to untruth: well, then, I will go thither!’ Thus it went over to the Asuras.

१६

विश्वास-प्रस्तुतिः

ते᳘ देवाः[[!!]]॥
स᳘र्व्वᳫँ᳭ सत्यम᳘वदन्त्स᳘र्व्वम᳘सुरा ऽअ᳘नृतं ते᳘ देवा᳘ ऽआसक्ति᳘ सत्यं व्व᳘दन्त ऽऐषावीर᳘तरा ऽइवासुर᳘नाढ्यतरा ऽइव त᳘स्मादु हैतद्य᳘ ऽआसक्ति᳘ सत्यं व्व᳘दत्यैषावीर᳘तर ऽइवैव᳘ भवत्य᳘नाढ्यतर ऽइव स᳘ ह᳘ त्वेवान्ततो᳘[[!!]] भवति देवा᳘ ह्ये᳘वान्ततो᳘ ऽभवन्॥

मूलम् - श्रीधरादि

ते᳘ देवाः[[!!]]॥
स᳘र्व्वᳫँ᳭ सत्यम᳘वदन्त्स᳘र्व्वम᳘सुरा ऽअ᳘नृतं ते᳘ देवा᳘ ऽआसक्ति᳘ सत्यं व्व᳘दन्त ऽऐषावीर᳘तरा ऽइवासुर᳘नाढ्यतरा ऽइव त᳘स्मादु हैतद्य᳘ ऽआसक्ति᳘ सत्यं व्व᳘दत्यैषावीर᳘तर ऽइवैव᳘ भवत्य᳘नाढ्यतर ऽइव स᳘ ह᳘ त्वेवान्ततो᳘[[!!]] भवति देवा᳘ ह्ये᳘वान्ततो᳘ ऽभवन्॥

मूलम् - Weber

ते᳘ देवाः᳟॥
स᳘र्वᳫं सत्यम᳘वदन्त्स᳘र्वम᳘सुरा अ᳘नृतं ते᳘ देवा᳘ आसक्ति᳘ सत्यं व᳘दन्त ऐषावीर᳘तरा 2 इवासुर᳘नाढ्यतरा इव त᳘स्मादु हैतद्य᳘ आसक्ति᳘ सत्यं व᳘दत्यैषावीर᳘तर इवैव᳘ भवत्य᳘नाढ्यतर इव स᳘ हॗ त्वेॗवान्ततो᳘ भवति देवाॗ ह्येॗवान्ततो᳘ ऽभवन्॥

मूलम् - विस्वरम्

ते देवाः सर्वं सत्यमवदन्, सर्वमसुरा अमृतम् । ते देवा आसक्ति सत्यं वदन्त ऐषावीरतरा इवासुरनाढ्यतरा इव । तस्मादु हैतद्- य आसक्ति सत्यं वदति- ऐषावीरतर इवैव भवति, अनाढ्यतर इव । स ह त्वेवान्ततो भवति । देवा ह्येवान्ततो ऽभवन् ॥ १६ ॥

सायणः

ते देवा आसक्ति सत्यं केवलं सत्यं वदन्तस्तदानीम् अवीरतरा इव अनाढ्यतरा इवाभवन् । ‘ऐष’ इति शब्दः तदानीमित्यस्मिन्नर्थे वर्तते । आसुरिति- च्छान्दसत्वाद् भूत्वाभावः । केवलं सत्यं वदतां कार्यानुरोधेन वचनप्रयोगस्यासंभवात्तदानीमसमर्था इव अनाढ्या इव अभवन् । तस्मादिदानीमपि तथैव तदानीमवीरतर इवानाढ्यतर इव भवति । परन्तु सः अन्ततो ‘भवति ह’ विजयते खलु ॥ १६ ॥

Eggeling
  1. The gods spake nothing but truth, and the Asuras nothing but untruth. And the gods, speaking the truth diligently, were very contemptible, and very poor: whence he who speaks the truth diligently, becomes indeed very contemptible, and very poor; but in the end he assuredly prospers, for the gods indeed prospered.

१७

विश्वास-प्रस्तुतिः

(न्न᳘) अ᳘थ हा᳘सुराः॥
(ऽ) आसक्त्य᳘नृतं व्व᳘दन्त ऽऊ᳘ष ऽइव पिपिशुराढ्या᳘ इवासुस्त᳘स्मादु हैतद्य᳘ ऽआसक्त्य᳘नृतं व्वदत्यू᳘ष ऽइवैव᳘ पिश्यत्याढ्य᳘ ऽइव भवति प᳘रा ह᳘ त्वे᳘वान्ततो᳘ भवति प᳘रा ह्य᳘सुरा ऽअ᳘भवन्॥

मूलम् - श्रीधरादि

(न्न᳘) अ᳘थ हा᳘सुराः॥
(ऽ) आसक्त्य᳘नृतं व्व᳘दन्त ऽऊ᳘ष ऽइव पिपिशुराढ्या᳘ इवासुस्त᳘स्मादु हैतद्य᳘ ऽआसक्त्य᳘नृतं व्वदत्यू᳘ष ऽइवैव᳘ पिश्यत्याढ्य᳘ ऽइव भवति प᳘रा ह᳘ त्वे᳘वान्ततो᳘ भवति प᳘रा ह्य᳘सुरा ऽअ᳘भवन्॥

मूलम् - Weber

अ᳘थ हा᳘सुराः॥
आसक्त्य᳘नृतं व᳘दन्त ऊ᳘ष इव पिपिसुराढ्या᳘ 3 इवासुस्त᳘स्मादु हैतद्य᳘ आसक्त्य᳘नृतं वदत्यू᳘ष इवैव᳘ पिस्यत्याढ्य᳘ इव भवति प᳘रा हॗ त्वेॗवान्ततो᳘ भवति प᳘रा ह्य᳘सुरा अ᳘भवन्॥

मूलम् - विस्वरम्

अथ हासुरा आसक्त्यनृतं वदन्त ऊष इव पिपिशुः आढ्या इवासुः । तस्मादु हैतद्- य आसक्त्यनृतं वदति- ऊष ऽइवैव पश्यति, आढ्य- इव भवति । परा ह त्वेवान्ततो भवति । परा ह्यसुरा अभवन् ॥ १७ ॥

सायणः

अथासुराः केवलानृतं वदन्तस्तदानीं ‘पिपिशुः’ “पिश अवयवे” - (धा. पा. तु. प. १५६) अवयविन इव बभूवुः । पुष्टा इव बभूवुरित्यर्थः । आढ्या इव च बभूवुः । तस्मादिदानीमपि स्वकार्यानुसारेण तथा वदन् पुरुषः पुष्ट इव भवति । आढ्य इव भवति । अन्ततस्तु पराभवति- तथा वदतामसुराणामन्ततः पराभूतत्वात् ॥ १७ ॥

Eggeling
  1. And the Asuras, speaking untruth diligently, throve even as salt soil 4, and were very prosperous: whence he who speaks untruth diligently, thrives indeed, even as salt soil, and becomes very prosperous;

but in the end he assuredly comes to naught, for the Asuras indeed came to naught.

१८

विश्वास-प्रस्तुतिः

(वंस्त) तद्यत्त᳘त्सत्य᳘म्॥
(न्त्र) त्रयी सा᳘ विद्या ते᳘ देवा᳘ ऽअब्रुवन्यज्ञं᳘ कृ᳘त्वेद᳘ᳫँ᳘ सत्यं᳘ तनवामहा ऽइ᳘ति॥

मूलम् - श्रीधरादि

(वंस्त) तद्यत्त᳘त्सत्य᳘म्॥
(न्त्र) त्रयी सा᳘ विद्या ते᳘ देवा᳘ ऽअब्रुवन्यज्ञं᳘ कृ᳘त्वेद᳘ᳫँ᳘ सत्यं᳘ तनवामहा ऽइ᳘ति॥

मूलम् - Weber

तद्यत्त᳘त्सत्य᳘म्॥
त्रयी सा᳘ विद्या ते᳘ देवा᳘ अब्रुवन्यज्ञं᳘ कृॗत्वेद᳘ᳫं᳘ सत्यं᳘ तनवामहा इ᳘ति॥

मूलम् - विस्वरम्

तद्यत्तत्सत्यम्- त्रयी सा विद्या । ते देवा अब्रुवन्- यज्ञं कृत्वेदं सत्यं तनवामहा इति ॥ १८ ॥

सायणः

तद्यदिति । ‘तत्’ देवैरुपन्यस्तं ‘सत्यम्’ इति यत् ‘सा त्रयी विद्या’ । अतस्ते देवा एतत्प्रतिपाद्यं यज्ञं कृत्वा त्रयीलक्षणमिदं सत्यं विस्तारयामेत्युक्त्वा- ॥ १८ ॥

Eggeling
  1. Now that same truth, indeed, is this threefold lore 5. The gods said, ‘Now that we have made up the sacrifice, let us spread out 6 this truth!’

१९

विश्वास-प्रस्तुतिः

ते᳘ दीक्षणी᳘यां नि᳘रवपन्॥
(पंस्त᳘) त᳘दु हा᳘सुरा ऽअ᳘नुबुबुधिरे यज्ञं वै᳘ कृत्वा त᳘द्देवाः᳘ सत्यं᳘ तन्वते प्रे᳘त त᳘दाहरिष्या᳘मो य᳘दस्मा᳘कं तत्रे᳘ति त᳘स्य समिष्टयजुर᳘हुतमासाथा᳘जग्मुस्त᳘स्मात्त᳘स्य यज्ञ᳘स्य समिष्टयजुर्न᳘ जुह्वति ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्यत्क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नः प्रे᳘युः॥

मूलम् - श्रीधरादि

ते᳘ दीक्षणी᳘यां नि᳘रवपन्॥
(पंस्त᳘) त᳘दु हा᳘सुरा ऽअ᳘नुबुबुधिरे यज्ञं वै᳘ कृत्वा त᳘द्देवाः᳘ सत्यं᳘ तन्वते प्रे᳘त त᳘दाहरिष्या᳘मो य᳘दस्मा᳘कं तत्रे᳘ति त᳘स्य समिष्टयजुर᳘हुतमासाथा᳘जग्मुस्त᳘स्मात्त᳘स्य यज्ञ᳘स्य समिष्टयजुर्न᳘ जुह्वति ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्यत्क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नः प्रे᳘युः॥

मूलम् - Weber

ते᳘ दीक्षणी᳘यां नि᳘रवपन्॥
त᳘दु हा᳘सुरा अ᳘नुबुबुधिरे यज्ञं वै᳘ कृत्वा त᳘द्देवाः᳘ सत्यं᳘ तन्वते प्रे᳘त त᳘दाहरिष्या᳘मो य᳘दस्मा᳘कं तत्रे᳘ति त᳘स्य समिष्टयजुर᳘हुतमासाथा᳘जग्मुस्तस्मात्त᳘स्य यज्ञ᳘स्य समिष्टयजुर्न᳘ जुह्वति ते᳘ देवा अ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्यत्क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्वन्ती᳘ति पु᳘नः प्रे᳘युः॥

मूलम् - विस्वरम्

ते दीक्षणीयां निरवपन् । तदु हासुरा अनुबुबुधिरे- यज्ञं वै कृत्वा तद्देवाः सत्यं तन्वते । प्रेत, तदाहरिष्यामो- यदस्माकं तत्रेति । तस्य समिष्टयजुरहुतमास । अथाजग्मुः । तस्मात्तस्य यज्ञस्य- समिष्टयजुर्न जुह्वति । ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यत्कर्तुं दध्रिरे । अन्यद्वै कुर्वन्तीति पुनः प्रेयुः ॥ १९ ॥

सायणः

ते दीक्षणीयामिष्टिं निरवपन् । तत्तथाकरणम् असुरा अनुबुध्य, देवा यज्ञं कृत्वा तत्सत्यं तन्वते ‘प्रेत’ गच्छत, तत्रास्माकं यत्सत्यमस्ति तदाहरिष्याम इति यदा तस्य यज्ञस्य समिष्टयजुरहुतमभूत् अथाजग्मुः । समिष्टयजुषः पूर्वभाविकर्म कृतं समिष्टयजुर्न कृतं तस्मिन्नसरे आगताः । तस्मादद्यापि ‘तस्य’ ‘यज्ञस्य’ ‘समिष्टयजुर्न जुह्वति’ । ततस्ते ‘देवा’ असुरान्दृष्ट्वा यज्ञं ‘समुल्लुप्य’ विच्छिद्य अन्यत्कार्यं कर्तुं दध्रिरे उपचक्रिरे । ततो ऽसुरा नैते यज्ञं कुर्वन्ति- किन्त्वन्यदेव कुर्वन्तीति पुनः परागताः ॥ १९ ॥

Eggeling
  1. They prepared the Initiation-offering. But the Asuras became aware of it, and said, ‘Having made up the sacrifice, the gods are now spreading out that truth: come, let us fetch hither what was ours!’ The Samishṭayajus of that (offering) was not yet performed, when they arrived: whence people offer no Samishṭayajus 7 for that sacrifice. The gods, espying the Asuras, snatched up the sacrifice, and began doing something else 8. They (the Asuras) went away again, thinking, ‘It is something else they are doing.’

२०

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
प्रायणी᳘यं नि᳘रवपंस्त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे त᳘स्य शंय्यो᳘रुक्तमासाथा᳘जग्मुस्त᳘स्मात्स᳘ यज्ञः᳘ शं᳘य्वन्तस्ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
प्रायणी᳘यं नि᳘रवपंस्त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे त᳘स्य शंय्यो᳘रुक्तमासाथा᳘जग्मुस्त᳘स्मात्स᳘ यज्ञः᳘ शं᳘य्वन्तस्ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - Weber

ते᳘षु प्रे᳘तेषु॥
प्रायणी᳘यम् नि᳘रवपंस्त᳘दु हा᳘सुरा अ᳘न्वेव᳘ बुबुधिरे त᳘स्य शम्योरुक्तमासाथा᳘जग्मुस्त᳘स्मात्स᳘ यज्ञः᳘ शम्य्व᳘न्तस्ते᳘ देवा अ᳘सुरान्प्रतिदृ᳘श्य ममुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - विस्वरम्

तेषु प्रेतेषु प्रायणीयं निरवपन् । तदु हासुरा अन्वेव बुबुधिरे । तस्य शंयोरुक्तमास । अथाजग्मुः । तस्मात्स यज्ञः शंय्वन्तः । ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरे । अन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः ॥ २० ॥

सायणः

तेषु प्रगतेषु ‘प्रायणीयं’ हविर्निरवपन् । उत्तरत्र ‘तदु हासुरा’ इत्यादिकं पूर्ववदेव । शंयोरुक्तमासेति । शंयोर्देवस्य तदीयं मन्त्रवाक्यमुक्तमभूत् । शंयुवाकान्तं कर्म कृतमित्यर्थः ॥ २० ॥

Eggeling
  1. When they had gone away, they (the gods) prepared the Opening-offering. But the Asuras

became aware of this also. The Śamyos (formula) of that (offering) had been pronounced, when they arrived; whence that sacrifice ends with the Śamyos 9. The gods, espying the Asuras, snatched up the sacrifice, and began doing something else. They went away again, thinking, ‘It is something else they are doing.’

२१

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
रा᳘जानं क्रीत्वा᳘ पर्युह्या᳘थास्मा ऽआतिथ्य᳘ᳫँ᳘ हविर्नि᳘रवपंस्त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे तस्येडो᳘पहूता ऽऽसाथा᳘जग्मुस्त᳘स्मात्स᳘ यज्ञ ऽइ᳘डान्तस्ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
रा᳘जानं क्रीत्वा᳘ पर्युह्या᳘थास्मा ऽआतिथ्य᳘ᳫँ᳘ हविर्नि᳘रवपंस्त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे तस्येडो᳘पहूता ऽऽसाथा᳘जग्मुस्त᳘स्मात्स᳘ यज्ञ ऽइ᳘डान्तस्ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - Weber

ते᳘षु प्रे᳘तेषु॥
रा᳘जानं क्रीत्वा᳘ पर्युह्या᳘थास्मा आतिथ्य᳘ᳫं᳘ हविर्नि᳘रवपंस्त᳘दु हा᳘सुरा अ᳘न्वेव᳘ बुबुधिरे तस्येडो᳘पहूतासाथा᳘जग्मुस्त᳘स्मात्स यज्ञ इ᳘डान्तस्ते᳘ देवा अ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - विस्वरम्

तेषु प्रेतेषु राजानं क्रीत्वा पर्युह्य- अथास्मा ऽआतिथ्यं हविर्निरवपन् । तदु हासुरा अन्वेव बुबुधिरे । तस्येडोपहूता ऽऽस । अथाजग्मुः । तस्मात्स यज्ञ इडान्तः । ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरे । अन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः ॥ २१ ॥

सायणः

राजानं क्रीत्वेति । सोमं क्रीत्वा ऽनसा ‘पर्युह्याथास्मै’ सोमायातिथ्यं हविर्निरवपन् । उभयतो यज्ञस्योदसादयन्निति । यज्ञस्य पूर्वोत्तरभागावुत्सन्नावकुर्वन्प्रयाजानुयाजानामकरणात् । तस्यैतावदिति । यावत् प्रातःसवनसम्बंधि कर्मास्ति तस्यैतावत्कर्म कृतमभूत् । तत्समुल्लुप्य यज्ञमिति । माध्यन्दिनसवनस्योपक्रमात्तावतैव यज्ञं विच्छिद्येत्यर्थः । तत्समस्थापयन्निति । तृतीयसवनं समापयन् । सर्वयज्ञनिष्पादनेन ‘सर्वं सत्यमाप्नुवन्’ । तत्तथा करणेन असुराणामागमनसमये यज्ञं समापितं विज्ञाय पश्चादसुरा अपगतवन्तः । ततो देवाः समृद्धा अभूवन् । असुरास्तु परा ऽभूवन् असमृद्धा अभूवन् । यः एवमुक्तप्रकारं जानाति । आत्मना स्वयमेव समृद्धो भवति । ‘अस्य द्विषन्’ ‘भ्रातृव्यः’ पराभूतो भवति ॥ २१-२७ ॥

Eggeling
  1. When they had gone away, they (the gods), having bought and driven about the king (Soma), prepared the guest-offering for him. But the Asuras became aware of this also. The Iḍā of that (offering) had been invoked, when they arrived; whence that sacrifice ends with the Iḍā 10. The gods, espying the Asuras, snatched up the sacrifice, and began doing something else. They went away again, thinking, ‘It is something else they are doing.’

२२

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
(षू) ऽउपस᳘दो ऽतन्वत ते᳘ तिस्र᳘ ऽएव᳘ सामिधेनी᳘रनू᳘च्य देव᳘ता ऽएवा᳘यजन्न᳘ प्रयाजा᳘न्नानुयाजा᳘नुभय᳘तो यज्ञस्यो᳘दसादयन्भू᳘यिष्ठᳫँ᳭ हि तत्रा᳘त्वरन्त त᳘स्मादुपस᳘त्सु तिस्र᳘ ऽएव᳘ सामिधेनी᳘रनू᳘च्य देव᳘ता ऽएव य᳘जति न᳘ प्रयाजा᳘न्नानुयाजा᳘नुभय᳘तो यज्ञस्यो᳘त्सादयति॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
(षू) ऽउपस᳘दो ऽतन्वत ते᳘ तिस्र᳘ ऽएव᳘ सामिधेनी᳘रनू᳘च्य देव᳘ता ऽएवा᳘यजन्न᳘ प्रयाजा᳘न्नानुयाजा᳘नुभय᳘तो यज्ञस्यो᳘दसादयन्भू᳘यिष्ठᳫँ᳭ हि तत्रा᳘त्वरन्त त᳘स्मादुपस᳘त्सु तिस्र᳘ ऽएव᳘ सामिधेनी᳘रनू᳘च्य देव᳘ता ऽएव य᳘जति न᳘ प्रयाजा᳘न्नानुयाजा᳘नुभय᳘तो यज्ञस्यो᳘त्सादयति॥

मूलम् - Weber

ते᳘षु प्रे᳘तेषु॥
उपस᳘दो ऽतन्वत ते᳘ तिस्र᳘ एव᳘ सामिधेनी᳘रनू᳘च्य देव᳘ता एवा᳘यजन्न᳘ प्रयाजाॗन्नानुयाजा᳘नुभय᳘तो यज्ञस्यो᳘दसादयन्भू᳘यिष्ठᳫं हि तत्रा᳘त्वरन्त त᳘स्मादुपस᳘त्सु तिस्र᳘ एव᳘ सामिधेनी᳘रनू᳘च्य देव᳘ता एव य᳘जति न᳘ प्रयाजाॗन्नानुयाजा᳘नुभय᳘तो यज्ञस्यो᳘त्सादयति॥

मूलम् - विस्वरम्

तेषु प्रेतेषूपसदो ऽतन्वत । ते तिस्र एव सामिधेनीरनूच्य देवता एवायजन् । न प्रयाजान् । नानुयाजान् । उभयतो यज्ञस्योदसादयन् । भूयिष्ठं हि तत्रात्वरन्त । तस्मादुपसत्सु तिस्र एव सामिधेनीरनूच्य देवता एव यजति । न प्रयाजान्, नानुयाजान् । उभयतो यज्ञस्योत्सादयति ॥ २२ ॥

सायणः

[व्याख्यानं एकविंशतितमे]

Eggeling
  1. When they had gone away, they (the gods) spread out (performed) the Upasads 11. When they had recited three kindling-verses, and no more, they made offering to the deities, but laid out 12 no fore-offerings and no after-offerings on either side of the sacrifice, for they were in too great haste at that time; whence at the Upasads, when he has recited three kindling-verses, and no more, he

makes offering to the deities, but lays out no fore-offerings and no after-offerings on either side of the sacrifice.

२३

विश्वास-प्रस्तुतिः

त᳘ ऽउपवस᳘थे ऽग्नीषोमी᳘यं पशुमा᳘लेभिरे॥
त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे त᳘स्य समिष्टयजूᳫँ᳭ष्य᳘हुतान्यासुरथा᳘जग्मुस्त᳘स्मात्त᳘स्य पशोः᳘ समिष्टयजू᳘ᳫँ᳘षि न᳘ जुह्वति ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - श्रीधरादि

त᳘ ऽउपवस᳘थे ऽग्नीषोमी᳘यं पशुमा᳘लेभिरे॥
त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे त᳘स्य समिष्टयजूᳫँ᳭ष्य᳘हुतान्यासुरथा᳘जग्मुस्त᳘स्मात्त᳘स्य पशोः᳘ समिष्टयजू᳘ᳫँ᳘षि न᳘ जुह्वति ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - Weber

त᳘ उपवसॗथे ऽग्नीषोमी᳘यम् पशुमा᳘लेभिरे॥
त᳘दु हा᳘सुरा अ᳘न्वेव᳘ बुबुधिरे त᳘स्य समिष्टयजूंष्य᳘हुतान्यासुरथा᳘जग्मुस्त᳘स्मात्त᳘स्य पशोः᳘ समिष्टयजूं᳘षि न᳘ जुह्वति ते᳘ देवा अ᳘सुरान्प्र॥

मूलम् - विस्वरम्

त उपवसथे ऽग्नीषोमीयं पशुमालेभिरे । तदु हासुरा अन्वेव बुबुधिरे । तस्य समिष्टयजूंष्यहुतान्यासुः । अथाजग्मुः । तस्मात्तस्य पशोः समिष्टयजूंषि न जुह्वति । ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरे । अन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः ॥ २३ ॥

सायणः

[व्याख्यानं एकविंशतितमे]

Eggeling
  1. On the day of preparation they slaughtered the Agnīshomīya victim. But the Asuras became aware of this also. The Samishṭayajus oblations of this (offering) had not yet been offered, when they arrived; whence people offer no Samishṭayajus for this animal(-offering). The gods, espying the Asuras, snatched up the sacrifice, and began doing something else. They went away again, thinking, ‘It is something else they are doing.’

२४

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
प्रातः᳘ प्रातःसवन᳘मतन्वत त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे त᳘स्यैता᳘वत्कृतमा᳘स या᳘वत्प्रातःसवनमथा᳘जग्मुस्ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्त्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
प्रातः᳘ प्रातःसवन᳘मतन्वत त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे त᳘स्यैता᳘वत्कृतमा᳘स या᳘वत्प्रातःसवनमथा᳘जग्मुस्ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्त्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - Weber

ते᳘षु प्रे᳘तेषु॥
प्रातः᳘ प्रातःसवन᳘मतन्वत त᳘दु हा᳘सुरा अ᳘न्वेव᳘ बुबुधिरे त᳘स्यैता᳘वत्कृतमा᳘स या᳘वत्प्रातःसवनमथा᳘जग्मुस्ते᳘ देवा अ᳘सुरान्प्र॥

मूलम् - विस्वरम्

तेषु प्रेतेषु प्रातः प्रातःसवनमतन्वत । तदु हासुरा अन्वेव बुबुधिरे । तस्यैतावत्कृतमास- यावत् प्रातःसवनम् । अथाजग्मुः । ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरे । अन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः ॥ २४ ॥

सायणः

[व्याख्यानं एकविंशतितमे]

Eggeling
  1. On the next morning after they had gone away, they (the gods) spread out (performed) the morning-service (of the Soma-sacrifice). But the Asuras became aware of this also. As much as the morning-service had been performed of it, when they arrived. The gods, espying the Asuras, snatched up the sacrifice, and began doing something else. They went away, thinking, ‘It is something else they are doing.’

२५

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
मा᳘ध्यन्दिनᳫँ᳭ स᳘वनमतन्वत त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे त᳘स्यैता᳘वत्कृतमा᳘स या᳘वन्मा᳘ध्यन्दिनमथा᳘जग्मुस्ते᳘ देवा अ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्त्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
मा᳘ध्यन्दिनᳫँ᳭ स᳘वनमतन्वत त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे त᳘स्यैता᳘वत्कृतमा᳘स या᳘वन्मा᳘ध्यन्दिनमथा᳘जग्मुस्ते᳘ देवा अ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्त्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - Weber

ते᳘षु प्रे᳘तेषु॥
मा᳘ध्यन्दिनᳫं स᳘वनमतन्वत त᳘दु हा᳘सुरा अ᳘न्वेव᳘ बुबुधिरे त᳘स्यैता᳘वत्कृतमा᳘स या᳘वन्मा᳘ध्यन्दिनमथा᳘जग्मुस्ते᳘ देवा अ᳘सुरान्प्र॥

मूलम् - विस्वरम्

तेषु प्रेतेषु माध्यन्दिनं सवनमतन्वत । तदु हासुरा अन्वेव बुबुधिरे । तस्यैतावत्कृतमास- यावन्माध्यन्दिनम् । अथाजग्मुः । ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरे । अन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः ॥ २५ ॥

सायणः

[व्याख्यानं एकविंशतितमे]

Eggeling
  1. When they had gone, they (the gods) spread out the midday-service. But the Asuras became aware of this also. As much as the midday-service had been performed of it, when they arrived. The gods, espying the Asuras, snatched up the sacrifice, and began doing something else. They went away, thinking, ‘It is something else they are doing.’

२६

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
सवनी᳘येन पशु᳘ना ऽचरंस्त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे त᳘स्यैता᳘वत्कृतमा᳘स या᳘वदेत᳘स्य पशोः᳘ क्रियते ऽथा᳘जग्मुस्ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्त्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
सवनी᳘येन पशु᳘ना ऽचरंस्त᳘दु हा᳘सुरा ऽअ᳘न्वेव᳘ बुबुधिरे त᳘स्यैता᳘वत्कृतमा᳘स या᳘वदेत᳘स्य पशोः᳘ क्रियते ऽथा᳘जग्मुस्ते᳘ देवा ऽअ᳘सुरान्प्रतिदृ᳘श्य समुल्लु᳘प्य यज्ञ᳘मन्य᳘देव क᳘र्त्तुं दध्रिरे ऽन्यद्वै᳘ कुर्व्वन्ती᳘ति पु᳘नरेव प्रे᳘युः॥

मूलम् - Weber

ते᳘षु प्रे᳘तषु॥
सवनी᳘येन पशु᳘नाचरंस्त᳘दु हा᳘सुरा अ᳘न्वेव᳘ बुबुधिरे त᳘स्यैता᳘वत्कृतमा᳘स या᳘वदेत᳘स्य पशोः᳘ क्रियते ऽथा᳘जग्मुस्ते᳘ देवा अ᳘सुरान्प्र॥

मूलम् - विस्वरम्

तेषु प्रेतेषु सवनीयेन पशुना ऽचरन् । तदु हासुरा अन्वेव बुबुधिरे । तस्यैतावत्कृतमास- यावदेतस्य पशोः क्रियते । अथाजग्मुः । ते देवा असुरान्प्रतिदृश्य समुल्लुप्य यज्ञमन्यदेव कर्तुं दध्रिरे । अन्यद्वै कुर्वन्तीति पुनरेव प्रेयुः ॥ २६ ॥

सायणः

[व्याख्यानं एकविंशतितमे]

Eggeling
  1. When they had gone, (the gods) went on with the animal-offering of the Soma-sacrifice 13.

But the Asuras became aware of this also. As much of this animal-offering as is done (at the evening-service) had been done, when they arrived. The gods, espying them, snatched up the sacrifice, and began doing something else. They went away, thinking, ‘It is something else they are doing.’

२७

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
तृतीयसवन᳘मतन्वत तत्स᳘मस्थापयन्य᳘त्सम᳘स्थापयंस्तत्स᳘र्वᳫँ᳭ सत्य᳘माप्नुवंस्ततो᳘ ऽसुरा ऽअ᳘पपुप्रुविरे त᳘तो देवा ऽअ᳘भवन्परा᳘ ऽसुरा भ᳘वत्यात्म᳘ना प᳘रा ऽस्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ ऽएवं व्वे᳘द॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘षु प्रे᳘तेषु॥
तृतीयसवन᳘मतन्वत तत्स᳘मस्थापयन्य᳘त्सम᳘स्थापयंस्तत्स᳘र्वᳫँ᳭ सत्य᳘माप्नुवंस्ततो᳘ ऽसुरा ऽअ᳘पपुप्रुविरे त᳘तो देवा ऽअ᳘भवन्परा᳘ ऽसुरा भ᳘वत्यात्म᳘ना प᳘रा ऽस्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ ऽएवं व्वे᳘द॥

मूलम् - Weber

ते᳘षु प्रे᳘तेषु॥
तृतीयसवन᳘मतन्वत तत्स᳘मस्थापयन्य᳘त्सम᳘स्थापयंस्तत्स᳘र्वᳫं सत्य᳘माप्नुवंस्ततो᳘ ऽसुरा अ᳘पपुप्रुविरे त᳘तो देवा अ᳘भवन्परा᳘सुरा भ᳘वत्यात्म᳘ना प᳘रास्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ एवं वे᳘द॥

मूलम् - विस्वरम्

तेषु प्रेतेषु तृतीयसवनमतन्वत । तत्समस्थापयन् । यत्समस्थापयन्- तत्सर्वं सत्यमाप्नुवन् । ततो ऽसुरा अपपुप्रुविरे । ततो देवा अभवन्, परा ऽसुराः । भवत्यात्मना, परा ऽस्य द्विषन्भ्रातृव्यो भवति- य एवं वेद ॥ २७ ॥

सायणः

[व्याख्यानं एकविंशतितमे]

Eggeling
  1. When they had gone away, they (the gods) spread the evening-service and completed it; and by completing it they obtained that whole truth. Then the Asuras went down 14. Then the gods prevailed, and the Asuras came to naught. And, indeed, he who knows this, himself prevails, and his spiteful enemy comes to naught.

२८

विश्वास-प्रस्तुतिः

ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्ये᳘) ये᳘ न ऽइमे᳘ यज्ञाः᳘ सामि᳘ सᳫँ᳭स्थिता या᳘निमा᳘न्विज᳘हतो᳘ ऽगामो᳘प त᳘ज्जानीत य᳘थेमा᳘न्त्सᳫँ᳭स्थाप᳘यामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘थेमा᳘न्यज्ञा᳘न्त्सᳫँ᳭स्थाप᳘यामे᳘ति॥

मूलम् - श्रीधरादि

ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्ये᳘) ये᳘ न ऽइमे᳘ यज्ञाः᳘ सामि᳘ सᳫँ᳭स्थिता या᳘निमा᳘न्विज᳘हतो᳘ ऽगामो᳘प त᳘ज्जानीत य᳘थेमा᳘न्त्सᳫँ᳭स्थाप᳘यामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘थेमा᳘न्यज्ञा᳘न्त्सᳫँ᳭स्थाप᳘यामे᳘ति॥

मूलम् - Weber

ते᳘ देवा᳘ अब्रुवन्॥
ये᳘ न इमे᳘ यज्ञाः᳘ सामि᳘संस्थिता या᳘निमा᳘न्विज᳘हतो᳘ ऽगामो᳘प त᳘ज्जानीत य᳘थेमा᳘न्त्संस्थाप᳘यामे᳘तिॗ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्त᳘दिछत य᳘थेमा᳘न्यज्ञा᳘न्त्संस्थाप᳘यामे᳘ति॥

मूलम् - विस्वरम्

ते देवा अब्रुवन्- ये न इमे यज्ञाः सामि संस्थिताः, यानिमान्विजहतो ऽगाम-उप तज्जानीत- यथेमान्त्संस्थापयामेति । ते ऽब्रुवन्-चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । तदिच्छत यथेमान्यज्ञान्त्संस्थापयामेति ॥ २८ ॥

सायणः

ते देवाः पश्चान्नः संबंधिनो य इमे यज्ञाः सामि संस्थिताः यानिमान्यज्ञान्परित्यजन्तो गता वयं, तदुपजानीत, यथेमान्यज्ञान् संस्थापयाम इत्युक्त्वा चेतयध्वमित्यब्रुवन् । तदेव विव्रियते- चितिमिच्छतेति वाव तदब्रुवन्निति । चितिविचारः अन्वेषणम् । एवमपि किमर्थमब्रुवन्नित्याशङ्क्याह- तदिच्छतेति ॥ २८ ॥

Eggeling
  1. The gods said, ‘Those sacrifices of ours which are half-completed, and leaving behind which we went off 15,–think ye upon this, how we may complete them!’ They said, ‘Meditate ye!’ whereby, indeed, they meant to say, ‘Seek ye how we may complete these sacrifices!’

२९

विश्वास-प्रस्तुतिः

ते᳘ चेत᳘यमानाः॥
(ऽ) एता᳘नि समिष्टयजू᳘ᳫँ᳘ष्यपश्यंस्ता᳘न्यजुहवुस्तै᳘रेता᳘न्यज्ञान्त्स᳘मस्थापयन्य᳘त्सम᳘स्थापयंस्त᳘स्मात्सᳫँ᳭स्थित᳘यजूᳫँ᳭ष्य᳘थ य᳘त्समयजंस्त᳘स्मात्समिष्टयजू᳘ᳫँ᳘षि[[!!]]॥

मूलम् - श्रीधरादि

ते᳘ चेत᳘यमानाः॥
(ऽ) एता᳘नि समिष्टयजू᳘ᳫँ᳘ष्यपश्यंस्ता᳘न्यजुहवुस्तै᳘रेता᳘न्यज्ञान्त्स᳘मस्थापयन्य᳘त्सम᳘स्थापयंस्त᳘स्मात्सᳫँ᳭स्थित᳘यजूᳫँ᳭ष्य᳘थ य᳘त्समयजंस्त᳘स्मात्समिष्टयजू᳘ᳫँ᳘षि[[!!]]॥

मूलम् - Weber

ते᳘ चेत᳘यमानाः॥
एता᳘नि समिष्टयजूं᳘ष्यपश्यंस्ता᳘न्यजुहवुस्तै᳘रेता᳘न्यज्ञान्त्स᳘मस्थापयन्य᳘त्सम᳘स्थापयंस्त᳘स्मात्संस्थितयजूंष्य᳘थ य᳘त्सम᳘यजंस्त᳘स्मात्समिष्टयजूं᳘षि॥

मूलम् - विस्वरम्

ते चेतयमाना एतानि समिष्टयजूंष्यपश्यन् । तान्यजुहवुः । तैरेतान्यज्ञान्त्समस्थापयन् । यत्समस्थापयन्- तस्मात्संस्थितयजूंषि । अथ यत्समयजन्- तस्मात्समिष्टयजूंषि ॥ २९ ॥

सायणः

पश्चात्ते देवा विचारयन्तः एतानि समिष्टयजूंष्यपश्यन् । तैरेतान् यज्ञान् समस्थापयन् समापितवन्तः । अथैतेषां द्वेधा नाम निर्वक्ति- यत्समस्थापयन्निति । तैः एतैः यज्ञान् समस्थापयन्निति यत् तदेतानि संस्थितयजूंषीत्युच्यन्ते । अथैतैः सम्यगयजन्निति यत् तस्मात्समिष्टयजूंषीत्युच्यन्त इत्यर्थः ॥ २९ ॥

Eggeling
  1. Whilst meditating, they saw these Samishṭayajus (oblations), and offered them, and thereby completed those sacrifices; and inasmuch as thereby they completed (saṁsthāpaya) them, they are ‘saṁsthitayajus’; and inasmuch as thereby they sacrificed completely (saṁ-yaj 16), they are ‘samishṭayajus.’

३०

विश्वास-प्रस्तुतिः

ते वा᳘ ऽएते न᳘व यज्ञाः॥
(०) न᳘वैता᳘नि समिष्टयजू᳘ᳫँ᳘षि तद्य᳘देता᳘नि जुहो᳘त्येता᳘ने᳘वैत᳘द्यज्ञान्त्स᳘ᳫँ᳘स्थापयत्युभ᳘यानि जुहोत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्व्वाण्य᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

ते वा᳘ ऽएते न᳘व यज्ञाः॥
(०) न᳘वैता᳘नि समिष्टयजू᳘ᳫँ᳘षि तद्य᳘देता᳘नि जुहो᳘त्येता᳘ने᳘वैत᳘द्यज्ञान्त्स᳘ᳫँ᳘स्थापयत्युभ᳘यानि जुहोत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्व्वाण्य᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

ते वा᳘ एते न᳘व यज्ञाः᳟॥
न᳘वैता᳘नि समिष्टयजूं᳘षि तद्य᳘देता᳘नि जुहो᳘त्येता᳘नेॗवैत᳘द्यज्ञान्त्स᳘ᳫं᳘स्थापयत्युभ᳘यानि जुहोत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्वाण्य᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

ते वा एते नव यज्ञाः । नवैतानि समिष्टयजूंषि । तद् यदेतानि जुहोति । एतानेवैतद्यज्ञान्त्संस्थापयति । उभयानि जुहोति- अध्वरस्य चाग्नेश्च । अध्वरस्य पूर्वाणि, अथाग्नेः । तस्योक्तो बन्धुः ॥ ३० ॥

सायणः

अथैतान्येव समिष्टयजूंषि संख्याविशेषप्रदर्शनेन प्रशंसति- ते वा एत इति । ‘ते एते’ असमापिता दीक्षणीयादयो ‘यज्ञाः’ ‘नव’ भवन्ति । ‘एतानि समिष्टयजूंषि’ च नव भवन्ति । एवं चैतेषां नवानां समिष्टयजुषां होमेन एतान् दीक्षणीयादीन्नवापि संस्थापितवान् भवति । सौमिकान्याग्निकानि चेत्युभयान्यपि समिष्टयजूंषि जुहुयादित्याह- उभयानीति ॥ ३० ॥

Eggeling
  1. Now there are nine such (incomplete) sacrifices,

and there are nine samishṭayajus-oblations 17; and by offering these, he completes those sacrifices. He offers both kinds, those of the Soma-sacrifice, and those of the Agni(-cayana),–first those of the Soma-sacrifice, and afterwards those of the fire-altar: the significance of this has been explained.

३१

विश्वास-प्रस्तुतिः

(र्द्वे᳘) द्वे᳘ ऽअग्ने᳘र्जुहोति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैत᳘द्यज्ञᳫँ᳭ स᳘ᳫँ᳘स्थापयतीष्टो᳘ यज्ञो भृ᳘गुभिरिष्टो᳘ ऽअग्निरा᳘हुतः पिपर्तु न ऽइ᳘ति॥

मूलम् - श्रीधरादि

(र्द्वे᳘) द्वे᳘ ऽअग्ने᳘र्जुहोति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैत᳘द्यज्ञᳫँ᳭ स᳘ᳫँ᳘स्थापयतीष्टो᳘ यज्ञो भृ᳘गुभिरिष्टो᳘ ऽअग्निरा᳘हुतः पिपर्तु न ऽइ᳘ति॥

मूलम् - Weber

द्वे᳘ अग्ने᳘र्जुहोति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैत᳘द्यज्ञᳫं स᳘ᳫं᳘स्थापयतीष्टो᳘ यज्ञो भृ᳘गुभिरिष्टो᳘ अग्निरा᳘हुतः पिपर्तु न इ᳘ति॥

मूलम् - विस्वरम्

द्वे ऽअग्नेर्जुहोति । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैतद्यज्ञं संस्थापयति । “इष्टो यज्ञो भृगुभिः, इष्टो ऽअग्निराहुतः पिपर्तु नः”- (वा. सं. १८ । ५६ । ५७) इति ॥ ३१ ॥

सायणः

आग्निकानि कति जुहुयादिति तत्राह 18- द्वे अग्नेरिति । तयोर्द्वित्वं प्रशंसति- द्विपाद्यजमान इति । अथ तयोरेवाग्निकयोः समिष्टयजुषोर्मंत्रौ दर्शयति- इष्टो यज्ञ इति ॥ ३१ ॥

Eggeling
  1. Two he offers of the fire-altar,–two-footed is the Sacrificer, and Agni is the Sacrificer: as great as Agni is, as great as is his measure, with so much he thus completes the sacrifice. [He offers them, with, Vāj. S. XVIII, 56, 57], ‘Sacrifice hath been offered, up by the Bhr̥gus . . .;’–‘May Agni who hath received sacrifice and oblation speed our offered meat!’

३२

विश्वास-प्रस्तुतिः

ता᳘न्युभ᳘यान्ये᳘कादश स᳘म्पद्यन्ते॥
(न्त ऽ) ए᳘कादशाक्षरा त्रिष्टु᳘ब्वी᳘र्यं[[!!]] त्रिष्टु᳘ब्वी᳘र्यमे᳘वैत᳘द्यज्ञ᳘मभिस᳘म्पादयति[[!!]]॥

मूलम् - श्रीधरादि

ता᳘न्युभ᳘यान्ये᳘कादश स᳘म्पद्यन्ते॥
(न्त ऽ) ए᳘कादशाक्षरा त्रिष्टु᳘ब्वी᳘र्यं[[!!]] त्रिष्टु᳘ब्वी᳘र्यमे᳘वैत᳘द्यज्ञ᳘मभिस᳘म्पादयति[[!!]]॥

मूलम् - Weber

ता᳘न्युभ᳘यान्ये᳘कादश स᳘म्पद्यन्ते॥
ए᳘कादशाक्षरा त्रिष्टु᳘ब्वीर्यं᳘ त्रिष्टु᳘ब्वीर्य᳘मेॗवैत᳘द्यज्ञ᳘मभिस᳘म्पादयति॥

मूलम् - विस्वरम्

तान्युभयान्येकादश सम्पद्यन्ते । एकादशाक्षरा त्रिष्टुप् । वीर्यं त्रिष्टुप् । वीर्यमेवैतद्यज्ञमभिसम्पादयति ॥ ३२ ॥

सायणः

सौमिकाग्निकानां मिलितां संख्यां प्रशंसति- तान्युभयानीति । वीर्यं त्रिष्टुबिति । “उरसो बाहुभ्यां पञ्चदशं निरमिमीत तमिन्द्रो देवता ऽन्वसृज्यत, त्रिष्टुप्छन्दः” इत्युपक्रम्य “तस्मात्ते वीर्यावन्तो वीर्याद्ध्यसृज्यन्त” (तै. सं. ७ । १ । १ । ४) इति त्रिष्टुभो वीर्यत्वम् । एवं चैकादशसंख्यया यज्ञमभिलक्ष्य वीर्यमेव सम्पादयति यज्ञं वीर्यवन्तं करोतीत्यर्थः ॥ ३२ ॥

Eggeling
  1. These two amount to eleven,–the Trishṭubh consists of eleven syllables, and the Trishṭubh means strength: it is strength he thus imparts to the Sacrificer.

३३

विश्वास-प्रस्तुतिः

य᳘द्वेवै᳘कादश॥
(शै᳘) ए᳘कादशाक्षरा वै᳘ त्रिष्टुप्त्रै᳘ष्टु᳘भ ऽइ᳘न्द्र ऽइ᳘न्द्रो यज्ञ᳘स्यात्मे᳘न्द्रो देव᳘ता तद्य᳘ ऽएव᳘ यज्ञ᳘स्यात्मा᳘ या᳘ देव᳘ता त᳘स्मिन्ने᳘वैत᳘द्यज्ञ᳘मन्ततः प्र᳘तिष्ठापयति॥ (अर्धपपाथकः ॥५०॥)

मूलम् - श्रीधरादि

य᳘द्वेवै᳘कादश॥
(शै᳘) ए᳘कादशाक्षरा वै᳘ त्रिष्टुप्त्रै᳘ष्टु᳘भ ऽइ᳘न्द्र ऽइ᳘न्द्रो यज्ञ᳘स्यात्मे᳘न्द्रो देव᳘ता तद्य᳘ ऽएव᳘ यज्ञ᳘स्यात्मा᳘ या᳘ देव᳘ता त᳘स्मिन्ने᳘वैत᳘द्यज्ञ᳘मन्ततः प्र᳘तिष्ठापयति॥ (अर्धपपाथकः ॥५०॥)

मूलम् - Weber

य᳘द्वेवै᳘कादश॥
ए᳘कादशाक्षरा वै᳘ त्रिष्टुप्त्रै᳘ष्ठुभ इ᳘न्द्र इ᳘न्द्रो यज्ञ᳘स्यात्मे᳘न्द्रो देव᳘ता तद्य᳘ एव᳘ यज्ञ᳘स्यात्मा या᳘ देव᳘ता त᳘स्मिन्नेॗवैत᳘द्यज्ञ᳘मन्ततः प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

यद्वेवैकादश । एकादशाक्षरा वै त्रिष्टुप् । त्रैष्टुभ इन्द्रः । इन्द्रो यज्ञस्यात्मा । इन्द्रो देवता । तद् य एव यज्ञस्यात्मा, या देवता- तस्मिन्नेवैतद्यज्ञमन्ततः प्रतिष्ठापयति ॥ ३३ ॥

सायणः

प्रकारान्तरेण तामेव मिलितां संख्यां प्रशंसति- यद्वेवैकादशेति । त्रैष्टुभ इन्द्र इति । त्रिष्टुभा सह इन्द्रस्योत्पत्तेः । इन्द्रश्च यज्ञस्यात्मा देवता च । अतश्चैकादशसंख्ययाय एव यज्ञस्यात्मा या देवता च तस्मिन्नेवान्ततो यज्ञं प्रतिष्ठापयति ॥ ३३ ॥

Eggeling
  1. And, again, as to why there are eleven,–the Trishṭubh consists of eleven syllables, and Indra is of trishṭubh nature, Indra is the self (soul) of the sacrifice, Indra is the deity 19: he thus finally establishes the sacrifice in him who is the self, the deity of the sacrifice.

३४

विश्वास-प्रस्तुतिः

समिष्टयजू᳘ᳫँ᳘षि हु᳘त्वा ऽवभृथं᳘ यन्ति॥
(न्त्य) अवभृथा᳘दुदे᳘त्योदयनीये᳘न चरि᳘त्वा ऽनूब᳘न्ध्यस्य पशुपुरोडाशम᳘नु दे᳘विकानाᳫँ᳭ हवी᳘ᳫँ᳘षि नि᳘र्व्वपति॥

मूलम् - श्रीधरादि

समिष्टयजू᳘ᳫँ᳘षि हु᳘त्वा ऽवभृथं᳘ यन्ति॥
(न्त्य) अवभृथा᳘दुदे᳘त्योदयनीये᳘न चरि᳘त्वा ऽनूब᳘न्ध्यस्य पशुपुरोडाशम᳘नु दे᳘विकानाᳫँ᳭ हवी᳘ᳫँ᳘षि नि᳘र्व्वपति॥

मूलम् - Weber

समिष्टयजूं᳘षि हुॗत्वावभृथं᳘ यन्ति॥
अवभृथा᳘दुदे᳘त्योदयनीये᳘न चरिॗत्वानूब᳘न्ध्यस्य पशुपुरोडाशम᳘नु दे᳘विकानाᳫं हवीं᳘षि नि᳘र्वपति॥

मूलम् - विस्वरम्

अथ देविकाहवींषि ।

समिष्टयजूंषि हुत्वा, अवभृथं यन्ति । अवभृथादुदेत्य, उदयनीयेन चरित्वा, अनूबन्ध्यस्य पशुपुरोडाशमनु देविकानां हवींषि निर्वपति ॥ ३४ ॥

सायणः

समिष्टयजुर्होमानन्तरम् अनुष्ठेयं प्रयोगमाह- समिष्टयजूंषि हुत्वा ऽवभृथं यन्तीति । अनूबन्ध्यस्येति । अवभृथादागत्य उदयनीयेन चरित्वा अनूबन्ध्यारम्भः । तत्र पशुपुरोडाशमनु देविकाख्यानां देवतानां हवींषि निर्वपेत् ॥ ३४ ॥

Eggeling
  1. Having performed the Samishṭayajus-oblations, they betake themselves to the expiatory bath (avabhr̥tha 20). Having come out from the bath,

and performed the Udayanīya (concluding oblation) 21, he, after the animal cake of the offering of the barren cow 22, prepares oblations for the goddesses.

३५

विश्वास-प्रस्तुतिः

(त्ये) एतद्वै᳘ प्रजा᳘पतिः॥
प्रा᳘प्य रा᳘द्ध्वेवामन्यत स᳘ दिक्षु᳘ प्रतिष्ठा᳘येदᳫँ᳭ स᳘र्व्वं द᳘धद्विद᳘धदतिष्ठद्यद्द᳘धद्विद᳘धद᳘तिष्ठत्त᳘स्माद्धाता त᳘थै᳘वैतद्य᳘जमानो दिक्षु᳘ प्रतिष्ठा᳘येदᳫँ᳭ स᳘र्व्वं द᳘धद्विद᳘धत्तिष्ठति॥

मूलम् - श्रीधरादि

(त्ये) एतद्वै᳘ प्रजा᳘पतिः॥
प्रा᳘प्य रा᳘द्ध्वेवामन्यत स᳘ दिक्षु᳘ प्रतिष्ठा᳘येदᳫँ᳭ स᳘र्व्वं द᳘धद्विद᳘धदतिष्ठद्यद्द᳘धद्विद᳘धद᳘तिष्ठत्त᳘स्माद्धाता त᳘थै᳘वैतद्य᳘जमानो दिक्षु᳘ प्रतिष्ठा᳘येदᳫँ᳭ स᳘र्व्वं द᳘धद्विद᳘धत्तिष्ठति॥

मूलम् - Weber

एतद्वै᳘ प्रजा᳘पतिः॥
प्रा᳘प्य राॗद्ध्वेवामन्यत स᳘ दिक्षु᳘ प्रतिष्ठा᳘येदᳫं स᳘र्वं द᳘धद्विद᳘धदतिष्ठद्यद्द᳘धद्विद᳘धद᳘तिष्ठत्त᳘स्माद्धाता त᳘थैॗवैतद्य᳘जमानो दिक्षु᳘ प्रतिष्ठा᳘येदᳫं स᳘र्वं द᳘धद्विद᳘धत्तिष्ठति॥

मूलम् - विस्वरम्

एतद्वै प्रजापतिः प्राप्य राध्वेवामन्यत । स दिक्षु प्रतिष्ठायेदं सर्वं दधद् विदधत् अतिष्ठत् । यद्- दधद् विदधद् अतिष्ठत्- तस्माद्धाता । तथैवैतद्यजमानो दिक्षु प्रतिष्ठायेदं सर्वं दधद्- विदधत्- तिष्ठति ॥ ३५ ॥

सायणः

अन्न देविकानां हविःषु धात्रो द्वादशकपालो निरुप्यते । तत्र धात्रशब्दस्य प्रवृत्तिनिमित्तं दर्शयन् तद्द्वारा ऽस्य प्रयोजनमाह- एतद्वै प्रजापतिरिति । पूर्वं प्रजापतिः चयनकर्मणा स्वकीयं रूपं प्राप्य राध्वेव सिद्धिं गत्वेवामन्यत आत्मानं सिद्धममन्यतेत्यर्थः । ततः स दिक्षु प्रतिष्ठायेदं सर्वं जगद्दधद्धारयन् विदधत् कुर्वाणः अतिष्ठत् । यत एवं सर्वमपि दधद्विदधदतिष्ठत् तस्मादसौ धाता । अतश्च तद्यागेन यजमानो ऽपि तथैव दिक्षु प्रतिष्ठायेदं सर्वं दधद्विदधत्तिष्ठति ॥ ३५ ॥

Eggeling
  1. For now Prajāpati, having gained his end, thought himself quite perfect. Establishing himself in the quarters he went on ordering (or creating) and disposing everything here; and inasmuch as he went on ordering and disposing, he is the Orderer. And in like manner does the Sacrificer, establishing himself in the quarters, order and dispose everything here.

३६

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैता᳘नि हवी᳘ᳫँ᳘षि निर्व्व᳘पति॥
दि᳘श ऽए᳘षो ऽग्निस्ता᳘ ऽउ ऽए᳘वामूः᳘ पुर᳘स्ताद्दर्भस्तम्बं᳘ च लोगेष्टकाश्चो᳘पदधाति ताः᳘ प्राणभृ᳘तः प्रथमा᳘यां चि᳘तौ स᳘र्व्वैव᳘ द्विती᳘या स᳘र्व्वा तृती᳘या स᳘र्व्वा चतुर्थ्य᳘थ पञ्चम्यै चि᳘तेरसपत्ना᳘ नाकस᳘दः प᳘ञ्चचूडास्ता᳘ ऽऊर्ध्वा᳘ ऽउत्क्रा᳘मन्त्य ऽआयंस्ता᳘भ्यः प्रजा᳘पतिरबिभेत्स᳘र्व्वं वा᳘ ऽइद᳘मिमाः प᳘राच्यो᳘ ऽत्येष्यन्ती᳘ति ता᳘ धाता᳘ भूत्वा प᳘र्यगच्छत्ता᳘सु प्र᳘त्यतिष्ठत्॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैता᳘नि हवी᳘ᳫँ᳘षि निर्व्व᳘पति॥
दि᳘श ऽए᳘षो ऽग्निस्ता᳘ ऽउ ऽए᳘वामूः᳘ पुर᳘स्ताद्दर्भस्तम्बं᳘ च लोगेष्टकाश्चो᳘पदधाति ताः᳘ प्राणभृ᳘तः प्रथमा᳘यां चि᳘तौ स᳘र्व्वैव᳘ द्विती᳘या स᳘र्व्वा तृती᳘या स᳘र्व्वा चतुर्थ्य᳘थ पञ्चम्यै चि᳘तेरसपत्ना᳘ नाकस᳘दः प᳘ञ्चचूडास्ता᳘ ऽऊर्ध्वा᳘ ऽउत्क्रा᳘मन्त्य ऽआयंस्ता᳘भ्यः प्रजा᳘पतिरबिभेत्स᳘र्व्वं वा᳘ ऽइद᳘मिमाः प᳘राच्यो᳘ ऽत्येष्यन्ती᳘ति ता᳘ धाता᳘ भूत्वा प᳘र्यगच्छत्ता᳘सु प्र᳘त्यतिष्ठत्॥

मूलम् - Weber

य᳘द्वेॗवैता᳘नि हवीं᳘षि निर्व᳘पति॥
दि᳘श एॗषो ऽग्निस्ता᳘ उ एॗवामूः᳘ पुर᳘स्ताद्दर्भस्तम्बं᳘ च लोगेष्टकाश्चो᳘पदधाति ताः᳘ प्राणभृ᳘तः प्रथमा᳘यां चि᳘तौ स᳘र्वैव᳘ द्विती᳘या स᳘र्वा तृती᳘या स᳘र्वा चतुर्थ्य᳘थ पञ्चम्यै चि᳘तेरसपत्ना᳘ नाकस᳘दः प᳘ञ्चचूडास्ता᳘ ऊर्ध्वा᳘ उत्क्रा᳘मन्त्य आयंस्ता᳘भ्यः प्रजा᳘पतिरबिभेत्स᳘र्वं वा᳘ इद᳘मिमाः प᳘राच्यो᳘ ऽत्येष्यन्ती᳘ति ता᳘ धाता᳘ भूत्वा प᳘र्यगछत्ता᳘सु प्र᳘त्यतिष्ठत्॥

मूलम् - विस्वरम्

यद्वेवैतानि हवींषि निर्वपति । दिश एषो ऽग्निः । ता उ एवामूः पुरस्ताद्दर्भस्तम्बं च लोगेष्टकाश्चोपदधाति । ताः प्राणभृतः प्रथमायां चितौ । सर्वैव द्वितीया । सर्वा तृतीया । सर्वा चतुर्थी । अथ पञ्चम्यै चितेरसपत्ना नाकसदः पञ्चचूडाः । ता ऊर्ध्वा उत्क्रामन्त्य आयन् । ताभ्यः प्रजापतिरबिभेत्- सर्वं वा इदमिमाः पराच्यो ऽत्येष्यन्तीति । ता धाता भूत्वा पर्यगच्छत् । तासु प्रत्यतिष्ठत् ॥ ३६ ॥

सायणः

तथैतेषां सर्वेषामपि हविषां संभूयोपयोगं वक्तुमाह- यद्वेवैतानि इत्यादिना । एष सञ्चितो ऽग्निर्दिशो, दिगात्मकत्वं च तस्य ता उ एवामूः पुरस्तादित्यादिना स्पष्टीक्रियते । दर्भस्तम्बादीनां प्रथमायां चितावुपधानात् अमूरिति विप्रकृष्टवाचिना शब्देन परामर्शः । पूर्वं प्रथमायां चितौ दर्भस्तम्बं च लोगेष्टकाश्चोपदधाति । तत्र हि प्रागादिक्रमेण चतसृषु दिक्षु लोगेष्टका मध्ये दर्भस्तम्बश्चोपधीयन्ते । अतश्च दिश एव तदात्मनोपदधाति । एवमिष्टकानां दिगात्मकत्वादेव- ‘दिश एषो ऽग्निः’ इति अग्नेर्दिगात्मकत्वमुक्तम् । ताः दिगात्मिका दर्भस्तम्बादिदिश इष्टकाः तत्रैव प्रथमायां चितौ प्रागादिक्रमेण पञ्चसु दिक्षु प्राणभृतामुपधानात् दिगात्मिकाः प्राणभृतश्च । द्वितीयादिषु चतुर्थ्यन्तासु तिसृषु, चितिषु सर्वासामपीष्टकानां प्रागादिक्रमेणैवोपधानात् तासां दिगात्मकत्वम् । ताश्च पञ्चम्याश्चितेः सम्बन्धिन्यः असपत्ना नाकसदः पञ्चचूडा इत्येता अपि तथैवोपधानाद्दिगात्मिकाः । ‘ताः’ एताः सर्वा अपि दिग्रूपा इष्टकाः ऊर्ध्वा उत्क्रामन्त्यो ऽपगताः । ततः ‘प्रजापतिः’ ‘इमाः’ इष्टकाः ‘पराच्यः’ सत्यः ‘इदं’ ‘सर्वम्’ अपि जगदतिक्रमिष्यंतीति ताभ्यो भीतस्ताः ‘धाता भूत्वा’ परिगत्य तासु प्रतिष्ठितो ऽभूत् ॥ ३६ ॥

Eggeling
  1. And, again, as to why he prepares these oblations. This Agni (the fire-altar) is the quarters (regions), and these he lays down beforehand (in the shape of) the bunch of Darbha grass 23 and the clod-bricks 24; the Prāṇabhr̥ts 25 in the first layer, the whole of the second, the whole of the third, and the whole of the fourth (layers 26); and of the fifth

layer the Asapatnās, Nākasads and Pañcacūḍās 27,–these kept going out upwards 28 (from Prajāpati, the altar). Prajāpati was afraid of them, thinking, ‘Whilst moving away, these will go beyond this universe.’ Having become the Orderer, he went round them and established himself in them.

३७

विश्वास-प्रस्तुतिः

(त्स) स यः स᳘ धा᳘ता ऽसौ स᳘ ऽआदित्यः᳘॥
(त्यो᳘ ऽथ) अ᳘थ यत्त᳘द्दिशां᳘ परमं᳘ क्रान्त᳘मेतत्तद्य᳘स्मिन्नेष᳘ ऽएतत्प्र᳘तिष्ठितस्त᳘पति॥

मूलम् - श्रीधरादि

(त्स) स यः स᳘ धा᳘ता ऽसौ स᳘ ऽआदित्यः᳘॥
(त्यो᳘ ऽथ) अ᳘थ यत्त᳘द्दिशां᳘ परमं᳘ क्रान्त᳘मेतत्तद्य᳘स्मिन्नेष᳘ ऽएतत्प्र᳘तिष्ठितस्त᳘पति॥

मूलम् - Weber

स यः स᳘ धाॗतासौ स᳘ आदित्यः᳟॥
अ᳘थ यत्त᳘द्दिशा᳘म् परमं᳘ क्रान्त᳘मेतत्तद्य᳘स्मिन्नेष᳘ एतत्प्र᳘तिष्ठितस्त᳘पति॥

मूलम् - विस्वरम्

स यः स धाता- असौ स आदित्यः । अथ यत्तद्दिशां परमं क्रान्तम्- एतत्तद्- यस्मिन्नेष एतत् प्रतिष्ठितस्तपति ॥ ३७ ॥

सायणः

अथ तमेव दिङ्निरोधार्थं परिगतं धातारं दिशामुत्क्रान्तरूपं च दर्शयति- स यः स धातेति । स दिङ्निरोधार्थं परिगतो यो धाता ऽस्ति स धाता उपरि तपन्नादित्यः खलु । अथ दिशां तद्यत् परममन्तिमं क्रान्तं उत्क्रान्तं रूपमस्ति तदेतत् । एतच्छब्दार्थमेव दर्शयति- यस्मिन्नेष इति । ‘एषः’ आदित्यः ‘यस्मिन्प्रतिष्ठितः’ एतत् तपनं करोति । एतदन्तरिक्षं तद्दिशां परममुत्क्रान्तरूपं दिशामन्तरिक्षावधि उत्कांतत्वात्तदेव परममुत्क्रान्तरूपमित्यर्थः ॥ ३७ ॥

Eggeling
  1. Now the same as that Orderer is yonder sun; and that which was the farthest gone of the regions is that in which that (sun) shines firmly established.

३८

विश्वास-प्रस्तुतिः

स यः स᳘ धा᳘ता ऽय᳘मेव स᳘ धात्रः[[!!]]॥
(त्रो) द्वा᳘दशकपालः पुरोडा᳘शो द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्धाता᳘ ऽथ यत्त᳘द्दिशां᳘ परमं᳘ क्रान्त᳘मेता᳘नि ता᳘नि पू᳘र्व्वाणि हवीᳫँ᳭ष्य᳘नुमत्यै चरू᳘राका᳘यै चरुः᳘ सिनीवाल्यै᳘ चरुः᳘ कुह्वै᳘ चरुस्तद्य᳘देता᳘नि निर्व्व᳘पति य᳘देव त᳘द्दिशां᳘ परमं᳘ क्रान्तं त᳘स्मिन्ने᳘वैनमेतत्प्र᳘तिष्ठापयति तᳫँ᳭ स᳘र्व्वं जुहोत्येत᳘स्यैव᳘ कृत्स्न᳘तायै॥

मूलम् - श्रीधरादि

स यः स᳘ धा᳘ता ऽय᳘मेव स᳘ धात्रः[[!!]]॥
(त्रो) द्वा᳘दशकपालः पुरोडा᳘शो द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्धाता᳘ ऽथ यत्त᳘द्दिशां᳘ परमं᳘ क्रान्त᳘मेता᳘नि ता᳘नि पू᳘र्व्वाणि हवीᳫँ᳭ष्य᳘नुमत्यै चरू᳘राका᳘यै चरुः᳘ सिनीवाल्यै᳘ चरुः᳘ कुह्वै᳘ चरुस्तद्य᳘देता᳘नि निर्व्व᳘पति य᳘देव त᳘द्दिशां᳘ परमं᳘ क्रान्तं त᳘स्मिन्ने᳘वैनमेतत्प्र᳘तिष्ठापयति तᳫँ᳭ स᳘र्व्वं जुहोत्येत᳘स्यैव᳘ कृत्स्न᳘तायै॥

मूलम् - Weber

स यः स᳘ धाॗताय᳘मेव स᳘ धात्रः᳟॥
द्वा᳘दशकपालः पुरोडा᳘शो द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सरः᳘ प्रजा᳘पतिः प्रजा᳘पतिर्धाता᳘थ यत्त᳘द्दिशा᳘म् परमं᳘ क्रान्त᳘मेता᳘नि ता᳘नि पू᳘र्वाणि हवींष्य᳘नुमत्यै चरू᳘राका᳘यै चरुः᳘ सिनीवाल्यै᳘ चरुः᳘ कुह्व्यै᳘ चरुस्तद्य᳘देता᳘नि निर्व᳘पति य᳘देव त᳘द्दिशा᳘म् परमं᳘ क्रान्तं त᳘स्मिन्नेॗवैनमेतत्प्र᳘तिष्ठापयति तᳫं स᳘र्वं जुहोत्येत᳘स्यैव᳘ कृत्स्न᳘तायै॥

मूलम् - विस्वरम्

स यः स धाता- अयमेव स धात्रो द्वादशकपालः पुरोडाशः । द्वादशकपालः । द्वादश मासाः संवत्सरः । संवत्सरः प्रजापतिः । प्रजापतिर्धाता । अथ यत्तद्दिशां परमं क्रान्तम्- एतानि तानि पूर्वाणि हवींषि । अनुमत्यै चरुः । राकायै चरुः । सिनीवाल्यै चरुः । कुह्वै चरुः । तद्यदेतानि निर्वपति- यदेव तद्दिशां परमं क्रान्तं- तस्मिन्नेवैनमेतत्प्रतिष्ठापयति । तं सर्वं जुहोति- एतस्यैव कृत्स्नतायै ॥ ३८ ॥

सायणः

अस्त्वादित्यो धाता अन्तरिक्षमेव दिशां परममुत्क्रान्तत्वात्तदेव रूपं ततः किमायातं प्रकृत इति तत्राह- स यः स धातेति । स आदित्यात्मको यो धाता सो ऽयमेव धात्रो धातृदेवत्यः पुरोडाशः । स च द्वादशकपालो भवति । द्वादश मासा इत्यादिना तां द्वादशसंख्यामुपपादयति । संवत्सरो द्वादशमासात्मकः । प्रजापतिस्तथाविधसंवत्सरात्मकः । स एव प्रजापतिर्धाता । एवं धातुर्द्वादशसंख्यासंबंधात्तद्देवत्यस्य पुरोडाशस्य द्वादशकपालत्वमुपपन्नम् । अथ तत्पूर्वोक्तं यद्दिशां परममुत्क्रांतरूपं तान्येतानि पूर्वाणि हवींषि, तान्येव दर्शयति- अनुमत्यै चरुरित्यादिना । धात्रपुरोडाशस्योत्तमत्वात्तदपेक्षया एतेषां पूर्वत्वमत एव कात्यायनेन- एतेषां हविषामन्ते धात्रो द्वादशकपालः सूत्रितः । “अनुमतिराकासिनीवालीकुहूभ्यश्चरवो धात्रो द्वादशकपालः सर्वहुतः”- (का. श्रौ. सू. १८ । १०६-१०७) इति । तथा चैतानि देविकानां हवींषि निर्वपतीति यत् तेन यदेव तद्दिशां परममुत्क्रांतरूपं तस्मिन्नेवैनं धातारं प्रतिष्ठापयति । एतेन हविषां निर्वापेन दर्भस्तम्बादीष्टकालक्षणासु उत्क्रान्तासु दिक्षु प्रजापतिं प्रतिष्ठापितवान्भवतीत्यर्थः । तस्य धात्रपुरोडाशस्य होमावसरे पुरोडाशान्तरवदवदानप्रसक्तावाह- तं सर्वमिति । सर्वहोमस्योपयोगमाह- एतस्यैवेति ॥ ३८ ॥

Eggeling
  1. And the same as that Orderer is this cake to the Orderer on twelve potsherds. On twelve potsherds (it is),–the year is (of) twelve months, Prajāpati is the year, and Prajāpati is the Orderer. And that one which was the farthest gone of the regions is the same as these previous oblations,–a pap to Anumati, a pap to Rākā, a pap to Sinīvalī, and a pap to Kuhū 29: when he prepares these oblations, he thereby establishes him (Prajāpati) in that which was the farthest gone of the regions. That (cake) he offers whole, for the completeness of that (Prajāpati).

३९

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएता᳘ दे᳘व्यः[[!!]]॥
(व्यो) दि᳘शो᳘ ह्येताश्छ᳘न्दाᳫँ᳭सि वै दि᳘शश्छ᳘न्दाᳫँ᳭सि देव्यो᳘ ऽथैष कः᳘ प्रजा᳘पतिस्तद्य᳘द्देव्य᳘श्च क᳘श्च त᳘स्माद्दे᳘विकाः प᳘ञ्च भवन्ति प᳘ञ्च हि दि᳘शः॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएता᳘ दे᳘व्यः[[!!]]॥
(व्यो) दि᳘शो᳘ ह्येताश्छ᳘न्दाᳫँ᳭सि वै दि᳘शश्छ᳘न्दाᳫँ᳭सि देव्यो᳘ ऽथैष कः᳘ प्रजा᳘पतिस्तद्य᳘द्देव्य᳘श्च क᳘श्च त᳘स्माद्दे᳘विकाः प᳘ञ्च भवन्ति प᳘ञ्च हि दि᳘शः॥

मूलम् - Weber

ता वा᳘ एता᳘ देव्यः᳟॥
दि᳘शोॗ ह्येताश्छ᳘न्दांसि वै दि᳘शश्छ᳘न्दांसि देव्यो᳘ ऽथैष कः᳘ प्रजा᳘पतिस्तद्य᳘द्देव्य᳘श्च क᳘श्च त᳘स्माद्दे᳘विकाः प᳘ञ्च भवन्ति प᳘ञ्च हि दि᳘शः॥

मूलम् - विस्वरम्

ता वा एता देव्यः । दिशो ह्येताः । छन्दांसि वै दिशः । छन्दांसि देव्यः । अथैष कः प्रजापतिः । तद्- यद्देव्यश्च कश्च- तस्माद्देविकाः । पञ्च भवन्ति । पञ्च हि दिशः ॥ ३९ ॥

सायणः

अथ देविकाशब्दं निर्वक्ति- ता वा एता इति । ‘ता एताः’ अनुमत्यादयो ‘देव्यः’ खलु । एतदेवोपपाद्यते- दिशो ह्येता इत्यादिना । ‘एताः’ सिनीवाल्यादयो दिशः खलु ‘दिशश्छन्दांसि’ खलु तानि च्छन्दांसि द्योतमानत्वेन देव्यः, एवं च परम्परया सिनीवाल्यादयो देव्यः । अथैष ‘प्रजापतिः’ ‘कः’ इत्युच्यते । तथा सति ‘देव्यश्च कश्च’ इति यत् तस्मात्’ एताः ‘देविकाः’ इति । “ङ्यापोः संज्ञाछन्दसोर्बहुलम्”- (पा. सू. ६ । ३ । ६३) इति देवीशब्दस्य ह्रस्वत्वम् । अथैतेषां पञ्चत्वसंख्यामुपपादयति- पञ्च भवन्तीति । दिशां पञ्चत्वात्तदात्मिकानां देविकानामपि हवींषि पञ्चैव भवेयुरित्यर्थः ॥ ३९ ॥

Eggeling
  1. These are goddesses, for they are the regions,

the regions are the metres, and the metres are deities; and that Ka is Prajāpati; and inasmuch as they are goddesses (devī) and Ka, they are ‘devikāḥ 30.’ There are five of them, for there are five regions.

४०

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दाहुः॥
(र्नै) नैता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपेन्ने᳘दतिरेच᳘यानी᳘ति ता᳘नि वै नि᳘र्व्वपेदेव का᳘मेभ्यो वा᳘ ऽएता᳘नि हवी᳘ᳫँ᳘षि नि᳘रुप्यन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति यद्वै किं᳘ च पशुपुरोडाशम᳘नु हवि᳘र्निरुप्य᳘ते पशा᳘वेव स᳘ मध्यतो मे᳘धो धीयत ऽउभ᳘यानि नि᳘र्व्वपत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्व्वम᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुरुच्चैः᳘ पशुपुरोडाशो भ᳘वत्युपा᳘ᳫँ᳘श्वेतानी᳘ष्टिर्ह्य᳘नुब्रूहि प्रेष्ये᳘ति पशुपुरोडाशस्याहा᳘नुब्रूहि यजे᳘त्येते᳘षामि᳘ष्टिर्हि᳘ समानः᳘ स्विष्टकृ᳘त्समानी᳘डा॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दाहुः॥
(र्नै) नैता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपेन्ने᳘दतिरेच᳘यानी᳘ति ता᳘नि वै नि᳘र्व्वपेदेव का᳘मेभ्यो वा᳘ ऽएता᳘नि हवी᳘ᳫँ᳘षि नि᳘रुप्यन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति यद्वै किं᳘ च पशुपुरोडाशम᳘नु हवि᳘र्निरुप्य᳘ते पशा᳘वेव स᳘ मध्यतो मे᳘धो धीयत ऽउभ᳘यानि नि᳘र्व्वपत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्व्वम᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुरुच्चैः᳘ पशुपुरोडाशो भ᳘वत्युपा᳘ᳫँ᳘श्वेतानी᳘ष्टिर्ह्य᳘नुब्रूहि प्रेष्ये᳘ति पशुपुरोडाशस्याहा᳘नुब्रूहि यजे᳘त्येते᳘षामि᳘ष्टिर्हि᳘ समानः᳘ स्विष्टकृ᳘त्समानी᳘डा॥

मूलम् - Weber

त᳘दाहुः॥
नैता᳘नि हवीं᳘षि नि᳘र्वपेन्ने᳘दतिरेच᳘यानी᳘ति ता᳘नि वै नि᳘र्वपेदेव का᳘मेभ्यो वा᳘ एता᳘नि हवीं᳘षि नि᳘रुप्यन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति यद्वै किं᳘ च पशुपुरोडाशम᳘नु हवि᳘र्निरुप्य᳘ते पशा᳘वेव स᳘ मध्यतो मे᳘धो धीयत उभ᳘यानि नि᳘र्वपत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्वम᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुरुच्चैः᳘ पशुपुरोडाशो भ᳘वत्युपांॗश्वेतानी᳘ष्टिर्ह्य᳘नुब्रूहि प्रेष्ये᳘ति पशुपुरोडाशस्याहा᳘नुब्रूहि यजे᳘त्येते᳘षामि᳘ष्टिर्हि᳘ समानः᳘ स्विष्टकृ᳘त्समानी᳘डा॥

मूलम् - विस्वरम्

तदाहुः- नैतानि हवींषि निर्वपेत् । नेदतिरेचयानीति । तानि वै निर्वपेदेव । कामेभ्यो वा एतानि हवींषि निरुप्यन्ते । न वै कामानामतिरिक्तमस्ति । यद्वै किं च पशुपुरोडाशमनु हविर्निरूप्यते- पशावेव स मध्यतो मेधो धीयते । उभयानि निर्वपति- अध्वरस्य चाग्नेश्च । अध्वरस्य पूर्वम्, अथाग्नेः । तस्योक्तो बन्धुः । उच्चैः पशुपुरोडाशो भवति, उपांश्वेतानि । इष्टिर्हि । ‘अनुब्रूहि’ ‘प्रेष्य’ इति पशुपुरोडाशस्याह । ‘अनुब्रूहि’ ‘यज’ इत्येतेषाम् । इष्टिर्हि । समानः स्विष्टकृत् । समानीडा ॥ ४० ॥

सायणः

तदाहुः इत्यादिकम् समानीडा इत्यन्तम् प्रागेव व्याख्यातम् ॥ ४० ॥

Eggeling
  1. As to this they say, ‘He should not offer these oblations, lest he should do what is excessive.’ Let him nevertheless offer them; for these oblations are offered for (the fulfilment) of (special) wishes, and in wishes there is nothing excessive. And whatever oblation is offered after the cake of the animal-offering that is placed inside the victim itself as its sacrificial sap. He offers both kinds (of oblations), those of the Soma-sacrifice and those of the Agni(-cayana), to wit, first those of the Soma-sacrifice, and then those of the fire-altar: the significance of this has been explained. The cake-offering of the animal sacrifice is (performed) in a loud voice, and these (five oblations) in a low voice, for they are an ishṭi 31. With the Paśupuroḍāśa he (the Adhvaryu) says, ‘Recite!–Urge!’ and with these (oblations), ‘Recite!–Worship!’ for they are an ishṭi 32. There is the same Svishṭakr̥t, and the same Iḍā 33.

४१

विश्वास-प्रस्तुतिः

त᳘स्य वा᳘ ऽएत᳘स्य पशोः[[!!]]॥
(र्जु᳘) जु᳘ह्वति समिष्टयजू᳘ᳫँ᳘ष्यभ्य᳘वयन्ति हृदयशूले᳘नावभृथ᳘ᳫँ᳘ सᳫँ᳭स्था᳘ ह्येष᳘ पशु᳘र्हृदयशूले᳘न चरित्वा᳘॥

मूलम् - श्रीधरादि

त᳘स्य वा᳘ ऽएत᳘स्य पशोः[[!!]]॥
(र्जु᳘) जु᳘ह्वति समिष्टयजू᳘ᳫँ᳘ष्यभ्य᳘वयन्ति हृदयशूले᳘नावभृथ᳘ᳫँ᳘ सᳫँ᳭स्था᳘ ह्येष᳘ पशु᳘र्हृदयशूले᳘न चरित्वा᳘॥

मूलम् - Weber

त᳘स्य वा᳘ एत᳘स्य पशोः᳟॥
जु᳘ह्वति समिष्टयजूं᳘ष्यभ्य᳘वयन्ति हृदयशूले᳘नावभृथ᳘ᳫं᳘ संस्थाॗ ह्येष᳘ पशु᳘र्हृदयशूले᳘न चरित्वा᳟॥

मूलम् - विस्वरम्

तस्य वा एतस्य पशोर्जुह्वति समिष्टयजूंषि, अभ्यवयन्ति हृदयशूलेनावभृथम् । संस्था ह्येष पशुः । हृदयशूलेन चरित्वा ॥ ४१ ॥

सायणः

दीक्षणीयादीष्टीनां समिष्टयजुर्होमात् पूर्वभावित्वेन समिष्टयजुर्होमः सिद्ध्यति, अग्नीषोमीयपशोः पुनर्न सिद्ध्यति, न चासौ पशुस्ततः पूर्वभावी । अतो ऽस्य पृथगेव समिष्टयजूंषि जुहुयादित्याह- तस्य वा एतस्येति । तस्य पशोः समाप्तिरूपत्वात् हृदयशूलेन अवभृथमभ्यवेयुरित्याह- अभ्यवयन्तीति । हृदयशूलमुद्वास्य प्रत्येत्य वैश्वकर्मणानि जुहुयादित्याह- हृदयशूलेन चरित्वेति 34 ॥ ४१ ॥

Eggeling
  1. Of that same animal-offering (of the barren cow) they perform the Samishṭayajus-oblations; they enter the expiatory bath with the heart-spit 35;

for this animal-offering is the end. Having proceeded with the heart-spit;–

४२

विश्वास-प्रस्तुतिः

प्रत्ये᳘त्य व्वैश्वकर्मणा᳘नि जुहोति॥
व्वि᳘श्वानि क᳘र्मण्यय᳘मग्निस्ता᳘न्यस्या᳘त्र स᳘र्व्वाणि क᳘र्माणि कृता᳘नि भवन्ति ता᳘न्येत᳘त्प्रीणाति ता᳘नि हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्यते᳘ ऽथो व्विश्व᳘कर्मा ऽय᳘मग्निस्त᳘मे᳘वैत᳘त्प्रीणाति॥

मूलम् - श्रीधरादि

प्रत्ये᳘त्य व्वैश्वकर्मणा᳘नि जुहोति॥
व्वि᳘श्वानि क᳘र्मण्यय᳘मग्निस्ता᳘न्यस्या᳘त्र स᳘र्व्वाणि क᳘र्माणि कृता᳘नि भवन्ति ता᳘न्येत᳘त्प्रीणाति ता᳘नि हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्यते᳘ ऽथो व्विश्व᳘कर्मा ऽय᳘मग्निस्त᳘मे᳘वैत᳘त्प्रीणाति॥

मूलम् - Weber

प्रत्ये᳘त्य वैश्वकर्मणा᳘नि जुहोति॥
वि᳘श्वानि क᳘र्मण्यय᳘मग्निस्ता᳘न्यस्या᳘त्र स᳘र्वाणि क᳘र्माणि कृता᳘नि भवन्ति ता᳘न्येत᳘त्प्रीणाति ता᳘नि हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्यते᳘ ऽथो विश्व᳘कर्माय᳘मग्निस्त᳘मेवैत᳘त्प्रीणाति॥

मूलम् - विस्वरम्

अथ वैश्वकर्मणहोमः ।

प्रत्येत्य वैश्वकर्मणानि जुहोति । विश्वानि कर्माण्ययमग्निः । तान्यत्र सर्वाणि कर्माणि कृतानि भवन्ति । तान्येतत्प्रीणाति । तानि हविषा देवतां करोति । यस्यै वै देवतायै हविर्गृह्यते सा देवता । न सा- यस्यै न गृह्यते । अथो विश्वकर्मा ऽयमग्निः । तमेवैतत्प्रीणाति ॥ ४२ ॥

सायणः

तेषां होमस्योपयोगमाह- प्रत्येत्य वैश्वकर्मणानीति । ‘अयमग्निः’ एव ‘विश्वानि कर्माणि’ धातुविश्वेषां कर्मणां तावदग्निसाध्यत्वात्- अस्याग्नेस्तानि सर्वाणि कर्माणि अस्मिन्नवसरे ‘कृतानि’ भवन्ति । अतश्चैतेन होमेन ‘तान्येव’ कर्माणि ‘प्रीणाति’ । अथो विश्वकर्मेति । किंच ‘अयमग्निः’ विश्वस्य कर्तृत्वेन विश्वकर्मा तमेवैतेन होमेन प्रीणातीति । संप्रति विश्वकर्मविशिष्टमग्निं प्रीणातीत्युक्तत्वात् विश्वानि कर्माणि देवतैषामिति वैश्वकर्मणानीति प्रथमपक्षे व्युत्पत्तिः । द्वितीयपक्षे विश्वकर्मा देवता एषां इति वैश्वकर्मणानि इति व्युत्पत्तिः ॥ ४२ ॥

Eggeling
  1. And having returned (to the fire-altar), he performs the oblations to Viśvakarman;–This Agni(-cayana) indeed (includes) all sacrificial rites (viśvāni karmāṇi); and all these its rites have been performed in this (agnicayana): he now gratifies them, and makes them a deity by means of an offering of sacrificial food; for only that one is a deity, for whom an oblation is prepared, but not one for whom it is not (prepared). Moreover, this Agni is Viśvakarman (the all-worker): it is him he thereby gratifies.

४३

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्वैश्वकर्मणा᳘नि जुहो᳘ति॥
प्रा᳘यणं च हाग्ने᳘रुद᳘यनं च सावित्रा᳘णि प्रा᳘यणं व्वैश्वकर्मणा᳘न्युद᳘यनᳫँ᳭[[!!]] स य᳘त्सावित्रा᳘ण्येव᳘ जुहुयान्न᳘ व्वैश्वकर्मणा᳘नि य᳘था प्रा᳘यणमेव᳘ कुर्या᳘न्नोद᳘यनं तादृक्तद᳘थ य᳘द्वैश्वकर्मणा᳘न्येव᳘ जुहुयान्न᳘ सावित्रा᳘णि य᳘थोद᳘यनमेव᳘ कुर्यान्न प्रा᳘यणं तादृक्त᳘दुभ᳘यानि जुहोति प्रा᳘यणं च त᳘दुद᳘यनं च करोति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्वैश्वकर्मणा᳘नि जुहो᳘ति॥
प्रा᳘यणं च हाग्ने᳘रुद᳘यनं च सावित्रा᳘णि प्रा᳘यणं व्वैश्वकर्मणा᳘न्युद᳘यनᳫँ᳭[[!!]] स य᳘त्सावित्रा᳘ण्येव᳘ जुहुयान्न᳘ व्वैश्वकर्मणा᳘नि य᳘था प्रा᳘यणमेव᳘ कुर्या᳘न्नोद᳘यनं तादृक्तद᳘थ य᳘द्वैश्वकर्मणा᳘न्येव᳘ जुहुयान्न᳘ सावित्रा᳘णि य᳘थोद᳘यनमेव᳘ कुर्यान्न प्रा᳘यणं तादृक्त᳘दुभ᳘यानि जुहोति प्रा᳘यणं च त᳘दुद᳘यनं च करोति॥

मूलम् - Weber

य᳘द्वेव᳘ वैश्वकर्मणा᳘नि जुहो᳘ति॥
प्रा᳘यणं च हाग्ने᳘रुद᳘यनं च सावित्रा᳘णि प्रा᳘यणं वैश्वकर्म᳘णान्युद᳘यनᳫं स य᳘त्सावित्रा᳘ण्येव᳘ जुहुयान्न᳘ वैश्वकर्मणा᳘नि य᳘था प्रा᳘यणमेव᳘ कुर्याॗन्नोद᳘यनं तादृक्तद᳘थ य᳘द्वैश्वकर्मणा᳘न्येव᳘ जुहुयान्न᳘ सावित्रा᳘णि य᳘थोद᳘यनमेव᳘ कुर्यान्न प्रा᳘यणं तादृक्तदुभ᳘यानि जुहोति प्रा᳘यणं च त᳘दुद᳘यनंचकरोति॥

मूलम् - विस्वरम्

यद्वेव वैश्वकर्मणानि जुहोति । प्रायणं च ह्यग्नेरुदयनं च । सावित्राणि प्रायणम्, वैश्वकर्मणान्युदयनम् । स यत्सावित्राण्येव जुहुयात्, न वैश्वकर्मणानि, यथा प्रायणमेव कुर्यान्नोदयनं- तादृक् तत् । अथ यद्वैश्वकर्मणान्येव जुहुयात्, न सावित्राणि; यथोदयनमेव कुर्यात्, नप्रायणम्- तादृक् तत् । उभयानि जुहोति- प्रायणं च तदुदयनं च करोति ॥ ४३ ॥

सायणः

अथ तान्येव वैश्वकर्मणानि प्रशंसति- यद्वेवेति । वैश्वकर्मणहोमेन ‘अग्नेः’ ‘प्रायणम्’ ‘उदयनं च’ सम्पादितं भवति । प्रायणं प्रारम्भः । उदयनं समापनम् । कथमेतदुभयमपि सम्पाद्यत इति तत्राह- सावित्राणीति । आदौ सम्पादितानि ‘सावित्राणि’ एव प्रायणं भवति । एतानि वैश्वकर्मणान्येवोदयनं भवतीति अग्नेस्तदुभयसिद्धिरित्यर्थः । सावित्रवैश्वकर्मणानां प्रायणोदयनात्मकत्वेनैव तेषां उभयेषामपि होमस्यावश्यकत्वमाह- स यत्सावित्राण्येवेति । सो ऽध्वर्युर्यदि सावित्राण्येव जुहुयान्न वैश्वकर्मणानि तदा यथा कस्यचित्कार्यस्यारम्भमेव कुर्यात्, न समापनम् ‘तादृक् तत्’ तथा करणमपि तादृक् भवति । अथ यदि वैश्वकर्मणान्येव जुहुयात् न सावित्राणि तथा करणे यथा कस्यचित्कार्यस्य समापनमेव कुर्यान्न प्रारम्भं तादृक् तत्तथाकरणमपि तादृक् । तस्मादुभयेषामपि होमं कुर्यादित्याह- उभयानीति । एवं चाग्नेः प्रारम्भणं समापनं च सम्पादितवान्भवतीति ॥ ४३ ॥

Eggeling
  1. And, again, as to why he offers the Vaiśvakarmaṇa (oblations) 36. For the fire-altar there is both a beginning and an end: the Sāvitra 37 (formulas) are the beginning, and the Vaiśvakarmaṇa (oblations) the end. Were he to offer only those to Savitr̥, and not those to Viśvakarman, it would be as if he made only a beginning and no end; and were he to offer only those to Viśvakarman, and not those to Savitr̥, it would be as if he made only an end and no beginning. He offers both of them, and thus makes both a beginning and an end.

४४

विश्वास-प्रस्तुतिः

(त्य) अष्टा᳘वसू᳘नि भ᳘वन्ति॥
(न्त्ये) एव᳘मिमा᳘नि तद्य᳘था प्रा᳘यणं त᳘थोद᳘यनं करोति स्वाहाका᳘रो ऽमी᳘षां नवमो भ᳘वत्येव᳘मेषां तद्य᳘था प्रा᳘यणं त᳘थोद᳘यनं करोत्या᳘हुतिरमी᳘षां दशमी भ᳘वत्येव᳘मेषां तद्य᳘था प्रा᳘यणं त᳘थोद᳘यनं करोति सं᳘ततां तत्रा᳘हुतिं जुहोति रे᳘तो वै त᳘त्र यज्ञो रे᳘तसो᳘ ऽविच्छेदाय स्रुवे᳘णेह᳘ स्वाहाका᳘रं नि᳘रुक्तᳫँ᳭ हि रे᳘तो जातं भ᳘वति॥

मूलम् - श्रीधरादि

(त्य) अष्टा᳘वसू᳘नि भ᳘वन्ति॥
(न्त्ये) एव᳘मिमा᳘नि तद्य᳘था प्रा᳘यणं त᳘थोद᳘यनं करोति स्वाहाका᳘रो ऽमी᳘षां नवमो भ᳘वत्येव᳘मेषां तद्य᳘था प्रा᳘यणं त᳘थोद᳘यनं करोत्या᳘हुतिरमी᳘षां दशमी भ᳘वत्येव᳘मेषां तद्य᳘था प्रा᳘यणं त᳘थोद᳘यनं करोति सं᳘ततां तत्रा᳘हुतिं जुहोति रे᳘तो वै त᳘त्र यज्ञो रे᳘तसो᳘ ऽविच्छेदाय स्रुवे᳘णेह᳘ स्वाहाका᳘रं नि᳘रुक्तᳫँ᳭ हि रे᳘तो जातं भ᳘वति॥

मूलम् - Weber

अष्टा᳘वसू᳘नि भ᳘वन्ति॥
एव᳘मिमा᳘नि तद्य᳘था प्रा᳘यणंत᳘थोद᳘यनम् करोतिस्वाहाकाॗरो ऽमी᳘षां नवमो भ᳘वत्येव᳘मेषां तद्य᳘था प्रा᳘यणं त᳘थोद᳘यनं करोत्या᳘हुतिरमी᳘षां दशमी भ᳘वत्येव᳘मेषां तद्य᳘था प्रा᳘यणं त᳘थोद᳘यनं करोति सं᳘ततां तत्रा᳘हुतिं जुहोति रे᳘तो वै त᳘त्र यज्ञो रे᳘तसो᳘ ऽविछेदाय स्रुवे᳘णेह᳘ स्वाहाका᳘रम् नि᳘रुक्तᳫं हि रे᳘तो जात भ᳘वति॥

मूलम् - विस्वरम्

अष्टावमूनि भवन्ति । एवमिमानि । तद्यथा प्रायणं तथोदयनं करोति । स्वाहाकारो ऽमीषां नवमो भवति । एवमेषाम् । तद्यथा प्रायणं तथोदयनं करोति । आहुतिरमीषां दशमी भवति । एवमेषाम् । तद्यथा प्रायणं तथोदयनं करोति । सन्ततां तत्राहुतिं जुहोति । रेतो वै तत्र यज्ञः । रेतसो ऽविच्छेदाय । स्रुवेणेह स्वाहाकारम् । निरुक्तं हि रेतो जातं भवति ॥ ४४ ॥

सायणः

अथ वैश्वकर्मणानां सावित्रवदेव संख्यासंबंधात्प्रायणवदेवोदयनमपि संपाद्यते इत्याह- अष्टावमूनीति । अमूनि इत्यदःशब्देन सर्वत्र विप्रकृष्टानि सावित्राणि परामृश्यन्ते । इमानीत्यादीदंशब्देन सर्वत्र स्वप्रकृतानि वैश्वकर्मणानि परामृश्यंते । नन्वेवं तर्हि सावित्रवदेवात्रापि किं सर्वमपि कर्तव्यमिति नेत्याह- संततां तत्राहुतिमिति । तत्र सावित्रेषु आहुतिं संततामविच्छिन्नां जुहुयात् । तत्रोपक्रमरूपत्वेन यज्ञस्य रेतस्त्वाद्रेतसो विच्छेदाभावायेति । इह वैश्वकर्मणेषु पुनः स्रुवेण स्वाहाकृत्य जुहुयात् । अनेन प्रत्याहुति विच्छेदो दर्शितः । रेतश्चोत्पत्तिसमये निरुक्तमवयवविभागविशिष्टं सत् जातं भवति । अतश्चास्य रेतोरूपस्य यज्ञस्योत्पत्तेरवसरत्वाद्विच्छेदेन जुहुयात् इति ॥ ४४ ॥

Eggeling
  1. There are eight of those (Sāvitra), and so (there are eight of) these: thus he makes the end

(the same) as the beginning. The Svāhā-call is the ninth of those 38, and so it is of these: thus he makes the end as the beginning. The oblation (āhuti) is the tenth of those 39, and so it is of these: thus he makes the end as the beginning. On that occasion he offers the oblation continuously so as not to stop the seed, the sacrifice there being seed;–on this occasion (he offers) with the dipping-spoon at the Svāhā-call, for manifest is the seed when it is born.

४५

विश्वास-प्रस्तुतिः

यदा᳘कूतात्॥
(त्स) सम᳘सुस्रोद्धृदो᳘ वा म᳘नसो वा स᳘म्भृतं च᳘क्षुषो वे᳘त्येत᳘स्माद्ध्येतत्स᳘र्व्वस्माद᳘ग्रे[[!!]] क᳘र्म सम᳘भवत्त᳘द᳘नु प्रे᳘त सुकृ᳘तामु लोकं य᳘त्र ऽऋ᳘षयो जग्मुः᳘ प्रथमजाः᳘ पुराणा ऽइ᳘त्यमू᳘नेतदृ᳘षीनाह॥

मूलम् - श्रीधरादि

यदा᳘कूतात्॥
(त्स) सम᳘सुस्रोद्धृदो᳘ वा म᳘नसो वा स᳘म्भृतं च᳘क्षुषो वे᳘त्येत᳘स्माद्ध्येतत्स᳘र्व्वस्माद᳘ग्रे[[!!]] क᳘र्म सम᳘भवत्त᳘द᳘नु प्रे᳘त सुकृ᳘तामु लोकं य᳘त्र ऽऋ᳘षयो जग्मुः᳘ प्रथमजाः᳘ पुराणा ऽइ᳘त्यमू᳘नेतदृ᳘षीनाह॥

मूलम् - Weber

यदा᳘कूतात्॥
सम᳘सुस्रोद्धृदो᳘ वा म᳘नसो वा स᳘म्भृतं च᳘क्षुषो वे᳘त्येत᳘स्माद्ध्येत᳘त्स᳘र्वस्माद᳘ग्रे क᳘र्म सम᳘भवत्तद᳘नु प्रे᳘त सुकृतामु लोकं य᳘त्र ऋ᳘षयो जग्मुः᳘ प्रथमजाः᳘ पुराणा इ᳘त्यमू᳘नेतदृ᳘षीनाह॥

मूलम् - विस्वरम्

“यदाकूतात्समसुस्रोद्धृदो वा मनसो वा सम्भृतं चक्षुषो वा”- इति । एतस्माद्ध्येतत्सर्वस्मादग्रे कर्म समभवत् । “तदनु प्रेत सुकृतामु लोकं यत्र ऋषयो जग्मुः प्रथमजाः पुराणाः”- (वा. सं. १८ । ५८) इति । अमूतनेतदृषीनाह ॥ ४५ ॥

सायणः

अथ तानष्टौ वैश्वकर्मणहोममन्त्रान् क्रमेण व्याख्यातुमनुवदति- यदाकूतादिति । ‘अग्रे’ पूर्वं एतस्मात् खल्वाकूतादेः ‘सर्वस्मात्’ ‘कर्म समभवत्’ अत उक्तम्- यदाकूतादिति । सर्वत्र ‘वा ‘शब्दः समुच्चयार्थः । समसुस्रोदिति । समभवत् । आकूतमिति निश्चयावस्थं मन उच्यते । हृदिति मनो ऽवस्थानप्रदेशः । मनो विमर्शात्मकम् । कृत्स्नमपि कर्म हृदयस्थेन विमर्शात्मना मनसा विचार्य निश्चयात्मना तेनैव निश्चित्य पश्चात् ‘चक्षुषा’ तत्साधनं दृष्ट्वा क्रियते । अतश्च तस्मात् सम्भूतं ‘समसुस्रोत्’ इत्युक्तम् । ‘प्रथमजाः पुराणाः’ ‘ऋषयः’ इति पुरस्तात् षष्ठे ऽभिहितान् ऋषीनभिधत्त इत्याह- अमूनेतदिति । हृदो हृदयप्रदेशे ऽवस्थितादाकूतान्मनसश्च चक्षुषश्च यत्कर्म संभृतं सत् समभवत् तदनुलक्ष्य तत्कर्म कृत्वा अनन्तरं हे यजमानाः ! आदरार्थं बहुवचनम् । शोभनकर्मकारिणां लोकं प्रगच्छत । यत्र यस्मिन् लोके प्रथमजाः पुराणाः ऋषयो ऽभिहितप्रकारं कर्म कृत्वा जग्मुः तं लोकं गच्छतेत्यर्थः ॥ ४५ ॥

Eggeling
  1. [He offers, with, Vāj. S. XVII, 58-65], ‘What hath flowed from out of the will, or the heart, or was gathered from the mind, or the eye, after that go ye forward,–to the world of the righteous whither the first-born seers went of old!’ he thereby means those R̥shis 40.

४६

विश्वास-प्रस्तुतिः

(है) एत᳘ᳫँ᳘ सधस्थ॥
प᳘रि ते ददामी᳘ति स्वर्गो वै᳘ लोकः᳘ सध᳘स्थस्त᳘देनᳫँ᳭ स्वर्गा᳘य लोका᳘य प᳘रिददाति य᳘माव᳘हाच्छेवधिं᳘ जात᳘वेदाः॥ अन्वागन्ता᳘ यज्ञ᳘पतिर्वो ऽअ᳘त्र त᳘ᳫँ᳘ स्म जानीत परमे᳘ व्योमन्नि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

(है) एत᳘ᳫँ᳘ सधस्थ॥
प᳘रि ते ददामी᳘ति स्वर्गो वै᳘ लोकः᳘ सध᳘स्थस्त᳘देनᳫँ᳭ स्वर्गा᳘य लोका᳘य प᳘रिददाति य᳘माव᳘हाच्छेवधिं᳘ जात᳘वेदाः॥ अन्वागन्ता᳘ यज्ञ᳘पतिर्वो ऽअ᳘त्र त᳘ᳫँ᳘ स्म जानीत परमे᳘ व्योमन्नि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

एत᳘ᳫं᳘ सधस्थ॥
प᳘रि ते ददामी᳘ति स्वर्गो वै᳘ लोकः᳘ सध᳘स्थस्त᳘देनᳫं स्वर्गा᳘य लोका᳘य प᳘रिददाति य᳘माव᳘हाछेवधिं᳘ जात᳘वेदाः अन्वागन्ता᳘ यज्ञ᳘पतिर्वो अ᳘त्र त᳘ᳫं᳘ स्म जानीत परमेॗ व्योमन्नि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

“एतं सधस्थ परि ते ददामि”- इति । स्वर्गो वै लोकः सधस्थः । तदेनं स्वर्गाय लोकाय परिददाति । “यमावहाच्छेवधिं जातवेदाः ॥ अन्वागन्ता यज्ञपतिर्वो ऽअत्र तं स्म जानीत परमे व्योमन्”- (वा. सं १८ । ५९) इति । यथैव यजुस्तथा बन्धुः ॥ ४६ ॥

सायणः

सधस्थशब्देन स्वर्ग उच्यते इत्याह- एतं सधस्थेत्यादिना । ‘एतं’ यजमानं स्वर्गाय लोकाय रक्षणार्थं दत्तवान् भवतीत्याह- तदेनं स्वर्गाय लोकाय इति । अवशिष्टो मन्त्रभागः स्पष्टार्थ इत्याह- यथैव यजुरिति ॥ ४६ ॥

Eggeling
  1. ‘Unto thee, O (heavenly) seat, I commit this treasure which the knower of beings shall bring thither 41! Here the lord of the sacrifice will go after you: acknowledge ye 42 him in the highest heaven!’–as the text, so the meaning.

४७

विश्वास-प्रस्तुतिः

(रे) एतं᳘ जानाथ॥
परमे᳘ व्योमन्दे᳘वाः सधस्था व्विद रूप᳘मस्य॥ य᳘दाग᳘च्छात्पथि᳘भिर्देवया᳘नैरिष्टापूर्ते᳘ कृणवथावि᳘रस्मा ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरु᳘द्बुध्यस्वाग्ने ये᳘न व्व᳘हसी᳘ति त᳘योरुक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(रे) एतं᳘ जानाथ॥
परमे᳘ व्योमन्दे᳘वाः सधस्था व्विद रूप᳘मस्य॥ य᳘दाग᳘च्छात्पथि᳘भिर्देवया᳘नैरिष्टापूर्ते᳘ कृणवथावि᳘रस्मा ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरु᳘द्बुध्यस्वाग्ने ये᳘न व्व᳘हसी᳘ति त᳘योरुक्तो ब᳘न्धुः॥

मूलम् - Weber

एतं᳘ जानाथ॥
परमेॗ व्योमन्दे᳘वाः सधस्था विद रूप᳘मस्य य᳘दाग᳘छात्पथि᳘भिर्देवया᳘नैरिष्टापूर्ते᳘ कृणवथावि᳘रस्मा इ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरु᳘द्बुध्यस्वाग्ने ये᳘न व᳘हसी᳘ति त᳘योरक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“एतं जानाथ परमे व्योमन्, देवाः सधस्था विद रूपमस्य । यदागच्छात्पथिभिर्देवयानैरिष्टापूर्ते कृणवाथाविरस्मै”- (वा. सं. १८ । ६०) इति । यथैव यजुस्तथा बन्धुः । “उद्बुध्यस्वाग्ने, येन वहसि”- (वा. सं. १८ । ६१ । ६२) तयोरुक्तो बन्धुः ॥ ४७ ॥

सायणः

एतं जानाथेत्ययमपि मन्त्रः स्पष्टार्थ इत्याह- एतं जानाथेति । यथैव यजुरिति । मन्त्रार्थस्तु मन्त्रव्याख्यानादेव बोद्धव्यः । अत्र पुनस्तत्र तत्र ब्राह्मणोक्तव्याख्यानाविरोधेन केषांचिन्मन्त्राणां, योजना क्रियते । न तु सर्वेषाम्, अप्रस्तुतत्वात् । “उद्बुव्यस्वाग्ने” “येन वहसि” इत्यनयोर्मन्त्रयोर्ब्राह्मणं प्रागुक्तमित्याह- उद्बुध्यस्वेति ॥ ॥ ४७ ॥

Eggeling
  1. ‘Acknowledge him, O ye gods, seated

in the highest heaven, know ye his form! When he cometh by the godward paths, reveal ye unto him the fulfilment of his wishes!’–as the text, so the meaning.–‘Awake, O Agni, and be watchful! . . .’–‘Whereby thou carriest a thousand, . . .’–the meaning of these two has been explained 43.

४८

विश्वास-प्रस्तुतिः

प्रस्तरे᳘ण परिधि᳘ना॥
स्रुचा व्वे᳘द्या च बर्हि᳘षा॥ ऋ᳘चेमं᳘ यज्ञं᳘ नो नय᳘ स्वर्देवे᳘षु[[!!]] ग᳘न्तव ऽइ᳘त्येतै᳘र्नो यज्ञ᳘स्य रूपैः᳘ स्वर्गं᳘ लोकं᳘ गमये᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

प्रस्तरे᳘ण परिधि᳘ना॥
स्रुचा व्वे᳘द्या च बर्हि᳘षा॥ ऋ᳘चेमं᳘ यज्ञं᳘ नो नय᳘ स्वर्देवे᳘षु[[!!]] ग᳘न्तव ऽइ᳘त्येतै᳘र्नो यज्ञ᳘स्य रूपैः᳘ स्वर्गं᳘ लोकं᳘ गमये᳘त्येतत्[[!!]]॥

मूलम् - Weber

प्रस्तरे᳘ण परिधि᳘ना॥
स्रुचा वे᳘द्या च बर्हि᳘षा ऋॗचेमं᳘ यज्ञं᳘ नो नय स्व᳘र्देवे᳘षु ग᳘न्तव इ᳘त्येतै᳘र्नो यज्ञस्य रूपैः᳘ स्वर्गं᳘ लोकं᳘ गमये᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा । ऋचेमं यज्ञं नो नय स्वर्देवेषु गन्तवे”- (वा. सं. १८ । ६३) इति । एतैर्नो यज्ञस्य रूपैः स्वर्गं लोकं गमयेत्येतत् ॥ ४८ ॥

सायणः

एतैर्नो यज्ञस्येति । नः अस्माकं भोगायैतैः प्रस्तरादिभिर्यज्ञस्य रूपैः सह यज्ञं स्वर्गं लोकं प्रापयेत्येतदुक्तं भवति । ‘प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा’ ‘ऋचा’ च सह ‘इमं यज्ञम्’ अस्माकं भोगार्थं देवेषु गन्तुं स्वर्गं लोकं प्रापयेत्यर्थः ॥ ४८ ॥

Eggeling
  1. ‘With grass-bunch and enclosing-stick, with spoon, altar-ground and grass-cover, with verse of praise, lead thou this our sacrifice unto heaven, to go unto the gods!’ that is, ‘with these outward forms of our sacrifice make it go to the heavenly world!’

४९

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘द्दत्तं य᳘त्परादा᳘नम्॥
य᳘त्पूर्तं या᳘श्च द᳘क्षिणाः॥ त᳘दग्नि᳘र्व्वैश्वकर्मणः᳘ स्वर्देवे᳘षु[[!!]] नो दधदि᳘ति य᳘च्चैव᳘ सम्प्रति᳘ दध्मो यच्चा᳘सम्प्रति त᳘न्नो ऽय᳘मग्नि᳘र्व्वैश्वकर्मणः᳘ स्वर्गे᳘ लोके᳘ दधात्वि᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘द्दत्तं य᳘त्परादा᳘नम्॥
य᳘त्पूर्तं या᳘श्च द᳘क्षिणाः॥ त᳘दग्नि᳘र्व्वैश्वकर्मणः᳘ स्वर्देवे᳘षु[[!!]] नो दधदि᳘ति य᳘च्चैव᳘ सम्प्रति᳘ दध्मो यच्चा᳘सम्प्रति त᳘न्नो ऽय᳘मग्नि᳘र्व्वैश्वकर्मणः᳘ स्वर्गे᳘ लोके᳘ दधात्वि᳘त्येतत्[[!!]]॥

मूलम् - Weber

य᳘द्दत्तं य᳘त्परादा᳘नम्॥
य᳘त्पूर्तं या᳘श्च द᳘क्षिणाः त᳘दग्नि᳘र्वैश्वकर्मणः᳘ स्व᳘र्देवे᳘षु नो दधदि᳘ति य᳘च्चैव᳘ सम्प्रति᳘ दद्नो यच्चा᳘सम्प्रति त᳘न्नो ऽय᳘मग्नि᳘र्वैश्वकर्मणः᳘ स्वर्गे᳘ लोके᳘ दधात्वि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“यद्दत्तं यत्परा-दानं यत्पूर्तं याश्च दक्षिणाः । तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधत्”- (वा. सं. १८ । ६४) इति । यच्चैव सम्प्रति दध्मो, यच्चासम्मति- तन्नो ऽयमग्निर्वैश्वकर्मणः स्वर्गे लोके दधात्वित्येतत् ॥ ४९ ॥

सायणः

यच्चैव संप्रतीति । ‘यत्’ कर्म ‘संप्रति’ युक्तमन्यूनातिरिक्तं ‘दध्मो’ धारयामः कुर्मः । ‘यच्च’ कर्म ‘असम्प्रति’ न्यूनातिरिक्तं, ‘नः’ अस्माकं तत्सर्वं कर्मायं वैश्वकर्मणो ऽग्निः स्वर्गे लोके दधात्वित्येतदुक्तं भवति । यद्दत्तं यदुचितं दानं कृतं यच्चानुचितं न्यूनमतिरिक्तं वा दानं कृतम् यत्पूर्तं आरामादिकं कर्म कृतं याश्च यज्ञे दक्षिणाः संपादिताः नो ऽस्माकं सम्बन्धि तत्सर्वं अयं वैश्वकर्मणो ऽग्निः स्वर्गे विद्यमानेषु देवेषु दधात्विति मन्त्रार्थः ॥ ४९ ॥

Eggeling
  1. ‘What gift, what bounty, what fulfilment, what offering-presents there are of ours,–Agni Vaiśvakarmaṇa shall deposit them in heaven with the gods!’–that is, ‘whatever we give, seasonably or unseasonably, that this fire-altar of Viśvakarman shall place in the heavenly world!’

५०

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘त्र धा᳘रा ऽअ᳘नपेताः॥
(०) म᳘धोर्घृत᳘स्य च याः᳘॥ त᳘दग्नि᳘र्व्वैश्वकर्मणः स्व᳘र्देवे᳘षु णो दधदि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘त्र धा᳘रा ऽअ᳘नपेताः॥
(०) म᳘धोर्घृत᳘स्य च याः᳘॥ त᳘दग्नि᳘र्व्वैश्वकर्मणः स्व᳘र्देवे᳘षु णो दधदि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

य᳘त्र धा᳘रा अ᳘नपेताः॥
म᳘धोर्घृत᳘स्य च याः᳘ त᳘दग्नि᳘र्वैश्वकर्मणः स्व᳘र्देवे᳘षु णो दधदि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

“यत्र धारा अनपेता मधोर्घृतस्य च याः । तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधत्”- (वा. सं. १८ । ६५) इति । यथैव यजुस्तथा बन्धुः ॥ ५० ॥

सायणः

“यत्र धारा” इत्यादिको मन्त्रः स्पष्टार्थ इत्याह- यथैव यजुरिति ॥ ५० ॥

Eggeling
  1. ‘Where the streams of honey and ghee are never-failing,–there, in heaven, Agni Vaiśvakarmaṇa shall place us with the gods!’–as the text, so the meaning 44.

५१

विश्वास-प्रस्तुतिः

(र) अष्टौ᳘ व्वैश्वकर्मणा᳘नि जुहोति॥
(त्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - श्रीधरादि

(र) अष्टौ᳘ व्वैश्वकर्मणा᳘नि जुहोति॥
(त्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - Weber

अष्टौ᳘ वैश्वकर्मणा᳘नि जुहोति॥
अष्टा᳘क्षरा गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - विस्वरम्

अष्टौ वैश्वकर्मणानि जुहोति । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्नेन प्रीणाति ॥ ५१ ॥

सायणः

अथैतेषां वैश्वकर्मणानां संख्यां प्रशंसति- अष्टौ वैश्वकर्मणानीति ॥ ५१ ॥

Eggeling
  1. Eight Vaiśvakarmaṇa (oblations) he offers,–the Gāyatrī consists of eight syllables, and Agni is of Gāyatra nature: as great as Agni is, as great

as is his measure, by so much food he thus gratifies him.

५२

विश्वास-प्रस्तुतिः

व्वैश्वकर्मणा᳘नि हुत्वा ना᳘म करोति॥
यदा वै स᳘र्व्वः कृत्स्नो᳘ जातो भ᳘वत्य᳘थ ना᳘म कुर्व्वन्त्य᳘त्र वा᳘ ऽएष स᳘र्व्वः कृत्स्नो᳘ जातो᳘ भवति॥ (शतं ५१००)

मूलम् - श्रीधरादि

व्वैश्वकर्मणा᳘नि हुत्वा ना᳘म करोति॥
यदा वै स᳘र्व्वः कृत्स्नो᳘ जातो भ᳘वत्य᳘थ ना᳘म कुर्व्वन्त्य᳘त्र वा᳘ ऽएष स᳘र्व्वः कृत्स्नो᳘ जातो᳘ भवति॥ (शतं ५१००)

मूलम् - Weber

वैश्वकर्मणा᳘नि हुत्वा ना᳘म करोति॥
यदा वै स᳘र्वः कृत्स्नो᳘ जातो भ᳘वत्य᳘थ ना᳘म कुर्वन्त्य᳘त्र वा᳘ एष स᳘र्वः कृत्स्नो᳘ जातो᳘ भवति॥

मूलम् - विस्वरम्

अथ चित्याग्नेर्नामकरणम् ।

वैश्वकर्मणानि हुत्वा नाम करोति । यदा वै सर्वः कृत्स्नो जातो भवति- अथ नाम कुर्वन्ति । अत्र वा एष सर्वः कृत्स्नो जातो भवति ॥ ५२ ॥

सायणः

वैश्वकर्मणहोमानन्तरमस्याग्नेर्नाम कुर्यादित्याह- वैश्वकर्मणानि हुत्वा नाम करोतीति । तच्च नामधेयं कात्यायनेनोक्तम्- “नाम करोति चित्रो ऽसीति”- (का. श्रौ. सू. १८ । १०८) इति । तच्चास्मिन् प्रस्तावे नामकरणस्य को ऽभिप्राय इति तत्राह- यदा वै सर्व इति । लोके यस्मिन्नवसरे साकल्येन ‘जातो भवति’ अनन्तरमेव तस्य ‘नाम कुर्वन्ति’ । अयमग्निश्चेदानीं साकल्येन ‘जातो भवति’ । सर्वस्याप्यग्निकर्मणो ऽत्र सम्पादितत्वात् । तस्मादेतस्मिन्प्रस्तावे नामकरणमुचितम् ॥ ५२ ॥

Eggeling
  1. When he has performed the Vaiśvakarmaṇa (oblations), he gives a name 45 (to the fire of the altar); for when any one has been born sound and safe, they give a name to him, and now this (Agni) has indeed been born sound and safe.

५३

विश्वास-प्रस्तुतिः

ना᳘म कृत्वा᳘ ऽथैनमु᳘पतिष्ठते॥
स᳘र्व्वेण वा᳘ ऽएष᳘ ऽएत᳘मात्म᳘ना चिनोति स य᳘देताम᳘त्रात्म᳘नः परिदां न व्व᳘देता᳘त्र है᳘वास्यैष᳘ ऽआत्मा᳘नं व्वृञ्जीता᳘थ य᳘देताम᳘त्रात्म᳘नः परिदां व्व᳘दते त᳘थो हास्यैष᳘ ऽआत्मा᳘नं न᳘ वृङ्क्ते ये᳘ ऽअग्न᳘यः पा᳘ञ्चजन्या ऽअस्यां᳘ पृथिव्याम᳘धि॥ ते᳘षामसि त्व᳘मुत्तमः प्र᳘ नो जीवा᳘तवे सुवे᳘ति ये के᳘ चाग्न᳘यः प᳘ञ्चचितिका ऽअस्यां᳘ पृथिव्याम᳘धि ते᳘षामसि त्वᳫँ᳭ स᳘त्तमः᳘[[!!]] प्रो ऽअस्माञ्जी᳘वनाय सुवे᳘त्येत᳘दनुष्टु᳘भा व्वाग्वा᳘ ऽअनुष्टुब्वा᳘गु स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि स᳘र्व्वैरे᳘वास्मा ऽएतच्छ᳘न्दोभिर्नि᳘ह्नुत ऽउपस्था᳘याग्नि᳘ᳫँ᳘ समारो᳘ह्य निर्म᳘थ्योदवसानी᳘यया यजते॥

मूलम् - श्रीधरादि

ना᳘म कृत्वा᳘ ऽथैनमु᳘पतिष्ठते॥
स᳘र्व्वेण वा᳘ ऽएष᳘ ऽएत᳘मात्म᳘ना चिनोति स य᳘देताम᳘त्रात्म᳘नः परिदां न व्व᳘देता᳘त्र है᳘वास्यैष᳘ ऽआत्मा᳘नं व्वृञ्जीता᳘थ य᳘देताम᳘त्रात्म᳘नः परिदां व्व᳘दते त᳘थो हास्यैष᳘ ऽआत्मा᳘नं न᳘ वृङ्क्ते ये᳘ ऽअग्न᳘यः पा᳘ञ्चजन्या ऽअस्यां᳘ पृथिव्याम᳘धि॥ ते᳘षामसि त्व᳘मुत्तमः प्र᳘ नो जीवा᳘तवे सुवे᳘ति ये के᳘ चाग्न᳘यः प᳘ञ्चचितिका ऽअस्यां᳘ पृथिव्याम᳘धि ते᳘षामसि त्वᳫँ᳭ स᳘त्तमः᳘[[!!]] प्रो ऽअस्माञ्जी᳘वनाय सुवे᳘त्येत᳘दनुष्टु᳘भा व्वाग्वा᳘ ऽअनुष्टुब्वा᳘गु स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि स᳘र्व्वैरे᳘वास्मा ऽएतच्छ᳘न्दोभिर्नि᳘ह्नुत ऽउपस्था᳘याग्नि᳘ᳫँ᳘ समारो᳘ह्य निर्म᳘थ्योदवसानी᳘यया यजते॥

मूलम् - Weber

ना᳘म कृत्वा᳘थैनमु᳘पतिष्ठते॥
स᳘र्वेण वा᳘ एष᳘ एत᳘मात्म᳘ना चिनोति स य᳘देताम᳘त्रात्म᳘नः परिदां न व᳘देता᳘त्र हैॗवास्यैष᳘ आत्मा᳘नं वृञ्चीता᳘थ य᳘देताम᳘त्रात्म᳘नः परिदाम् व᳘दते त᳘यो हास्यैष᳘ आत्मा᳘नं न᳘ वृङ्क्ते ये᳘ अग्न᳘यः पा᳘ञ्चजन्या अस्या᳘म् पृथिव्याम᳘धि ते᳘षामसि त्व᳘मुत्तमः प्र᳘ नो जीवा᳘तवे सुवे᳘ति ये के᳘ चाग्न᳘यः प᳘ञ्चचितिका अस्या᳘म् पृथिव्याम᳘धि ते᳘षामसि त्वᳫं स᳘त्तॗमः प्रो अस्मान्जी᳘वनाय सुवे᳘त्येत᳘दनुष्टु᳘भा वाग्वा᳘ अनुष्टुब्वा᳘गु स᳘र्वाणि छ᳘न्दांसि स᳘र्वैरेॗवास्मा एतच्छ᳘न्दोभिर्नि᳘ह्नुत उपस्था᳘याग्नि᳘ᳫं᳘ समारो᳘ह्य निर्म᳘थ्योदवसानी᳘यया यजते॥

मूलम् - विस्वरम्

अथ चित्याग्नेरुपस्थानम् ।

नाम कृत्वा ऽथैनमुपतिष्ठते । सर्वेण वा एष एतमात्मना चिनोति । स यदेतामत्रात्मनः परिदां न वदेत- अत्र हैवास्यैष आत्मानं वृञ्जीत । अथ यदेतामत्रात्मनः परिदां वदते- तथो हास्यैष आत्मानं न वृङ्क्ते । “ये अग्नयः पाञ्चजन्या अस्यां पृथिव्यामधि । तेषामसि त्वमुत्तमः प्र नो जीवातवे सुव”- (वा. सं. १८ । ६७) इति । ये के चाग्नयः पञ्चचितिका अस्यां पृथिव्यामधि- तेषामसि त्वं सत्तमः, प्रो ऽअस्माञ्जीवनाय सुवेत्येतत् । अनुष्टुभा । वाग्वा ऽअनुष्टुप् । वागु सर्वाणि च्छन्दांसि । सर्वैरेवास्मा एतच्छन्दोभिर्निह्नुते । उपस्थायाग्निं समारोह्य निर्मथ्योदवसानीयया यजते ॥ ५३ ॥

सायणः

नामकरणानन्तरमस्याग्नेरुपस्थानं विधत्ते- नाम कृत्वेति 46 । ननु-किमर्थमुपस्थानमिति तत्राह- सर्वेण वा इति । एषो ऽध्वर्युरेतमग्निं सर्वेणात्मना स्वरूपेण चिनोति । अस्याग्नेर्यावत्स्वरूपमस्ति तावता स्वरूपेणा ऽधुना चितवान्भवति । अतश्चेदानीं निग्रहानुग्रहसमर्थो भवति । तस्मादत्र यद्यात्मनः परिदां रक्षणं न वदेत तदा तस्मिन्नवसरे ह्येषो ऽग्निरस्याध्वर्योरात्मानं वृञ्जीत वर्जयेत् । तस्मिन्नेवोपस्थाने मन्त्रं प्रदर्श्य व्याचष्टे- ये ऽअग्नयः पाञ्चजन्या इति । अस्यां पृथिव्यां ये के चाग्नयः पञ्चचितिका विद्यन्ते । तेषां मध्ये त्वमुत्तमो ऽसि । अतो जीवनायास्मान् सर्वाननुजानीहि इत्येतदुक्तं भवतीत्यर्थः । अथैतस्य मन्त्रस्य छन्दः प्रशंसति- अनुष्टुभेति । अनुष्टुभो वागात्मकत्वाद्वाचश्च सर्वच्छन्दोरूपत्वात्सर्वैरेव च्छन्दोभिरस्मा अग्नये निह्नुते आत्मरक्षणप्रार्थनलक्षणमपराधमपनयतीत्यर्थः । उपस्थानानन्तरं कर्तव्यं प्रयोगमाह- उपस्थायाग्निमिति । ‘उपस्थायाग्निम्’ अरण्योः समारोह्य गृहं गत्वा तत्र पुनर्निर्मथ्य तस्मिन्निर्मथिते ऽग्नौ उदवसानीययेष्ट्या यजते इत्यर्थः ॥ ५३ ॥

Eggeling
  1. Having given a name to him, he reverently approaches him; for this (Sacrificer) builds him with his (own) whole self, and were he not to give utterance now to this surrender of his own self, he (Agni) would now take away his (the Sacrificer’s) self; but when he now gives utterance to this surrender of his own self, he (Agni) does not take away his self. [He approaches the fire] with the Anushṭubh verse (Vāj. S. XVIII, 67), ‘What fires of the five races of men there are upon this earth,–thou art the chiefest of them: quicken us unto life!’–the Anushṭubh, doubtless, is speech, and all the metres are speech 47: he thus makes amends to him (Agni) by all the metres. Having stood by the fire, and lifted 48 it, and churned it out, he offers the completing oblation 49.

५४

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ मैत्रावरुण्या᳘ पय᳘स्यया[[!!]] यजते॥
देवत्रा वा᳘ ऽएष᳘ भवति य᳘ ऽएतत्क᳘र्म करो᳘ति दै᳘वम्वेत᳘न्मिथुनं य᳘न्मित्राव᳘रुणौ स य᳘देतया᳘ ऽनिष्ट्वा मानुष्यां च᳘रेत्प्रत्यवरोहः स य᳘था दै᳘वः स᳘न्मानुषः स्या᳘त्तादृक्तद᳘थ य᳘देत᳘या मैत्रावरुण्या᳘ पय᳘स्यया[[!!]] य᳘जते दै᳘वमे᳘वैत᳘न्मिथुनमु᳘पैत्येत᳘येष्ट्वा का᳘मं यथाप्रतिरूपं᳘ चरेत्॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ मैत्रावरुण्या᳘ पय᳘स्यया[[!!]] यजते॥
देवत्रा वा᳘ ऽएष᳘ भवति य᳘ ऽएतत्क᳘र्म करो᳘ति दै᳘वम्वेत᳘न्मिथुनं य᳘न्मित्राव᳘रुणौ स य᳘देतया᳘ ऽनिष्ट्वा मानुष्यां च᳘रेत्प्रत्यवरोहः स य᳘था दै᳘वः स᳘न्मानुषः स्या᳘त्तादृक्तद᳘थ य᳘देत᳘या मैत्रावरुण्या᳘ पय᳘स्यया[[!!]] य᳘जते दै᳘वमे᳘वैत᳘न्मिथुनमु᳘पैत्येत᳘येष्ट्वा का᳘मं यथाप्रतिरूपं᳘ चरेत्॥

मूलम् - Weber

अ᳘थ मैत्रावरुण्या᳘ पयस्य᳘या यजते॥
देवत्रा वा᳘ एष᳘ भवति य᳘ एतत्क᳘र्म करो᳘ति दै᳘वम्वेत᳘न्मिथुनं य᳘न्मित्राव᳘रुणौ स य᳘देतया᳘निष्ट्वा मानुष्यां च᳘रेत्प्रत्यवरोहः स य᳘था दै᳘वः स᳘न्मानुषः स्या᳘त्तादृक्तद᳘थ य᳘देत᳘या मैत्रावरुण्या᳘ पयस्य᳘या य᳘जते दै᳘वमेॗवैत᳘न्मिथुनमु᳘पैत्येत᳘येष्ट्वा का᳘मं यथाप्रतिरूपं᳘ चरेत्॥

मूलम् - विस्वरम्

अथ मैत्रावरुणी पयस्या ।

अथ मैत्रावरुण्या पयस्यया यजते । देवत्रा वा एष भवति- य एतत्कर्म करोति । दैवम्वेतन्मिथुनम्- यन्मित्रावरुणौ । स यदेतया ऽनिष्ट्वा मानुष्यां चरेत्- प्रत्यवरोहः सः । यथा दैवः सन्मानुषः स्यात्- तादृक् तत् । अथ यदेतया मैत्रावरुण्या पयस्यया यजते- दैवमेवैतन्मिथुनमुपैति । एतयेष्ट्वा कामं यथाप्रतिरूपं चरेत् ॥ ५४ ॥

सायणः

उदवसानीयानन्तरं मैत्रावरुण्या पयस्यया यागं विधत्ते 50- अथ मैत्रावरुण्येति । तस्याः प्रयोजनमाह- देवत्रा वा एष भवतीत्यादिना । ‘यः’ यजमानः ‘एतत्’ अग्निचयनाख्यं ‘कर्म करोति’ एतेन देवेषु भवति खलु । ‘मित्रावरुणौ’ इति यत् ‘एतत् दैवम् मिथुनम्’ । अतश्च यदि यजमान एतया मैत्रावरुण्या पयस्यया ऽनिष्ट्वा मानुष्यां स्त्रियं चरेत् तर्हि स प्रत्यवरोहः स्यात् । तमेव दर्शयति- यथेति । ‘यथा’ यः कश्चित्पूर्वं देवसम्बन्धी सन् पश्चात् मानुषः स्यात् तदपि तद्वदेवेति । अथ यद्येतया मैत्रावरुणया पयस्यया यजते तदा देवसम्बन्ध्येव मिथुनमुपैति । एतद्यागानन्तरं तु यथेच्छं स्वोचितमानुषस्त्रियमनतिक्रम्य चरेत् । अग्निचयनेन यजमानस्य देवत्वे प्राप्तं उचितक्रमानुसारेण मैत्रावरुण्या पयस्यया प्रथमं दैवं मिथुनमुपेत्य पश्चात् स्वेच्छया स्वकीयां भार्यामुपेयादिति यावत् ॥ ५४ ॥

Eggeling
  1. He then offers a dish of clotted curds to Mitra and Varuṇa 51. Now he who performs this (Agni-cayana) rite comes to be with the gods; and these two, Mitra and Varuṇa, are a divine pair. Now, were he to have intercourse with a human woman without having offered this (oblation), it would be a descent, as if one who is divine would become human; but when he offers this dish of clotted curds to Mitra and Varuṇa, he thereby approaches a divine mate 52: having offered it, he may freely have intercourse in a befitting way.

५५

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘द्वे᳘वैत᳘या मैत्रावरुण्या᳘ पय᳘स्यया[[!!]] य᳘जते॥
प्रजा᳘पतेर्व्वि᳘स्रस्ताद्रे᳘तः प᳘रापतत्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेत᳘या मैत्रावरुण्या᳘ पय᳘स्यया[[!!]] रे᳘तो ऽदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘द्वे᳘वैत᳘या मैत्रावरुण्या᳘ पय᳘स्यया[[!!]] य᳘जते॥
प्रजा᳘पतेर्व्वि᳘स्रस्ताद्रे᳘तः प᳘रापतत्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेत᳘या मैत्रावरुण्या᳘ पय᳘स्यया[[!!]] रे᳘तो ऽदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - Weber

य᳘द्वेॗवैत᳘या मैत्रावरुण्या᳘ पयस्य᳘या य᳘जते॥
प्रजा᳘पतेर्वि᳘स्रस्ताद्रे᳘तः प᳘रापतत्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेत᳘या मैत्रावरुण्या᳘ पयस्य᳘या रे᳘तो ऽदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - विस्वरम्

यद्वेवैतया मैत्रावरुण्या पयस्यया यजते । प्रजापतेर्विस्रस्ताद्रेतः परापतत् । तं यत्र देवाः समस्कुर्वन् । तदस्मिन्नेतया मैत्रावरुण्या पयस्यया रेतो ऽदधुः । तथैवास्मिन्नयमेतद्दधाति ॥ ५५ ॥

सायणः

अथ तमेव पयस्यायागं प्रकारान्तरेण प्रशंसति- यद्वेवैतयेति । पूर्वं प्रजासर्जनेन विस्रस्तावयवात् ‘प्रजापतेः’ सकाशात् ‘रेतः’ पराचीनमगमत् । ‘तम्’ प्रजापतिं यस्मिन्नवसरे ‘देवाः’ संस्कृतमकुर्वन् तदा तद्रेतः ‘एतया’ मैत्रावरुण्या पयस्यया अस्मिन्निहितवन्तः । अतो ऽयमिदानींतनो ऽपि यजमानो मैत्रावरुण्या पयस्यया अस्मिन् प्रजापतौ तथैव रेतो निदधाति ॥ ५५ ॥

Eggeling
  1. And, again, as to why he offers this dish of clotted curds to Mitra and Varuṇa. When Prajāpati was released, the seed fell from him. When the gods restored him, they, by means of this dish of clotted curds, put seed into him; and in like manner does this (Sacrificer) thereby put seed into him.

५६

विश्वास-प्रस्तुतिः

स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ य᳘दस्मात्तद्रे᳘तः परा᳘पतदेषा सा᳘ पय᳘स्या मैत्रावरुणी᳘ भवति प्राणोदानौ वै᳘ मित्राव᳘रुणौ प्राणोदाना᳘ ऽउ वै रे᳘तः सिक्तं व्वि᳘कुरुतः पय᳘स्या भवति प᳘यो हि रे᳘तो यज्ञो᳘ भवति यज्ञो᳘ ह्येव᳘ यज्ञ᳘स्य रे᳘त ऽउपाᳫँ᳭शु᳘ भवत्युपाᳫँ᳭शु हि रे᳘तः सिच्य᳘ते ऽन्ततो᳘ भवत्यन्ततो हि रे᳘तो धीय᳘ते॥

मूलम् - श्रीधरादि

स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ य᳘दस्मात्तद्रे᳘तः परा᳘पतदेषा सा᳘ पय᳘स्या मैत्रावरुणी᳘ भवति प्राणोदानौ वै᳘ मित्राव᳘रुणौ प्राणोदाना᳘ ऽउ वै रे᳘तः सिक्तं व्वि᳘कुरुतः पय᳘स्या भवति प᳘यो हि रे᳘तो यज्ञो᳘ भवति यज्ञो᳘ ह्येव᳘ यज्ञ᳘स्य रे᳘त ऽउपाᳫँ᳭शु᳘ भवत्युपाᳫँ᳭शु हि रे᳘तः सिच्य᳘ते ऽन्ततो᳘ भवत्यन्ततो हि रे᳘तो धीय᳘ते॥

मूलम् - Weber

स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रंसत॥
अय᳘मेव सॗ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ य᳘दस्मात्तद्रे᳘तः परा᳘पतदेषा सा᳘ पयॗस्या मैत्रावरुणी᳘ भवति प्राणोदानौ वै᳘ मित्राव᳘रुणौ प्राणोदाना᳘ उ वै रे᳘तः सिक्तं वि᳘कुरुतः पयॗस्या भवति प᳘यो हि रे᳘तो यज्ञो᳘ भवति यज्ञोॗ ह्येव᳘ यज्ञ᳘स्य रे᳘त उपांशु᳘ भवत्युपांशु हि रे᳘तः सिच्य᳘ते ऽन्ततो᳘ भवत्यन्ततो हि रे᳘तो धीय᳘ते॥

मूलम् - विस्वरम्

स यः स प्रजापतिर्व्यस्रंसत- अयमेव सः- यो ऽयमग्निश्चीयते । अथ यदस्मात्तद्रेतः परापतत्- एषा सा पयस्या । मैत्रावरुणी भवति । प्राणोदानौ वै मित्रावरुणौ । प्राणोदाना उ वै रेतः सिक्तं विकुरुतः । पयस्या भवति । पयो हि रेतः । यज्ञो भवति । यज्ञो ह्येव यज्ञस्य रेतः । उपांशु भवति । उपांशु हि रेतः सिच्यते । अन्ततो भवति । अन्ततो हि रेतो धीयते ॥ ५६ ॥

सायणः

ननु कथमस्मिन्नग्नौ पयस्यया होमेन प्रजापतौ रेतोनिधानं घटते तत्राह- स यः स प्रजापतिरिति । स इति यस्मिन्नवसरे प्रजापतिर्व्यस्रंसत सो ऽवसरः परामृश्यते । स यः स प्रजापतिर्व्यस्रंसत सो ऽयमेव यो ऽयमग्निः इदानीं ‘चीयते’ । अथास्मात्प्रजापतेः सकाशात् यद्रेतः परापतदेषा सा पयस्या । एषा सेति स्त्रीलिङ्गं विधेय- पयस्यापेक्षम् । तस्मादस्मिन् संचिते ऽग्नौ पयस्यायागेनैव प्रजापतौ पराचीनं रेतः पुनरेवाहितं भवतीत्यर्थः । अथैतस्याः पयस्यायाः मित्रावरुणदेवतासंबन्धं प्रशंसति- मैत्रावरुणी भवतीति । मित्रावरुणौ प्राणोदानौ खलु । तयोः प्राणोदानवत्साहचर्यात् । प्राणोदानौ हि सिक्तं रेतो विकुरुतः । प्राणोदानविशिष्टायामेव स्त्रियामन्तःसिक्तस्य रेतसो ऽवयवसंनिवेशेन अवयविवृद्धेः । तस्माद्रेतोरूपायाः पयस्यायाः प्राणोदानात्मकमित्रावरुणसम्बन्धो युज्यते । इत्थं देवताविशेषसम्बन्धमुपपाद्य हविषः पयस्यात्मकत्वमुपपादयति- पयस्या भवतीति । रेतो ऽभिवृद्धिहेतुत्वेन पयसो रेतस्त्वम् । अथास्य यज्ञात्मकत्वमुपपादयति- यज्ञो भवतीति । लोके रेत उपांश्वेव सिच्यते तद्वदेवात्रापि भवेदित्याह- उपांशु भवतीति । लोके शरीरस्यान्ततो रेतो निधीयते इति तदात्मको ऽयमपि यज्ञः अन्ते भवेदित्याह- अन्ततो भवतीति ॥ ५६ ॥

Eggeling
  1. Now that Prajāpati who became released is this very fire-altar which is here being built; and the seed which fell from him is this dish of clotted curds of Mitra and Varuṇa; for Mitra and Varuṇa are the in-breathing and up-breathing, and the in-breathing and up-breathing fashion the infused seed. A dish of clotted curds it is, because seed is milk; and sacrifice it is, because sacrifice is the seed of sacrifice. In a low voice it is (offered), for silently seed is shed. At the end (of the sacrifice) it is (offered), for from the end seed is introduced.

५७

विश्वास-प्रस्तुतिः

त᳘स्यै व्वा᳘जिनेन चरन्ति॥
त᳘स्मिन्द᳘क्षिणां ददाति तूपरौ᳘ मिथुनौ᳘ दद्यादि᳘त्यभ्याज्ञाय᳘ नैव᳘मन्य ऽइ᳘ति ह स्माह मा᳘हित्थिः स्र᳘वत्यु है᳘षा ऽग्निचि᳘त ऽआ᳘हुतिः सोमाहुतिर्या᳘मनिष्टके᳘ जुहो᳘ति॥

मूलम् - श्रीधरादि

त᳘स्यै व्वा᳘जिनेन चरन्ति॥
त᳘स्मिन्द᳘क्षिणां ददाति तूपरौ᳘ मिथुनौ᳘ दद्यादि᳘त्यभ्याज्ञाय᳘ नैव᳘मन्य ऽइ᳘ति ह स्माह मा᳘हित्थिः स्र᳘वत्यु है᳘षा ऽग्निचि᳘त ऽआ᳘हुतिः सोमाहुतिर्या᳘मनिष्टके᳘ जुहो᳘ति॥

मूलम् - Weber

त᳘स्यै वा᳘जिनेन चरन्ति॥
त᳘स्मिन्द᳘क्षिणां दधाति तूपरौ᳘ मिथुनौ᳘ दद्यादि᳘त्यभ्याज्ञाये᳘नैव᳘ 53 मन्य इ᳘ति ह स्माह मा᳘हित्थिः स्र᳘वत्यु हैॗषाग्निचि᳘त आ᳘हुतिः सोमाहुतिर्या᳘मनिष्टके᳘ जुहो᳘ति॥

मूलम् - विस्वरम्

तस्यै वाजिनेन चरन्ति । तस्मिन्दक्षिणां ददाति । तूपरौ मिथुनौ दद्यात्- इत्यभ्याज्ञाय नैवमन्य इति ह स्माह माहित्थिः । स्रवत्यु हैषा ऽग्निचित आहुतिः सोमाहुतिः- यामनिष्टके जुहोति ॥ ५७ ॥

सायणः

अथैतस्मिन्यागे कालविशेषे दक्षिणादानं विधत्ते- तस्यै वाजिनेनेति । तस्या इति षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा.) तस्याः पयस्यायाः वाजिनेन चरन्त्यध्वर्यवः । तस्मिन्वाजिने दक्षिणां दद्यात् । तूपरौ मिथुनौ दद्यादित्यादेरयमर्थः । माहित्थिर्नाम महर्षिः तत्र तूपरौ शृंगरहितौ मिथुनौ गावौ दद्यादिति विधाय 54- अन्ये एवं दक्षिणां न ददति- इत्याह । अथैकवारमग्निं चितवतो यजमानस्य पश्चात्क्रियमाणे क्रतौ इष्टकावैधुर्यदोषमाह- स्रवतीत्यादिना । इष्टकारहिते ऽग्नौ यामाहुतिं जुहोत्यग्निचितः सा सोमाहुतिः स्रवति प्रच्यवते निष्फला भवतीत्यर्थः । अत एव तैत्तिरीयके- “नवा एतस्यानिष्टक आहुतिरवकल्पते यां वा एषो ऽनिष्टक आहुतिं जुहोति स्रवति वै सा, तां स्रवन्तीं यज्ञो ऽनु पराभवति यज्ञं यजमानः” (तै. सं. ५ । ४ । १० । ३) इति ॥ ५७ ॥

Eggeling
  1. They proceed with the whey 55 of that (dish of clotted curds). At this (oblation of whey) he gives a dakshiṇā (sacrificial gift): ‘Let him give a pair of hornless he-goats,’ so (they say);–‘Only by assignment, I think 56:’ said Māhitthi. And, verily, this libation of the fire-builder flows away as a libation of Soma which one offers on a (fire) without bricks.

५८

विश्वास-प्रस्तुतिः

स᳘ स्वयमातृण्णा᳘ ऽएवो᳘पदधीत॥
(ते) इमे वै᳘ लोकाः᳘ स्वयमातृण्णा᳘ ऽइम᳘ ऽउ लोका᳘ ऽए᳘षो ऽग्नि᳘श्चितः᳘॥

मूलम् - श्रीधरादि

स᳘ स्वयमातृण्णा᳘ ऽएवो᳘पदधीत॥
(ते) इमे वै᳘ लोकाः᳘ स्वयमातृण्णा᳘ ऽइम᳘ ऽउ लोका᳘ ऽए᳘षो ऽग्नि᳘श्चितः᳘॥

मूलम् - Weber

स᳘ स्वयमातृणा᳘ एवो᳘पदधीत॥
इमे वै᳘ लोकाः स्वयमातृणा᳘ इम᳘ उ लोका᳘ एॗषो ऽग्नि᳘श्चितः᳟॥

मूलम् - विस्वरम्

स स्वयमातृण्णा एवोपदधीत । इमे वै लोकाः स्वयमातृण्णाः । इम उ लोका एषो ऽग्निश्चितः ॥ ५८ ॥

सायणः

ननु तर्हि पूर्ववदेव किमग्निचयनं कृत्स्नमपि कुर्यादिति तत्राह- स स्वयमातृण्णा एवेति । ‘सः’ अध्वर्युः अनन्तरं क्रियमाणे क्रतौ स्वयमातृण्णा एवोपदधीत, न पुनरिष्टकान्तरमित्यर्थः । एतावता कथं तस्याग्नेः सिद्धिरिति तत्राह- इमे वै लोका इति । प्रथममध्यमोत्तमासु तिसृषु उपधीयमानास्तिस्रः स्वयमातृण्णाः पृथिव्यादिलोकत्रयात्मिकाः । ‘एषः’ संचितो ऽग्निरपि प्रजापतिरूपत्वाल्लोकत्रयात्मकः । एवं च स्वयमातृण्णोपधानेनैव स संचितो ऽग्निः सेत्स्यतीत्यर्थः ॥ ५८ ॥

Eggeling
  1. He need only lay down the naturally-perforated (bricks) 57; for the naturally-perforated ones are these worlds; and this built fire-altar is the same as these worlds.

५९

विश्वास-प्रस्तुतिः

(ऽ) ऋत᳘व्या ऽएवो᳘पदधीत॥
संव्वत्सरो वा᳘ ऽऋत᳘व्याः संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘श्चितः᳘॥

मूलम् - श्रीधरादि

(ऽ) ऋत᳘व्या ऽएवो᳘पदधीत॥
संव्वत्सरो वा᳘ ऽऋत᳘व्याः संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘श्चितः᳘॥

मूलम् - Weber

ऋतॗव्या एवोपदधीत॥
संवत्सरो वा᳘ ऋतॗव्याः संवत्सर᳘ एॗषो ऽग्नि᳘श्चितः᳟॥

मूलम् - विस्वरम्

ऋतव्या एवोपदधीत । संवत्सरो वा ऋतव्याः । संवत्सर एषो ऽग्निश्चितः ॥ ५९ ॥

सायणः

अथवा ऋतव्या, विश्वज्योतिषो वा पुनश्चितिमेव वोपदधीतेत्याह- ऋतव्या एवेति । अत्र सर्वत्र एवकारस्यावधारणार्थत्वादितरनिषेधसिद्धौ स्वयमातृण्णादीनां सर्वासामपि विधिनिषेधसम्भवात् षोडशीग्रहणाग्रहणवद्विकल्पसिद्धिः । अत एव कात्यायनः- “चित्याशक्तौ पुनः सोमेज्यायां स्वयमातृण्णाविश्वज्योतिर्ऋतव्यानामन्यतमाः । पुनश्चितिम्” (का. श्रौ. सू. १८ । ११९-१२०) । एता वै देवता इति । ‘एताः’ अग्निवाय्वादित्यात्मिका देवता विश्वज्योतिषः ‘एषः सञ्चितो ऽग्निः अपि’ एता अग्निवाय्वादित्या देवता इत्यर्थः ॥ ५९ ॥ ६० ॥

Eggeling
  1. He need only lay down the seasonal (bricks); for the seasonal ones are the year, and this built fire-altar is the year.

६०

विश्वास-प्रस्तुतिः

(तो) व्विश्व᳘ज्योतिष ऽएवो᳘पदधीत॥
(तै) एता वै᳘ देव᳘ता व्विश्व᳘ज्योतिष ऽएता᳘ ऽउ देव᳘ता ऽए᳘षो ऽग्नि᳘श्चितः᳘॥

मूलम् - श्रीधरादि

(तो) व्विश्व᳘ज्योतिष ऽएवो᳘पदधीत॥
(तै) एता वै᳘ देव᳘ता व्विश्व᳘ज्योतिष ऽएता᳘ ऽउ देव᳘ता ऽए᳘षो ऽग्नि᳘श्चितः᳘॥

मूलम् - Weber

विश्व᳘ज्योतिष एवो᳘पदधीत॥
एता वै᳘ देव᳘ता विश्व᳘ज्योतिष एता᳘ उ देव᳘ता एॗषो ऽग्नि᳘श्चितः᳟॥

मूलम् - विस्वरम्

विश्वज्योतिष एवोपदधीत । एता वै देवता विश्वज्योतिषः । एता उ देवता एषो ऽग्निश्चितः ॥ ६० ॥

सायणः

[व्याख्यानं नवपञ्चाशत्तमे]

Eggeling
  1. He need only lay down the all-light (bricks); for the all-light (bricks) are those deities 58, and this built fire-altar is those deities.

६१

विश्वास-प्रस्तुतिः

पुनश्चिति᳘मेवो᳘पदधीत॥
पु᳘नर्यज्ञो᳘ हैष ऽउ᳘त्तरा हैषा᳘ देवयज्या᳘ पुनर्यज्ञ᳘मे᳘वैतदु᳘पधत्त ऽउ᳘त्तरामेव᳘ देवयज्यामु᳘प हैनं पुनर्यज्ञो᳘ नमती᳘ति न त᳘था कुर्याद्यो वाव᳘ चि᳘ते ऽग्नि᳘र्निधीय᳘ते ता᳘मेवे᳘ष्टकामेष स᳘र्व्वो ऽग्नि᳘रभिस᳘म्पद्यते तद्य᳘दग्नौ᳘ जुहो᳘ति त᳘दे᳘वास्य य᳘था स᳘र्व्वस्मिञ्छाण्डि᳘ले ऽग्नौ सं᳘चिते पक्षपुच्छ᳘वत्या᳘हुतयो हुताः स्यु᳘रेव᳘मस्यैता ऽआ᳘हुतयो हुता᳘ भवन्ति॥

मूलम् - श्रीधरादि

पुनश्चिति᳘मेवो᳘पदधीत॥
पु᳘नर्यज्ञो᳘ हैष ऽउ᳘त्तरा हैषा᳘ देवयज्या᳘ पुनर्यज्ञ᳘मे᳘वैतदु᳘पधत्त ऽउ᳘त्तरामेव᳘ देवयज्यामु᳘प हैनं पुनर्यज्ञो᳘ नमती᳘ति न त᳘था कुर्याद्यो वाव᳘ चि᳘ते ऽग्नि᳘र्निधीय᳘ते ता᳘मेवे᳘ष्टकामेष स᳘र्व्वो ऽग्नि᳘रभिस᳘म्पद्यते तद्य᳘दग्नौ᳘ जुहो᳘ति त᳘दे᳘वास्य य᳘था स᳘र्व्वस्मिञ्छाण्डि᳘ले ऽग्नौ सं᳘चिते पक्षपुच्छ᳘वत्या᳘हुतयो हुताः स्यु᳘रेव᳘मस्यैता ऽआ᳘हुतयो हुता᳘ भवन्ति॥

मूलम् - Weber

पुनश्चिति᳘मेवो᳘पदधीत॥
पु᳘नर्यज्ञो᳘ हैष उ᳘त्तरा हैषा᳘ देवयज्या᳘ पुनर्यज्ञ᳘मेॗवैतदु᳘पधत्त उ᳘त्तरामेव᳘ देवयज्यामु᳘प हैनम् पुनर्यज्ञो᳘ न त᳘था कुर्याद्यो वाव᳘ चिॗते ऽग्नि᳘र्निधीय᳘ते ता᳘मेवे᳘ष्टकामेष स᳘र्वो ऽग्नि᳘रभिस᳘म्पद्यते तद्य᳘दग्नौ᳘ जुहो᳘ति त᳘देॗवास्य य᳘था स᳘र्वस्मिञ्छाण्डिॗले ऽग्नौ सं᳘चिते पक्षपुछ᳘वत्या᳘हुतयो हुताः स्यु᳘रेव᳘मस्यैता आ᳘हुतयो हुता᳘ भवन्ति॥

मूलम् - विस्वरम्

अथ गार्हपत्यस्य पुनश्चितिः ।

पुनश्चितिमेवोपदधीत । पुनर्यज्ञो हैषः, उत्तरा हैषा देवयज्या । पुनर्यज्ञमेवैतदुपधत्ते, उत्तरामेव देवयज्याम्, उप हैनं पुनर्यज्ञो नमतीति । न तथा कुर्यात् । यो वाव चिते ऽग्निर्निधीयते- तामेवेष्टकामेष सर्वो ऽग्निरभिसंपद्यते । तद्यदग्नौ जुहोति- तदेवास्य- यथा सर्वस्मिञ्छाण्डिले ऽग्नौ संचिते पक्षपुच्छवत्याहुतयो हुताः स्युः- एवमस्यैता आहुतयो हुता भवन्ति ॥ ६१ ॥

सायणः

पुनर्यज्ञो हैष इति । पुनश्चितिरिति यत् ‘एषः’ पुनर्यज्ञः । किंच एषः पुनश्चितिलक्षणो यज्ञः उत्तरा देवयज्या । अत एतेन पुनर्यज्ञं देवयज्यां चोपधत्ते- ‘एनम्’ यजमानं पुनर्यज्ञ उपनमतीति हेतोः पुनश्चितिमेवोपदधीतेत्यर्थः । उक्त्वा ऽपि पक्षानितरस्य प्रकारान्तरस्य दर्शनेन विवक्षितसिद्धिमाह- 59 तथा कुर्यादिति । अथ पूर्वोक्तप्रकारेणोपधानं न कुर्यात्; कुतः संचिते ऽग्नौ य एवाग्निर्निधीयते- तदग्निरूपामेवेष्टकामभिलक्ष्य एष सर्वो ऽपि चित्याग्निः संपद्यते । उपरिनिधीयमानायामग्निरूपायामेतदिष्टकायामिष्टकासमूहरूपः कृत्स्नो ऽप्यग्निरन्तर्भवतीत्यर्थः । तथा सत्यग्नावेव जुहोतीति यत् तेनैवास्य यजमानस्य यथा सर्वस्मिन् शाण्डिल्यमुनिसंस्कृते पक्षपुच्छवति संचिते ऽग्नौ आहुतयो हुता भवेयुः एवमेवास्य यजमानस्य आहुतयो हुता भवन्ति । अग्नावेव कृत्स्नस्य चित्याग्नेरन्तर्भावमनुसंदधानस्य यजमानस्याग्निचयने क्रियमाणे चाक्रियमाणे कृतावपि सोमाहुतीनां स्वयमातृण्णादीनां इष्टकानां प्राधान्यतः तासामप्युपधानमाद्रियते इत्यर्थः ॥ ६१ ॥

Eggeling
  1. He need only lay down the Punaściti; for this is a repeated sacrifice (punar-yajña), it is a later (higher) worship of the gods: it is thus a repeated sacrifice and the higher worship of the gods he thereby arranges, and the repeated sacrifice inclines to him 60!–so (they say), but let him not do this,

for, indeed, whenever Agni is placed on the built (altar), this whole Agni passes into that very brick 61: thus whenever he offers in the fire, then these oblations of his will be offered even as would be his oblations, when offered on a complete Śāṇḍila fire-altar built up with wings and tail.

६२

विश्वास-प्रस्तुतिः

स᳘र्व्वाणि वा᳘ ऽएष᳘ भूता᳘नि॥
स᳘र्व्वान्देवा᳘न्गर्भो᳘ भवति᳘ यो ऽग्निं᳘ बिभ᳘र्ति स यो᳘ ऽसंव्वत्सरभृतं चिनुत᳘ ऽएता᳘नि ह स स᳘र्व्वाणि भूता᳘नि ग᳘र्भं भूतं नि᳘र्हते यो᳘ न्वेव᳘ मानुषं ग᳘र्भं निर्ह᳘न्ति त᳘न्न्वेव प᳘रिचक्षते᳘ ऽथ किं य᳘ ऽएतं᳘ दैवो᳘ ह्येष ना᳘संव्वत्सरभृतस्य ऽर्त्वि᳘जा भवित᳘व्यमि᳘ति ह स्माह व्वा᳘त्स्यो ने᳘दस्य᳘ देवरेतस᳘स्य निर्हण्य᳘मानस्य मेद्य᳘सानी᳘ति॥

मूलम् - श्रीधरादि

स᳘र्व्वाणि वा᳘ ऽएष᳘ भूता᳘नि॥
स᳘र्व्वान्देवा᳘न्गर्भो᳘ भवति᳘ यो ऽग्निं᳘ बिभ᳘र्ति स यो᳘ ऽसंव्वत्सरभृतं चिनुत᳘ ऽएता᳘नि ह स स᳘र्व्वाणि भूता᳘नि ग᳘र्भं भूतं नि᳘र्हते यो᳘ न्वेव᳘ मानुषं ग᳘र्भं निर्ह᳘न्ति त᳘न्न्वेव प᳘रिचक्षते᳘ ऽथ किं य᳘ ऽएतं᳘ दैवो᳘ ह्येष ना᳘संव्वत्सरभृतस्य ऽर्त्वि᳘जा भवित᳘व्यमि᳘ति ह स्माह व्वा᳘त्स्यो ने᳘दस्य᳘ देवरेतस᳘स्य निर्हण्य᳘मानस्य मेद्य᳘सानी᳘ति॥

मूलम् - Weber

स᳘र्वाणि वा᳘ एष᳘ भूता᳘नि॥
स᳘र्वान्देवा᳘न्गर्भो᳘ भवतिॗ यो ऽग्निं᳘ भिभ᳘र्ति स यो᳘ ऽसंवत्सरभृतं चिनुत᳘ एता᳘नि ह स स᳘र्वाणि भूता᳘नि ग᳘र्भम् भूतं नि᳘र्हते योॗ न्वेव᳘ मानुषं ग᳘र्भं निर्ह᳘न्ति तॗन्न्वेव 62 प᳘रिचक्षते᳘ ऽथ किं य᳘ एतं᳘ देवोॗ ह्येष ना᳘संवत्सरभृतस्य ऽर्त्वि᳘जा भवित᳘व्यमि᳘ति ह स्माह वा᳘त्स्यो ने᳘दस्य᳘ देवरेतस᳘स्य निर्हण्य᳘मानस्य मेद्य᳘सानी᳘ति॥

मूलम् - विस्वरम्

अथ उख्यसम्भरणमीमांसा ।

सर्वाणि वा एष भूतानि सर्वान्देवान् गर्भी भवति । यो ऽग्निं बिभर्त्ति । स यो ऽसंवत्सरभृतं चिनुते- एतानि ह स सर्वाणि भूतानि गर्भं भूतं निर्हते । यो न्वेव मानुषं गर्भं निर्हन्ति- तन्न्वेव परिचक्षते- अथ किं य एतम् । दैवो ह्येषः । नासंवत्सरभृतस्य ऽर्त्विजा भवितव्यमिति ह स्माह वात्स्यः । नेदस्य देवरेतसस्य निर्हण्यमानस्य मेद्यसानीति (१) ॥ ६२ ॥

सायणः

अस्याग्नेः संवत्सरभरणमवश्यं क्रियत इति दर्शयति- सर्वाणि वा इति । यो यजमानो ऽग्निं बिभर्ति स सर्वाणि भूतानि सर्वान्देवान् गर्भी भवति गर्भीभावयति । अन्तर्भावितण्यर्थो ऽत्र भूः । अतश्च यो यजमानः स यदि असंवत्सरभृतमग्निं चिनुते स एतानि गर्भीभूतानि सर्वाणि भूतानि निर्हन्ति । लोके खलु यो जनः मानुषं एवं गर्भं निर्हन्ति तं लोकाः परिवर्जयन्त्येव । अथ यः एतं दैवं गर्भं निर्हन्ति तं परिवर्जयन्तीति किमु वक्तव्यम् । अत एवास्य निर्हण्यमानस्य देवरेतसस्य भागी न असानीति असंवत्सरभृतस्याग्नेर्ऋत्विजा न भवितव्यमिति वात्स्यो महर्षिराह स्म ॥ ६२ ॥

Eggeling
  1. And, indeed, he who carries about Agni 63 becomes pregnant with all beings, and with all the gods; and he who builds him when he has not been carried about for a year kills all beings in the form of an embryo. But, surely, he who kills a human embryo, is despised, how much more then he who kills him (Agni), for he is a god: ‘Let no one become an officiating priest for an (Agni) who has not been carried about for a year,’ said Vātsya, ’lest he should be a participator in the killing of this, a god’s seed 64!’

६३

विश्वास-प्रस्तुतिः

ष᳘ण्मास्यमन्तमं᳘ चिन्वीते᳘त्याहुः॥
ष᳘ण्मास्या वा᳘ ऽअन्तमा ग᳘र्भा जाता᳘ जीवन्ती᳘ति स यद्य᳘संव्वत्सरभृते मह᳘दुक्थᳫँ᳭ श᳘ᳫँ᳘सेदृगशीतीः᳘ शᳫँ᳭सेद᳘सर्व्वं वै तद्यद᳘संव्वत्सरभृतो᳘ ऽसर्व्वं तद्य᳘दृगशीत᳘यो व्वि᳘कृष्टं᳘[[!!]] त्वेनᳫँ᳭ स भू᳘यो व्वि᳘कर्षेद्य᳘दि चैव᳘ संव्वत्सर᳘भृतः स्याद्य᳘दि चा᳘संव्वत्सरभृतः स᳘र्व्वमेव᳘ मह᳘दुक्थ᳘ᳫँ᳘ शᳫँ᳭सेत्॥

मूलम् - श्रीधरादि

ष᳘ण्मास्यमन्तमं᳘ चिन्वीते᳘त्याहुः॥
ष᳘ण्मास्या वा᳘ ऽअन्तमा ग᳘र्भा जाता᳘ जीवन्ती᳘ति स यद्य᳘संव्वत्सरभृते मह᳘दुक्थᳫँ᳭ श᳘ᳫँ᳘सेदृगशीतीः᳘ शᳫँ᳭सेद᳘सर्व्वं वै तद्यद᳘संव्वत्सरभृतो᳘ ऽसर्व्वं तद्य᳘दृगशीत᳘यो व्वि᳘कृष्टं᳘[[!!]] त्वेनᳫँ᳭ स भू᳘यो व्वि᳘कर्षेद्य᳘दि चैव᳘ संव्वत्सर᳘भृतः स्याद्य᳘दि चा᳘संव्वत्सरभृतः स᳘र्व्वमेव᳘ मह᳘दुक्थ᳘ᳫँ᳘ शᳫँ᳭सेत्॥

मूलम् - Weber

ष᳘ण्मास्यमन्तमं᳘ चिन्वीते᳘त्याहुः॥
ष᳘ण्मास्या वा᳘ अन्तमा ग᳘र्भा जाता᳘ जीवन्ती᳘ति स यद्य᳘संवत्सरभृते मह᳘दुक्थं श᳘ᳫं᳘सेदृगशीतीः᳘ शंसेद᳘सर्वं वै तद्यद᳘संवत्सरभृतो᳘ ऽसर्वं तद्य᳘दृगशीत᳘यो वि᳘कृॗष्टं त्वेनᳫं स भू᳘यो वि᳘कर्षेद्य᳘दि चैव᳘ संवत्सर᳘भृतः स्याद्य᳘दि चा᳘संवत्सरभृतः स᳘र्वमेव᳘ मह᳘दुक्थं᳘ शंसेत्॥

मूलम् - विस्वरम्

षण्मास्यमन्तमं चिन्वीतेत्याहुः । षण्मास्या वा अन्तमा गर्भा जाता जीवन्तीति । स यद्यसंवत्सरभृते महदुक्थं शंसेद्- ऋगशीतीः शंसेत् । असर्वं वै तद्- यदसंवत्सरभृतः । असर्वं तद्- यदृगशीतयः । विकृष्टं त्वेनं स भूयो विकर्षेत् । यदि चैव संवत्सरभृतः स्यात् । यदि चासंवत्सरभृतः- सर्वमेव महदुक्थं शंसेत् (२) ॥ ६३ ॥

सायणः

तत्र पक्षान्तरमाह- षण्मास्यमिति । अन्ततः षण्मास्या भृता गर्भा जाताः सन्तो जीवन्तीति अन्ततः षण्मासान्भृतमग्निं चिन्वीतेत्याहुः केचिच्छाखिनः । यथा महाव्रते महदुक्थस्य शंसनादि अग्निचित्ये अस्मिन् असंवत्सरभरणपक्षे ऽपि तथैव शंसनप्रसक्तावाह- स यद्यसंवत्सरभृत इति । असंवत्सरभृते यदि महदुक्थं शंसेत् तदा ऋगशीतीरेव शंसेत्; कुतः ? ‘असंवत्सरभृत’ इति यत् तदप्यसर्वम् । ऋगशीतय इति यत् तदप्यसर्वमिति । एवं तर्हि असंवत्सरभरणेन विकृष्टं सेंधनमग्निमृगशीतिमात्रशंसनेन भूयो ऽपि विकर्षेदित्याह- विकृष्टं त्वेनमिति । कथं तर्हि शंसेदिति तत्राह- यदि चैवेति । ‘यदि’ अयमग्निः ‘संवत्सरभृतः स्यात्’- यदि वा ऽसंवत्सरभृतस्तदा सर्वदापि ‘सर्वमेव महदुक्थं शंसेत्’ न ऋगशीतीरेवेत्यर्थः ॥ ६३ ॥

Eggeling
  1. ‘A six-month (Agni) is the last 65 he may build,’ they say, ‘for six-month embryos are the last 65 that live when born.’ If he were to recite the Great Litany on one not carried for a year, he should recite (only) the eighties of verses, for something incomplete is (the Agni) not carried for a year, and something incomplete are the eighties of verses 66. But, indeed, he would only still further pull asunder that (Agni, already) pulled asunder 67; and, indeed, whether he (Agni) be carried for a year, or not carried for a year, he (the Hotr̥) should recite the whole of the Great Litany.

६४

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ ह शाण्डिल्यायनः᳘ प्राच्यां᳘ जगाम॥
त᳘ᳫँ᳘ ह दै᳘याम्पातिरुवाच शा᳘ण्डिल्यायन कथ᳘मग्नि᳘श्चेत᳘व्यो ग्ला᳘यामो᳘ ऽह संव्वत्सर᳘भृतायाग्नि᳘मु चिकीषामह ऽइ᳘ति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ ह शाण्डिल्यायनः᳘ प्राच्यां᳘ जगाम॥
त᳘ᳫँ᳘ ह दै᳘याम्पातिरुवाच शा᳘ण्डिल्यायन कथ᳘मग्नि᳘श्चेत᳘व्यो ग्ला᳘यामो᳘ ऽह संव्वत्सर᳘भृतायाग्नि᳘मु चिकीषामह ऽइ᳘ति॥

मूलम् - Weber

अ᳘थ ह शाण्डिल्यायनः᳘ प्राच्यां᳘ जगाम॥
त᳘ᳫं᳘ ह दै᳘याम्पातिरुवाच शा᳘ण्डिल्यायन कथ᳘मग्नि᳘श्चेत᳘व्यो ग्ला᳘यामो᳘ ऽह संवत्सर᳘भृतायाग्नि᳘मु चिकीषामह इ᳘ति॥

मूलम् - विस्वरम्

अथ ह शाण्डिल्यायनः प्राच्यां जगाम । तं ह दैयाम्पातिरुवाच- शाण्डिल्यायन कथमग्निश्चेतव्यः । ग्लायामो ह संवत्सरभृताय, अग्निमु चिकीषामह इति ॥ ६४ ॥

सायणः

अथाग्निभरणविषये अन्यानपि कांश्चित् पक्षान् 68 दर्शयितुमुपोद्धातयति- अथ हेति । ‘शाण्डिल्यायनः’ कश्चिदृषिः ‘प्राच्यां’ दिशि ‘जगाम’ । ‘तं’ शाण्डिल्यायनं ‘दैयाम्पातिर्नाम’ अन्यो महर्षिः ‘उवाच’ हे शाण्डिल्यायन ! अग्निं चेतुमिच्छामः । संवत्सरभृतायाग्नये ‘ग्लायामः’ । ‘कथमग्निचेतव्यः’ इति ॥ ६४ ॥

Eggeling
  1. Now Śāṇḍilyāyana was once upon a time sojourning in the eastern region. Daiyāmpāti said to him, ‘Śāṇḍilyāyana, how is Agni to be built? For, indeed, we are loth to carry him for a year, and yet we wish to build him.’

६५

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
का᳘मं न्वा᳘ ऽएनᳫँ᳭ स᳘ चिन्वीत ये᳘न पुरा संव्वत्सरं᳘ भृतः स्यात्त᳘ᳫँ᳘[[!!]] ह्येव तं᳘ भृतᳫँ᳭ स᳘न्तं चिनुत ऽइ᳘ति॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
का᳘मं न्वा᳘ ऽएनᳫँ᳭ स᳘ चिन्वीत ये᳘न पुरा संव्वत्सरं᳘ भृतः स्यात्त᳘ᳫँ᳘[[!!]] ह्येव तं᳘ भृतᳫँ᳭ स᳘न्तं चिनुत ऽइ᳘ति॥

मूलम् - Weber

स᳘ होवाच॥
का᳘मं न्वा᳘ 69 एनᳫं स᳘ चिन्वीत ये᳘न पुरा संवत्सर᳘म् भृतः स्याॗत्तᳫं ह्येव त᳘म् भृतᳫं स᳘न्तं चिनुत इ᳘ति॥

मूलम् - विस्वरम्

स होवाच- कामं न्वा एनं स चिन्वीत- येन पुरा संवत्सरं भृतः स्यात् । तं ह्येव तं भृतं सन्तं चिनुत इति (३) ॥ ६५ ॥

सायणः

स होवाचेत्यादिना तानेव पक्षान्दर्शयति । पूर्वं येन यजमानेनैकवारमग्निः संवत्सरभृतः स्यात् । स यजमानो यथेच्छमेवैनमग्निं चिन्वीत न तस्य संवत्सरभरणनियमः । किन्तु कानिचिद्दिनानि भृत्वा चयनम् । पूर्वं संवत्सरभरणात्तमग्निमिदानीमनियमेन भरणे ऽपि संवत्सरभृतं सन्तमेव चिनुत इति ॥ ६५ ॥

Eggeling
  1. He said, ‘Let him by all means build him by whom he has previously been carried for a year; for that, that (Agni) alone He builds as one that has been carried 70 (as a child in the womb).’

६६

विश्वास-प्रस्तुतिः

का᳘मम्वे᳘वैनᳫँ᳭ स᳘ चिन्वीत॥
यः᳘ संव्वत्सर᳘मभिषविष्यन्त्स्या᳘देष वा᳘ ऽएनं प्रत्य᳘क्षम᳘न्नेन बिभर्त्येता᳘भिरा᳘हुतिभिः[[!!]]॥

मूलम् - श्रीधरादि

का᳘मम्वे᳘वैनᳫँ᳭ स᳘ चिन्वीत॥
यः᳘ संव्वत्सर᳘मभिषविष्यन्त्स्या᳘देष वा᳘ ऽएनं प्रत्य᳘क्षम᳘न्नेन बिभर्त्येता᳘भिरा᳘हुतिभिः[[!!]]॥

मूलम् - Weber

का᳘मम्वेॗवैनᳫं स᳘ चिन्वीत॥
यः᳘ संवत्सरमभिषविष्यन्त्स्या᳘देष वा᳘ एनं प्रत्य᳘क्षम᳘न्नेन बिभ᳘र्त्येता᳘भिरा᳘हुतिभिः॥

मूलम् - विस्वरम्

कामम्वेवैनं स चिन्वीत- यः संवत्सरमभिषविष्यन्त्स्यात् । एष वा एनं प्रत्यक्षमन्नेन बिभर्ति- एताभिराहुतिभिः (४) ॥ ६६ ॥

सायणः

अथवा यः संवत्सरं सोममभिषविष्यन् स्यात् । गवामयनादौ संवत्सरं सोमस्याभिषवात् । तत्र चिचीषमाणो यजमानो यथेच्छमेवैनमग्निं चिन्वीत । एष यजमानः एताभिः पुरस्तात् क्रियमाणाभिराहुतिभिरन्नेनाहुतिलक्षणेन चैनमग्निं प्रत्यक्षं बिभर्त्तीति ॥ ६६ ॥

Eggeling
  1. And, indeed, let him by all means build who

intends to press Soma for a year, for he, manifestly, supports him by food (in the shape of) those libations.

६७

विश्वास-प्रस्तुतिः

का᳘मम्वे᳘वैनᳫँ᳭ स᳘ चिन्वीत॥
यः᳘ संव्वत्सर᳘मग्निहोत्रं᳘ जुहुया᳘द्बिभ᳘र्ति वा᳘ ऽएनमेष᳘ यो ऽग्निहोत्रं᳘ जुहो᳘ति॥

मूलम् - श्रीधरादि

का᳘मम्वे᳘वैनᳫँ᳭ स᳘ चिन्वीत॥
यः᳘ संव्वत्सर᳘मग्निहोत्रं᳘ जुहुया᳘द्बिभ᳘र्ति वा᳘ ऽएनमेष᳘ यो ऽग्निहोत्रं᳘ जुहो᳘ति॥

मूलम् - Weber

का᳘मम्वेॗवैनᳫं स᳘ चिन्वीत॥
यः᳘ संवत्सर᳘मग्निहोत्रं᳘ जुहुयाअ᳘द्बिभ᳘र्ति वा᳘ एनमेषॗ यो ऽग्निहोत्रं᳘ जुहोति॥

मूलम् - विस्वरम्

कामम्वेवैनं स चिन्वीत । यः संवत्सरमग्निहोत्रं जुहुयात् । बिभर्ति वा एनमेषः- यो ऽग्निहोत्रं जुहोति (५) ॥ ६७ ॥

सायणः

अथवा यः ‘संवत्सरमग्निहोत्रं जुहुयात्’ सो ऽपि यथेच्छमग्निं चिन्वीत तेनाग्निहोत्रहोमेन संवत्सरभरणस्य संपादनात् ॥ ६७ ॥

Eggeling
  1. And, indeed, let him by all means build who offers the Agnihotra for a year, for he who offers the Agnihotra indeed supports him (Agni, the fire).

६८

विश्वास-प्रस्तुतिः

का᳘मम्वे᳘वैनᳫँ᳭ स चिन्वीत॥
यः᳘ संव्वत्सरं᳘ जातः स्या᳘त्प्राणो वा᳘ ऽअग्निस्त᳘मेत᳘द्बिभर्त्य᳘थ ह वै रे᳘तः सिक्तं᳘ प्रा᳘णो ऽन्व᳘वरोहति त᳘द्विन्दते तद्य᳘ज्जातं᳘ जातं व्विन्द᳘ते त᳘स्माज्जात᳘वेदास्त᳘स्माद᳘प्येवंवित्का᳘मᳫँ᳭ सद्योभृ᳘तं चिन्वीत य᳘दु ह वा᳘ ऽएवंवित्पि᳘बति वा पाय᳘यति वा त᳘दे᳘वास्य य᳘था स᳘र्वस्मिञ्छाण्डि᳘ले ऽग्नौ सं᳘चिते पक्षपुच्छ᳘वत्या᳘हुतयो हुताः स्यु᳘रेव᳘मस्यैता ऽआ᳘हुतयो हुता᳘ भवन्ति॥

मूलम् - श्रीधरादि

का᳘मम्वे᳘वैनᳫँ᳭ स चिन्वीत॥
यः᳘ संव्वत्सरं᳘ जातः स्या᳘त्प्राणो वा᳘ ऽअग्निस्त᳘मेत᳘द्बिभर्त्य᳘थ ह वै रे᳘तः सिक्तं᳘ प्रा᳘णो ऽन्व᳘वरोहति त᳘द्विन्दते तद्य᳘ज्जातं᳘ जातं व्विन्द᳘ते त᳘स्माज्जात᳘वेदास्त᳘स्माद᳘प्येवंवित्का᳘मᳫँ᳭ सद्योभृ᳘तं चिन्वीत य᳘दु ह वा᳘ ऽएवंवित्पि᳘बति वा पाय᳘यति वा त᳘दे᳘वास्य य᳘था स᳘र्वस्मिञ्छाण्डि᳘ले ऽग्नौ सं᳘चिते पक्षपुच्छ᳘वत्या᳘हुतयो हुताः स्यु᳘रेव᳘मस्यैता ऽआ᳘हुतयो हुता᳘ भवन्ति॥

मूलम् - Weber

का᳘मम्वेवैन᳘ᳫं᳘ स चिन्वीत॥
यः᳘ संवत्सरं᳘ जातः स्या᳘त्प्राणो वा᳘ अग्निस्त᳘मेत᳘द्बिभर्त्य᳘थ ह वै रे᳘तः सिक्त᳘म् प्राॗणो ऽन्व᳘वरोहति त᳘द्विन्दते तद्य᳘ज्जातं᳘-जातं विन्द᳘ते त᳘स्माज्जात᳘वेदास्त᳘स्माद᳘प्येवंवित्का᳘मᳫं सद्योभृ᳘तं चिन्वीत य᳘दु ह वा᳘ एवंवित्पि᳘बति वा पाय᳘यति वा त᳘देॗवास्य य᳘था स᳘र्वस्मिञ्छाण्डिॗले ऽग्नौ सं᳘चिते पक्षपुछ᳘वत्या᳘हुतयो हुताः स्यु᳘रेव᳘मस्यैता आ᳘हुतयो हुता᳘ भवन्ति॥

मूलम् - विस्वरम्

कामम्वेवैनं स चिन्वीत- यः संवत्सरं जातः स्यात् । प्राणो वा अग्निः- तमेतद्बिभर्ति । अथ ह वै रेतः सिक्तं प्राणो ऽन्ववरोहति, तद्विन्दते । तद्यज्जातं जातं विन्दते- तस्माज्जातवेदाः । तस्मादप्येवंवित् कामं सद्योभृतं चिन्वीत । यदु ह वा ऽएवंवित्पिबति वा पाययति वा- तदेवास्य यथा सर्वस्मिञ्छाण्डिले ऽग्नौ संचिते पक्षपुच्छवत्याहुतयो हुताः स्युः- एवमस्यैता आहुतयो हुता भवन्ति (६) ॥ ६८ ॥

सायणः

अथवा यः ‘संवत्सरं जातः स्यात्’ द्वादशसु मासेषु पूर्णेषु जातः स्यात् । सो ऽपि काममेवैनमग्निं चिन्वीत । कुतः शरीरान्तर्वर्त्तमानः ‘प्राणो’ यतो ऽग्न्यात्मकः । तमेतमग्निमसौ संवत्सरं जातो बिभर्त्ति । रेतसा सह प्राणसाहित्येनैव सिच्यमानत्वात् । प्रसङ्गात् प्राणस्य जातवेदस्त्वं दर्शयति- अथेति । ‘अथ’ खलु ‘सिक्तं रेतः प्राणो ऽन्ववरोहति’ तदा ‘तद्रेतः प्राणो विन्दते’ लभते । तस्मात् ‘जातं जातं’ रेतो विन्दत इति यत् तस्मात्प्राणो जातवेदाः । उक्तार्थवेदिता ऽपि सद्योभृतमपि तं चिन्वीतेत्याह-तस्मादप्येवमिति । एतस्यैवार्थस्य वेदिता स्वयं यत्किञ्चित् ‘पिबति’ वा अन्यं ‘पाययति वा’ ‘तदेवास्य यथा सर्वस्मिन् संचिते पक्षपुच्छवति’ ‘शाण्डिले ऽग्नौ’ ‘या आहुतयो हुताः’ एवमेवास्यैता आहुतयो हुता भवन्तीत्याह- यदु ह वा एवं विदिति ॥ ६८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे पञ्चमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (९-५-१) ॥

Eggeling
  1. And, indeed, let him by all means build who was born a year (after conception); for Agni is the breath; it is thus him (Agni) he holds. And, indeed, as the breath, he enters into the infused seed, and takes possession of it; and inasmuch as he takes possession (vid) of every one that is born (jāta), he is Jātavedas. Wherefore by all means let even one who knows this build him as one ever carried (within him). And, indeed, if one who knows this either drinks (Soma), or offers drink to any one else, these libations of his will be offered even as would be his libations, when offered on a complete Śāṇḍila fire-altar built up with wings and tail.

  1. 256:1 That is, the buying of the Soma plants, for which see part ii, p. 69 seq. ↩︎

  2. Sây. divides ऐषावीर into ऐष and अवीर. - ibid सह᳘ त्वे᳘व A2. B. C. ↩︎

  3. पिपिशु पिश्व Sây. ↩︎

  4. 257:1 Both salt (V, 2, 1, 16; VII, 1, 1, 6) and saline soil (VII, 3, 1, 8) mean cattle. ↩︎

  5. 258:1 That is, the Veda, and hence the sacrificial ritual as the sole end for which the three collections of hymn-verses (r̥c), hymn-tunes (sāman), and sacrificial formulas (yajus) were made. ↩︎

  6. 258:2 The verb ’tan,’ ’to spread,’ is the regular expression for the ‘performing’ of the sacrifice,–a figure of speech taken from the spreading out of a web, in which literal sense it has to be taken here. ↩︎

  7. 258:3 See III, 1, 3, 6, where the injunction is given that no Samishṭayajus should be performed for the Dīkshaṇīyeshṭi, ’lest he who has put on the garment of initiation should reach the end of the sacrifice before its completion; for the Samishṭayajus is the end of the sacrifice.’ It should be remembered that the initiation-offering, however essential, is merely a preliminary ceremony of the Soma-sacrifice, at the end of which latter sacrifice nine Samishṭayajus oblations are offered (IV, 4, 4, 1 seq.) instead of the single one offered at the ordinary haviryajña. The term signifies ’the formula (yajus) of the completed offering (samishṭa).’ ↩︎

  8. 258:4 Prof. Delbrück, Altind. Syntax, p. 429, makes this last clause part of the Asuras’ speech or thoughts,–‘one thing they have undertaken to do, and another they are doing.’ This can hardly be right. ↩︎

  9. 259:1 See III, 2, 3, 23, where it is stated that the Prāyaṇīya of the Soma-sacrifice is to end with the Śamyos (or Śamyuvāka, for which see part i, p. 254 seq.); the Patnīsaṁyājas (and Samishṭayajus) of the ordinary ishṭi being thus omitted. ↩︎

  10. 259:2 For the Ātithya, see part ii, p. 85 seq. It is shorn of the after-offerings (in addition to the Patnīsaṁyājas and Samishṭayajus). ↩︎

  11. 259:3 For the Upasads, see part ii, p. 204 seq. ↩︎

  12. 259:4 That is, performed; but the verb (ut-sādaya, ’to set out, or in order’) is used purposely, as if laying out for display,–so as to be in keeping with the ‘spreading out’ of the sacrifice. ↩︎

  13. 260:1 The portions from the Savanīya paśu, which is slain during the morning-service, continue being cooked until the evening-service, when they are offered. See IV, 2, 5, 13; and part ii, p. 357, note. ↩︎

  14. 261:1 Literally, leapt down (from their high station). ↩︎

  15. 261:2 That is, which we left behind us when we went off. ↩︎

  16. 261:3 Cf. IV, 4, 4, 6. For whatever deities this sacrifice is performed, they all are thereby ‘sacrificed-to together’ (sam-ishṭa); and because, after all those (deities) have been ‘sacrificed-to together,’ he now offers those (libations), therefore they are called Samishṭayajus. See also I, 9, 2, 26, with note thereto. ↩︎

  17. 262:1 That is to say, the same nine Samishṭayajus-oblations which are performed at the end of the Soma-sacrifice (IV, 4, 4, 1 seq.). At the end of these, however, two additional such oblations are offered on the present occasion. ↩︎

  18. अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्यृचमपरे । का. श्रौ. सू. १८ । १०५ । ↩︎

  19. 262:2 See I, 4, 5, 4, ‘Indra is the deity of (this?) sacrifice;’ IV, 4, 2, 16, ‘Indra is the leader of the sacrifice.’ The first of the nine Samishṭayajus-oblations of the Soma-sacrifice is offered to Indra. ↩︎

  20. 262:3 See IV, 4, 5, 1 seq. ↩︎

  21. 263:1 See IV, 5, 2, 1 seq. ↩︎

  22. 263:2 For this offering to Mitra and Varuṇa, see IV, 5, 1, 5. ↩︎

  23. 263:3 The bunch of Darbha grass is placed in the centre of the newly ploughed altar-site; see VII, 2, 3, 1 seq. ↩︎

  24. 263:4 The four logeshṭakās (clods of earth), being placed at the ends of the two ‘spines,’ represent the four quarters, marking as they do the centre of the east, south, west, and north sides of the altar-site, sown with seeds of all kinds; see VII, 3, I, 13 seq. The bunch of Darbha grass, placed in the centre, would thus represent the fifth region, viz. the one above. ↩︎

  25. 263:5 Though the Prāṇabhr̥ts are said to represent, not the regions, but the (channels of the) vital airs, they are placed in rows along the diagonals of the square body of the altar, thus marking, as it were, the intermediate regions; whilst the fifth set is placed in a circle round the centre. See VIII, 1, 1, 1 seq. ↩︎

  26. 263:6 The bricks of these layers are all of them supposed to be marked by their position to relate to the regions or quarters. ↩︎

  27. 264:1 For the Asapatnās, laid down near the ends of the spines, to drive off evil in all four quarters, see VIII, 5, 1, 1; for the other two kinds of bricks, expressly identified with the regions, see VIII, 6, 1, 1 seq. ↩︎

  28. 264:2 That is, the altar was so full of regions that they escaped at the top. ↩︎

  29. 264:3 These deities are supposed to be personifications of the four phases of the moon; whilst Prof. Weber (Ind. Stud. XIII, p. 290) would also take the Orderer (dhātr̥)–by the Brāhmaṇa identified with the sun–to represent the moon. On Sinīvalī (identified with Vāc, VI, 5, 1, 9), see also A. Kuhn, Zeitschr. f. v. Sprachf. II, p. 120; Weber, Ind. Stud. V, 230. Anumati is identified with the earth, V, 2, 3, 4. ↩︎

  30. 265:1 This is an etymological quibble resorted to in order to account for the oblation to Prajāpati as one of the oblations of the goddesses (devikā). ↩︎

  31. 265:2 See p. 248, note 1. ↩︎

  32. 265:3 See ibid., note 2. ↩︎

  33. 265:4 That is, for these five oblations which are inserted between the chief oblations and the Svishṭakr̥t of the Paśupuroḍāśa; as above, IX, 4, 3, 12 seq. ↩︎

  34. हृदयशूलांते स्रुवाहुतीर्जुहोति यदाकूतादिति प्रत्यृचमष्टौ ॥ का. श्रौ. सू. १८ । १०८ । ↩︎

  35. 265:5 For this expiatory ceremony, called the Śūlāvabhr̥tha (spit-bath), and marking the conclusion of an ordinary (nirūḍḥa) animal sacrifice–not one belonging to the Soma-sacrifice–as well as of the offering of a sterile cow, see part ii, p. 215. ↩︎

  36. 266:1 Or, perhaps, formulas; the verses used along with the oblations being ascribed to Viśvakarman. In any case, however, these oblations are offered to Agni, as the Viśvakarman, or all-worker (viśvakartr̥), or (in the case of Agni = Agnicayana) as including all works (or sacrificial performances). ↩︎

  37. 266:2 See VI, 3, 1, 1 seq.; part iii, p. 290 seq. ↩︎

  38. 267:1 See VI, 3, 1, 21. ↩︎

  39. 267:2 The Sāvitra formulas accompany eight libations, which form, however, only one single continuous offering (āhuti) with one svāhā-call. ↩︎

  40. 267:3 For the seven R̥shis, identified with the vital airs, the first existing beings, see VI, 1, 1, 1 seq. ↩︎

  41. 267:4 Mahīdhara (and apparently Sāyaṇa) seems to supply ‘yajamānam’ to ’etam,’ and construe thus: ‘Unto thee, O heavenly sent, I commit this (Sacrificer), which treasure Jātavedas shall bring thither.’ ↩︎

  42. 267:5 ‘O gods, honour ye him (the Sacrificer)!’ Mahīdhara; but perhaps the R̥shis are addressed in this second line. Mahīdhara takes ‘atra’ (‘here’) along with ‘parame vyoman’–‘in this highest heaven.’ ↩︎

  43. 268:1 See VIII, 6, 3, 23, 24. ↩︎

  44. 268:2 The meaning of the verse is, however, far from certain. The above is Mahīdhara’s interpretation, except that he takes ‘yāḥ’ to mean ‘and what (other) streams there are.’ It might, however, also mean–‘What streams of honey and ghee of ours are never-failing anywhere–Agni Vaiśvakarmaṇa shall deposit them in heaven with the gods!’–in which case due reward for sacrifice would be prayed for. ↩︎

  45. 269:1 According to VI, 1, 3, 20, the newly built Agni is to be called ‘Citra,’ the Bright one. ↩︎

  46. चित्रो ऽसीति चित्यनाम कृत्वोपतिष्ठते ये ऽअग्नय इति । का. श्रौ. सू. १८ । १०९ । ↩︎

  47. 269:2 Or, are Vāc, the Veda, cf. IV, 6, 7, 1 seq. ↩︎

  48. 269:3 Or, ‘having mounted it;’–that is to say, he heats the churning-sticks (araṇi) at the altar-fire, betakes himself with them to the old (Gārhapatya) fire-place; ‘churns out’ the fire, and offers on the fire thus produced. ↩︎

  49. 269:4 The Udavasānīyā-ishṭi, consisting of a cake on five potsherds for Agni (or a libation of ghee taken in five ladlings for Vishṇu), is the same as for the Soma-sacrifice, IV, 5, I, 13. But whilst there it is followed at once by the (evening) Agnihotra, or oblation of milk regularly performed twice a day; on the present occasion an additional oblation is performed. ↩︎

  50. पयस्या मैत्रावरुणी । का. श्रौ. सू. १८ । ११० । ↩︎

  51. 270:1 The same payasyā-oblation is performed at the Dākshāyaṇa modification of the new and full-moon sacrifice (II, 4, 4, 10 seq.); sec also the Sānnāyya of the new-moon sacrifice (part i, p. 178, note 4) which is the same dish. ↩︎

  52. 270:2 Or, he enters into a divine union. ↩︎

  53. ज्ञ्याये᳘ C. ग्न्याये᳘ B2. ↩︎

  54. तूपरमिथुनदक्षिणोदवसानीयान्ते । का० श्रौ० सू० १८ । ११० । ↩︎

  55. 271:1 The whey (vājina) is offered to the (divine) Coursers, i.e. the regions or quarters; see II, 4, 4, 22-25. ↩︎

  56. 271:2 The meaning of this passage is not quite clear to me. ↩︎

  57. 271:3 The three Svayamātr̥ṇṇās in the centre of the first, third, and fifth layers represent the three worlds. These, and the subsequent injunctions, refer to one who, subsequent to the Agnicayana, wishes to perform a Soma-sacrifice, without being able to repeat the Agnicayana itself. Katy. Sr. XVIII, 6, 33. ↩︎

  58. 271:4 See VI, 3, 3, 16; 5, 3, where the three Viśvajyotis bricks are said to represent Agni, Vāyu (wind), and Āditya (sun) respectively. ↩︎

  59. अचयनं वा, चित्यस्याहवनीयाभिसंपत्तेः का० श्रौ० सू० १२१ । १२२ । ↩︎

  60. 271:5 Though there is nothing in the text to show where this quotation begins, it would seem, from Kātyāyana’s rules, that it runs from the beginning of paragraph 58,–XVIII, 6, 33. In case of inability (to perform a second) cityā, at a repeated Soma-sacrifice, (he may lay down) one or other kind of the Svayamātr̥ṇṇās, Viśvajyotishas, or R̥tavyās; 34. The Punaściti; 35. Or no building (at all a second time); 36. Because the (Agni) Citya has become the Āhavanīya. ↩︎

  61. 272:1 That is (as would seem from Sāyaṇa’s interpretation), into the Āhavanīya fire, considered as the last brick of the altar; and hence the Sacrificer’s offering-fire will for ever thereafter remain for him the Citya Agni. ↩︎

  62. त᳘न्वेव ABC. ↩︎

  63. 272:2 During the time of initiation (dīkshā), which, if at all possible, is to last for a year, the Ukhya Agni has to be carried about by the intending Sacrificer, for at least part of each day, in the fire-pan (ukhā), suspended in a sling from his neck; the pan-fire being afterwards transferred to the newly built Gārhapatya and thence to the great fire-altar, to serve as the Citya Agni, or the Āhavanīya fire. See VI, 7, I, 12 seq. ↩︎

  64. 272:3 In the original this last clause is in the first person,, or in the oraṭio ḍirecṭa, from the point of view of him who is asked to officiate as a priest, hence–Let no one become an officiating priest . . ., thinking, ‘Lest I should be a participator . . .’ ↩︎

  65. 273:1 That is to say, he must have been carried about for at least six months; and embryos less than six months old cannot live. ↩︎ ↩︎

  66. 273:2 This is so for the reason that the Mahad uktham consists of more than the eighties of verses; see IX, 3, 3, 19. One might feel inclined to include this whole sentence in the preceding quotation. ↩︎

  67. 273:3 That is, already too much attenuated, by being made as large as one a year old (?). ↩︎

  68. संवत्सरमृतिनो ऽसंवत्सरभृते ऽपि । संवत्सरं सोष्यतः । संवत्सराहिताग्नेः । जातस्य च । षण्मास्यमन्त्यम् । का० श्रौ० सू० १६ । १७८-१८२ । ↩︎

  69. का᳘मन्वा᳘ ABC. ↩︎

  70. 273:4 Sāyaṇa remarks, that this reply does not restrict the building of the fire-altar to one who has carried the fire for a full year, but only discountenances the building in the case of one who has only carried it for a few days (?). ↩︎