०१

विश्वास-प्रस्तुतिः

अ᳘थैता᳘न्यज्ञक्रतू᳘ञ्जुहोति॥
(त्य) अग्नि᳘श्च मे घर्म᳘श्च म ऽइ᳘त्येतै᳘रे᳘वैनमेत᳘द्यज्ञक्रतु᳘भिः प्रीणात्य᳘थो ऽएतै᳘रे᳘वैनमेत᳘द्यज्ञक्रतु᳘भिरभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

अ᳘थैता᳘न्यज्ञक्रतू᳘ञ्जुहोति॥
(त्य) अग्नि᳘श्च मे घर्म᳘श्च म ऽइ᳘त्येतै᳘रे᳘वैनमेत᳘द्यज्ञक्रतु᳘भिः प्रीणात्य᳘थो ऽएतै᳘रे᳘वैनमेत᳘द्यज्ञक्रतु᳘भिरभि᳘षिञ्चति॥

मूलम् - Weber

अ᳘थैता᳘न्यज्ञक्रतू᳘न्जुहोति॥
अग्नि᳘श्च मे घर्म᳘श्च म इ᳘त्येतै᳘रेॗवैनमेत᳘द्यज्ञक्रतु᳘भिः प्रीणात्य᳘थो एतै᳘रेॗवैनमेत᳘द्यज्ञक्रतु᳘भिरभि᳘षिञ्चति॥

मूलम् - विस्वरम्

(३) अथैतान्यज्ञक्रतून् जुहोति । “अग्निश्च मे घर्मश्च मे”- (वा. सं. १८ । २२) इति । एतैरेवैनमेतद्यज्ञक्रतुभिः प्रीणाति । अथो एतैरेवैनमेतद्यज्ञक्रतुभिरभिषिञ्चति ॥ १ ॥

सायणः

अथ पूर्ववद्यज्ञक्रतुमन्त्रसाध्यहोमं प्रशंसति- अथैतानिति । “अग्निश्च मे घर्मश्च मे” (वा. सं. १८ । २२ । २३) इत्यादयो मन्त्रा यज्ञक्रतवः । तत्राग्न्यादिपदानां यज्ञक्रतुप्रतिपादकत्वात् ॥ १ ॥

Eggeling
  1. He then offers these Yajñakratus 1 (sacrificial rites), with,’ May the Agni and the Gharma (prosper) for me!’–by these sacrificial rites he thus gratifies him, and by these sacrificial rites he thus consecrates him.

०२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थायु᳘ज स्तो᳘माञ्जुहोति॥
(त्ये) एतद्वै᳘ देवाः स᳘र्व्वान्का᳘माना᳘प्त्वा ऽयु᳘ग्भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मायंस्त᳘थै᳘वैतद्य᳘जमानः स᳘र्व्वान्का᳘माना᳘प्त्वा ऽयु᳘ग्भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मेति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थायु᳘ज स्तो᳘माञ्जुहोति॥
(त्ये) एतद्वै᳘ देवाः स᳘र्व्वान्का᳘माना᳘प्त्वा ऽयु᳘ग्भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मायंस्त᳘थै᳘वैतद्य᳘जमानः स᳘र्व्वान्का᳘माना᳘प्त्वा ऽयु᳘ग्भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मेति॥

मूलम् - Weber

अ᳘थायु᳘ज स्तो᳘मान्जुहोति॥
एतद्वै᳘ देवाः स᳘र्वान्का᳘मानाॗप्त्वायु᳘ग्भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मायंस्त᳘थैॗवैतद्य᳘जमानः स᳘र्वान्का᳘माना᳘प्त्वायु᳘ग्भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मेति॥

मूलम् - विस्वरम्

(४) अथायुज स्तोमाञ्जुहोति । एतद्वै देवाः सर्वान्कामानाप्त्वा ऽयुग्भिः स्तोमैः- स्वर्गं लोकमायन् । तथैवैतद्यजमानः सर्वान्कामानाप्त्वा ऽयुग्भि स्तोमैः स्वर्गं लोकमेति ॥ २ ॥

सायणः

“एका च मे तिस्रश्च मे” (वा. सं. १२ । २४) इत्यादयो मन्त्रा अयुजस्तोमाः तत्साध्यं होमं प्रशंसति- अथायुज इति । स्तोमशब्दः स्तोत्रीया आचष्टे ॥ २ ॥

Eggeling
  1. He then offers (the libations relating to) the Uneven Stomas 2;–for the gods, having now obtained their desires, by means of the uneven Stomas went up to heaven; and in like manner does the Sacrificer, now that he has obtained all his desires, by means of the uneven Stomas go up to heaven.

०३

विश्वास-प्रस्तुतिः

तद्वै᳘ त्रयस्त्रिᳫँ᳭शादिति[[!!]]॥
(त्य᳘) अ᳘न्तो वै᳘ त्रयस्त्रि᳘ᳫँ᳘शो ऽयु᳘जाᳫँ᳭स्तो᳘मानामन्तत᳘ ऽएव त᳘द्देवाः᳘ स्वर्गं᳘ लोक᳘मायंस्त᳘थै᳘वैतद्य᳘जमानो ऽन्तत᳘ ऽएव᳘ स्वर्गं᳘ लोक᳘मेति॥

मूलम् - श्रीधरादि

तद्वै᳘ त्रयस्त्रिᳫँ᳭शादिति[[!!]]॥
(त्य᳘) अ᳘न्तो वै᳘ त्रयस्त्रि᳘ᳫँ᳘शो ऽयु᳘जाᳫँ᳭स्तो᳘मानामन्तत᳘ ऽएव त᳘द्देवाः᳘ स्वर्गं᳘ लोक᳘मायंस्त᳘थै᳘वैतद्य᳘जमानो ऽन्तत᳘ ऽएव᳘ स्वर्गं᳘ लोक᳘मेति॥

मूलम् - Weber

तद्वै᳘ त्रयस्त्रिंशादि᳘ति॥
अ᳘न्तो वै᳘ त्रयस्त्रिंॗशो ऽयु᳘जाᳫं स्तो᳘मानामन्तत᳘ एव त᳘द्देवाः᳘ स्वर्गं᳘ लोक᳘मायंस्त᳘थैॗवैतद्य᳘जमानो ऽन्तत᳘ एव᳘ स्वर्गं᳘ लोक᳘मेति॥

मूलम् - विस्वरम्

तद्वै त्रयस्त्रिंशादिति । अन्तो वै त्रयस्त्रिंशः- अयुजां स्तोमानाम् । अन्तत एव तद्देवाः स्वर्गं लोकमायन् । तथैवैतद्यजमानो ऽन्तत एव स्वर्गं लोकमेति ॥ ३ ॥

सायणः

अत्र च एकादिशब्दास्त्रयस्त्रिंशस्तोमस्यावधित्वं प्रतिपादयन्ति । “स्तोमे डविधिः पञ्चदशाद्यर्थम्” (पा. सू. ५ । ४ । ७३ वा.) इति त्रयस्त्रिंशच्छब्दात् डप्रत्यये- टिलोपे त्रयस्त्रिंशः इति भवति । ‘अयुजां स्तोमानां’ त्रयस्त्रिंशस्तोम एवान्तिमो भवति । ततः परस्यायुजस्तोमस्याभावात् । देवाश्च सर्वान् कामानाप्त्वा ‘अन्ततः’ ‘स्वर्गं लोकं’ गतवन्तः । अतश्च यजमानो ऽपि त्रयस्त्रिंशस्तोमपर्यन्तं होमेन सर्वान् कामानाप्त्वा अन्ततः स्वर्गं लोकं प्राप्नोति ॥ ३ ॥

Eggeling
  1. Now this (set runs) up to the thirty-three-versed (hymn-form), for the Trayastriṁśa is the last of the uneven Stomas: at the last the gods thus

went up to heaven; and in like manner does the Sacrificer thereby at the last go up to heaven.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ युग्म᳘तो जुहोति॥
(त्ये) एतद्वै छ᳘न्दाᳫँ᳭स्यब्रुवन्यात᳘यामा वा᳘ ऽअयु᳘ज स्तो᳘मा युग्म᳘भिर्व्वयᳫँ᳭ स्तो᳘मैः स्वर्गं᳘ लोक᳘मयामे᳘ति ता᳘नि युग्म᳘भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मायंस्त᳘थै᳘वैतद्य᳘जमानो युग्म᳘भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मेति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ युग्म᳘तो जुहोति॥
(त्ये) एतद्वै छ᳘न्दाᳫँ᳭स्यब्रुवन्यात᳘यामा वा᳘ ऽअयु᳘ज स्तो᳘मा युग्म᳘भिर्व्वयᳫँ᳭ स्तो᳘मैः स्वर्गं᳘ लोक᳘मयामे᳘ति ता᳘नि युग्म᳘भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मायंस्त᳘थै᳘वैतद्य᳘जमानो युग्म᳘भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मेति॥

मूलम् - Weber

अ᳘थ युग्म᳘तो जुहोति॥
एतद्वै छ᳘न्दांस्यब्रुवन्यात᳘यामा वा᳘ अयु᳘ज स्तो᳘मा युग्म᳘भिर्वयᳫं स्तो᳘मैः स्वर्गं᳘ लोक᳘ययामे᳘ति ता᳘नि युग्म᳘भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मायंस्त᳘थैॗवैतद्य᳘जमानो युग्म᳘भि स्तो᳘मैः स्वर्गं᳘ लोक᳘मेति॥

मूलम् - विस्वरम्

(५) अथ युग्मतो जुहोति । एतद्वै छन्दांस्यब्रुवन्- यातयामा वा अयुजः । स्तोमाः, युग्मभिर्वयं स्तोमैः स्वर्गं लोकमयामेति । तानि युग्मभिः स्तोमैः स्वर्गं लोकमायन् । तथैवैतद्यजमानो युग्मभिः स्तोमैः स्वर्गं लोकमेति ॥ ४ ॥

सायणः

“चतस्रश्च मे ऽष्टौ च मे” (वा. सं. १८ । २५)- इत्यादयो मन्त्राः युग्मतः, तन्मन्त्रसाध्यं होमं प्रशंसति- अथेति । पूर्वं छन्दांसि अयुजः । स्तोमाः सर्वत्र प्रयोगात् ‘यातयामाः’ अतश्च युग्मभूतैः स्तोमैः ‘स्वर्गं लोकं’ गमिष्याम इत्युक्त्वा तथैव अकुर्वन् । ततश्च युग्मतो होमेन तथैव यजमानो ऽपि करोति ॥ ४ ॥

Eggeling
  1. He then offers (those relating to) the Even (Stomas) 3;–for the metres then said, ‘The uneven stomas are worn out, by means of the even ones we will go up to heaven!’ By means of the even stomas they went up to heaven; and in like manner does the Sacrificer thus, by means of the even stomas, go up to heaven.

०५

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽअष्टाचत्वरिᳫँ᳭शादि᳘ति॥
(त्य᳘) अ᳘न्तो वा᳘ ऽअष्टाचत्वारिᳫँ᳭शो युग्म᳘ताᳫँ᳭ स्तो᳘मानामन्तत᳘ ऽएव तच्छ᳘न्दाᳫँ᳭सि स्वर्गं᳘ लोक᳘मायंस्त᳘थै᳘वैतद्य᳘जमानो ऽन्तत᳘ ऽएव᳘ स्वर्गं᳘ लोक᳘मेति॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽअष्टाचत्वरिᳫँ᳭शादि᳘ति॥
(त्य᳘) अ᳘न्तो वा᳘ ऽअष्टाचत्वारिᳫँ᳭शो युग्म᳘ताᳫँ᳭ स्तो᳘मानामन्तत᳘ ऽएव तच्छ᳘न्दाᳫँ᳭सि स्वर्गं᳘ लोक᳘मायंस्त᳘थै᳘वैतद्य᳘जमानो ऽन्तत᳘ ऽएव᳘ स्वर्गं᳘ लोक᳘मेति॥

मूलम् - Weber

तद्वा᳘ अष्टाचत्वरिंशादि᳘ति॥
अ᳘न्तो वा᳘ अष्टाचत्वारिंशो युग्म᳘ताᳫं स्तो᳘मानामन्तत᳘ एव तच्छ᳘न्दांसि स्वर्गं᳘ लोक᳘मायंस्त᳘थैॗवैतद्य᳘जमानो ऽन्तत᳘ एव᳘ स्वर्गं᳘ लोक᳘मेति॥

मूलम् - विस्वरम्

तद्वा अष्टाचत्वारिंशादिति । अन्तो वा अष्टाचत्वारिंशो युग्मतां स्तोमानाम् । अन्तत एव तच्छन्दांसि स्वर्गं लोकमायन् । तथैवैतद्यजमानो ऽन्तत एव स्वर्गं लोकमेति ॥ ५ ॥

सायणः

अत्रापि पूर्ववदवधिं प्रशंसति- तद्वा अष्टाचत्वारिंशादिति ॥ ५ ॥

Eggeling
  1. This (set runs) up to the forty-eight-versed (hymn-form), for the Ashṭācatvāriṁśa is the last of the even stomas: at the last the metres thus went up to heaven; and in like manner does the Sacrificer thereby at the last go up to heaven.

०६

विश्वास-प्रस्तुतिः

स᳘ ऽआह॥
(है᳘) ए᳘का च मे तिस्र᳘श्च मे च᳘तस्रश्च मे ऽष्टौ᳘ च म ऽइ᳘ति य᳘था व्वृक्षᳫँ᳭ रो᳘हन्नु᳘त्तरामुत्तराᳫँ᳭ शा᳘खाᳫँ᳭ समाल᳘म्भᳫँ᳭ रो᳘हेत्तादृक्तद्य᳘द्वेव स्तो᳘माञ्जुहोत्य᳘न्नं वै स्तो᳘मा ऽअ᳘न्नेनै᳘वैनमेत᳘दभि᳘षिञ्चति᳘॥

मूलम् - श्रीधरादि

स᳘ ऽआह॥
(है᳘) ए᳘का च मे तिस्र᳘श्च मे च᳘तस्रश्च मे ऽष्टौ᳘ च म ऽइ᳘ति य᳘था व्वृक्षᳫँ᳭ रो᳘हन्नु᳘त्तरामुत्तराᳫँ᳭ शा᳘खाᳫँ᳭ समाल᳘म्भᳫँ᳭ रो᳘हेत्तादृक्तद्य᳘द्वेव स्तो᳘माञ्जुहोत्य᳘न्नं वै स्तो᳘मा ऽअ᳘न्नेनै᳘वैनमेत᳘दभि᳘षिञ्चति᳘॥

मूलम् - Weber

स᳘ आह॥
ए᳘का च मे तिस्र᳘श्च मे च᳘तस्रश्च मे ऽष्टौ᳘ च म इ᳘ति य᳘था वृक्षं रो᳘हन्नु᳘त्तरामुत्तरां शा᳘खाᳫं समाल᳘म्भं रो᳘हेत्तादृक्तद्य᳘द्वेव स्तो᳘मान्जुहोत्य᳘न्नं वै स्तो᳘मा अ᳘न्नेनैॗवैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - विस्वरम्

स आह- “एका च मे तिस्रश्च मे”- “चतस्रश्च मे ऽष्टौ च मे”- (वा. सं. १८ । २४-२५) इति । यथा वृक्षं रोहन्नुत्तरामुत्तरां शाखां समालम्भं रोहेत्- तादृक्तत् । यद्वेव स्तोमाञ्जुहोति । अन्नं वै स्तोमाः । अनेनैवैनमेतदभिषिञ्चति ॥ ६ ॥

सायणः

अथ तत्रोत्तरोत्तरस्तोमपरिग्रहे वृक्षशाखारोहणक्रमेण तानेव द्विविधान् स्तोमान् स्तौति- स आहेति । अथ पुनस्तानेव स्तोमान् अन्नात्मना प्रशंसति- यद्वेव स्तोमानिति । अन्नसाधनत्वात्स्तोमानामन्नत्वम् ॥ ६ ॥

Eggeling
  1. He says, ‘May the One and the Three (prosper) for me!’–‘May the Four and the Eight (prosper) for me!’–even as one climbing a tree would climb up by taking hold of an ever higher branch, so is this. And as to why he offers the Stomas,–the stomas are food: it is with food he thus consecrates him.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्व᳘याᳫँ᳭सि जुहोति॥
पश᳘वो वै व्व᳘याᳫँ᳭सि पशु᳘भिरे᳘वैनमेतद᳘न्नेन प्रीणात्य᳘थो पशु᳘भिरे᳘वैनमेतद᳘न्नेनाभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्व᳘याᳫँ᳭सि जुहोति॥
पश᳘वो वै व्व᳘याᳫँ᳭सि पशु᳘भिरे᳘वैनमेतद᳘न्नेन प्रीणात्य᳘थो पशु᳘भिरे᳘वैनमेतद᳘न्नेनाभि᳘षिञ्चति॥

मूलम् - Weber

अ᳘थ व᳘यांसि जुहोति॥
पश᳘वो वै व᳘यांसि पशु᳘भिरेॗवैनमेतद᳘न्नेन प्रीणात्य᳘थो पशु᳘भिरेॗवैनमेतद᳘न्नेनाभि᳘षिञ्चति॥

मूलम् - विस्वरम्

(६) अथ वयांसि जुहोति । पशवो वै वयांसि । पशुभिरेवैनमेतदन्नेन प्रीणाति । अथो पशुभिरेवैनमेतदन्नेनाभिषिञ्चति ॥ ७ ॥

सायणः

“त्र्यविश्व मे त्र्यवी च मे” (वा. सं. १८ । २६ । २७) इत्यादयो मन्त्राः वयांसि एकहायनप्रभृत्यापंचहायनात्पशवो वै वयांसि इत्युच्यन्ते, तत्र तेषां प्रतिपादनात् । ततस्तन्मन्त्रसाध्यं होमं प्रशंसति- अथ वयांसीति ॥ ७ ॥

Eggeling
  1. He then offers (the libations relating to) the Age-grades 4 (of cattle),–age-grades mean cattle: it is by cattle, for his food, that he thus gratifies

him; and by cattle, for his food, he thus consecrates him.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ नामग्रा᳘हं जुहोति॥
(त्ये) एतद्वै᳘ देवाः स᳘र्व्वान्का᳘मानाप्त्वा᳘ ऽथैत᳘मेव᳘ प्रत्य᳘क्षमप्रीणंस्त᳘थै᳘वैतद्य᳘जमानः स᳘र्व्वान्का᳘मानाप्त्वा᳘ ऽथैत᳘मेव᳘ प्रत्य᳘क्षं प्रीणाति व्वा᳘जाय स्वा᳘हा प्रसवा᳘य स्वाहे᳘ति ना᳘मान्यस्यैता᳘नि नामग्रा᳘हमे᳘वैनमेत᳘त्प्रीणाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ नामग्रा᳘हं जुहोति॥
(त्ये) एतद्वै᳘ देवाः स᳘र्व्वान्का᳘मानाप्त्वा᳘ ऽथैत᳘मेव᳘ प्रत्य᳘क्षमप्रीणंस्त᳘थै᳘वैतद्य᳘जमानः स᳘र्व्वान्का᳘मानाप्त्वा᳘ ऽथैत᳘मेव᳘ प्रत्य᳘क्षं प्रीणाति व्वा᳘जाय स्वा᳘हा प्रसवा᳘य स्वाहे᳘ति ना᳘मान्यस्यैता᳘नि नामग्रा᳘हमे᳘वैनमेत᳘त्प्रीणाति॥

मूलम् - Weber

अ᳘थ नामग्रा᳘हं जुहोति॥
एतद्वै᳘ देवाः स᳘र्वान्का᳘मानाप्त्वा᳘थैत᳘मेव᳘ प्रत्य᳘क्षमप्रीणंस्त᳘थैॗवैतद्य᳘जमानः स᳘र्वान्का᳘मानाप्त्वा᳘थैत᳘मेव᳘ प्रत्य᳘क्षम् प्रीणाति वा᳘जाय स्वा᳘हा प्रसवा᳘य स्वाहे᳘ति ना᳘मान्यस्यैता᳘नि नामग्रा᳘हमेॗवैनमेत᳘त्प्रीणाति॥

मूलम् - विस्वरम्

(७) अथ नामग्राहं जुहोति । एतद्वै देवाः सर्वान्कामानाप्त्वा- अथैतमेव प्रत्यक्षमप्रीणन् । तथैवैतद्यजमानः सर्वान्कामानाप्त्वा- अथैतमेव प्रत्यक्षं प्रीणाति । “वाजाय स्वाहा, प्रसवाय स्वाहा”- (वा. सं. १८ । २८) इति । नामान्यस्यैतानि । नामग्राहमेवैनमेतत्प्रीणाति ॥ ८ ॥

सायणः

“त्र्यविश्च मे त्र्यवी च मे” इत्यादिमन्त्राणामवसाने केचन “वाजाय स्वाहा” (वा. सं. १८ । २८) इत्यादयो मन्त्राः समाम्नाताः । तन्मन्त्रसाध्यं होमं प्रशंसति- अथेति । नामग्राहं जुहोतीति । नाम गृहीत्वा जुहुयात् । “नाम्न्यादिशिग्रहोः” (पा. सू. ३ । ४ । ५८) इति नामशब्दे उपपदे ग्रहेर्णमुल् प्रत्ययः । पूर्ववदेव- “वाजश्च मे प्रसवश्च मे” इत्यादिभिर्मन्त्रैः ‘सर्वान्कामानाप्त्वा’ अथ तमेवाग्निं ‘प्रत्यक्षमप्रीणन्’ अतश्चैतेन तथैव यजमानो ऽपि करोति । अत्र “वाजाय स्वाहा” इत्यादिमन्त्रेषु तु चतुर्थ्या सम्प्रदानत्वप्रतीतेर्द्रव्यदेवतासम्बन्धः प्रत्यक्ष इति ‘प्रत्यक्षमप्रीणन्’ इत्युक्तम् । न चैवं ‘वाजश्च मे’- इत्यादिषु द्रव्यदेवतासम्बन्धः प्रत्यक्षः किन्तु प्रथमया निर्दिष्टत्वात्परो ऽक्षः । ननु कानि नामानि यानि गृहीत्वा होमः क्रियत इति तत्राह- वाजाय स्वाहेति ॥ ८ ॥

Eggeling
  1. He then offers whilst mentioning names 5;–for the gods, having obtained all their wishes, now gratified him directly; and in like manner does the Sacrificer, having obtained all his wishes, now gratify him directly. ‘To Strength, hail! to Gain, hail!’–these are his (Agni’s) names: it is by mentioning his names that he thus gratifies him.

०९

विश्वास-प्रस्तुतिः

त्र᳘योदशैता᳘नि ना᳘मानि भवन्ति॥
त्र᳘योदश मा᳘साः संव्वत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘त्प्रीणाति य᳘द्वेव᳘ नामग्रा᳘हं जुहो᳘ति नामग्रा᳘हमे᳘वैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

त्र᳘योदशैता᳘नि ना᳘मानि भवन्ति॥
त्र᳘योदश मा᳘साः संव्वत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘त्प्रीणाति य᳘द्वेव᳘ नामग्रा᳘हं जुहो᳘ति नामग्रा᳘हमे᳘वैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - Weber

त्र᳘योदशैता᳘नि ना᳘मानि भवन्ति॥
त्र᳘योदश मा᳘साः संवत्सरस्त्रयोदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘त्प्रीणाति य᳘द्वेव᳘ नामग्रा᳘हं जुहोति नामग्राहमेवैनमेतदभिषिञ्चति॥

मूलम् - विस्वरम्

त्रयोदशैतानि नामानि भवन्ति । त्रयोदश मासाः संवत्सरः । त्रयोदशाग्नेश्चितिपुरीषाणि । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत्प्रीणाति । यद्वेव नामग्राहं जुहोति । नामग्राहमेवैनमेतदभिषिञ्चति ॥ ९ ॥

सायणः

अथ तेषां मन्त्राणां संख्या कृत्स्नाग्निप्रीतिहेतुर्भवतीति प्रशंसति- त्रयोदशैतानि नामानीति । ‘त्रयोदशाग्नेश्चितिपुरीषाणि’ सप्त चितयः सप्तमचितौ पुरीषाभावात् षडेव पुरीषाणीति मिलित्वा चितिपुरीषाणि त्रयोदश भवन्तीत्यर्थः । स्पष्टमन्यत् ॥ ९ ॥

Eggeling
  1. There are thirteen of these names,–a year consists of thirteen months, and the layers and fillings of the fire-altar amount to thirteen: as great as Agni is, as great as is his measure, with so much he thus gratifies him. And as to why he offers while mentioning names,–it is thus in mentioning his (Agni’s) names that he consecrates him.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाह॥
(हे) इयं᳘ ते रा᳘ण्मित्रा᳘य य᳘न्ता ऽसि य᳘मन ऽऊर्जे᳘ त्वा व्वृ᳘ष्ट्यै त्वा प्रजा᳘नां त्वा᳘ ऽऽधिपत्यायेत्य᳘न्नं वा ऽऊर्ग᳘न्नं व्वृ᳘ष्टिर᳘न्नेनै᳘वैनमेत᳘त्प्रीणाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाह॥
(हे) इयं᳘ ते रा᳘ण्मित्रा᳘य य᳘न्ता ऽसि य᳘मन ऽऊर्जे᳘ त्वा व्वृ᳘ष्ट्यै त्वा प्रजा᳘नां त्वा᳘ ऽऽधिपत्यायेत्य᳘न्नं वा ऽऊर्ग᳘न्नं व्वृ᳘ष्टिर᳘न्नेनै᳘वैनमेत᳘त्प्रीणाति॥

मूलम् - Weber

अ᳘थाह॥
इयं᳘ ते रा᳘ण्मित्रा᳘य यॗन्तासि य᳘मन ऊर्जे᳘ त्वा वृ᳘ष्ट्यै त्वा प्रजा᳘नां त्वा᳘धिपत्यायेत्य᳘न्नं वा ऊर्ग᳘न्नं वृ᳘ष्ठिर᳘न्नेनैॗवैनमेत᳘त्प्रीणाति॥

मूलम् - विस्वरम्

अथाह- “इयं ते राण्मित्राय यन्ता ऽसि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वा ऽऽधिपत्याय”- (वा० सं० १८ । २८) इति । अन्नं वा ऊर्क् । अन्नं वृष्टिः । अन्नेनैवैनमेतत्प्रीणाति ॥ १० ॥

सायणः

वाजाय स्वाहेत्यादिमन्त्रहोमानन्तरम् “इयं ते राट्” इति मन्त्रस्य प्रयोगं विधत्ते- अथाहेति । मन्त्रे ‘ऊर्जे त्वा वृष्ट्यै’ इति प्रयुज्यते । उर्क् इति साक्षादन्नमुच्यते, वृष्टिरन्नहेतुत्वादन्नम् । ततश्च ‘ऊर्जे’ ‘वृष्ट्यै’ इत्यनेनान्नस्य प्रतीतेरन्नेनैवैनमग्निं प्रीणातीत्याह- अन्नं वा इति ॥ १० ॥

Eggeling
  1. He then says, ‘This is thy realm; a supporter and sustainer art thou for the friend: for sustenance, for rain, for the lordship of creatures (do I consecrate) thee;’–sustenance, doubtless, means food, and rain means food: by food he thus gratifies him.

११

विश्वास-प्रस्तुतिः

य᳘द्वेवा᳘ह॥
(हे) इयं᳘ ते रा᳘ण्मित्रा᳘य य᳘न्ता ऽसि य᳘मन ऽऊर्जे᳘ त्वा व्वृ᳘ष्ट्यै त्वा प्रजा᳘नां त्वा᳘ ऽऽधिपत्याये᳘तीदं᳘ ते राज्य᳘मभि᳘षिक्तो ऽसी᳘त्येत᳘न्मित्र᳘स्य त्वं᳘ य᳘न्ता ऽसि य᳘मन ऽऊर्जे᳘ च नो᳘ ऽसि व्वृ᳘ष्ट्यै च नो ऽसि प्रजा᳘नां च न ऽआ᳘धिपत्यायासीत्यु᳘पब्रुवत ऽए᳘वैनमेत᳘देत᳘स्मै नः स᳘र्व्वस्मा ऽअ᳘स्येत᳘स्मै त्वा स᳘र्व्वस्मा ऽअभ्य᳘षिचामही᳘ति त᳘स्मादु हेदं᳘ मानुषᳫँ᳭ रा᳘जानमभि᳘षिक्तमु᳘पब्रुवते॥

मूलम् - श्रीधरादि

य᳘द्वेवा᳘ह॥
(हे) इयं᳘ ते रा᳘ण्मित्रा᳘य य᳘न्ता ऽसि य᳘मन ऽऊर्जे᳘ त्वा व्वृ᳘ष्ट्यै त्वा प्रजा᳘नां त्वा᳘ ऽऽधिपत्याये᳘तीदं᳘ ते राज्य᳘मभि᳘षिक्तो ऽसी᳘त्येत᳘न्मित्र᳘स्य त्वं᳘ य᳘न्ता ऽसि य᳘मन ऽऊर्जे᳘ च नो᳘ ऽसि व्वृ᳘ष्ट्यै च नो ऽसि प्रजा᳘नां च न ऽआ᳘धिपत्यायासीत्यु᳘पब्रुवत ऽए᳘वैनमेत᳘देत᳘स्मै नः स᳘र्व्वस्मा ऽअ᳘स्येत᳘स्मै त्वा स᳘र्व्वस्मा ऽअभ्य᳘षिचामही᳘ति त᳘स्मादु हेदं᳘ मानुषᳫँ᳭ रा᳘जानमभि᳘षिक्तमु᳘पब्रुवते॥

मूलम् - Weber

य᳘द्वेवा᳘ह॥
इयं᳘ ते रा᳘ण्मित्रा᳘य यॗन्तासि य᳘मन ऊर्जे᳘ त्वा वृ᳘ष्ट्यै त्वा प्रजा᳘नां त्वा᳘धिपत्याये᳘तीदं ते राज्य᳘मभि᳘षिक्तो ऽसी᳘त्येत᳘न्मित्र᳘स्य त्वं᳘ यॗन्तासि य᳘मन ऊर्जे᳘ च नो᳘ ऽसि वृ᳘ष्ट्यै च नो ऽसि प्रजा᳘नां च न आ᳘धिपत्यायासीत्यु᳘पब्रुवत एॗवैनमेत᳘देत᳘स्मै नः स᳘र्वस्मा अ᳘स्येत᳘स्मै त्वा स᳘र्वस्मा अभ्य᳘षिचामही᳘ति त᳘स्मादु हेद᳘म् मानुषं रा᳘जानमभि᳘षिक्तमु᳘पब्रुवते॥

मूलम् - विस्वरम्

यद्वेवाह- इयं ते राण्मित्राय यन्ता ऽसि यमन ऊर्जे त्वा वृष्ट्यै त्वा प्रजानां त्वा ऽऽधिपत्यायेति, इदं ते राज्यम्, अभिषिक्तो ऽसीत्येतत् । मित्रस्य त्वं यन्ता ऽसि यमन ऊर्जे च नो ऽसि वृष्ट्यै च नो ऽसि प्रजानां च न आधिपत्यायासि- इति । उपब्रुवत एवैनमेतत् । एतस्मै नः सर्वस्मा असि । एतस्मै त्वा सर्वस्मा अभ्यषिचामहि- इति । तस्मादु हेदं मानुषं राजानमभिषिक्तमुपब्रुवते ॥ ११ ॥

सायणः

अथ तमेव मन्त्रं व्याख्यातुमनुवदति- यद्वेवाहेति । व्याचष्टे- इदं इति । यतः ‘अभिषिक्तो ऽसि’ अतः ‘इदं राज्यम्’ तवैवेत्येतदुक्तं भवति । ‘इयं ते’ इत्यनेनाभिषिक्तत्वादेव ‘त्वं मित्रस्य यन्ता ऽसि’ किञ्च ‘नः’ अस्मत्संबन्धिनो यजमानस्य ‘ऊर्जे च नः यमनो ऽसि’ यमयतीति यमनो नियन्ता । “कृत्यल्युटो बहुलम्”- (पा. सू. ३ । १ । ११३) इति कर्तरि ल्युट् । ‘वृष्ट्यै’ च प्रजानामाधिपत्याय च’ ‘नो ऽसि’ इत्यनेन प्रकारेण ‘एनम्’ ‘उपब्रुवते’ एवं स्तुत्या प्रोत्साहयत्येवैनमेतनेत्यर्थः । मन्त्रे ‘ऊर्जे त्वा वृष्ट्यै त्वा’ इति त्वाशब्दः प्रयुज्यते । तस्य कथमन्वय इति तत्राह- सर्वस्मा इति । ‘अस्य’ यजमानस्य ‘एतस्मै’ ऊर्जे अन्नभूताय ‘सर्वस्मै’ त्वाम् ‘अभ्यषिचामहीति’ संबन्ध इत्यर्थः । ‘अभ्यषिचामहि’ इति “आत्मनेपदेष्वन्यतरस्याम्”- (पा. सू. ३ । १ । ५४) इति च्लेरङादेशः । तदयं मन्त्रस्यार्थः । हे अग्ने ! त्वमभिषिक्तो ऽसि, अतस्तवेदं राज्यं भवति । मित्रायेति षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा०) । मित्रस्य च नियन्ता ऽसि यजमानस्य ऊर्जे त्वामभ्यषिचामहि, वृष्ट्यै च त्वामभ्यषिचामहि, प्रजानामाधिपत्याय च त्वामभ्यषिचामहि, अतस्तस्य सर्वस्यापि यमनो ऽसि । यतः एतं देवानां राजानमग्निमुपब्रुवते तस्मात् ‘अभिषिक्तं मानुषम्’ अपि राजानमेवमुपब्रुवते इत्याह- तस्मादिति । तवेदं राज्यम् अतो ऽस्माकं सर्वेषां सर्वविषये त्वमेव नियापक एक इत्येवमादि उपब्रुवते इत्यर्थः ॥ ११ ॥

Eggeling
  1. And when he says, ‘This is thy realm; a supporter and sustainer art thou for the friend: for sustenance, for rain, for the lordship of creatures–thee!’ this is to say, ‘This is thy kingdom; thou art consecrated (anointed)! thou art thy friend’s supporter and sustainer: for our sustenance art thou, for rain unto us art thou, for our lordship of

creatures art thou!’ They thereby entreat him, ‘For all this art thou unto us: for all this have we consecrated thee!’ And therefore people thus entreat a human king who has been consecrated.

१२

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ क᳘ल्पाञ्जुहोति॥
प्राणा वै क᳘ल्पाः प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधात्या᳘युर्यज्ञे᳘न कल्पतां प्राणो᳘ यज्ञे᳘न कल्पतामि᳘त्येता᳘ने᳘वास्मिन्नेत᳘त्कॢप्ता᳘न्प्राणा᳘न्दधाति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ क᳘ल्पाञ्जुहोति॥
प्राणा वै क᳘ल्पाः प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधात्या᳘युर्यज्ञे᳘न कल्पतां प्राणो᳘ यज्ञे᳘न कल्पतामि᳘त्येता᳘ने᳘वास्मिन्नेत᳘त्कॢप्ता᳘न्प्राणा᳘न्दधाति॥

मूलम् - Weber

अ᳘थ क᳘ल्पान्जुहोति॥
प्राणा वै क᳘ल्पाः प्राणा᳘नेॗवास्मिन्नेत᳘द्दधात्या᳘युर्यज्ञे᳘न कल्पताम् प्राणो᳘ यज्ञे᳘न कल्पतामि᳘त्येता᳘नेॗवास्मिन्नेत᳘त्कॢप्ता᳘न्प्राणा᳘न्दधाति॥

मूलम् - विस्वरम्

(८) अथ कल्पाञ्जुहोति । प्राणा वै कल्पाः । प्राणानेवास्मिन्नेतद्दधाति । “आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पताम्”- (वा. सं. १८ । २९) इति । एतानेवास्मिन्नेतत्क्लृप्तान्प्राणान्दधाति ॥ १२ ॥

सायणः

अथ कल्पहोमं प्रशंसति- अथ कल्पानिति । “कृपि” (धा. पा. भ्वा. आ. ७६३) धातुसाहित्येन मन्त्राणां कल्पशब्देनाभिधानम् । प्राणप्रतिपादकरूपत्वात् कल्पानां प्राणत्वमित्यभिप्रायेणोक्तम्- प्राणा वै कल्पाः इति । एतानेवास्मिन्निति । ‘एतानेव’ आयुरादीनेव कृत्स्नान् ‘प्राणान्’ ‘अस्मिन्’ अग्नौ निदधाति । प्राणानेवास्मिन्नेतद्दधातीति परो ऽक्षेणोक्तान्- ‘एतानेवास्मिन्’ इति प्रत्यक्षेण दर्शयति ॥ १२ ॥

Eggeling
  1. He then offers the Prospering 6 (libations);–the prospering (libations) are the vital airs: it is the vital airs he thus puts into him.–‘May the vital strength prosper by sacrifice! may the vital air prosper by sacrifice! . . .’ He thus puts proper vital airs into him.

१३

विश्वास-प्रस्तुतिः

द्वा᳘दश क᳘ल्पाञ्जुहोति॥
द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘त्कॢप्ता᳘न्प्राणा᳘न्दधाति य᳘द्वेव क᳘ल्पाञ्जुहो᳘ति प्राणा वै क᳘ल्पा ऽअमृ᳘तमु वै᳘ प्राणा᳘ ऽअमृ᳘तेनै᳘वैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

द्वा᳘दश क᳘ल्पाञ्जुहोति॥
द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘त्कॢप्ता᳘न्प्राणा᳘न्दधाति य᳘द्वेव क᳘ल्पाञ्जुहो᳘ति प्राणा वै क᳘ल्पा ऽअमृ᳘तमु वै᳘ प्राणा᳘ ऽअमृ᳘तेनै᳘वैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - Weber

द्वा᳘दश क᳘ल्पान्जुहोति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेत᳘त्कॢप्ता᳘न्प्राणा᳘न्दधाति य᳘द्वेव क᳘ल्पान्जुहो᳘ति प्राणा वै क᳘ल्पा अमृ᳘तमु वै᳘ प्राणा᳘ अमृ᳘तेनैॗवैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - विस्वरम्

द्वादश कल्पाञ्जुहोति । द्वादश मासाः सम्वत्सरः । सम्वत्सरो ऽग्निः । यावानग्निर्यावत्यत्य मात्रा- तावतैवास्मिन्नेतत्क्लृप्तान्प्राणान्दधाति । यद्वेव कल्पाञ्जुहोति । प्राणा वै कल्पाः । अमृतमु वै प्राणाः । अमृतेनैवैनमेतदभिषिञ्चति ॥ १३ ॥

सायणः

कल्पहोमा द्वादश भवन्ति । अग्निश्च द्वादशमाससंवत्सरात्मकः, अतस्तत्संमितेनैवैतेनाग्निं प्रीणाति- इत्याह- द्वादश कल्पानिति । अथ तानेव कल्पान्प्रकारान्तरेण प्रशंसति- यद्वेव कल्पानिति । अमृतमु वै प्राणा इति । प्राणसंबन्धे मरणाभावात् प्राणाः अमृतं खल्वित्यर्थः ॥ १३ ॥

Eggeling
  1. Twelve prospering (libations) he offers,–a year consists of twelve months, and Agni is the year: as great as Agni is, as great as is his measure, by so much he thus puts proper vital airs into him. And as to why he offers the prospering (libations),–the prospering (libations) are vital airs, and the vital airs are the immortal element: with the immortal element he thus consecrates him.

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाह स्तो᳘मश्च य᳘जुश्च ऽऋ᳘क्च सा᳘म स बृह᳘च्च रथन्तरं चे᳘ति त्रयी᳘ हैषा᳘ व्विद्या᳘ ऽन्नं वै᳘ त्रयी᳘ व्विद्या᳘ ऽन्नेनै᳘वैनमेत᳘त्प्रीणात्य᳘थो ऽअ᳘न्नेनै᳘वैनमेत᳘दभि᳘षिञ्चति᳘ स्वर्देवा ऽअगन्मामृ᳘ता ऽअभूमे᳘ति᳘ स्वर्हि[[!!]] ग᳘च्छत्यमृ᳘तो हि भ᳘वति प्रजा᳘पतेः प्रजा᳘ ऽअभूमे᳘ति प्रजा᳘पतेर्हि᳘ प्रजा भ᳘वति व्वेट् स्वाहे᳘ति व्वषट्का᳘रो हैष᳘ परो᳘ ऽक्षं य᳘द्वेट्कारो᳘ व्वषट्कारे᳘ण वा वै᳘ स्वाहाकारे᳘ण वा देवेभ्यो᳘ ऽन्नं प्र᳘दीयते त᳘देनमेता᳘भ्यामुभा᳘भ्यां प्रीणाति व्वषट्कारे᳘ण च स्वाहाकारे᳘ण चा᳘थो ऽएता᳘भ्यामे᳘वैनमेत᳘दुभा᳘भ्यामभि᳘षिञ्चत्य᳘त्र ताᳫँ᳭ स्रु᳘चमनुप्रा᳘स्यति यदत्रा᳘ज्यलिप्तं तन्ने᳘द्बहि᳘र्धा ऽग्नेर᳘सदि᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाह स्तो᳘मश्च य᳘जुश्च ऽऋ᳘क्च सा᳘म स बृह᳘च्च रथन्तरं चे᳘ति त्रयी᳘ हैषा᳘ व्विद्या᳘ ऽन्नं वै᳘ त्रयी᳘ व्विद्या᳘ ऽन्नेनै᳘वैनमेत᳘त्प्रीणात्य᳘थो ऽअ᳘न्नेनै᳘वैनमेत᳘दभि᳘षिञ्चति᳘ स्वर्देवा ऽअगन्मामृ᳘ता ऽअभूमे᳘ति᳘ स्वर्हि[[!!]] ग᳘च्छत्यमृ᳘तो हि भ᳘वति प्रजा᳘पतेः प्रजा᳘ ऽअभूमे᳘ति प्रजा᳘पतेर्हि᳘ प्रजा भ᳘वति व्वेट् स्वाहे᳘ति व्वषट्का᳘रो हैष᳘ परो᳘ ऽक्षं य᳘द्वेट्कारो᳘ व्वषट्कारे᳘ण वा वै᳘ स्वाहाकारे᳘ण वा देवेभ्यो᳘ ऽन्नं प्र᳘दीयते त᳘देनमेता᳘भ्यामुभा᳘भ्यां प्रीणाति व्वषट्कारे᳘ण च स्वाहाकारे᳘ण चा᳘थो ऽएता᳘भ्यामे᳘वैनमेत᳘दुभा᳘भ्यामभि᳘षिञ्चत्य᳘त्र ताᳫँ᳭ स्रु᳘चमनुप्रा᳘स्यति यदत्रा᳘ज्यलिप्तं तन्ने᳘द्बहि᳘र्धा ऽग्नेर᳘सदि᳘ति॥

मूलम् - Weber

अ᳘थाह स्तो᳘मश्च य᳘जुश्च ऋ᳘क्च सा᳘म स बृह᳘च्च रथन्तरं चे᳘ति त्रयी᳘ हैषा᳘ विद्या᳘न्नं वै᳘ त्रयी᳘ विद्या᳘न्नेनैॗवैनमेत᳘त्प्रीणात्य᳘थो अ᳘न्नेनैॗवैनमेत᳘दभि᳘षिञ्चति स्वर्देवा अग्नमामृ᳘ता अभूमे᳘ति 7 स्व᳘र्हि ग᳘छत्यमृ᳘तो हि भ᳘वति प्रजा᳘पतेः प्रजा᳘ अभूमे᳘ति प्रजा᳘पतेर्हि᳘ प्रजा भ᳘वति वेट् स्वाहे᳘ति वषट्का᳘रो हैष᳘ परो᳘ ऽक्षं य᳘द्वेट्कारो᳘ वषट्कारे᳘ण वा वै᳘ स्वाहाकारे᳘ण वा देवेभ्यो᳘ ऽन्नम् प्र᳘दीयते त᳘देनमेता᳘भ्यामुभा᳘भ्याम् प्रीणाति वषट्कारे᳘ण च स्वाहाकारे᳘ण चा᳘थो एता᳘भ्यामेॗवैनमेत᳘दुभा᳘भ्यामभि᳘षञ्चत्य᳘त्र ताᳫं स्रु᳘चमनुप्प्रा᳘स्यति यदत्रा᳘ज्यलिप्तं तन्ने᳘द्बहिॗर्धाग्नेर᳘सदि᳘ति॥

मूलम् - विस्वरम्

अथाह । “स्तोमश्च यजुश्च ऋक्च साम च बृहच्च रथन्तरं च”- इति । त्रयी हैषा विद्या । अन्नं वै त्रयी विद्या । अन्नेनैवैनमेतत्प्रीणाति । अथो अन्नेनैवैनमेतदभिषिञ्चति । “स्वर्देवा अगन्मामृता अभूम”- इति । स्वर्हि गच्छति, अमृतो हि भवति । “प्रजापतेः प्रजा अभूम”- इति । प्रजापतेर्हि प्रजा भवति । “वेट् स्वाहा”- (वा. सं. १८ । २९) इति । वषट्कारो हैष परो ऽक्षं- यद्वेट्कारः । वषट्कारेण वा वै स्वाहाकारेण वा देवेभ्यो ऽन्नं प्रदीयते । तदेनमेताभ्यामुभाभ्यां प्रीणाति- वषट्कारेण च स्वाहाकारेण च । अथो एताभ्यामेवैनमेतदुभाभ्यामभिषिञ्चति । अत्र तां स्रुचमनुप्रास्यति- यदत्राज्यलिप्तम् । तन्नेद्बहिर्धा ऽग्नेरसदिति ॥ १४ ॥

सायणः

अथान्तिमं मन्त्रं व्याचष्टे- अथाह स्तोमश्चेति । त्रयी हैषा विद्येति । ‘यजुश्च ऋक् च साम च’ इत्युक्तत्वात् एतानि यजुरादीनि ‘विद्या’ खलु । ‘एषा’ इति स्त्रीलिङ्गम् ‘त्रयी विद्या’ इति विधेयापेक्षम् । त्रय्या विद्याया नानाविधफललक्षणस्यान्नस्य हेतोः कर्मणः प्रतिपादकत्वादन्नत्वम् । यतो ऽस्मिन्नवसरे यजमानः स्वर्गं गच्छति, अमृतो भवति अत उच्यते मन्त्रेण सो ऽर्थ इत्याह- स्वर्देवा इति । यतः सर्वा अपि ‘प्रजाः’ प्रजापतेरेव सम्बन्धिन्यो भवन्ति, अतस्तमर्थमाहेति व्याचष्टे- प्रजापतेरिति । वेट्कारस्य परो ऽक्षे वषट्कारत्वात् वषट्कारेण स्वाहाकारेण देवेभ्यो ऽन्नप्रदानत्वात् वेट् स्वाहेति प्रयोगेणोभाभ्यां वषट्कारस्वाहाकाराभ्याम् ‘एनम्’ ‘प्रीणाति’ ‘अभिषिञ्चति च’ इत्याह- वेट्स्वाहेतीति । अस्मिन्नवसरे अग्नौ स्रुचम् प्रास्येदिति विधत्ते- अत्रेति । ‘आज्यलिप्तम्’ लिप्तमाज्यम् “वा ऽऽहिताग्न्यादिषु” (पा. सू. २ । २ । ३७) आहिताग्न्यादित्वान्निष्ठायाः परनिपातः । अत्र स्रुचि यल्लिप्तमाज्यं तदग्नेर्बहिर्मा ऽऽस्त्विति तामौदुम्बरीं स्रुचमग्नौ ‘अनुप्रास्यति’ प्रक्षिपेदित्यर्थः ॥ १४ ॥

Eggeling
  1. He then says, ‘The Stoma, and the Yajus, and the R̥k, and the Sāman, and the Br̥hat, and the Rathantara,’–this, doubtless, is the triple science, and the triple science is food: it is with food he thus gratifies him, and with food he thus consecrates him;–’to the heavenly light we gods have gone, we have become immortal,’–for he indeed goes to the heavenly light, and becomes immortal;–‘Prajāpati’s children have we become!’–for he indeed becomes Prajāpati’s child,–‘veṭ! svāhā!’–the Veṭ-call, doubtless, is

esoterically the same as the Vashaṭ-call, and either with the Vashaṭ-call, or the Svāhā-call is food offered to the gods: he thus gratifies him by both the Vashaṭ and the Svāhā, and also consecrates him by both of them. He now throws the offering-ladle after (the ghee into the fire) lest what there is anointed with ghee should remain outside of the fire.

१५

विश्वास-प्रस्तुतिः

त᳘स्यै वा᳘ ऽएत᳘स्यै व्व᳘सोर्धा᳘रायै॥
द्यौ᳘रे᳘वा᳘त्मा ऽभ्रमू᳘धो व्विद्युत्स्त᳘नो धा᳘रैव धा᳘रा दिवो᳘ ऽधि गामा᳘गच्छति॥

मूलम् - श्रीधरादि

त᳘स्यै वा᳘ ऽएत᳘स्यै व्व᳘सोर्धा᳘रायै॥
द्यौ᳘रे᳘वा᳘त्मा ऽभ्रमू᳘धो व्विद्युत्स्त᳘नो धा᳘रैव धा᳘रा दिवो᳘ ऽधि गामा᳘गच्छति॥

मूलम् - Weber

त᳘स्यै वा᳘ एत᳘स्यै व᳘सोर्धा᳘रायै॥
द्यौ᳘रेॗवाॗत्माभ्रमू᳘धो विद्युत्स्त᳘नो धा᳘रैव धा᳘रा दिवो᳘ ऽधि गामा᳘गछति॥

मूलम् - विस्वरम्

तस्यै वा एतस्यै वसोर्धारायै । द्यौरेवात्मा, अभ्रमूधः, विद्युत्स्तनः, धारैव धारा (१) । दिवो ऽधि गामागच्छति ॥ १५ ॥

सायणः

अथैतस्या वसोर्द्धारायाः द्युलोकादिषु गवाकारताप्रदर्शनेन पर्यावृत्तिं दर्शयति- तस्यै वा एतस्या इति । तस्या एतस्या देवान् प्राप्ताया वसोर्द्धारायाः द्युलोक एवात्मा शरीरम् ‘अभ्रम्’ मेघः स एव ‘ऊधः’ ‘विद्युत्’ एव ‘स्तनः’ जलधारैव ‘धारा’ उक्तप्रकारेण द्युलोके गवाकारा वसोर्द्धारा दिवः सकाशाद्गामध्यागच्छति ॥ १५ ॥

Eggeling
  1. Now as to this same shower of wealth, the body (from which it flows) is the sky, the udder the cloud, the teat the lightning, and the shower (of ghee) is the (rain-) shower: from the sky it comes to the cow.

१६

विश्वास-प्रस्तुतिः

त᳘स्यै गौ᳘रे᳘वात्मा[[!!]]॥
(त्मो᳘) ऊ᳘ध ऽएवो᳘ध स्त᳘न स्त᳘नो धा᳘रैव धा᳘रा गोर᳘धि य᳘जमानम्॥

मूलम् - श्रीधरादि

त᳘स्यै गौ᳘रे᳘वात्मा[[!!]]॥
(त्मो᳘) ऊ᳘ध ऽएवो᳘ध स्त᳘न स्त᳘नो धा᳘रैव धा᳘रा गोर᳘धि य᳘जमानम्॥

मूलम् - Weber

त᳘स्यै गौ᳘रेॗवात्मा᳟॥
ऊ᳘ध एवो᳘ध स्त᳘न स्त᳘नो धा᳘रैव धा᳘रा गोर᳘धि य᳘जमानम्॥

मूलम् - विस्वरम्

तस्यै गौरेवात्मा, ऊध एवोधः, स्तनः स्तनः, धारैव धारा (२) । गोरधि यजमानम् ॥ १६ ॥

सायणः

तत्र तस्याः वसोर्द्धारायाः ‘गौरेवात्मा’ ‘ऊध एव ऊधः’ । ‘स्तनः’ एव ‘स्तनः’ ‘धारैव’ क्षीरधारा । एवं गवि गवाकारा सा गौः गोः सकाशाद्यजमानमध्यागच्छति ॥ १६ ॥

Eggeling
  1. Its body is the cow, its udder the (cow’s) udder, its teat the (cow’s) teat, its shower the shower (of milk): from the cow (it comes) to the Sacrificer.

१७

विश्वास-प्रस्तुतिः

त᳘स्यै य᳘जामान ए᳘वात्मा᳘॥
बाहुरू᳘धः स्रुक्स्त᳘नो धा᳘रैव धा᳘रा य᳘जमानाद᳘धि देवा᳘न्देवेभ्यो᳘ ऽधि गां गोर᳘धि य᳘जमानं त᳘देत᳘दनन्त᳘मक्षय्यं᳘ देवा᳘नाम᳘न्नं प᳘रिप्लवते स यो᳘ हैत᳘देवं व्वे᳘दैव᳘ᳫँ᳘ है᳘वास्यैत᳘दनन्त᳘मक्षय्यम᳘न्नं भवत्यथा᳘तः सम्प᳘देव[[!!]]॥

मूलम् - श्रीधरादि

त᳘स्यै य᳘जामान ए᳘वात्मा᳘॥
बाहुरू᳘धः स्रुक्स्त᳘नो धा᳘रैव धा᳘रा य᳘जमानाद᳘धि देवा᳘न्देवेभ्यो᳘ ऽधि गां गोर᳘धि य᳘जमानं त᳘देत᳘दनन्त᳘मक्षय्यं᳘ देवा᳘नाम᳘न्नं प᳘रिप्लवते स यो᳘ हैत᳘देवं व्वे᳘दैव᳘ᳫँ᳘ है᳘वास्यैत᳘दनन्त᳘मक्षय्यम᳘न्नं भवत्यथा᳘तः सम्प᳘देव[[!!]]॥

मूलम् - Weber

त᳘स्यै य᳘जामान एॗवात्मा᳘म्॥
बाहुरू᳘धः स्रुक्स्त᳘नो धा᳘रैव धा᳘रा य᳘जमानाद᳘धि देवा᳘न्देवेभ्यो᳘ ऽधि गां गोर᳘धि य᳘जमानं त᳘देत᳘दनन्त᳘मक्षय्यं᳘ देवा᳘नाम᳘न्नम् प᳘रिप्लवते स यो᳘ हैत᳘देवं वे᳘दैव᳘ᳫं᳘ हैॗवास्यैत᳘दनन्त᳘मक्षय्यम᳘न्नम् भवत्यथा᳘तः सम्प᳘देवः᳟॥

मूलम् - विस्वरम्

तस्यै यजमान एवात्मा, बाहुरूधः, स्रुक् स्तनः, धारैव धारा (३) । यजमानादधि देवान् । देवेभ्यो ऽधि गाम् । गोरधि यजमानम् । तदेतदनन्तमक्षय्यं देवानामन्नं परिप्लवते । स यो हैतदेवं वेद- एवं हैवास्यैतदनन्तमक्षय्यमन्नं भवति । अथातः सम्पदेव ॥ १७ ॥

सायणः

तत्र तस्या यजमान एव शरीरम् । यजमानसम्बन्धी बाहुरेवोधः । बाहुस्था स्रुगेव स्तनः । धारैव आज्यधारा । एवं यजमाने च गवाकारा वसोर्द्धारा यजमानाद्देवानागच्छति । देवेभ्यो गाम् । गोश्च यजमानम् । पुनरप्येवमेवागच्छति । एवञ्च एतद्वसोर्द्धारात्मकं देवानामन्नम् ‘अनन्तम्’ अत एव ‘अक्षय्यम्’ सत् ‘परिप्लवते’ पर्यावर्तते । यजमानेन हुता वसोर्द्धारा देवादीन् प्राप्नोति । तया प्रीता देवाश्च यजमानाय पशून् समर्पयन्ति । ततस्तद्भवमाज्यं यजमानमेति । तेन चाज्येन पुनर्देवेभ्यो वसोर्द्धारा हूयते । इत्यनेनाभिप्रायेण वसोर्द्धारा गवाकारेण पुनः पुनः पर्यावर्तत इत्युक्तम् । उक्तार्थवेदनं प्रशंसति- स यो हैतदेवं वेदेति । अथास्याः वसोर्द्धारायाः सम्पत्तिमभिधातुं प्रतिजानीते- अथातः सम्पदेवेति ॥ १७ ॥

Eggeling
  1. Its body is the Sacrificer, its udder his arm, its teat the offering-ladle, its shower (of milk) the shower of (ghee): from the Sacrificer (it goes) to the gods; from the gods to the cow, from the cow to the Sacrificer: thus circulates this perpetual, never-ending food of the gods. And, verily, for whosoever knows this, there will thus be perpetual, never-ending food. Now as to the (mystic) correspondence.

१८

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
कथ᳘ममस्यैषा व्व᳘सोर्धा᳘रा संव्वत्सर᳘मग्नि᳘माप्नो᳘ति कथ᳘ᳫँ᳘ संव्वत्सरे᳘णाग्नि᳘ना स᳘म्पद्यत ऽइ᳘ति षष्टि᳘श्च ह वै त्रा᳘णि च शता᳘न्येषा व्व᳘सोर्धारा᳘ ऽथ षड᳘थ प᳘ञ्चत्रिंशत्त᳘तो या᳘नि षष्टि᳘श्च त्री᳘णि च शता᳘नि ता᳘वन्ति संव्वत्सरस्या᳘हानि त᳘त्संव्वत्सरस्या᳘हान्याप्नोत्य᳘थ या᳘नि षट्षड्वा᳘ ऽऋत᳘वस्त᳘दृतूनाᳫँ᳭रात्रीराप्नोति त᳘दुभ᳘यानि संव्वत्सर᳘स्याहोरात्रा᳘ण्याप्नोत्य᳘थ या᳘नि प᳘ञ्चत्रिᳫँ᳭शत्स᳘ त्रयोदशो मा᳘सः स᳘ ऽआत्मा᳘ त्रिᳫँ᳭श᳘दात्मा᳘ प्रतिष्ठा द्वे᳘ प्राणा द्वे शि᳘र ऽएव᳘ पञ्चत्रिᳫँ᳭श᳘मेता᳘वान्वै᳘ संव्वत्सर᳘ ऽएव᳘मु हास्यैषा व्व᳘सोर्धा᳘रा संव्वत्सर᳘मग्नि᳘माप्नोत्येवँ᳘ संव्वत्सरे᳘णाग्नि᳘ना स᳘म्पद्यत ऽएता᳘वत्य ऽउ वै᳘ शाण्डि᳘ले ऽग्नौ᳘ मध्यतो य᳘जुष्मत्य ऽइ᳘ष्टका ऽउ᳘पधीयन्ते ऽग्न᳘यो हैते पृ᳘थग्य᳘देता ऽइ᳘ष्टका ऽएव᳘मु हास्यै᳘ते ऽग्न᳘यः पृ᳘थग्व᳘सोर्धा᳘रया ऽभि᳘हुता भवन्ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
कथ᳘ममस्यैषा व्व᳘सोर्धा᳘रा संव्वत्सर᳘मग्नि᳘माप्नो᳘ति कथ᳘ᳫँ᳘ संव्वत्सरे᳘णाग्नि᳘ना स᳘म्पद्यत ऽइ᳘ति षष्टि᳘श्च ह वै त्रा᳘णि च शता᳘न्येषा व्व᳘सोर्धारा᳘ ऽथ षड᳘थ प᳘ञ्चत्रिंशत्त᳘तो या᳘नि षष्टि᳘श्च त्री᳘णि च शता᳘नि ता᳘वन्ति संव्वत्सरस्या᳘हानि त᳘त्संव्वत्सरस्या᳘हान्याप्नोत्य᳘थ या᳘नि षट्षड्वा᳘ ऽऋत᳘वस्त᳘दृतूनाᳫँ᳭रात्रीराप्नोति त᳘दुभ᳘यानि संव्वत्सर᳘स्याहोरात्रा᳘ण्याप्नोत्य᳘थ या᳘नि प᳘ञ्चत्रिᳫँ᳭शत्स᳘ त्रयोदशो मा᳘सः स᳘ ऽआत्मा᳘ त्रिᳫँ᳭श᳘दात्मा᳘ प्रतिष्ठा द्वे᳘ प्राणा द्वे शि᳘र ऽएव᳘ पञ्चत्रिᳫँ᳭श᳘मेता᳘वान्वै᳘ संव्वत्सर᳘ ऽएव᳘मु हास्यैषा व्व᳘सोर्धा᳘रा संव्वत्सर᳘मग्नि᳘माप्नोत्येवँ᳘ संव्वत्सरे᳘णाग्नि᳘ना स᳘म्पद्यत ऽएता᳘वत्य ऽउ वै᳘ शाण्डि᳘ले ऽग्नौ᳘ मध्यतो य᳘जुष्मत्य ऽइ᳘ष्टका ऽउ᳘पधीयन्ते ऽग्न᳘यो हैते पृ᳘थग्य᳘देता ऽइ᳘ष्टका ऽएव᳘मु हास्यै᳘ते ऽग्न᳘यः पृ᳘थग्व᳘सोर्धा᳘रया ऽभि᳘हुता भवन्ति॥

मूलम् - Weber

त᳘दाहुः॥
कथ᳘ममस्यैषा व᳘मोर्धा᳘रा संवत्सर᳘मग्नि᳘माप्नोति कथ᳘ᳫं᳘ संवत्सरे᳘णाग्नि᳘ना स᳘म्पद्यत इ᳘ति षष्टि᳘श्च ह वै त्रा᳘णि च शता᳘न्येषा व᳘सोर्धारा᳘थ षड᳘थ प᳘ञ्चत्रिंशत्त᳘तो या᳘नि षष्टिश्च त्री᳘णि च शता᳘नि ता᳘वन्ति संवत्सरस्या᳘हानि त᳘त्संवत्सरस्या᳘हान्याप्नोत्यथ या᳘नि ष्ट् षड्वा᳘ ऋत᳘वस्त᳘दृतूनां रा᳘त्रीराप्नोति त᳘दुभ᳘यानि संवत्सर᳘स्याहोरात्रा᳘ण्याप्नोत्य᳘थ या᳘नि प᳘ञ्चत्रिंशत्स᳘ त्रयोदशो मा᳘सः स᳘ आत्मा᳘ त्रिंश᳘दात्मा᳘ प्रतिष्ठा द्वे᳘ प्राणा द्वे शि᳘र एव᳘ पञ्चत्रिंश᳘मेता᳘वान्वै᳘ संवत्सर᳘ एव᳘मु हास्यैषा व᳘सोर्धा᳘रा संवत्सर᳘मग्नि᳘माप्नोत्येव᳘ᳫं᳘ संवत्सरे᳘णाग्नि᳘ना स᳘म्पद्यत एता᳘वत्य उ वै᳘ शाण्डिॗले ऽग्नौ᳘ मध्यतो य᳘जुष्मत्य इ᳘ष्टका उ᳘पधीयन्ते ऽग्न᳘यो हैते पृ᳘थग्य᳘देता इ᳘ष्टका एव᳘मु हास्यैॗते ऽग्न᳘यः पृ᳘थग्व᳘सोर्धा᳘रयाभि᳘हुता भवन्ति॥

मूलम् - विस्वरम्

तदाहुः- कथमस्यैषा वसोर्धारा संवत्सरमग्निमाप्नोति, कथं संवत्सरेणाग्निना सम्पद्यत इति । षष्टिश्च ह वै त्रीणि च शतानि एषा वसोर्धारा, अथ षट्, अथ पञ्चत्रिंशत् । ततो यानि षष्टिश्च त्रीणि च शतानि- तावन्ति संवत्सरस्याहानि । तत्संवत्सरस्याहान्याप्नोति । अथ यानि षट् । षड्वा ऋतवः । तदृतूनां रात्रीराप्नोति । तदुभयानि संवत्सरस्याहोरात्राण्याप्नोति । अथ यानि पञ्चत्रिंशत् । स त्रयोदशो मासः । स आत्मा । त्रिंशदात्मा । प्रतिष्ठा द्वे । प्राणा द्वे । शिर एव पञ्चत्रिंशम् । एतावान् वै संवत्सरः । एवमु हास्यैषा वसोर्धारा संवत्सरमग्निमाप्नोति । एवं संवत्सरेणाग्निना सम्पद्यते । एतावत्य उ वै शाण्डिले ऽग्नौ मध्यतो यजुष्मत्य इष्टका उपधीयन्ते । अग्नयो हैते पृथग्- यदेता इष्टकाः । एवमु हास्यैते ऽग्नयः पृथग् वसोर्धारा ऽभिहुता भवन्ति ॥ १८ ॥

सायणः

षष्टिश्च ह वै त्रीणि चेति । आवृतमन्त्रसाहित्येन यजूंषि षष्टिश्चेत्यादिनोक्तसंख्यानि भवन्ति । ‘एतस्या एव वसोर्द्धारायै यानि नव प्रथमानि’ इत्यादिना वसोर्द्धारासंबन्धिनामुक्तसंख्याकानां यजुषां क्रमेण विभज्य विनियोगः प्रदर्श्यते । ‘अथ यानि त्रयस्त्रिँ शत्स वशः’ वशशब्देन प्रजोत्पत्तिस्थानमुच्यते । गतमन्यत् ॥ १८ ॥ १९ ॥

इति श्रीसायणाचार्यविरचिते माधवीय वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे तृतीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (९-३-३) ॥

Eggeling
  1. As to this they say, ‘How does this wealth-shower of his obtain (conformity with) the year, and Agni? how does it correspond to the year, to Agni?’ Well, this shower of wealth consists of three hundred and sixty (libations), and of (other) six, and of thirty-five. Now, the three hundred and sixty which there are,–so many being the days in the year,–thereby it obtains the days of the year. And what six there are,–the seasons being

six in number,–thereby it obtains the nights of the seasons: thus it obtains both the days and nights of the year. And what thirty-five there are, they are the (intercalary) thirteenth month 8, and that is the body,–the body (consists) of thirty (limbs), the feet of two, the breath of two (in-breathing and up-breathing), and the head is the thirty-fifth: so much is the year; and thus that shower of wealth of his obtains (conformity with) the year, and Agni; and thus it corresponds to the year, to Agni. And so many are the bricks with special formulas which are placed in the centre of a Śāṇḍila fire-altar; for these bricks indeed are the same as these different Agnis 9; and thus these Agnis of his come to have oblations offered to them separately by means of the shower of wealth.

१९

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
कथ᳘मस्यैषा व्व᳘सोर्धा᳘रा मह᳘दुक्थ᳘माप्नो᳘ति कथं᳘ मह᳘तोक्थे᳘न स᳘म्पद्यत ऽइ᳘त्येत᳘स्या ऽएव व्व᳘सोर्धा᳘रायै या᳘नि न᳘व प्रथमा᳘नि य᳘जूᳫँ᳭षि त᳘त्त्रिवृच्छिरो᳘ ऽथ या᳘न्यष्टा᳘चत्वारिᳫँ᳭शत्तौ᳘ चतुर्विᳫँ᳭शौ᳘ पक्षाव᳘थ या᳘नि प᳘ञ्चविᳫँ᳭शतिः स᳘ पञ्चविᳫँ᳭श᳘ ऽआत्मा᳘ ऽथ यान्ये᳘कविᳫँ᳭शतिस्त᳘देकविᳫँ᳭शम्पु᳘च्छम᳘थ या᳘नि त्र᳘यस्त्रिᳫँ᳭शत्स व्वशो᳘ ऽथ या᳘ ऽअशीत᳘यः᳘[[!!]] सै᳘वाशीतीनामा᳘प्तिरशीति᳘भिर्हि᳘ मह᳘दुक्थ᳘माख्यायते᳘ ऽथ य᳘दूर्ध्व᳘मशीति᳘भ्यो य᳘दे᳘वादो᳘ महत᳘ ऽउक्थ᳘स्योर्ध्व᳘मशीति᳘भ्य ऽएत᳘दस्य त᳘देव᳘मु हास्यैषा व्व᳘सोर्धा᳘रा मह᳘दुक्थ᳘माप्नो᳘त्येवं᳘ मह᳘तोक्थे᳘न स᳘म्पद्यते॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
कथ᳘मस्यैषा व्व᳘सोर्धा᳘रा मह᳘दुक्थ᳘माप्नो᳘ति कथं᳘ मह᳘तोक्थे᳘न स᳘म्पद्यत ऽइ᳘त्येत᳘स्या ऽएव व्व᳘सोर्धा᳘रायै या᳘नि न᳘व प्रथमा᳘नि य᳘जूᳫँ᳭षि त᳘त्त्रिवृच्छिरो᳘ ऽथ या᳘न्यष्टा᳘चत्वारिᳫँ᳭शत्तौ᳘ चतुर्विᳫँ᳭शौ᳘ पक्षाव᳘थ या᳘नि प᳘ञ्चविᳫँ᳭शतिः स᳘ पञ्चविᳫँ᳭श᳘ ऽआत्मा᳘ ऽथ यान्ये᳘कविᳫँ᳭शतिस्त᳘देकविᳫँ᳭शम्पु᳘च्छम᳘थ या᳘नि त्र᳘यस्त्रिᳫँ᳭शत्स व्वशो᳘ ऽथ या᳘ ऽअशीत᳘यः᳘[[!!]] सै᳘वाशीतीनामा᳘प्तिरशीति᳘भिर्हि᳘ मह᳘दुक्थ᳘माख्यायते᳘ ऽथ य᳘दूर्ध्व᳘मशीति᳘भ्यो य᳘दे᳘वादो᳘ महत᳘ ऽउक्थ᳘स्योर्ध्व᳘मशीति᳘भ्य ऽएत᳘दस्य त᳘देव᳘मु हास्यैषा व्व᳘सोर्धा᳘रा मह᳘दुक्थ᳘माप्नो᳘त्येवं᳘ मह᳘तोक्थे᳘न स᳘म्पद्यते॥

मूलम् - Weber

त᳘दाहुः॥
कथ᳘मस्यैषा व᳘सोर्धा᳘रा मह᳘दुक्थ᳘माप्नो᳘ति कथ᳘म् महॗतोक्थे᳘न स᳘म्पद्यत इ᳘त्येत᳘स्या एव व᳘सोर्धा᳘रायै या᳘नि न᳘व प्रथमा᳘नि य᳘जूंषि त᳘त्त्रिवृछिरो᳘ ऽथ या᳘न्यष्टा᳘चत्वारिंशत्तौ᳘ चतुर्विंशौ᳘ पक्षाव᳘थ या᳘नि प᳘ञ्चविंशतिः स᳘ पञ्चविंश᳘ आत्मा᳘थ यान्ये᳘कविंशतिस्त᳘देकविंशम् पु᳘छम᳘थ या᳘नि त्र᳘यस्त्रिंशत्स वशो᳘ ऽथ या᳘ अशीॗत᳘यः सैॗवाशीतीनामा᳘प्तिरशीति᳘भिर्हि᳘ मह᳘दुक्थ᳘माख्यायते᳘ ऽथ य᳘दूर्ध्व᳘मशीति᳘भ्यो य᳘देॗवादो᳘ महत᳘ उक्थ᳘स्योर्ध्व᳘मशीति᳘भ्य एत᳘दस्य त᳘देव᳘मु हास्यैषा व᳘सोर्धा᳘रा मह᳘दुक्थ᳘माप्नो᳘त्येव᳘म् महॗतोक्थे᳘न स᳘म्पद्यते॥

मूलम् - विस्वरम्

तदाहुः- ‘कथमस्यैषा वसोर्धारा महदुक्थमाप्नोति, कथं महतोक्थेन सम्पद्यते’ इति । एतस्या एव वसोर्धारायै यानि नव प्रथमानि यजूंषि- तत्त्रिवृच्छिरः । अथ यान्यष्टाचत्वारिंशत्- तौ चतुर्विंशौ पक्षौ । यानि पञ्चविंशतिः- स पञ्चविंश आत्मा । अथ यान्येकविंशतिः- तदेकविंशं पुच्छम् । अथ यानि त्रयस्त्रिंशत्- स वशः । अथ या अशीतयः सैवाशीतीनामाप्तिः । अशीतिभिर्हि महदुक्थमाख्यायते । अथ यदूर्ध्वमशीतिभ्यो- यदेवादो महत उक्थस्योर्ध्वमशीतिभ्यः एतदस्य तत् । एवमु हास्यैषा वसोर्धारा महदुक्थमाप्नोति, एवं महतोक्थेन सम्पद्यते ॥ १९ ॥

सायणः

[व्याख्यानं अष्टादशे]

Eggeling
  1. As to this they say, ‘How does this shower of wealth of his attain to (conformity with) the Great Litany, how does it correspond to the Great Litany?’ Well, the first nine formulas of this shower of wealth are the threefold 10 head; and the forty-eight which follow are the twenty-four-fold wings 11; and the twenty-five which follow are the twenty-five-fold body 12; and the twenty-one which follow are the tail, as the twenty-first 13; and the

thirty-five which follow are the Vaśa (hymn); and by the eighties (of verses) which follow those eighties (Of the mahad uktham) are obtained, for by eighties the Great Litany is counted; and what there is after the eighties, that to him (corresponds to) what, in the Great Litany, there is after the eighties 14; and thus this shower of wealth of his attains to (conformity with) the Great Litany, and corresponds to the Great Litany.


  1. 217:1 These are two sets of libations in the formulas of which (XVIII, 22; 23) objects connected with ‘special sacrifices’ are enumerated. Thus, of the first pair, ‘Agni and Gharma,’ ‘Agni,’ according to Mahīdhara, represents either the Agnicayana or the Agnishṭoma (ordinary Soma-sacrifice); whilst the ‘Gharma (cauldron)’ stands for the Pravargya offering (part i, p. 44 note). ↩︎

  2. 217:2 The formula of this set of libations (XVIII, 24) enumerates the seventeen uneven numbers (in the feminine gender) from 1 to 33, repeating the second number of each pair, so as to be the first number of the next pair (thus, 1 and 3, 3 and 5, &c.). These numbers are meant to represent the corresponding Stomas, consisting of an uneven number of verses, up to the Trayastriṁśa, or thirty-three-versed hymn-form. ↩︎

  3. 218:1 The formula of this set of libations (XVIII, 25) enumerates (the twelve quadruples of 4 (in the feminine gender), from 4 to 48 again repeating each number, except the first and last), as representing the Stomas consisting of an even number of verses, up to the Ashṭācatvāriṁśa, or forty-eight-versed hymn-form. ↩︎

  4. 218:2 The two formulas relating to these two sets of libations (XVIII, 26; 27) contain respectively five and four pairs of teams of cattle of different ages, beginning with ’tryavi and tryavī,’ ‘an eighteen-months bull and an eighteen-months cow;’ and ending with ‘a bullock and a milch cow.’ ↩︎

  5. 219:1 This set of thirteen libations (XVIII, 28) is offered to the months Vāja, Prasava, &c., here apparently considered as manifestations of Agni (the year). Each name is followed by ‘svāhā (hail!);’ and the last of these dedicatory formulas is followed by the special benedictory formula, referred to in paragraph 10. ↩︎

  6. 220:1 This final set of twelve (? sixteen) libations is called thus (kalpa), because, in the formulas used with them (Vāj. S. XVIII, 29), the verb ‘klip (to prosper, to be right and proper)’ is repeated each time. At the conclusion of these twelve formulas the priest mutters the final benediction given in full in paragraph 14. ↩︎

  7. अभू᳘मेति स्वर्हि ABC. ↩︎

  8. 222:1 See p. 167, note 1. ↩︎

  9. 222:2 Viz. the different forms, or powers, of Agni, to which the 401 libations are offered. See IX, 1, 1, 43, where the very same calculations are applied to the Śatarudriya. ↩︎

  10. 222:3 See p. 114, note 1. ↩︎

  11. 222:4 Paksha, wing, also means half-month, fortnight, of which there are twenty-four in the year. ↩︎

  12. 222:5 See p. 168, note 3. ↩︎

  13. 222:6 Apparently in addition to the fingers and toes (? of monkeys). ↩︎

  14. 223:1 See pp. 110, note 3; 112, n. 1; 113, n. 1. ↩︎