०१

विश्वास-प्रस्तुतिः

अथा᳘तो व्व᳘सोर्धा᳘रां जुहोति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः स᳘ᳫँ᳘स्कृतः स᳘ ऽएषो᳘ ऽत्र व्व᳘सुस्त᳘स्मै देवा᳘ ऽएतां धा᳘रां प्रा᳘गृह्णंस्त᳘यैनमप्रीणंस्तद्य᳘देत᳘स्मै व्व᳘सव ऽएतां धा᳘रां प्रा᳘गृह्णंस्त᳘स्मादेनां व्व᳘सोर्धारेत्या᳘चक्षते त᳘थै᳘वास्मा ऽअय᳘मेतां धा᳘रां प्र᳘गृह्णाति त᳘यैनं प्रीणाति॥

मूलम् - श्रीधरादि

अथा᳘तो व्व᳘सोर्धा᳘रां जुहोति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः स᳘ᳫँ᳘स्कृतः स᳘ ऽएषो᳘ ऽत्र व्व᳘सुस्त᳘स्मै देवा᳘ ऽएतां धा᳘रां प्रा᳘गृह्णंस्त᳘यैनमप्रीणंस्तद्य᳘देत᳘स्मै व्व᳘सव ऽएतां धा᳘रां प्रा᳘गृह्णंस्त᳘स्मादेनां व्व᳘सोर्धारेत्या᳘चक्षते त᳘थै᳘वास्मा ऽअय᳘मेतां धा᳘रां प्र᳘गृह्णाति त᳘यैनं प्रीणाति॥

मूलम् - Weber

अथा᳘तो व᳘सोर्धा᳘रां जुहोति॥
अ᳘त्रैष स᳘र्वो ऽग्निः स᳘ᳫं᳘स्कृतः स᳘ एषो᳘ ऽत्र व᳘सुस्त᳘स्मै देवा᳘ एतां धा᳘राम् प्रा᳘गृह्णंस्त᳘यैनमप्रीणंस्तद्य᳘देत᳘स्मै व᳘सव एतां धा᳘राम् प्रा᳘गृह्णंस्त᳘स्मादेनां व᳘सोर्धारेत्या᳘चक्षते त᳘थैॗवास्मा अय᳘मेतां धा᳘राम् प्र᳘गृह्णाति त᳘यैनम् प्रीणाति॥

मूलम् - विस्वरम्

अथ वसोर्धाराहोमः ।

अथातो वसोर्धारां जुहोति । अत्रैव सर्वो ऽग्निः संस्कृतः । स एषो ऽत्र वसुः । तस्मै देवा एतां धारां प्रागृह्णन् । तयैनमप्रीणन् । तद् यदेतस्मै वसव एतां धारां प्रागृह्णन्- तस्मादेनां वसोर्धारेत्याचक्षते । तथैवास्मा अयमेतां धारां प्रगृह्णाति । तयैनं प्रीणाति ॥ १ ॥

सायणः

अथात इति । अत्रैष इति । प्रकृतत्वात् ‘एतत्’ शब्देन चित्याग्निं परामृशति । धारां प्रागृह्णन् गृहीतया तया एनमप्रीणन् । ततः ‘एतस्मै वसवे एतां धारां प्रागृह्णन्’ इति ‘यत्’ ‘तस्मादेनां वसोर्द्वारेत्याचक्षते’ ब्रह्मवादिन इति शेषः । अतो यजमानो ऽपि अनेन होमेन तथैव करोति ॥ १ ॥

Eggeling
  1. Thereupon 1 he (the Sacrificer 2) offers the Vasor dhārā. That whole Agni has now been completed, and he is here the Vasu (good one): to that Vasu the gods offered this shower (dhārā), whence it is called ‘Vasor dhārā 3;’ and in like manner this (Sacrificer) offers to him this shower, and gratifies him thereby.

०२

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैतां व्व᳘सोर्धा᳘रां जुहो᳘ति॥
(त्य) अभिषेक᳘ ऽए᳘वास्यैष᳘ ऽएतद्वा᳘ ऽएनं देवाः स᳘र्व्वं कृत्स्न᳘ᳫँ᳘ सᳫँ᳭स्कृत्या᳘थैनमेतैः का᳘मैर᳘भ्यषिञ्चन्नेत᳘या[[!!]] व्व᳘सोर्धा᳘रया त᳘थै᳘वैनमय᳘मेतत्स᳘र्व्वं कृत्स्न᳘ᳫँ᳘ सᳫँ᳭स्कृत्या᳘थैनमेतैः का᳘मैरभि᳘षिञ्चत्येत᳘या व्व᳘सोर्धा᳘रया᳘ ऽऽज्येन पञ्चगृहीतेनौ᳘दुम्बर्या स्रुचा त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैतां व्व᳘सोर्धा᳘रां जुहो᳘ति॥
(त्य) अभिषेक᳘ ऽए᳘वास्यैष᳘ ऽएतद्वा᳘ ऽएनं देवाः स᳘र्व्वं कृत्स्न᳘ᳫँ᳘ सᳫँ᳭स्कृत्या᳘थैनमेतैः का᳘मैर᳘भ्यषिञ्चन्नेत᳘या[[!!]] व्व᳘सोर्धा᳘रया त᳘थै᳘वैनमय᳘मेतत्स᳘र्व्वं कृत्स्न᳘ᳫँ᳘ सᳫँ᳭स्कृत्या᳘थैनमेतैः का᳘मैरभि᳘षिञ्चत्येत᳘या व्व᳘सोर्धा᳘रया᳘ ऽऽज्येन पञ्चगृहीतेनौ᳘दुम्बर्या स्रुचा त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

य᳘द्वेॗवैतां व᳘सोर्धा᳘रां जुहो᳘ति॥
अभिषेक᳘ एॗवास्यैष᳘ एतद्वा᳘ एनं देवाः स᳘र्वं कृत्स्न᳘ᳫं᳘ संस्कृत्या᳘थैनमेतैः का᳘मैरभ्य᳘षिञ्चन्नेत᳘या व᳘सोर्धा᳘रया त᳘थैॗवैनमय᳘मेतत्स᳘र्वं कृत्स्न᳘ᳫं᳘ संस्कृत्या᳘थैनमेतैः का᳘मैरभि᳘षिञ्चत्येत᳘या व᳘सोर्धा᳘रया᳘ज्येन पञ्चगृहीतेनौ᳘दुम्बर्या स्रुचा त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

यद्वेवैतां वसोर्धारां जुहोति । अभिषेक एवास्यैषः । एतद्वा एनं देवाः सर्वं कृत्स्नं संस्कृत्य, अथैनमेतैः कामैरभ्यषिञ्चन्- एतया वसोर्धारया । तथैवैनमयमेतत्सर्वं कृत्स्नं संस्कृत्य, अथैनमेतैः कामैरभिषिञ्चति- एतया वसोर्धारया । आज्येन पञ्चगृहीतेन औदुम्बर्या स्रुचा । तस्योक्तो बन्धुः ॥ २ ॥

सायणः

अथ पुनस्तामेव वसोर्द्धारां संस्कृताग्नेरभिषेकात्मना प्रशंसति- यद्वेवैतामिति । ‘सर्वम्’ इत्येतस्यैव विवरणम्- ‘कृत्स्नम्’ इति । एतैः कामैरिति । “वाजश्च मे प्रसवश्च मे” इत्यादिमन्त्रोक्ता वाजादयः काम्यमानत्वात् कामशब्देनोच्यन्ते । तैश्च ‘एतया वसोर्द्धारया’ च ‘अभ्यषिञ्चन्’ । अत एवोपरिष्टान्मन्त्रान्व्याचक्षमाणो ऽमुमेवार्थम् “अनेन च त्वा ऽभिषिञ्चाम्यनेन चेत्येतत्” इत्याह । अत इदानींतनो ऽपि यजमानस्तथैव कृतवान् भवति । विहिता वसोर्द्धारा ‘आज्येन पञ्चगृहीतेनौदुम्बर्या स्रुचा’ कर्तव्या । ‘तस्य’ आज्यादिकस्य सर्वस्यापि ब्राह्मणं प्रागुक्तमित्याह- आज्येनेति ॥ २ ॥

Eggeling
  1. And, again, as to why he offers the ‘Vasor dhārā;’–this is his (Agni’s) Abhisheka 4; for the

gods, having now completed him wholly and entirely, showered upon him those wishes (or, objects of desire), this ‘Vasor dhārā;’ and in like manner does this (Sacrificer), now that he has completed him wholly and entirely, shower upon him those wishes, this ‘Vasor dhārā.’ With ghee taken in five ladlings, and an offering-ladle of udumbara wood (he offers): the significance of this has been explained.

०३

विश्वास-प्रस्तुतिः

(र्व्वै) व्वैश्वानर᳘ᳫँ᳘ हुत्वा[[!!]]॥
शि᳘रो वै᳘ व्वैश्वानरः᳘ शी᳘र्ष्णो वा ऽअ᳘न्नमद्यते᳘ ऽथो शीर्षतो वा᳘ ऽअभिषिच्य᳘मानो ऽभि᳘षिच्यते मारुता᳘न्हुत्वा᳘ प्राणा वै᳘ मारुताः᳘ प्राणै᳘रु वा ऽअ᳘न्नमद्यते᳘ ऽथो प्राणे᳘षु वा᳘ ऽअभिषिच्य᳘मानो ऽभि᳘षिच्यते॥

मूलम् - श्रीधरादि

(र्व्वै) व्वैश्वानर᳘ᳫँ᳘ हुत्वा[[!!]]॥
शि᳘रो वै᳘ व्वैश्वानरः᳘ शी᳘र्ष्णो वा ऽअ᳘न्नमद्यते᳘ ऽथो शीर्षतो वा᳘ ऽअभिषिच्य᳘मानो ऽभि᳘षिच्यते मारुता᳘न्हुत्वा᳘ प्राणा वै᳘ मारुताः᳘ प्राणै᳘रु वा ऽअ᳘न्नमद्यते᳘ ऽथो प्राणे᳘षु वा᳘ ऽअभिषिच्य᳘मानो ऽभि᳘षिच्यते॥

मूलम् - Weber

वैश्वानर᳘ᳫं᳘ हुत्वा᳟॥
शि᳘रो वै᳘ वैश्वानरः᳘ शीॗर्ष्णो वा अ᳘न्नमद्यते᳘ ऽथो शीर्षतो वा᳘ अभिषिच्य᳘मानो ऽभि᳘षिच्यते मारुता᳘न्हुत्वा᳘ प्राणा वै᳘ मारुताः᳘ प्राणै᳘रु वा अ᳘न्नमद्यते᳘ ऽथो प्राणे᳘षु वा᳘ अभिषिच्य᳘मानो ऽभि᳘षिच्यते॥

मूलम् - विस्वरम्

वैश्वानरं हुत्वा । शिरो वै वैश्वानरः । शीर्ष्णो वा ऽअन्नमद्यते । अथो शीर्षतो वा अभिषिच्यमानो ऽभिषिच्यते । मारुतान्हुत्वा । प्राणा वै मारुताः । प्राणैरु वा अन्नमद्यते । अथो प्राणेषु वा अभिषिच्यमानो ऽभिषिच्यते ॥ ३ ॥

सायणः

अथैतस्या वैश्वानरहोमानन्तर्यं प्रशंसति- वैश्वानरं हुत्वेति । ‘शीर्ष्णः’ इति तृतीयार्थे पञ्चमी ‘उ’ इति निपातो वा गलावुपरितनस्य सप्तकस्य सर्वस्यापि शिरस्त्वान्मुखेनाद्यते ऽपिच शिरसा वा ऽन्नमद्यते । किंच लोके अभिषिच्यमानः पुरुषः शिरस आरभ्यैवाभिषिच्यते । अतो ऽस्य वैश्वानरस्य शिरस्त्वादन्नाभिषेकात्मिकाया वसोर्धाराया होमस्तद्धोमानन्तरमेव युञ्ज्यत इत्यर्थः । मारुतहोमानन्तर्यमप्युक्तप्रकारेणैव प्रशंसति- मारुतान्हुत्वेति । प्राणैरु वा ऽअन्नमद्यत इति । अन्नमिति शब्दादिन्द्रियार्थात्मकं भोग्यं वस्तु उच्यते । गतार्थमन्यत् ॥ ३ ॥

Eggeling
  1. [He offers it] after offering the Vaiśvānara (cake)–for the Vaiśvānara is the head, and food is taken in from the head. (downwards); and, besides, it is from the head (downwards) that he who is anointed is anointed;–and after offering the Māruta (cakes), for the Mārutas are the vital airs, and through (the channels of) the vital airs food is eaten; and, besides, it is at (the openings of) the vital airs that he who is anointed is anointed 5.

०४

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽअरण्ये ऽनू᳘च्ये॥
व्वाग्वा᳘ ऽअरण्ये ऽनू᳘च्यो व्वा᳘चो वा ऽअ᳘न्नमद्यते᳘ ऽथो व्वाचा वा᳘ ऽअभिषिच्य᳘मानो ऽभि᳘षिच्यते त᳘देतत्स᳘र्व्वं व्व᳘सु स᳘र्व्वे᳘ ह्येते का᳘माः᳘ सैषा᳘ व्वसुम᳘यी धा᳘रा य᳘था क्षोर᳘स्य वा सर्पि᳘षो वैव᳘मारम्भा᳘यै᳘वेय᳘माज्याहुति᳘र्हूयते तद्य᳘देषा᳘ व्वसुम᳘यी धा᳘रा त᳘स्मादेनां व्व᳘सोधारेत्या᳘चक्षते॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽअरण्ये ऽनू᳘च्ये॥
व्वाग्वा᳘ ऽअरण्ये ऽनू᳘च्यो व्वा᳘चो वा ऽअ᳘न्नमद्यते᳘ ऽथो व्वाचा वा᳘ ऽअभिषिच्य᳘मानो ऽभि᳘षिच्यते त᳘देतत्स᳘र्व्वं व्व᳘सु स᳘र्व्वे᳘ ह्येते का᳘माः᳘ सैषा᳘ व्वसुम᳘यी धा᳘रा य᳘था क्षोर᳘स्य वा सर्पि᳘षो वैव᳘मारम्भा᳘यै᳘वेय᳘माज्याहुति᳘र्हूयते तद्य᳘देषा᳘ व्वसुम᳘यी धा᳘रा त᳘स्मादेनां व्व᳘सोधारेत्या᳘चक्षते॥

मूलम् - Weber

तद्वा᳘ अरण्ये ऽनू᳘च्ये॥
वाग्वा᳘ अरण्ये ऽनू᳘च्यो वाॗचो वा अ᳘न्नमद्यते᳘ ऽथो वाचा वा᳘ अभिषिच्य᳘मानो ऽभि᳘षिच्यते त᳘देतत्स᳘र्वं व᳘सु स᳘र्वेॗ ह्येते का᳘माःॗ सैषा᳘ वसुम᳘यो धा᳘रा य᳘था क्षोर᳘स्य वा सर्पि᳘षो वैव᳘मारभ्या᳘यैॗवेय᳘माज्याहुति᳘र्हूयते तद्य᳘देषा᳘ वसुम᳘यी धा᳘रा त᳘स्मादेनां व᳘सोधारेत्या᳘चक्षते॥

मूलम् - विस्वरम्

तद्वा अरण्ये ऽनूच्ये । वाग्वा अरण्ये ऽनूच्यः । वाचो वा अन्नमद्यते । अथो वाचा वा अभिषिच्यमानो ऽभिषिच्यते । तदेतत्सर्वं वसु । सर्वे ह्येते कामाः । सैषा वसुमयी धारा- यथा क्षीरस्य वा, सर्पिषो वा- एवमारम्भौयेवयमाज्याहुतिर्हूयते । तद् यदेषा वसुमयी धारा- तस्मादेनां वसोर्धारेत्याचक्षते ॥ ४ ॥

सायणः

वसोर्धारां जुहोतीति स्थानविशेषानुपादानेन विधानादग्नौ यत्र कुत्रापि होमप्रसक्तावाह- तद्वा इति । तत्र वसोर्धाराविषयो होमो ऽरण्ये ऽनूच्ये पुरोडाशे कर्तव्य इत्यर्थः । अत्र कात्यायनः- “वसोर्धारां जुहोत्यौदुम्बर्या पञ्चगृहीतं सन्ततं यजमानो ऽरण्ये ऽनुच्ये ऽग्निप्राप्ते” 6 (का. श्रौ. सू. १८ । ६६) इति । अथ तदेव वसोर्धारापदं प्रकारान्तरेण निर्वक्ति- तदेतत्सर्वमिति । यत एते सर्वे वाजादयः काम्यमानत्वात्कामाः अतः काम्यमानस्यैव वसुत्वात् तदेतत्सर्वं वाजादिकं ‘वसु’ शब्देनोच्यते । तस्मात्तत्प्रतिपादकमन्त्रसाध्या ‘एषा धारा’ ‘वसुमयी’ भवति । किञ्च ‘यैवेयमाज्याहुतिर्हूयते’ ‘एषा’ लोके ‘यथा क्षीरस्य वा’ ‘सर्पिषो वा’ ‘धारा’ क्रियते । ‘एवमारम्भाय’ एवमुपक्रमाय सम्पाद्यते इदानीं क्रियमाणेयमाहुतिः क्षीरादिधारावत् सम्पाद्यत इति धाराकारतां प्रदर्श्यते । तथा चोक्तप्रकारेण ‘एषा वसुमयी’ या ‘धारा’ भवति । यत एवं ‘तस्मादेनां वसोर्द्धारेत्याचक्षते’ ॥ ४ ॥

Eggeling
  1. And, furthermore, (it is offered) upon the Araṇyenūcya 7; for the Araṇyenūcya is speech, and it is through (the channel of) speech that food is eaten; and, besides, it is with speech that he who

is anointed is anointed. And everything here is wealth (vasu), for all these (cake-offerings) are (connected with special) wishes 8; and in order that this shower, be it of milk or of ghee, (may be) fraught with wealth, this oblation of ghee is thus offered for the beginning; and inasmuch as this shower is fraught with wealth, it is called ‘shower of wealth.’

०५

विश्वास-प्रस्तुतिः

स᳘ ऽआह॥
(हे) इदं᳘ च म ऽइदं᳘ च म ऽइ᳘त्यने᳘न च त्वा प्रीणा᳘म्यने᳘न चाने᳘न च त्वा ऽभिषिञ्चा᳘म्यने᳘न चे᳘त्येतद᳘थो ऽइदं᳘ च मे दे᳘हीदं᳘ च म ऽइ᳘ति सा[[!!]] य᳘दै᳘वैषा धा᳘रा ऽग्निं᳘ प्राप्नुयाद᳘थैतद्य᳘जुः प्र᳘तिपद्येत॥

मूलम् - श्रीधरादि

स᳘ ऽआह॥
(हे) इदं᳘ च म ऽइदं᳘ च म ऽइ᳘त्यने᳘न च त्वा प्रीणा᳘म्यने᳘न चाने᳘न च त्वा ऽभिषिञ्चा᳘म्यने᳘न चे᳘त्येतद᳘थो ऽइदं᳘ च मे दे᳘हीदं᳘ च म ऽइ᳘ति सा[[!!]] य᳘दै᳘वैषा धा᳘रा ऽग्निं᳘ प्राप्नुयाद᳘थैतद्य᳘जुः प्र᳘तिपद्येत॥

मूलम् - Weber

स᳘ आह॥
इदं᳘ च म इदं᳘ च म इ᳘त्यने᳘न च त्वा प्रीणा᳘म्यने᳘न चाने᳘न च त्वाभिषिञ्चा᳘म्यने᳘न चे᳘त्येतद᳘थो इदं᳘ च मे देहीदं᳘ च म इ᳘ति सा᳘ यॗदैॗवैषा धा᳘राग्नि᳘म् प्राप्नुयाद᳘थैतद्य᳘जुः प्र᳘तिपद्येत॥

मूलम् - विस्वरम्

स आह- इदं च म इदं च म इति । अनेन च त्वा प्रीणामि, अनेन च, अनेन च त्वा ऽभिषिञ्चामि, अनेन चेत्येतत् । अथो इदं च मे देहि, इदं च म इति । सा यदैवैषा धारा ऽग्निं प्राप्नुयाद्- अथैतद्यजुः प्रतिपद्येत ॥ ५ ॥

सायणः

अथ प्रकृतहोमसाधनानां मन्त्राणां तात्पर्यार्थं दर्शयति- स आहेति । ‘इदं च म इदं च म इति’ “वाजश्च मे प्रसवश्च मे”- इत्यादिमन्त्राणां निर्देशः । ‘अनेन च’ इति ‘अनेन चानेन च’ इत्यत्र हि- वाजादयो निर्दिश्यन्ते । हे अग्ने ! त्वाम् अनेन चानेन प्रीणामि । अग्ने ! त्वां वाजादिना ‘अभिषिञ्चामि च’ किञ्च- इदं च मे देहीदं च मे देहीत्यर्थो मन्त्रैर्विवक्षित इत्यत आह- अथो इति । अतस्तदात्मकस्त्वं मे वाजादि देहीत्ययमर्थो ऽमीभिर्मंत्रैर्विवक्षित इत्युक्तं भवति । अन्यत्र सर्वत्र मन्त्रान्ते कर्मकरणात्, तद्वदत्रापि होमप्रसक्तावाह- सा यदैवेति । प्रतिपद्येतेति । मन्त्रेण संपाद्यत इत्यर्थः ॥ ५ ॥

Eggeling
  1. He (as it were) says, ‘This is mine, and that is mine;’–that is, ‘Herewith I gratify thee, and therewith;–herewith I anoint thee, and therewith;’ or, ‘Give me this, and that!’ And as soon as that shower reaches the fire, that prayer is fulfilled.

०६

विश्वास-प्रस्तुतिः

(तै) एतद्वा᳘ ऽएनं देवाः᳘॥
(ऽ) एतेना᳘न्नेन प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतान्का᳘मानयाचन्त ते᳘भ्य ऽइष्टः᳘ प्री᳘तो ऽभि᳘षिक्त ऽएतान्का᳘मान्प्रा᳘यच्छत्त᳘थै᳘वैनमय᳘देतेना᳘न्नेन प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतान्कामान्याचते त᳘स्मा ऽइष्टः᳘ प्री᳘तो ऽभि᳘षिक्त ऽएतान्का᳘मान्प्र᳘यच्छति द्वौ᳘ द्वौ का᳘मौ सं᳘युनक्त्य᳘व्यवच्छेदाय य᳘था᳘ व्योकसौ संयुञ्ज्या᳘देवं᳘ यज्ञे᳘न कल्पन्तामि᳘ति॥

मूलम् - श्रीधरादि

(तै) एतद्वा᳘ ऽएनं देवाः᳘॥
(ऽ) एतेना᳘न्नेन प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतान्का᳘मानयाचन्त ते᳘भ्य ऽइष्टः᳘ प्री᳘तो ऽभि᳘षिक्त ऽएतान्का᳘मान्प्रा᳘यच्छत्त᳘थै᳘वैनमय᳘देतेना᳘न्नेन प्री᳘त्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व्व᳘सोर्धा᳘रया᳘ ऽथैनमेतान्कामान्याचते त᳘स्मा ऽइष्टः᳘ प्री᳘तो ऽभि᳘षिक्त ऽएतान्का᳘मान्प्र᳘यच्छति द्वौ᳘ द्वौ का᳘मौ सं᳘युनक्त्य᳘व्यवच्छेदाय य᳘था᳘ व्योकसौ संयुञ्ज्या᳘देवं᳘ यज्ञे᳘न कल्पन्तामि᳘ति॥

मूलम् - Weber

एतद्वा᳘ एनं देवाः᳟॥
एतेना᳘न्नेन प्रीॗत्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व᳘सोर्धा᳘रया᳘थैनमेतान्का᳘मानयाचन्त ते᳘भ्य इष्टः प्रीॗतो ऽभि᳘षिक्त एतान्कामान्प्रा᳘यछत्त᳘थैॗवैनमय᳘देतेना᳘न्नेन प्रीॗत्वैतैः का᳘मैरभिषि᳘च्यैत᳘या व᳘सोर्धा᳘रया᳘थैनमेतान्कामान्याचते त᳘स्मा इष्टः᳘ प्रीॗतो ऽभि᳘षिक्त एतान्का᳘मान्प्र᳘यछति द्वौ᳘-द्वौ का᳘मौ सं᳘युनक्त्य᳘व्यवछेदाय य᳘थाॗ व्योकसौ संयुञ्ज्या᳘देवं᳘ यज्ञे᳘न कल्पन्तामि᳘ति॥

मूलम् - विस्वरम्

एतद्वा एनं देवा एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्य, एतया वसोर्धारया ऽथैनमेतान् कामानयाचन्त । तेभ्य इष्टः प्रीतो ऽभिषिक्त एतान्कामान्प्रायच्छत् । तथैवैनमयमेतदेतेनान्नेन प्रीत्वा, एतैः कामैरभिषिच्य, एतया वसोर्धारया ऽथैनमेतान्कामान्याचते । तस्मा इष्टः प्रीतो ऽभिषिक्त एतान्कामान्प्रयच्छति । द्वौ द्वौ कामौ संयुनक्ति- अव्यवच्छेदाय । यथा व्योकसौ संयुञ्ज्याद्- एवं यज्ञेन कल्पन्तामिति ॥ ६ ॥

सायणः

अथ कथमेषो ऽर्थो मन्त्रैर्विवक्षित इत्यत आह- एतद्वा इति । एतया वसोर्द्धारयेति । वसोर्द्धारानाम “वाजश्च मे”- (वा. सं. १८ । १-२९) इत्यादिमन्त्रैः क्रियमाणा आज्यधारा । अतश्च वसोर्द्धारयेत्येतदेव विविच्य दर्शितम्- एतेनान्नेन प्रीत्वैतैः कामैरभिषिच्येति । ‘अथ’ प्रीणनाभिषेकानन्तरम् ‘एनम्’ अग्निम् ‘एतान्’ वाजादीन् ‘कामान्’ ‘अयाचन्त’ ततः ‘इष्टः’ कृतयागः प्रीतो भूत्वा तेभ्यः ‘एतान् प्रायच्छत्’ अतः तथैव ‘यजमानो ऽपि’ कुरुते । अत एतदनुसारेण मन्त्राणामुक्तविध एवार्थो विवक्षित इति भावः । मन्त्रेषु प्रत्येकं पर्यवसाने व्यवच्छेदः स्यादिति- तदभावाय द्वौ मन्त्रौ संयुंज्यादित्याह- द्वौ द्वाविति । यथेति । ‘व्योकसौ’ विभिन्नदेशस्थावाचार्यौ ‘यथा’ संयुज्येते ‘एवम्’ एतदपि संयोजनं भवति । मंत्रेषु तत्र तत्रावसानेषु यज्ञेन कल्पन्तामित्याम्नायते तस्येदानीमुपयोगमाह- यज्ञेन कल्पन्तामिति ॥ ६ ॥

Eggeling
  1. Now the gods, having gratified him (Agni) by this food, or by these objects of desire 9, and having anointed him by this shower of wealth, solicited from him these objects of desire 10; and having received offering, and being gratified and anointed, he granted them these objects of desire; and in like manner this (Sacrificer), having gratified him by this food, and by these offerings of desire, and anointed him with this shower of wealth, now solicits from him these objects of desire; and having received offering, and being gratified and anointed, he (Agni) grants him these objects of desire. In order to avoid discontinuance, he each time embraces two wishes,–even as one would connect those living away from one another,–thinking, ‘In this way shall they prosper by sacrifice!’

०७

विश्वास-प्रस्तुतिः

(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवन्॥
(न्के᳘) के᳘नेमान्का᳘मान्प्र᳘तिग्रहीष्याम ऽइ᳘त्यात्म᳘नैवे᳘त्यब्रुवन्यज्ञो वै᳘ देवा᳘नामात्मा᳘ यज्ञ᳘ ऽउ ऽएव य᳘जमानस्य स यदा᳘ह यज्ञे᳘न कल्पन्तमि᳘त्यात्म᳘ना मे कल्पन्तामि᳘त्ये᳘वैत᳘दाह॥ (काण्डस्यार्धम् २०१)॥

मूलम् - श्रीधरादि

(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवन्॥
(न्के᳘) के᳘नेमान्का᳘मान्प्र᳘तिग्रहीष्याम ऽइ᳘त्यात्म᳘नैवे᳘त्यब्रुवन्यज्ञो वै᳘ देवा᳘नामात्मा᳘ यज्ञ᳘ ऽउ ऽएव य᳘जमानस्य स यदा᳘ह यज्ञे᳘न कल्पन्तमि᳘त्यात्म᳘ना मे कल्पन्तामि᳘त्ये᳘वैत᳘दाह॥ (काण्डस्यार्धम् २०१)॥

मूलम् - Weber

एतद्वै᳘ देवा᳘ अब्रुवन्॥
के᳘नेमान्का᳘मान्प्र᳘तिग्रहीष्याम इ᳘त्यात्म᳘नैवे᳘त्यब्रुवन्यज्ञो वै᳘ देवा᳘नामात्मा᳘ यज्ञ᳘ उ एव य᳘जमानस्य स यदा᳘ह यज्ञे᳘न कल्पन्तमि᳘त्यात्म᳘ना मे कल्पन्तामि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

एतद्वै देवा अब्रुवन्- केनेमान्कामान्प्रतिग्रहीष्याम इति । आत्मनैवेत्यब्रुवन् । यज्ञो वै देवानामात्मा । यज्ञ उ एव यजमानस्य । स यदाह- यज्ञेन कल्पन्ताम् इति । आत्मना मे कल्पन्तामित्येवैतदाह ॥ ७ ॥

सायणः

यज्ञेन कल्पन्तामित्यत्र यज्ञशब्देनात्मनेत्यर्थो विवक्ष्यत इत्याह- एतद्वै देवा इति । पूर्वं देवाः “केनेमान्कामान्प्रतिग्रहीष्यामः” इति परस्परमुक्त्वा पश्चादात्मनैव प्रतिग्रहीष्याम इति निर्णीय ‘अब्रुवन्’ । ‘देवानां’ ‘आत्मा’ शरीरं यज्ञः खलु शरीरवत्सर्वभोगसाधनत्वात् । अतश्च यज्ञरूपेण देवाः कामान्प्रागृह्णन् इत्यर्थः । तद्वदेव यजमानस्यापि यज्ञ एव शरीरम् । एवं च यज्ञेन कल्पन्तामिति वचने मे आत्मनैवैते कामाः कल्पन्तामित्येवैतदुक्तं भवति ॥ ७ ॥

Eggeling
  1. The gods now spake, ‘Through whom shall we receive these objects of desire? By our own

self,’ they said; for the sacrifice is the self of the gods, and so is the sacrifice that of the Sacrificer; and when he says, ‘By the sacrifice they shall prosper!’ he means to say, ‘By my own self they shall prosper!’

०८

विश्वास-प्रस्तुतिः

द्वादश᳘सु कल्पयति॥
द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणात्य᳘थो ता᳘वतै᳘वैनमेतद᳘न्नेनाभि᳘षिञ्चति चतुर्दश᳘सु कल्पयत्यष्टासु[[!!]] कल्पयति दश᳘सु कल्पयति त्रयोदश᳘सु कल्पयति॥

मूलम् - श्रीधरादि

द्वादश᳘सु कल्पयति॥
द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणात्य᳘थो ता᳘वतै᳘वैनमेतद᳘न्नेनाभि᳘षिञ्चति चतुर्दश᳘सु कल्पयत्यष्टासु[[!!]] कल्पयति दश᳘सु कल्पयति त्रयोदश᳘सु कल्पयति॥

मूलम् - Weber

द्वादश᳘सु कल्पयति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणात्य᳘थो ता᳘वतैॗवैनमेतद᳘न्नेनाभि᳘षिञ्चति चतुर्दश᳘सु कल्पयत्यष्टासु᳘ कल्पयति दश᳘सु कल्पयति त्रयोदश᳘सु कल्पयति॥

मूलम् - विस्वरम्

द्वादशसु कल्पयति । द्वादश मासाः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति । अथो तावतैवैनमेतदन्नेनाभिषिञ्चति । चतुर्दशसु कल्पयति, अष्टासु कल्पयति, दशसु कल्पयति, त्रयोदशसु कल्पयति ॥ ८ ॥

सायणः

तद्वाक्यं द्वादशमन्त्रावसाने प्रयुञ्ज्यादित्याह- द्वादशसु कल्पयतीति । तत्र कल्पनं कथं कृत्स्नाग्निप्रीतिहेतुर्भवतीत्याह- द्वादश मासा इति । ननु सर्वत्र द्वादशस्वेव कल्पयेदिति नेत्याह- चतुर्दशसु कल्पयतीति ॥ ८ ॥

Eggeling
  1. In twelve (things) he causes them to prosper 11, the year consists of twelve months, and Agni is the year: as great as Agni is, as great as is his measure, by so much food he thus gratifies him, and by so much food he thus consecrates him. In fourteen he causes them to prosper; in eight he causes them to prosper; in ten he causes them to prosper; in thirteen he causes them to prosper.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अथार्धेन्द्रा᳘णि जुहोति॥
स᳘र्व्वमेतद्य᳘दर्धेन्द्रा᳘णि स᳘र्व्वेणै᳘वैनमेत᳘त्प्रीणात्य᳘थो स᳘र्व्वेणै᳘वैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

(त्य᳘) अथार्धेन्द्रा᳘णि जुहोति॥
स᳘र्व्वमेतद्य᳘दर्धेन्द्रा᳘णि स᳘र्व्वेणै᳘वैनमेत᳘त्प्रीणात्य᳘थो स᳘र्व्वेणै᳘वैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - Weber

अथार्धेन्द्रा᳘णि जुहोति॥
स᳘र्वमेतद्य᳘दर्धेन्द्रा᳘णि स᳘र्वेणैॗवैनमेत᳘त्प्रीणात्य᳘थो स᳘र्वेणैॗवैनमेत᳘दभि᳘षिञ्चति॥

मूलम् - विस्वरम्

अथोत्तरहोमाः ।

(१) अथार्धेन्द्राणि जुहोति । सर्वमेतद्- यदर्धेन्द्राणि । सर्वेणैवैनमेतत्प्रीणाति । अथो सर्वेणैवैनमेतदभिषिञ्चति ॥ ९ ॥

सायणः

“वाजश्च मे प्रसवश्च मे” (वा. सं. १८ । १-२९)- इत्यारभ्याष्टाभिरनुवाकैरेषा वसोर्द्धारा हूयते तत्रैकस्मिन्ननुवाके “अग्निश्च म इन्द्रश्च मे, सोमश्च म इन्द्रश्च मे” (वा. सं. १८ । १६-१८) इत्यादयो मन्त्राः समाम्नाताः । तत्र द्वौ द्वौ संयुनक्तीति वचनेन द्वयोर्द्वयोरवसानविधानात् प्रतिमन्त्रं “इन्द्रश्च मे”- इत्येतदर्द्धं भवति । अतस्ते मन्त्रा अर्द्धन्द्रशब्देनोच्यन्ते । अतश्च ‘अथार्द्धेन्द्राणि’ इत्यनेन तन्मन्त्रसाध्यं होमं स्तोतुमनुवदति- अथार्द्धेन्द्राणीति । अर्द्धेन्द्राणीति शब्दो मन्त्रवाक्यपरः तद्वैशिष्ट्येन द्रव्यस्य होमादुपचारेणार्द्धेन्द्राणि जुहोतीत्युक्तम् । एवमुत्तरत्रापि । अर्धेन्द्रमन्त्रकरणकान्होमान्कुर्यादित्यर्थः । सर्वाधिपतित्वेन सर्वस्येन्द्रसंबंधादर्धेन्द्राणामपि सर्वत्वात्तत्करणकहोमे कृते सर्वेणैवान्नेनैनमग्निं प्रीणात्यभिषिञ्चति चेत्याह- सर्वमेतदिति ॥ ९ ॥

Eggeling
  1. He then offers the Ardhendra (libations) 12;the ardhendras are everything here 13: he thus gratifies him (Agni) with everything, and with everything he thus consecrates him.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ ग्र᳘हाञ्जुहोति॥
यज्ञो वै ग्र᳘हा यज्ञे᳘नै᳘वैनमेतद᳘न्नेन प्रीणात्य᳘थो यज्ञे᳘नै᳘वैनमेतद᳘न्नेनाभि᳘षिञ्चति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ ग्र᳘हाञ्जुहोति॥
यज्ञो वै ग्र᳘हा यज्ञे᳘नै᳘वैनमेतद᳘न्नेन प्रीणात्य᳘थो यज्ञे᳘नै᳘वैनमेतद᳘न्नेनाभि᳘षिञ्चति॥

मूलम् - Weber

अ᳘थ ग्र᳘हान्जुहोति॥
यज्ञो वै ग्र᳘हा यज्ञे᳘नैॗवैनमेतद᳘न्नेन प्रीणात्य᳘थो यज्ञे᳘नैॗवैनमेतद᳘न्नेनाभि᳘षिञ्चति॥

मूलम् - विस्वरम्

(२) अथ ग्रहान् जुहोति । यज्ञो वै ग्रहाः । यज्ञेनैवैनमेतदन्नेन प्रीणाति । अथो यज्ञेनैवैनमेतदन्नेनाभिषिञ्चति ॥ १० ॥

सायणः

“अंशुश्च मे- रश्मिश्च मे” (वा. सं. १८ । १९-२१)- इत्यादयो मन्त्रा ग्रहप्रतिपादकत्वाद् ग्रहाः तत्साध्यमपि होममनूद्य प्रशंसति- अथ ग्रहानिति । यज्ञो वै ग्रहा इति । यज्ञसाधनत्वाद् ग्रहाणां यज्ञत्वम् ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे तृतीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (९-३-२) ॥

Eggeling
  1. He then offers (the libations relating to) the Grahas 14;–the grahas (cups of soma, offered to

the deities), doubtless, are sacrifice: by sacrifice, by food, he thus gratifies him; and by sacrifice he thus consecrates him.


  1. 213:1 That is, after offering all the seven Māruta cakes, the formulas of the last six of which (Vāj. S. XVII, 81-85; XXXIX, 7) are not given in the Brāhmaṇa. At the end the Adhvaryu mutters the verse XVII, 86, and thereupon he either makes the Sacrificer mutter (or mutters himself) verses 87-99 in praise of Agni. Kāty. Śr. XVIII, 4, 25; 26. ↩︎

  2. 213:2 Thus, according to Kāty. XVIII, 5, 1 (the Adhvaryu, according to Weber, Ind. Stud. XIII, p. 283). ↩︎

  3. 213:3 It would rather seem to mean ‘stream, or shower, of wealth;’ cf. paragraph 4. ↩︎

  4. 213:4 That is, the consecration ceremony, in which the king is sprinkled’ with sacred water, or, so to speak, anointed. The ‘Vasor dhārā,’ or ‘shower of wealth,’ consisting of an uninterrupted series of 401 libations to Agni (through which all the powers of the god are to be secured to the Sacrificer), is intended as the equivalent of that ceremony for the consecration of Agni as king; and, indeed, as a kind of superior consecration ceremony for the (royal) Sacrificer himself, more potent than the Rājasūya and Vājapeya. There is thus to be noticed here the same tendency as elsewhere of exalting the efficacy of the Agnicayana, and of making it take the place of the whole of the ordinary sacrificial ceremonial. ↩︎

  5. 214:1 When anointed, or consecrated, the king is first sprinkled from the front and then from behind, and finally rubbed all over, with the consecrated water; see V, 4, 2, 1 seq. ↩︎

  6. वाजश्च म इत्यष्टानुवाकेन । इति सूत्रशेषः । ↩︎

  7. 214:2 That is, as soon as the Adhvaryu has put the Araṇyenūcya cake in the fire the Sacrificer begins to pour the ghee on it with a large offering-ladle of udumbara wood, and the Adhvaryu begins to mutter the formulas. ↩︎

  8. 215:1 Or, all these (objects) for which offerings are made are objects of desire. ↩︎

  9. 215:2 Or, perhaps, ‘for (prompted by) these objects of desire.’ ↩︎

  10. 215:3 Or, asked him these wishes (boons). ↩︎

  11. 216:1 That is, he makes the objects of desire mentioned in the formulas used during the Vasor dhārā, accrue to himself, or turn out well for himself. The formulas usually contain the names of twelve such objects (in six pairs), those in XVIII, 1 being–’(may) strength and gain, endeavour and attempt, thought and wisdom, sound and praise, fame and hearing, light and heaven, prosper for (or accrue to) me by sacrifice!’ In XVIII, 4, however, fourteen objects are enumerated, in XVIII, 15 (and 27) eight, in XVIII, 23 (and 26). ten, in XVIII, 28 thirteen. ↩︎

  12. 216:2 Literally, ’the half-Indra ones,’ the technical term for the formulas of three sets of libations (XVIII, 16-18), in which three sets of twelve deities are named, each pair of whom consists of Indra coupled with some other deity, thus ‘May Agni and Indra, Soma and Indra, &c., prosper for (or accrue to) me by sacrifice!’ ↩︎

  13. 216:3 Viz. inasmuch as Indra represents the ruling power, and everything submits to him (III, 9, 4, 15); or inasmuch as Indra and Agni are the whole universe (IV, 2, 2, 14). ↩︎

  14. 216:4 These are three sets of libations (still forming part of the continuous ‘Vasor dhārā,’ or ‘wealth-stream’), the formulas of which (XVIII, 19-21) enumerate each six pairs of cups of Soma (graha) and of sacrificial implements. ↩︎