०१

विश्वास-प्रस्तुतिः

अथा᳘तो राष्ट्रभृ᳘तो जुहोति॥
रा᳘जानो वै᳘ राष्ट्रभृ᳘तस्ते हि᳘ राष्ट्रा᳘णि बि᳘भ्रत्येता᳘ ह देव᳘ताः सुता᳘ ऽएते᳘न सवे᳘न ये᳘नैत᳘त्सोष्य᳘माणो भ᳘वति ता᳘ ऽए᳘वैत᳘त्प्रीणाति ता᳘ ऽअस्मा ऽइष्टाः᳘ प्रीता᳘ ऽएत᳘ᳫँ᳘ सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्यद्रा᳘जानो राष्ट्रा᳘णि बि᳘भ्रति रा᳘जान ऽउ ऽएते᳘ देवास्त᳘स्मादेता᳘ राष्ट्रभृ᳘तः॥

मूलम् - श्रीधरादि

अथा᳘तो राष्ट्रभृ᳘तो जुहोति॥
रा᳘जानो वै᳘ राष्ट्रभृ᳘तस्ते हि᳘ राष्ट्रा᳘णि बि᳘भ्रत्येता᳘ ह देव᳘ताः सुता᳘ ऽएते᳘न सवे᳘न ये᳘नैत᳘त्सोष्य᳘माणो भ᳘वति ता᳘ ऽए᳘वैत᳘त्प्रीणाति ता᳘ ऽअस्मा ऽइष्टाः᳘ प्रीता᳘ ऽएत᳘ᳫँ᳘ सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्यद्रा᳘जानो राष्ट्रा᳘णि बि᳘भ्रति रा᳘जान ऽउ ऽएते᳘ देवास्त᳘स्मादेता᳘ राष्ट्रभृ᳘तः॥

मूलम् - Weber

अथा᳘तो राष्ट्रभृ᳘तो जुहोति॥
रा᳘जानो वै᳘ राष्ट्रभृ᳘तस्ते हि᳘ राष्ट्रा᳘णि बि᳘भ्रत्येता᳘ ह देव᳘ताः सुता᳘ एते᳘न सवे᳘न ये᳘नैत᳘त्सोष्य᳘माणो भ᳘वति ता᳘ एॗवैत᳘त्प्रीणाति ता᳘ अस्मा इष्टाः᳘ प्रीता᳘ एत᳘ᳫं᳘ सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्यद्रा᳘जानो राष्ट्रा᳘णि बि᳘भ्रति रा᳘जान उ एते᳘ देवास्त᳘स्मादेता᳘ राष्ट्रभृतः॥

मूलम् - विस्वरम्

अथ राष्ट्रभृद्धोमः ।

अथातो राष्ट्रभृतो जुहोति । राजानो वै राष्ट्रभृतः । ते हि राष्ट्राणि बिभ्रति । एता ह देवताः सुता एतेन सवेन । येनैतत्सोष्यमाणो भवति- ता एवैतत्प्रीणाति । ता ऽअस्मा इष्टाः प्रीता एवं सवमनुमन्यन्ते । ताभिरनुमतः सूयते । यस्मै वै राजानो राज्यमनुमन्यन्ते- स राजा भवति । न सः- यस्मै न । तद् यद्राजानो राष्ट्राणि बिभ्रति, राजान उ एते देवाः । तस्मादेता राष्ट्रभृतः ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ राष्ट्रभृतां होमं विधत्ते- अथात 1 इति । ‘राष्ट्रभृतो जुहोति’ राष्ट्रभृदाख्यान् होमान् कुर्यात् । राष्ट्रभरणसाधारण्येनैतेषां राष्ट्रभृतां राजत्वमाह- राजानो वा इति । अथ किमर्थमयं राष्ट्रभृतां होम इति तत्राह- एता ह देवता इति । अत्र एता देवताः पूर्वमभिषिक्ता इति कथनादेतदुपयोगित्वेन अनन्तरं राजत्वमुक्तम् । ननु चात्र येनैतत्सोष्यमाणो भवतीति लृट्प्रत्ययः प्रयुज्यते । स च भविष्यति । न चात्राभिषेको भविष्यति काले क्रियते तस्य पूर्वमेव संपादितत्वात् । एवं च कथमेतत्संगच्छत इति ? उच्यते । अभिषेकात्पूर्वो यः कालस्तदपेक्षायां लृट्प्रत्ययप्रयोगः । एवं तर्हि ता एवैतत्प्रीणाति ताभिरनुमतः सूयते इत्येतन्नोपपद्यते- कुतः ? न खलु अभिषेकात्पूर्वमेतासां प्रीणनार्थं होमः क्रियते । अप्रीणिताश्च नानुमन्यन्ते इति । नैष दोषः । अभिषेकात्पूर्वमेतद्देवता ऽनुमत्यभावे ऽपि इदानीमनेन होमेन प्रीणिताः प्राक् सम्पादितमभिषेकमनुमन्यन्ते । ततः स यजमानस्ताभिरनुमत एवाभिषिक्तो भवति । अन्यथा ऽभिषेके ऽप्येतद्देवतानुमतिविरहेणानभिषिक्तप्रायो भवतीत्यर्थः । अथवा “अथ रथशीर्षे जुहोति । एष वै स सवः” इति परस्तादप्यभिषेको (त्रयोदशकण्डिकायाम्) वक्ष्यते तत्कालापेक्षश्चायं लृट्प्रत्ययः । अथैतेषां राष्ट्रभृत्संज्ञाप्राप्तिं दर्शयति- तद्यद्राजान इति । ‘राजानो वै राष्ट्रभृतः’ इति राजत्वस्योक्तत्वात् एते देवा राजानः । राजानश्च राष्ट्राणि बिभ्रति । यत एवं तस्मादेता राष्ट्रभृतः । पूर्वं राष्ट्रभरणेन राजत्वमुक्तम् । इदानीं तु राजत्वमुपजीव्य राष्ट्रभृत्संज्ञकत्वमुच्यते ॥ १ ॥

Eggeling
  1. He then offers the Rāshṭrabhr̥t (realm-sustaining) oblations;–the realm-sustainers, doubtless, are the kings, for it is they that sustain realms. These deities, indeed, have been consecrated by this same consecration ceremony by which he (the Sacrificer) is now to be consecrated: it is them he thereby gratifies, and thus gratified by offering, they grant him permission (to perform) this consecration ceremony, and, permitted by them, he is consecrated; for only he becomes king whom the (other) kings allow (to assume) the royal dignity, but not he whom they do not (allow to assume it). And inasmuch as the kings sustain realms, and these gods are kings, therefore Realm-sustaining (oblations are performed).

०२

विश्वास-प्रस्तुतिः

(तो) य᳘द्वे᳘वैता᳘ राष्ट्रभृ᳘तो जुहो᳘ति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तान्मिथुनान्यु᳘दक्रामन्गन्धर्वाप्सर᳘सो भूत्वा ता᳘नि र᳘थो भूत्वा प᳘र्यगच्छत्ता᳘नि परि᳘गत्यात्म᳘न्नधत्तात्म᳘न्नकुरुत त᳘थै᳘वैनान्यय᳘मेत᳘त्परिग᳘त्यात्म᳘न्धत्त ऽआत्म᳘न्कुरुते॥

मूलम् - श्रीधरादि

(तो) य᳘द्वे᳘वैता᳘ राष्ट्रभृ᳘तो जुहो᳘ति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तान्मिथुनान्यु᳘दक्रामन्गन्धर्वाप्सर᳘सो भूत्वा ता᳘नि र᳘थो भूत्वा प᳘र्यगच्छत्ता᳘नि परि᳘गत्यात्म᳘न्नधत्तात्म᳘न्नकुरुत त᳘थै᳘वैनान्यय᳘मेत᳘त्परिग᳘त्यात्म᳘न्धत्त ऽआत्म᳘न्कुरुते॥

मूलम् - Weber

य᳘द्वेॗवैता᳘ राष्ट्रभृ᳘तो जुहो᳘ति॥
प्रजा᳘पतेर्वि᳘स्रस्तान्मिथुनान्यु᳘दक्रामन्गन्धर्वाप्सर᳘सो भूत्वा ता᳘नि र᳘थो भूत्वा प᳘र्यगछत्ता᳘नि परि᳘गत्यात्म᳘न्नधत्तात्म᳘न्नकुरुत त᳘थैॗवैनान्यय᳘मेत᳘त्परिग᳘त्यात्म᳘न्धत्त आत्म᳘न्कुरुते॥

मूलम् - विस्वरम्

यद्वेवैता राष्ट्रभृतो जुहोति । प्रजापतेर्विस्रस्तान्मिथुनान्युदक्रामन्- गन्धर्वाप्सरसो भूत्वा । तानि रथो भूत्वा पर्यगच्छत् । तानि परिगत्यात्मन्नधत्त, आत्मन्नकुरुत । तथैवैनान्ययमेतत्परिगत्यात्मन्धत्ते, आत्मन्कुरुते ॥ २ ॥

सायणः

प्रकारान्तरेण राष्ट्रभृतां होमं प्रशंसति- यद्वेवैता इति । पूर्वं ‘विस्रस्तात्प्रजापतेः’ ‘गन्धर्वाप्सरसो’ भूत्वोत्क्रान्तानि ‘मिथुनानि’ प्रजापतिः स्वयं ‘रथो भूत्वा तानि’ परिगत्यात्मनि धृतवान्, धृत्वा च पुनर्यथा नोत्क्रामेयुस्तथा कृतवान् । अतश्च राष्ट्रभृतां होमेन यजमानो ऽपि तथैव कुरुते ॥ २ ॥

Eggeling
  1. And, again, as to why he offers the Realm-sustaining (oblations). From Prajāpati, when dismembered, couples went forth, in the form of Gandharvas and Apsaras; and he, having turned into a chariot, enclosed them, and having enclosed them, he took them to himself and made them his own; and in like manner does this (Sacrificer), thereby enclosing them, take them to himself and make them his own.

०३

विश्वास-प्रस्तुतिः

स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘न्यस्मात्ता᳘नि मिथुना᳘न्युद᳘क्रामन्नेतास्ता᳘ देव᳘ता या᳘भ्य ऽएत᳘ज्जुहो᳘ति॥

मूलम् - श्रीधरादि

स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘न्यस्मात्ता᳘नि मिथुना᳘न्युद᳘क्रामन्नेतास्ता᳘ देव᳘ता या᳘भ्य ऽएत᳘ज्जुहो᳘ति॥

मूलम् - Weber

स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रंसत॥
अय᳘मेव सॗ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘न्यस्मात्ता᳘नि मिथुना᳘न्युद᳘क्रामन्नेतास्ता᳘ देव᳘ता या᳘भ्य एत᳘ज्जुहो᳘ति॥

मूलम् - विस्वरम्

स यः स प्रजापतिर्व्यस्रंसत- अयमेव सः- यो ऽयमग्निश्चीयते । अथ यान्यस्मात्तानि मिथुनान्युदक्रामन्- एतास्ता देवताः- याभ्य एतज्जुहोति ॥ ३ ॥

सायणः

ननु कथमग्नौ राष्ट्रभृतां होमेन प्रजापतेर्मिथुननिधानं घटत इति तत्राह- स यः स प्रजापतिरिति ॥ ३ ॥

Eggeling
  1. Now that Prajāpati who was dismembered, is this very Agni who is here being built up; and

those couples which went forth from him, are these same deities to whom he now makes offering.

०४

विश्वास-प्रस्तुतिः

गन्धर्वाप्सरो᳘भ्यो जुहोति॥
गन्धर्वाप्सर᳘सो हि᳘ भू᳘त्वोद᳘क्रामन्न᳘थो[[!!]] गन्धे᳘न च वै᳘ रूपे᳘ण च गन्धर्वाप्सर᳘सश्चरन्ति त᳘स्माद्यः क᳘श्च मिथुन᳘मुपप्रै᳘ति गन्धं᳘ चैव स᳘ रूपं᳘ च कामयते॥

मूलम् - श्रीधरादि

गन्धर्वाप्सरो᳘भ्यो जुहोति॥
गन्धर्वाप्सर᳘सो हि᳘ भू᳘त्वोद᳘क्रामन्न᳘थो[[!!]] गन्धे᳘न च वै᳘ रूपे᳘ण च गन्धर्वाप्सर᳘सश्चरन्ति त᳘स्माद्यः क᳘श्च मिथुन᳘मुपप्रै᳘ति गन्धं᳘ चैव स᳘ रूपं᳘ च कामयते॥

मूलम् - Weber

गन्धर्वाप्सरो᳘भ्यो जुहोति॥
गन्धर्वाप्सर᳘सो हि᳘ भूत्वो᳘दक्रामन्न्न᳘थो गन्धे᳘न च वै᳘ रूपे᳘ण च गन्धर्वाप्सर᳘सश्चरन्ति त᳘स्माद्यः क᳘श्च मिथुन᳘मुपप्रै᳘ति गन्धं᳘ चैव स᳘ रूपं᳘ च कामयते॥

मूलम् - विस्वरम्

गन्धर्वाप्सरोभ्यो जुहोति । गन्धर्वाप्सरसो हि भूत्वोदक्रामन् । अथो गन्धेन च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति । तस्माद्यः कश्च मिथुनमुपप्रैति- गन्धं चैव स रूपं च कामयते ॥ ४ ॥

सायणः

गन्धर्वाप्सरोरूपेणोत्क्रमणात्तदुद्देशेन होमो युज्यत इत्याह- गन्धर्वाप्सरोभ्यो जुहोतीति । अथ गन्धर्वाप्सरःशब्दानुसारेण तदीयमिथुनत्वं दर्शयति- अथो गन्धेनेति । ‘गन्धेन च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति’ इत्यनेन गन्धर्वशब्दो ऽप्सरःशब्दश्च निरुध्यते । गन्धेन विशन्तीति गन्धर्वाः । अप्शब्देन रूपमभिधीयते, तेन विशिष्टाः सरन्तीति अप्सरसः, ते च ताश्च गन्धर्वाप्सरसः । गन्धर्वाप्सरःशब्दयोः पृषोदरादित्वात्- वर्णागमादिविधानेनोक्त एवार्थे साधुत्वं द्रष्टव्यम् । तस्माल्लोके यः कश्चिदपि मिथुनमुपगच्छति । अत्र मिथुनशब्देन मिथुनभावः स्त्री चाभिधीयते । ‘सः’ पुरुषो ‘गन्धं चैव रूपं च कामयते’ एवं च गन्धर्वाप्सरःशब्दानुसारेण गन्धर्वाप्सरसां मिथुनत्वं दर्शितं भवति ॥ ४ ॥

Eggeling
  1. He makes offering to the Gandharvas and Apsaras, for in the form of Gandharvas and Apsaras they went forth (from Prajāpati). But the Gandharvas and Apsaras also busy themselves with sweet scent (gandha) and beauteous form (rūpa 2), whence if any one goes to his mate he cultivates sweet scent and a beautiful appearance.

०५

विश्वास-प्रस्तुतिः

मिथुना᳘नि जुहोति॥
मिथुनाद्वा ऽअ᳘धि प्र᳘जातिर्यो वै᳘ प्रजा᳘यते स᳘ राष्ट्रं᳘ भवत्य᳘राष्ट्रं वै स᳘ भवति यो न᳘ प्रजा᳘यते तद्य᳘न्मिथुना᳘नि राष्ट्रं बि᳘भ्रति मिथुना᳘ ऽउ ऽएते᳘ देवास्त᳘स्मादेता᳘ राष्ट्रभृ᳘त ऽआ᳘ज्येन द्वादशगृहीते᳘न ता᳘ ऽउ द्वा᳘दशैवा᳘हुतयो भवन्ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

मिथुना᳘नि जुहोति॥
मिथुनाद्वा ऽअ᳘धि प्र᳘जातिर्यो वै᳘ प्रजा᳘यते स᳘ राष्ट्रं᳘ भवत्य᳘राष्ट्रं वै स᳘ भवति यो न᳘ प्रजा᳘यते तद्य᳘न्मिथुना᳘नि राष्ट्रं बि᳘भ्रति मिथुना᳘ ऽउ ऽएते᳘ देवास्त᳘स्मादेता᳘ राष्ट्रभृ᳘त ऽआ᳘ज्येन द्वादशगृहीते᳘न ता᳘ ऽउ द्वा᳘दशैवा᳘हुतयो भवन्ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

मिथुना᳘नि जुहोति॥
मिथुनाद्वा अ᳘धि प्र᳘जातिर्यो वै᳘ प्रजा᳘यते स᳘ राष्ट्र᳘म् भवत्य᳘राष्ट्रं वै स᳘ भवति यो न᳘ प्रजा᳘यते तद्य᳘न्मिथुना᳘नि राष्ट्रम् बि᳘भ्रति मिथुना᳘ उ एते᳘ देवास्त᳘स्मादेता᳘ राष्ट्रभृ᳘त आ᳘ज्येन द्वादशगृहीते᳘न ता᳘ उ द्वा᳘दशैवा᳘हुतयो भवन्ति त᳘स्योत्रो ब᳘न्धुः॥

मूलम् - विस्वरम्

मिथुनानि जुहोति । मिथुनाद्वा अधि प्रजातिः । यो वै प्रजायते- स राष्ट्रं भवति । अराष्ट्रं वै स भवति- यो न प्रजायते । तद्यन्मिथुनानि राष्ट्रं बिभ्रति, मिथुना उ एते देवाः- तस्मादेता राष्ट्रभृतः । आज्येन द्वादशगृहीतेन । ता उ द्वादशैवाहुतयो भवन्ति । तस्योक्तो बन्धुः ॥ ५ ॥

सायणः

पुनः प्रकारान्तरेणैतासां राष्ट्रभृत्संज्ञासम्बन्धं दर्शयति- मिथुनानि जुहोतीति । ‘प्रजातिः’ प्रकर्षेण जननं पुत्रपौत्रादीनामुत्पत्तिः सा मिथुनादेव भवति खलु । अतश्च यो वै पुरुषः प्रजायते पुत्रपौत्रादिपरंपरया विविधं जायते स एव राष्ट्रं भवति । तस्य प्रजाबाहुल्येन राष्ट्रसाधनसामर्थ्यात् । यस्तु न प्रजायते स राष्ट्रं न भवति, तस्य प्रजाभावेन राष्ट्रसाधनसामर्थ्याभावात् । एवं च मिथुनानां राष्ट्रभृत्त्वात् मिथुनभूतानामेतेषां देवानामपि राष्ट्रभृत्वमित्यर्थः । प्रकृतहोमे द्रव्यं तत्परिमाणं च विधत्ते- आज्येन द्वादशगृहीतेनेति । ग्रहणसंख्यानुसारेण ता द्वादशैवाहुतयो भवन्ति । तस्य द्वादशेत्यस्य ब्राह्मणं “द्वादश मासाः संवत्सरः”- इत्यादिना प्रागुक्तमित्याह- ता उ द्वादशैवेति ॥ ५ ॥

Eggeling
  1. He offers pairs (of oblations), for birth originates from a pair; and he alone is (ruler of) a kingdom who propagates offspring, but not he who does not propagate offspring. And inasmuch as couples sustain the realm, and these deities consist of couples, these (oblations are called) Realm-sustainers. With ghee taken in twelve ladlings (he offers), and there are twelve of these oblations: the significance of this has been explained.

०६

विश्वास-प्रस्तुतिः

पुᳫँ᳭से पू᳘र्व्वस्मै जुहोति॥
(त्य᳘) अ᳘थ स्त्रीभ्यः पु᳘माᳫँ᳭सं त᳘द्वी᳘र्येणात्या᳘दधात्ये᳘कस्मा ऽइव पुᳫँ᳭से᳘ जुहो᳘ति बह्वी᳘भ्य ऽइव स्त्रीभ्यस्त᳘स्मादप्ये᳘कस्य पुᳫँ᳭सो᳘ ब᳘ह्व्यो जाया᳘ भवन्त्युभा᳘भ्यां व्वषट्कारे᳘ण च स्वाहाकारे᳘ण च पुᳫँ᳭से᳘ जुहो᳘ति स्वाहाकारे᳘णैव᳘ स्त्रीभ्यः पु᳘माᳫँ᳭समेव त᳘द्वी᳘र्येणात्या᳘दधाति॥

मूलम् - श्रीधरादि

पुᳫँ᳭से पू᳘र्व्वस्मै जुहोति॥
(त्य᳘) अ᳘थ स्त्रीभ्यः पु᳘माᳫँ᳭सं त᳘द्वी᳘र्येणात्या᳘दधात्ये᳘कस्मा ऽइव पुᳫँ᳭से᳘ जुहो᳘ति बह्वी᳘भ्य ऽइव स्त्रीभ्यस्त᳘स्मादप्ये᳘कस्य पुᳫँ᳭सो᳘ ब᳘ह्व्यो जाया᳘ भवन्त्युभा᳘भ्यां व्वषट्कारे᳘ण च स्वाहाकारे᳘ण च पुᳫँ᳭से᳘ जुहो᳘ति स्वाहाकारे᳘णैव᳘ स्त्रीभ्यः पु᳘माᳫँ᳭समेव त᳘द्वी᳘र्येणात्या᳘दधाति॥

मूलम् - Weber

पुंसे पू᳘र्वस्मै जुहोति॥
अ᳘थ स्रीभ्यः पु᳘मांसं त᳘द्वीॗर्येणात्या᳘दधात्ये᳘कस्मा इव पुंसे᳘ जुहो᳘ति बह्वी᳘भ्य इव स्रीभ्यस्त᳘स्मादप्ये᳘कस्य पुंसो᳘ बॗह्व्यो जाया᳘ भवन्त्युभा᳘भ्यां वषट्कारे᳘ण च स्वाहाकारे᳘ण च पुंसे᳘ जुहो᳘ति स्वानाकारे᳘णैव᳘ स्त्रीभ्यः पु᳘मांसमेव त᳘द्वीॗर्येणात्या᳘दधाति॥

मूलम् - विस्वरम्

पुंसे पूर्वस्मै जुहोति, अथ स्त्रीभ्यः । पुमांसं तद्वीर्येणात्यादधाति । एकस्मा इव पुंसे जुहोति, बह्वीभ्य इव स्त्रीभ्यः । तस्मादप्येकस्य पुंसो बह्व्यो जाया भवन्ति । उभाभ्यां- वषट्कारेण च, स्वाहाकारेण च पुंसे जुहोति । स्वाहाकारेणैव स्त्रीभ्यः । पुमांसमेव तद्वीर्येणात्यादधाति ॥ ६ ॥

सायणः

मंत्रे तस्मै स्वाहा वाट् ताभ्यः स्वाहेत्याम्नानात् तेनैव क्रमेण होमं प्रशंसति- पुँ से पूर्वस्मा इति । तत्तेन प्रथमं होमेन स्त्रीभ्यः पुमांसं वीर्येणात्यादधाति अतिशयितं करोति । तस्मै स्वाहा ताभ्यः स्वाहेत्युक्तां स्त्रीपुंसयोः संख्यां प्रशंसति- एकस्मा एवेति । वषट्कारस्वाहाकाराभ्यां पुंसे हूयते । स्वाहाकारेणैव स्त्रीभ्यो हूयते । एवं च प्रधानशब्दाधिक्यात्स्त्रीपुंभ्यः पुमांसंवीर्याधिकं कृतवान् भवतीत्याह- उभाभ्यामिति । उभशब्दार्थं दर्शयति- वषट्कारेण च स्वाहाकारेण चेति । वाडिति परो ऽक्षो वषट्कार इत्युक्तम् ॥ ६ ॥

Eggeling
  1. To the male (deity) he makes offering first, then to the females: he thereby endows the male pre-eminently with power 3. To a single male he makes offering, and to many females, whence even a single man has many wives. To the male (deity) he makes offering both with the Vashaṭ-call and the Svāhā-call, to the female (deities) only with the Svāhā: he thereby endows the male pre-eminently with power.

०७

विश्वास-प्रस्तुतिः

(त्यृ) ऋताषा᳘डृत᳘धामे᳘ति॥
सत्यसा᳘ट् सत्य᳘धामे᳘त्येत᳘दग्नि᳘र्गन्धर्वस्तस्यौ᳘षधयो ऽप्सर᳘स ऽइ᳘त्यग्नि᳘र्ह गन्धर्व ऽओ᳘षधिभिरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्राम मु᳘दो नामेत्यो᳘षधयो वै मु᳘द ऽओ᳘षधिभि᳘र्हीदᳫँ᳭ स᳘र्व्वं मो᳘दते स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पातु त᳘स्मै स्वा᳘हा व्वाट्ता᳘भ्यः स्वाहे᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्यृ) ऋताषा᳘डृत᳘धामे᳘ति॥
सत्यसा᳘ट् सत्य᳘धामे᳘त्येत᳘दग्नि᳘र्गन्धर्वस्तस्यौ᳘षधयो ऽप्सर᳘स ऽइ᳘त्यग्नि᳘र्ह गन्धर्व ऽओ᳘षधिभिरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्राम मु᳘दो नामेत्यो᳘षधयो वै मु᳘द ऽओ᳘षधिभि᳘र्हीदᳫँ᳭ स᳘र्व्वं मो᳘दते स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पातु त᳘स्मै स्वा᳘हा व्वाट्ता᳘भ्यः स्वाहे᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

ऋताषा᳘डृत᳘धामे᳘ति॥
सत्यसा᳘ट् सत्य᳘धामे᳘त्येत᳘दग्नि᳘र्गन्धर्वस्तस्यौ᳘षधयो ऽप्सर᳘स इ᳘त्यग्नि᳘र्ह गन्धर्व ओ᳘षधिभिरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्राम मु᳘दो नामेत्यो᳘षधयो वै मु᳘द ओ᳘षधिभिॗर्हीदᳫं स᳘र्वम् मो᳘दते स᳘ न इदम् ब्र᳘ह्म क्षत्र᳘म् पातु त᳘स्मै स्वा᳘हा वाट् ता᳘भ्यः स्वाहे᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“ऋताषाडृतधामा”- इति । सत्यसाट् सत्यधामेत्येतत् । “अग्निर्गन्धर्वस्तस्यौषधयो ऽप्सरसः”- इति । अग्निर्ह गन्धर्वः- ओषधिभिरप्सरोभिर्मिथुनेन सहोच्चक्राम । “मुदो नाम”- इति । ओषधयो वै मुदः । ओषधिभिर्हीदं सर्वं मोदते । “स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट्, ताभ्यः स्वाहा”- (वा. सं. १८ । ३८) इति । तस्योक्तो बन्धुः ॥ ७ ॥

सायणः

अथ क्रमेण मन्त्रान्व्याचिख्यासुस्तत्र प्रथममन्त्रे ऋताषाड्ऋतधामेत्यत्र ऋतशब्दस्य सत्यमर्थ इत्याह- ऋताषाडिति । यतो ऽग्निरेव गन्धर्व ओषधिभिरेवाप्सरोभिः सह मिथुनभावेनोच्चक्राम । अत उच्यते मन्त्रेण- अग्निर्ह गन्धर्व इति । व्रीह्यादिभिरोषधिभिरिदं सर्वं जगन्मोदत इति ओषधयो मुदः । अत उक्तं मुदो नामेत्याह- मुदो नामेतीति । वषट्कारस्वाहाकारयोर्ब्राह्मणं “वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्यो ऽन्नं प्रदीयते” (श. प. ९ । ३ । ३ । १४) इत्येवं प्रागेवोक्तमित्याह- तस्मै स्वाहा वाट् ताभ्यः स्वाहेति तस्योक्तो बन्धुरिति । अत्रैवं मन्त्रविभागः । यान्यत्र पुल्ँलिङ्गानि पदानि तान्येकवाक्यतामुपनेयानि, एवं स्त्रीलिङ्गान्यपि । “ऋताषाड्ऋतधामा ऽग्निर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाड्” इति पूर्वो मन्त्रः । “तस्योषधयो ऽप्सरसो मुदो नाम ताभ्यः स्वाहा” इत्युत्तरो मन्त्रः । तस्यौषधय इति साकाङ्क्षत्वात्- ‘ऋताषाड्ऋतधामा ऽग्निर्गन्धर्वः’ इत्यनुवर्तते । ऋतं सत्यं सहत इति ऋताषाट् “छन्दसि सहः”- (पा. सू. ३ । २ । ६३) इति क्विप् प्रत्ययः । “नहिवृति०” (पा. सू. ६ । ३ । ११६) इत्यादिना पूर्वपदस्य दीर्घः । ऋतं धाम यस्यासौ ऋतधामा ऽग्निरेव यो गन्धर्वः स नो ऽस्मत्संबन्धिनो यजमानस्य ‘इदं ब्रह्म’ ब्राह्मणजातिं ‘क्षत्रम्’ क्षत्रियजातिं च पातु, तस्मा अग्नये गन्धर्वाय ‘इदम्’ हविः स्वाहा वाट् इति शब्दद्वयमपि संप्रदानार्थे, स्वाहा वाट् दत्तमस्त्विति प्रथमस्यार्थः । ऋताषाट् ऋतधामा यो ऽग्निर्गन्धवो ऽस्ति तस्य मुदो नाम या ओषधय एवाप्सरसः सन्ति ताभ्य इदम् हविः स्वाहा सुहुतमस्त्विति द्वितीयस्यार्थः । उत्तरत्र सर्वत्राप्येवमेव योजना ॥ ७ ॥

Eggeling
  1. [He offers, with, Vāj. S. XVIII, 38-43], ‘The

law-upholding, law-abiding,’–that is, the truth-upholding, truth-abiding,–‘Agni is the Gandharva: his Apsaras are the plants,’–for as a Gandharva, Agni, indeed, went forth with the plants as the Asparas, his mates,–‘Delights (mud) by name,’–the plants are indeed delights, for everything here delights in plants–‘may he protect this our priesthood and nobility: to him Hail! Vāṭ! To them (fem.) Hail!’ The meaning of this has been explained 4

०८

विश्वास-प्रस्तुतिः

सᳫँ᳭हित ऽइ᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यः᳘ सᳫँ᳭हित᳘ ऽएष᳘ ह्यहोरात्रे᳘[[!!]] संद᳘धाति व्विश्व᳘सामे᳘त्येष᳘ ह्येव स᳘र्व्वᳫँ᳭ सा᳘म सू᳘र्यो गन्धर्वस्त᳘स्य म᳘रीचयो ऽप्सर᳘स ऽइ᳘ति सू᳘र्यो ह गन्धर्वो म᳘रीचिभिरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्रामायु᳘वो नामे᳘त्यायुवाना᳘ ऽइव हि म᳘रीचयः प्ल᳘वन्ते स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

सᳫँ᳭हित ऽइ᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यः᳘ सᳫँ᳭हित᳘ ऽएष᳘ ह्यहोरात्रे᳘[[!!]] संद᳘धाति व्विश्व᳘सामे᳘त्येष᳘ ह्येव स᳘र्व्वᳫँ᳭ सा᳘म सू᳘र्यो गन्धर्वस्त᳘स्य म᳘रीचयो ऽप्सर᳘स ऽइ᳘ति सू᳘र्यो ह गन्धर्वो म᳘रीचिभिरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्रामायु᳘वो नामे᳘त्यायुवाना᳘ ऽइव हि म᳘रीचयः प्ल᳘वन्ते स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

संहित इ᳘ति॥
असौ वा᳘ आदित्यः᳘ संहित᳘ एष ह्य᳘होरात्रे᳘ संद᳘धाति विश्व᳘सामे᳘त्येषॗ ह्येव स᳘र्वᳫं सा᳘म सू᳘र्यो गन्धर्वस्त᳘स्य म᳘रीचयो ऽप्सर᳘स इ᳘ति सू᳘र्यो ह गन्धर्वो म᳘रीचिभिरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्रामायु᳘वो नामे᳘त्यायुवाना᳘ इव हि म᳘रीचयः प्ल᳘वन्ते स᳘ न इदम् ब्र᳘ह्म क्षत्र᳘म् पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“संहितः”- इति । असौ वा आदित्यः संहितः । एष ह्यहोरात्रे सन्दधाति । “विश्वसामा”- इति । एष ह्येव सर्वं साम । “सूर्यो गन्धर्वस्तस्य मरीचयो ऽप्सरसः”- इति । सूर्यो ह गन्धर्वो मरीचिभिरप्सरोभिर्मिथुनेन सहाच्चक्राम । “आयुवो नाम”- इति । आयुवाना इव हि मरीचयः प्लवन्ते । “स न इदं ब्रह्म क्षत्रं पातु”- (वा. सं. १८ । ३९) इति । तस्योक्तो बन्धुः ॥ ८ ॥

सायणः

अहोरात्रयोः संबन्धाधायकत्वेन संहितशब्दो ऽयमादित्यसमवेतार्थ इत्याह- असौ वा आदित्य इति । “य एष एतस्मिन्मण्डले ऽर्चिर्दीप्यते तानि सामानि” इत्यादिश्रुतेः एष एव ‘आदित्यः’ ‘सर्वं साम’ खलु । अत उच्यते विश्वसामेत्याह- विश्वसामेतीति । विश्वं साम यस्यासौ विश्वसामा । तत्तद्वतोरभेदमाश्रित्योक्तम् ‘एष ह्येव सर्वं साम’ इति । यतो मरीचय आयुवाना इव प्लवन्ते अत उक्तम् आयुवो नामेत्याह- आयुवो नामेतीति । शिष्टं पूर्ववत् ॥ ८ ॥

Eggeling
  1. ‘The Close-knit,’–yonder sun is indeed close-knit, for he knits together the days and nights;–‘all-wealthy,’–for that (sun) indeed is every kind of wealth;–‘Sūrya is the Gandharva: his Apsaras are the sun-motes;’–for as a Gandharva, the sun, indeed, went forth with the sun-motes as the Apsaras, his mates,–‘Mobile (āyu) by name,’–for moving together 5, as it were, the sun-motes float;–‘may he protect this our priesthood and nobility,’–the meaning of this has been explained.

०९

विश्वास-प्रस्तुतिः

सुषुम्ण ऽइ᳘ति॥
सुयज्ञिय ऽइ᳘त्येतत्सू᳘र्यरश्मिरि᳘ति सू᳘र्यस्येव हि᳘ चन्द्र᳘मसो रश्म᳘यश्चन्द्र᳘मा गन्धर्वस्त᳘स्य न᳘क्षत्राण्यप्सर᳘स ऽइ᳘ति चन्द्र᳘मा ह गन्धर्वो न᳘क्षत्रैरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्राम भेकु᳘रयो नामे᳘ति भाकु᳘रयो ह ना᳘मैते भाᳫँ᳭ हि न᳘क्षत्राणि कुर्व्व᳘न्ति स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

सुषुम्ण ऽइ᳘ति॥
सुयज्ञिय ऽइ᳘त्येतत्सू᳘र्यरश्मिरि᳘ति सू᳘र्यस्येव हि᳘ चन्द्र᳘मसो रश्म᳘यश्चन्द्र᳘मा गन्धर्वस्त᳘स्य न᳘क्षत्राण्यप्सर᳘स ऽइ᳘ति चन्द्र᳘मा ह गन्धर्वो न᳘क्षत्रैरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्राम भेकु᳘रयो नामे᳘ति भाकु᳘रयो ह ना᳘मैते भाᳫँ᳭ हि न᳘क्षत्राणि कुर्व्व᳘न्ति स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

सुषुम्ण इ᳘ति॥
सुयज्ञिय इ᳘त्येतत्सू᳘र्यरश्मिरि᳘ति सू᳘र्यस्येव हि᳘ चन्द्र᳘मसो रश्म᳘यश्चन्द्र᳘मा गन्धर्वस्त᳘स्य न᳘क्षत्राण्यप्सर᳘स इ᳘ति चन्द्र᳘मा ह गन्धर्वो न᳘क्षत्रैरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्राम भेकु᳘रयो नामे᳘ति भाकु᳘रयो ह ना᳘मैते 6 भाᳫं हि न᳘क्षत्राणि कुर्व᳘न्ति स᳘ न इदम् ब्र᳘ह्म क्षत्र᳘म् पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“सुषुम्णः”- इति । सुयज्ञिय इत्येतत् । “सूर्यरश्मिः”- इति । सूर्यस्येव हि चन्द्रमसो रश्मयः । “चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसः”- इति । चन्द्रमा ह गन्धर्वो नक्षत्रैरप्सरोभिर्मिथुनेन सहोच्चक्राम । “भेकुरयो नाम”- इति । भाकुरयो ह नामैते । भां हि नक्षत्राणि कुर्वन्ति । “स न इदं ब्रह्म क्षत्रं पातु”- (वा० सं० १८ । ४०) इति । तस्योक्तो बन्धुः ॥ ९ ॥

सायणः

सुम्नशब्देन सुखस्याभिधानात् सुखस्य च यज्ञसाध्यत्वेन यज्ञार्हत्वात् ‘यज्ञिय’ इत्ययमर्थो विवक्षितः सुम्नशब्देनेत्याह- सुषुम्ण इति सुयज्ञिय इत्येतदिति । प्रकाशमानत्वसामान्येन चन्द्ररश्मयः सूर्यरश्मयः इव भवन्तीति, चन्द्रः सूर्यरश्मिरित्यभिधीयत इत्याह- सूर्यरश्मिरितीति । भेकुरयो नामेतीति । ‘नक्षत्राणि’ भास्तेजांसि ‘कुर्वन्ति’ इति ‘भाकुरयः’ भाकुरय एव भेकुरयः, आकारस्य व्यत्ययेनैकारः । गतमन्यत् ॥ ९ ॥

Eggeling
  1. ‘The most blessed,’–that is, the most worthy of worship,–‘sun-rayed,’–for like the sun’s are the moon’s rays;–‘Candramas (the

moon) is the Gandharva: his Apsaras are the stars;’–for as a Gandharva the moon, indeed, went forth with the stars as the Apsaras, his mates;–‘Luminous (bhekuri) by name;’–light-giving (bhākur̥ 7) these, indeed, are called, for the stars give light;–‘may he protect this our priesthood and nobility!’ the meaning of this has been explained.

१०

विश्वास-प्रस्तुतिः

(रि) इषिर ऽइ᳘ति॥
क्षिप्र ऽइ᳘त्येत᳘द्विश्व᳘व्यचा ऽइ᳘त्येष᳘ हीदᳫँ᳭ स᳘र्व्वं व्य᳘चः करो᳘ति व्वा᳘तो गन्धर्व्वस्तस्या᳘पो ऽऽअप्सर᳘स ऽइ᳘ति व्वा᳘तो ह गन्ध᳘र्वो ऽद्भि᳘रप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्रामो᳘र्जो नामेत्या᳘पो वा ऽऊ᳘र्जो ऽद्भ्यो ह्यूर्ग्जा᳘यते स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(रि) इषिर ऽइ᳘ति॥
क्षिप्र ऽइ᳘त्येत᳘द्विश्व᳘व्यचा ऽइ᳘त्येष᳘ हीदᳫँ᳭ स᳘र्व्वं व्य᳘चः करो᳘ति व्वा᳘तो गन्धर्व्वस्तस्या᳘पो ऽऽअप्सर᳘स ऽइ᳘ति व्वा᳘तो ह गन्ध᳘र्वो ऽद्भि᳘रप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्रामो᳘र्जो नामेत्या᳘पो वा ऽऊ᳘र्जो ऽद्भ्यो ह्यूर्ग्जा᳘यते स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

इषिर इ᳘ति॥
क्षिप्र इ᳘त्येत᳘द्विश्व᳘व्यचा इ᳘त्येषॗ हीदᳫं स᳘र्वं व्य᳘चः करो᳘ति वा᳘तो गन्धर्वस्तस्या᳘पो अप्सर᳘स इ᳘ति वा᳘तो ह गन्धॗर्वो ऽद्भि᳘रप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्रामो᳘र्जो नामेत्या᳘पो वा ऊ᳘र्जो ऽद्भ्यो ह्यूर्ग्जा᳘यते स᳘ न इदम् ब्र᳘ह्म क्षत्र᳘म् पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“इषिरः”- इति । क्षिप्र इत्येतत् । “विश्वव्यचाः”- इति । एष हीदं सर्वं व्यचः करोति । “वातो गन्धर्वस्तस्यापो ऽअप्सरसः”- इति । वातो ह गन्धर्वो ऽद्भिरप्सरोभिर्मिथुनेन सहोच्चक्राम । “ऊर्जो नाम”- इति । आपो वा ऊर्जः । अद्भ्यो ह्यूर्ग्जायते । “स न इदं ब्रह्म क्षत्रं पातु”- (वा० सं० १८ । ४१) इति । तस्योक्तो बन्धुः ॥ १० ॥

सायणः

“इष गतौ” (धा. पा. भ्वा. आ. ६१२) इत्यस्मादौणादिके किरच् प्रत्यये ‘इषिर’ इति भवति । अतश्चैतेन क्षिप्र इत्येतदुक्तं भवतीत्याह- इषिर इतीति । यतश्चैष वायुरिदं सर्वमपि व्यचो व्याप्तं करोति । अत उक्तं विश्वव्यचा इत्याह- विश्वव्यचा इतीति । अद्भ्यः सकाशादूर्क् सर्वमप्यन्नं जायत इति आप एवोर्जः । अत उक्तम् आप ऊर्जो नामेत्याह- ऊर्जो नामेतीति ॥ १० ॥

Eggeling
  1. ‘The Agile,’–that is, the swift,–‘all-expansive,’–for the wind (air), indeed, makes up all this expanse;–‘Vāta (the wind) is the Gandharva: his Apsaras are the waters,’–for as a Gandharva the wind, indeed, went forth with the waters as the Apsaras, his mates;–‘Viands (ūrj) by name,’–the waters, indeed, are called ‘ūrjaḥ,’ for food is produced from the waters;–‘may he protect this our priesthood and nobility!’ the meaning of this has been explained.

११

विश्वास-प्रस्तुतिः

(र्भु) भुज्युः᳘ सुपर्ण ऽइ᳘ति॥
यज्ञो वै᳘ भुज्यु᳘र्यज्ञो हि स᳘र्व्वाणि भूता᳘नि भुन᳘क्ति यज्ञो᳘ गन्धर्व्वस्त᳘स्य द᳘क्षिणा ऽअप्सर᳘स ऽइ᳘ति यज्ञो᳘ ह गन्धर्वो द᳘क्षिणाभिरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्राम स्तावा नामे᳘ति द᳘क्षिणा वै᳘ स्तावा द᳘क्षिणाभिर्हि᳘ यज्ञ᳘ स्तूयते᳘ ऽथो यो वै क᳘श्च द᳘क्षिणां द᳘दाति स्तूय᳘त ऽएव स स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥ (अर्धप्रपाठकः॥कं० ४८)॥

मूलम् - श्रीधरादि

(र्भु) भुज्युः᳘ सुपर्ण ऽइ᳘ति॥
यज्ञो वै᳘ भुज्यु᳘र्यज्ञो हि स᳘र्व्वाणि भूता᳘नि भुन᳘क्ति यज्ञो᳘ गन्धर्व्वस्त᳘स्य द᳘क्षिणा ऽअप्सर᳘स ऽइ᳘ति यज्ञो᳘ ह गन्धर्वो द᳘क्षिणाभिरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्राम स्तावा नामे᳘ति द᳘क्षिणा वै᳘ स्तावा द᳘क्षिणाभिर्हि᳘ यज्ञ᳘ स्तूयते᳘ ऽथो यो वै क᳘श्च द᳘क्षिणां द᳘दाति स्तूय᳘त ऽएव स स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥ (अर्धप्रपाठकः॥कं० ४८)॥

मूलम् - Weber

भुज्युः᳘ सुपर्ण इ᳘ति॥
यज्ञो वै᳘ भुज्यु᳘र्यज्ञो हि स᳘र्वाणि भूता᳘नि भुन᳘क्ति यज्ञो᳘ गन्धर्वस्त᳘स्य द᳘क्षिणा अप्सर᳘स इ᳘ति यज्ञो᳘ ह गन्धर्वो द᳘क्षिणाभिरप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्राम स्तावा नामे᳘ति द᳘क्षिणा वै᳘ स्तावा द᳘क्षिणाभिर्हि᳘ यज्ञ᳘ स्तूयते᳘ ऽथो यो वै क᳘श्च द᳘क्षिणां द᳘दाति स्तूय᳘त एव स स᳘ न इदम् ब्र᳘ह्म क्षत्र᳘म् पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“भुज्युः सुपर्णः”- इति । यज्ञो वै भुज्युः । यज्ञो हि भूतानि भुनक्ति । “यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः”- इति । यज्ञो ह गन्धर्वो दक्षिणाभिरप्सरोभिर्मिथुनेन सहोच्चक्राम । “स्तावा नाम”- इति । दक्षिणा वै स्तावाः । दक्षिणाभिर्हि यज्ञः स्तूयते । अथो यो वै कश्च दक्षिणां ददाति- स्तूयत एव सः । “स न इदं ब्रह्म क्षत्रं पातु”- (वा. सं. १८ । ४२) इति । तस्योक्तो बन्धुः ॥ ११ ॥

सायणः

‘यज्ञो हि’ वृष्ट्यादिसम्पादनेन ‘सर्वाणि भूतानि भुनक्ति’ रक्षतीति भुज्युशब्दो यज्ञे समवेतार्थ इत्याह- यज्ञो वा इति । यज्ञः खलु दक्षिणाभिः प्रशंस्यते । साधुजातो यज्ञो ऽयमिति स्वीकृतदक्षिणैर्ऋत्विग्भिः स्तूयमानत्वात् । किञ्च ‘यो वै कश्चन’ ‘दक्षिणां ददाति’ सो ऽपि प्रतिग्रहीतृभिः स्तूयते । अत इत्थं स्तुतिहेतुत्वाद्दक्षिणाः स्तावा नामेत्याह- दक्षिणा वै स्तावा इति । व्यत्ययेन घञ् प्रत्ययः ॥ ११ ॥

Eggeling
  1. ‘The beneficent, well-winged,’–beneficent (bhujyu 8) indeed is the sacrifice, for the sacrifice benefits all beings,–‘Yajña (the sacrifice) is the Gandharva: his Apsaras are the offering-gifts,’–for as a Gandharva the sacrifice, indeed, went forth, with the offering-gifts as the Apsaras,

his mates;–‘Praises (stāvā) by name,’–the offering-gifts are indeed praises, for the sacrifice is praised for offering-gifts; and whosoever gives an offering-gift (to priests) is praised;–‘may he protect this our priesthood and nobility!’ the meaning of this has been explained.

१२

विश्वास-प्रस्तुतिः

प्रजा᳘पतिर्व्विश्व᳘कर्मे᳘ति॥
प्रजा᳘पतिर्व्वै᳘ व्विश्व᳘कर्मा स᳘ हीदᳫँ᳭ स᳘र्व्वम᳘करोन्म᳘नो गन्धर्वस्त᳘स्य ऽऋक्सामा᳘न्यप्सर᳘स ऽइ᳘ति म᳘नो ह गन्धर्व᳘ ऽऋक्सामै᳘रप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्रामे᳘ष्टयो नामे᳘त्यॄक्सामा᳘नि वा ऽए᳘ष्टय ऽऋक्सामै᳘र्ह्याशा᳘सत ऽइ᳘ति नो ऽस्त्वित्थं᳘ नोस्त्वि᳘ति स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्व्विश्व᳘कर्मे᳘ति॥
प्रजा᳘पतिर्व्वै᳘ व्विश्व᳘कर्मा स᳘ हीदᳫँ᳭ स᳘र्व्वम᳘करोन्म᳘नो गन्धर्वस्त᳘स्य ऽऋक्सामा᳘न्यप्सर᳘स ऽइ᳘ति म᳘नो ह गन्धर्व᳘ ऽऋक्सामै᳘रप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्रामे᳘ष्टयो नामे᳘त्यॄक्सामा᳘नि वा ऽए᳘ष्टय ऽऋक्सामै᳘र्ह्याशा᳘सत ऽइ᳘ति नो ऽस्त्वित्थं᳘ नोस्त्वि᳘ति स᳘ न ऽइदं ब्र᳘ह्म क्षत्रं᳘ पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

प्रजा᳘पतिर्विश्व᳘कर्मे᳘ति॥
प्रजा᳘पतिर्वै᳘ विश्व᳘कमा सॗ हीदᳫं स᳘र्वम᳘करोन्म᳘नो गन्धर्वस्त᳘स्य ऋक्सामा᳘न्यप्सर᳘स इ᳘ति म᳘नो ह गन्धर्व᳘ ऋक्सामै᳘रप्सरो᳘भिर्मिथुने᳘न सहो᳘च्चक्रामे᳘ष्टयो नामे᳘त्यृक्सामा᳘नि वा ए᳘ष्टय ऋक्सामैॗर्ह्याशा᳘सत इ᳘ति नो ऽस्त्वित्थं᳘ नो ऽस्त्वि᳘ति स᳘ न इदम् ब्र᳘ह्म क्षत्र᳘म् पात्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“प्रजापतिर्विश्वकर्मा”- इति । प्रजापतिर्वै विश्वकर्मा । स हीदं सर्वमकरोत् । “मनो गन्धर्वस्तस्य ऽऋक्सामान्यप्सरसः”- इति । मनो ह गन्धर्व ऋक्सामैरप्सरोभिर्मिथुनेन सहोच्चक्राम । “एष्टयो नाम”- इति । ऋक्सामानि वा एष्टयः । ऋक्सामैर्ह्याशासते । इति नो ऽस्तु, इत्थं नो ऽस्त्विति । “स न इदं ब्रह्म क्षत्रं पातु”- (वा० सं० १८ । ४३) इति । तस्योक्तो बन्धुः ॥ १२ ॥

सायणः

यतः प्रजापतिरिदं सर्वमकरोत्, अतः प्रजापतिर्विश्वकर्मा । अत उक्तम् प्रजापतिर्विश्वकर्मेत्याह- प्रजापतिर्विश्वकर्मेतीति । मनो गन्धर्व इति । प्रजापतेर्मनस्त्वं मनोवदनियुक्ताकारत्वात् । एष्टयो नामेति । इत्येतत्फलं नो ऽस्तु इत्थं नो ऽस्त्विति । ‘ऋक्सामैर्ह्याशासते’ खलु अत इष्यमाणसाधनत्वात् इष्टयः आ ‘एष्टयः’ । ‘उच्चक्रामेष्टयः’ इत्यत्र “ओमाङोश्च” (पा. सू. ६ । १ । ९५) इति पररूपम् । गतमन्यत् ॥ १२ ॥

Eggeling
  1. ‘The lord of creatures, the all-worker,’–Prajāpati (lord of creatures) is indeed the all-worker, for he has wrought all this (universe);–‘Manas (the mind) is the Gandharva: his Apsaras are the hymn-verses and hymn-tunes,’–as a Gandharva, the Mind indeed went forth, with the hymn-verses and hymn-tunes as the Apsaras, his mates;–‘Wishes (eshṭi) by name,’–the hymn-verses and hymn-tunes are indeed wishes, for by verses and tunes people pray, ‘May this accrue unto us! may it fare thus with us!’–‘may he protect this our priest and nobility!’ ’the meaning of this has been explained.

१३

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ रथशीर्षे᳘ जुहोति॥
(त्ये) एष वै स᳘ सव᳘ ऽएतद्वै त᳘त्सूयते य᳘मस्मै त᳘मेता᳘ देव᳘ताः सव᳘मनुम᳘न्यन्ते या᳘भिर᳘नुमतः सूय᳘ते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै ना᳘ज्येन पञ्चगृहीते᳘न ता᳘ ऽउ प᳘ञ्चैवा᳘हुतयो हुता[[!!]] भवन्ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ रथशीर्षे᳘ जुहोति॥
(त्ये) एष वै स᳘ सव᳘ ऽएतद्वै त᳘त्सूयते य᳘मस्मै त᳘मेता᳘ देव᳘ताः सव᳘मनुम᳘न्यन्ते या᳘भिर᳘नुमतः सूय᳘ते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै ना᳘ज्येन पञ्चगृहीते᳘न ता᳘ ऽउ प᳘ञ्चैवा᳘हुतयो हुता[[!!]] भवन्ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ रथशीर्षे᳘ जुहोति॥
एष वै स᳘ सव᳘ एतद्वै त᳘त्सूयते य᳘मस्मै त᳘मेता᳘ देव᳘ताः सव᳘मनुम᳘न्यन्ते या᳘भिर᳘नुमतः सूय᳘ते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै ना᳘ज्येन पञ्चगृहीते᳘न ता᳘ उ प᳘ञ्चैवा᳘हुतयो हुता᳘ भवन्ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ रथशीर्षे जुहोति- एष वै स सवः । एतद्वै तत्सूयते- यमस्मै तमेता देवताः सवमनुमन्यन्ते । याभिरनुमतः सूयते । यस्मै वै राजानो राज्यमनुमन्यन्ते- स राजा भवति । न सः- यस्मै न । आज्येन पञ्चगृहीतेन । ता उ पञ्चैवाहुतयो हुता भवन्ति । तस्योक्तो बन्धुः ॥ १३ ॥

सायणः

राष्ट्रभृद्धोमानन्तरं रथशिरसि होमं विधत्ते- अथेति 9 । प्रकृतहोमं यजमानाय सवात्मना प्रशंसति- एष वै स सव इति । अस्मै यजमानाय यं सवं सम्पादयति स सव एष खलु । एतद्वै तत्सूयते इत्ययमेवार्थो विव्रियते । स एव सवः क्रियते इत्यर्थः । एतत्तदिति- धात्वर्थविशेषणत्वान्नपुंसकत्वम् । ‘याभिरनुमतः सूयते’ यजमानश्च तदैव ‘एता देवताः’ ‘तम्’ एतम् ‘सवमनुमन्यन्ते’ । अस्य होमस्य यजमानाभिषेकमनुजानन्त्यो देवता एतं होमात्मकं सवमनुमन्यन्त इत्यर्थः । तस्योक्तो बन्धुरिति । “पञ्चचितिको ऽग्निः पञ्चर्तवः संवत्सरः” इत्यादिलक्षणं ब्राह्मणं प्रागेवोक्तमित्यर्थः । स्पष्टमन्यत् ॥ १३ ॥

Eggeling
  1. He then makes an offering on the Head of the Chariot;–this, indeed, is that very rite of consecration,–and by that he is now consecrated,–which this (Sacrificer) is permitted to perform by those deities with whose permission he is consecrated 10; for he alone becomes king whom the (other) kings allow (to assume) the royal dignity, and not he whom (they do) not (allow to assume it). With ghee taken in five ladlings (he offers), and this is offered as five oblations: the significance of this has been explained.

१४

विश्वास-प्रस्तुतिः

शीर्षतः᳘॥
शीर्षतो वा᳘ ऽअभिषिच्य᳘मानो ऽभि᳘षिच्यत ऽउप᳘रि धार्य᳘माण ऽउप᳘रि हि स य᳘मेत᳘दभिषिञ्च᳘ति समाने᳘न म᳘न्त्रेण समातो हि स य᳘मेत᳘दभिषिञ्च᳘ति सर्व्व᳘तः परिहा᳘रᳫँ᳭ सर्व्व᳘त ऽए᳘वैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

शीर्षतः᳘॥
शीर्षतो वा᳘ ऽअभिषिच्य᳘मानो ऽभि᳘षिच्यत ऽउप᳘रि धार्य᳘माण ऽउप᳘रि हि स य᳘मेत᳘दभिषिञ्च᳘ति समाने᳘न म᳘न्त्रेण समातो हि स य᳘मेत᳘दभिषिञ्च᳘ति सर्व्व᳘तः परिहा᳘रᳫँ᳭ सर्व्व᳘त ऽए᳘वैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - Weber

शीर्षतः᳟॥
शीर्षतो वा᳘ अभिषिच्य᳘मानो ऽभि᳘षिच्यत उप᳘रि धार्य᳘माण उप᳘रि हि स य᳘मेतदभिषिञ्च᳘ति समाने᳘न म᳘न्त्रेण समातो हि स य᳘मेत᳘दभिषिञ्च᳘ति सर्व᳘तः परिहारᳫं सर्व᳘त एॗवैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - विस्वरम्

शीर्षतः । शीर्षतो वा अभिषिच्यमानो ऽभिषिच्यते । उपरि धार्यमाणे । उपरि हि सः- यमेतदभिषिञ्चति । समानेन मन्त्रेण । समानो हि सः- यमेतदभिषिञ्चति । सर्वतः परिहारम् । सर्वत एवैनमेतदभिषिञ्चति ॥ १४ ॥

सायणः

अभिषिच्यमानस्य शिरसः सकाशादेव तदभिषेकाद्रथशिरसो होमः प्रशस्यते इत्याह- शीर्षत इति । अभिषेकावसरे यजमानः कृष्णाजिनादेरुपरि स्थित एवाभिषिच्यत इत्यत आह- उपरि धार्यमाण इति । रथशिरसीति शेषः । अभिषिच्यमानस्य यजमानस्यैकत्वात्स पञ्चाप्याहुतयश्च एकेन मंत्रेण क्रियेरन्नित्याह- समानेन मंत्रेणेति । सर्वत एवैतस्य यजमानस्याभिषेको यथा स्यादिति प्रादक्षिण्येन क्रमेण सर्वतः परिहृत्य जुहुयादित्याह- सर्वतः परिहारमिति ॥ १४ ॥

Eggeling
  1. On the head (or front part of the chariot the

offering is made), for it is from the head (downwards) that he who is anointed is anointed,–whilst it is held above (the Āhavanīya), for above (others) is he who is thus anointed;–with the same formula (repeated each time), for one and the same (person) is he who is thus anointed;–whilst taking round (the chariot-head) in every direction 11: on every side he thus is anointed.

१५

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ रथशीर्षे᳘ जुहो᳘ति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएष र᳘थ ऽएतद्वै त᳘द्रूपं᳘ कृत्वा᳘ प्रजा᳘पतिरेता᳘नि मिथुना᳘नि परिग᳘त्यात्म᳘न्नधत्तात्म᳘न्नकुरुत त᳘थै᳘वैनान्यय᳘मेत᳘त्परिग᳘त्यात्म᳘न्धत्त ऽआत्म᳘न्कुरुत ऽउप᳘रि धार्य᳘माण ऽउप᳘रि हि स य᳘ ऽएता᳘नि मिथुना᳘नि परिग᳘त्यात्मन्न᳘धत्तात्मन्न᳘कुरुत समाने᳘न म᳘न्त्रेण समानो हि स य᳘ ऽएता᳘नि मिथुना᳘नि परिग᳘त्यात्मन्न᳘धत्तात्मन्न᳘कुरुत सर्व्व᳘तः परिहा᳘रᳫँ᳭ सर्व्व᳘तो हि स य᳘ ऽएता᳘नि मिथुना᳘नि परिग᳘त्यात्मन्न᳘धत्तात्मन्न᳘कुरुत॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ रथशीर्षे᳘ जुहो᳘ति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएष र᳘थ ऽएतद्वै त᳘द्रूपं᳘ कृत्वा᳘ प्रजा᳘पतिरेता᳘नि मिथुना᳘नि परिग᳘त्यात्म᳘न्नधत्तात्म᳘न्नकुरुत त᳘थै᳘वैनान्यय᳘मेत᳘त्परिग᳘त्यात्म᳘न्धत्त ऽआत्म᳘न्कुरुत ऽउप᳘रि धार्य᳘माण ऽउप᳘रि हि स य᳘ ऽएता᳘नि मिथुना᳘नि परिग᳘त्यात्मन्न᳘धत्तात्मन्न᳘कुरुत समाने᳘न म᳘न्त्रेण समानो हि स य᳘ ऽएता᳘नि मिथुना᳘नि परिग᳘त्यात्मन्न᳘धत्तात्मन्न᳘कुरुत सर्व्व᳘तः परिहा᳘रᳫँ᳭ सर्व्व᳘तो हि स य᳘ ऽएता᳘नि मिथुना᳘नि परिग᳘त्यात्मन्न᳘धत्तात्मन्न᳘कुरुत॥

मूलम् - Weber

य᳘द्वेव᳘ रथशीर्षे᳘ जुहो᳘ति॥
असौ वा᳘ आदित्य᳘ एष र᳘थ एतद्वै त᳘द्रूपं कृत्वा᳘ प्रजा᳘पतिरेता᳘नि मिथुना᳘नि परिग᳘त्यात्म᳘न्नधत्तात्म᳘न्नकुरुत त᳘थैॗवैनान्यय᳘मेत᳘त्परिग᳘त्यात्म᳘न्धत्त आत्म᳘न्कुरुत उप᳘रि धार्य᳘माण उप᳘रि हि स य᳘ एता᳘नि मिथुना᳘नि परिग᳘त्यात्मन्न᳘धत्तात्मन्न᳘कुरुत समाने᳘न म᳘न्त्रेण समानो हि स य᳘ एता᳘नि मिथुना᳘नि परिग᳘त्यात्मन्न᳘धत्तात्मन्न᳘कुरुत सर्व᳘तः परिहा᳘रᳫं सर्व᳘तो हि स य᳘ एता᳘नि मिथुना᳘नि परिग᳘त्यात्मन्न᳘धत्तात्मन्न᳘कुरुत॥

मूलम् - विस्वरम्

यद्वेव रथशीर्षे जुहोति । असौ वा आदित्य एष रथः । एतद्वै तद्रूपं कृत्वा प्रजापतिरेतानि मिथुनानि परिगत्यात्मन्नधत्त, आत्मन्नकुरुत । तथैवैनान्ययमेतत्परिगत्यात्मन्धत्ते, आत्मन्कुरुते । उपरि धार्यमाणे । उपरि हि सः- य एतानि मिथुनानि परिगत्यात्मन्नधत्त, आत्मन्नकुरुत । समानेन मन्त्रेण । समानो हि सः- य एतानि मिथुनानि परिगत्यात्मन्नधत्त, आत्मन्नकुरुत । सर्वतः परिहारम् । सर्वतो हि सः- य एतानि मिथुनानि परिगत्यात्मन्नधत्त, आत्मन्नकुरुत ॥ १५ ॥

सायणः

अथ पुनस्तमेव होमं प्रकारान्तरेण प्रशंसति- यद्वेवेति । एष आहवनीयस्य ‘उपरि’ धार्यमाणो रथः असावाकाशमध्ये वितायमान आदित्यात्मकः । रथस्यादित्यात्मकत्वम् आदित्यवन्मण्डलाकाररथाङ्गवत्त्वात्, शीघ्रगामित्वाद्वा । अतः प्रजापतिरादित्यात्मकम् एतद्रूपं रथरूपं कृत्वा एतानि पूर्वोक्तानि मिथुनानि ‘परिगत्य’ आत्मनि धृत्वा स्वाधीनीकृतवान् । तस्माद्यजमानो ऽपि रथशिरसि होमं तद्वदेव कुरुते । स्पष्टमन्यत् ॥ १५ ॥

Eggeling
  1. And, again, as to why he makes offering on the head of the chariot;–it is because this chariot is yonder sun; for it was by assuming that form that Prajāpati enclosed those couples, and took them to himself, and made them his own; and in like manner does this (Sacrificer) thereby enclose them, and take them to himself, and make them his own. Whilst it (the chariot-head) is held above (the fire, he offers), for above (others) was he who, enclosing those couples, took them to himself, and made them his own;–and with the same formula, for one and the same is he who, by enclosing those couples, took them to himself, and made them his own.

१६

विश्वास-प्रस्तुतिः

स᳘ नो भुवनस्य पते प्रजापत ऽइ᳘ति॥
भु᳘वनस्य᳘ ह्येष प᳘तिः प्रजा᳘पतिर्य᳘स्य त ऽउप᳘रि गृहा य᳘स्य वेहे᳘त्युप᳘रि च᳘ ह्येत᳘स्य गृहा᳘ ऽइह᳘ चास्मै ब्र᳘ह्मणे ऽस्मै क्षत्राये᳘त्ययं वा᳘ ऽअग्निर्ब्र᳘ह्म च क्षत्रं᳘ च म᳘हि श᳘र्म यच्छ स्वाहे᳘ति महच्छ᳘र्म यच्छ स्वाहे᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

स᳘ नो भुवनस्य पते प्रजापत ऽइ᳘ति॥
भु᳘वनस्य᳘ ह्येष प᳘तिः प्रजा᳘पतिर्य᳘स्य त ऽउप᳘रि गृहा य᳘स्य वेहे᳘त्युप᳘रि च᳘ ह्येत᳘स्य गृहा᳘ ऽइह᳘ चास्मै ब्र᳘ह्मणे ऽस्मै क्षत्राये᳘त्ययं वा᳘ ऽअग्निर्ब्र᳘ह्म च क्षत्रं᳘ च म᳘हि श᳘र्म यच्छ स्वाहे᳘ति महच्छ᳘र्म यच्छ स्वाहे᳘त्येतत्[[!!]]॥

मूलम् - Weber

स᳘ नो भुवनस्य पते प्रजापत इ᳘ति॥
भुवनस्यॗ ह्येष प᳘तिः प्रजा᳘पतिर्य᳘स्य त उप᳘रि गृहा य᳘स्य वेहे᳘त्युप᳘रि चॗ ह्येत᳘स्य गृहा᳘ इह᳘ चास्मै ब्र᳘ह्मणे ऽस्मै क्षत्राये᳘त्ययं वा᳘ आग्निर्ब्र᳘ह्म च क्षत्रं᳘ च म᳘हि श᳘र्म यछ स्वाहे᳘ति महछ᳘र्म यछ स्वाहे᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“स नो भुवनस्य पते प्रजापते”- इति । भुवनस्य ह्येष पतिः प्रजापतिः । “यस्य त उपरि गृहाः । यस्य वेह”- इति । उपरि च ह्येतस्य गृहाः, इह च । “अस्मै ब्रह्मणे ऽस्मै क्षत्राय”- इति । अयं वा ऽअग्निर्ब्रह्म च, क्षत्रं च । “महि शर्म यच्छ स्वाहा”- (वा. सं. १८ । ४४) इति । महच्छर्म यच्छ स्वाहेत्येतत् ॥ १६ ॥

सायणः

अथा ऽस्मिन्होमे मन्त्रं दर्शयन् व्याचष्टे- स नो भुवनस्येति । एष रथरूपेण मिथुनानि परिगतवान् सर्वस्य भुवनस्य पतिः प्रजापतिश्च भवतीति मन्त्रो युक्तमाहेत्याह- भुवनस्य ह्येष इति । एतस्य प्रजापतेः सर्वाधिपत्येन स्वर्लोके इह लोके च गृहा विद्यन्त इति यस्येत्यादिना स एवार्थो ऽभिधीयत इत्याह- उपरि च ह्येतस्येति । अयमेव चीयमानो ऽग्निः सर्वात्मकत्वेन ब्रह्मक्षत्रशब्दाभ्यामुच्यत इत्याह- अयं वा अग्निरिति । अग्नेश्च भावियजमानरूपत्वेन ब्रह्मणे क्षत्रायेत्यनयोः शब्दयोः यजमाने पर्यवसानमवगन्तव्यम् । ‘महि शर्म यच्छ’ इत्यत्र महिशब्दस्य महदित्ययमर्थ इत्याह- महच्छर्म यच्छेत्येतदिति ॥ १६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे चतुर्थे ऽध्याये प्रथमं ब्राह्मणम् ॥ (९ । ४ । १) ॥

Eggeling
  1. [He offers each time, with, Vāj. S. XVIII, 44], ‘O Lord of the world, Lord of creatures!’–for this (Agni), indeed, is the lord of the world, and the lord of creatures;–’thou whose dwellings are on high, or here below,’–both on high and

here below, indeed, are his dwellings;–’to this priesthood and this nobility of ours,’–for this Agni is both the priesthood and the nobility,–‘grant thou mighty protection, hail!’–that is, ‘grant thou powerful protection!’


  1. द्वादशगृहीतं व्विप्राहं जुहोत्यृताषाडिति प्रतिस्वाहाकारँ राष्ट्रभृतो व्वाट्कारांतः पूर्व्वः पूर्व्वो मंत्रः । का. श्रौ. सू. १८ । ८१ । ↩︎

  2. 230:1 This is apparently intended as an etymological explanation of the two names; Apsaras being taken as derived from ‘apsas,’ in the sense of ‘beauty.’ Cf. Weber, Ind. Stud. XIII, p. 135, note 3. ↩︎

  3. 230:2 Or, perhaps, ‘he places the male above (the female) in respect of power;’ see p. 133, note 1. ↩︎

  4. 231:1 In accordance with the preceding paragraph, that part of the formula which relates to the male deity, viz. ‘The law-upholding, law-abiding Agni is the Gandharva–may he protect this our priesthood and nobility: to him Svāhā! Vāṭ!’ is to be uttered first, and the first oblation to be offered at the call ‘Vāṭ,’ i.e. Vashaṭ, ‘may he (Agni) carry it (to the gods)!’ Then that part relating to the female deities is uttered, after which the second oblation is offered. In the same way the other five formulas are to be treated. See Mahīdhara’s remarks on the present formula. ↩︎

  5. 231:2 Ā-yuvānāḥ, literally ‘holding to each other,’ a wrong etymology of ‘āyu,’ ’lively.’ ↩︎

  6. ना᳘मैते ! ABC. Sây. unites the two first brâhmaṇas into one. ↩︎

  7. 232:1 This etymological explanation of ‘bhekuri’ is doubtful. ↩︎

  8. 232:2 The real meaning of bhujyu in this passage is very doubtful; while it usually means ‘flexible,’ the St. Petersburg Dictionary here tentatively assigns to it the meaning ‘adder.’ Whether the author of the Brāhmaṇa really connects it with ‘bhuj (bhunakti),’ ’to enjoy, benefit’ (instead of with ‘bhuj,’ ’to bend’); or whether the explanation is merely meant as an etymological play of words, is not clear. Mahīdhara indeed derives it from the former root, in the sense of ’to protect.’ The order of the words ‘yajño vai bhujyuḥ’ would properly require to be rendered by–The ‘bhujyu’ doubtless is the sacrifice. ↩︎

  9. पंचगृहीतं च रथशिरस्यध्यध्याहवनीयं प्रियमाणे पंचकृत्वः स नो भुवनस्येति । का० श्रौ० सू० १८ । ४२ । ↩︎

  10. 233:1 The construction of the text (occurring again at IX, 4, 4, 8) is rather irregular. ↩︎

  11. 234:1 The body (or ’nest,’ seat-part) of the chariot is shifted sunwise round the fire on the great altar, so that the fore-part keeps over the fire where the Adhvaryu’s assistant holds it, and in each of the four directions, as well as in the centre of the fire, the Adhvaryu offers a libation of ghee, whilst facing the chariot-head. According to a comment on the respective rules (Kāty. XVIII, 5, 17-20) alluded to by Prof. Weber (Ind. Stud. XIII, p. 286), the fore-part of the chariot would, however, seem to be taken off the seat-part; the latter being carried round the fire as the oblations are made. ↩︎