०१
विश्वास-प्रस्तुतिः
अ᳘थ प्रातः᳘ प्रातरनुवाक᳘मुपाकरिष्य᳘न्॥
(न्न) अग्निं᳘ युनक्ति युक्ते᳘न स᳘मश्नवा ऽइ᳘ति ते᳘न युक्ते᳘न स᳘र्व्वान्का᳘मान्त्स᳘मश्नुते तं वै᳘ पुर᳘स्तात्स᳘र्व्वस्य क᳘र्मणो युनक्ति तद्यत्किंचा᳘त ऽऊर्ध्वं᳘ क्रिय᳘ते युक्ते तत्स᳘र्व्वᳫँ᳭ समा᳘धीयते॥
मूलम् - श्रीधरादि
अ᳘थ प्रातः᳘ प्रातरनुवाक᳘मुपाकरिष्य᳘न्॥
(न्न) अग्निं᳘ युनक्ति युक्ते᳘न स᳘मश्नवा ऽइ᳘ति ते᳘न युक्ते᳘न स᳘र्व्वान्का᳘मान्त्स᳘मश्नुते तं वै᳘ पुर᳘स्तात्स᳘र्व्वस्य क᳘र्मणो युनक्ति तद्यत्किंचा᳘त ऽऊर्ध्वं᳘ क्रिय᳘ते युक्ते तत्स᳘र्व्वᳫँ᳭ समा᳘धीयते॥
मूलम् - Weber
अ᳘थ प्रातः᳘ प्रातरनुवाक᳘मुपाकरिष्य᳘न्॥
अग्निं᳘ युनक्ति युक्ते᳘न स᳘मश्नवा इ᳘ति ते᳘न युक्ते᳘न स᳘र्वान्का᳘मान्त्स᳘मश्नुते तं वै᳘ पुर᳘स्तात्स᳘र्वस्य क᳘र्मणो युनक्ति तद्यत्किं चा᳘त्र ऊर्ध्वं᳘ क्रिय᳘ते युक्ते तत्स᳘र्वᳫं समा᳘धीयते॥
मूलम् - विस्वरम्
**अथ सुत्याहकर्माणि ।**अथ प्रातः प्रातरनुवाकमुपाकरिष्यन्नग्निं युनक्ति । युक्तेन समश्नवा इति । तेन युक्तेन सर्वान्कामान्त्समश्नुते । तं वै पुरस्तात्सर्वस्य कर्मणो युनक्ति । तद् यत्किंचात ऊर्ध्वं क्रियते- युक्ते तत्सर्वं समाधीयते ॥ १ ॥
सायणः
इत्थमौपवसथ्यदिवसप्रयोगमभिधायाथ सुत्याहप्रयोगं विवक्षुः प्रथममग्नियोगं विधत्त- अथ प्रातरिति 1 । प्रातर्यावभ्यो देवेभ्यो ऽनुब्रूहीत्येवं संप्रैषः । प्रातरनुवाकस्योपाकरणं तत् करिष्यन् प्रातरनुवाकोपाकरणात् पूर्वं युक्तेनाग्निना ‘सर्वान् कामान्’ प्राप्नवानीत्यभिप्रायेण ‘अग्निं युनक्ति’ । यथा लोके नियुक्ताश्वेन रथेन जिगमिषितप्रदेशान् गच्छति, तद्वन्नियमितेनानेन सर्वान् कामानाप्नवानीति यजमानो ऽध्वर्युमुखेनाग्निं नियच्छतीत्यर्थः । येनाभिप्रायेणैनं युनक्ति सो ऽभिप्रायस्तथैव फलतीत्याह- युक्तेन सर्वान्कामानिति । तन्नियोजनस्य सर्वेस्मादपि कर्मणः पूर्वत्वं प्रशंसति- तं वै पुरस्तादिति । तद्यदिति । ‘तत्’ तस्मिन्नहनि ‘अत ऊर्ध्वं’ यत् किं च कर्म ‘क्रियते’ ‘तत्सर्वम्’ ‘युक्ते’ एवाग्नौ सम्यग् ‘आधीयते’ लोके हि नियुक्ते रथादौ निहितेन जिगमिषितप्रदेशस्य गमनात् तद्वदेव युक्ते ऽग्नौ समाहित सर्वकामप्राप्तये समर्थं भवतीति युक्त एवाग्नौ समाहितं भवतीत्यर्थः ॥ १ ॥
Eggeling
- Then, early next morning 2, when about to bespeak the morning prayer 3, he yokes the Fire-altar, thinking, ‘With it, when yoked, I shall obtain; and by it, when yoked, he obtains all wishes. He
yokes it prior to the whole performance, so that all that is done thereafter is laden on that yoked (altar-cart).
०२
विश्वास-प्रस्तुतिः
परिधि᳘षु युनक्ति॥
(क्त्य) अग्न᳘य ऽएते य᳘त्परिध᳘यो ऽग्नि᳘भिरेव त᳘दग्निं᳘ युनक्ति॥
मूलम् - श्रीधरादि
परिधि᳘षु युनक्ति॥
(क्त्य) अग्न᳘य ऽएते य᳘त्परिध᳘यो ऽग्नि᳘भिरेव त᳘दग्निं᳘ युनक्ति॥
मूलम् - Weber
परिधि᳘षु युनक्ति॥
अग्न᳘य एते य᳘त्परिध᳘यो ऽग्नि᳘भिरेव त᳘दग्निं᳘ युनक्ति॥
मूलम् - विस्वरम्
परिधिषु युनक्ति । अग्नय एते- यत्परिधयः । अग्निभिरेव तदग्निं युनक्ति ॥ २ ॥
सायणः
विहितो ऽयमग्नियोगः कुत्र कर्त्तव्य इति तत्राह- परिधिष्विति । परिधीनामग्नित्वम्, अग्निभ्रात्रात्मकत्वात् । अत्र तैत्तिरीयकम्- “अग्नेस्त्रयो ज्यायांसो भ्रातर आसन्” इत्युपक्रम्य- “अथो खल्वाहुरेते वावैनं ते भ्रातरः परिशेरे यत्पौतुद्रवाः परिधय इति” (तै. सं. ६ । २ । ८ । ६) इति ॥ २ ॥
Eggeling
- He yokes it on the enclosing-sticks, for those enclosing-sticks are fires 4: it is with fires he thus yokes the fire-altar.
०३
विश्वास-प्रस्तुतिः
स᳘ मध्यमं᳘ परिधि᳘मुपस्पृ᳘श्य॥
(श्यै) एतद्य᳘जुर्जपत्यग्निं᳘ युनज्मि श᳘वसा घृतेने᳘ति ब᳘लं वै श᳘वो ऽग्निं᳘ युनज्मि ब᳘लेन च घृते᳘न चे᳘त्येत᳘द्दिव्य᳘ᳫँ᳘ सुपर्णं व्व᳘यसा बृह᳘न्तमि᳘ति दिव्यो वा᳘ ऽएष᳘ सुपर्णो व्व᳘यसा बृह᳘न्धूमे᳘न ते᳘न व्वयं᳘ गमेम ब्रध्न᳘स्य व्विष्ट᳘प᳘ᳫँ᳘ स्वर्गं᳘ लोकᳫँ᳭ रो᳘हन्तो᳘ ऽधि ना᳘कमुत्तममि᳘त्येत᳘त्॥
मूलम् - श्रीधरादि
स᳘ मध्यमं᳘ परिधि᳘मुपस्पृ᳘श्य॥
(श्यै) एतद्य᳘जुर्जपत्यग्निं᳘ युनज्मि श᳘वसा घृतेने᳘ति ब᳘लं वै श᳘वो ऽग्निं᳘ युनज्मि ब᳘लेन च घृते᳘न चे᳘त्येत᳘द्दिव्य᳘ᳫँ᳘ सुपर्णं व्व᳘यसा बृह᳘न्तमि᳘ति दिव्यो वा᳘ ऽएष᳘ सुपर्णो व्व᳘यसा बृह᳘न्धूमे᳘न ते᳘न व्वयं᳘ गमेम ब्रध्न᳘स्य व्विष्ट᳘प᳘ᳫँ᳘ स्वर्गं᳘ लोकᳫँ᳭ रो᳘हन्तो᳘ ऽधि ना᳘कमुत्तममि᳘त्येत᳘त्॥
मूलम् - Weber
स᳘ मध्यम᳘म् परिधि᳘मुपस्पृ᳘श्य॥
एतद्य᳘जुर्जपत्यग्निं᳘ युनज्मि श᳘वसा घृतेने᳘ति ब᳘लं वै श᳘वो ऽग्निं᳘ युनज्मि ब᳘लेन च घृते᳘न चे᳘त्येत᳘द्दिव्य᳘ᳫं᳘ सुपर्णं व᳘यसा बृह᳘न्तमि᳘ति दिव्यो वा᳘ एष᳘ सुपर्णो व᳘यसो बृह᳘न्धूमे᳘न ते᳘न वयं᳘ गमेम ब्रध्न᳘स्य विष्ट᳘पᳫं स्वर्गं᳘ लोकं रो᳘हन्तो᳘ ऽधि ना᳘कमुत्तममि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
स मध्यमं परिधिमुपस्पृश्यैतद्यजुर्जपति- “अग्निं युनज्मि शवसा घृतेन”- इति । बलं वै शवः । अग्निं युनज्मि बलेन च घृतेन चेत्येतत् । “दिव्यं सुपर्णं वयसा बृहन्तम्”- इति । दिव्यो वा एष सुपर्णो वयसा बृहन्धूमेन । “तेन वयं गमेम ब्रध्नस्य विष्टपं स्वो रुहाणा अधि नाकमुत्तमम्”- (वा. सं. १८ । ५१) इति । स्वर्गो वै लोको नाकः । तेन वयं गमेम ब्रध्नस्य विष्टपं स्वर्गं लोकं रोहन्तो ऽधि नाकमुत्तममित्येतत् ॥ ३ ॥
सायणः
परिधिषु नियोजनमपि कथं कुर्यादिति तत्राह- स मध्यममिति । ‘सः’ अध्वर्युः ‘मध्यमं परिधिमुपस्पृश्य’ ‘अग्निं युनज्मि शवसा घृतेनेति’ एतद्यजुर्जपेत् । तमेतं मन्त्रं व्याचष्टे- बलं वै शव इति । ‘शवः’ इति बलमुच्यते (निघ० ९ । ३) । एवं च युनज्मीत्यनेन ‘बलेन च घृतेन च’ ‘अग्निं युनज्मि’ ‘इत्येतत्’ उक्तं भवति । दिव्यो वा एष इति । यतः ‘एषः’ अग्निर्दिवि भवो दिव्यः ‘सुपर्णः’ शोभनपतनः । वयसेत्यस्य व्याख्यानम्- धूमेनेति । ‘वयसा’ धूमेन बृहन् भवति; अत उच्यते- दिव्यं सुपर्णमिति । स्वर्गो वै लोक इति । नास्मिन्नकं दुःखमस्तीति नाकः, स्वर्गो लोकः खलु नाको भवति- तत्राल्पस्यापि दुःखस्या ऽभावात् । एवं च ‘तेन वयम्’ इत्यनेन भागेन युक्तेनाग्निना ‘वयं गमेम ब्रध्नस्य विष्टपम्’ कीदृशा वयम् ? ‘नाकमुत्तमं’ स्वर्गं लोकमधिरोहन्त इत्येतदुक्तं भवतीत्यर्थः । मन्त्रार्थस्तु- दिवि भवं शोभनपतनं वयसा धूमेन बृहन्तमग्निं बलेन च घृतेन च युनज्मि तेन युक्तेनाग्निना वयं नाकं सुखहेतुभूतमत एवोत्तमं स्वः स्वर्गं लोकम् अधिरुहाणाः सन्तस्तदर्थं ब्रध्नस्य सूर्यस्य विष्टपं गमेम गच्छेम इति प्रथमस्यार्थः । गमेमेति “लिङ्याशिष्यङ्”- (पा. सू. ३ । १ । ८६) इत्यङ् प्रत्ययः ॥ ३ ॥
Eggeling
- Having touched the middle enclosing-stick 5, he mutters this formula (Vāj. S. XVIII, 51), ‘The Fire I yoke with might, with ghee!’–might means strength: thus, ‘The fire I yoke (furnish) with strength, with ghee;’–’the heavenly bird, great in vigour,’–for that (fire-altar) is indeed a heavenly bird, and great in vigour, in smoke 6;–‘Thereby we will go to the region of the bay, rising unto the light, beyond the highest firmament!’–The firmament, doubtless, is the heavenly world: thus, ‘Thereby we will go to the region, of the bay (horse, the sun) mounting up to the heavenly world, beyond the highest firmament.’
०४
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ द᳘क्षिणे॥
(ण ऽ) इमौ᳘ ते पक्षा᳘वज᳘रौ पतत्रि᳘णौ या᳘भ्याᳫँ᳭ र᳘क्षाᳫँ᳭स्यपह᳘ᳫँ᳘स्यग्ने॥ ता᳘भ्यां पतेम सुकृ᳘तामु लोकं य᳘त्र ऽऋ᳘षयो जग्मुः[[!!]] प्रथमजाः᳘ पुराणा ऽइ᳘त्यमू᳘नेतदृ᳘षीनाह॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ द᳘क्षिणे॥
(ण ऽ) इमौ᳘ ते पक्षा᳘वज᳘रौ पतत्रि᳘णौ या᳘भ्याᳫँ᳭ र᳘क्षाᳫँ᳭स्यपह᳘ᳫँ᳘स्यग्ने॥ ता᳘भ्यां पतेम सुकृ᳘तामु लोकं य᳘त्र ऽऋ᳘षयो जग्मुः[[!!]] प्रथमजाः᳘ पुराणा ऽइ᳘त्यमू᳘नेतदृ᳘षीनाह॥
मूलम् - Weber
अ᳘थ द᳘क्षिणे॥
इमौ᳘ ते पक्षा᳘वज᳘रौ पतत्रि᳘णौ या᳘भ्यां र᳘क्षांस्यपहंस्यग्ने ता᳘भ्याम् पतेम सुकृ᳘तामु लोकं य᳘त्र ऋ᳘षयो जग्मुः᳘ प्रथमजाः᳘ पुराणा इ᳘त्यमूनेतदृ᳘षीनाह॥
मूलम् - विस्वरम्
अथ दक्षिणे । “इमौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्यग्ने । ताभ्यां पतेम सुकृतामु लोकं यत्र ऽऋषयो जग्मुः प्रथमजाः पुराणाः"- (वा. सं. १८ । ५२) इति । अमूनेतदृषीनाह ॥ ४ ॥
सायणः
परिधानक्रमेण मध्यमपरिधौ प्रथमं युक्त्वा अथ दक्षिणपरिधौ इमौ ते पक्षावित्यादिना मन्त्रेण युञ्ज्यादित्याह- अथ दक्षिण इमौ ते पक्षाविति । मन्त्रे ‘ऋषय’ इति ऋषिशब्देन षष्ठकाण्डस्यादावभिहितान् ऋषीनाहेति व्याचष्टे- अमूनेतदिति । मन्त्रार्थस्तु- हे अग्ने ! त्वं याभ्यां पक्षाभ्यां रक्षांसि अपहंसि पतत्रिणौ ते ताव अजरौ जरारहितौ पक्षौ इमौ परिदृश्यमानौ । वयं ताभ्यां पक्षाभ्यां सुकृतां पुण्यकृतां लोकं पतेम उत्पतेम । यत्र सुकृल्लोके प्रथमजाः प्रथमोत्पन्नाः पुराणाः पुरातनाः ऋषयो जग्मुरिति द्वितीयस्यार्थः ॥ ४ ॥
Eggeling
- Then on the southern (right) one, with (Vāj. S. XVIII, 52), ‘By these never-decaying, feathered wings of thine wherewith thou repellest the demons, O Agni, may we fly to the world of the righteous whither the erst-born seers went of old!’ he thereby alludes to those R̥shis 7.
०५
विश्वास-प्रस्तुतिः
(हा) अथो᳘त्तरे॥
(र) इ᳘न्दुर्द᳘क्षः श्येन᳘ ऽऋता᳘वा हि᳘रण्यपक्षः शकुनो᳘ भुरण्युरि᳘त्यमृ᳘तं वै हि᳘रण्यममृ᳘तपक्षः शकुनो᳘ भर्ते᳘त्येत᳘न्महा᳘न्त्सध᳘स्थे ध्रुव ऽआनि᳘षत्तो न᳘मस्ते ऽअस्तु मा᳘ मा हिᳫँ᳭सीरि᳘त्यात्म᳘नः परिदां᳘ व्वदते॥
मूलम् - श्रीधरादि
(हा) अथो᳘त्तरे॥
(र) इ᳘न्दुर्द᳘क्षः श्येन᳘ ऽऋता᳘वा हि᳘रण्यपक्षः शकुनो᳘ भुरण्युरि᳘त्यमृ᳘तं वै हि᳘रण्यममृ᳘तपक्षः शकुनो᳘ भर्ते᳘त्येत᳘न्महा᳘न्त्सध᳘स्थे ध्रुव ऽआनि᳘षत्तो न᳘मस्ते ऽअस्तु मा᳘ मा हिᳫँ᳭सीरि᳘त्यात्म᳘नः परिदां᳘ व्वदते॥
मूलम् - Weber
अथो᳘त्तरे॥
इ᳘न्दुर्द᳘क्षः श्येन᳘ ऋता᳘वा हि᳘रण्यपक्षः शकुनो᳘ भुरण्युरि᳘त्यमृ᳘तं वै हि᳘रण्यममृ᳘तपक्षः शकुनो᳘ भर्ते᳘त्येत᳘न्महा᳘न्त्सध᳘स्थे ध्रुव आ नि᳘षत्तो न᳘मस्ते अस्तु मा᳘ मा हिंसीरि᳘त्यात्म᳘नः परिदां᳘ वदते॥
मूलम् - विस्वरम्
अथोत्तरे । “इन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युः"- इति । अमृतं वै हिरण्यम् । अमृतपक्षः शकुनो भर्तेत्येतत् । “महान्त्सधस्थे ध्रुव आनिषत्तो नमस्ते ऽअस्तु मा मा हिंसीः”- (वा. सं. १८ । ५३) इति । आत्मनः परिदां वदते ॥ ५ ॥
सायणः
अथोत्तरपरिधौ ‘इन्दुर्दक्षः श्येनः’ इत्यनेन मन्त्रेण युञ्ज्यादित्याह- अथेति । हिरण्यपक्षः शकुनो भुरण्युरिति । अत्र हिरण्यशब्दार्थं भुरण्युशब्दार्थं चाह- अमृतं वा इति । ‘नमस्ते अस्तु मा मा हिंसीः’ इत्यनेनात्मनो रक्षां याचत इत्याह- आत्मनः परिदां वदते इति । मन्त्रार्थस्तु- हे अग्ने ! ‘इन्दुः’ ईश्वरः । “इदि परमैश्वर्ये” । ‘दक्षः’ उत्साहवान् ‘श्येनः’ श्येनवदुत्पतनशीलः ‘ऋतावा’ सत्यवान् ‘हिरण्यपक्षः’ अमृतपक्षः ‘शकुनः’ पक्ष्याकारः ‘भुरण्युः’ भर्ता ‘महान्’ प्रभावेण ‘सधस्थे’ ब्रह्मणा सह स्थाने ‘आनिषत्तः’ समन्तान्निषष्णः यस्त्वमेतादृशः तस्मै ते तुभ्यं नमो ऽस्तु त्वं मां मा हिंसीरिति तृतीयस्यार्थः ॥ ५ ॥
Eggeling
- Then on the northern (left) one, with (Vāj. S. XVIII, 53), ‘The potent drop, the faithful eagle, the golden-winged bird, the active (bhuraṇyu),’–golden means immortal: thus, ’the immortal-winged bird, the bearer (bhartr̥);’–’the mighty is seated in the firm seat: homage be to thee, injure me not!’–he thereby gives utterance to a surrender of his own self.
०६
विश्वास-प्रस्तुतिः
तद्य᳘न्मध्यमं य᳘जुः॥
स᳘ ऽआत्मा᳘ ऽथ ये᳘ ऽअभितस्तौ᳘[[!!]] पक्षौ त᳘स्मात्ते᳘ पक्ष᳘वती भवतः पक्षौ हि तौ᳘॥
मूलम् - श्रीधरादि
तद्य᳘न्मध्यमं य᳘जुः॥
स᳘ ऽआत्मा᳘ ऽथ ये᳘ ऽअभितस्तौ᳘[[!!]] पक्षौ त᳘स्मात्ते᳘ पक्ष᳘वती भवतः पक्षौ हि तौ᳘॥
मूलम् - Weber
तद्य᳘न्मध्यमं य᳘जुः॥
स᳘ आत्मा᳘थ ये᳘ अभि᳘तस्तौ᳘ पक्षौ त᳘स्मात्ते᳘पक्ष᳘वती भवतः पक्षौ हि तौ᳟॥
मूलम् - विस्वरम्
तद्यन्मध्यमं यजुः- स आत्मा । अथ ये ऽअभितः- तौ पक्षौ । तस्मात्ते पक्षवती भवतः । पक्षौ हि तौ ॥ ६ ॥
सायणः
अथैतानेव मन्त्रानग्नेरात्मपक्षात्मना प्रशंसति- तद्यन्मध्यममिति । अत्र मध्यमं यजुरिति यजुषो मध्यमत्वं मन्त्रक्रमापेक्षं न भवति, किन्तु परिधिमध्यमापेक्षम् । एवं चाग्निं युनज्मीत्ययं प्रथमो मन्त्रः । अथ ये इति । ये यजुषी अभितस्तौ पक्षौ तयोः पक्षत्वात्ते यजुषी इमौ ते पक्षौ हिरण्यपक्षाविति पक्षशब्देन युक्ते भवत इति स्पष्टम् ॥ ६ ॥
Eggeling
- Now that middle formula is the body, and the two on both sides thereof are the wings (of the bird-shaped altar): hence these two allude to ‘wings 8,’ for these two are the wings.
०७
विश्वास-प्रस्तुतिः
त्रिभि᳘र्युनक्ति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘द्युनक्ति॥
मूलम् - श्रीधरादि
त्रिभि᳘र्युनक्ति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘द्युनक्ति॥
मूलम् - Weber
त्रिभि᳘र्युनक्ति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘द्युनक्ति॥
मूलम् - विस्वरम्
त्रिभिर्युनक्ति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्युनक्ति ॥ ७ ॥
सायणः
अग्नियोजनमन्त्राणां त्रित्वं प्रशंसति- त्रिभिर्युनक्तीति ॥ ७ ॥
Eggeling
- With three (formulas) he yokes it,–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus yokes him.
०८
विश्वास-प्रस्तुतिः
(क्त्य᳘) अ᳘थ रा᳘जानमभिषु᳘त्याग्नौ᳘ जुहोति॥
(त्ये) एष वै स᳘ सव᳘ ऽएतद्वै त᳘त्सूयते य᳘मस्मै त᳘मेता᳘ देव᳘ताः सव᳘मनुम᳘न्यन्ते या᳘भिर᳘नुमतः सूय᳘ते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्य᳘दग्नौ᳘ जुहो᳘ति त᳘दग्नि᳘मभि᳘षिञ्चति᳘ सो ऽस्यैष दै᳘व ऽआत्मा सो᳘माभिषिक्तो भवत्यमृ᳘ताभिषिक्तो᳘ ऽथ भक्षयति त᳘दात्मा᳘नमभि᳘षिञ्चति᳘ सो ऽस्याय᳘मात्मा सो᳘माभिषिक्तो भवत्यमृ᳘ताभिषिक्तः॥
मूलम् - श्रीधरादि
(क्त्य᳘) अ᳘थ रा᳘जानमभिषु᳘त्याग्नौ᳘ जुहोति॥
(त्ये) एष वै स᳘ सव᳘ ऽएतद्वै त᳘त्सूयते य᳘मस्मै त᳘मेता᳘ देव᳘ताः सव᳘मनुम᳘न्यन्ते या᳘भिर᳘नुमतः सूय᳘ते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्य᳘दग्नौ᳘ जुहो᳘ति त᳘दग्नि᳘मभि᳘षिञ्चति᳘ सो ऽस्यैष दै᳘व ऽआत्मा सो᳘माभिषिक्तो भवत्यमृ᳘ताभिषिक्तो᳘ ऽथ भक्षयति त᳘दात्मा᳘नमभि᳘षिञ्चति᳘ सो ऽस्याय᳘मात्मा सो᳘माभिषिक्तो भवत्यमृ᳘ताभिषिक्तः॥
मूलम् - Weber
अ᳘थ रा᳘जानमभिषु᳘त्याग्नौ᳘ जुहोति॥
एष वै स᳘ सव᳘ एतद्वै त᳘त्सूयते य᳘मस्मै त᳘मेता᳘ देव᳘ताः सव᳘मनुम᳘न्यन्ते या᳘भिर᳘नुमतः सूय᳘ते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स राजा भवति न स य᳘स्मै न तद्य᳘दग्नौ᳘ जुहो᳘ति त᳘दग्नि᳘मभि᳘षिञ्चतिॗ सो ऽस्यैष दै᳘व आत्मा सो᳘माभिषिक्तो भवत्यमृ᳘ताभिषिक्तो᳘ ऽथ भक्षयति त᳘दात्मा᳘नमभि᳘षिञ्चतिॗ सो ऽस्याय᳘मात्मा सो᳘माभिषिक्तो भवत्यमृ᳘ताभिषिक्तः॥
मूलम् - विस्वरम्
अथ राजानमभिषुत्याग्नौ जुहोति । एष वै स सवः । एतद्वै तत्सूयते- यमस्मै तमेता देवताः सवमनुमन्यन्ते, याभिरनुमतः सूयते । यस्मै वै राजानो राज्यमनुमन्यन्ते- स राजा भवति । न सः- यस्मै न । तद् यदग्नौ जुहोति- तदग्निमभिषिञ्चति । सो ऽस्यैष दैव आत्मा सोमाभिषिक्तो भवति, अमृताभिषिक्तः । अथ भक्षयति । तदात्मानमभिषिञ्चति । सो ऽस्यायमात्मा सोमाभिषिक्तो भवति, अमृताभिषिक्तः ॥ ८ ॥
सायणः
अथ प्राकृतौ सोमाभिषवहोमौ कुर्यादित्याह- अथ राजानमिति । ‘एष वै स सव एतद्वा’ इत्यादिकम् ‘अथ रथशीर्षे जुहोति’ इत्यत्र व्याख्यातम् । ननु कथमग्नौ होमात् स्वस्याभिषेकसिद्धिरिति तत्राह- तद्यदग्नाविति । ‘तत्’ तत्राग्नौ जुहोतीति यत् तेनाग्निमभिषिञ्चति । ‘सः’ ‘एषः’ अग्निः ‘अस्य’ यजमानस्य ‘दैवः आत्मा’ एवं च यजमान एवाभिषिक्तो भवतीत्यर्थः । सोमस्यामृतत्वात् सोमाभिषेकेणामृताभिषिक्त एव भवतीत्याह- सोमाभिषिक्तो भवतीति ॥ ८ ॥
Eggeling
- And when he has pressed the king (Soma) he offers in the fire 9. This, indeed, is that very rite of consecration (or pressing)–and by that he is now consecrated (or pressed)–which this (Sacrificer) is permitted to perform by those deities with whose permission he is consecrated 10; for he alone becomes king whom the (other) kings allow (to assume) the royal dignity, and not he whom (they do) not (allow to assume it). Now when he offers in the fire he thereby consecrates (anoints) Agni, and that divine body of his, being consecrated by Soma, becomes consecrated by the nectar of immortality. And he himself drinks (thereof): he thereby consecrates
himself, and this self (body) of his, being consecrated by Soma, becomes consecrated by the nectar of immortality.
०९
विश्वास-प्रस्तुतिः
(क्तो ऽग्नौ᳘) अग्नौ᳘ हुत्वा᳘ ऽथ भक्षयति॥
दै᳘वो वा᳘ ऽअस्यैष᳘ ऽआत्मा᳘ मानु᳘षो ऽयं᳘ देवा᳘ ऽउ वा ऽअग्रे᳘ ऽथ मनु᳘ष्यास्त᳘स्मादग्नौ᳘ हुत्वा᳘ ऽथ भक्षयति᳘॥
मूलम् - श्रीधरादि
(क्तो ऽग्नौ᳘) अग्नौ᳘ हुत्वा᳘ ऽथ भक्षयति॥
दै᳘वो वा᳘ ऽअस्यैष᳘ ऽआत्मा᳘ मानु᳘षो ऽयं᳘ देवा᳘ ऽउ वा ऽअग्रे᳘ ऽथ मनु᳘ष्यास्त᳘स्मादग्नौ᳘ हुत्वा᳘ ऽथ भक्षयति᳘॥
मूलम् - Weber
अग्नौ᳘ हुत्वा᳘थ भक्षयति॥
दै᳘वो वा᳘ अस्यैष᳘ आत्मा᳘ मानुॗषो ऽयं᳘ देवा᳘ उ वा अग्रे᳘ ऽथ मनुष्यास्त᳘स्मादग्नौ᳘ हुत्वा᳘थ भक्षयति॥
मूलम् - विस्वरम्
अग्नौ हुत्वा- अथ भक्षयति । दैवो वा अस्यैष आत्मा, मानुषो ऽयम् । देवा उ वा ऽअग्रे, अथ मनुष्याः । तस्मादग्नौ हुत्वा- अथ भक्षयति ॥ ९ ॥
सायणः
होमानन्तरं हुतशेषं भक्षयेदित्याह- अग्नौ हुत्वेति । तयोरेव होमभक्षणयोः पौर्वापर्यमुपपादयति- दैवो वा इति ॥ ९ ॥
Eggeling
- Having offered in the fire (or, on the fire-altar), he drinks (Soma), for that (fire-altar) is his (the Sacrificer’s) divine body 11, and this (Sacrificer’s real body) is his human one; and the gods indeed were first, and afterwards men: therefore, having offered (Soma) in the fire, he drinks (thereof).
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनं व्वि᳘मुञ्चति॥
(त्या) आप्त्वा तं का᳘मं य᳘स्मै का᳘मायैनं युङ्क्ते᳘ यज्ञायज्ञि᳘यᳫँ᳭ स्तोत्र᳘मुपाकरिष्य᳘न्त्स्वर्गो वै᳘ लोको᳘ यज्ञायज्ञि᳘यमेत᳘स्य वै ग᳘त्या ऽएनं युङ्क्ते त᳘दाप्त्वा तं का᳘मं य᳘स्मै का᳘मायैनं युङ्क्ते[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनं व्वि᳘मुञ्चति॥
(त्या) आप्त्वा तं का᳘मं य᳘स्मै का᳘मायैनं युङ्क्ते᳘ यज्ञायज्ञि᳘यᳫँ᳭ स्तोत्र᳘मुपाकरिष्य᳘न्त्स्वर्गो वै᳘ लोको᳘ यज्ञायज्ञि᳘यमेत᳘स्य वै ग᳘त्या ऽएनं युङ्क्ते त᳘दाप्त्वा तं का᳘मं य᳘स्मै का᳘मायैनं युङ्क्ते[[!!]]॥
मूलम् - Weber
अ᳘थैनं वि᳘मुञ्चति॥
आप्त्वा तं का᳘मं य᳘स्मै का᳘मायैनं युङ्क्ते᳘ यज्ञायज्ञि᳘यᳫं स्तोत्र᳘मुपाकरिष्य᳘न्त्स्वर्गो वै᳘ लोको यज्ञायज्ञि᳘यमेत᳘स्य वै ग᳘त्या एनं युङ्क्ते त᳘दाप्त्वा तं का᳘मं य᳘स्मै का᳘मायैनं युङ्क्ते᳟॥
मूलम् - विस्वरम्
अथैनं विमुञ्चति- आप्त्वा तं कामम्- यस्मै कामायैनं युङ्क्ते । यज्ञायज्ञियं स्तोत्रमुपाकरिष्यन् । स्वर्गो वै लोको यज्ञायज्ञियम् । एतस्य वै गत्या एनं युङ्क्ते । तदाप्त्वा तं कामं- यस्मै कामायैनं । युङ्क्ते ॥ १० ॥
सायणः
अथैतस्याग्नेर्विमोचनं विधत्ते- अथैनमिति । ‘यस्मै कामाय एनं युङ्क्ते तं कामम् आप्त्वा’ एनं विमुञ्चेत् । एतस्य विमोचनस्य कालविशेषप्रदर्शनद्वारा तमेव क्रमं दर्शयति- यज्ञायज्ञियमिति । ‘यज्ञायज्ञियं स्तोत्रमुपाकरिष्यन्’ एनमग्निं विमुञ्चेत् । कुतः ? यज्ञायज्ञियस्तोत्रं स्वर्गो लोकः खलु स्वर्गलोकस्य गत्यै एवैनमग्निं युङ्क्ते । अतश्च यज्ञायज्ञियलक्षणस्य स्वर्गस्य प्राप्तेर्यस्मै स्वर्गलोकप्राप्तिलक्षणाय कामाय एनं युङ्क्ते तस्य कामस्याप्तत्वादस्मिन्नवसरे विमुञ्चेदित्यर्थः ॥ १० ॥
Eggeling
- Having now obtained the wish for (the accomplishment of) which he yokes it (the altar), he unyokes it when about to bespeak the Yajñāyajñiya stotra 12,–for the Yajñāyajñiya is the heavenly world, and it is for the attainment of that (world) that he yokes it: thus (he unyokes it) after obtaining the wish for which he yoked it.
११
विश्वास-प्रस्तुतिः
तं वै᳘ पुर᳘स्तात्स्तोत्र᳘स्य व्वि᳘मुञ्चति॥
स य᳘दुप᳘रिष्टात्स्तोत्र᳘स्य व्विमुञ्चेत्प᳘राङ् हैत᳘ᳫँ᳘ स्वर्गं᳘ लोक᳘मतिप्र᳘णश्येद᳘थ य᳘त्पुर᳘स्तात्स्तोत्र᳘स्य व्विमुञ्चति[[!!]] त᳘त्सम्प्रति᳘ स्वर्गं᳘ लोक᳘माप्त्वा व्वि᳘मुञ्चति॥
मूलम् - श्रीधरादि
तं वै᳘ पुर᳘स्तात्स्तोत्र᳘स्य व्वि᳘मुञ्चति॥
स य᳘दुप᳘रिष्टात्स्तोत्र᳘स्य व्विमुञ्चेत्प᳘राङ् हैत᳘ᳫँ᳘ स्वर्गं᳘ लोक᳘मतिप्र᳘णश्येद᳘थ य᳘त्पुर᳘स्तात्स्तोत्र᳘स्य व्विमुञ्चति[[!!]] त᳘त्सम्प्रति᳘ स्वर्गं᳘ लोक᳘माप्त्वा व्वि᳘मुञ्चति॥
मूलम् - Weber
तं वै᳘ पुर᳘स्तात्स्तोत्र᳘स्य वि᳘मुञ्चति॥
स य᳘दुप᳘रिष्टात्स्तोत्र᳘स्य विमुञ्चेत्प᳘राङ् हैत᳘ᳫं᳘ स्वर्गं᳘ लोक᳘मतिप्र᳘णश्येद᳘थ य᳘त्पुर᳘स्तात्स्तोत्र᳘स्य विमुञ्च᳘ति त᳘त्सम्प्रति᳘ स्वर्गं᳘ लोक᳘माप्त्वा वि᳘मुञ्चति॥
मूलम् - विस्वरम्
तं वै पुरस्तात्स्तोत्रस्य विमुञ्चति । स यदुपरिष्टात्स्तोत्रस्य विमुञ्चेत्- पराङ्हैतं स्वर्गं लोकमतिप्रणश्येत् । अथ यत्पुरस्तात्स्तोत्रस्य विमुञ्चति- तत्सम्प्रति स्वर्गं लोकमाप्त्वा विमुञ्चति ॥ ११ ॥
सायणः
विपक्षे बाधकप्रदर्शनेन यज्ञायज्ञियस्तोत्रात् पूर्वमेव विमुञ्चेदित्याह- तं वै पुरस्तादिति 13 । यदि स्तोत्रादुपरि विमुञ्चेत् तदा एनं यज्ञायज्ञियलक्षणं स्वर्गं लोकमतिक्रम्य पराङेव भूत्वा प्रणश्येत् । अथ यदि स्तोत्रात्पूर्वं विमुञ्चेत्- तदा संप्रति अनतिक्रमेण युक्तमेव स्वर्गं लोकम् आप्त्वा विमुक्तवान् भवति ॥ ११ ॥
Eggeling
- It is prior to the Stotra that he unyokes it:–were he to unyoke after the Stotra, he would pass beyond that world 14 and lose it; but when he unyokes prior to the Stotra, he unyokes forthwith after reaching the world of heaven.
१२
विश्वास-प्रस्तुतिः
परिधि᳘षु व्वि᳘मुञ्चति॥
परिधि᳘षु᳘ ह्येनं युन᳘क्ति य᳘त्र वाव यो᳘ग्यं युञ्ज᳘न्ति त᳘देव तद्वि᳘मुञ्चन्ति॥
मूलम् - श्रीधरादि
परिधि᳘षु व्वि᳘मुञ्चति॥
परिधि᳘षु᳘ ह्येनं युन᳘क्ति य᳘त्र वाव यो᳘ग्यं युञ्ज᳘न्ति त᳘देव तद्वि᳘मुञ्चन्ति॥
मूलम् - Weber
परिधि᳘षु वि᳘मुञ्चति॥
परिधि᳘षु᳘ ह्येनं युन᳘क्ति य᳘त्र वाव यो᳘ग्यं युञ्ज᳘न्ति त᳘देव तद्वि᳘मुञ्चन्ति॥
मूलम् - विस्वरम्
परिधिषु विमुञ्चति । परिधिषु ह्येनं युनक्ति । यत्र वाव योग्यं युञ्जन्ति- तदेव तद्विमुञ्चन्ति ॥ १२ ॥
सायणः
लोके यत्राश्वं युञ्जन्ति तत्रैव तं विमुञ्चन्ति । अतो ऽत्रापि अग्नेः परिधिषु योजनात्तत्रैवैनं विमुञ्चेदित्याह- परिधिष्विति ॥ १२ ॥
Eggeling
- He unyokes it on the enclosing-sticks, for it
is on the enclosing-sticks that he yokes it, and at whatever place (of the body) people yoke a horse there they also unyoke it.
१३
विश्वास-प्रस्तुतिः
स᳘ संध्यो᳘रुपस्पृ᳘श्य॥
(श्यै) एते य᳘जुषी जपति त᳘था द्वे य᳘जुषी त्री᳘न्परिधी᳘ननुवि᳘भवतो दिवो᳘ मू᳘र्धा ऽसि पृथिव्या ना᳘भिरि᳘ति द᳘क्षिणे व्वि᳘श्वस्य मूर्धन्न᳘धि तिष्ठसि श्रित ऽइत्यु᳘त्तरे मूर्ध᳘वतीभ्यां मूर्धा᳘ ह्यस्यै᳘षो ऽप्सुम᳘तीभ्यामग्ने᳘रेत᳘द्वैश्वानर᳘स्य[[!!]] स्तोत्रं य᳘द्यज्ञायज्ञि᳘यᳫँ᳭ शा᳘न्तिर्वा ऽआ᳘पस्त᳘स्मादप्सुम᳘तीभ्याम्॥
मूलम् - श्रीधरादि
स᳘ संध्यो᳘रुपस्पृ᳘श्य॥
(श्यै) एते य᳘जुषी जपति त᳘था द्वे य᳘जुषी त्री᳘न्परिधी᳘ननुवि᳘भवतो दिवो᳘ मू᳘र्धा ऽसि पृथिव्या ना᳘भिरि᳘ति द᳘क्षिणे व्वि᳘श्वस्य मूर्धन्न᳘धि तिष्ठसि श्रित ऽइत्यु᳘त्तरे मूर्ध᳘वतीभ्यां मूर्धा᳘ ह्यस्यै᳘षो ऽप्सुम᳘तीभ्यामग्ने᳘रेत᳘द्वैश्वानर᳘स्य[[!!]] स्तोत्रं य᳘द्यज्ञायज्ञि᳘यᳫँ᳭ शा᳘न्तिर्वा ऽआ᳘पस्त᳘स्मादप्सुम᳘तीभ्याम्॥
मूलम् - Weber
स᳘ संध्यो᳘रुपस्पृ᳘श्य॥
एने य᳘जुषी जपति त᳘था द्वे य᳘जुषी त्री᳘न्परिधी᳘ननुवि᳘भवतो दिवो᳘ मूॗर्धासि पृथिव्या ना᳘भिरि᳘ति द᳘क्षिणे वि᳘श्वस्य मूर्धन्न᳘धि तिष्ठसि श्रित इत्यु᳘त्तरे मूर्ध᳘वतीभ्याम् मूर्धाॗ ह्य᳘स्यैषो ऽप्सुम᳘तीभ्यामग्ने᳘रेत᳘द्वैश्वानर᳘स्य स्तोत्रं य᳘द्यज्ञायज्ञि᳘यं शा᳘न्तिर्वा आ᳘पस्त᳘स्मादप्सुम᳘तीभ्याम्॥
मूलम् - विस्वरम्
स सन्ध्योरुपस्पृश्य- एते यजुषी जपति । तथा द्वे यजुषी त्रीन्परिधीननुविभवतः । “दिवो मूर्द्धा ऽसि पृथिव्या नाभिः”- (वा. सं. १८ । ५४) इति दक्षिणे । “विश्वस्य मूर्धन्नधि तिष्ठसि श्रितः"- (वा. सं. १८ । ५५) इत्युत्तरे । मूर्द्धवतीभ्याम् । मूर्धा ह्यस्यैषः । अप्सुमतीभ्याम् । अग्नेरेतद्वैश्वानरस्य स्तोत्रं, यद्यज्ञायज्ञियम् । शान्तिर्वा आपः । तस्मादप्सुमतीभ्याम् ॥ १३ ॥
सायणः
कथं तद्विमोचनप्रकार इति तत्राह- स सन्ध्योरिति 13 । ‘सः’ अध्वर्युः परिधिसन्ध्योरुपस्पृश्यैते- वक्ष्यमाणे दिवो मूर्द्धा ऽसीत्यादिके यजुषी जपेत् । ननु विमोचनमपि योजनवत्परिधिमध्यमुपस्पृश्यैव कस्मान्न क्रियत इति तत्राह तथा द्वे यजुषी इति । पूर्वं त्रिभिर्मन्त्रैस्त्रिष्वपि परिधिष्वग्नेर्युक्तत्वात्तथैव विमोचनमपि कर्तव्यं, न चैवमत्र सम्भवति मन्त्रयोरत्र द्वित्वेनापर्याप्तत्वात् । ततश्च परिधिसन्ध्योः संस्पर्शे त्रयाणामपि परिधीनां संस्पर्शसिद्धेर्द्वे एव यजुषी त्रीन्परिधीन्प्रति पर्याप्ते भवत इति । अथ कस्मिन्सन्धौ कं मन्त्रं जपेदिति तत्राह- दिवो मूर्द्धा ऽसीति । मन्त्रयोर्मूर्द्धशब्दसम्बन्धं प्रशंसति- मृर्द्धवतीभ्यामिति । अस्याग्नेरेष विमोचनलक्षणः प्रयोगो मूर्धा मूर्द्धवत् सर्वस्याप्युपरितनो भवति । अतश्च मूर्द्धशब्दयुक्ताभ्यामृग्भ्यामस्य विमोचनमुपपन्नम् । तथैवाप्सुशब्दसम्बन्धमपि प्रशंसति- अप्सुमतीभ्यामिति । अत्रोत्तरमन्त्रे अप्सुशब्दप्रयोगादुपचारेण प्रथममन्त्रस्याप्सुमत्त्वमित्यप्सुमतीभ्यामित्युक्तम् । एतद्यज्ञायज्ञियं स्तोत्रं वैश्वानरस्याग्नेः सम्बन्धि भवति तद्देवत्यत्वात् । अनेनास्य शान्तत्वमुक्तम् । आपस्तु दहनादिनाशस्य शान्तिहेतुत्वाच्छान्तिः खलु । तस्माद्यज्ञायज्ञियस्तोत्रे कर्तव्यं विमोचनमप्सुमतीभ्यामृग्भ्यां क्रियते ॥ १३ ॥
Eggeling
- Having touched it (the fire) at the two joints 15, he mutters these two formulas,–thus two formulas equal in power three enclosing-sticks,–with (Vāj. S. XVIII, 54), ‘The sky’s head thou art, the earth’s navel, [the essence of the waters and plants, the life of all, the ample refuge (?): homage be to the path!]’ on the right, and with (55), ‘On the head of the All dost thou keep standing, [in the (aerial) ocean is thy heart, in the waters thy life: bestow water, send the water-store (cloud),–from the sky, from the cloud, from the air, from the earth, favour us with rain!]’ on the left (joint),–thus with two (verses) containing (the word) ‘head,’ for this, is indeed its head; and containing (the words) ‘in the waters 16’: that Yajñāyajñiya doubtless is Agni Vaiśvānara’s chant of praise, and water is (a means of) appeasing,–therefore (he touches them) with two (verses) containing (the words)–’the waters.’
१४
विश्वास-प्रस्तुतिः
द्वा᳘भ्यां व्वि᳘मुञ्चति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्वि᳘मुञ्चति त्रिभि᳘र्युनक्ति तत्प᳘ञ्च प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - श्रीधरादि
द्वा᳘भ्यां व्वि᳘मुञ्चति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्वि᳘मुञ्चति त्रिभि᳘र्युनक्ति तत्प᳘ञ्च प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - Weber
द्वा᳘भ्यां वि᳘मुञ्चति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद्वि᳘मुञ्चति त्रिभि᳘र्युनक्ति तत्प᳘ञ्च प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - विस्वरम्
द्वाभ्यां विमुञ्चति । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्विमुञ्चति । त्रिभिर्युनक्ति । तत् पञ्च । पञ्चचितिको ऽग्निः । पञ्च ऽर्तवः संवत्सरः । सम्वत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ १४ ॥
सायणः
विमोचनमन्त्रयोर्द्वित्वसंख्यां प्रशंसति- द्वाभ्यामिति । योजनविमोचनमन्त्राणां संख्यां सम्भूय प्रशंसति- त्रिभिर्युनक्तीति । प्रकृतत्वात् द्वाभ्यां विमुञ्चतीति संबध्यते तत्तथा सति पञ्च भवन्ति । तावत्तद्भवतीति । ‘तद्’ योजनविमोचनात्मकं कर्म तावत्तत्परिमितमेव भवतीत्यर्थः ॥ १४ ॥
Eggeling
- With two (verses) he unyokes it,–two-footed is the Sacrificer, and Agni is the Sacrificer: as great as Agni is, as great as is his measure, with so much he thus unyokes him. With three (verses) he yokes,–that (makes) five,–the fire-altar consists of five layers, the year (of) five seasons, and Agni is
the year: as great as Agni is, as great as is his measure, so great is this.
१५
विश्वास-प्रस्तुतिः
तᳫँ᳭ है᳘के॥
प्रायणी᳘य ऽए᳘वातिरात्रे᳘ युञ्ज᳘न्त्युदयनी᳘ये व्वि᳘मुञ्चन्ति सᳫँ᳭स्थारूपं वा᳘ ऽएतद्य᳘द्विमो᳘चनं किं᳘ पुरा᳘ सᳫँ᳭स्था᳘यै सᳫँ᳭स्थारूपं᳘ कुर्यामे᳘ति न त᳘था कुर्याद᳘हरहरहर्व्वा᳘ ऽएष᳘ यज्ञ᳘स्तायते᳘ ऽहरहः सं᳘तिष्ठते᳘ ऽहरहरेनᳫँ᳭ स्वर्ग᳘स्य लोक᳘स्य ग᳘त्यै युङ्क्ते᳘ ऽहरहरेनेन स्वर्गं᳘ लोकं᳘ गच्छति त᳘स्माद᳘हरहरेव᳘ युञ्ज्याद᳘हरहर्व्वि᳘मुञ्चेत्॥
मूलम् - श्रीधरादि
तᳫँ᳭ है᳘के॥
प्रायणी᳘य ऽए᳘वातिरात्रे᳘ युञ्ज᳘न्त्युदयनी᳘ये व्वि᳘मुञ्चन्ति सᳫँ᳭स्थारूपं वा᳘ ऽएतद्य᳘द्विमो᳘चनं किं᳘ पुरा᳘ सᳫँ᳭स्था᳘यै सᳫँ᳭स्थारूपं᳘ कुर्यामे᳘ति न त᳘था कुर्याद᳘हरहरहर्व्वा᳘ ऽएष᳘ यज्ञ᳘स्तायते᳘ ऽहरहः सं᳘तिष्ठते᳘ ऽहरहरेनᳫँ᳭ स्वर्ग᳘स्य लोक᳘स्य ग᳘त्यै युङ्क्ते᳘ ऽहरहरेनेन स्वर्गं᳘ लोकं᳘ गच्छति त᳘स्माद᳘हरहरेव᳘ युञ्ज्याद᳘हरहर्व्वि᳘मुञ्चेत्॥
मूलम् - Weber
तᳫं है᳘के॥
प्रायणी᳘य एॗवातिरात्रे᳘ युञ्ज᳘न्त्युदयनी᳘ये वि᳘मुञ्चन्ति संस्थारूपं वा᳘ एतद्य᳘द्विमो᳘चनं कि᳘म् पुरा᳘ संस्था᳘यै संस्थारूपं᳘ कुर्यामे᳘ति न त᳘था कुर्याद᳘हरहरहर्वा᳘ एष᳘ यज्ञ᳘स्तायते ऽहरहः सं᳘तिष्ठते᳘ ऽहरहरेनᳫं स्वर्ग᳘स्य लोक᳘स्य ग᳘त्यै युङ्क्ते᳘ ऽहरहरेनेन स्वर्गं᳘ लोकं᳘ गछति त᳘स्माद᳘हरहरेव᳘ युञ्ज्याद᳘हरहर्वि᳘मुञ्चेत्॥
मूलम् - विस्वरम्
तं हैके- प्रायणीय एवातिरात्रे युञ्जन्ति, उदयनीये विमुञ्चन्ति । संस्थारूपं वा एतत्- यद्विमोचनम् । किं पुरा संस्थायै संस्थारूपं कुर्यामेति । न तथा कुर्यात् । अहरहर्वा एष यज्ञस्तायते, अहरहः सन्तिष्ठते, अहरहरेनं स्वर्गस्य लोकस्य गत्यै युङ्क्ते, अहरहरेनेन स्वर्गं लोकं गच्छति । तस्मादहरहरेव युञ्ज्यात्, अहरहर्विमुञ्चेत् ॥ १५ ॥
सायणः
प्रसङ्गादहर्गणेष्वपि योजनविमोचनप्रकारं विवक्षुस्तत्र पूर्वपक्षत्वेन केषांचित्पक्षं 17 सोपपत्तिकमनुवदति- तं हैक इति । ‘एके’ शाखिनः प्रायणीयातिरात्र एव तमग्निं ‘युञ्जन्ति’ । पश्चादुदयनीयातिरात्रे च ‘विमुञ्चन्ति’ । तथा कुर्वतां च तेषामयमाशयः- विमोचनमिति ‘यत्’ ‘एतत्संस्थारूपं’ खलु । अतश्च संस्थायाः पूर्वम् किमर्थं ‘संस्थारूपं कुर्यामेति’ । तदेतन्मतं निरस्य स्वमतमाह- न तथेति । ‘एषः’ यज्ञः ‘अहरहः’ प्रत्यहं वितायते । प्रत्यहमेव संतिष्ठते । प्रत्यहं च यजमानः स्वर्गं लोकं गन्तुमेनं युङ्क्ते । तथैव प्रत्यहं स्वर्गं लोकं गच्छति । अतश्च प्रत्यहमेव युञ्ज्यात् । प्रत्यहमेव विमुञ्चेत् ॥ १५ ॥
Eggeling
- Now, some yoke it (the fire-altar) at a Prāyaṇīya 18 Atirātra, and unyoke it at an Udayanīya, saying, ‘The unyoking, surely, is a certain form of completion, and why should we perform a form of completion prior to the completion (of the sacrifice)?’ But let him not do this, for day by day this sacrifice is performed, and day by day it comes to completion; day by day he yokes that (altar) for the attainment of the heavenly world, and day by day he thereby attains the heavenly world: let him therefore yoke it day by day, and unyoke it day by day.
१६
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थो य᳘था प्रायणी᳘ये ऽतिरात्रे᳘॥
सामिधेनी᳘रनू᳘च्य ब्रूया᳘दुदयनी᳘य ऽएवा᳘तो ऽनुवक्ता ऽस्मी᳘ति तादृक्त᳘त्तस्माद᳘हरहरेव᳘[[!!]] युञ्ज्याद᳘हरहर्व्वि᳘मुञ्चेत्॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थो य᳘था प्रायणी᳘ये ऽतिरात्रे᳘॥
सामिधेनी᳘रनू᳘च्य ब्रूया᳘दुदयनी᳘य ऽएवा᳘तो ऽनुवक्ता ऽस्मी᳘ति तादृक्त᳘त्तस्माद᳘हरहरेव᳘[[!!]] युञ्ज्याद᳘हरहर्व्वि᳘मुञ्चेत्॥
मूलम् - Weber
अ᳘थो य᳘था प्रायणी᳘ये ऽतिरात्रे᳟॥
सामिधेनी᳘रनू᳘च्य ब्रूया᳘दुदयनी᳘य एवा᳘तो ऽनुवक्तास्मी᳘ति तादृक्तत्त᳘स्माद᳘हरहरेव᳘ युञ्ज्यद᳘हरहर्वि᳘मुञ्चेत्॥
मूलम् - विस्वरम्
अथो यथा प्रायणीये ऽतिरात्रे सामिधेनीरनूच्य ब्रूयात्- उदयनीय ऽएवातो ऽनुवक्ता ऽस्मीति- तादृक् तत् । तस्मादहरहरेव युञ्ज्याद्, अहरहर्विमुञ्चेत् ॥ १६ ॥
सायणः
अथ तदेव पूर्वपक्षीकृतं मतं तदनभिमतदृष्टान्तप्रदर्शनेन निरस्य स्वमतमेव द्रढयति- अथो यथेति । किञ्च प्रायणीये ऽतिरात्रे सामिधेनीरनूच्य अतः परम् उदयनीयातिरात्रे एव तासामनुवक्ता ऽस्मीति यथा ब्रूयात् तदपि तादृग्भवति । स यदि सामिधेनीनामनुवचनमाद्यन्तयोरेवाह्नो क्रियते तदा योजनविमोचने अपि तथैव कुर्यात् । तद्यथा सामिधेन्यो ऽहरहरनूच्यन्ते । तासां कर्माङ्गत्वेन प्रत्यहं परिसमाप्ते कर्मणि कर्मणि अनूच्यत्वात् । अतस्तत्समानत्वेन योजनविमोचने अपि प्रत्यहमेव कुर्यात् ॥ १६ ॥
Eggeling
- And, indeed, it would be just as if, at the Prāyaṇīya Atirātra, after reciting the kindling-verses, he were to say, ‘Hereafter 19, at the Udayanīya, I shall recite (them again)!’ Let him therefore yoke (the altar) day by day, and unyoke it day by day.
१७
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘द्धैतच्छा᳘ण्डिल्यः॥
कङ्कती᳘येभ्यो ऽहरहः कर्म᳘ प्रदि᳘श्य प्र᳘वव्राजा᳘हरहरेव᳘ वो युन᳘जान᳘हरहर्व्वि᳘मुञ्चानि᳘ति त᳘स्माद᳘हरहरेव᳘ युञ्ज्याद᳘हरहर्व्वि᳘मुञ्चेत्॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘द्धैतच्छा᳘ण्डिल्यः॥
कङ्कती᳘येभ्यो ऽहरहः कर्म᳘ प्रदि᳘श्य प्र᳘वव्राजा᳘हरहरेव᳘ वो युन᳘जान᳘हरहर्व्वि᳘मुञ्चानि᳘ति त᳘स्माद᳘हरहरेव᳘ युञ्ज्याद᳘हरहर्व्वि᳘मुञ्चेत्॥
मूलम् - Weber
त᳘द्धैतछा᳘ण्डिल्यः॥
कङ्कती᳘येभ्यो ऽहरहःकर्म᳘ प्रदि᳘श्य 20 प्र᳘वव्राजा᳘हरहरेव᳘ वो युन᳘जान᳘हरहर्वि᳘मुञ्चानि᳘ति त᳘स्माद᳘हरहरेव᳘ युञ्ज्याद᳘हरहर्वि᳘मुञ्चेत्॥
मूलम् - विस्वरम्
तद्धैतच्छाण्डिल्यः कङ्कतीयेभ्यो ऽहरहः कर्म प्रदिश्य प्रवव्राज- अहरहरेव वो युनजान्, अहरहर्विमुञ्चानिति । तस्मादहरहरेव युञ्ज्याद्, अहरहर्विमुञ्चेत् ॥ १७ ॥
सायणः
हेत्वन्तरेणापि स्वमतमेव द्रढयति- तद्धैतदिति । ‘तदेतत्’ योजनविमोचनविषये शाण्डिल्यः कङ्कतीयेभ्यः प्रात्यहिकं कर्म प्रदिश्य वो ऽध्वर्युः प्रत्यहमग्निं युनक्तु विमुञ्चत्वित्युक्त्वा प्रवव्राज । युनजान् विमुञ्चान् इति लोडर्थे लेट्प्रत्ययः । यत एवं तस्मादपि प्रत्यहमेव युञ्ज्यात् प्रत्यहं विमुञ्चेत् ॥ १७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे चतुर्थे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (९-४-४) ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरहरिहरसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे चतुर्थो ऽध्यायः ॥ ९-४ ॥
Eggeling
- And on this point, Śāṇḍilya, indeed, having enjoined on the Kaṅkatīyas the day-by-day performance,
went on his way, saying, ‘Day by day they shall yoke for you, and day by day they shall unyoke!’ Let him therefore yoke day by day, and unyoke day by day.
-
अग्नियोजनं प्रातरनुवाकमुपाकरिष्यन् परिधीनालभ्य यथापूर्व्वमग्निं युनज्मीति प्रत्यृचम् । का. श्रौ. सू. १८ । १०२ । ↩︎
-
249:2 That is, on the first Sutyā, or pressing-day. ↩︎
-
249:3 That is, by calling on the Hotr̥ to ‘Recite to the gods, the early coming!’ see III, 9, 3, 10, with note thereto giving particulars regarding the Prātaranuvāka. ↩︎
-
250:1 See the ritual legend, I, 3, 3, 13 seq. ↩︎
-
250:2 That is, the one along the hind (or west) side of the Āhavanīya fire on the great altar, being the base of the triangle formed by the three enclosing-sticks. The order in which they are touched is the same as that in which they were laid down. ↩︎
-
250:3 Mahīdhara actually takes ‘smoke (dhūma)’ here to be intended as the literal meaning of ‘vayas.’ ↩︎
-
250:4 Viz. the seven R̥shis, identified with the seven vital airs which came to constitute the first Purusha (Agni-Prajāpati), and hence the bird-shaped fire-altar. See VI, 1, 1, 1 seq. ↩︎
-
251:1 In the first formula the word for ‘bird (eagle)’ is ‘suparṇa,’ literally ’the well-winged (well-feathered) one.’ ↩︎
-
251:2 This refers to the libations made from the several cups (grahas), the contents of which are afterwards consumed by the priests (and Sacrificer); cf. part ii, p. 316, note 1. ↩︎
-
251:3 For the same irregular construction, see IX, 4, 1, 13. ↩︎
-
252:1 See IX, 3, 4, 12. ↩︎
-
252:2 The Yajñāyajñiya (or Yajñāyajñīya) stotra is the last and characteristic chant of the Agnishṭoma mode of Soma-sacrifice, whence it is more properly called Agnishṭoma-sāman; the Yajñāyajñiya, properly speaking, being the verses, Sāma-v. II, 53, 54, chanted to a particular tune, and generally (though not always) used for the closing chant of the Agnishṭoma. ↩︎
-
आग्निमारुतस्तोत्रपुरस्ताद्विमोचनम् का. श्रौ. सू. १८ । १०३ । ↩︎ ↩︎
-
252:3 That is, because the Yajñāyajñiya marks, as it were, the end of the (Agnishṭoma) Soma-sacrifice, and anything performed thereafter is, so to speak, outside the sacrifice, or beyond it. Katy. Śr. XVIII, 6, 17 calls it Āgnimāruta stotra, i.e. the chant belonging to the Āgnimāruta-śastra (which has to be recited by the Hotr̥ after that chant); cf. part ii, p. 369 note. ↩︎
-
253:1 That is, at the two points where the right (southern) and left (northern) enclosing-sticks (forming the two sides of the triangle, the apex of which lies east of the centre of the fire) meet the western enclosing-stick (as the base of the triangle). ↩︎
-
253:2 The first verse, in point of fact, contains the genitive case ‘of the waters.’ ↩︎
-
प्रायणीये ऽतिरात्रे युक्त्वोदयनीये व्विमोकमेके । का. श्रौ. सू. १८ । १०४ । ↩︎
-
254:1 For the Prāyaṇīya ishṭi (to five deities) of the ordinary Agnishṭoma, see part ii, pp. 47, 48, note. In the present case a special Soma-sacrifice of the Atirātra type would seem to take its place, just as the Pavitra, an Agnishṭoma Soma-sacrifice, at the Rājasūya, took the place of the ordinary Anvārambhaṇīyā ishṭi (or opening offering); see part iii, p. 42. In the same way there would apparently be a special Udayanīya Soma-sacrifice; whilst our author would have the ceremonies of yoking and unyoking of the fire-altar performed on the very day (or days) of the Soma-sacrifice, that is to say, he would have the ordinary Prāyaṇīyeshṭi and Udayanīyeshṭi performed as parts of the principal Soma-day (or days, if there are to be more than one). ↩︎
-
254:2 Or, therefore, as Sāyaṇa takes it. If the Udayanīya were a special Soma-sacrifice, the Sāmidhenīs (part i, p. 102 seq.; ii, p. 13, note 3) would have to be recited anew. ↩︎
-
प्रतीष्य (!) Sây. ↩︎