०१

विश्वास-प्रस्तुतिः

अथा᳘तो व्वाजप्रसवी᳘यं जुहोति॥
(त्य᳘) अ᳘न्नं वै व्वा᳘जो ऽन्नप्रसवी᳘यᳫँ᳭ हास्यैतद᳘न्नमे᳘वास्मा ऽएते᳘न प्र᳘सौति॥

मूलम् - श्रीधरादि

अथा᳘तो व्वाजप्रसवी᳘यं जुहोति॥
(त्य᳘) अ᳘न्नं वै व्वा᳘जो ऽन्नप्रसवी᳘यᳫँ᳭ हास्यैतद᳘न्नमे᳘वास्मा ऽएते᳘न प्र᳘सौति॥

मूलम् - Weber

अथा᳘तो वाजप्रसवी᳘यं जुहोति॥
अ᳘न्नं वै वा᳘जो ऽन्नप्रसवी᳘यᳫं हास्यैतद᳘न्नमेॗवास्मा एते᳘न प्र᳘सौति॥

मूलम् - विस्वरम्

अथ वाजप्रसवीयहोमः ।

अथातो वाजप्रसवीयं जुहोति । अन्नं वै वाजः । अन्नप्रसवीयं हास्यैतत्- अन्नमेवास्मा एतेन प्रसौति ॥ १ ॥

सायणः

अथ वाजप्रसवीयहोमं विधाय तत्प्रयोजनकथनद्वारा तस्य पदस्य प्रवृत्तिनिमित्तं दर्शयति- अथात इति । वाजप्रसवीयमिति कर्म नामधेयम् । ‘वाजप्रसवीयं जुहोति’ वाजप्रसवीयाख्यं होमं कुर्यादित्यर्थः । वाजशब्देनान्नस्याभिधानादस्याग्नेरर्थे क्रियमाणमेतत्कर्म अन्नप्रसवीयम् । ततश्चैतेन कर्मणा अस्मा अग्नये सर्वमप्यन्नं ‘प्रसौति’ अनुजानाति ‘सर्वौषधं भवति’ (उत्तरत्र ४ कं.) इति वक्ष्यमाणत्वात् सर्वस्याप्यन्नस्य स्वामिनं करोतीत्यर्थः ॥ १ ॥

Eggeling
  1. He then offers the Vājaprasavīya 1 (set of fourteen libations),–‘vāja’ (strength, sustenance) means food (anna): it thus is an ‘anna-prasavīya’ for him, and it is food he thereby raises (pra-sū) for him (Agni).

०२

विश्वास-प्रस्तुतिः

(त्ये) एतद्वा᳘ ऽएनं देवाः᳘॥
(ऽ) एतेना᳘न्नेन प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतद्भू᳘य ऽए᳘वाप्रीणंस्त᳘थै᳘वैनमय᳘मेत᳘देतेना᳘न्नेन प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतद्भू᳘य ऽएव᳘ प्रीणाति॥

मूलम् - श्रीधरादि

(त्ये) एतद्वा᳘ ऽएनं देवाः᳘॥
(ऽ) एतेना᳘न्नेन प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतद्भू᳘य ऽए᳘वाप्रीणंस्त᳘थै᳘वैनमय᳘मेत᳘देतेना᳘न्नेन प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतद्भू᳘य ऽएव᳘ प्रीणाति॥

मूलम् - Weber

एतद्वा᳘ एनं देवाः᳟॥
एतेना᳘न्नेन प्रीॗत्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व᳘सोर्धा᳘रया᳘थैनमेतद्भू᳘य एॗवाप्रीणंस्त᳘थैॗवैनमय᳘मेत᳘देतेना᳘न्नेन प्रीॗत्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व᳘सोर्धा᳘रया᳘थैनमेतद्भू᳘य एव᳘ प्रीणाति॥

मूलम् - विस्वरम्

एतद्वा एनं देवा एतेनान्नेन प्रीत्वा, एतैः कामैरभिषिच्य, एतया वसोर्धारया ऽथैनमेतद्भूय एवाप्रीणन् । तथैवैनमयमेतदेतेनान्नेन प्रीत्वा, एतैः कामैरभिषिच्य, एतया वसोर्धारया ऽथैनमेतद्भूय एव प्रीणाति ॥ २ ॥

सायणः

पूर्वं वसोर्धारया प्रीणितस्याभिषिक्तस्य च अग्नेरयं वाजप्रसवीयो होमो भूयः प्रीणनाभिषेकहेतुर्भवतीति प्रशंसति- एतद्वा इत्यादिना भूय एवाभिषिंचतीत्यन्तेन । विस्पष्टार्थमेतत् ॥ २ ॥ ३॥

Eggeling
  1. For the gods, now that they had gratified him by that food, and consecrated him by those objects of desire, (to wit) by that stream of wealth 2, hereby gratified him once more; and in like manner does this (Sacrificer), now that he has gratified him by that food, and consecrated him by those objects of desire, that shower of wealth, hereby gratify him once more.

०३

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैत᳘द्वाजप्रसवी᳘यं जुहो᳘ति॥
(त्य) अभिषेक᳘ ऽए᳘वास्यैष᳘ ऽएतद्वा᳘ ऽएनं देवा᳘ ऽएतेना᳘न्नेन प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतद्भू᳘य ऽए᳘वा᳘भ्यषिञ्चंस्त᳘थै᳘वैनमय᳘मेत᳘देतेना᳘न्नेन[[!!]] प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतद्भू᳘य ऽए᳘वाभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैत᳘द्वाजप्रसवी᳘यं जुहो᳘ति॥
(त्य) अभिषेक᳘ ऽए᳘वास्यैष᳘ ऽएतद्वा᳘ ऽएनं देवा᳘ ऽएतेना᳘न्नेन प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतद्भू᳘य ऽए᳘वा᳘भ्यषिञ्चंस्त᳘थै᳘वैनमय᳘मेत᳘देतेना᳘न्नेन[[!!]] प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतद्भू᳘य ऽए᳘वाभि᳘षिञ्चति॥

मूलम् - Weber

य᳘द्वेॗवैत᳘द्वाजप्रसवी᳘यं जुहो᳘ति॥
अभिषेक᳘ एॗवास्यैष᳘ एतद्वा᳘ एतं देवा᳘ एतेना᳘न्नेन प्रीॗत्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व᳘सोर्धा᳘रया᳘थैनमेतद्भू᳘य एॗवाभ्य᳘षिञ्चंस्त᳘थैॗवैनमय᳘मेत᳘देतेना᳘न्नेन प्रीॗत्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व᳘सोर्धा᳘रया᳘थैनमेतद्भू᳘य एॗवाभि᳘षिञ्चति॥

मूलम् - विस्वरम्

यद्वेवैतद्वाजप्रसवीयं जुहोति । अभिषेक एवास्यैषः । एतद्वा एनं देवा एतेनान्नेन प्रीत्वा, एतैः कामैरभिषिच्य, एतया वसोर्धारया ऽथैनमेतद्भूय एवाभ्यषिञ्चन् । तथैवैनमयमेतदेतेनान्नेन प्रीत्वा, एतैः कामैरभिषिच्य, एतया वसोर्धारया ऽथैनमेतद्भूय एवाभिषिञ्चति ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. And, again, as to why he offers the Vājaprasavīya. This, to be sure, is his (Agni’s) Abhisheka. For, the gods, having gratified him by that food, and consecrated him by those objects of desire, (to wit) by that shower of wealth, then by this (offering) consecrated him once more; and in like manner does this (Sacrificer), having gratified him by that food, and consecrated him by those objects of desire, that shower of wealth, hereby consecrate him once more.

०४

विश्वास-प्रस्तुतिः

सर्व्वौषधं᳘ भवति॥
स᳘र्व्वमेतद᳘न्नं य᳘त्सर्व्वौषधᳫँ᳭ स᳘र्व्वेणै᳘वैनमेतद᳘न्नेन प्रीणात्य᳘थो स᳘र्व्वेणै᳘वैनमेतद᳘न्नेनाभि᳘षिञ्चति ते᳘षामे᳘कम᳘न्नमु᳘द्धरेत्त᳘स्य᳘ नाश्नीयाद्यावज्जी᳘वमौ᳘दुम्बरेण चमसेनौ᳘दुम्बरेण स्रुवे᳘ण त᳘योरुक्तो ब᳘न्धुश्च᳘तुस्रक्ती भवतश्च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वैनमेत᳘द्दिग्भ्यो᳘ ऽन्नेन प्रीणात्य᳘थो स᳘र्व्वाभ्य ऽए᳘वैनमेत᳘द्दिग्भ्यो᳘ ऽन्नेनाभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

सर्व्वौषधं᳘ भवति॥
स᳘र्व्वमेतद᳘न्नं य᳘त्सर्व्वौषधᳫँ᳭ स᳘र्व्वेणै᳘वैनमेतद᳘न्नेन प्रीणात्य᳘थो स᳘र्व्वेणै᳘वैनमेतद᳘न्नेनाभि᳘षिञ्चति ते᳘षामे᳘कम᳘न्नमु᳘द्धरेत्त᳘स्य᳘ नाश्नीयाद्यावज्जी᳘वमौ᳘दुम्बरेण चमसेनौ᳘दुम्बरेण स्रुवे᳘ण त᳘योरुक्तो ब᳘न्धुश्च᳘तुस्रक्ती भवतश्च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वैनमेत᳘द्दिग्भ्यो᳘ ऽन्नेन प्रीणात्य᳘थो स᳘र्व्वाभ्य ऽए᳘वैनमेत᳘द्दिग्भ्यो᳘ ऽन्नेनाभि᳘षिञ्चति॥

मूलम् - Weber

सर्वौषध᳘म् भवति॥
स᳘र्वमेतद᳘न्नं य᳘त्सर्वौषधᳫं स᳘र्वेणैॗवैनमेतद᳘न्नेन प्रीणात्य᳘थो स᳘र्वेणैॗवैनमेतद᳘न्नेनाभि᳘षिञ्चति ते᳘षामे᳘कम᳘न्नमु᳘द्धरेत्त᳘स्यॗ नाश्नीयाद्यावज्जी᳘वमौ᳘दुम्बरेण चमसेनौ᳘दुम्बरेण स्रुवे᳘ण त᳘योरुक्तो ब᳘न्धुश्च᳘तुःस्रक्तो भवतश्च᳘तस्रो वै दि᳘शः स᳘र्वाभ्य एॗवैनमेत᳘द्दिग्भ्यो᳘ ऽन्नेन प्रीणात्य᳘थो स᳘र्वाभ्य एॗवैनमेत᳘द्दिग्भ्यो᳘ ऽन्नेनाभि᳘षिञ्चति॥

मूलम् - विस्वरम्

सर्वौषधं भवति । सर्वमेतदन्नं- यत्सर्वौषधम् । सर्वेणैवैनमेतदन्नेन प्रीणाति । अथो सर्वेणैवैनमेतदन्नेनाभिषिञ्चति । तेषामेकमन्नमुद्धरेत्- तस्य नाश्नीयाद् यावज्जीवम् । औदुम्बरेण चमसेन । औदुम्बरेण स्रुवेण । तयोरुक्तो बन्धुः । चतुःस्रक्ती भवतः । चतस्रो वै दिशः । सर्वाभ्य एवैनमेतद्दिग्भ्यो ऽन्नेन प्रीणाति । अथो सर्वाभ्य एवैनमेतद्दिग्भ्यो ऽन्नेनाभिषिञ्चति ॥ ४ ॥

सायणः

प्रकृतहोमे द्रव्यविशेषं विधाय प्रशंसति- सर्वौषधमिति । प्रकृतं वाजप्रसवीयं हविः सर्वौषधं सर्वाभिरोषधीभिः संपादितं भवति । अत्र सर्वौषधय इति सप्त ग्राम्याः सप्तारण्याः परिगृह्यन्ते । ताश्चितिस्थले बीजवापावसरे ऽभिहिताः । लोके यत्किञ्चिद्वस्तु ग्राम्यमारण्यं वा भवति । अतश्चात्र तदुभय्यो ऽप्योषधयः परिगृह्यन्त इति सर्वमेतदन्नमित्युक्तम् । एवं च एतेन सर्वौषधसंपादितेन होमेन एनमग्निं सर्वेणैवान्नेन प्रीणात्येनमभिषिञ्चति च । तेषां चतुर्दशानामन्नानां मध्ये एकमन्नं परित्यजेत्, तदन्नं यावज्जीवं न श्नीयादित्याह- तेषामिति । तस्येति व्यत्ययेन कर्मणि षष्ठी । अथ तत्रैव होमे पात्रविशेषं विधत्ते 3- औदुम्बरेण चमसेनौदुम्बरेण स्रुवेणेति । प्रकृतं वाजप्रसवीयं जुहुयात् । अत्र स्रुवेणैव वाजप्रसवीयहोमः क्रियते न तु चमसेन । अथ पुनः संपातावनयनार्थमभिषेकार्थं च । अभिषेकस्य तत्संपाद्यत्वेन तदन्तःपातित्वविवक्षयौदुम्बरेण चमसेनेति चमसः करणत्वेनाम्नातः । तयोरुक्तो बन्धुरिति । तयोरौदुम्बरयोः स्रुवचमसयोर्ब्राह्मणं सप्तमकाण्डे (श. प. ७ । ५ । १ । १५-२२) उलूखलमुसलोपधानविधानावसरे ऽभिहितमिति यावत् । तयोः स्रुवचमसयोराकारविशेषं विधाय प्रशंसति- चतुःस्रक्ती भवत इति । दिग्भ्यो ऽन्नेनेति । दिग्भ्यो ऽभिसंपादितेनान्नेनेत्यर्थः ॥ ४ ॥

Eggeling
  1. It consists of (seeds of) all (kinds of) plants,–that which consists of all plants is all food: he thus gratifies him with all food, and with all food he thus consecrates him. Let him set aside one of these kinds of food, and not eat thereof as long as he lives. With an udumbara (ficus glomerata) cup 4 and an udumbara dipping-spoon (he offers): the significance of these two has been explained. They are both four-cornered,–there are four quarters: he thus gratifies him with food from every quarter, and by means of food from every quarter he thus consecrates him.

०५

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैत᳘द्वाजप्रसवी᳘यं जुहो᳘ति॥
(त्ये) एता᳘ ह देव᳘ताः सुता᳘ ऽएते᳘न सवे᳘न ये᳘नैत᳘त्सोष्य᳘माणो भ᳘वति ऽता᳘ ऽए᳘वैत᳘त्प्रीणाति ता᳘ ऽअस्मा ऽइष्टाः᳘ प्रीता᳘ ऽएत᳘ᳫँ᳘ सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्य᳘दग्नौ᳘ जुहो᳘ति त᳘दग्नि᳘मभि᳘षिञ्चत्य᳘थो य᳘देता᳘भ्यो देव᳘ताभ्यो जुहो᳘ति त᳘दु ता᳘न्देवा᳘न्प्रीणाति य᳘ ऽएत᳘स्य सवस्ये᳘शते॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैत᳘द्वाजप्रसवी᳘यं जुहो᳘ति॥
(त्ये) एता᳘ ह देव᳘ताः सुता᳘ ऽएते᳘न सवे᳘न ये᳘नैत᳘त्सोष्य᳘माणो भ᳘वति ऽता᳘ ऽए᳘वैत᳘त्प्रीणाति ता᳘ ऽअस्मा ऽइष्टाः᳘ प्रीता᳘ ऽएत᳘ᳫँ᳘ सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्य᳘दग्नौ᳘ जुहो᳘ति त᳘दग्नि᳘मभि᳘षिञ्चत्य᳘थो य᳘देता᳘भ्यो देव᳘ताभ्यो जुहो᳘ति त᳘दु ता᳘न्देवा᳘न्प्रीणाति य᳘ ऽएत᳘स्य सवस्ये᳘शते॥

मूलम् - Weber

य᳘द्वेॗवैत᳘द्वाजप्रसवी᳘यं जुहो᳘ति॥
एता᳘ ह देव᳘ताः सुता᳘ एते᳘न सवे᳘न ये᳘नैत᳘त्सोष्य᳘माणो भ᳘वति ता᳘ एॗवैत᳘त्प्रीणाति ता᳘ अस्मा इष्टाः᳘ प्रीता᳘ एत᳘ᳫं᳘ सवम᳘नुमन्यन्ते ता᳘भिर᳘नुमतः सूयते य᳘स्मै वै रा᳘जानो राज्य᳘मनुम᳘न्यन्ते स रा᳘जा भवति न स य᳘स्मै न तद्य᳘दग्नौ᳘ जुहो᳘ति त᳘दग्नि᳘मभि᳘षिञ्चत्य᳘थ य᳘देता᳘भ्यो देव᳘ताभ्यो जुहोति त᳘दु ता᳘न्देवा᳘न्प्रीणाति य᳘ एत᳘स्य सवस्ये᳘शते॥

मूलम् - विस्वरम्

यद्वेवैतद्वाजप्रसवीयं जुहोति । एता ह देवताः सुता एतेन सवेन- येनैतत्सोष्यमाणो भवति- ता एवैतत्प्रीणाति । ता अस्मा इष्टाः प्रीता एतं सवमनुमन्यन्ते । ताभिरनुमतः सूयते । यस्मै वै राजानो राज्यमनुमन्यन्ते- स राजा भवति । न सः- यस्मै न । तद् यदग्नौ जुहोति- तदग्निमभिषिञ्चति । अथो यदेताभ्यो देवताभ्यो जुहोति- तदु तान् देवान् प्रीणाति- य एतस्य सवस्येशते ॥ ५ ॥

सायणः

अथ पुनस्तमेव वाजप्रसवीयहोमं प्रकारान्तरेण प्रशंसति- यद्वेवैतदिति । अत्र सव इति सर्वाधिपत्यविषयं प्रेरणमुच्यते, तन्निमित्तत्वादभिषेकस्य तत्राभिषेके सवशन्दः पर्यवस्यति । येनैतदिति । ‘एतत्’ शब्देन अभिषेककालः परामृश्यते । एतस्मिन्काले ‘एतेन सवेन’ यजमानः ‘सोष्यमाणो भवति’ । एतेन सर्वनैता मन्त्रप्रतिपादिता ‘देवताः’ पूर्वं ‘सुताः’ अभिषिक्ताः । अतश्च ‘एतेन’ वाजप्रसवीयेन ‘ताः’ एव देवताः ‘प्रीणाति’ । ता वै देवताः ‘इष्टाः’ अत एव ‘प्रीताः’ सत्यः ‘अस्मै’ यजमानाय ‘एतम्’ उपरि क्रियमाणमभिषेकम् ‘अनुमन्यन्ते’ अनुजानन्ति । ततस्ताभिरनुमतो ऽभिषिच्यते । ननु चाभिषेके किमर्थमेतासां देवतानामनुज्ञां प्रेप्सति तत्राह- यस्मै वा इति । यतः ‘राजानो’ ‘यस्मै’ पुरुषाय ‘राज्यमनुमन्यन्ते’ ‘स राजा भवति’ । ‘यस्मै’ पुनर्नानुमन्यन्ते ‘स’ राजा ‘न’ भवति । अतः पूर्वमभिषेकेण प्राप्तराज्यानां देवतानामनुपेक्षणायेत्यर्थः । ननु चायं होमो ऽग्नेरभिषेकत्वेन संपाद्यत इति (पूर्वत्र ३ कं.) प्रागुक्तम्- “अभिषेक एवास्यैषः” इति । अत्र तु स एष होमो ऽभिषेकानुमत्यर्थ इति अथवा पूर्वाभिषिक्तदेवताप्रीणनार्थ इति, कथमेतदित्यत आह- तद्यदग्नाविति । अग्नौ होमादेवाग्नेरभिषेकः सिद्धः । अथ एताभ्यो मन्त्रप्रतिपाद्याभ्यो देवताभ्यो होमेनाभिषेकाधिपतीन् देवान् प्रीणाति । एवं चोक्तमुभयमपि संगच्छते इति न कश्चिद्विरोधः ॥ ५ ॥

Eggeling
  1. And, again, as to why he performs the Vājaprasavīya;–he thereby gratifies those same deities who have been consecrated by this very rite of consecration by which he is now about to be consecrated, and, thus gratified by offering, they grant him permission (to perform) this rite of consecration, and, permitted by them, he becomes consecrated; for only he becomes king whom the (other) kings allow to assume the royal dignity, but not he whom

they do not (allow to do so). Thus when he offers in the fire he consecrates Agni, and when he offers to these deities, he gratifies those gods who rule over this consecration ceremony.

०६

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ वा᳘ ऽएत᳘त्पार्थान्य᳘भि जुहोति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअकामयन्ता᳘त्रैव स᳘र्व्वैः सवैः᳘ सूयेमही᳘ति ते᳘ ऽत्रैव स᳘र्व्वैः सवै᳘रसूयन्त त᳘थै᳘वैतद्य᳘जमानो᳘ ऽत्रैव स᳘र्व्वैः सवैः᳘ सूयते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ वा᳘ ऽएत᳘त्पार्थान्य᳘भि जुहोति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअकामयन्ता᳘त्रैव स᳘र्व्वैः सवैः᳘ सूयेमही᳘ति ते᳘ ऽत्रैव स᳘र्व्वैः सवै᳘रसूयन्त त᳘थै᳘वैतद्य᳘जमानो᳘ ऽत्रैव स᳘र्व्वैः सवैः᳘ सूयते॥

मूलम् - Weber

अ᳘थ वा᳘ एत᳘त्पार्थान्य᳘पि जुहोति॥
एतद्वै᳘ देवा᳘ अकामयन्ता᳘त्रैव स᳘र्वैः सवैः᳘ सूयेमही᳘ति ते᳘ ऽत्रैव स᳘र्वैः सवै᳘रसूयन्त त᳘थैॗवैतद्य᳘जमानो᳘ ऽत्रैव स᳘र्वैः सवैः᳘ सूयते॥

मूलम् - विस्वरम्

अथ वा एतत्पार्थान्यभि जुहोति । एतद्वै देवा अकामयन्त- अत्रैव सर्वैः सवैः सूयेमहीति । ते ऽत्रैव सर्वैः सवैरसूयन्त । तथैवैतद्यजमानो ऽत्रैव सर्वैः सवैः सूयते ॥ ६ ॥

सायणः

‘अग्नये स्वाहा, सोमाय स्वाहा’ इत्यादिभिश्च षड्भिर्मन्त्रैः क्रियमाणा आहुतयः पार्थानि । तेषां च पृथिना दृष्टत्वात्पार्थत्वम् । अत एव तैत्तिरीयके श्रूयते- “पृथिर्वैन्यः । अभ्यषिच्यत । स राष्ट्रं नाभवत् । स एतानि पार्थान्यपश्यत् । तान्यजुहोत् । तैर्वै स राष्ट्रमभवत् । यत्पार्थानि जुहोति । राष्ट्रमेव भवति”- (तै. ब्रा. १ । ७ । ७ । ३) इति । तानि पार्थानि प्रकृतस्य वाजप्रसवीयस्याभितो जुहुयादित्याह 5- अथवा एतदिति । किमर्थमेवं जुहुयात् इति तत्राह- एतद्वै देवा इति । पूर्वं देवा ‘अत्रैव’ आग्निकाभिषेकावसरे ‘एव’ ‘सर्वैः’ सवैरभिषिच्येमहीत्यकामयन्त ततः अभ्यषिच्यन्त । ‘तथैव’ यजमानो ऽपि विहितप्रकारेण होमेनास्मिन्नेवावसरे तथैव सर्वैरभिषेकैरभिषिच्यते । अत्र ‘सर्वैः सवैः सूयेमहीति’ लिङा । “अथ यानि चतुर्दशोत्तराणि, तता यानि सप्त पूर्वाणि, तानि वाजपेयस्य” इति सिद्धवदनुवादाच्च पूर्वं पार्थहोमानन्तरं “वाजश्च मे”- इत्यादिमन्त्रसाध्यं होमं जुहुयादिति विधिरुन्नेयः ॥ ६ ॥

Eggeling
  1. And, indeed, he offers here also the Pārtha 6 (oblations);–for the gods now desired, ‘May we be consecrated even on this occasion by all the rites of consecration!’ They were indeed consecrated on this occasion by all the rites of consecration; and in like manner is the Sacrificer on this occasion consecrated by all the rites of consecration.

०७

विश्वास-प्रस्तुतिः

तद्या᳘नि पार्था᳘नि॥
ता᳘नि राजसू᳘यस्य व्वाजप्रसवी᳘यं तद्यत्ता᳘नि जुहो᳘ति त᳘द्राजुसू᳘येन सूयते᳘ ऽथ या᳘नि च᳘तुर्दशो᳘त्तराणि त᳘तो या᳘नि सप्त पू᳘र्व्वाणि ता᳘नि व्वाजपे᳘यस्य व्वाजप्रसवी᳘यं तद्यत्ता᳘नि जुहो᳘ति त᳘द्वाजपे᳘येन सूयते᳘ ऽथ या᳘नि सप्तो᳘त्तराणि ता᳘न्यग्नेस्तद्यत्ता᳘नि जुहो᳘ति त᳘दग्निसवे᳘न सूयते॥

मूलम् - श्रीधरादि

तद्या᳘नि पार्था᳘नि॥
ता᳘नि राजसू᳘यस्य व्वाजप्रसवी᳘यं तद्यत्ता᳘नि जुहो᳘ति त᳘द्राजुसू᳘येन सूयते᳘ ऽथ या᳘नि च᳘तुर्दशो᳘त्तराणि त᳘तो या᳘नि सप्त पू᳘र्व्वाणि ता᳘नि व्वाजपे᳘यस्य व्वाजप्रसवी᳘यं तद्यत्ता᳘नि जुहो᳘ति त᳘द्वाजपे᳘येन सूयते᳘ ऽथ या᳘नि सप्तो᳘त्तराणि ता᳘न्यग्नेस्तद्यत्ता᳘नि जुहो᳘ति त᳘दग्निसवे᳘न सूयते॥

मूलम् - Weber

तद्या᳘नि पार्था᳘नि॥
ता᳘नि राजसू᳘यस्य वाजप्रसवी᳘यं तद्यत्ता᳘नि जुहो᳘ति त᳘द्राजुसू᳘येन सूयते᳘ ऽथ या᳘नि च᳘तुर्दशो᳘त्तराणि त᳘तो या᳘नि सप्त पू᳘र्वाणि ता᳘नि वाजपे᳘यस्य वाजप्रसवी᳘यं तद्यत्ता᳘नि जुहो᳘ति त᳘द्वाजपे᳘येन सूयते᳘ ऽथ या᳘नि सप्तो᳘त्तराणि ता᳘न्यग्नेस्तद्यत्ता᳘नि जुहो᳘ति त᳘दग्निसवे᳘न सूयते॥

मूलम् - विस्वरम्

तद्यानि पार्थानि- तानि राजसूयस्य वाजप्रसवीयम् । तद्यत्तानि जुहोति- तद्राजसूयेन सूयते । अथ यानि चतुर्दशोत्तराणि- ततो यानि सप्त पूर्वाणि- तानि वाजपेयस्य वाजप्रसवीयम् । तद्यत्तानि जुहोति- तद्वाजपेयेन सूयते । अथ यानि सप्तोत्तराणि- तान्यग्नेः । तद्यत्तानि जुहोति- तदग्निसवेन सूयते ॥ ७ ॥

सायणः

पूर्वोक्तप्रकारेण होमेन सर्वाभिषेकसिद्धिः कथमिति तत्राह- तद्यानीति । यानि चतुर्द्दशोत्तराणीति । ‘यानि चतुर्दशोत्तराणि’ कर्माणि सन्ति । ततश्च ‘यानि सप्त पूर्वाणि’ ‘वाजस्येमम्’ इत्यादिमन्त्रसाध्यानि कर्माणि तानि वाजपेयस्य वाजप्रसवीयं कर्म । अथ यानीति । यानि सप्त “वाजस्य नु प्रसवे” इत्यादिमन्त्रसाध्यानि कर्माणि तान्यपि अग्निचयनस्य वाजप्रसवीयम् । स्पष्टमन्यत् ॥ ७ ॥

Eggeling
  1. Now these Pārtha (oblations) are the Vājaprasavīya of the Rājasūya; and by offering these (oblations) he is consecrated by the Rājasūya; and the first seven of the succeeding fourteen (Vājaprasavīya oblations) are the Vājaprasavīya ceremony of the Vājapeya 7: thus, by offering these he is consecrated by the Vājapeya. And what other seven there are, they belong to Agni (or, the Agnicayana): by offering these, he is consecrated by the Agni-consecration.

०८

विश्वास-प्रस्तुतिः

स वै᳘ राजसूय᳘स्य पू᳘र्व्वाणि जुहोति॥
(त्य᳘) अ᳘थ व्वाजपे᳘यस्य रा᳘जा वै᳘ राजुसू᳘येनेष्ट्वा भ᳘वति सम्रा᳘ड्वाजपे᳘येन राज्य᳘मु वा ऽअग्रे᳘ ऽथ सा᳘म्राज्यं त᳘स्माद्वाजपे᳘येनेष्ट्वा न᳘ राजसू᳘येन यजेत प्रत्यवरोहः स य᳘था सम्राट् सन्रा᳘जा स्या᳘त्तादृक्त᳘त्॥

मूलम् - श्रीधरादि

स वै᳘ राजसूय᳘स्य पू᳘र्व्वाणि जुहोति॥
(त्य᳘) अ᳘थ व्वाजपे᳘यस्य रा᳘जा वै᳘ राजुसू᳘येनेष्ट्वा भ᳘वति सम्रा᳘ड्वाजपे᳘येन राज्य᳘मु वा ऽअग्रे᳘ ऽथ सा᳘म्राज्यं त᳘स्माद्वाजपे᳘येनेष्ट्वा न᳘ राजसू᳘येन यजेत प्रत्यवरोहः स य᳘था सम्राट् सन्रा᳘जा स्या᳘त्तादृक्त᳘त्॥

मूलम् - Weber

स वै᳘ राजसूय᳘स्य पू᳘र्वाणि जुहोति॥
अ᳘थ वाजपे᳘यस्य रा᳘जा वै᳘ राजुसू᳘येनेष्ट्वा भ᳘वति सम्रा᳘ड्वाजपे᳘येन राज्य᳘मु वा अग्रे᳘ ऽथ सा᳘म्राज्यं त᳘स्माद्वाजपे᳘येनेष्ट्वा न᳘ राजसू᳘येन यजेत प्रत्यवरोहः स य᳘था सम्राट् सन्रा᳘जा स्या᳘त्तादृक्त᳘त्॥

मूलम् - विस्वरम्

स वै राजसूयस्य पूर्वाणि जुहोति । अथ वाजपेयस्य । राजा वै राजसूयेनेष्ट्वा भवति, सम्राड् वाजपेयेन । राज्यमु वा अग्रे, अथ साम्राज्यम् । तस्माद्वाजपेयेनेष्ट्वा न राजसूयेन यजेत । प्रत्यवरोहः सः । यथा सम्राट् सन्राजा स्यात्- तादृक्तत् ॥ ८ ॥

सायणः

अथ राजसूयवाजपेयसंबन्धिनां वाजप्रसवीयकर्मणां पौर्वापर्ये कारणमाह- स वै राजसूयस्येति । राजसूययागं कृत्वा राजा भवति । वाजपेययागं कृत्वा सम्राड् भवति । साम्राज्यं च राज्यानन्तरभावित्वेन ततो ऽप्यधिकम् । तस्माद्वाजपेयं कृत्वा राजसूयं न कुर्यात् । तथा करणस्य प्रत्यवरोहकमत्वात् 8 । तमेव दर्शयति- यथेति । यथा सम्राट् सन् पश्चात् राजा स्यात् तदपि तादृगिति । तस्माद्राजसूयवाजप्रसवीयकर्मणोः पौर्वापर्यमुपपन्नमित्यर्थः ॥ ८ ॥

Eggeling
  1. He first offers those of the Rājasūya, then those of the Vājapeya; for by performing the Rājasūya one becomes king (rājā) and by the Vājapeya emperor (samrāj), and the position of king is (obtained) first, and thereafter that of

emperor 9: hence after performing the Vājapeya, one could not perform the Rājasūya,–it would be a descent, just as if one who is emperor were to become king.

०९

विश्वास-प्रस्तुतिः

(द) अग्ने᳘रुत्तमा᳘नि जुहोति॥
स᳘र्व्वे हैते᳘ सवा य᳘दग्निसवः स᳘र्व्वᳫँ᳭ हैत᳘दग्निसवे᳘न सुतो᳘ भवति रा᳘जा च सम्रा᳘ट्च त᳘स्मादग्ने᳘रुत्तमा᳘नि जुहोति॥

मूलम् - श्रीधरादि

(द) अग्ने᳘रुत्तमा᳘नि जुहोति॥
स᳘र्व्वे हैते᳘ सवा य᳘दग्निसवः स᳘र्व्वᳫँ᳭ हैत᳘दग्निसवे᳘न सुतो᳘ भवति रा᳘जा च सम्रा᳘ट्च त᳘स्मादग्ने᳘रुत्तमा᳘नि जुहोति॥

मूलम् - Weber

अग्ने᳘रुत्तमा᳘नि जुहोति॥
स᳘र्वे हैते᳘ सवा य᳘दग्निसवः स᳘र्वᳫं हैत᳘दग्निसवे᳘न सुतो᳘ भवति रा᳘जा च सम्रा᳘ट्च त᳘स्मादग्ने᳘रुत्तमा᳘नि जुहोति॥

मूलम् - विस्वरम्

अग्नेरुत्तमानि जुहोति । सर्वे हैते सवाः- यदग्निसवः । सर्वं हैतदग्निसवेन सुतो भवति- राजा च, सम्राट् च । तस्मादग्नेरुत्तमानि जुहोति ॥ ९ ॥

सायणः

अथाग्निकानामुत्तमत्वमुपपादयति- अग्नेरुत्तमानीति । ‘अग्नेः’ सर्वात्मकत्वेन तत्समवायिनः सर्वे सवाः खलु । एवं च एतेनाग्निसवेन सर्वं सुतो भवति । सर्वशब्दार्थमेव दर्शयति- राजा च सम्राट्चेति । सर्वमिति सामान्योपक्रमत्वान्नपुंसकत्वम् । सर्वसवात्मकेनाग्निसवेन राजा च सम्राट् चेत्यस्य सर्वस्याभिषेको युज्यत इत्यभिहितः क्रमः प्रशस्त इत्यर्थः ॥ ९ ॥

Eggeling
  1. Those (seven Vājaprasavīya oblations) of the fire-altar he offers last, for the Agni-consecration indeed is (equal to) all those rites of consecration, and he who is consecrated by the Agni-consecration rite becomes everything, king and emperor: therefore he offers those of the fire-altar last of all.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं कृष्णाजि᳘ने ऽभिषिञ्चति[[!!]]॥
यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ ऽए᳘वैनमेत᳘दभि᳘षिञ्चति लोमतश्छ᳘न्दाᳫँ᳭सि वै लो᳘मानि च्छ᳘न्दःस्वे᳘वैनमेत᳘दभि᳘षिञ्चत्युत्तरतस्त᳘स्योप᳘रि ब᳘न्धुः प्राची᳘नग्रीवे तद्धि᳘ देवत्रा[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं कृष्णाजि᳘ने ऽभिषिञ्चति[[!!]]॥
यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ ऽए᳘वैनमेत᳘दभि᳘षिञ्चति लोमतश्छ᳘न्दाᳫँ᳭सि वै लो᳘मानि च्छ᳘न्दःस्वे᳘वैनमेत᳘दभि᳘षिञ्चत्युत्तरतस्त᳘स्योप᳘रि ब᳘न्धुः प्राची᳘नग्रीवे तद्धि᳘ देवत्रा[[!!]]॥

मूलम् - Weber

अ᳘थैनं कृष्णाजिॗने ऽभि᳘षिञ्चति॥
यज्ञो वै᳘ कृष्णाजिनं᳘ यज्ञ᳘ एॗवैनमेत᳘दभि᳘षिञ्चति लोमतश्छ᳘न्दांसि वै लो᳘मानि छ᳘न्दःस्वेॗवैनमेत᳘दभिषिञ्चत्युत्तरतस्त᳘स्योप᳘रि ब᳘न्धुः प्राची᳘नग्रीवे तद्धि᳘ देवत्रा᳟॥

मूलम् - विस्वरम्

अथाभिषेकः ।

अथैनं कृष्णाजिने ऽभिषिञ्चति । यज्ञो वै कृष्णाजिनम् । यज्ञ एवैनमेतदभिषिञ्चति । लोमतः । छन्दांसि वै लोमानि । छन्दःस्वेवैनमेतदभिषिञ्चति । उत्तरतः । तस्योपरि बन्धुः । प्राचीनग्रीवे । तद्धि देवत्रा ॥ १० ॥

सायणः

इत्थं सक्रमं पार्थहोममभिधायेदानीं यजमानस्य कृष्णाजिने ऽभिषेकं विधत्ते- अथेति । तत् कृष्णाजिनं यज्ञात्मना प्रशंसति- यज्ञो वा इति । कृष्णमृगरूपेण यज्ञस्य पलायनात् कृष्णाजिनस्य यज्ञत्वम् । तथा पलायनं तैत्तिरीयके श्रूयते- “यज्ञो देवेभ्यो निलायत कृष्णो रूपं कृत्वा”- (तै. सं. ६ । २ । ४ । १) इति । “कृष्णाजिने ऽभिषिञ्चति” इति सामान्येन विधानान्निर्लोमप्रदेशे कदाचिदभिषेकः स्यादिति कस्यचित्प्रतिपत्तिं निवारयितुं विधत्ते- लोमत इति । छन्दांसि वा इति । छन्दसामृक्सामनिष्ठत्वादृक्सामयोश्च कृष्णमृगरूपेणापक्रमणात् कृष्णाजिनसंबद्धानि लोमानि च्छन्दांसि । अतश्च लोमतो ऽभिषेके ‘छन्दःस्वेवैनमभिषिञ्चति । ऋक्सामयोः कृष्णमृगरूपेणापक्रमणं तैत्तिरीयके श्रूयते “ऋक्सामे वै देवेभ्यो यज्ञायातिष्ठमाने कृष्णो रूपं कृत्वा ऽपक्रम्यातिष्ठताम्” (तै. सं. ६ । १ । ३ । १) इति । स च विहिताभिषेक उत्तरभागे कर्तव्य इत्याह- उत्तरत इति । ‘एषा होभयेषां देवमनुष्याणाम्’ इत्यादिना तस्य ब्राह्मणमुपरिष्टाद्वक्ष्यते (उत्तरत्र कं. १३) इत्याह- तस्योपरि बन्धुरिति । कृष्णाजिनस्य संस्थानविशेषं विधाय प्रशंसति- प्राचीनग्रीव इति । प्राच्या देवसंबन्धित्वं तैत्तिरीयके श्रूयते- “प्राचीनवंशं करोति देवमनुष्या दिशो व्यभजन्त प्राचीं देवा दक्षिणा पितरः” (तै. सं. ६ । १ । १ । १) इति ॥ १० ॥

Eggeling
  1. He then anoints him on a black antelope skin,–for the black antelope skin is (a symbol of) the sacrifice: it is thus at the sacrifice that he anoints him. On the hairy side (of the skin),–for the hairs are the metres: on the metres he thus anoints him. On the left (north) side (of the fire-altar he anoints him): the significance of this (will be explained) further on. On (the skin laid down) with the neck-part towards the front, for that (tends) godwards.

११

विश्वास-प्रस्तुतिः

तᳫँ᳭ है᳘के दक्षिण᳘तो ऽग्ने᳘रभि᳘षिञ्चन्ति॥
दक्षिणतो वा ऽअ᳘न्नस्योपचारस्त᳘देनम᳘न्नस्या᳘र्धादभि᳘षिञ्चाम ऽइ᳘ति न त᳘था कुर्यादेषा वै दि᳘क्पितॄणां᳘ क्षिप्रे᳘ हैतां दि᳘शं प्रै᳘ति यं त᳘था ऽभिषिञ्च᳘न्ति॥

मूलम् - श्रीधरादि

तᳫँ᳭ है᳘के दक्षिण᳘तो ऽग्ने᳘रभि᳘षिञ्चन्ति॥
दक्षिणतो वा ऽअ᳘न्नस्योपचारस्त᳘देनम᳘न्नस्या᳘र्धादभि᳘षिञ्चाम ऽइ᳘ति न त᳘था कुर्यादेषा वै दि᳘क्पितॄणां᳘ क्षिप्रे᳘ हैतां दि᳘शं प्रै᳘ति यं त᳘था ऽभिषिञ्च᳘न्ति॥

मूलम् - Weber

तᳫं है᳘के दक्षिणॗतो ऽग्ने᳘रभि᳘षिञ्चन्ति॥
दक्षिणतो वा अ᳘न्नस्योपचारस्त᳘देनम᳘न्नस्या᳘र्धादभि᳘षिञ्चाम इ᳘ति न त᳘था कुर्यादेषा वै दि᳘क्पितॄणां᳘ क्षिप्रे᳘ हैतां दि᳘शम् प्रै᳘ति यं त᳘थाभिषिञ्च᳘न्ति॥

मूलम् - विस्वरम्

तं हैके दक्षिणतो ऽग्नेरभिषिञ्चन्ति । दक्षिणतो वा अन्नस्योपचारः । तदेनमन्नस्यार्धादभिषिञ्चाम इति । न तथा कुर्यात् । एषा वै दिक् पितॄणाम् । क्षिप्रे हैतां दिशं प्रैति- यं तथा ऽभिषिञ्चन्ति ॥ ११ ॥

सायणः

अथाभिषेकस्थानविषये सोपपत्तिकं केषांचिच्छाखिनां मतमनूद्य निरस्यति- तं हैके दक्षिणत इति । दक्षिणभागे स्थित्वा होमकरणादन्नस्योपचारो दक्षिणतः खलु, अतश्च अन्नस्यार्द्धात्प्रदेशात् अन्न प्रदेशमाश्रित्यैनमभिषिञ्चाम इत्यभिप्रायेणैके शाखिनो ऽग्नेर्दक्षिणतस्तं यजमानमभिषिञ्चन्ति । ‘तथा न कुर्यात्’ । कुतः ‘एषा’ दक्षिणा दिक् ‘पितॄणां’ सम्बन्धिनी भवति । अतस्तथा दक्षिणभागे यमभिषिञ्चन्ति स शीघ्रमेवैतां दिशं प्राप्नुयादित्यर्थः ॥ ११ ॥

Eggeling
  1. Some, however, anoint him on the right (south) side of the fire-altar, on the ground that it is from the right side that food is served, and that they thus anoint him from the food-side. But let him not do so, for that (southern) region belongs to the Fathers, and quickly he goes to that region whom they anoint in that way.

१२

विश्वास-प्रस्तुतिः

(न्त्या) आहवनी᳘य ऽउ है᳘के ऽभि᳘षिञ्चति॥
स्वर्गो वै᳘ लोक᳘ ऽआहवनी᳘यस्त᳘देनᳫँ᳭ स्वर्गे᳘ लो᳘के ऽभि᳘षिञ्चाम ऽइ᳘ति न त᳘था कुर्याद्दै᳘वो वा᳘ ऽअस्यैष᳘ ऽआत्मा᳘ मानु᳘षो ऽय᳘मने᳘न हास्य ते म᳘र्त्येनात्म᳘नैतं दै᳘वमात्मा᳘नमनुप्र᳘सजन्ति यं त᳘था ऽभिषिञ्च᳘न्ति॥

मूलम् - श्रीधरादि

(न्त्या) आहवनी᳘य ऽउ है᳘के ऽभि᳘षिञ्चति॥
स्वर्गो वै᳘ लोक᳘ ऽआहवनी᳘यस्त᳘देनᳫँ᳭ स्वर्गे᳘ लो᳘के ऽभि᳘षिञ्चाम ऽइ᳘ति न त᳘था कुर्याद्दै᳘वो वा᳘ ऽअस्यैष᳘ ऽआत्मा᳘ मानु᳘षो ऽय᳘मने᳘न हास्य ते म᳘र्त्येनात्म᳘नैतं दै᳘वमात्मा᳘नमनुप्र᳘सजन्ति यं त᳘था ऽभिषिञ्च᳘न्ति॥

मूलम् - Weber

आहवनी᳘य उ है᳘के ऽभि᳘षिञ्चति॥
स्वर्गो वै᳘ लोक᳘ आहवनी᳘यस्त᳘देनᳫं स्वर्गे᳘ लोॗके ऽभि᳘षिञ्चाम इ᳘ति न त᳘था कुर्याद्दै᳘वो वा᳘ अस्यैष᳘ आत्मा᳘ मानुॗषो ऽय᳘मने᳘न हास्य ते म᳘र्त्येनात्म᳘नैतं दै᳘वमात्म᳘नैतं दै᳘वमा᳘नमनुप्र᳘सजन्ति यं त᳘थाभिषिञ्च᳘न्ति॥

मूलम् - विस्वरम्

आहवनीय उ हैके ऽभिषिञ्चन्ति । स्वर्गो वै लोक आहवनीयः । तदेनं स्वर्गे लोके ऽभिषिञ्चाम इति । न तथा कुर्यात् । देवो वा ऽअस्यैष आत्मा, मानुषो ऽयम् । अनेन हास्य ते मर्त्येनात्मनैतं दैवमात्मानमनुप्रसजन्ति- यं तथा ऽभिषिञ्चन्ति ॥ १२ ॥

सायणः

तथैवान्येषामपि मतमनूद्य निरस्यति- आहवनीय उ हैक इति । आहवनीयशब्दो ऽग्नौ मुख्यः । एवं चाग्नाववस्थानस्य दुष्करत्वात् गङ्गायां घोष इत्यत्र गङ्गाशब्दवदत्राहवनीयशब्दो ऽपि स्वसमीपं लक्षयति । आहवनीयस्य स्वर्लोकत्वं गार्हपत्याद्यपेक्षया परत्वात् । देवो वा इति । ‘अस्य’ यजमानस्य ‘एषः’ आहवनीयो देवसम्बन्धी ‘आत्मा’ । अग्निचयनेन यजमानस्याग्नित्वप्राप्तेः । अयमिति च यजमानो निर्दिश्यते । अयं पुनर्मानुष आत्मा । एवं चाहवनीयसमीपे ऽभिषिञ्चन्तस्ते ऋत्विजो ऽस्य यजमानस्य दैवमात्मानम् ‘मर्त्येन’ ‘आत्मना’ ‘अनुप्रसजन्ति’ मेलयन्ति द्वावप्यात्मानौ संकीर्णौ कुर्वन्तीत्यर्थः ॥ १२ ॥

Eggeling
  1. And some, indeed, anoint him on the Āhavanīya, on the ground that the Āhavanīya is the world of heaven, and that they thus anoint him in the world of heaven. But let him not do so, for that (Āhavanīya, the fire-altar,) is his (the Sacrificer’s)

divine body, and this (Sacrificer, or Sacrificer’s real body) is his human one: they thus attach that divine body of his to this his mortal body, if they anoint him in this way.

१३

विश्वास-प्रस्तुतिः

(न्त्यु) उत्तरत᳘ ऽए᳘वैनमभि᳘षिञ्चेत्॥
(दे) एषा᳘ होभ᳘येषां देवमनुष्या᳘णां दिग्यदु᳘दीची प्रा᳘ची स्वा᳘यामे᳘वैनमेत᳘द्दिश्या᳘यत्तं प्र᳘तिष्ठितमभि᳘षिञ्चति न वै स्व᳘ ऽआय᳘तने प्र᳘तिष्ठितो रिष्यति॥

मूलम् - श्रीधरादि

(न्त्यु) उत्तरत᳘ ऽए᳘वैनमभि᳘षिञ्चेत्॥
(दे) एषा᳘ होभ᳘येषां देवमनुष्या᳘णां दिग्यदु᳘दीची प्रा᳘ची स्वा᳘यामे᳘वैनमेत᳘द्दिश्या᳘यत्तं प्र᳘तिष्ठितमभि᳘षिञ्चति न वै स्व᳘ ऽआय᳘तने प्र᳘तिष्ठितो रिष्यति॥

मूलम् - Weber

उत्तरत᳘ एॗवैनभि᳘षिञ्चेत्॥
एषा᳘ होभ᳘येषां देवमनुष्या᳘णां दिग्यदु᳘दीची प्रा᳘ची स्वा᳘यामेॗवैनमेत᳘द्दिश्या᳘यत्तम् प्र᳘तिष्ठितमभि᳘षिञ्चति न वै स्व᳘ आय᳘तने प्र᳘तिष्ठितो रिष्यति॥

मूलम् - विस्वरम्

उत्तरत एवैनमभिषिञ्चेत् । एषा होभयेषां देवमनुष्याणां दिक्- यदुदीची प्राची । स्वायामेवैनमेतद्दिश्यायत्तं प्रतिष्ठितमभिषिञ्चति । न वै स्व आयतने प्रतिष्ठितो रिष्यति ॥ १३ ॥

सायणः

मा भूद्दक्षिणभागे आहवनीये वा ऽभिषेकः । कुत्र तर्हि तस्य करणमित्यत आह- उत्तरत एवैनमिति । ननु त्वदभिमतायामुत्तरस्यां दिश्यभिषेके को वा गुणो लभ्यत इत्यत आह- एषा होभयेषामिति । उदीची प्राचीति । गार्हपत्याद्यपेक्षयोदीच्येव प्राची भवतीत्येवमुक्तम् । गार्हपत्याद्यपेक्षया प्राचीत्वसम्पादनस्यायमाशयः । अभिषेक्तव्ययजमानस्य द्वौ दैवमानुषावात्मानौ विद्येते । प्राच्युदीच्यौ च देवमनुष्यसम्बन्धिन्यौ । एवं च देवमनुष्यात्मकस्य यजमानस्याभिषेकस्तत्सम्बन्धिन्योर्दिशोः कर्तव्य इति । ‘आयत्तम्’ इत्यस्यार्थकथनं ‘प्रतिष्ठितम्’ इति । स्वायामेवैनमेतद्दिशीति । दिशो ऽत्र धनत्वेन विवक्षितत्वात् “स्वमज्ञातिधनाख्यायाम्” (पा० सू० १ । १ । ३५) इति पर्युदासेन स्वशब्दस्य धनाख्यायां सर्वनामसंज्ञावैधुर्येण ‘स्वायाम्’ इत्यत्र स्याडागमाभावः । न वै स्व आयतन इति । अत्राप्येवमेव स्मिन्नादेशाभावः । न रिष्यतीति । न विनश्येदित्यर्थः ॥ १३ ॥

Eggeling
  1. Let him anoint him on the left (north) side and nowhere else, for that north-eastern region belongs to both gods and men: they thus anoint him whilst seated and established in his own region, for he who is established in his own seat suffers no injury.

१४

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘सीनं भूत᳘मभि᳘षिञ्चेत्॥
(दा᳘) आ᳘स्त ऽइव वै᳘ भूतस्ति᳘ष्ठन्तं बु᳘भूषन्तं ति᳘ष्ठतीव वै बु᳘भूषन्बस्ताजिने पु᳘ष्टिकाममभिषिञ्चे᳘त्कृष्णाजिने᳘ ब्रह्मवर्चस᳘काममुभ᳘योरुभ᳘यकामं त᳘दुत्तरतः पु᳘च्छस्यो᳘त्तरलोम प्राची᳘नग्रीवमु᳘पस्तृणाति॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘सीनं भूत᳘मभि᳘षिञ्चेत्॥
(दा᳘) आ᳘स्त ऽइव वै᳘ भूतस्ति᳘ष्ठन्तं बु᳘भूषन्तं ति᳘ष्ठतीव वै बु᳘भूषन्बस्ताजिने पु᳘ष्टिकाममभिषिञ्चे᳘त्कृष्णाजिने᳘ ब्रह्मवर्चस᳘काममुभ᳘योरुभ᳘यकामं त᳘दुत्तरतः पु᳘च्छस्यो᳘त्तरलोम प्राची᳘नग्रीवमु᳘पस्तृणाति॥

मूलम् - Weber

आ᳘सीनम् भूत᳘मभि᳘षिञ्चेत्॥
आ᳘स्त इव वै᳘ भूतस्ति᳘ष्ठ्न्तम् बु᳘भूषन्तं ति᳘ष्ठतीव वै बु᳘भूषन्बस्ताजिने पु᳘ष्टिकाममभिषिञ्चे᳘त्कृष्णाजिने᳘ ब्रह्मवर्चस᳘काममुभ᳘योरुभ᳘यकामं त᳘दुत्तरतः पु᳘छस्यो᳘त्तरलोम प्राची᳘नग्रीवमु᳘पस्तृणाति॥

मूलम् - विस्वरम्

आसीनं भूतमभिषिञ्चेत् । आस्त इव वै भूतः । तिष्ठन्तं बुभूषन्तम् । तिष्ठतीव वै बुभूषन् । बस्ताजिने पुष्टिकाममभिषिञ्चेत् । कृष्णाजिने ब्रह्मवर्चसकामम् । उभयोरुभयकामम् । तदुत्तरतः पुच्छस्योत्तरलोम प्राचीनग्रीवमुपस्तृणाति ॥ १४ ॥

सायणः

अथ प्राप्तैश्वर्यस्य प्राप्स्यमानैश्वर्यस्य च यजमानस्याभिषेकसंस्थानविशेषं विधत्ते- आसीनं भूतामिति 10 । ‘भूतः’ प्राप्तैश्वर्यः । सर्वैश्वर्येषु प्राप्तेषु प्रयत्नवैधुर्येणासीन इव भवतीति तम् ‘आसीनम् अभिषिञ्चेत्’ । ऐश्वर्यं प्राप्तुमिच्छन् बुभूषन् स चोक्तवैपरीत्येन ‘तिष्ठन्निव’ भवतीति तिष्ठन्तं तमभिषिञ्चेदित्यर्थः । फलविशेषानुरोधेन धर्मविशेषे ऽभिषेकं विधते- बस्ताजिने पुष्टिकाममिति 11 । उत्तरत एवैनमभिषिञ्चेदित्युत्तरदिङ्मात्रं विहितम् । ततश्च तत्र विवक्षितस्थानादन्यदपि प्रसज्यत इति विवक्षितस्थानसंस्थानविशेषविशिष्टं कृष्णाजिनास्तरणं विधत्ते- उत्तरतः पुच्छस्येति । अग्नेः पुच्छभागस्योत्तरतः ॥ १४ ॥

Eggeling
  1. One who has gained a position in the world should be anointed sitting, for one who has gained a position is seated, so to speak;–and one who is striving to gain one standing, for one who wishes to gain a position, stands, so to speak. On a he-goat’s skin should be anointed one desirous of prosperity, on a black-antelope skin one desirous of spiritual lustre, on both (kinds of skins) one desirous of both: that (skin) he spreads north of the tail (of the fire-altar) with its hair uppermost and its neck-part towards the east.

१५

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘स्पृष्टं परिश्रि᳘तः॥
(स्त) तद्य᳘त्कृष्णाजिनमा᳘स्पृष्टं परिश्रि᳘तो भ᳘वति त᳘थो हास्यैष दै᳘व ऽआत्मा᳘ कृष्णाजि᳘ने ऽभि᳘षिक्तो भवत्य᳘थ य᳘देनमन्वा᳘रब्धमग्निं ति᳘ष्ठन्तमभिषिञ्च᳘ति त᳘था हैत᳘स्माद्दै᳘वादभि᳘षेकान्न व्य᳘वच्छिद्यते॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘स्पृष्टं परिश्रि᳘तः॥
(स्त) तद्य᳘त्कृष्णाजिनमा᳘स्पृष्टं परिश्रि᳘तो भ᳘वति त᳘थो हास्यैष दै᳘व ऽआत्मा᳘ कृष्णाजि᳘ने ऽभि᳘षिक्तो भवत्य᳘थ य᳘देनमन्वा᳘रब्धमग्निं ति᳘ष्ठन्तमभिषिञ्च᳘ति त᳘था हैत᳘स्माद्दै᳘वादभि᳘षेकान्न व्य᳘वच्छिद्यते॥

मूलम् - Weber

आ᳘स्पृष्टम् परिश्रि᳘तः॥
तद्य᳘त्कृष्णाजिनमा᳘स्पृष्टम् परिश्रि᳘तो भ᳘वति त᳘थो हास्यैष दै᳘व आत्मा᳘ कृष्णाजिॗने ऽभि᳘षिक्तो भवत्य᳘थ य᳘देनमन्वा᳘रब्धमग्निं ति᳘ष्ठन्तमभिषिञ्च᳘ति त᳘था हैत᳘स्माद्दै᳘वादभि᳘षेकान्न व्य᳘वछिद्यते॥

मूलम् - विस्वरम्

आस्पृष्टं परिश्रितः । तद्- यत्कृष्णाजिनमास्पृष्टं परिश्रितो भवति- तथो हास्यैष देव आत्मा कृष्णाजिने ऽभिषिक्तो भवति । अथ यदेनमन्वारब्धमग्निं तिष्ठन्तमभिषिञ्चति- तथा हैतस्माद्दैवादभिषेकान्न व्यवच्छिद्यते ॥ १५ ॥

सायणः

आस्पृष्टं परिश्रित इति । ‘परिश्रितः’ इति तृतीयार्थे षष्ठी । आङीषदर्थे । ‘परिश्रितः’ किञ्चित्स्पृष्टमित्यर्थः । कृष्णाजिनस्य परिश्रितां स्पर्शो यजमानसंबन्धिदैवात्मा ऽभिषेकहेतुर्भवतीति प्रशंसति- तद्यदिति । प्रकारान्तरेणापि दैवस्यात्मनो ऽभिषेकं सिद्धं दर्शयति- अथ यदेनमिति । ‘अग्निम्’ ‘अन्वारब्धम्’ स्पृष्टवन्तम् तिष्ठन्तमभिषिञ्चतीति यत् तेनासौ यजमानो ‘दैवादभिषेकात् न व्यवच्छिद्यते’ दैवात्मसंबन्धिनो ऽभिषेकान्न परिक्षीयते- स्वकीयदैवात्मनो ऽग्नेः संस्पर्शनाभिषेकसंबन्धादित्यर्थः ॥ १५ ॥

Eggeling
  1. Close to the enclosing-stones 12: inasmuch as the black-antelope skin is close to the enclosing-stones, so that divine body of his is consecrated on the black-antelope skin; and inasmuch as he is consecrated whilst keeping hold of the fire-altar he is not cut off from that divine consecration (of the Fire).

१६

विश्वास-प्रस्तुतिः

(ते ऽग्नौ᳘) अग्नौ᳘ हुत्वा᳘ ऽथैनमभि᳘षिञ्चति॥
दै᳘वो वा᳘ ऽअस्यैष᳘ ऽआत्मा᳘ मानुषो ऽयं᳘[[!!]] देवा᳘ ऽउ वा ऽअग्रे᳘ ऽथ मनु᳘ष्यास्त᳘स्मादग्नौ᳘ हुत्वा᳘ ऽथैनं त᳘स्यैव प᳘रिशिष्टेनाभि᳘षिञ्चत्य᳘त्र त᳘ᳫँ᳘ स्रुव᳘मनुप्रा᳘स्यति॥

मूलम् - श्रीधरादि

(ते ऽग्नौ᳘) अग्नौ᳘ हुत्वा᳘ ऽथैनमभि᳘षिञ्चति॥
दै᳘वो वा᳘ ऽअस्यैष᳘ ऽआत्मा᳘ मानुषो ऽयं᳘[[!!]] देवा᳘ ऽउ वा ऽअग्रे᳘ ऽथ मनु᳘ष्यास्त᳘स्मादग्नौ᳘ हुत्वा᳘ ऽथैनं त᳘स्यैव प᳘रिशिष्टेनाभि᳘षिञ्चत्य᳘त्र त᳘ᳫँ᳘ स्रुव᳘मनुप्रा᳘स्यति॥

मूलम् - Weber

अग्नौ᳘ हुत्वा᳘थैनमभि᳘षिञ्चति॥
दै᳘वो वा᳘ अस्यैष᳘ आत्मा᳘ मानुॗषो ऽयं᳘ देवा᳘ उ वा अग्रे᳘ ऽथ मनुॗष्यास्त᳘स्मादग्नौ᳘ हुत्वा᳘थैनं त᳘स्यैव प᳘रिषिष्टेनाभि᳘षिञ्चत्य᳘त्र त᳘ᳫं᳘ स्रुव᳘मनुप्रा᳘स्यति॥

मूलम् - विस्वरम्

अग्नौ हुत्वा ऽथैनमभिषिञ्चति । दैवो वा अस्यैष आत्मा, मानुषो ऽयम् । देवा उ वा अग्रे, अथ मनुष्याः । तस्मादग्नौ हुत्वा ऽथैनं तस्यैव परिशिष्टेनाभिषिञ्चति । अत्र तं स्रुवमनुप्रास्यति ॥ १६ ॥

सायणः

अग्नेर्यजमानदैवात्मत्वमुपजीव्य पार्थादिहोमस्या ऽभिषेकस्य च पौर्वापर्यमुपपादयति- अग्नौ हुत्वेति । तस्यैव परिशिष्टेनेति । तस्यैव हुतद्रव्यस्य परिशिष्टेनांशेनाभिषिञ्चति । अस्मिन्नवसरे तमौदुम्बरं होमसाधनभूतं स्रुवमनुप्रास्येत् तत्कार्यस्य होमस्य सम्पन्नत्वादित्याह- अत्रेति ॥ १६ ॥

Eggeling
  1. He anoints him after making offering on the fire-altar, for that (altar) is his divine body, and

this (Sacrificer himself) is his human one; and the gods indeed were first, and thereafter the men: therefore, after making offering, he anoints him with what remains over of that same (offering-material) 13. He then throws the dipping-spoon after (the oblations into the fire).

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं दक्षिणं᳘ बाहु᳘मनुपर्यावृ᳘त्याभि᳘षिञ्चति॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्याᳫँ᳭ स᳘रस्वत्यै व्वाचो᳘ यन्तु᳘र्यन्त्रे᳘णाग्नेः सा᳘म्राज्येनाभि᳘षिञ्चामी᳘ति व्वाग्वै स᳘रस्वती त᳘स्या ऽइदᳫँ᳭ स᳘र्व्वं यन्त्र᳘ᳫँ᳘ सवितृ᳘प्रसूत ऽए᳘वैनमेत᳘दने᳘न स᳘र्व्वेण स᳘रस्वत्यै व्वाचो᳘ यन्तु᳘र्यन्त्रे᳘णाग्नेः सा᳘म्राज्येनाभि᳘षिञ्चत्य᳘त्र तं᳘ चमस᳘मनुप्रा᳘स्यति यद᳘त्र व्वि᳘लिप्तं तन्ने᳘द्बहि᳘र्धा ऽग्नेर᳘सदि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं दक्षिणं᳘ बाहु᳘मनुपर्यावृ᳘त्याभि᳘षिञ्चति॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्याᳫँ᳭ स᳘रस्वत्यै व्वाचो᳘ यन्तु᳘र्यन्त्रे᳘णाग्नेः सा᳘म्राज्येनाभि᳘षिञ्चामी᳘ति व्वाग्वै स᳘रस्वती त᳘स्या ऽइदᳫँ᳭ स᳘र्व्वं यन्त्र᳘ᳫँ᳘ सवितृ᳘प्रसूत ऽए᳘वैनमेत᳘दने᳘न स᳘र्व्वेण स᳘रस्वत्यै व्वाचो᳘ यन्तु᳘र्यन्त्रे᳘णाग्नेः सा᳘म्राज्येनाभि᳘षिञ्चत्य᳘त्र तं᳘ चमस᳘मनुप्रा᳘स्यति यद᳘त्र व्वि᳘लिप्तं तन्ने᳘द्बहि᳘र्धा ऽग्नेर᳘सदि᳘ति॥

मूलम् - Weber

अ᳘थैनं दक्षिण᳘म् बाहु᳘मनुपर्यावृ᳘त्याभि᳘षिञ्चति॥
देव᳘स्य त्वा सवितुः᳘ प्रसॗवे ऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्याᳫं स᳘रस्वत्यै वाचो᳘ यन्तु᳘र्यन्त्रे᳘णाग्नेः सा᳘म्राज्येनाभि᳘षिञ्चामी᳘ति वाग्वै स᳘रस्वती त᳘स्या इदᳫं स᳘र्वं यन्त्र᳘ᳫं᳘ सवितृ᳘प्रसूत एॗवैनमेत᳘दने᳘न स᳘र्वेण स᳘रस्वत्यै वाचो᳘ यन्तुर्यन्त्रे᳘णाग्नेः सा᳘म्राज्येनाभि᳘षिञ्चत्यत्र तं᳘ चमस᳘मनुप्रा᳘स्यति यद᳘त्र वि᳘लिप्तं तन्ने᳘द्बहिॗर्धाग्नेर᳘सदि᳘ति॥

मूलम् - विस्वरम्

अथैनं दक्षिणं बाहुमनुपर्यावृत्याभिषिञ्चति । “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चामि”- (वा. सं. १८ । ३७) इति । वाग्वै सरस्वती । तस्या इदं सर्वं यन्त्रम् । सवितृप्रसूत एवैनमेतदनेन सर्वेण सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेः साम्राज्येनाभिषिञ्चति । अत्र तं चमसमनुप्रास्यति । यदत्र विलिप्तम्- तन्नेद्बहिर्धा ऽग्नेरसदिति ॥ १७ ॥

सायणः

अथास्य यजमानस्य “देवस्य त्वा” इत्यादिना मन्त्रेणाभिषेकमाह- अथेति । स्रुवस्यानुप्रासनं होमानन्तरमेव कृत्वा पश्चात्कृष्णाजिनास्तरणादिकं क्रियते । अत एव कात्यायनः- “स्रुवं प्रास्य परिश्रित्स्पृक्कृष्णाजिनमास्तीर्य” (का. श्रौ. सू. १८ । ७१-७२) इति । एवं चात्राथशब्देन कृष्णाजिनास्तरणादिकार्यानन्तर्यमुच्यते । दक्षिणं बाहुमनुपर्यावृत्येति । यजमानस्य दक्षिणबाहुसमीपं गत्वेत्यर्थः । अभिषेकमन्त्रं व्याचष्टे- वाग्वै सरस्वतीति । तस्या वागात्मिकायाः सरस्वत्या इदं सर्वमपि जगत् यन्त्रं नियम्यं भवति । सर्वस्यापि वाग्विषयस्यैव सतो व्यवहारार्हत्वात् । एवं च सति सवितुर्देवस्यानुज्ञया अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां ‘यन्तुः’ इति ङीबभावश्छान्दसः । नियन्त्र्या वाग्रूपायाः सरस्वत्या नियम्येन समस्तजगल्लक्षणेनाग्नेः साम्राज्येन हेतुना त्वामभिषिञ्चामीति मन्त्रस्यार्थः । एतन्मंत्रप्रयोगादध्वर्युः सवितृप्रसूत एव अनेन सर्वेण सर्वजगदात्मकेन नियन्त्र्या वाग्रूपायाः सरस्वत्या नियम्येनाग्नेः साम्राज्येन हेतुना ऽभिषिक्तवान्भवति । अभिषेकार्थत्वाच्चमसस्येदानींतनस्य चाभिषेकलक्षणकार्यस्य निष्पन्नत्वात्तं चमसमग्नौ प्रक्षिपेदित्याह- अत्र तं चमसमिति । अन्यत्राप्रक्षेपेणाग्नावेव प्रक्षेपे कारणमाह- यदत्रेति ॥ १७ ॥

Eggeling
  1. Placing himself near the (Sacrificer’s) right arm, he then anoints him 14, with (Vāj. S. XVIII, 3-7), ‘At the impulse of the divine Savitr̥, I anoint thee, by the arms of the Aśvins, by the hands of Pūshan, by the support of Sarasvatī Vāc, the supporter, by the universal sovereignty of Agni!’–for Sarasvatī is Vāc (speech), and hers is all this support. Impelled by Savitr̥, he thus anoints him by all this support of Sarasvatī Vāc, the supporter, and by the universal sovereignty of Agni. Here he throws the cup (into the fire), lest what is anointed (with offering material) should remain outside the fire.

१८

विश्वास-प्रस्तुतिः

तं वै म᳘ध्ये पार्था᳘नामभि᳘षिञ्चति॥
संव्वत्सरो वै᳘ पार्था᳘नि संव्वत्सर᳘स्यै᳘वैनमेत᳘न्मध्यत ऽआ᳘दधाति ष᳘ट् पुर᳘स्ताज्जुहो᳘ति ष᳘डुप᳘रिष्टात्षड्वा᳘ ऽऋत᳘व ऽऋतु᳘भिरे᳘वैनमेत᳘त्सुषुवाण᳘मुभय᳘तः प᳘रिगृह्णाति बृ᳘हस्प᳘तिः पू᳘र्व्वेषामुत्तमो भ᳘वती᳘न्द्र ऽउ᳘त्तरेषां प्रथमो ब्र᳘ह्म वै बृ᳘हस्प᳘तिः क्षत्रमि᳘न्द्रो ब्र᳘ह्मणा चै᳘वैनमेत᳘त्क्षत्रे᳘ण च सुषुवाण᳘मुभय᳘तः[[!!]] प᳘रिगृह्णाति॥

मूलम् - श्रीधरादि

तं वै म᳘ध्ये पार्था᳘नामभि᳘षिञ्चति॥
संव्वत्सरो वै᳘ पार्था᳘नि संव्वत्सर᳘स्यै᳘वैनमेत᳘न्मध्यत ऽआ᳘दधाति ष᳘ट् पुर᳘स्ताज्जुहो᳘ति ष᳘डुप᳘रिष्टात्षड्वा᳘ ऽऋत᳘व ऽऋतु᳘भिरे᳘वैनमेत᳘त्सुषुवाण᳘मुभय᳘तः प᳘रिगृह्णाति बृ᳘हस्प᳘तिः पू᳘र्व्वेषामुत्तमो भ᳘वती᳘न्द्र ऽउ᳘त्तरेषां प्रथमो ब्र᳘ह्म वै बृ᳘हस्प᳘तिः क्षत्रमि᳘न्द्रो ब्र᳘ह्मणा चै᳘वैनमेत᳘त्क्षत्रे᳘ण च सुषुवाण᳘मुभय᳘तः[[!!]] प᳘रिगृह्णाति॥

मूलम् - Weber

तं वै म᳘ध्ये पार्था᳘नामभि᳘षिञ्चति॥
संवत्सरो वै᳘ पार्था᳘नि संवत्सर᳘स्यैॗवैनमेत᳘न्मध्यत आ᳘दधाति ष᳘ट् पुर᳘स्ताज्जुहो᳘ति ष᳘डुप᳘रिष्टात्षड्वा᳘ ऋत᳘व ऋतु᳘भिरेॗवैनमेत᳘त᳘त्सुषुवाण᳘मुभय᳘तः प᳘रिगृह्णाति बृ᳘हस्प᳘तिः पू᳘र्वेषामुत्तमो भ᳘वतीन्द्र उ᳘त्तरेषाम् प्रथमो ब्र᳘ह्म वै बृ᳘हस्पतिः क्षत्रमि᳘न्द्रो ब्र᳘ह्मणा चैॗवैनमेत᳘त्क्षत्रे᳘ण च सुषुवाण᳘मुभ᳘यतः प᳘रिगृह्णाति॥

मूलम् - विस्वरम्

तं वै मध्ये पार्थानामभिषिञ्चति । सम्वत्सरो वै पार्थानि । सम्वत्सरस्यैवैनमेतन्मध्यत आदधाति । षट्पुरस्ताज्जुहोति, षडुपरिष्टात् । षड्वा ऽऋतवः । ऋतुभिरेवैनमेतत् सुषुवाणमुभयतः परिगृह्णाति । बृहस्पतिः पूर्वेषामुत्तमो भवति, इन्द्र उत्तरेषां प्रथमः । ब्रह्म वै बृहस्पतिः, क्षत्रमिन्द्रः । ब्रह्मणा चैवैनमेतत्क्षत्रेण च सुषुवाणमुभयतः परिगृह्णाति ॥ १८ ॥

सायणः

अभिषेकस्य पूर्वोत्तरपार्थमध्यवर्त्तित्वं प्रशंसति- तं वै मध्य इति । पूर्वोत्तराणि पार्थानि मिलित्वा द्वादश भवन्ति । संवत्सरश्च द्वादशमासात्मकः । एवं सति द्वादशपार्थानां संवत्सरात्मकत्वात्पार्थमध्याभिषेकेण ‘एनम्’ यजमानं ‘संवत्सरस्य’ मध्य एव निदधाति । पार्थानां पृथक् षट्संख्यां प्रशंसति- षट् पुरस्तादिति 15 । पूर्वपार्थमन्त्राणामुत्तममन्त्रे बृहस्पतिः प्रतिपाद्यते, उत्तरपार्थमन्त्राणामादिमे मन्त्रे इन्द्रः प्रतिपाद्यते । अतस्तयोस्ताथाविध्यं प्रशंसति- बृहस्पतिः पूर्वेषामिति ॥ १८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे तृतीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ (९-३-४) ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरहरिहरसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे तृतीयो ऽध्यायः ॥ ९-३ ॥

Eggeling
  1. He anoints him h the middle of the Pārtha oblations, for the Pārtha oblations are the year: he thus places him in the middle of the year. Six he offers before, and six after (the consecration ceremony), for there are six seasons: by the seasons he thus encloses (guards) him who is consecrated on both sides. Br̥haspati is the last of the first (six 16), and Indra the first of the

last (six),–Br̥haspati is the priesthood (or priestly office), and Indra is the nobility (or political power): by the priesthood and the nobility he thus encloses him who is consecrated on both sides.


  1. 223:2 That is, oblations capable of promoting or quickening strength (or food,–vāja); see part iii, p. 37 (where read Vājaprasavīya). While the formulas of the first seven of these oblations are the same as those used for those of the Vājapeya (see V, 2, 2, 5-11), the formulas of the last seven of these oblations are Vāj. S. XVIII, 30-36 (for the first of which, being the same as IX, 5, see VI, 1, 4, 4). ↩︎

  2. 223:3 This seems to be in apposition to both ’that food,’ and ’those objects of desire.’ ↩︎

  3. व्वाजप्रसवीयानि व्वप्रावत्संभृत्य चमसवत् स्रुवेण व्वाजपेयिकानि व्वाजस्येममिति । आग्निकानि च व्वाजस्य न्विति । का. श्रौ. सू. १८ । ७० । ↩︎

  4. 224:1 Or, pan. It has a handle, and serves on this occasion in place of the offering-ladle as well as for anointing the Sacrificer. ↩︎

  5. अग्नये स्वाहेति षट् पार्थानि जुहोति । का. श्रौ. सू. १८ । ६८ । ↩︎

  6. 225:1 In the same way as, at the Rājasūya, six Pārtha oblations were offered before, and as many immediately after, the Consecration ceremony, or ‘anointment’ (see part iii, p. 8 1 seq.), so also on the present occasion, except that, between the first six Pārthas and the consecration ceremony, the Vājaprasavīya set, referred to in the preceding paragraphs, is inserted. ↩︎

  7. 225:2 For these seven oblations, see V, 2, 2, 6-11. Only the second set of seven thus is peculiar to the Agnicayana. ↩︎

  8. ग्रामपतिर्देशपतिर्भवितुमुचितम् । न देशपतिर्भूत्वा पश्चाद्ग्रामपतिना भवितुमुचितमित्याह इति क्व. पुस्तके ऽधिकः पाठो ऽत्र दृश्यते । ↩︎

  9. 226:1 See V, 1, 1, 12. ↩︎

  10. स्रुवं प्रास्य परिश्रित्स्पृक्कृष्णाजिनमास्तीर्य पुच्छादुत्तरँ शेषे ऽपः कृत्वा । अभिषेकसामर्थ्यात् । क्षीरोदके वा व्वाजपेयिकानीति श्रुतेः । तत्राभिषिच्यते ब्रह्मवर्चसकामश्चित्यन्वारब्धो देवस्य त्वेति । तिष्ठन् बुभूषुः । भूत उपविष्टः । का० श्रौ० सू० १८ । ७१-७६ । ↩︎

  11. वस्तचर्मणि पुष्टीच्छुः । उभयेच्छुरुभयोः । एके दक्षिणतश्चित्ये वा । का. श्रौ. सू. १८ । ७७-७९ ॥ ↩︎

  12. 227:1 Sāyaṇa takes ‘āspr̥shṭam pariśritaḥ’ to mean ’lightly touched (just touched) by an enclosing-stone.’ The participle would rather seem here to have an active meaning, like ‘anvārabdha’ in the same paragraph. ↩︎

  13. 228:1 That is, with the remainder of the mess of different kinds of seed mixed with milk and water. ↩︎

  14. 228:2 That is, by sprinkling him with the liquid, or pouring it on him. ↩︎

  15. प्रास्य चमसमिंद्राय स्वाहेति षड् जुहोति प्रतिमंत्रम् । का. श्रौ. सू. १८ । ८० । ↩︎

  16. 228:3 The formulas of the twelve Pārtha oblations are the same as those used on the occasion of the Rājasūya (V, 3, 5, 8. 9), the sixth of which is ‘To Br̥haspati hail!’ and the seventh ‘To Indra hail!’ ↩︎