०१
विश्वास-प्रस्तुतिः
अ᳘थ प्रत्ये᳘त्य धि᳘ष्ण्यानां काले धि᳘ष्ण्यान्नि᳘वपति॥
(त्य) अग्न᳘य ऽएते यद्धि᳘ष्ण्या ऽअग्नी᳘ने᳘वैत᳘च्चिनोति ता᳘ ऽएता व्वि᳘शः क्षत्र᳘मय᳘मग्नि᳘श्चितः᳘ क्षत्रं᳘ च तद्वि᳘शं च करोत्यमुं पू᳘र्व्वं चिनोत्य᳘थेमा᳘न्क्षत्रं त᳘त्कृत्वा व्वि᳘शं करोति॥
मूलम् - श्रीधरादि
अ᳘थ प्रत्ये᳘त्य धि᳘ष्ण्यानां काले धि᳘ष्ण्यान्नि᳘वपति॥
(त्य) अग्न᳘य ऽएते यद्धि᳘ष्ण्या ऽअग्नी᳘ने᳘वैत᳘च्चिनोति ता᳘ ऽएता व्वि᳘शः क्षत्र᳘मय᳘मग्नि᳘श्चितः᳘ क्षत्रं᳘ च तद्वि᳘शं च करोत्यमुं पू᳘र्व्वं चिनोत्य᳘थेमा᳘न्क्षत्रं त᳘त्कृत्वा व्वि᳘शं करोति॥
मूलम् - Weber
अ᳘थ प्रत्ये᳘त्य धि᳘ष्ण्यानां काले धि᳘ष्ण्यान्नि᳘वपति॥
अग्न᳘य एते यद्धि᳘ष्ण्या अग्नी᳘नेॗवैत᳘च्चिनोति ता᳘ एता वि᳘शः क्षत्र᳘मय᳘मग्नि᳘श्चितः᳘ क्षत्रं᳘ च तद्वि᳘शं च करोत्यमुम् पू᳘र्वं चिनोत्य᳘थेमा᳘न्क्षत्रं त᳘त्कृत्वा वि᳘शं करोति॥
मूलम् - विस्वरम्
अथाष्टानां धिष्ण्याग्नीनां चयनम् ।
अथ प्रत्येत्य धिष्ण्यानां काले धिष्ण्यान्निवपति । अग्नय एते- यद्धिष्ण्याः । अग्नीनेवैतच्चिनोति । ता एता विशः, क्षत्रमयमग्निश्चितः । क्षत्रं च तद्विशं च करोति । अमुं पूर्वं चिनोति- अथेमान् । क्षत्रं तत्कृत्वा विशं करोति ॥ १ ॥
सायणः
अथ प्रत्येत्य धिष्ण्यानां काले धिष्ण्यान्निवपेदित्याह- अथेति । धिष्ण्यानां काल इत्यनेन धिष्ण्यनिवपनात्पूर्वभाविकर्म कृत्वा पश्चाद्धिष्ण्यान्निवपेदिति गम्यते । अत एव कात्यायनः- “हविर्द्धानप्रक्षालनाद्याग्नीध्रालम्भनात्कृत्वा धिष्ण्यांश्चिनोति” (का. श्रौ. सू. १८ । ९३) इति । धिष्ण्यानां निवपनेनाग्नीनेव चिनोतीत्याह- अग्नय एते यद्धिष्ण्या इति । धिष्ण्यानां स्वेषु अग्निविहरणादग्नित्वम् । अत एव तैत्तिरीयके ऽपि धिष्ण्यानामग्नित्वं श्रूयते “अग्नयो वा अथ धिष्णियाः” (तै. सं. ६ । ३ । १ । ३) इति । सञ्चितस्याग्नेः क्षत्रत्वादेतेषां धिष्ण्यानां विट्त्वात् ‘क्षत्रं च’ ‘विशं च’ चितवान् भवतीत्याह- ता एता विश इति । अग्निचयनस्य धिष्ण्यचयमस्य च पौर्वापर्यात् पूर्वं क्षत्रं कृत्वा अथ विशं कृतवान् भवतीत्याह- अमुं पूर्वमिति ॥ १ ॥
Eggeling
- Having now returned (to the hall), he, at the proper time, throws up the Dhishṇyas 1 (fire-hearths)–these hearths are fires: he thus builds up fire-altars. They are the clansmen, and the built-up fire-altar is the chieftaincy: he thus sets up both the chieftaincy and the clan. The former (altar) he builds up first, then these (hearths): thus he sets up the clan after setting up the chieftaincy.
०२
विश्वास-प्रस्तुतिः
(त्ये᳘) ए᳘क ऽएष᳘ भवति॥
(त्ये) एकस्थं त᳘त्क्षत्र᳘मेकस्थाᳫँ᳭ श्रि᳘यं करोति बह᳘व ऽइ᳘तरे व्विशि त᳘द्भूमा᳘नं दधाति॥
मूलम् - श्रीधरादि
(त्ये᳘) ए᳘क ऽएष᳘ भवति॥
(त्ये) एकस्थं त᳘त्क्षत्र᳘मेकस्थाᳫँ᳭ श्रि᳘यं करोति बह᳘व ऽइ᳘तरे व्विशि त᳘द्भूमा᳘नं दधाति॥
मूलम् - Weber
ए᳘क एष᳘ भवति॥
एकस्थं त᳘त्क्षत्र᳘मेकस्थां श्रि᳘यं करोति बह᳘व इ᳘तरे विशि त᳘द्भमा᳘नं दधाति॥
मूलम् - विस्वरम्
एक एष भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति । बहव इतरे । विशि तद्भूमानं दधाति ॥ २ ॥
सायणः
संचितस्याग्नेरेकत्वात् क्षत्रजातिस्थं प्राधान्यं श्रियं चेत्युभे अप्येकस्थे करोति । धिष्ण्यानां बहुत्वात् ‘विशि’ एव बहुत्वं करोतीत्याह- एक एष भवतीत्यादिना ॥ २ ॥
Eggeling
- That (fire-altar) is a single one: he thus makes the chieftaincy to attach to a single (person), and (social) distinction to attach to a single (person). The others are numerous: he thus bestows multiplicity on the clan.
०३
विश्वास-प्रस्तुतिः
प᳘ञ्चचितिक ऽएष भ᳘वति॥
(त्ये᳘) ए᳘कचितिका ऽइ᳘तरे क्षत्रं त᳘द्वी᳘र्य्येणात्या᳘दधाति क्षत्रं᳘ व्विशो᳘ व्वी᳘र्यवत्तरं[[!!]] करोत्यूर्ध्व᳘मेतं᳘ चिनोति क्षत्रं त᳘दूर्ध्वं चि᳘तिभिश्चिनोति तिर᳘श्च ऽइ᳘तरान्क्षत्रा᳘य तद्वि᳘शमध᳘स्तादुपनिषादि᳘नीं करोति॥
मूलम् - श्रीधरादि
प᳘ञ्चचितिक ऽएष भ᳘वति॥
(त्ये᳘) ए᳘कचितिका ऽइ᳘तरे क्षत्रं त᳘द्वी᳘र्य्येणात्या᳘दधाति क्षत्रं᳘ व्विशो᳘ व्वी᳘र्यवत्तरं[[!!]] करोत्यूर्ध्व᳘मेतं᳘ चिनोति क्षत्रं त᳘दूर्ध्वं चि᳘तिभिश्चिनोति तिर᳘श्च ऽइ᳘तरान्क्षत्रा᳘य तद्वि᳘शमध᳘स्तादुपनिषादि᳘नीं करोति॥
मूलम् - Weber
प᳘ञ्चचितिक एष भ᳘वति॥
ए᳘कचितिका इ᳘तरे क्षत्रं त᳘द्वीॗर्येणात्या᳘दधाति क्षत्रं᳘ विशो᳘ वीर्य᳘वत्तरं करोत्यूर्ध्व᳘मेतं᳘ चिनोति क्षत्रं त᳘दूर्ध्वं चि᳘ति भिश्चिनोति तिर᳘श्च इ᳘तरान्क्षत्रा᳘य तद्वि᳘शमध᳘स्तादुपनिषादि᳘नीं करोति॥
मूलम् - विस्वरम्
पञ्चचितिक एष भवति, एकचितिका इतरे । क्षत्रं तद्वीर्येणात्यादधाति । क्षत्रं विशो वीर्यवत्तरं करोति । ऊर्ध्वमेतं चिनोति । क्षत्रं तदूर्ध्वं चितिभिश्चिनोति । तिरश्च इतरान् । क्षत्राय तद्विशमधस्तादुपनिषादिनीं करोति ॥ ३ ॥
सायणः
एषो ऽग्निः ‘पञ्चचितिको’ भवति ‘इतरे’ धिष्ण्यास्तु एकचितिका भवेयुः । तेन चितिबाहुल्यात् ‘क्षत्रम्’ एव वीर्येणोपरि करोति । ‘विशः’ अपेक्षया वीर्यवत्तरं च करोतीत्याह- पञ्चचितिक इति । किञ्च ‘एतम्’ अग्निम् ‘ऊर्ध्वं चिनोति’ क्रमेणोपर्युपरि पञ्चानां चितीनामुपधानात् । तेन क्षत्रमेवोर्ध्वं ‘चितिभिश्चिनोति’ । इतरान् धिष्ण्यांस्तु तिर्यग्गतांश्चिनुयात्, तेनोपरि वर्त्तमानाय क्षत्राय विशमधस्तादवस्थितां करोतीत्याह- ऊर्ध्वमेतमिति ॥ ३ ॥
Eggeling
- That (fire-altar) consists of five layers, the others of a single layer: he thus endows the chieftain (or, ruler) pre-eminently with power, and makes the chieftain more powerful than the clan (or people). Upwards he builds that one: he thus builds the ruling power upward by (social) layers; sideways the others: he thus makes the clan obedient to the chieftain from below.
०४
विश्वास-प्रस्तुतिः
(त्यु) उभा᳘भ्यां य᳘जुष्मत्या च लोकम्पृण᳘या चैतं᳘ चिनो᳘ति॥
लोकम्पृण᳘यै᳘वेमा᳘न्क्षत्र᳘मेव त᳘द्वी᳘र्येणात्या᳘दधाति क्षत्रं᳘ व्विशो᳘ व्वी᳘र्यवत्तरं[[!!]] करोति व्वि᳘शं क्षत्रा᳘दवीर्य᳘तराम्॥
मूलम् - श्रीधरादि
(त्यु) उभा᳘भ्यां य᳘जुष्मत्या च लोकम्पृण᳘या चैतं᳘ चिनो᳘ति॥
लोकम्पृण᳘यै᳘वेमा᳘न्क्षत्र᳘मेव त᳘द्वी᳘र्येणात्या᳘दधाति क्षत्रं᳘ व्विशो᳘ व्वी᳘र्यवत्तरं[[!!]] करोति व्वि᳘शं क्षत्रा᳘दवीर्य᳘तराम्॥
मूलम् - Weber
उभा᳘भ्यां य᳘जुष्मत्या च लोकम्पृण᳘या चैतं᳘ चिनो᳘ति॥
लोकम्पृण᳘यैॗवेमा᳘न्क्षत्र᳘मेव त᳘द्वीॗर्येणात्या᳘दधाति क्षत्रं᳘ विशो᳘ वीर्य᳘वत्तरं करोति वि᳘शं क्षत्रा᳘दवीर्य᳘तराम्॥
मूलम् - विस्वरम्
उभाभ्यां- यजुष्मत्या च लोकम्पृणया चैतं चिनोति । लोकम्पृणयैवेमान् । क्षत्रमेव तद् वीर्येणात्यादधाति । क्षत्रं विशो वीर्यवत्तरं करोति । विशं क्षत्रादवीर्यतराम् ॥ ४ ॥
सायणः
‘यजुष्मत्या’ ‘लोकम्पृणया’ चेति ‘उभाभ्याम्’ इष्टकाभ्याम् ‘एतम्’ अग्निम् ‘चिनोति’ । ‘इमान्’ धिष्ण्यांस्तु केवलं लोकम्पृणयैव इष्टकया चिनुयात् । तेन क्षत्रमेव वीर्येण उपरि करोति । विशो ऽपेक्षया वीर्यवत्तरं च करोति । विशं पुनः क्षत्रादवीर्यतरां कृतवान्भवतीत्याह- उभाभ्यामिति ॥ ४ ॥
Eggeling
- That one he builds up both with the Yajushmatī (bricks laid down with a special formula), and with the Lokampr̥ṇā (or space-filling ones, laid down with a common formula); the others with the space-filling one alone: he thus endows the chieftain pre-eminently with power, and makes the chieftain more powerful than the clan, and the clan less powerful than the chieftain.
०५
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स य᳘दिमाल्ँ᳘लोकम्पृण᳘यैव᳘ चिनो᳘ति॥ क्षत्रं वै᳘ लोकम्पृणा᳘ क्षत्रं त᳘द्वि᳘श्यत्ता᳘रं[[!!]] दधात्युभयांश्चिनोत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्व्वान᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुर्यं᳘ यमे᳘वाध्वरधिष्ण्यं᳘ निव᳘पति तं᳘ तं चिनोत्याग्नीध्री᳘यं प्रथमं᳘ चिनोति तᳫँ᳭ हि᳘ प्रथमं᳘ निव᳘पति दक्षिणत ऽउ᳘दङ्ङा᳘सीनस्त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स य᳘दिमाल्ँ᳘लोकम्पृण᳘यैव᳘ चिनो᳘ति॥ क्षत्रं वै᳘ लोकम्पृणा᳘ क्षत्रं त᳘द्वि᳘श्यत्ता᳘रं[[!!]] दधात्युभयांश्चिनोत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्व्वान᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुर्यं᳘ यमे᳘वाध्वरधिष्ण्यं᳘ निव᳘पति तं᳘ तं चिनोत्याग्नीध्री᳘यं प्रथमं᳘ चिनोति तᳫँ᳭ हि᳘ प्रथमं᳘ निव᳘पति दक्षिणत ऽउ᳘दङ्ङा᳘सीनस्त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
स य᳘दिमां᳘लोकम्पृण᳘यैव᳘ चिनो᳘ति क्षत्रं वै᳘ लोकम्पृणा᳘ क्षत्रं त᳘द्विश्य᳘त्ता᳘रं दधात्युभयांश्चिनोत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्वान᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुर्यं᳘-यमेॗवाध्वरधिष्ण्यं᳘ निव᳘पति तं᳘-तं चिनोत्याग्नीध्री᳘यम् प्रथमं᳘ चिनोति तᳫं हि᳘ प्रथमं᳘ निव᳘पति दक्षिणत उ᳘दङ्ङा᳘सीनस्त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
स यदिमाल्ँ लोकम्पृणयैव चिनोति । क्षत्रं वै लोकम्पृणा । क्षत्रं तद्विश्यत्तारं दधाति । उभयाँश्चिनोति- अध्वरस्य चाग्नेश्च । अध्वरस्य पूर्वान्, अथाग्नेः । तस्योक्तो बन्धुः । यं यमेवाध्वरधिष्ण्यं निवपति- तं तं चिनोति । आग्नीध्रीयं प्रथमं चिनोति । तं हि प्रथमं निवपति । दक्षिणत उदङ्ङासीनः । तस्योक्तो बन्धुः ॥ ५ ॥
सायणः
एषां धिष्ण्यानां चयनेन क्षत्रमेव भोग्यरूपायां विशि भोक्तारं निदधातीत्याह- स यदिमांल्लोकम्पृणयैवेति । ‘उभयांश्चिनोति’ इत्यस्यायमर्थः-सोमयागसंबन्धिनो ऽग्निचयनसम्बन्धिनश्चेत्युभयानपि धिष्ण्यांश्चिनोति । तत्र सोमयागसम्बन्धिनः पूर्वं निवपेत् । पश्चादग्निचयनसम्बन्धिनश्चिनुयात् । तस्य तु पौर्वापर्यस्य ब्राह्मणं (श. प. ६ । ६ । १ । ४) प्रागुक्तमित्याह- तस्योक्तो बन्धुरिति । ननु तर्हि सर्वानपि न्युप्य पश्चात् चिनुयादिति नेत्याह- यं यमेवेति । यं यमेवाध्वरधिष्ण्यं निवपति तदानीमेव तं तं चिनुयात् । पूर्वमाग्नीध्रीयस्याध्वरधिष्ण्यस्य निवपनात्तथैव तं पूर्वमेव चिनुयादित्याह- आग्नीध्रीयं प्रथममिति । तस्य चयनं दक्षिणभागे उदङ्मुख आसीनः कुर्यात् इत्याह- दक्षिणत इति । तस्य तु ब्राह्मणं प्रागुक्तमित्याह- तस्योक्तो बन्धुरिति ॥ ५ ॥
Eggeling
- And when he builds up these (hearths) only with the space-filling one, the Lokampr̥ṇā being the nobility 2–he thereby places the chieftain, as the eater, among the clan. He builds up (dhishṇya-hearths) both of the Soma-sacrifice 3, and of the fire-altar; first those of the Soma-sacrifice, and then those of the fire-altar: the significance of this has been explained. Whatever Soma-hearth he (merely) throws up (at the Soma-sacrifice), that he (now) builds up. The Āgnīdhrīya he builds first, for that
one he throws up first (at the Soma-sacrifice); (he does so) whilst sitting to the right (south) of it: the significance of this has been explained 4.
०६
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘स्मिन्नष्टावि᳘ष्टका ऽउ᳘पदधाति॥
(त्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोति ता᳘साम᳘श्मा पृ᳘श्निर्नवमो[[!!]] न᳘व वै᳘ प्राणाः᳘ सप्त᳘ शीर्षन्न᳘वाञ्चौ द्वौ ता᳘ने᳘वास्मिन्नेत᳘द्दधाति य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते स᳘ दशमो द᳘श वै᳘ प्राणा म᳘ध्यमा᳘ग्नीध्रं मध्यतस्त᳘त्प्राणा᳘न्दधाति म᳘ध्ये ह वा᳘ ऽएत᳘त्प्राणाः स᳘न्त ऽइ᳘ति चे᳘ति चात्मा᳘नमनुव्यु᳘च्चरन्ति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘स्मिन्नष्टावि᳘ष्टका ऽउ᳘पदधाति॥
(त्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनमेत᳘च्चिनोति ता᳘साम᳘श्मा पृ᳘श्निर्नवमो[[!!]] न᳘व वै᳘ प्राणाः᳘ सप्त᳘ शीर्षन्न᳘वाञ्चौ द्वौ ता᳘ने᳘वास्मिन्नेत᳘द्दधाति य᳘श्चि᳘ते ऽग्नि᳘र्निधीय᳘ते स᳘ दशमो द᳘श वै᳘ प्राणा म᳘ध्यमा᳘ग्नीध्रं मध्यतस्त᳘त्प्राणा᳘न्दधाति म᳘ध्ये ह वा᳘ ऽएत᳘त्प्राणाः स᳘न्त ऽइ᳘ति चे᳘ति चात्मा᳘नमनुव्यु᳘च्चरन्ति॥
मूलम् - Weber
त᳘स्मिन्नष्टावि᳘ष्टका उ᳘पदधाति॥
अष्टा᳘क्षरा गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमेॗवैनमेत᳘च्चिनोति ता᳘साम᳘श्मा पृ᳘श्निर्न᳘वमो न᳘व वै᳘ प्राणाः᳘ सप्त᳘ शीर्षन्न᳘वाञ्चौ द्वौ ता᳘नेॗवास्मिन्नेत᳘द्दधाति य᳘श्चिॗते ऽग्नि᳘र्निधीय᳘ते स᳘ दशमो द᳘श वै᳘ प्राणा म᳘ध्यमा᳘ग्नीध्रम् मध्यतस्त᳘त्प्राणा᳘न्दधाति म᳘ध्ये ह वा᳘ एत᳘त्प्राणाः स᳘न्त इ᳘ति चे᳘ति चात्मा᳘नमनुव्यु᳘च्चरन्ति॥
मूलम् - विस्वरम्
तस्मिन्नष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावन्तमेवैनमेतच्चिनोति । तासामश्मा पृश्निर्नवमः । नव वै प्राणाः- सप्त शीर्षन्, अवाञ्चौ द्वौ । तानेवास्मिन्नेतद्दधाति । यश्चिते ऽग्निर्निधीयते- स दशमः । दश वै प्राणाः । मध्यमाग्नीध्रम् । मध्यतस्तत्प्राणान्दधाति । मध्ये ह वा एतत्- प्राणाः सन्त इति चेति चात्मानमनु व्युच्चरन्ति ॥ ६ ॥
सायणः
अथ धिष्ण्ये ऽष्टाविष्टका उपदधातीत्याह- तस्मिन्नष्टाविति । तामिष्टकासंख्यां प्रशंसति- अष्टाक्षरा गायत्रीति । गायत्र्या सहोत्पत्तेः अग्नेर्गायत्रत्वम् । एतासामष्टानामिष्टकानाम् आग्नीध्रीये विहितोपधाने पृश्नावश्मनि नवमे सति नवत्वसंख्या संपद्यते । प्राणाश्च शिरसि सप्तावाञ्चौ द्वाविति नव भवन्ति । अतश्चानया संख्यया एतस्मिन्नव प्राणानेव दधातीत्याह- तासामश्मेति, नव वा इति । अग्नौ निहितमग्निं दशमं कृत्वा पुनरपि तथैव प्रशंसति- यश्चिते ऽग्निरिति । नाभ्या सह प्राणानां दशत्वम् । अत एव श्रूयते- “नव वै पुरुषे प्राणा नाभिर्दशमी” (तै. सं. ५ । ३ । २ । ३) इति । एवं चाग्नीध्रस्य मध्यप्रदेशत्वान्मध्यत एव दश प्राणान्दधाति । ननु चोर्ध्वाधोभागेभ्यः प्राणानां संचारान्मध्यतः तन्निधानमनुचितमित्यत आह- मध्ये ह वा एतदिति । इति चेति चेति ऊर्द्ध्वाधोभागौ हस्तेन दर्शयति । हृदयदेशे ‘प्राणाः’ अवतिष्ठमानाः ‘आत्मानं’ शरीरम् ‘अनु’ लक्ष्य ‘इति चेति च’ ऊर्द्ध्वभागादधोभागाच्च ‘व्युच्चरन्ति’ विविधमुत्क्रामन्ति । यथायथं गोलकैर्निर्गच्छन्तीत्यर्थः ॥ ६ ॥
Eggeling
- On this (Āgnīdhrīya) he puts eight bricks,–the Gāyatrī consists of eight syllables, and Agni is of Gāyatra nature: as great as Agni is, as great as is his measure, so great he thus builds him up. The variegated stone 5 is the ninth of them: there are nine vital airs–seven in the head and two downward ones–it is these he thus puts into it. The fire which is placed on the erected (hearth) is the tenth;–there are ten vital airs 6, and the Āgnīdhra is the middle (between the Gārhapatya and Āhavanīya fires).: he thus puts the vital airs in the middle of it; for the vital airs, being in the middle of the body, move along it in this direction, and in that direction.
०७
विश्वास-प्रस्तुतिः
(न्त्ये᳘) ए᳘कविᳫँ᳭शतिᳫँ᳭ होत्री᳘य ऽउ᳘पदधाति॥
(त्ये᳘) ए᳘कविᳫँ᳭शतिर्वेव᳘ परिश्रि᳘तस्त᳘स्योक्तो ब᳘न्धुरे᳘कादश ब्राह्मणाच्छ᳘ᳫँ᳘स्य ऽए᳘कादशाक्षरा[[!!]] वै᳘ त्रिष्टुप्त्रै᳘ष्टुभ ऽइ᳘न्द्र ऐन्द्रो᳘ ब्राह्मणाच्छ᳘ᳫँ᳘स्यष्टा᳘वष्टावि᳘तरेषु[[!!]] त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(न्त्ये᳘) ए᳘कविᳫँ᳭शतिᳫँ᳭ होत्री᳘य ऽउ᳘पदधाति॥
(त्ये᳘) ए᳘कविᳫँ᳭शतिर्वेव᳘ परिश्रि᳘तस्त᳘स्योक्तो ब᳘न्धुरे᳘कादश ब्राह्मणाच्छ᳘ᳫँ᳘स्य ऽए᳘कादशाक्षरा[[!!]] वै᳘ त्रिष्टुप्त्रै᳘ष्टुभ ऽइ᳘न्द्र ऐन्द्रो᳘ ब्राह्मणाच्छ᳘ᳫँ᳘स्यष्टा᳘वष्टावि᳘तरेषु[[!!]] त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
ए᳘कविंशतिᳫं होत्री᳘य उ᳘पदधाति॥
ए᳘कविंशतिर्वेव᳘ परिश्रि᳘तस्त᳘स्योक्तो ब᳘न्धुरे᳘कादश ब्राह्मणाछंस्य᳘ ए᳘कादशाक्षरा वै त्रिष्टुप्त्रै᳘ष्टुभ इ᳘न्द्र ऐन्द्रो᳘ ब्राह्मणाछंस्य᳘ष्टा᳘वष्टावि᳘तरेषु त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
(१) एकविंशतिं होत्रीय उपदधाति । एकविंशतिर्वेव परिश्रितः । तस्योक्तो बन्धुः । (२) एकादश ब्राह्मणाच्छंस्ये । एकादशाक्षरा वै त्रिष्टुप् । त्रैष्टुभ इन्द्रः । ऐन्द्रो ब्राह्मणाच्छंसी । (३, ४, ५, ६, ७) अष्टावष्टावितरेषु । तस्योक्तो बन्धुः ॥ ७ ॥
सायणः
अथ होत्रीये धिष्ण्ये एकविंशतिमिष्टका एकविंशतिपरिश्रितश्चोपदध्यादित्याह- एकविंशतिमिति । तस्य तु ब्राह्मणं “द्वादश मासाः”- इत्यादिना प्रागेवोक्तमित्याह- तस्योक्तो बन्धुरिति । अथ ब्राह्मणाच्छंसिनो धिष्ण्ये एकादशेष्टका उपदध्यादित्याह- एकादशेति । तत्रोपधेयानामिष्टकानामेकादशत्वमुपपन्नमित्याह- एकादशाक्षरा वै त्रिष्टुबिति । एकादशाक्षरपादत्वात् त्रिष्टुबेकादशाक्षरा । इन्द्रश्च त्रैष्टुभो भवति । इन्द्रस्य त्रिष्टुभा सहोत्पत्तेः। ब्राह्मणाच्छंसी पुनरैन्द्रः तेन प्रतिपादिताभिर्ऋग्भिर्यागस्य विधानात् । इत्थं परम्परया ब्राह्मणाच्छंसिनस्त्रिष्टुभा सम्बन्धात् तत्संख्यानुविधानमिष्टकानां युज्यत इत्यर्थः । नन्वितरेषु धिष्ण्येषु कति इष्टका उपदध्यादिति तत्राह- अष्टावष्टावितरेष्विति 7 ॥ ७ ॥
Eggeling
- Twenty-one he places on the Hotrīya (hearth), and there are twenty-one enclosing-stones 8: the significance of this has been explained.
०८
विश्वास-प्रस्तुतिः
ष᳘ण्मार्जाली᳘ये॥
षड्वा᳘ ऽऋत᳘वः ऽऋत᳘वः पित᳘रस्त᳘ᳫँ᳭ हैत᳘मृत᳘वः पित᳘रो दक्षिणतः प᳘र्यूहिरे स᳘ ऽएषामेष᳘ दक्षिणतः स वा ऽइ᳘तीम᳘मुपद᳘धाती᳘तीमानि᳘त्यमुं व्वि᳘शं त᳘त्क्षत्र᳘मभिसंमुखां᳘ करोति॥
मूलम् - श्रीधरादि
ष᳘ण्मार्जाली᳘ये॥
षड्वा᳘ ऽऋत᳘वः ऽऋत᳘वः पित᳘रस्त᳘ᳫँ᳭ हैत᳘मृत᳘वः पित᳘रो दक्षिणतः प᳘र्यूहिरे स᳘ ऽएषामेष᳘ दक्षिणतः स वा ऽइ᳘तीम᳘मुपद᳘धाती᳘तीमानि᳘त्यमुं व्वि᳘शं त᳘त्क्षत्र᳘मभिसंमुखां᳘ करोति॥
मूलम् - Weber
ष᳘ण्मार्जाली᳘ये॥
षड्वा᳘ ऋत᳘वः पित᳘रस्त᳘ᳫं᳘ हैत᳘मृत᳘वः पित᳘रो दक्षिणतः प᳘र्यूहिरे स᳘ एषामेष᳘ दक्षिणतः स वा इ᳘तीम᳘मुपद᳘धाती᳘तीमानि᳘त्यमुं वि᳘शं त᳘त्क्षत्र᳘मभिसम्मुखां᳘ करोति॥
मूलम् - विस्वरम्
(८) षण्मार्जालीये । षड्वा ऽऋतवः । ऋतवः पितरः । तं हैतमृतवः पितरो दक्षिणतः पर्यूहिरे । स एषामेष दक्षिणतः । स वा इतीममुपदधाति, इतीमान्, इत्यमुम् । विशं तत्क्षत्रमभिसंमुखां करोति ॥ ८ ॥
सायणः
एवं- षण्मार्जालीय इति । अथ कथं तत्र षण्णामिष्टकानामुपधानमिति तत्राह- षड्वा ऋतव इति । यस्मिन्नृतौ यो म्रियेत स जनः स एवर्तुर्भवति । अयमर्थस्तैत्तिरीयके श्रूयते- “यदि वसन्ता प्रमीयते वसन्तो भवति”- (तै. ब्रा.) इत्यादिना । यतश्च ऋत्वात्मकाः पितरस्तं मार्जालीयं धिष्ण्यं दक्षिणभागे व्यवस्थापितवन्तः अत इदानीं स एष मार्जालीय एषां देवानां दक्षिणभागे ऽवतिष्ठते । एवमृत्वात्मकपितृसम्बन्धात्तत्रोपधेयानामिष्टकानामृतुसंख्यानुविधानमुपपन्नम् । अथ धिष्ण्यानां चित्याग्नेश्च संस्थानं प्रशंसति- स वा इतीति । आग्नीध्रदेशे धिष्ण्योपधानप्रकारं हस्तेन दर्शयति- इतीमानिति । ‘इतीमान्’ इत्यत्र ‘इति’ शब्देन सदसि होत्रीयादिधिष्ण्यानामुपधानप्रकारम्, ‘इत्यमुम्’ इति ‘इति’- शब्देन चित्याग्न्युपधानप्रकारम् ‘तत्’ तेनोक्तप्रकारेणोपधानेनामुं धिष्ण्यरूपां विशं क्षत्रमभिसम्मुखां कृतवान् भवति । तस्माद्धिष्ण्यानामग्नेश्चोक्तप्रकारमुपधानमुपपन्नमित्यर्थः ॥ ८ ॥
Eggeling
- Six (he places) on the Mārjālīya,–these are the six seasons, the Fathers; for the seasons, the
Fathers 9, indeed, heaped up (a rampart) round that (fire) from the south. This one lies to the south of those (other hearths) 10,–this (Āgnīdhrīya) he lays down in this way (direction), and these (other hearths) in this way, and that one (the Fire-altar) in this way: he thereby makes the peasantry look towards the chieftain.
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनान्परिश्रि᳘द्भिः प᳘रिश्रयति॥
(त्या᳘) आ᳘पो वै᳘ परिश्रि᳘तो ऽद्भि᳘रे᳘वैनांस्तत्प᳘रितनोति स वै प᳘र्येव नि᳘दधाति क्षत्र᳘ᳫँ᳘ हैता᳘ ऽअपां याः᳘ खाते᳘न यन्त्य᳘थ हैता व्वि᳘शो या᳘नीमा᳘नि वृथोदका᳘नि स य᳘दमुं[[!!]] खाते᳘न परिश्र᳘यति क्षत्रे त᳘त्क्षत्रं᳘ दधाति क्षत्रं᳘ क्षत्रे᳘ण प᳘रिश्रयत्य᳘थ य᳘दिमान्प᳘र्येव᳘ निद᳘धाति व्विशि तद्वि᳘शं दधाति व्विशा व्वि᳘शं प᳘रिश्रयति ते᳘षां वै या᳘वत्य ऽएव य᳘जुष्मत्यस्ता᳘वत्यः परिश्रि᳘तो या᳘वत्यो᳘ ह्ये᳘वामु᳘ष्य य᳘जुष्मत्यस्ता᳘वत्यः परिश्रि᳘तः क्षत्रा᳘यैव तद्वि᳘शं कृतानुकराम᳘नुवर्त्मानं करोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनान्परिश्रि᳘द्भिः प᳘रिश्रयति॥
(त्या᳘) आ᳘पो वै᳘ परिश्रि᳘तो ऽद्भि᳘रे᳘वैनांस्तत्प᳘रितनोति स वै प᳘र्येव नि᳘दधाति क्षत्र᳘ᳫँ᳘ हैता᳘ ऽअपां याः᳘ खाते᳘न यन्त्य᳘थ हैता व्वि᳘शो या᳘नीमा᳘नि वृथोदका᳘नि स य᳘दमुं[[!!]] खाते᳘न परिश्र᳘यति क्षत्रे त᳘त्क्षत्रं᳘ दधाति क्षत्रं᳘ क्षत्रे᳘ण प᳘रिश्रयत्य᳘थ य᳘दिमान्प᳘र्येव᳘ निद᳘धाति व्विशि तद्वि᳘शं दधाति व्विशा व्वि᳘शं प᳘रिश्रयति ते᳘षां वै या᳘वत्य ऽएव य᳘जुष्मत्यस्ता᳘वत्यः परिश्रि᳘तो या᳘वत्यो᳘ ह्ये᳘वामु᳘ष्य य᳘जुष्मत्यस्ता᳘वत्यः परिश्रि᳘तः क्षत्रा᳘यैव तद्वि᳘शं कृतानुकराम᳘नुवर्त्मानं करोति॥
मूलम् - Weber
अ᳘थैनान्परिश्रि᳘द्भिः प᳘रिश्रयति॥
आ᳘पो वै᳘ परिश्रि᳘तो ऽद्भि᳘रेॗवैनांस्तत्प᳘रितनोति स वै प᳘र्येव नि᳘दधाति क्षत्र᳘ᳫं᳘ हैता᳘ अपां याः᳘ खाते᳘न यन्त्य᳘थ हैता वि᳘शो या᳘नीमा᳘नि वृथोदका᳘नि स य᳘दमुं᳘ खाते᳘न परिश्र᳘यति क्षत्रे त᳘त्क्षत्रं᳘ दधाति क्षत्रं᳘ क्षत्रे᳘ण प᳘रिश्रयत्य᳘थ य᳘दिमान्प᳘र्येव᳘ निद᳘धाति विशि तद्वि᳘शं दधाति विशा वि᳘शम् प᳘रिश्रयति ते᳘षां वै या᳘वत्य एव य᳘जुष्मत्यस्ता᳘वत्यः परिश्रि᳘तो या᳘वत्योॗ ह्येॗवामु᳘ष्य य᳘जुष्मत्यस्ता᳘वत्यः परिश्रि᳘तः क्षत्रा᳘यैव तद्वि᳘शं कृतानुकराम᳘नुवर्त्मानं करोति॥
मूलम् - विस्वरम्
अथैनान्परिश्रिद्भिः परिश्रयति । आपो वै परिश्रितः । अद्भिरेवैनांस्तत्परितनोति । स वै पर्येव निदधाति । क्षत्रं हैता अपां- याः खातेन यन्ति । अथ हैता विशो- यानीमानि वृथोदकानि । स यदमुं खातेन परिश्रयति- क्षत्रे तत् क्षत्रं दधाति । क्षत्रं क्षत्रेण परिश्रयति । अथ यदिमान्पर्येव निदधाति- विशि तद्विशं दधाति । विशा विशं परिश्रयति । तेषां वै यावत्य एव यजुष्मत्यस्तावत्यः परिश्रितः । यावत्यो ह्येवामुष्य यजुष्मत्यः- तावत्यः परिश्रितः । क्षत्रायैव तद्विशं कृतानुकरामनुवर्त्मानं करोति ॥ ९ ॥
सायणः
इष्टकाभिश्चितानां धिष्ण्यानां परिश्रिद्भिः परिश्रयणं विधत्ते- अथैनानिति । आपो वै परिश्रित इति । समुद्रगता आपो यथा पृथिवीं परिश्रयन्ति- तद्वत्परिश्रितो ऽपि धिष्ण्यान् परिश्रयन्ति । तस्मात्परिश्रयणसाधारण्येनैतासामवात्मकत्वम् । चित्याग्नेः परितश्चैताः परिश्रितो धीयन्ते । अतो ऽत्रापि परिश्रयतीति विधानात्तद्वदेव प्रसक्तावाह- स वा इति । ‘पर्येव निदधाति’ परिनिदधात्येव परिनिधानमात्रमेव कर्तव्यम् । न तु खात्वा तन्निधानमित्येवकारार्थः । क्षत्रं हैता इति । ‘अपां’ मध्ये ‘याः खातेन यन्ति’ एताः क्षत्रं खलु । क्षत्रवद्वीर्येण भुवं विदार्य गमनात्प्रतिष्ठितत्वाच्च खातेन गच्छन्तीनामपां क्षत्रत्वम् । अथ ‘यानीमानि’ लौकिकानि ‘वृथोदकानि’ उत्तानदेशगामीनि एताः विशः खलु, विशो हि क्षत्रवत् समर्थ्याभावात्प्रतिष्ठिताश्च न भवन्ति । उत्तानदेशगामीन्यप्युदकानि तद्वदिति तेषां विडात्मकत्वम् । अतश्चामुं चित्याग्निं खातेन परिश्रयतीति यत् तेन क्षत्रे क्षत्रं दधाति क्षत्रं क्षत्रेण परिश्रयति । अथेमान् धिष्ण्यान् परिनिदधात्येवेति यत् तेन विशि एव विशं दधाति । विशा विशं परिश्रयति । अथैतेषां धिष्ण्यानां परिश्रितां परिमाणं विधत्ते 11- तेषां वा इति । तत्र यजुष्मत्य इति उपहिता इष्टका एवोच्यन्ते । न त्वयजुष्मदिष्टकाव्यवच्छेदार्थमेवमुक्तम् । धिष्ण्येषूपधीयमानाः सर्वा अपि इष्टका लोकम्पृणामन्त्रेणोपधीयन्ते- “लोकम्पृणयैवेमानि” इत्युक्तत्वात् । यावत्यो ह्येवामुष्य यजुष्मत्य इति । अनेन लोकम्पृणाव्यतिरिक्तमन्त्रवत्य इष्टका उच्यन्ते । उत्तरत्राग्निरहस्ये तथैव परिगणनात् । एवं च चित्याग्नेर्यथा यजुष्मतीष्टकासङ्ख्यानुरोधेन परिश्रितो ऽभूवन् तद्वदेव धिण्यानामपि भवन्तीति विशं क्षत्राय कृतानुकारिणीमनुगतवर्त्मानं च करोति ॥ ९ ॥
Eggeling
- He then encloses these (hearths) by enclosing-stones;–the enclosing-stones are the waters: it is thus by water that he surrounds them 12. He merely lays them down all round, for those of the waters which flow in a hollow (channel) are the chieftain, and these stray waters are the clansmen; thus, when he encloses that (great fire-altar) by a dug-in (row of stones), he thereby adds power to power, and sure rounds (protects) power by power; and when he merely lays down those (enclosing-stones of the hearths) all round, he thereby adds clansman (or clan) to clansman, and surrounds (protects) clansman by clansman 13. As many bricks with special formulas as
there are (in each hearth) so many enclosing-stones there are (in each); for with that (fire-altar) there are as many enclosing-stones as there are such bricks in it 14: he thus makes the clan obedient and subservient to the chief.
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैषु पु᳘रीषं नि᳘वपति॥
त᳘स्योक्तो ब᳘न्धुस्तूष्णीम᳘निरुक्ता हि व्विड᳘थाग्नीषोमी᳘यस्य पशुपुरोडाशम᳘नु दिशाम᳘वेष्टीर्नि᳘र्व्वपति दि᳘श ऽए᳘षो ऽग्निस्ता᳘भ्य ऽएता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपति त᳘देना हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते प᳘ञ्च भवन्ति प᳘ञ्च हि दि᳘शः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैषु पु᳘रीषं नि᳘वपति॥
त᳘स्योक्तो ब᳘न्धुस्तूष्णीम᳘निरुक्ता हि व्विड᳘थाग्नीषोमी᳘यस्य पशुपुरोडाशम᳘नु दिशाम᳘वेष्टीर्नि᳘र्व्वपति दि᳘श ऽए᳘षो ऽग्निस्ता᳘भ्य ऽएता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपति त᳘देना हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते प᳘ञ्च भवन्ति प᳘ञ्च हि दि᳘शः॥
मूलम् - Weber
अ᳘थैषु पु᳘रीषं नि᳘वपति॥
त᳘स्योक्तो ब᳘न्धुस्तूष्णीम᳘निरुक्ता हि विड᳘थाग्नीषोमी᳘यस्य पशुपुरोडाशम᳘नु दिशाम᳘वेष्टीर्नि᳘र्वपति दि᳘श एॗषो ऽग्निस्ता᳘भ्य एता᳘नि हवीं᳘षि नि᳘र्वपति त᳘देना हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते प᳘ञ्च भवन्ति पञ्च हि दि᳘शः॥
मूलम् - विस्वरम्
अथैषु पुरीषं निवपति । तस्योक्तो बन्धुः । तूष्णीम् । अनिरुक्ता हि विट् । अथाग्नीषोमीयस्य पशुपुरोडाशमनु दिशामवेष्टीर्निर्वपति । दिश एषो ऽग्निः । ताभ्य एतानि हवींषि निर्वपति । तदेना हविषा देवतां करोति । यस्यै वै देवतायै हविर्गृह्यते- सा देवता । न सा- यस्यै न गृह्यते । पञ्च भवन्ति । पञ्च हि दिशः ॥ १० ॥
सायणः
अथैतेषु धिष्ण्येषु पुरीषनिवापं विधाय तस्य ब्राह्मणं (श. प. ८ । ७ । ३ । १) प्रागुक्तमित्याह- अथेति 11 । पूर्वं समंत्रकस्य पुरीषनिवापस्याभिधानादत्रापि तद्वदेव प्रसक्तावाह- तूष्णीमिति । अनिरुक्तेति । क्षत्रं यथा स्वकीयया आज्ञया सर्वमप्यतिक्रम्य व्यक्तं वर्तते तथा विशो न वर्त्तन्त इति विट् ‘अनिरुक्ता’ अव्यक्ता । एवं च विडात्मकेषु धिष्ण्येषु पुरीषनिवपनममन्त्रकमेव युज्यत इत्यर्थः । अथाग्नीषोमीयपशुपुरोडाशात्प्राग्भावि कर्म कृत्वा अग्नीषोमीयस्य पशुपुरोडाशमनु पशुपुरोडाशस्य पश्चाद्दिशामवेष्टीर्निर्वपेत् इत्याह- दिशामवेष्टीरिति 15 । बहुवचनं हविर्बहुत्वापेक्षम् । इष्टेरेकत्वात् । अग्नेः सर्वासु दिक्षु वर्त्तमानत्वेन दिशो ऽग्न्यात्मिकाः । अतस्ताभ्यो दिग्भ्य एतानि हवींषि निरुप्तवान् भवतीत्याह- दिश एषो ऽग्निरिति । ‘तदेना हविषा’ इत्यादिकं तु प्रागेव व्याख्यातम् । दिशामवेष्टीरित्युक्तस्य बहुत्वसामान्यस्य तद्विशेषे पर्यवसानमाह- पञ्च भवन्तीति ॥ १० ॥
Eggeling
- He then scatters a layer of earth on (each of) these (hearths): the significance of this has been explained 16. Silently 17 (he scatters it), for indistinct is the clan (or people). Then, after the cake-offering of the Agnīshomīya (animal sacrifice) 18, he prepares the propitiatory oblations to the Regions;–that fire-altar is the regions: it is to them he offers these oblations, and thus by offering makes them a deity, for only that one is a deity to whom an oblation is offered, but not that to whom if is. not offered. There are five (such oblations), for there are five regions.
११
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
(र्द᳘) द᳘शहविषमे᳘वैतामि᳘ष्टिं नि᳘र्व्वपेत्सा स᳘र्व्वस्तोमा स᳘र्व्वपृष्ठा स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि स᳘र्व्वा दि᳘शः स᳘र्व्व ऽऋत᳘वः स᳘र्व्वम्वेत᳘दय᳘मग्निस्त᳘देनᳫँ᳭ हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते द᳘श भवन्ति द᳘शाक्षरा व्विरा᳘ड्विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
(र्द᳘) द᳘शहविषमे᳘वैतामि᳘ष्टिं नि᳘र्व्वपेत्सा स᳘र्व्वस्तोमा स᳘र्व्वपृष्ठा स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि स᳘र्व्वा दि᳘शः स᳘र्व्व ऽऋत᳘वः स᳘र्व्वम्वेत᳘दय᳘मग्निस्त᳘देनᳫँ᳭ हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते द᳘श भवन्ति द᳘शाक्षरा व्विरा᳘ड्विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - Weber
द᳘दाहुः॥
द᳘शहविषमेॗवैतामि᳘ष्टिं नि᳘र्वपेत्सा स᳘र्वस्तोमा स᳘र्वपृष्ठा स᳘र्वाणि छ᳘न्दांसि स᳘र्वा दि᳘शः स᳘र्व ऋत᳘वः स᳘र्वम्वेत᳘दय᳘मग्निस्त᳘देनᳫं हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते द᳘श भवन्ति द᳘शाक्षरा विरा᳘ड्विराडग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ आग्नेर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - विस्वरम्
तदाहुः । दशहविषमेवैतामिष्टिं निर्वपेत् । सा सर्वस्तोमा, सर्वपृष्ठा, सर्वाणि च्छन्दांसि, सर्वा दिशः, सर्व ऋतवः । सर्वम्वेतदयमग्निः । तदेनं हविषा देवतां करोति । यस्यै वै देवतायै हविर्गृह्यते- सा देवता । न सा- यस्यै न गृह्यते । दश भवन्ति । दशाक्षरा विराट् । विराडग्निः । दश दिशः । दिशो ऽग्निः । दश प्राणाः । प्राणा अग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्नेन प्रीणाति ॥ ११ ॥
सायणः
विहितामिष्टिं पूर्वपक्षीकृत्य तत्रेष्ट्यन्तरं विधत्ते- तदाहुरिति । ‘तत्’ तत्राग्नीषोमीयस्य पशुपुरोडाशे दशहविषमेवैतमिष्टिं निर्वपेत् । विहितेष्टिस्थाने दशहविषमिष्टिं सर्वपृष्ठेष्टिमेव निर्वपेत् । नतु पूर्वोक्तामिष्टिमित्यर्थः । पूर्वोक्तामिष्टिमतिक्रम्यैतदिष्टिस्वीकारे कारणमाह- सर्वस्तोमेति । ‘सा’ इष्टिः त्रिवृदादिभिः सर्वैः स्तोमैः, रथन्तरादिभिः सर्वैः पृष्ठैश्च विशिष्टा । सर्वाणि च छन्दांसि, तद्विशिष्टत्वात् । सर्वाश्च दिशः तदीयानां पुरो ऽनुवाक्यानां तल्लिङ्गत्वात् । सर्वे च ऋतवस्तद्विशिष्टत्वात् । अत एव तैत्तिरीयके श्रूयते- “अग्नये गायत्राय त्रिवृते राथन्तराय वासन्तायाष्टाकपालः” इत्यादि (तै. सं. ७ । ५ । १४ । ४) “दिग्वतीः पुरोनुवाक्या भवन्ति सर्वासां दिशामभिजित्यै” इति च (तै. सं. ७ । ५ । १५) । अयमग्निरेतत्सर्वजगदात्मकः । तथा च सर्वात्मकायाग्नये सर्वस्तोमादिविशिष्टेष्टिरूपसम्पन्नेत्यर्थः । तदेनमित्येतद्व्याख्यातम् । अथात्र हविःसङ्ख्यां प्रशंसति- दश भवन्तीति । दशाक्षरा विराडित्येतदपि प्रागेव व्याख्यातम् ॥ ११ ॥
Eggeling
- As to this they say,–Let him prepare this
offering (ishṭi) so as to consist of material for ten oblations;–this (offering) is (performed) with all the stomas and all the pr̥shṭḥa (sāmans) 19; and there are (used in it) all the metres, all the regions, all the seasons–and this Agni (the fire-altar) is all this: he thus, by the (amount of) offering material (taken out for the ishṭi), makes (Agni) the deity 20; for only that one is the deity for whom the oblation is prepared, not one for whom it is not prepared. There are (in that case) ten (oblations),–the Virāj (metre) consists of ten syllables, and Agni is virāj (far-shining, or far-ruling); there are ten regions, and Agni (the fire-altar) is the regions; ten vital airs, and Agni is the vital airs: as great as Agni is, as great as is his measure, with so much food he thus gratifies him.
१२
विश्वास-प्रस्तुतिः
तत्त्वै᳘ देव᳘स्वामे᳘व[[!!]]॥
(वै) एता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपेदेता᳘ ह देव᳘ताः सुता᳘ ऽएते᳘न सवे᳘न ये᳘नैत᳘त्सोष्य᳘माणो भ᳘वति ता᳘ ऽए᳘वैत᳘त्प्रीणाति ता᳘ ऽअस्मा ऽइष्टाः᳘ प्रीता᳘ ऽएत᳘ᳫँ᳘ सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्य᳘देता᳘ देव᳘ताः सुता᳘ ऽएते᳘न सवे᳘न य᳘द्वैनमेता᳘ देव᳘ता ऽएत᳘स्मै सवा᳘य सुव᳘ते त᳘स्मादेता᳘ देव᳘स्वः[[!!]]॥
मूलम् - श्रीधरादि
तत्त्वै᳘ देव᳘स्वामे᳘व[[!!]]॥
(वै) एता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपेदेता᳘ ह देव᳘ताः सुता᳘ ऽएते᳘न सवे᳘न ये᳘नैत᳘त्सोष्य᳘माणो भ᳘वति ता᳘ ऽए᳘वैत᳘त्प्रीणाति ता᳘ ऽअस्मा ऽइष्टाः᳘ प्रीता᳘ ऽएत᳘ᳫँ᳘ सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्य᳘देता᳘ देव᳘ताः सुता᳘ ऽएते᳘न सवे᳘न य᳘द्वैनमेता᳘ देव᳘ता ऽएत᳘स्मै सवा᳘य सुव᳘ते त᳘स्मादेता᳘ देव᳘स्वः[[!!]]॥
मूलम् - Weber
तत्त्वै᳘ 21 देवॗस्वामेव᳟॥
एता᳘नि हवीं᳘षि नि᳘र्वपेदेता᳘ ह देव᳘ताः सुता᳘ एते᳘न सवे᳘न ये᳘नैत᳘त्सोष्य᳘माणो भ᳘वति ता᳘ एॗवैत᳘त्प्रीणाति ता᳘ अस्मा इष्टाः᳘ प्रीता᳘ एत᳘ᳫं᳘ सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्य᳘देता᳘ देव᳘ताः सुता᳘ एते᳘न सवे᳘न य᳘द्वैनमेता᳘ देव᳘ता एत᳘स्मै सवा᳘य सुव᳘ते त᳘स्मादेता᳘ देवस्वः᳟॥
मूलम् - विस्वरम्
तत्त्वै देवस्वामेवैतानि हवींषि निर्वपेत् । एता ह देवताः सुताः- एतेन सवेन- येनैतत्सोष्यमाणो भवति । ता एवैतत्प्रीणाति । ता अस्मा इष्टाः प्रीता एतं सवमनुमन्यन्ते । ताभिरनुमतः सूयते । यस्मै वै राजानो राज्यमनुमन्यन्ते- स राजा भवति । न सः- यस्मै न । तद्यदेता देवताः सुताः- एतेन सवेन, यद्वैनमेता देवता एतस्मै सवाय सुवते- तस्मादेता देवस्वः ॥ १२ ॥
सायणः
पूर्ववद्देवतामयीष्टिं पक्षीकृत्येष्ट्यन्तरं विधत्ते- तत्त्वै देवस्वामेवेति । देवताः सुता इत्येतत् “राष्ट्रभृतो जुहोति” इत्यत्र व्याख्यातम् । देवसूशब्दप्रवृत्तिनिमित्तं द्वेधा दर्शयति- तद्यदेता देवता इति । एता अग्न्यादयो देवताः ‘एतेन’ पूर्वोक्तेन ‘सवेन’ ‘सुताः’ इति ‘यत्’ यद्वा- एता देवता एनं यजमानम् ‘एतस्मै सवाय सुवते’ इति यत् तस्मादेता देवस्व इति कर्मणि कर्तरि च द्वेधा व्युत्पत्तिर्दर्शिता ॥ १२ ॥
Eggeling
- But, indeed, he may also take out these oblations for the Divine Quickeners 22; for these are the deities which become consecrated by this consecration ceremony by which he is now to be consecrated: it is them he thus gratifies, and gratified by offering they permit him (to perform) this consecration ceremony, and with their permission he is
consecrated; for only he becomes king whom the (other) kings allow (to assume) the royal dignity, but not he whom they do not (allow to assume it). And inasmuch as these deities are consecrated (quickened) by this consecration ceremony and quicken him for this consecration, they are (called) the Divine Quickeners.
१३
विश्वास-प्रस्तुतिः
(स्ता) ता वै द्वि᳘नाम्न्यो भवन्ति॥
द्वि᳘नामा वै᳘ सवे᳘न सुतो᳘ भवति य᳘स्मै वै᳘ सवा᳘य सूय᳘ते ये᳘न वा सवे᳘न सूय᳘ते त᳘दस्य द्विती᳘यं ना᳘म॥
मूलम् - श्रीधरादि
(स्ता) ता वै द्वि᳘नाम्न्यो भवन्ति॥
द्वि᳘नामा वै᳘ सवे᳘न सुतो᳘ भवति य᳘स्मै वै᳘ सवा᳘य सूय᳘ते ये᳘न वा सवे᳘न सूय᳘ते त᳘दस्य द्विती᳘यं ना᳘म॥
मूलम् - Weber
ता वै द्वि᳘नाम्न्यो भवन्ति॥
द्वि᳘नामा वै᳘ सवे᳘ना सुतो᳘ भवति य᳘स्मै वै᳘ सवा᳘य सूय᳘ते ये᳘न वा सवे᳘न सूय᳘ते त᳘दस्य द्विती᳘यम् ना᳘म॥
मूलम् - विस्वरम्
ता वै द्विनाम्न्यो भवन्ति । द्विनामा वै सवेन सुतो भवति । यस्मै वै सवाय सूयते- येन वा सवेन सूयते- तदस्य द्वितीयं नाम ॥ १३ ॥
सायणः
अथैतासामग्न्यादिदेवतानां नामद्वयसंबन्धमुपपादयति- सा वै द्विनाम्न्य इति । द्विनामा वा इति । सवेन सुतो द्विनामा भवति खलु । तदेव द्वितीयं नाम दर्शयति- यस्मै वै सवाय इति । राजसूयक्रतुसंबन्धिना सवेन सुतश्चेद्राजसूययाजीत्येवमादि द्विनामा भवति । देवस्वामेवैतानि हवींषीति सामान्येन विधानादेषां संख्याविशेषं विधाय प्रशंसति- अष्टौ भवन्तीति ॥ १३ ॥ १४ ॥
Eggeling
- These (deities) come to have two. names, as he who is consecrated by the rite of consecration comes to have two names; for the very rite of consecration for which he is quickened, and by which he is consecrated (quickened), is his second name 23.
१४
विश्वास-प्रस्तुतिः
(मा) अष्टौ᳘ भवन्ति॥
(न्त्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - श्रीधरादि
(मा) अष्टौ᳘ भवन्ति॥
(न्त्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - Weber
अष्टौ᳘ भवन्ति॥
अष्टा᳘क्षरा गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - विस्वरम्
अष्टौ भवन्ति । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्नेन प्रीणाति ॥ १४ ॥
सायणः
[व्याख्यानं त्रयोदशे]
Eggeling
- There are eight (such deities),–the Gāyatrī consists of eight syllables, and Agni is of Gāyatra nature: as great as Agni is, as great as is his measure, by so much food he thus gratifies him.
१५
विश्वास-प्रस्तुतिः
त᳘दाहुः᳘॥
(र्नै) नैता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपेन्ने᳘दतिरेच᳘यानी᳘ति ता᳘नि वै नि᳘र्व्वपेदेव का᳘मेभ्यो वा᳘ ऽएता᳘नि हवी᳘ᳫँ᳘षि नि᳘रुप्यन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति यद्वै किं᳘ च पशुपुरोडाशम᳘नु हवि᳘र्निरुप्य᳘ते पशा᳘वेव स᳘ मध्यतो मे᳘धो धीयत ऽउभ᳘यानि नि᳘र्व्वपत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्व्वम᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुरुच्चैः᳘ पशुपुरोडाशो भ᳘वत्युपा᳘ᳫँ᳘श्वेतानी᳘ष्टिर्ह्य᳘नुब्रूहि प्रेष्ये᳘ति पशुपुरोडाशस्याहा᳘नुब्रूहि यजे᳘त्येते᳘षामि᳘ष्टिर्हि᳘ समानः᳘ स्विष्टकृ᳘त्समानी᳘डेष्टा᳘ देव᳘ता भवन्त्य᳘समवहितᳫँ᳭ स्विष्टकृते[[!!]]॥
मूलम् - श्रीधरादि
त᳘दाहुः᳘॥
(र्नै) नैता᳘नि हवी᳘ᳫँ᳘षि नि᳘र्व्वपेन्ने᳘दतिरेच᳘यानी᳘ति ता᳘नि वै नि᳘र्व्वपेदेव का᳘मेभ्यो वा᳘ ऽएता᳘नि हवी᳘ᳫँ᳘षि नि᳘रुप्यन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति यद्वै किं᳘ च पशुपुरोडाशम᳘नु हवि᳘र्निरुप्य᳘ते पशा᳘वेव स᳘ मध्यतो मे᳘धो धीयत ऽउभ᳘यानि नि᳘र्व्वपत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्व्वम᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुरुच्चैः᳘ पशुपुरोडाशो भ᳘वत्युपा᳘ᳫँ᳘श्वेतानी᳘ष्टिर्ह्य᳘नुब्रूहि प्रेष्ये᳘ति पशुपुरोडाशस्याहा᳘नुब्रूहि यजे᳘त्येते᳘षामि᳘ष्टिर्हि᳘ समानः᳘ स्विष्टकृ᳘त्समानी᳘डेष्टा᳘ देव᳘ता भवन्त्य᳘समवहितᳫँ᳭ स्विष्टकृते[[!!]]॥
मूलम् - Weber
त᳘दाहुः᳟᳟॥
नैता᳘नि हवीं᳘षि नि᳘र्वपेन्ने᳘दतिरेच᳘यानी᳘ति ता᳘नि वै नि᳘र्वपेदेव का᳘मेभ्यो वा᳘ एता᳘नि हवीं᳘षि नि᳘रुप्यन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति यद्वै किं᳘ च पशुपुरोडाशम᳘नु हविर्निरुप्य᳘ते पशा᳘वेव स मध्यतो मे᳘धो धीयत उभ᳘यानि नि᳘र्वपत्यध्वर᳘स्य चाग्ने᳘श्चाध्वर᳘स्य पू᳘र्वम᳘थाग्नेस्त᳘स्योक्तो ब᳘न्धुरुच्चैः᳘ पशुपुरोडाशो भ᳘वत्युपांॗश्वेतानी᳘ष्टिर्ह्य᳘नुब्रूहि प्रेष्ये᳘ति पशुपुरोडाशस्याहा᳘नुब्रूहि यजे᳘त्येते᳘षामि᳘ष्टिर्हि᳘ समानः᳘ स्विष्टकृ᳘त्समानी᳘डेष्टा᳘ देव᳘ता भवन्त्य᳘समवहितᳫं स्विष्टकृ᳘ते॥
मूलम् - विस्वरम्
तदाहुः- नैतानि हवींषि निर्वपेत्- नेदतिरेचयानीति । तानि वै निर्वपेदेव । कामेभ्यो वा एतानि हवींषि निरुप्यन्ते । न वै कामानामतिरिक्तमस्ति । यद्वै किं च पशुपुरोडाशमनु हविर्निरूप्यते- पशावेव स मध्यतो मेधो धीयते । उभयानि निर्वपति- अध्वरस्य चाग्नेश्च । अध्वरस्य पूर्वम् । अथाग्नेः । तस्योक्तो बन्धुः । उच्चैः पशुपुरोडाशो भवति, उपांश्वेतानि । इष्टिर्हि । ‘अनुब्रूहि प्रेष्य’- इति पशुपुरोडाशस्याह । ‘अनुब्रूहि यज’ इत्येतेषाम् । इष्टिर्हि । समानः स्विष्टकृत् । समानीडा । इष्टा देवता भवन्ति । असमवहितं स्विष्टकृते ॥ १५ ॥
सायणः
तदाहुर्नैतानि हवींषीत्येतत्तु पुरस्ताद्व्याख्यातम् । ननु च कामानामतिरेकाभावेन निर्वाप्यत्वे ऽपि पशुपुरोडाशमनुलक्ष्यैव कस्मान्निरुप्यन्त इति तत्राह- यद्वै किञ्चेति । ‘मेधो’ रसः । उभयानि निर्वपतीति । पशुपुरोडाशो देवस्वां हवींषि चेज्यन्ते । गतमन्यत् । इष्टिर्हीति । काम्येष्टिषु प्रधानस्योपांशुत्वमिति व्यवस्थितत्वात् अस्या अपि कामार्थेष्टित्वादित्यर्थः । अनुब्रूहि यजेत्येतेषामिष्टिर्हीति । इष्ट्यामध्वरत्वान्मैत्रावरुणो नास्तीति अनुब्रूहि यजेत्येव ब्रूयात् । स्पष्टमन्यत् । अथ देवतायागानन्तरं स्विष्टकृदवदानात्पूर्वं 24 सविता त्वा सवानामित्यादिना पूर्वाभिषेकाख्येन मंत्रेणैनमग्निमभिमृशेदित्याह- इष्टा देवता भवन्तीति । “इमं देवाः” इति मन्त्रे “सोमो ऽस्माकं ब्राह्मणानां राजा” इत्यनेन ब्राह्मणानेव विभजति । तेन ब्राह्मणान्प्रति क्षत्रस्य राजन्यत्वात्तानभोज्यान्करोतीत्याह- ब्राह्मणानेवेति ॥ १५ ॥ १६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे चतुर्थे ऽध्याये तृतीयं ब्राह्मणम् ॥ (९-४-३) ॥
Eggeling
- As to this they say,–He ought not to offer (any of) these oblations, lest he should do what is excessive. Let him nevertheless offer them; for these oblations are offered for (the obtainment of special) wishes, and in wishes there is nothing excessive. And whatsoever oblation he offers after the Paśupuroḍāśa (the cake-offering connected with the animal sacrifice), that is placed inside the animal victim itself as its sacrificial sap 25. He offers both kinds (of oblations), those of the Soma-sacrifice and those of the fire-altar (or Agnicayana), first those of the
Soma-sacrifice, and afterwards those of the fire-altar the purport of this has been explained. In a loud voice 26 the Paśupuroḍāśa offering (is performed), in a low voice these (additional oblations), for they are an ishṭi 27. With the Paśupuroḍāśa he (the Adhvaryu) says, ‘Recite!–Urge!’ and with these (oblations), ‘Recite!–Worship 28’ for they are an ishṭi. There is the same Svishṭakr̥t and the same iḍā 29 (for these oblations). The (Devasū) deities have received offering, and the Svishṭakr̥t (of the Paśupuroḍāśa) has not yet been attended to 30,–
१६
विश्वास-प्रस्तुतिः
(ते᳘ ऽथै) अ᳘थैनं पूर्व्वाभिषेके᳘णाभि᳘मृशति॥
सविता᳘ त्वा सवा᳘नाᳫँ᳭ सुवतामेष᳘ वो ऽमी रा᳘जा सो᳘मो ऽस्मा᳘कं ब्राह्मणा᳘नाᳫँ᳭ राजे᳘ति ब्राह्मणा᳘ने᳘वापो᳘द्धरत्यनाद्या᳘न्करोति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथै) अ᳘थैनं पूर्व्वाभिषेके᳘णाभि᳘मृशति॥
सविता᳘ त्वा सवा᳘नाᳫँ᳭ सुवतामेष᳘ वो ऽमी रा᳘जा सो᳘मो ऽस्मा᳘कं ब्राह्मणा᳘नाᳫँ᳭ राजे᳘ति ब्राह्मणा᳘ने᳘वापो᳘द्धरत्यनाद्या᳘न्करोति॥
मूलम् - Weber
अ᳘थैन पूर्वाभिषेके᳘णाभि᳘मृशति॥
सविता᳘ त्वा सवा᳘नाᳫं सुवतामेष᳘ वो ऽमी रा᳘जा सो᳘मो ऽस्मा᳘कम् ब्राह्मणा᳘नां राजे᳘ति ब्राह्मणा᳘नेॗवापो᳘द्धरत्यनाद्या᳘न्करोति॥
मूलम् - विस्वरम्
अथैनं पूर्वाभिषेकेणाभिमृशति । “सविता त्वा सवानां सुवताम् । एष वो ऽमी राजा सोमो ऽस्माकं ब्राह्मणानां राजा”- (वा. सं. ९ । ३९ । ४०) इति । ब्राह्मणानेवापोद्धरति । अनाद्यान्करोति ॥ १६ ॥
सायणः
[व्याख्यानं पञ्चदशे]
इति धिष्ण्याग्निचयनम् ।
अग्निचयनं वृत्तम् ।
Eggeling
- He then touches it (the fire-altar) with (the formula of) the preliminary consecration (Vāj. S. IX, 39. 40), ‘May Savitr̥ quicken thee for (powers of) quickening 31! . . . This (man), O ye (people), is your king; Soma is the king of us Brāhmaṇas!’–he thereby excludes the Brāhmaṇas (from the power of the king) and makes them such as are not to be fed upon (by the king).
-
241:1 A Soma-sacrifice being about to be performed on the newly erected fire-altar, now properly consecrated, all the necessary preparatory business and ceremonial enjoined for such a sacrifice have now to be gone through in the way detailed in part ii of this translation. The author here only alludes to those points in the Soma-ritual in regard to which the present performance offers any special feature either additional to, or modificatory of, the ordinary ceremonial. The construction of the Dhishṇyas, or fire-hearths of the different priests (for which see part ii, p. 148, note 4), is one of these points. ↩︎
-
242:1 See p. 132, note 2. ↩︎
-
242:2 There are eight dhishṇya-hearths at the Soma-sacrifice, two of which, the Āgnīdhrīya and Mārjālīya, were raised north and south of the cart-shed (havirdhāna), whilst the others (viz. those of the Hotr̥, &c.) were raised inside the Sadas along its eastern side. They were merely mounds of earth covered with sand, whilst the additional hearths (of the fire-altar) now to be erected are partly built of bricks. ↩︎
-
243:1 See VII, 1, 1, 21 seq., where the way in which the bricks of the Gārhapatya hearth are laid down is described in detail. ↩︎
-
243:2 When Agni was led forwards from the Gārhapatya to be installed on his newly built altar, as the Āhavanīya or offering fire, a variegated stone, meant to represent the sun, was deposited near the place (on the northern edge of the Vedi) where the Āgnīdhra shed and hearth would afterwards have to be erected; see IX, 2, 3, 14-19. ↩︎
-
243:3 That is, including the central one, the outlet of which is the navel; cf. VIII, 1, 3, 10. ↩︎
-
अष्टेष्टकां लोकंपृणाभिश्चतुःस्रक्तीस्तिरश्चो न्युप्य न्युप्य । पृश्न्यश्मा चाग्नीध्रीये । सकृन्मंत्रवचनम् । होत्रीये त्रिरेकविँशत्या । ब्राह्मणाच्छँस्ये द्विरेकादशसु षण्मार्ज्जालीये । शेषा अष्टेष्टकाः । का. श्रौ. सू. १८ । ९३-९८ । ↩︎
-
243:4 The numbers of bricks and enclosing-stones are the same as for the Gārhapatya hearth, for which (with their symbolic meaning) see VII, I, I, 32-35. ↩︎
-
244:1 Sāyaṇa refers to a passage in the Taittirīyaka, according to which a dying man is changed to whatever season he dies in, whence the six seasons are the representatives of all the deceased ancestors. Since the Fathers reside in the southern region it is from that quarter that, by laying down the bricks, they are supposed to raise a rampart for the Mārjālīya fire. ↩︎
-
244:2 Viz. on the southern edge of the Vedi, exactly south of the Āgnīdhrīya, whilst the other dhishṇyas run in a line from north to south to the left of the space between the Āgnīdhrīya and Mārjālīya. The other hearths, together with the great fire-altar occupying the eastern part of the Vedi, would thus, as it were, face the Mārjālīya in a semicircle. See the plan of the Sacrificial ground, part ii, p. 475. ↩︎
-
यावदिष्टकं परिश्रितः परिनिधाय । का. श्रौ. सू. १८ । ९९ । ↩︎ ↩︎
-
244:3 That is, as the earth is surrounded by the ocean (VII, 1, 1, 13), or a stronghold by a moat. ↩︎
-
244:4 Viz. inasmuch as the fire-altar and the Āhavanīya fire on it, as well as the dug-in circle of enclosing-stones, are identified with the ruling power; whilst the dhishṇyas as well as the circles of stones lying loosely around them represent the clan. ↩︎
-
245:1 This is not clear to me: whilst there are 395 such bricks with special formulas in the five layers of the great altar, it is enclosed by only 261 pariśrits; see p. 158, note 1. Besides there are no ‘yajushmatī’ bricks in these hearths, but only ’lokampr̥ṇās’; one would therefore expect ‘ishṭakās’ (bricks) for ‘yajushmatyas’ the first time (cf. comm. on Kāty. Śr. XVIII, 7, 13). The Hotr̥’s hearth contains twenty-one bricks, the Brāhmaṇācchaṁsin’s eleven, the Mārjālīya six, and the others eight bricks; and in each case the common formula, ‘Lokam pr̥ṇa, &c,’ (see VIII, 7, 2, 6), is pronounced once after every ten bricks, and after any odd bricks remaining over at the end. Cf. Kāty. Śr. XVIII, 6, 8 seq. ↩︎
-
राजसूये अग्नीषोग्नीयस्य पशुपुरोडाशमनु देवसूहवींषि निर्व्वपति यजप्रैषाणि । का. श्रौ. सू. १५। ८४ । ↩︎
-
245:2 See VIII, 7, 3, 1 seq. ↩︎
-
245:3 He does not use any such formula as that used in covering each layer of the great altar with earth; see VIII, 7, 3, 7. ↩︎
-
245:4 See part ii, p. 199, note 2 (where the reference at the end should be to IV, 2, 5, 22). ↩︎
-
246:1 See part iii, introduction, p. xx seq. ↩︎
-
246:2 As Sāyaṇa points out, the Taittirīyas make Agni the deity of this ishṭi, the invitatory formulas (puronuvākyā) of the different havis (oblations) naming him each time with different epithets relating to different metres, stomas, pr̥shṭḥas, and seasons. Cf. Taitt. S. I, 8, 4: Taitt. Br. I, 8, 19. ↩︎
-
तत्त्वै A. तत्वै or तन्वै BC. ↩︎
-
246:3 For these eight deities (Savitr̥ Satyaprasava, Agni Gr̥hapati, &c.), to whom offering is made at the Abhishecanīya or Consecration ceremony of the Rājasūya, between the chief oblation of the animal cake-offering (Paśupuroḍāśa) and its Svishṭakr̥t, whilst the whole of the Paśupuroḍāśa is again performed in the middle of the animal sacrifice, see part iii, p. 69 seq. ↩︎
-
247:1 That is to say, for example, he who has performed the Vājapeya is called Vājapeya-yājin, Sāy. ↩︎
-
अनुपदेशाद्या पुरोडाशस्विष्टकृतो ऽभिषेचनीयवत् । का. श्रौ. सू. १८ । १०१ ॥ ↩︎
-
247:2 These oblations, as well as those of the Paśupuroḍāśa, inserted as they are in the middle of the animal offering,–just after the offering of the omentum of the victim,–are supposed to supply to the victim its sacrificial sap or essence which was taken out of it in the shape of the omentum. See III, 8, 3, 2. ↩︎
-
248:1 That is, in the formulas the name of the deity to whom the oblation is offered is pronounced in a loud voice. ↩︎
-
248:2 That is, a ‘kāmyeshṭi,’ or offering for the obtainment of some special object, which has to be performed in a low voice; see I, 3, 5, 10. ↩︎
-
248:3 Or, ‘Pronounce the offering-prayer!’ For these two latter calls (anubrūhi!–yaja!), by which the Adhvaryu calls on the Hotr̥ to pronounce the invitatory prayer (anuvākyā or puronuvākyā) and the offering-prayer (yājyā) respectively, at ishṭis, see I, 5, 2, 8-10 and I, 5, 3, 8; and for the first two (anubrūhi!–preshya!), by the former of which the Adhvaryu calls on the Hotr̥ to recite the invitatory prayer; whilst by the latter he calls on the Maitrāvaruṇa to ‘urge’ (or prompt’) the Hotr̥ to pronounce the offering-prayer at the animal sacrifice, see III, 8, 1, 4 with note (where attention might have been called to the difference that exists between the ishṭi and the animal sacrifice in regard to the formula by which the Adhvaryu calls for the recitation of the offering-prayer). In regard to this point there is, however, a difference of opinion between the Mādhyandina and the Kāṇva schools, the latter using for the Paśupuroḍāśa on this occasion, as well as on that of the Rājasūya, the same calls as those of the inserted ishṭis; cf. Kāty. Śr. XV, 4, 18-20. ↩︎
-
248:4 For the Svishṭakr̥t, or oblation to Agni, ’the maker of good offering,’ offered after the chief oblations, see I, 7, 3, 1 seq.; for the iḍā-oblation (and invocation of Iḍā), I, 8, 1, 1 seq. ↩︎
-
248:5 The tentative meaning assigned to ‘asamavahitam,’ ’not in immediate connection with (the Svishṭakr̥t),’ can scarcely be right. The clause seems simply to mean that the (pūrvābhisheka) touching of the altar is to take place, as in the case of the (preliminary) consecration at the Rājasūya, immediately after the oblations to the Divine Quickeners, and before the Svishṭakr̥t oblation of the Paśupuroḍāśa has been performed. See V, 3, 3, 50, where a somewhat similar expression is used. One might have some doubt as to whether, both here and at the Rājasūya, there is any Svishṭakr̥t at all to these Devasū-havīṁshi, or whether the statement, ‘There is the same svishṭakr̥t and the same iḍā,’ applies not to them merely, but to them and the Paśupuroḍāśa. If this latter alternative were the correct one, we should, however, expect that something had been said on this point in connection with the Devasū oblations of the Rājasūya; and moreover the nature of the two oblations seems too different for such a partial identification, requiring as they do different ‘praishas,’ or calls, in the Svishṭakr̥t (viz. ‘yaja’ the one, and ‘preshya’ the other); see also IX, 5, 1, 40, and note 3, p. 248; also Kāty. Śr. V, II, 23-24. ↩︎
-
249:1 For the complete formulas, see V, 3, 3, 11, 12. ↩︎