०१

विश्वास-प्रस्तुतिः

अ᳘थ व्वातहोमा᳘ञ्जुहोति॥
(ती) इमे वै᳘ लोका᳘ ऽए᳘षो ऽग्नि᳘र्व्वायु᳘र्व्वातहोमा᳘ ऽएषु त᳘ल्लोके᳘षु व्वायुं᳘ दधाति त᳘स्मादय᳘मेषु᳘ लोके᳘षु व्वायुः [[!!]]॥

मूलम् - श्रीधरादि

अ᳘थ व्वातहोमा᳘ञ्जुहोति॥
(ती) इमे वै᳘ लोका᳘ ऽए᳘षो ऽग्नि᳘र्व्वायु᳘र्व्वातहोमा᳘ ऽएषु त᳘ल्लोके᳘षु व्वायुं᳘ दधाति त᳘स्मादय᳘मेषु᳘ लोके᳘षु व्वायुः [[!!]]॥

मूलम् - Weber

अ᳘थ वातहोमा᳘न्जुहोति॥
इमे वै᳘ लोका᳘ एॗषो ऽग्नि᳘र्वायु᳘र्वातहोमा᳘ एषु त᳘ल्लोके᳘षु वायुं᳘ दधाति त᳘स्मादय᳘मेषु᳘ लोके᳘षु वायुः᳟॥

मूलम् - विस्वरम्

अथ वातहोमाः ।

अथ वातहोमाञ्जुहोति । इमे वै लोका एषो ऽग्निः, वायुर्वातहोमाः । एषु तल्लोकेषु वायुं दधाति । तस्मादयमेषु लोकेषु वायुः ॥ १ ॥

सायणः

उक्तहोमानन्तरं वातहोमान्कुर्यादिति विधत्ते- अथेति । एतस्याग्नेः पृथिव्यादिलोकात्मकत्वाद्वातहोमानां वायुत्वात् तैर्होमैः पृथिव्यादिषु लोकेषु वायुं निहितवान् भवतीत्याह- इमे वै लोका इति ॥ १ ॥

Eggeling
  1. He then offers (three) oblations of air;–this fire-altar is these (three) worlds, and the oblations of air are wind: he thus places the wind into these worlds, and hence there is wind here in these worlds.

०२

विश्वास-प्रस्तुतिः

(र्बा᳘) बा᳘ह्येनाग्निमा᳘हरति॥
(त्या) आप्तो वा᳘ ऽअस्य स᳘ व्वायुर्य[[!!]] ऽएषु᳘ लोकेष्व᳘थ य᳘ इमाल्ँ᳘लोकान्प᳘रेण व्वायुस्त᳘मस्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(र्बा᳘) बा᳘ह्येनाग्निमा᳘हरति॥
(त्या) आप्तो वा᳘ ऽअस्य स᳘ व्वायुर्य[[!!]] ऽएषु᳘ लोकेष्व᳘थ य᳘ इमाल्ँ᳘लोकान्प᳘रेण व्वायुस्त᳘मस्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

बा᳘ह्येनाग्निमा᳘हरति॥
आप्तो वा᳘ अस्य स᳘ वायुर्य᳘ एषु᳘ लोकेष्व᳘थ य᳘ इमां᳘लोकान्प᳘रेण वायुस्त᳘मस्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

बाह्येनाग्निमाहरति । आप्तो वा अस्य स वायुः- य एषु लोकेषु । अथ य इमांल्लोकान्परेण वायुः- तमस्मिन्नेतद्दधाति ॥ २ ॥

सायणः

होष्यमाणो वायुरग्नेर्बाह्यप्रदेशादाहरणीय इत्याह- बाह्येनाग्निमिति । एवं चाग्नेर्लोकत्रयात्मकत्वेन लोकत्रयावस्थितस्य वायोः प्रागेवाप्तत्वात्ततो बहिरवस्थितस्य वायोर्निधानमस्मिन्नग्नौ संपाद्यत इत्याह- आप्तो वा अस्येति । वेद्याः पृथिव्यात्मकत्वात्तत्रत्यस्यापि वायोः पूर्वमेवाप्तत्वाद्वेदेर्बहिराहरेदित्याह- बहिर्वेदेरिति ॥ २॥ ॥ ३ ॥ ॥

Eggeling
  1. He takes (the air) from outside the Vedi; for that wind which is in these worlds is already contained in this (fire-altar), and he now puts into it that wind which is beyond these worlds.

०३

विश्वास-प्रस्तुतिः

बहिर्व्वेदेरियं᳘ वै व्वे᳘दिः॥
(रा) आप्तो वा᳘ ऽअस्य स᳘ व्वायु᳘र्यो ऽस्याम᳘थ य᳘ ऽइमां प᳘रेण व्वायुस्त᳘मस्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

बहिर्व्वेदेरियं᳘ वै व्वे᳘दिः॥
(रा) आप्तो वा᳘ ऽअस्य स᳘ व्वायु᳘र्यो ऽस्याम᳘थ य᳘ ऽइमां प᳘रेण व्वायुस्त᳘मस्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

बहिर्वेदेरियं᳘ वै वे᳘दिः॥
आप्तो वा᳘ अस्य स᳘ वायु᳘र्यो ऽस्याम᳘थ य᳘ इमाम् प᳘रेण वायुस्त᳘मस्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

बहिर्वेदेः । इयं वै वेदिः । आप्तो वा अस्य स वायुः- यो ऽस्याम् । अथ य इमां परेण वायुः- तमास्मिन्नेतद्दधाति ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. From outside the Vedi (he takes it),–for the Vedi is this (earth), and the wind which is on this (earth) is already contained in this (fire-altar): he now puts into it the wind which is beyond this (earth).

०४

विश्वास-प्रस्तुतिः

(त्य) अञ्जलि᳘ना॥
न᳘ ह्येतस्ये᳘तीवाभि᳘पत्तिर᳘स्ति स्वाहाकारे᳘ण जुहो᳘ति᳘ ह्य᳘धो ऽधो धु᳘रमसौ वा᳘ ऽआदित्य᳘ ऽएष र᳘थो ऽर्व्वाची᳘नं त᳘दादित्या᳘द्वायुं[[!!]] दधाति त᳘स्मादे᳘षो ऽर्व्वाची᳘नमेवा᳘तः पवते॥

मूलम् - श्रीधरादि

(त्य) अञ्जलि᳘ना॥
न᳘ ह्येतस्ये᳘तीवाभि᳘पत्तिर᳘स्ति स्वाहाकारे᳘ण जुहो᳘ति᳘ ह्य᳘धो ऽधो धु᳘रमसौ वा᳘ ऽआदित्य᳘ ऽएष र᳘थो ऽर्व्वाची᳘नं त᳘दादित्या᳘द्वायुं[[!!]] दधाति त᳘स्मादे᳘षो ऽर्व्वाची᳘नमेवा᳘तः पवते॥

मूलम् - Weber

अञ्जलि᳘ना॥
नॗ ह्येतस्ये᳘तीवाभि᳘पत्तिर᳘स्ति 1 स्वाहाकारे᳘ण जुहो᳘ति ह्य᳘धो ऽधो धु᳘रमसौ वा आदित्य᳘ एष र᳘थो ऽर्वाची᳘नं त᳘दादित्या᳘द्वायुं᳘ दधाति त᳘स्मादेॗषो ऽर्वाची᳘नमेवा᳘तः पवते॥

मूलम् - विस्वरम्

अञ्जलिना । न ह्येतस्येतीवाभिपत्तिरस्ति । स्वाहाकारेण । जुहोति हि । अधो ऽधो धुरम् । असौ वा ऽआदित्य एष रथः । अर्वाचीनं तदादित्याद्वायुं दधाति । तस्मादेषो ऽर्वाचीनमेवातः पवते ॥ ४ ॥

सायणः

तच्चाहरणमञ्जलिना कर्तव्यमित्याह- अञ्जलिनेति । ननु वायोर्होमद्रव्यत्वाज्जुह्वादिना कस्मान्नाहरेदित्यत आह- न ह्येतस्येति । ‘इतीव’ इत्यभिनयेन दर्शितम् । ‘एतस्य’ वायोः ‘इतीव’ आज्यादिवत् स्कन्दनाद्यभिपत्तिर्नास्ति । आ अभिपत्तिरिति पदविभागः । तस्मादञ्जलिना आहरेत् । होमेषु सर्वत्र स्वाहाकारप्रयोगादस्यापि होमः स्वाहाकारेण हूयते इत्याह- स्वाहाकारेण, जुहोति हीति । होमप्रदेशमाह- अधो ऽधो धुरमिति । उपरि धार्यमाणस्य रथस्य धुरो ऽधो ऽधो भागे जुहुयात् । अत्र कात्यायनः- “वातहोमाञ्जुहोत्यंजलिना ऽऽहृत्य पुरस्ताद्बहिर्वेदेरधो दक्षिणस्यां धुर्युत्तरत उत्तरस्यां दक्षिणतो दक्षिणाप्रष्टेः”- (का. श्रौ. सू. १८ । ८६) इति । पुरस्ताद्बहिर्वेदेर्वातमाहृत्य दक्षिणस्यां धुरि अधो जुहुयात् । अथोत्तरत आहृत्य उत्तरस्यां धुरि अधो जुहुयात् । अथ दक्षिणत आहृत्य दक्षिणाप्रष्टेरधो जुहुयात् । इति सूत्रस्यार्थः । तस्य रथस्यादित्यात्मकत्वात्, तस्याधोभागे वातहोमेन वायुमादित्यादर्वाचीनं निहितवान् भवतीत्याह- असौ वा आदित्य इति ॥ ४ ॥

Eggeling

4 By his two hollow hands (he takes it), for only in this way is the catching of that (wind brought about). With the Svāhā-call (he offers), for he offers just under the shafts (of the chariot),–this chariot is yonder sun: he thus places the wind on this side of the sun, and hence that one blows on this side thereof.

०५

विश्वास-प्रस्तुतिः

समु᳘द्रो ऽसि न᳘भस्वानि᳘ति॥
(त्य) असौ वै᳘ लोकः᳘ समु᳘द्रो न᳘भस्वानार्द्र᳘दानुरि᳘त्येष᳘ ह्यार्द्रं द᳘दाति त᳘द्यो ऽमुष्मिल्ँ लोके᳘ व्वायुस्त᳘मस्मिन्नेत᳘द्दधाति शम्भू᳘र्मयोभूरभि᳘[[!!]] मा व्वाहि स्वाहे᳘ति शिवः᳘ स्यो᳘नो ऽभि᳘ मा व्वाही᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

समु᳘द्रो ऽसि न᳘भस्वानि᳘ति॥
(त्य) असौ वै᳘ लोकः᳘ समु᳘द्रो न᳘भस्वानार्द्र᳘दानुरि᳘त्येष᳘ ह्यार्द्रं द᳘दाति त᳘द्यो ऽमुष्मिल्ँ लोके᳘ व्वायुस्त᳘मस्मिन्नेत᳘द्दधाति शम्भू᳘र्मयोभूरभि᳘[[!!]] मा व्वाहि स्वाहे᳘ति शिवः᳘ स्यो᳘नो ऽभि᳘ मा व्वाही᳘त्येत᳘त्॥

मूलम् - Weber

समु᳘द्रो ऽसि न᳘भस्वानि᳘ति॥
असौ वै᳘ लोकः᳘ समु᳘द्रो न᳘भस्वानार्द्र᳘दानुरि᳘त्येषॗ ह्यार्द्रं द᳘दाति तॗद्यो ऽमुष्मिंलोके᳘ वायुस्त᳘मस्मिन्नेत᳘द्दधाति शम्भू᳘र्मयोभू᳘रभि᳘ मा वाहि स्वाहे᳘ति शिवः᳘ स्योॗनो ऽभि᳘ मा वाही᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“समुद्रो ऽसि नभस्वान्”- इति । असौ वै लोकः समुद्रो नभस्वान् । “आर्द्रदानुः”- इति । एष ह्यार्द्रं ददाति । तद्- यो ऽमुष्मिल्ँ लोके वायुः- तमस्मिन्नेतद्दधाति । “शम्भूर्मयोभूरभि मा वाहि स्वाहा”- इति । शिवः स्योनो ऽभि मा वाहीत्येतत् ॥ ५ ॥

सायणः

अथ प्रथमं मन्त्रं व्याचष्टे 2- समुद्रो ऽसीति । ‘असौ लोकः’ स्वर्लोकः सर्वदा वृष्टिप्रदानेन समुन्दनशीलत्वात् ‘समुद्रः’ । नभ इति नक्षत्रनाम । नभस्वान् नक्षत्रविशिष्टश्च भवति । एष ह्यार्द्रमिति । ‘एषः’ स्वर्लोकः ‘आर्द्रं’ वृष्टिं ‘ददाति’ यतः- तस्मात् ‘आर्द्रदानुः’ । तद्यो ऽमुष्मिन्निति । तेन समुद्रो ऽसीत्यादिना मन्त्रप्रयोगेण ‘अमुष्मिंल्लोके’ यो वायुः बहिःप्रदेशादाहृतो ऽस्ति तमेवास्मिन्नग्नौ निदधाति । हे वायो ! त्वं समुद्रो नभस्वानार्द्रदानुर्यः स्वर्लोकस्तत्र वर्तमानस्त्वं तदात्मको ऽसीति मन्त्रेण प्रतिपादनात् बाह्यप्रदेशादाहृतं नभस्वान् आर्द्रदानुर्यः तं वायुमस्मिन्निहितवान्भवतीत्यर्थः । शम्भूर्मयोभूरित्यनयोरेकार्थताशङ्कां निवारयितुमाह- शिवः स्योन इति । ‘शिवः’ शोभनः ‘स्योनः’ सुखकरः । हे वायो ! यस्त्वं समुद्रो नभस्वानार्द्रदानुरसि तादृशस्त्वं शोभनः सुखकरो भूत्वा मामभिगच्छेत्यर्थः ॥ ५ ॥

Eggeling
  1. [He offers, with, Vāj. S. XVIII, 45], ‘Thou art the cloudy ocean,’–the cloudy ocean, doubtless, is yonder world (of the sky),–’the giver of moisture,’–for that (wind) indeed gives moisture: he thus bestows on this (fire-altar) the wind which is in yonder world;–‘blow thou kindly and propitiously upon me, hail!’–that is, ‘blow favourably and gently upon me!’

०६

विश्वास-प्रस्तुतिः

(न्मा) मारु᳘तो ऽसि मरु᳘तां गण ऽइ᳘ति॥
(त्य) अन्तरिक्षलोको वै᳘ मारुतो मरु᳘तां गणस्त᳘द्यो ऽन्तरिक्षलोके᳘ व्वायुस्त᳘मस्मिन्नेत᳘द्दधाति शम्भू᳘र्मयोभू᳘रभि᳘ मा व्वाहि स्वाहे᳘ति शिवः᳘ स्यो᳘नो ऽभि᳘ मा व्वाही᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

(न्मा) मारु᳘तो ऽसि मरु᳘तां गण ऽइ᳘ति॥
(त्य) अन्तरिक्षलोको वै᳘ मारुतो मरु᳘तां गणस्त᳘द्यो ऽन्तरिक्षलोके᳘ व्वायुस्त᳘मस्मिन्नेत᳘द्दधाति शम्भू᳘र्मयोभू᳘रभि᳘ मा व्वाहि स्वाहे᳘ति शिवः᳘ स्यो᳘नो ऽभि᳘ मा व्वाही᳘त्येत᳘त्॥

मूलम् - Weber

मारुॗतो ऽसि मरु᳘तां गण इ᳘ति॥
अन्तरिक्षलोको वै᳘ मारुतो मरु᳘तां गणस्तॗद्यो ऽन्तरिक्षलोके᳘ वायुस्त᳘मस्मिन्नेत᳘द्दधाति शम्भू᳘र्मयोभू᳘रभि᳘ मा वाहि स्वाहे᳘ति शिवः᳘ स्योॗनो ऽभि᳘ मा वाही᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“मारुतो ऽसि मरुतां गणः”- इति । अन्तरिक्षलोको वै मारुतो मरुतां गणः । तद् यो ऽन्तरिक्षलोके वायुः- तमस्मिन्नेतद्दधाति । “शम्भूर्मयोभूरभि मा वाहि स्वाहा”- इति । शिवः स्योनो ऽभि मा वाहीत्येतत् ॥ ६ ॥

सायणः

द्वितीयमन्त्रं व्याचष्टे- मारुतो ऽसीति । अन्तरिक्षलोको मरुद्भिर्विशिष्टत्वान्मारुतः । अत एव मरुतां गणः आधाराधेययोरभेदविवक्षयैवमुक्तम् । अवशिष्टं पूर्ववत् ॥ ६ ॥

Eggeling
  1. ‘Thou art the stormy (region), the troop of the Maruts,’–the stormy (region), the troop of the Maruts, doubtless, is the air-world: he thus bestows on this (fire-altar) the wind which is in the air-world;–‘blow thou kindly and propitiously upon me, hail!’–that is, ‘blow favourably and gently upon me!’

०७

विश्वास-प्रस्तुतिः

(द) अवस्यू᳘रसि दु᳘वस्वानि᳘ति॥
(त्य) अयं वै᳘ लो᳘को ऽवस्यूर्दु᳘वस्वांस्तद्यो ऽस्मिल्ँ᳘लोके᳘ व्वायुस्त᳘मस्मिन्नेत᳘द्दधाति शम्भू᳘र्मयोभू᳘रभि᳘ मा व्वाहि स्वाहे᳘ति शिवः᳘ स्यो᳘नो ऽभि᳘ मा व्वाही᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

(द) अवस्यू᳘रसि दु᳘वस्वानि᳘ति॥
(त्य) अयं वै᳘ लो᳘को ऽवस्यूर्दु᳘वस्वांस्तद्यो ऽस्मिल्ँ᳘लोके᳘ व्वायुस्त᳘मस्मिन्नेत᳘द्दधाति शम्भू᳘र्मयोभू᳘रभि᳘ मा व्वाहि स्वाहे᳘ति शिवः᳘ स्यो᳘नो ऽभि᳘ मा व्वाही᳘त्येत᳘त्॥

मूलम् - Weber

अवस्यू᳘रसि दु᳘वस्वानि᳘ति॥
अयं वै᳘ लोॗको ऽवस्यूर्दु᳘वस्वांस्तद्यो ऽस्मिं᳘लोके᳘ वायुस्त᳘मस्मिन्नेत᳘द्दधाति शम्भू᳘र्मयोभू᳘रभि᳘ मा वाहि स्वाहे᳘ति शिवः᳘ स्योॗनो ऽभि᳘ मा वाही᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“अवस्यूरसि दुवस्वान्”- इति । अयं वै लोको ऽवस्यूर्दुवस्वान् । तद्- यो ऽस्मिंल्लोके वायुः- तमस्मिन्नेतद्दधाति । “शम्भूर्मयोभूरभि मा वाहि स्वाहा”- (वा. सं. १८ । ४५) इति । शिवः स्योनो ऽभि मा वाहीत्येतत् ॥ ७ ॥

सायणः

तृतीयं मन्त्रं व्याचष्टे- अवस्यूरसीति । अयं लोको भूलोकः ‘अवस्यूः’ । अवस्यूरित्यन्नमुच्यते । तद्विशिष्टः अत्रैव सर्वेषामन्नानामुत्पत्तेः । अत एव ‘दुवस्वान्’ हविष्मान् । शेषं पूर्ववत् ॥ ७ ॥

Eggeling
  1. ‘Thou art the one affording protection and worship,’–the one that affords protection and worship, doubtless, is this (terrestrial) world: he thus bestows upon this (fire-altar) the wind which is in this world;–‘blow thou kindly and propitiously upon me, hail!’–that is, ‘blow favourably and gently upon me!’

०८

विश्वास-प्रस्तुतिः

(त्त्रि) त्रिभि᳘र्जुहोति॥
त्र᳘य ऽइमे᳘ लोका ऽअ᳘थो त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘देषु व्वायुं᳘ दधाति॥

मूलम् - श्रीधरादि

(त्त्रि) त्रिभि᳘र्जुहोति॥
त्र᳘य ऽइमे᳘ लोका ऽअ᳘थो त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘देषु व्वायुं᳘ दधाति॥

मूलम् - Weber

त्रिभि᳘र्जुहोति॥
त्र᳘य इमे᳘ लोका अ᳘थो त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘देषु वायुं᳘ दधाति॥

मूलम् - विस्वरम्

त्रिभिर्जुहोति । त्रय इमे लोकाः । अथो त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैव तदेषु लोकेषु वायुं दधाति ॥ ८ ॥

सायणः

अथैतेषां मन्त्राणां त्रित्वसंख्यां प्रशंसति- त्रिभिर्जुहोतीति ॥ ८ ॥

Eggeling
  1. With three (formulas) he offers,–three are these worlds, and threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus puts air into these worlds.

०९

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्वातहोमा᳘ञ्जुहो᳘ति॥
(त्ये) एत᳘मे᳘वैतद्र᳘थं युनक्त्येदद्वै᳘ देवा᳘ ऽएतᳫँ᳭ र᳘थᳫँ᳭ स᳘र्व्वेभ्यः का᳘मेभ्यो ऽयुञ्जत युक्ते᳘न स᳘मश्नवामहा ऽइ᳘ति ते᳘न युक्ते᳘न स᳘र्व्वान्का᳘मान्त्स᳘माश्नुवत त᳘थै᳘वैतद्य᳘जमान ऽएतᳫँ᳭ र᳘थᳫँ᳭ स᳘र्व्वेभ्यः का᳘मेभ्यो युङ्क्ते युक्ते᳘न स᳘मश्नवा ऽइ᳘ति ते᳘न युक्ते᳘न स᳘र्व्वान्का᳘मान्त्समश्नुते[[!!]]॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्वातहोमा᳘ञ्जुहो᳘ति॥
(त्ये) एत᳘मे᳘वैतद्र᳘थं युनक्त्येदद्वै᳘ देवा᳘ ऽएतᳫँ᳭ र᳘थᳫँ᳭ स᳘र्व्वेभ्यः का᳘मेभ्यो ऽयुञ्जत युक्ते᳘न स᳘मश्नवामहा ऽइ᳘ति ते᳘न युक्ते᳘न स᳘र्व्वान्का᳘मान्त्स᳘माश्नुवत त᳘थै᳘वैतद्य᳘जमान ऽएतᳫँ᳭ र᳘थᳫँ᳭ स᳘र्व्वेभ्यः का᳘मेभ्यो युङ्क्ते युक्ते᳘न स᳘मश्नवा ऽइ᳘ति ते᳘न युक्ते᳘न स᳘र्व्वान्का᳘मान्त्समश्नुते[[!!]]॥

मूलम् - Weber

य᳘द्वेव᳘ वातहोमा᳘न्जुहो᳘ति॥
एत᳘मेॗवैतद्र᳘थं युनक्त्येदद्वै᳘ देवा᳘ एतं र᳘थᳫं स᳘र्वेभ्यः का᳘मेभ्यो ऽयुञ्जत युक्ते᳘न स᳘मश्नवामहा इ᳘ति ते᳘न युक्ते᳘न स᳘र्वान्का᳘मान्त्स᳘माश्नुवत त᳘थैॗवैतद्य᳘जमान एतं र᳘थᳫं स᳘र्वेभ्यः का᳘मेभ्यो युङ्क्ते युक्ते᳘न स᳘मश्नवा इ᳘ति ते᳘न युक्ते᳘न स᳘र्वान्का᳘मान्त्स᳘मश्नुते॥

मूलम् - विस्वरम्

यद्वेव वातहोमाञ्जुहोति । एतमेवैतद्रथं युनक्ति । एतद्वै देवा एतं रथं सर्वेभ्यः कामेभ्यो ऽयुञ्जत । युक्तेन समश्नवामहा इति । तेन युक्तेन सर्वान्कामान्त्समाश्नुवत । तथैवैतद्यजमान एतं रथं सर्वेभ्यः कामेभ्यो युङ्क्ते । युक्तेन समश्नवा ऽइति । तेन युक्तेन सर्वान्कामान्त्समश्नुते ॥ ९ ॥

सायणः

अथैतानेव वातहोमान् सर्वकामप्राप्त्यर्थं रथनियोजनात्मना प्रशंसति- यद्वेव वातहोमानिति ॥ ९ ॥

Eggeling
  1. And as to why he offers the oblations of air: he thereby yokes that chariot of his; for it was thereby that the gods yoked that chariot for (the obtainment of) all their wishes, thinking, ‘By it, when yoked, we shall obtain them;’ and by that yoked (chariot) they indeed obtained their wishes; and in like manner does the Sacrificer thereby yoke that chariot of his for (the obtainment of) all his wishes, thinking, ‘By it, when yoked, I shall obtain them; and by that yoked (chariot) he indeed obtains all his wishes.

१०

विश्वास-प्रस्तुतिः

व्वातहोमै᳘र्युनक्ति॥
प्राणा वै᳘ व्वातहोमाः᳘ प्राणै᳘रे᳘वैनमेत᳘द्युनक्ति त्रिभि᳘र्युनक्ति त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदा᳘नो व्व्यानस्तै᳘रे᳘वैनमेत᳘द्युनक्त्य᳘धो ऽधो धु᳘रम᳘धो ऽधो हि धु᳘रं यो᳘ग्यं युञ्ज᳘न्ति ह᳘स्ताभ्याᳫँ᳭ ह᳘स्ताभ्याᳫँ᳭ हि यो᳘ग्यं युञ्ज᳘न्ति व्विपरिक्रा᳘मं विपरिक्रा᳘मᳫँ᳭ हि यो᳘ग्यं युञ्ज᳘न्ति॥

मूलम् - श्रीधरादि

व्वातहोमै᳘र्युनक्ति॥
प्राणा वै᳘ व्वातहोमाः᳘ प्राणै᳘रे᳘वैनमेत᳘द्युनक्ति त्रिभि᳘र्युनक्ति त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदा᳘नो व्व्यानस्तै᳘रे᳘वैनमेत᳘द्युनक्त्य᳘धो ऽधो धु᳘रम᳘धो ऽधो हि धु᳘रं यो᳘ग्यं युञ्ज᳘न्ति ह᳘स्ताभ्याᳫँ᳭ ह᳘स्ताभ्याᳫँ᳭ हि यो᳘ग्यं युञ्ज᳘न्ति व्विपरिक्रा᳘मं विपरिक्रा᳘मᳫँ᳭ हि यो᳘ग्यं युञ्ज᳘न्ति॥

मूलम् - Weber

वातहोमै᳘र्युनक्ति॥
प्राणा वै वातहोमाः᳘ प्राणै᳘रेॗवैनमेत᳘द्युनक्ति त्रिभि᳘र्युनक्ति त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ उदा᳘नो व्यानस्तै᳘रेॗवैनमेत᳘द्युन्क्त्यॗधो ऽधो धु᳘रमॗधो ऽधो हि धु᳘रं यो᳘ग्यं युञ्ज᳘न्ति ह᳘स्ताभ्याᳫं ह᳘स्ताभ्याᳫं हि यो᳘ग्यं युञ्ज᳘न्ति विपरिक्रा᳘मं विपरिक्रा᳘मᳫं हि यो᳘ग्यं युञ्ज᳘न्ति॥

मूलम् - विस्वरम्

वातहोमैर्युनक्ति । प्राणा वै वातहोमाः । प्राणैरेवैनमेतद्युनक्ति । त्रिभिर्युनक्ति । त्रयो वै प्राणाः- प्राण उदानो व्यानः । तैरेवैनमेतद्युनक्ति । अधो ऽधो धुरम् । अधो ऽधो हि धुरं योग्यं युञ्जन्ति । हस्ताभ्याम् । हस्ताभ्यां हि योग्यं युञ्जन्ति । विपरिक्रामम् । विपरिक्रामं हि योग्यं युञ्जन्ति ॥ १० ॥

सायणः

वातहोमानामेव नियोजनसाधनत्वं प्रशंसति- वातहोमैर्युनक्तीति । अन्तःस्थानां प्राणानां वातात्मकत्वाद् ‘वातहोमाः प्राणाः;’ एवं चैतेन होमेन रथं प्राणैरेव नियुनक्ति । ‘प्राण उदानो व्यानः’ इति प्राणानां त्रित्वात्तदात्मकानामपि वातहोमानां त्रित्वमुपपद्यत इत्याह- त्रिभिर्युनक्तीति । लोके धुरो ऽधोभागे हस्ताभ्यां विपरिक्रम्य विपरिक्रम्याश्वस्य नियोजनादत्रापि तद्वदेव नियुज्यत इत्याह- अधो ऽधो धुरमित्यादिना ॥ १० ॥

Eggeling
  1. He yokes it with the oblations of air 3,–the oblations of air are the vital airs it is thus with the

vital airs he yokes it 4. With three (oblations) he yokes it,–there are three vital airs, the out-breathing, up-breathing, and through-breathing: it is with these he thus yokes it. Just below the shaft (he offers), for just below the shaft the horse is yoked;–with his hands, for by the hands the horse is yoked;–in moving round 5, for in moving round the horse is yoked.

११

विश्वास-प्रस्तुतिः

स᳘ दक्षिणायुग्य᳘मेवा᳘ग्रे युनक्ति॥
(क्त्य᳘) अ᳘थ सव्यायुग्यम᳘थ दक्षिणाप्रष्टि᳘मेवं᳘ देव᳘त्रेतर᳘था मानुषे[[!!]] तं᳘ नाभि᳘युञ्ज्यान्ने᳘द्युक्त᳘मभियुन᳘जानी᳘ति व्वा᳘हनं तु᳘ दद्याद्युक्ते᳘न भुनजा ऽइ᳘ति त᳘मुप᳘र्येव᳘ हर᳘न्त्याध्वर्यो᳘रावसथा᳘दुप᳘रि᳘ ह्येष त᳘मध्वर्य᳘वे ददाति स हि ते᳘न करो᳘ति तं तु द᳘क्षिणानां काले᳘ ऽनुदिशेत्॥

मूलम् - श्रीधरादि

स᳘ दक्षिणायुग्य᳘मेवा᳘ग्रे युनक्ति॥
(क्त्य᳘) अ᳘थ सव्यायुग्यम᳘थ दक्षिणाप्रष्टि᳘मेवं᳘ देव᳘त्रेतर᳘था मानुषे[[!!]] तं᳘ नाभि᳘युञ्ज्यान्ने᳘द्युक्त᳘मभियुन᳘जानी᳘ति व्वा᳘हनं तु᳘ दद्याद्युक्ते᳘न भुनजा ऽइ᳘ति त᳘मुप᳘र्येव᳘ हर᳘न्त्याध्वर्यो᳘रावसथा᳘दुप᳘रि᳘ ह्येष त᳘मध्वर्य᳘वे ददाति स हि ते᳘न करो᳘ति तं तु द᳘क्षिणानां काले᳘ ऽनुदिशेत्॥

मूलम् - Weber

स᳘ दक्षिणायुग्य᳘मेवा᳘ग्रे युनक्ति॥
अ᳘थ सव्यायुग्यम᳘थ दक्षिणाप्रष्टि᳘मेवं᳘ देवॗत्रेतर᳘था मानुषेॗ तं नाभि᳘युञ्ज्यान्ने᳘द्युक्त᳘मभियुन᳘जानी᳘ति वा᳘हनं तु᳘ दद्याद्युक्ते᳘न भुनजा इ᳘ति त᳘मुप᳘र्येव᳘ हरॗन्त्याध्वर्यो᳘रावसथा᳘दुप᳘रिॗ ह्येष त᳘मध्वर्य᳘वे ददाति स हि ते᳘न करो᳘ति तं तु द᳘क्षिणानां काले᳘ ऽनुदिशेत्॥

मूलम् - विस्वरम्

स दक्षिणायुग्यमेवाग्रे युनक्ति, अथ सव्यायुग्यम्, अथ दक्षिणाप्रष्टिम् । एवं देवत्रा । इतरथा मानुषे । तं नाभियुञ्ज्यात्-नेद्युक्तमभियुनजानीति । वाहनं तु दद्यात्- युक्तेन भुनजा इति । तमुपर्येव हरन्ति- आ अध्वर्योरावसथात् । उपरि ह्येषः । तमध्वर्यवे ददाति । स हि तेन करोति । तं तु दक्षिणानां काले ऽनुदिशेत् ॥ ११ ॥

सायणः

रथे अश्वानां नियोजने क्रममाह- स दक्षिणायुग्यमेवेति । युगं वहतीति युग्य इति युग्यशब्देनाश्वो ऽभिधीयते । ननु चोक्तप्रकारे क्रमे को गुणः तद्वैपरीत्ये वा को दोषः इत्यत आह- एवं देवत्रेति । अत एव तैत्तिरीयके- दीक्षितस्य नेत्रयोरंजनक्रमविधानावसरे श्रुतम्- “दक्षिणं पूर्वमाङ्क्ते सव्यं हि पूर्वं मनुष्या आंजते” (तै. सं. ६ । १ । १ । ५) इति । ननु तर्ह्युक्तक्रमेणाश्वमेव नियुंज्यादिति नेत्याह- तं नाभियुञ्ज्यादिति । वातहोमानामश्वत्वात्तैर्युक्तं रथं नाभियुनजानीत्यभिप्रायेण तमश्वं नाभियुञ्ज्यादित्यर्थः । अभियोजनं नाम युक्ते पुनर्योजनम् । एवं तर्ह्यस्य रथस्य प्रत्यक्षाश्वसम्बन्धो न स्यादित्यत आह-वाहनं त्विति । वाहनयुक्तेन रथेन कामान् भुनजा इत्याशयेन वाहनं दद्यात् । तं रथम् अध्वर्युगृहपर्यन्तमुपरि एव आहरेयुः इत्याह- तमुपर्येवेति । उपरि ह्येष इति । ‘एषः’ रथो होमावसरे ‘उपरि’ धारितः खल्वित्यर्थः । तेन रथेनाध्वर्युरेव होमादिकं कृतवानिति- तमध्वर्यवे दद्यादित्याह- तमध्वर्यव इति । तर्हीदानीमेव तस्मै तमनुदिशेदिति नेत्याह- तं तु दक्षिणानामिति ॥ ११ ॥

Eggeling
  1. The right yoke-horse he puts to first, then the left yoke-horse, then the right side-horse: for thus it is (done) among the gods, otherwise in human (practice). Let him not yoke that (chariot 6) again, lest he should yoke again the yoked one; but let him give away the vehicle, thinking, ‘I shall reap the benefit of the yoking of it 7.’ They carry it as far as the Adhvaryu’s dwelling, holding it right upwards, for above is that (Agni). He presents it to the Adhvaryu, for it is he that performs therewith. Let him, however, (not) assign it to him (till) the time of the offering-gifts.

१२

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ रु᳘ङ्मतीर्जुहो᳘ति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतः स᳘ ऽएषो᳘ ऽत्र रु᳘चमैच्छत्त᳘स्मिन्देवा᳘ ऽएता᳘भी रु᳘ङ्मतीभी रु᳘चमदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ रु᳘ङ्मतीर्जुहो᳘ति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतः स᳘ ऽएषो᳘ ऽत्र रु᳘चमैच्छत्त᳘स्मिन्देवा᳘ ऽएता᳘भी रु᳘ङ्मतीभी रु᳘चमदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थ रु᳘ङ्नतीर्जुहोति॥
अ᳘त्रैष स᳘र्वो ऽग्निः स᳘ᳫं᳘स्कृतः स᳘ एषो᳘ ऽत्र रु᳘चमैछत्त᳘स्मिन्देवा᳘ एता᳘भि रु᳘ङ्नतीभी रु᳘चमदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथ रुङ्मतीहोमः ।

अथ रुङ्मतीर्जुहोति । अत्रैष सर्वो ऽग्निः संस्कृतः । स एषो ऽत्र रुचमैच्छत् । तस्मिन्देवा एताभी रुङ्मतीभी रुचमदधुः । तथैवास्मिन्नयमेतद्दधाति ॥ १२ ॥

सायणः

वातहोमानन्तरं रुङ्मतीनां होमं विधत्ते- अथेति 8 । रुक्छब्दसम्बन्धाद्धोमसाधनभूता ऋचो रुङ्मत्यः । एवं च ‘रुङ्मतीर्जुहोति’ इत्यस्य तत्साध्यान् होमान्कुर्यादित्यर्थः । पूर्वं ‘देवाः’ संस्कृते ऽस्मिन्नग्नौ ‘एताभी रुङ्मतीभी रुचमदधुः’ इति तथैव यजमानो ऽपि करोतीत्याह- अत्रैष इति ॥ १२ ॥

Eggeling
  1. He then offers the ‘Lightsome 9’ oblations.

For now the whole Agni was completed; he now wished for brilliance (ruc), and the gods, by means of these lightsome (oblations), endowed him with brilliance; and in like manner does this (Sacrificer) now endow him therewith.

१३

विश्वास-प्रस्तुतिः

य᳘द्वेव रु᳘ङ्मतीर्जुहो᳘ति॥
प्रजा᳘पतेर्व्वि᳘स्रस्ताद्रुगु᳘दक्रामत्तं य᳘त्र देवाः᳘ सम᳘स्कुर्व्वंस्त᳘दस्मिन्नेता᳘भी रु᳘ङ्मतीभी रु᳘चमदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥ (शतम् ५०००)॥

मूलम् - श्रीधरादि

य᳘द्वेव रु᳘ङ्मतीर्जुहो᳘ति॥
प्रजा᳘पतेर्व्वि᳘स्रस्ताद्रुगु᳘दक्रामत्तं य᳘त्र देवाः᳘ सम᳘स्कुर्व्वंस्त᳘दस्मिन्नेता᳘भी रु᳘ङ्मतीभी रु᳘चमदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥ (शतम् ५०००)॥

मूलम् - Weber

य᳘द्वेव रु᳘ङ्नतीर्जुहो᳘ति॥
प्रजा᳘पतेर्विस्रस्ताद्रुगु᳘दक्रामत्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेता᳘भी रु᳘ङ्नतीभी रु᳘चमदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - विस्वरम्

यद्वेव रुङ्मतीर्जुहोति । प्रजापतेर्विस्रस्ताद्रुगुदक्रामत् । तं यत्र देवाः समस्कुर्वन्- तदस्मिन्नेताभी रुङ्मतीभी रुचमदधुः । तथैवास्मिन्नयमेतद्दधाति ॥ १३ ॥

सायणः

अथ तासामेव होमं प्रकारान्तरेण प्रशंसति- यद्वेवेति । पूर्वं ‘विस्रस्तात्’ ‘प्रजापतेः’ उत्क्रान्तां रुचं देवाः प्रजापतिं संस्कृत्य ‘अस्मिन्नेताभी रुचमदधुः’ इति तथैवायमपि यजमानः संचिताग्निलक्षणे ऽस्मिन् प्रजापतौ रुचं निदधाति ॥ १३ ॥

Eggeling
  1. And, again, as to why he offers the lightsome oblations. When Prajāpati was dismembered, his brilliance departed from him. When the gods restored him, they, by means of these lightsome oblations, endowed him with brilliance; and in like manner does this (Sacrificer) endow him therewith.

१४

विश्वास-प्रस्तुतिः

या᳘स्ते ऽअग्ने सू᳘र्ये रु᳘चः॥
(चो) या᳘ वो देवाः सू᳘र्ये रु᳘चो रु᳘चं नो धेहि ब्राह्मणेष्वि᳘ति रु᳘चᳫँ᳭ रु᳘चमि᳘त्यमृतत्वं वै रु᳘गमृतत्व᳘मे᳘वास्मिन्नेत᳘द्दधाति तिस्र ऽआ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद्रु᳘चं दधाति॥

मूलम् - श्रीधरादि

या᳘स्ते ऽअग्ने सू᳘र्ये रु᳘चः॥
(चो) या᳘ वो देवाः सू᳘र्ये रु᳘चो रु᳘चं नो धेहि ब्राह्मणेष्वि᳘ति रु᳘चᳫँ᳭ रु᳘चमि᳘त्यमृतत्वं वै रु᳘गमृतत्व᳘मे᳘वास्मिन्नेत᳘द्दधाति तिस्र ऽआ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद्रु᳘चं दधाति॥

मूलम् - Weber

या᳘स्ते अग्ने सू᳘र्ये रु᳘चः॥
या᳘ वो देवाः सू᳘र्ये रु᳘चो रु᳘चं नो धेहि ब्राह्मणेष्वि᳘ति रु᳘चं रु᳘चमि᳘त्यमृतत्वं वै रु᳘गमृतत्व᳘मेॗवास्मिन्नेत᳘द्दधाति तिस्र आ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेतद्रु᳘चं दधाति॥

मूलम् - विस्वरम्

“यास्ते ऽअग्ने सूर्ये रुचो, या वो देवाः सूर्ये रुचो, रुचं नो धेहि ब्राह्मणेषु”- (वा. सं. १६ । ४६-४८) इति । रुचं रुचमिति । अमृतत्वं वै रुक् । अमृतत्वमेवास्मिन्नेतद्दधाति । तिस्र आहुतीर्जुहोति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतद्रुचं दधाति ॥ १४ ॥

सायणः

ताश्च रुङ्मतीर्ऋचो दर्शयति- यास्ते अग्न इति । मन्त्रेषु पौनःपुन्येन रुक्छब्दस्य प्रयोगादस्मिन्नग्नावमृतत्वमेव निदधातीत्याह- रुचं रुचमित्यमृतत्वभिति । आहुतीनां त्रित्वेन कृत्स्न एवाग्नौ रुचं निदधातीत्याह- तिस्र आहुतीरिति ॥ १४ ॥

Eggeling
  1. [He offers, with, Vāj. S. XVIII, 46-48], ‘O Agni, what lights of thine in the sun 10 . . . ’ ‘O ye gods, what lights of yours are in the sun. . . 10’–‘Bestow thou light upon our priests, (work thou light in our kings, light in our people and Śūdras, bestow light upon me by thy light)!’ He thus says ’light’ each time,–light is immortality: it is immortality he thus bestows upon him.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वारुणीं᳘ जुहोति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतः स᳘ ऽएषो᳘ ऽत्र व्व᳘रुणो देव᳘ता त᳘स्मा ऽएत᳘द्धवि᳘र्जुहोति त᳘देनᳫँ᳭ हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते व्वारुण्य᳘ ऽर्चा स्वे᳘नै᳘वैनमेत᳘दात्म᳘ना स्व᳘या देव᳘तया प्रीणाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वारुणीं᳘ जुहोति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतः स᳘ ऽएषो᳘ ऽत्र व्व᳘रुणो देव᳘ता त᳘स्मा ऽएत᳘द्धवि᳘र्जुहोति त᳘देनᳫँ᳭ हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते व्वारुण्य᳘ ऽर्चा स्वे᳘नै᳘वैनमेत᳘दात्म᳘ना स्व᳘या देव᳘तया प्रीणाति॥

मूलम् - Weber

अ᳘थ वारुणीं᳘ जुहोति॥
अ᳘त्रैष स᳘र्वो ऽग्निः स᳘ᳫं᳘स्कृतः स᳘ एषो᳘ ऽत्र व᳘रुणो देव᳘ता त᳘स्मा एत᳘द्धवि᳘र्जुहोति त᳘देनᳫं हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते वारुण्य᳘ ऽर्चा स्वे᳘नैॗवैनमेत᳘दात्म᳘ना स्व᳘या देव᳘तया प्रीणाति॥

मूलम् - विस्वरम्

अथ वारुणीहोमः ।

अथ वारुणीं जुहोति । अत्रैष सर्वो ऽग्निः संस्कृतः । स एषो ऽत्र वरुणो देवता । तस्मा एतद्धविर्जुहोति । तदेनं हविषा देवतां करोति । यस्यै वै देवतायै हविर्गृह्यते- सा देवता । न सा- यस्यै न गृह्यते । वारुण्यर्चा । स्वेनैवैनमेतदात्मना स्वया देवतया प्रीणाति ॥ १५ ॥

सायणः

“तत्त्वा यामि ब्रह्मणा वन्दमानः” इतीयमृग्वारुणी, एतत्साध्यं होमं विधत्ते- अथ वारुणीं जुहोतीति । विहितं होमं प्रशंसति- अत्रैष इति । स एषो ऽत्र वरुणो देवतेति । कार्त्स्न्येन संस्कृतस्य पूर्वावस्थापन्नस्य प्रजापतेः सर्वावरणसामर्थ्यादस्मिन्नवसरे य एव प्रजापत्यात्मको ऽग्निः स वरुणो देवता भवतीत्यर्थः । गतमन्यत् । होमसाधनभूताया ऋचो वरुणसम्बन्धं प्रशंसति- वारुण्यर्चेति । स्वेनात्मना स्वरूपेण स्वया देवतया चैनं प्रीणयतीत्यर्थः ॥ १५ ॥

Eggeling
  1. He then offers one relating to Varuṇa. That whole Agni has now been completed, and he now is the deity Varuṇa: it is to him that he offers this oblation, and by the oblation he makes him (Agni) a deity, for that one alone is a deity to whom offering is made, but not that one to whom (offering is) not (made). With a verse addressed to Varuṇa (he offers): he thus gratifies him by his own self, by his own deity.

१६

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्वारुणीं᳘ जुहो᳘ति॥
प्रजा᳘पतेर्व्वि᳘स्रस्ताद्वी᳘र्यमु᳘दक्रामत्तं[[!!]] य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेत᳘या व्वी᳘र्यमदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति[[!!]] व्वारुण्य᳘ ऽर्चा᳘ क्षत्रं वै व्व᳘रुणो व्वी᳘र्यं[[!!]] वै᳘ क्षत्रं᳘ व्वी᳘र्येणै᳘वास्मिन्नेत᳘द्वी᳘र्यं[[!!]] दधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्वारुणीं᳘ जुहो᳘ति॥
प्रजा᳘पतेर्व्वि᳘स्रस्ताद्वी᳘र्यमु᳘दक्रामत्तं[[!!]] य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेत᳘या व्वी᳘र्यमदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति[[!!]] व्वारुण्य᳘ ऽर्चा᳘ क्षत्रं वै व्व᳘रुणो व्वी᳘र्यं[[!!]] वै᳘ क्षत्रं᳘ व्वी᳘र्येणै᳘वास्मिन्नेत᳘द्वी᳘र्यं[[!!]] दधाति॥

मूलम् - Weber

य᳘द्वेव᳘ वारुणीं᳘ जुहो᳘ति॥
प्रजा᳘पतेर्वि᳘स्रस्ताद्वीर्य᳘मु᳘दक्रामत्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेतॗया वीर्य᳘मदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति वारुण्य᳘ ऽर्चा᳘ क्षत्रं वै व᳘रुणो वीर्यं᳘ वै᳘ क्षत्रं᳘ वीॗर्येणैॗवास्मिन्नेत᳘द्वीर्यं᳘ दधाति॥

मूलम् - विस्वरम्

यद्वेव वारुणीं जुहोति । प्रजापतेर्विस्रस्ताद्वीर्यमुदक्रामत् । तं यत्र देवाः समस्कुर्वन्- तदस्मिन्नेतया वीर्यमदधुः । तथैवास्मिन्नयमेतद्दधाति । वारुण्यर्चा । क्षत्रं वै वरुणः । वीर्यं वै क्षत्रम् । वीर्येणैवास्मिन्नेतद् वीर्यं दधाति ॥ १६ ॥

सायणः

अथ पुनस्तेनैव होमेन विस्रस्तात्प्रजापतेरुत्क्रान्तस्य वीर्यस्य धारणमस्मिन् सम्पाद्यत इत्याह- यद्वेव वारुणीमिति ॥ १६ ॥

Eggeling
  1. And, again, as to why he offers one relating

to Varuṇa. When Prajāpati was dismembered, his strength departed from him. When the gods restored him they, by this (oblation), bestowed strength upon him; and in like manner does this (Sacrificer) bestow it upon him. With a verse addressed to Varuṇa (he offers),–Varuṇa is the ruling power, and ruling power means strength: it is thus by strength that he bestows strength upon him.

१७

विश्वास-प्रस्तुतिः

त᳘त्त्वा यामि ब्र᳘ह्मणा व्व᳘न्दमान ऽइ᳘ति॥
त᳘त्त्वा याचे ब्र᳘ह्मणा व्व᳘न्दमान ऽइ᳘त्येतत्तदा᳘शास्ते य᳘जमानो हवि᳘र्भिरि᳘ति त᳘दयमा᳘शास्ते य᳘जमानो हवि᳘र्भिरि᳘त्येतद᳘हेडमानो व्वरुणेह᳘ बोधीत्य᳘क्रुध्यन्नो व्वरुणेह᳘ बोधी᳘त्येतदु᳘रुशᳫँ᳭स मा᳘ न ऽआ᳘युः प्र᳘मोषीरि᳘त्यात्म᳘नः परिदां᳘ वदते॥

मूलम् - श्रीधरादि

त᳘त्त्वा यामि ब्र᳘ह्मणा व्व᳘न्दमान ऽइ᳘ति॥
त᳘त्त्वा याचे ब्र᳘ह्मणा व्व᳘न्दमान ऽइ᳘त्येतत्तदा᳘शास्ते य᳘जमानो हवि᳘र्भिरि᳘ति त᳘दयमा᳘शास्ते य᳘जमानो हवि᳘र्भिरि᳘त्येतद᳘हेडमानो व्वरुणेह᳘ बोधीत्य᳘क्रुध्यन्नो व्वरुणेह᳘ बोधी᳘त्येतदु᳘रुशᳫँ᳭स मा᳘ न ऽआ᳘युः प्र᳘मोषीरि᳘त्यात्म᳘नः परिदां᳘ वदते॥

मूलम् - Weber

त᳘प्त्वा यामि ब्र᳘ह्मणा व᳘न्दमान इ᳘ति॥
त᳘त्त्वा याचे ब्र᳘ह्मणा व᳘न्दमान इ᳘त्येतत्तदा᳘शास्ते य᳘जमानो हवि᳘र्भिरि᳘ति त᳘दयमा᳘शास्ते यजमानो हवि᳘र्भिरि᳘त्येतद᳘हेडमानो वरुणेह᳘ बोधीत्य᳘क्रुध्यन्नो वरुणेह᳘ बोधीत्येतदु᳘रुशंस मा᳘ न आ᳘युः प्र᳘मोषीरि᳘त्यात्म᳘नः परिदां᳘ वदते॥

मूलम् - विस्वरम्

“तत्त्वा यामि ब्रह्मणा वन्दमानः”- इति । तत्त्वा याचे ब्रह्मणा वन्दमान इत्येतत् । “तदाशास्ते यजमानो हविर्भिः”- इति । तदयमाशास्ते यजमानो हविर्भिरित्येतत् । “अहेडमानो वरुणेह बोधि”- इति । अक्रुध्यन्नो वरुणेह बोधीत्येतत् । “उरुशंस मा न आयुः प्रमोषीः”- (वा. सं. १८ । ४९) इति । आत्मनः परिदां वदते ॥ १७ ॥

सायणः

होममन्त्रं व्याचष्टे- तत्त्वा यामीति । तत्र यामीत्यस्यार्थं प्रदर्शयति- याच इति । ‘तदाशास्ते यजमानः’ इत्यत्र प्रकृतो यजमानो विवक्ष्यते नान्य इति व्याचष्टे- तदयमिति । ‘अहेडमानः’ इत्यनेनास्मभ्यमक्रुध्यन्नित्ययमर्थो विवक्षित इत्याह- अक्रुध्यन्नो वरुणेति । उरुशंसेत्यनेनात्मन आशिषमाशास्ते । मा न आयुः प्रमोषीरित्यनेन वरुणादात्मनो रक्षणमुक्तवान्भवतीत्याह- आत्मनः परिदां वदत इति । हे वरुण ! यद् यज्ञपरिसमाप्तिलक्षणं प्रयोजनमस्ति तत्प्रयोजनं ब्रह्मणा वेदेन वंदमानः स्तुतिं कुर्वाणः तत्त्वा यामि याचे । अयं यजमानो हविर्भिस्तदेव प्रयोजनमाशास्ते । तस्माद्भवानस्मभ्यमहेडमानो ऽक्रुध्यन्निहास्मद्विषये तत्प्रयोजनं प्रतिपादयितुं बोधि बुध्यस्व तद्दीयतामित्यर्थः । “दीपजनबुध०” इत्यादिना कर्तरि चिण् “बहुलं छन्दसि” इत्यादिना ऽडभावः । हे उरुशंस बहुस्तुतिविशिष्ट ! नो ऽस्माकमायुः मा प्रमोषीर्मा ऽपहार्षीरिति मन्त्रस्यार्थः ॥ १७ ॥

Eggeling
  1. [He offers, with, Vāj. S. XVIII, 49], ‘For this I appeal to thee, worshipping thee with prayer,’–that is, ‘For that I beseech thee, worshipping thee with prayer;’–‘for this the Sacrificer imploreth thee with offerings,’–that is, ‘for this, this Sacrificer implores thee with offerings;–‘without wrath listen thou here, O Varuṇa!’–that is, ‘without anger listen thou here to us, O Varuṇa!’–’take not our life from us, O far-ruler!’–he thereby gives utterance to a surrender of his own self.

१८

विश्वास-प्रस्तुतिः

(ते᳘ ऽथा) अ᳘थार्काश्वमेध᳘योः सं᳘ततीर्जुहोति॥
(त्य) अयं वा᳘ ऽअग्नि᳘र᳘र्को ऽसा᳘वादित्यो ऽश्वमेधस्तौ᳘ सृष्टौ ना᳘नै᳘वास्तां तौ᳘ देवा᳘ ऽएता᳘भिरा᳘हुतिभिः स᳘मतन्वन्त्स᳘मदधुस्त᳘थै᳘वैनावय᳘मेत᳘देता᳘भिरा᳘हुतिभिः सं᳘तनोति सं᳘दधाति᳘॥

मूलम् - श्रीधरादि

(ते᳘ ऽथा) अ᳘थार्काश्वमेध᳘योः सं᳘ततीर्जुहोति॥
(त्य) अयं वा᳘ ऽअग्नि᳘र᳘र्को ऽसा᳘वादित्यो ऽश्वमेधस्तौ᳘ सृष्टौ ना᳘नै᳘वास्तां तौ᳘ देवा᳘ ऽएता᳘भिरा᳘हुतिभिः स᳘मतन्वन्त्स᳘मदधुस्त᳘थै᳘वैनावय᳘मेत᳘देता᳘भिरा᳘हुतिभिः सं᳘तनोति सं᳘दधाति᳘॥

मूलम् - Weber

अ᳘थार्काश्वमेध᳘योः सं᳘ततीर्जुहोति॥
अयं वा᳘ अग्नि᳘रॗर्को ऽसा᳘वादित्यो ऽश्वमेधस्तौ᳘ सृष्टौ ना᳘नैॗवास्तां तौ᳘ देवा एता᳘भिरा᳘हुतिभिः स᳘मतन्वन्त्स᳘मदुधुस्त᳘थैॗवैनावय᳘मेता᳘भिरा᳘हुतिभिः सं᳘तनोति सं᳘दधाति॥

मूलम् - विस्वरम्

अथ सन्ततिहोमः ।

अथार्काश्वमेधयोः सन्ततीर्जुहोति । अयं वा अग्निरर्कः, असावादित्यो ऽश्वमेधः । तौ सृष्टौ नानैवास्ताम् । तौ देवा एताभिराहुतिभिः समतन्वन्, समदधुः । तथैवैनावयमेतदेताभिराहुतिभिः संतनोति, संदधाति ॥ १८ ॥

सायणः

अथ अर्काश्वमेधसन्ततिसंज्ञान् होमान् विधत्ते- अथेति । ननु कावर्काश्वमेधौ किमर्थं वा तयोः सन्धानसम्पादनमित्यत आह- अयं वा अग्निरिति । ‘अयम्’ इदानीं संचितो ऽग्निरेवार्कः । ‘असौ’ इति दूरदेशवर्त्ती सूर्यो निर्दिश्यते । तस्य चाश्वमेधत्वम् अश्वमेधसंबन्धिनो ऽश्वस्य तदात्मना ऽनुसन्धातव्यत्वात् । तावर्काश्वमेधौ पूर्वं संसृष्टौ सन्तौ पश्चाद्विभिन्नावभूताम्, अतो देवा विभिन्नौ ‘तौ एताभिराहुतिभिः समतन्वन्’ एतस्यैव विवरणम्- समदधुरिति । पुनरपि संसृष्टावकुर्वन्नित्यर्थः । अतश्च यजमानो ऽपि एताभिराहुतिभिस्तथैवैनौ संसृष्टौ करोति ॥ १८ ॥

Eggeling
  1. He then offers the Arkāśvamedha-santati 11 oblations. The light (arka), doubtless, is this fire (Agni), and the Aśvamedha (horse-sacrifice) is yonder sun,–when created, these two were separate: by means of these oblations the gods drew them together and connected them; and in like manner does this (Sacrificer), by means of these oblations, now draw them together and connect them.

१९

विश्वास-प्रस्तुतिः

स्वर्ण᳘[[!!]] घर्मः स्वाहे᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ घ᳘र्मो ऽमुं त᳘दादित्य᳘मस्मि᳘न्नग्नौ प्र᳘तिष्ठापयति᳘॥

मूलम् - श्रीधरादि

स्वर्ण᳘[[!!]] घर्मः स्वाहे᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ घ᳘र्मो ऽमुं त᳘दादित्य᳘मस्मि᳘न्नग्नौ प्र᳘तिष्ठापयति᳘॥

मूलम् - Weber

स्व᳘र्ण᳘ घर्मः स्वाहे᳘ति॥
असौ वा᳘ आदित्यो᳘ घॗर्मो ऽमुं त᳘दादित्य᳘मस्मि᳘न्नग्नौ प्र᳘तिष्ठापय्ति॥

मूलम् - विस्वरम्

“स्वर्ण घर्मः स्वाहा”- इति । असौ वा आदित्यो घर्मः । अमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति ॥ १९ ॥

सायणः

होममन्त्रान्व्याचष्टे- स्वर्ण घर्मः स्वाहेति । असौ वा आदित्य इति । ‘घर्म’ इत्यसावादित्य उच्यते । ततश्चैतन्मंत्रसाध्येन होमेनामुमादित्यमस्मिन्नग्नौ प्रतिष्ठापयति । स्वरिति स्वर्लोक उच्यते । नशब्द इवार्थे । सुखहेतुत्वेन स्वर्लोक इव यो घर्म आदित्यः तं स्वाहा अस्मिन्नग्नौ जुहोमि । प्रतिष्ठापयामीति मंत्रस्यार्थः । एवमुत्तरेष्वपि मन्त्रेषु योजनीयम् । “तं पुनरमुत्र दधाति, तं पुनरिह दधाति” इति मन्त्रद्वयेन अन्यो ऽन्यस्मिन्नन्यो ऽन्यस्य प्रतिष्ठापनात् आदित्य एवाग्निर्जातः; अग्निरेवादित्यो जातः । तस्मादग्निरमुत्रेति दूरदेशवर्ती परामृश्यते । आदित्यस्त्विहेति सन्निहितः परामृश्यते । अमुं तदादित्यमिति । स्वर्ण सूर्यः स्वाहेत्यनेनोपर्यादित्यस्य प्रतिष्ठापनादादित्यमस्य सर्वजगत उत्तममुपरि वर्तमानं निहितवान्भवति । यत एवं तस्मादिदानीमेष आदित्यो ऽस्य सर्वस्योत्तमो वर्तते ॥ १९-२३ ॥

Eggeling
  1. [He offers, with, Vāj. S. XVIII, 50], ‘Heaven-like heat, hail!’–the heat, doubtless, is yonder sun; he thus establishes yonder sun in Agni.

२०

विश्वास-प्रस्तुतिः

स्व᳘र्णार्कः स्वाहे᳘ति॥
(त्य) अय᳘मग्नि᳘रर्क᳘ ऽइमं त᳘दग्नि᳘ममु᳘ष्मिन्नादित्ये प्र᳘तिष्ठापयति᳘॥

मूलम् - श्रीधरादि

स्व᳘र्णार्कः स्वाहे᳘ति॥
(त्य) अय᳘मग्नि᳘रर्क᳘ ऽइमं त᳘दग्नि᳘ममु᳘ष्मिन्नादित्ये प्र᳘तिष्ठापयति᳘॥

मूलम् - Weber

स्व᳘र्णार्कः स्वाहे᳘ति॥
अय᳘मग्नि᳘रर्क᳘ इमं त᳘दग्निममु᳘ष्मिन्नादित्ये प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

“स्वर्णार्कः स्वाहा”- इति । अयमग्निरर्कः । इमं तदग्निमस्मिन्नादित्ये प्रतिष्ठापयति ॥ २० ॥

सायणः

[व्याख्यानं नवदशे]

Eggeling
  1. ‘Heaven-like flame, hail!’–the flame is

this Agni: he thus establishes this Agni in yonder sun.

२१

विश्वास-प्रस्तुतिः

स्वर्ण᳘ शुक्रः स्वाहे᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यः᳘ शुक्रस्तं पु᳘नरमुत्र[[!!]] दधाति᳘॥

मूलम् - श्रीधरादि

स्वर्ण᳘ शुक्रः स्वाहे᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यः᳘ शुक्रस्तं पु᳘नरमुत्र[[!!]] दधाति᳘॥

मूलम् - Weber

स्वर्ण᳘ शुक्रः स्वाहे᳘ति॥
असौ वा᳘ आदित्यः᳘ शुक्रस्तम् पु᳘नरमु᳘त्र दधाति॥

मूलम् - विस्वरम्

“स्वर्ण शुक्रः स्वाहा”- इति । असौ वा आदित्यः शुक्रः । तं पुनरमुत्र दधाति ॥ २१ ॥

सायणः

[व्याख्यानं नवदशे]

Eggeling
  1. ‘The Heaven-like shining one, hail!’ the shining one, doubtless, is yonder sun: he places him again up there.

२२

विश्वास-प्रस्तुतिः

स्वर्ण ज्यो᳘तिः स्वाहे᳘ति॥
(त्य) अय᳘मग्निर्ज्यो᳘तिस्तं पु᳘नरिह᳘ दधाति᳘॥

मूलम् - श्रीधरादि

स्वर्ण ज्यो᳘तिः स्वाहे᳘ति॥
(त्य) अय᳘मग्निर्ज्यो᳘तिस्तं पु᳘नरिह᳘ दधाति᳘॥

मूलम् - Weber

स्वर्ण ज्यो᳘तिः स्वाहे᳘ति॥
अय᳘मग्निर्ज्यो᳘तिस्तम् पु᳘नरिह᳘ दधाति॥

मूलम् - विस्वरम्

“स्वर्ण ज्योतिः स्वाहा”- इति । अयमग्निर्ज्योतिः । तं पुनरिह दधाति ॥ २२ ॥

सायणः

[व्याख्यानं नवदशे]

Eggeling
  1. ‘Heaven -like light, hail!’–the light is this Agni: he places him again here (on the fire-altar).

२३

विश्वास-प्रस्तुतिः

स्व᳘र्ण सू᳘र्यः स्वाहे᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यः सू᳘र्यो ऽमुं त᳘दादित्य᳘मस्य स᳘र्व्वस्योत्तमं᳘ दधाति त᳘स्मादे᳘षो ऽस्य स᳘र्व्वस्योत्तमः[[!!]]॥

मूलम् - श्रीधरादि

स्व᳘र्ण सू᳘र्यः स्वाहे᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यः सू᳘र्यो ऽमुं त᳘दादित्य᳘मस्य स᳘र्व्वस्योत्तमं᳘ दधाति त᳘स्मादे᳘षो ऽस्य स᳘र्व्वस्योत्तमः[[!!]]॥

मूलम् - Weber

स्व᳘र्ण सू᳘र्यः स्वाहे᳘ति॥
असौ वा᳘ आदित्यः सू᳘र्यो ऽमुं त᳘दादित्य᳘मस्य स᳘र्वस्योत्तमं᳘ दधाति त᳘स्मादेॗषो ऽस्य स᳘र्वस्योत्तमः᳟॥

मूलम् - विस्वरम्

“स्वर्ण सूर्यः स्वाहा”- (वा० सं० १८ । ५०) इति । असौ वा ऽआदित्यः सूर्यः । अमुं तदादित्यमस्य सर्वस्योत्तमं दधाति । तस्मादेषो ऽस्य सर्वस्योत्तमः ॥ २३ ॥

सायणः

[व्याख्यानं नवदशे]

Eggeling
  1. ‘The heaven-like Sūrya, hail!’–Sūrya, doubtless, is yonder sun: he thus places yonder sun highest of all this (universe), whence he is the highest of all this (universe).

२४

विश्वास-प्रस्तुतिः

प᳘ञ्चैता ऽआ᳘हुतीर्जुहोति॥
प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनावेतत्सं᳘तनोति सं᳘दधाति॥

मूलम् - श्रीधरादि

प᳘ञ्चैता ऽआ᳘हुतीर्जुहोति॥
प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनावेतत्सं᳘तनोति सं᳘दधाति॥

मूलम् - Weber

प᳘ञ्चैता आ᳘हुतीर्जुहोति॥
प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनावेतत्सं᳘तनोति सं᳘दधाति॥

मूलम् - विस्वरम्

पञ्चैता आहुतीर्जुहोति । पञ्चचितिको ऽग्निः । पञ्च ऽर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनावेतत्संतनोति, संदधाति ॥ २४ ॥

सायणः

आहुतीनां पंचत्वसंख्याम् अर्काश्वमेधयोः संधानसाकल्यहेतुर्भवतीति प्रशंसति- पञ्चैता आहुतीरिति ॥ २४ ॥

Eggeling
  1. These are five oblations he offers, the fire-altar consists of five layers, a year of five seasons, and Agni is the year: as great as Agni is, as great as is his measure, with so much he thus draws together and connects those two.

२५

विश्वास-प्रस्तुतिः

य᳘द्वेवा᳘ह᳘॥
स्वर्ण᳘[[!!]] घर्मः स्वा᳘हा᳘ स्व᳘र्णार्कः स्वाहे᳘त्य᳘स्यै᳘वैता᳘न्यग्नेर्ना᳘मानि ता᳘न्येत᳘त्प्रीणाति ता᳘नि हवि᳘षा देव᳘तां क᳘रोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्यते᳘ ऽथो ऽएता᳘ने᳘वैत᳘दग्नी᳘नस्मि᳘न्नग्नौ᳘ नामग्रा᳘हं दधाति॥

मूलम् - श्रीधरादि

य᳘द्वेवा᳘ह᳘॥
स्वर्ण᳘[[!!]] घर्मः स्वा᳘हा᳘ स्व᳘र्णार्कः स्वाहे᳘त्य᳘स्यै᳘वैता᳘न्यग्नेर्ना᳘मानि ता᳘न्येत᳘त्प्रीणाति ता᳘नि हवि᳘षा देव᳘तां क᳘रोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्यते᳘ ऽथो ऽएता᳘ने᳘वैत᳘दग्नी᳘नस्मि᳘न्नग्नौ᳘ नामग्रा᳘हं दधाति॥

मूलम् - Weber

य᳘द्वेवा᳘ह॥
स्व᳘र्ण᳘ घर्मः स्वा᳘हाॗ स्व᳘र्णार्कः स्वाहे᳘त्यॗस्यैॗवैता᳘न्यग्नेर्ना᳘मानि ता᳘न्येत᳘त्प्रीणाति ता᳘नि हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा देव᳘ता न सा य᳘स्यै न᳘ गृह्यते᳘ ऽथो एता᳘नेॗवैत᳘दग्नी᳘नस्मि᳘न्नग्नौ᳘ नामग्रा᳘हं दधाति॥

मूलम् - विस्वरम्

यद्वेवाह- स्वर्ण घर्मः स्वाहा, स्वर्णार्कः स्वाहेति । अस्यैवैतान्यग्नेर्नामानि । तान्येतत्प्रीणाति । तानि हविषा देवतां करोति । यस्यै वै देवतायै हविर्गृह्यते- सा देवता । न सा- यस्यै न गृह्यते । अथो एतानेवैतदग्नीनस्मिन्नग्नौ नामग्राहं दधाति ॥ २५ ॥

सायणः

अथ स्वर्ण घर्मः स्वाहेत्यादिमन्त्रप्रयोगं प्रकारान्तरेण प्रशंसति- यद्वेवाहेति । नृषदे वेडित्यादि (श. प. ९ । २ । १ । ८-९) स्वयमातृण्णाव्याघारणमन्त्रव्याख्यानेनैव व्याख्यातमेतत् ॥ २५ ॥

Eggeling
  1. And as to why he says, ‘Heaven-like heat, hail! heaven-like flame, hail!’–these indeed are names of this fire: he thereby gratifies these, and by the offering he makes them a deity; for only that one is a deity to whom an oblation is offered, but not that to whom it is not offered. Moreover, by naming them, he thus places them on this fire-altar.

२६

विश्वास-प्रस्तुतिः

प᳘ञ्चैता ऽआ᳘हुतीर्जुहोति॥
प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - श्रीधरादि

प᳘ञ्चैता ऽआ᳘हुतीर्जुहोति॥
प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - Weber

प᳘ञ्चैता आ᳘हुतीर्जुहोति॥
प᳘ञ्चचितिको ऽग्निः प᳘ञ्च प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - विस्वरम्

पञ्चैता आहुतीर्जुहोति । पञ्च चितिको ऽग्निः । पञ्चर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्नेन प्रीणाति ॥ २६ ॥

सायणः

यद्वेवाहेत्यादिकस्यार्थवादान्तरत्वानुसारेण पुनरपि तामेवाहुतिसंख्यां प्रशंसति- पञ्चैता आहुतीरिति ॥ २६ ॥

Eggeling
  1. These are five oblations he offers,–the fire-altar consists of five layers, and the year of five seasons, and Agni is the year: as great as Agni is, as great as is his measure, by so much food he thus gratifies him.

२७

विश्वास-प्रस्तुतिः

(त्य) अथा᳘त ऽआ᳘हुतीनामे᳘वाव᳘पनस्य॥
यां कां᳘ च ब्रा᳘ह्मणवतीमा᳘हुतिं व्विद्यात्ता᳘मेत᳘स्मिन्काले᳘ जुहुयात्का᳘मेभ्यो वा᳘ ऽएतᳫँ᳭ र᳘थं युङ्क्ते त᳘द्यां कां चात्रा᳘हुतिं जुहो᳘त्याप्तां ता᳘ᳫँ᳘ सतीं᳘ जुहोति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘त ऽआ᳘हुतीनामे᳘वाव᳘पनस्य॥
यां कां᳘ च ब्रा᳘ह्मणवतीमा᳘हुतिं व्विद्यात्ता᳘मेत᳘स्मिन्काले᳘ जुहुयात्का᳘मेभ्यो वा᳘ ऽएतᳫँ᳭ र᳘थं युङ्क्ते त᳘द्यां कां चात्रा᳘हुतिं जुहो᳘त्याप्तां ता᳘ᳫँ᳘ सतीं᳘ जुहोति॥

मूलम् - Weber

अथा᳘त आ᳘हुतीनामेॗवाव᳘पनस्य॥
यां कां च ब्रा᳘ह्मणवतीमा᳘हुतिं विद्यात्त᳘मेत᳘स्मिन्काले᳘ जुहुयात्का᳘मेभ्यो वा᳘ एतं र᳘थं युङ्क्ते तद्यां कां चात्रा᳘हुतिं जुहो᳘त्याप्तां ताᳫं सतीं᳘ जुहोति॥

मूलम् - विस्वरम्

अथात आहुतीनामेवावपनस्य । यां कां च ब्राह्मणवतीमाहुतिं विद्यात्-तामेतस्मिन् काले जुहुयात् । कामेभ्यो वा एतं रथं युङ्क्ते । तद् यां कां चात्राहुतिं जुहोति । आप्तां तां सतीं जुहोति ॥ २७ ॥

सायणः

अथाहुतीनामावपनस्य मीमांसां प्रतिजानीते- अथात इति । आवपनं प्रक्षेपः, तस्य मीमांसा क्रियत इति शेषः । तामेव मीमांसां दर्शयति- यां कां च ब्राह्मणवतीमिति 12 । ब्राह्मणसंयुक्तां शाखान्तरे अग्निचयनब्राह्मणोक्तामनारभ्याधीतां यां कांचनाहुतिं जानीयात्-तामेतस्मिन्काले जुहुयात् । ननु च कालान्तरोल्लङ्घनेनास्मिन्नेव काले कस्मात्तदाहुतिहोम इति तत्राह- कामेभ्यो वा इति । एतस्मिन्काले कामानाप्तुमेव निरवशेषं संस्कृतमेतमग्निमेव रथं युंक्ते तस्मादस्मिन्काले यां कांचनाहुतिं जुहोति । तामाप्तां सतीं जुहोतीति । पूर्वं तु हुता ऽपि तदानीमग्नेरसंस्कृतत्वादनाप्तैव भवतीत्यर्थः ॥ २७ ॥

Eggeling
  1. Now as to the insertion 13 of (any other) oblations. If he should know any oblation supplied with a brāhmaṇa (dogmatic explanation) let him offer it at

this time; for it is for (the obtainment of his) wishes that he yokes this chariot, and whatsoever oblation he offers on this occasion he offers as one that is (to be) fulfilled.

२८

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्न᳘) न᳘ जुहुयान्ने᳘दतिरेच᳘यानी᳘ति स वै᳘ जुहुया᳘देव का᳘मेभ्यो वा᳘ ऽएता ऽआ᳘हुतयो हूयन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्न᳘) न᳘ जुहुयान्ने᳘दतिरेच᳘यानी᳘ति स वै᳘ जुहुया᳘देव का᳘मेभ्यो वा᳘ ऽएता ऽआ᳘हुतयो हूयन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति॥

मूलम् - Weber

त᳘दाहुः॥
न᳘ जुहुयान्ने᳘दतिरेच᳘यानी᳘ति स वै᳘ जुहुयादेव का᳘मेभ्यो वा᳘ एता आ᳘हुतयो हूयन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति॥

मूलम् - विस्वरम्

तदाहुः- न जुहुयात्- नेदतिरेचयानीति । स वै जुहुयादेव । कामेभ्यो वा ऽएता आहुतयो हूयन्ते । न वै कामानामतिरिक्तमस्ति ॥ २८ ॥

इत्याहवनीयाग्निचयनोत्तरकर्माणि ।

सायणः

अथ ब्राह्मणोक्तानामाहुतीनामहोमं पूर्वपक्षीकृत्य पुनर्होममेव सिद्धान्तयति- तदाहुरिति । एतस्मिन्ब्राह्मणे ऽनाम्नानात्तथाविधाहुतीनां होमे ऽतिरेकः स्यादिति हेतुमाहुः- नेदतिरेचयानीति । इत्यभिप्रायेण न जुहुयादिति केचिच्छाखिन आहुः । न चैवमतिरेकशङ्कया न जुहुयात् । कुतः ? कामेभ्यः खल्वेता आहुतयो हूयन्ते । नहि कामानामतिरिक्तमतिरेको ऽस्ति । सर्वेषामपि कामानामपेक्षितत्वात्तथा च कामार्थानामेतासामाहुतीनां होमो ऽपि नातिरेक इति जुहुयादेवेत्यर्थः ॥ २८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे चतुर्थे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (९-४-२) ॥

Eggeling
  1. As to this they say, ‘Let him not offer (any additional oblations), lest he should do what is excessive.’ Let him, nevertheless, offer them; for it is for (special) wishes that these oblations are offered, and in wishes there is nothing excessive.

  1. आविपत्तिः (?) Sây. ↩︎

  2. समुद्रो ऽसीति प्रतिमंत्रम् । का० श्रौ० सू० १८ । ८६ । ↩︎

  3. 236:1 That is, these oblations are, as it were, to represent the team of the chariot. ↩︎

  4. 237:1 Or, he supplies him (Agni). ↩︎

  5. 237:2 According to Kāty. Śr. XVIII, 6, 1, 2, the Adhvaryu first takes a double handful of air from beyond the east side of the Vedi, and offers it below the right (south) shaft; then from beyond the north side to be offered up below the left shaft, and lastly from beyond the south side to be offered below the shaft where the right side-horse would be yoked. In each case the girth (or yoke-tie) is to be carried round in the same way as if a real horse were yoked. ↩︎

  6. 237:3 Sāyaṇa takes it to mean ’that horse’; and according to Kāty. Śr. XVIII, 6, 3-5, the carriage is to be carried to the Adhvaryu’s house, and, at the time when the dakshiṇās are presented to the priests, it is to be given to that priest along with three horses. The Brāhmaṇa, however, does not seem to mention the horses. ↩︎

  7. 237:4 Literally, of the yoked one. ↩︎

  8. नव जुहोति यास्त इति प्रतिमंत्रम् । का. श्रौ. सू. । १८ । ९१ । ↩︎

  9. 237:5. These oblations are here called ‘ruṅmatī,’ because the three verses used with them contain the word ‘ruc,’ being prayers for the bestowal of light. ↩︎

  10. 238:1 These two verses had already been used in laying down the Dviyajus bricks; see VII, 4, 2, 21. ↩︎ ↩︎

  11. 239:1 That is, the joining together of the fire and the horse-sacrifice. ↩︎

  12. जानन् ब्राह्मणोक्ता जुहुयाद् वा । का० श्रौ० सू० १८ । ९२ । ↩︎

  13. 240:1 Or, location, proper place; cf. p. 138, note 1. ↩︎