०१

विश्वास-प्रस्तुतिः

अथा᳘तो व्वैश्वानरं᳘ जुहोति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः स᳘ᳫँ᳘स्कृतः स᳘ ऽएषो᳘ ऽत्र व्वैश्वानरो᳘ देव᳘ता त᳘स्मा ऽएत᳘द्धवि᳘र्जुहोति त᳘देनᳫँ᳭ हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्सरो᳘ व्वैश्वानरः[[!!]]॥

मूलम् - श्रीधरादि

अथा᳘तो व्वैश्वानरं᳘ जुहोति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः स᳘ᳫँ᳘स्कृतः स᳘ ऽएषो᳘ ऽत्र व्वैश्वानरो᳘ देव᳘ता त᳘स्मा ऽएत᳘द्धवि᳘र्जुहोति त᳘देनᳫँ᳭ हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्य᳘ते द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्सरो᳘ व्वैश्वानरः[[!!]]॥

मूलम् - Weber

अथा᳘तो वैश्वानरं᳘ जुहोति॥
अ᳘त्रैष स᳘र्वो ऽग्निः स᳘ᳫं᳘स्कृतः स᳘ एषो᳘ ऽत्र वैश्वानरो᳘ देव᳘ता त᳘स्मा एत᳘द्धवि᳘र्जुहोति त᳘देनᳫं हवि᳘षा देव᳘तां करोति य᳘स्यै वै᳘ देव᳘तायै हवि᳘र्गृह्य᳘ते सा᳘ देव᳘ता न सा य᳘स्यै न᳘ गृह्यते द्वा᳘दशकपालो द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सरो᳘ वैश्वानरः᳟॥

मूलम् - विस्वरम्

वैश्वानरहोमः ।

अथातो वैश्वानरं जुहोति । अत्रैष सर्वो ऽग्निः संस्कृतः । स एषो ऽत्र वैश्वानरो देवता । तस्मा एतद्धविर्जुहोति । तदेनं हविषा देवतां करोति । यस्यै वै देवतायै हविर्गृह्यते- सा देवता, न सा यस्यै न गृह्यते । द्वादशकपालः । द्वादश मासाः संवत्सरः । संवत्सरो वैश्वानरः ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

पूर्वस्मिन्नध्याये स्वयमातृण्णाव्याघारणसमुक्षणादिकर्माभिहितम् । अथास्मिन्नध्याये वैश्वानरमारुतवसोर्द्धारादिहोमलक्षणं कर्माभिधास्यते- तत्रादौ वैश्वानरं होमं विधत्ते- अथात इति । अथशब्देन अग्निप्रणयनानन्तर्यं द्योत्यते । अत इति अत्रैष सर्वो ऽग्निः इत्याद्युत्तरकालप्रतिपाद्यमर्थं हेतुतया परामृशति । वैश्वानरशब्दस्तद्देवत्यं हविराचष्टे । यतो ऽस्मिन्नवसरे अग्निर्वैश्वानरो देवता भवति । अतस्तत्प्रीणनार्थं तद्दैवत्यं हविर्जुहुयादित्यर्थः । न केवलमनेन अस्मै भागसम्पादनं क्रियते, अपि तु देवतात्वसम्पादनमपीत्याह- तदेनमिति । तदेवान्वयव्यतिरेकाभ्यामुपपादयति- यस्यै वा इति । “वैश्वानरं जुहोति”- इति सामान्येनाभिधानादग्न्यादिकमपि तच्छब्देनोपपाद्यते इत्याह- द्वादशकपाल इति । द्वादशसु कपालेषु संस्कृतः पुरोडाशः द्वादशकपालः । द्वादश मासाः सम्भूय संवत्सरो भवति, वैश्वानरो ऽग्निश्च संवत्सरात्मकः । ततस्तदर्थं हविर्द्वादशकपालसंस्कृतपुरोडाशो भवतीत्यर्थः ॥ १ ॥

Eggeling
  1. He then offers the Vaiśvānara (cake). That Agni has now been completely restored; he now is that deity, (Agni) Vaiśvānara (belonging to all men): to him he offers this oblation, and by the oblation he makes him a deity, for whatever deity an oblation is prepared that is a deity, but not one for whom no (oblation) is prepared. It is one of twelve potsherds: twelve months are a year, and Vaiśvānara is the year.

०२

विश्वास-प्रस्तुतिः

(रो) यद्वे᳘वैतं᳘ व्वैश्वानरं᳘ जुहो᳘ति[[!!]]॥
व्वैश्वानरं वा᳘ ऽएत᳘मग्निं᳘ जनयिष्य᳘न्भवति त᳘मदः᳘ पुर᳘स्ताद्दीक्षणी᳘यायाᳫँ᳭ रे᳘तोभूत᳘ᳫँ᳘ सिञ्च᳘ति यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृ᳘ग्जायते तद्यत्त᳘त्र व्वैश्वानरᳫँ᳭ रे᳘तोभूत᳘ᳫँ᳘ सिञ्च᳘ति त᳘स्मादय᳘मिह᳘ व्वैश्वानरो᳘ जायत ऽउपाᳫँ᳭शु त᳘त्र भवति रे᳘तो वै त᳘त्र यज्ञ᳘ ऽउपाᳫँ᳭शु वै रे᳘तः सिच्यते नि᳘रुक्त ऽइह नि᳘रुक्तᳫँ᳭ हि रे᳘तो जातं भ᳘वति॥ (शतम् ४९००)॥

मूलम् - श्रीधरादि

(रो) यद्वे᳘वैतं᳘ व्वैश्वानरं᳘ जुहो᳘ति[[!!]]॥
व्वैश्वानरं वा᳘ ऽएत᳘मग्निं᳘ जनयिष्य᳘न्भवति त᳘मदः᳘ पुर᳘स्ताद्दीक्षणी᳘यायाᳫँ᳭ रे᳘तोभूत᳘ᳫँ᳘ सिञ्च᳘ति यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृ᳘ग्जायते तद्यत्त᳘त्र व्वैश्वानरᳫँ᳭ रे᳘तोभूत᳘ᳫँ᳘ सिञ्च᳘ति त᳘स्मादय᳘मिह᳘ व्वैश्वानरो᳘ जायत ऽउपाᳫँ᳭शु त᳘त्र भवति रे᳘तो वै त᳘त्र यज्ञ᳘ ऽउपाᳫँ᳭शु वै रे᳘तः सिच्यते नि᳘रुक्त ऽइह नि᳘रुक्तᳫँ᳭ हि रे᳘तो जातं भ᳘वति॥ (शतम् ४९००)॥

मूलम् - Weber

यद्वे᳘वैतं᳘ वैश्वानरं जुहोति᳟॥
वैश्वानरं वा᳘ एत᳘मग्निं᳘ जनयिष्य᳘न्भवति त᳘मदः᳘ पुर᳘स्ताद्दीक्षणी᳘यायां रे᳘तो भूत᳘ᳫं᳘ सिञ्चति यादृग्वै यो᳘नौ रे᳘तः सिच्य᳘ते तादृ᳘ग्जायते तद्यत्त᳘त्र वैश्वानरं रे᳘तो भूत᳘ᳫं᳘ सिञ्च᳘ति त᳘स्मादय᳘मिह᳘ वैश्वानरो᳘ जायत उपांशु त᳘त्र भवति रे᳘तो वै त᳘त्र यज्ञ᳘ उपांशु वै रे᳘तः सिच्यते नि᳘रुक्त इह नि᳘रुक्तᳫं हि रे᳘तो जातम् भ᳘वति॥

मूलम् - विस्वरम्

यद्वेवैतं वैश्वानरं जुहोति । वैश्वानरं वा एतमग्निं जनयिष्यन्भवति । तमदः पुरस्ताद्दीक्षणीयायां रेतोभूतं सिञ्चति । यादृग्वै योनौ रेतः सिच्यते- तादृग् जायते । तद् यत्तत्र वैश्वानरं रेतोभूतं सिञ्चति । तस्मादयमिह वैश्वानरो जायते । उपांशु तत्र भवति । रेतो वै तत्र यज्ञः । उपांशु वै रेतः सिच्यते । निरुक्त इह । निरुक्तं हि रेतो जातं भवति ॥ २ ॥

सायणः

अथ पुनस्तमेव वैश्वानरहोमं प्रशंसति- यद्वेवैतमिति । ‘अदः’ शब्दो दीक्षणीयेष्टिकालं परामृशति । पुरस्ताद् इति पूर्वकालमाचष्टे । पूर्वममुष्मिन्काले दीक्षणीयेष्ट्यां तं वैश्वानरं रेतोभूतं सिञ्चतीति यत् अत एतमग्निं वैश्वानररूपं जनयिष्यन्भवति । दीक्षणीयायां कृतो वेश्वानरार्थो होमः एतस्याग्नेर्वैश्वानररूपेणोत्पादनार्थं रेतःसेचनवद्भवतीत्यर्थः । लोके हि ‘योनौ’ यत्प्रकारविशिष्टं ‘रेतः सिच्यते’ उत्पत्तिकाले ऽपि तत्प्रकारवैशिष्ट्येनैव तज्जायते, न पुनः प्रकारान्तरवैशिष्ट्येन । ततो दीक्षणीयायां वैश्वानरं रेतोरूपेण सिक्तवानिति यत्तस्मादयमग्निरिहापि तदनुरोधेन वैश्वानर एव जायते । अतश्च वैश्वानररूपेणोत्पादनाय वैश्वानरदेवत्यं हविर्जुहुयादिति भावः । ‘उपांशु तत्र भवति’ इत्यादिकस्यायमर्थः । ‘यज्ञ’ शब्देन यष्टव्यत्वाद्वैश्वानर उच्यते । तत्र दीक्षणीयायां यज्ञो रेतोरूपो भवति खलु । रेतश्च ‘उपांशु’ रहस्येव सिच्यते, न प्रकाशम् । अतस्तत्र प्रधानमुपांशु भवति । इह तु प्रधानं ‘निरुक्तम्’ उच्चैरौच्चयविशिष्टं भवति । जननावस्थायां रेतसः प्रकाशमेव जायमानत्वादत्रत्यस्य वैश्वानरस्य तथाविधत्वादिति ॥ २ ॥

Eggeling
  1. And, again, as to why he offers the Vaiśvānara (cake),–it is as the Vaiśvānara that he is about to produce that Agni: on that former occasion, at the initiation-offering 1, he pours him out in the form of seed: and what the seed is like that is poured.

into the womb, such like (is the child that) is born; and inasmuch as there he pours out Vaiśvānara in the form of seed, therefore he now is born as Vaiśvānara. Silently 2 it is (performed) there, for there seed (is implied) in the sacrifice, and silently seed is infused; but distinctly on the present occasion, for distinct (manifest) is the seed when born.

०३

विश्वास-प्रस्तुतिः

स यः स᳘ व्वैश्वानरः᳘॥
(ऽ) इमे स᳘ लोका᳘ ऽइय᳘मेव᳘ पृथिवी व्वि᳘श्वमग्निर्न᳘रो ऽन्त᳘रिक्षमेव व्वि᳘श्वं व्वायुर्न᳘रो द्यौ᳘रेव व्वि᳘श्वमादित्यो न᳘रः॥

मूलम् - श्रीधरादि

स यः स᳘ व्वैश्वानरः᳘॥
(ऽ) इमे स᳘ लोका᳘ ऽइय᳘मेव᳘ पृथिवी व्वि᳘श्वमग्निर्न᳘रो ऽन्त᳘रिक्षमेव व्वि᳘श्वं व्वायुर्न᳘रो द्यौ᳘रेव व्वि᳘श्वमादित्यो न᳘रः॥

मूलम् - Weber

स यः स᳘ वैश्वानरः᳟॥
इमे स᳘ लोका᳘ इय᳘मेव᳘ पृथिवी वि᳘श्वमग्निर्न᳘रो ऽन्त᳘रिक्षमेव वि᳘श्वं वायुर्न᳘रो द्यौ᳘रेव वि᳘श्वमादित्यो न᳘रः॥

मूलम् - विस्वरम्

स यः स वैश्वानरः- इमे स लोकाः । इयमेव पृथिवी विश्वम्, अग्निर्नरः । अन्तरिक्षमेव विश्वम्, वायुर्नरः । द्यौरेव विश्वम्, आदित्यो नरः ॥ ३ ॥

सायणः

अथास्य वैश्वानरात्मकतामाह- स य इत्यादिना । पूर्वोक्तो ‘यः वैश्वानरः’ अग्निः स ‘एव’ ‘इमे’ पृथिव्यादयो ‘लोकाः’ । कुतः ? ‘इयमेव पृथिवी विश्वम्’ तदधिष्ठाता ऽग्निरेव ‘नरः’, तथा ‘अन्तरिक्षमेव विश्वम्’ । तदधिष्ठाता ‘वायुर्नरः’ एवम् ‘द्यौरेव विश्वम्’ तदधिष्ठाता ‘आदित्यो नरः’ पृथिव्यादीनां लोकानामनेकपदार्थाधारत्वेन विश्वत्वम् । अग्न्यादीनां च तदधिष्ठातृपुरुषत्वम् । एवं च वैश्वानर इत्यत्र तदितरस्य स्वार्थिकत्वात्साधिष्ठातृका इमे लोका एव स वैश्वानर इत्यर्थः ॥ ३ ॥

Eggeling
  1. Now, that Vaiśvānara is all these worlds: this earth is the All (viśva), and Agni is its man (nara); the air is the All, and Vāyu (the wind) is its man (ruler); the sky is the All, and Āditya (the sun) is its man.

०४

विश्वास-प्रस्तुतिः

(स्ते) ते ये त᳘ ऽइमे᳘ लोकाः᳘॥
(ऽ) इदं तच्छि᳘र ऽइद᳘मेव᳘ पृथिव्यो᳘षधयः श्म᳘श्रूणि त᳘देतद्वि᳘श्वं व्वा᳘गे᳘वाग्निः स᳘ न᳘रः᳘ सोप᳘रिष्टादस्य᳘ भवत्युप᳘रिष्टा᳘द्ध्यस्या᳘ ऽअग्निः᳘[[!!]]॥

मूलम् - श्रीधरादि

(स्ते) ते ये त᳘ ऽइमे᳘ लोकाः᳘॥
(ऽ) इदं तच्छि᳘र ऽइद᳘मेव᳘ पृथिव्यो᳘षधयः श्म᳘श्रूणि त᳘देतद्वि᳘श्वं व्वा᳘गे᳘वाग्निः स᳘ न᳘रः᳘ सोप᳘रिष्टादस्य᳘ भवत्युप᳘रिष्टा᳘द्ध्यस्या᳘ ऽअग्निः᳘[[!!]]॥

मूलम् - Weber

ते ये त᳘ इमे᳘ लोकाः᳟॥
इदं तछि᳘र इद᳘मेव᳘ पृथिव्यो᳘षधयः श्म᳘श्रूणि त᳘देतद्वि᳘श्वं वा᳘गेॗवाग्निः सॗ न᳘रः सोप᳘रिष्टादस्य᳘ भवत्युप᳘रिष्टाद्ध्य᳘स्या᳘ अग्निः᳟॥

मूलम् - विस्वरम्

ते ये त इमे लोकाः- इदं तच्छिरः- इदमेव पृथिवी, ओषधयः श्मश्रूणि । तदेतद्विश्वम् । वागेवाग्निः । स नरः । सोपरिष्टादस्य भवति । उपरिष्टाद्व्यस्या अग्निः ॥ ४ ॥

सायणः

अथ शिरसो वैश्वानररूपलोकात्मकतामाह- ते य इति । ‘इदम्’ इति मुखं श्मश्रुविशिष्टं हस्तेन प्रदर्श्यते । ‘इदमेव’ स्थानं ‘पृथिवी’, शिरसो ऽश्मभागत्वात्, अत्रत्यानि ‘श्मश्रूणि’ एव ‘ओषधयः’ । तदेतद्विश्वमिति । शिरसि दर्शितायाः पृथिव्या वैश्वानरात्मकत्वमुक्तम् । वागिति तत्स्थानमुच्यते । अतश्च वाक्चिबुकयोरौत्तराधर्येणोक्तं वैश्वानरत्वमुपपादयति- सोपरिष्टादिति ॥ ४ ॥

Eggeling
  1. And these worlds are the same as this head,–this (lower part of the head) is the earth, the plants (being) the hair of its beard: this is the All, and Agni is Speech, he is the man. That (speech) is at the top thereof, for Agni is on the top of this (earth).

०५

विश्वास-प्रस्तुतिः

(रि) इद᳘मे᳘वान्त᳘रिक्षम्॥
(न्त᳘) त᳘स्मादेत᳘दलो᳘मकमलो᳘मकमिव᳘[[!!]] ह्यन्त᳘रिक्षं[[!!]] त᳘देतद्वि᳘श्वं प्राण᳘ ऽएव᳘ व्वायुः स न᳘रः स म᳘ध्येनास्य᳘ भवति म᳘ध्येन᳘ ह्यन्त᳘रिक्षस्य[[!!]] व्वायुः[[!!]]॥

मूलम् - श्रीधरादि

(रि) इद᳘मे᳘वान्त᳘रिक्षम्॥
(न्त᳘) त᳘स्मादेत᳘दलो᳘मकमलो᳘मकमिव᳘[[!!]] ह्यन्त᳘रिक्षं[[!!]] त᳘देतद्वि᳘श्वं प्राण᳘ ऽएव᳘ व्वायुः स न᳘रः स म᳘ध्येनास्य᳘ भवति म᳘ध्येन᳘ ह्यन्त᳘रिक्षस्य[[!!]] व्वायुः[[!!]]॥

मूलम् - Weber

इद᳘मेॗवान्त᳘रिक्षम्॥
तस्मा᳘देत᳘दलो᳘मकमलो᳘मकमिव ह्य᳘न्त᳘रिक्षं त᳘देतद्वि᳘श्वम् प्राण᳘ एव᳘ वायुः स न᳘रः स म᳘ध्येनास्य᳘ भवति म᳘ध्येन ह्य᳘न्त᳘रिक्षस्य वायुः᳟॥

मूलम् - विस्वरम्

इदमेवान्तरिक्षम् । तस्मादेतदलोमकम् । अलोमकमिव ह्यन्तरिक्षम् । तदेतद्विश्वम् । प्राण एव वायुः । स नरः । स मध्येनास्य भवति । मध्येन ह्यन्तरिक्षस्य वायुः ॥ ५ ॥

सायणः

इदमिति । ‘इदम्’ इति मुखादुपरितनं दन्तनेत्रनासिकाललाटस्थानं निर्दिश्यते । अलोमकमिव ह्यन्तरिक्षमिति । तत्र पृथिवीवन्महीधरमहीरुहादीनामभावादित्यर्थः । स मध्येनास्येति । वायुरन्तरिक्षस्य मध्यप्रदेशेन वर्त्तत इति ‘सः’ प्राणः ‘अस्य’ निर्दिष्टप्रदेशस्य ‘मध्येन’ वर्तते मध्यस्थाने वर्तते । करणत्वेन विवक्षितत्वात्तृतीया ॥ ५ ॥

Eggeling
  1. This (central part of the face) is the air, whence it is hairless, for hairless, as it were, is the air; it is this All, and Vāyu (the wind) is the breath, he is the man; he is in the middle thereof, for the wind is in the middle of the air.

०६

विश्वास-प्रस्तुतिः

शि᳘र ऽएव द्यौः[[!!]]॥
(र्न᳘) न᳘क्षत्राणि के᳘शास्त᳘देतद्वि᳘श्वं च᳘क्षुरे᳘वादित्यः स न᳘रस्त᳘दव᳘स्ताच्छीर्ष्णो᳘ भवत्यव᳘स्ताद्धि᳘ दिव᳘ ऽआदित्यस्त᳘दस्यैतच्छि᳘रो व्वैश्वानर᳘ ऽआ᳘त्मा ऽय᳘मग्नि᳘श्चित᳘ ऽआत्मा᳘नमे᳘वास्यैत᳘त्सᳫँ᳭स्कृ᳘त्य शि᳘रः प्र᳘तिदधाति॥

मूलम् - श्रीधरादि

शि᳘र ऽएव द्यौः[[!!]]॥
(र्न᳘) न᳘क्षत्राणि के᳘शास्त᳘देतद्वि᳘श्वं च᳘क्षुरे᳘वादित्यः स न᳘रस्त᳘दव᳘स्ताच्छीर्ष्णो᳘ भवत्यव᳘स्ताद्धि᳘ दिव᳘ ऽआदित्यस्त᳘दस्यैतच्छि᳘रो व्वैश्वानर᳘ ऽआ᳘त्मा ऽय᳘मग्नि᳘श्चित᳘ ऽआत्मा᳘नमे᳘वास्यैत᳘त्सᳫँ᳭स्कृ᳘त्य शि᳘रः प्र᳘तिदधाति॥

मूलम् - Weber

शि᳘र एव द्यौः᳟॥
न᳘क्षत्राणि के᳘शास्त᳘देतद्वि᳘श्वं च᳘क्षुरेॗवादित्यः स न᳘रस्त᳘दव᳘स्ताछोर्ष्णो᳘ भवत्यव᳘स्ताद्धि᳘ दिव᳘ आदित्यस्त᳘दस्यैतछि᳘रो वैश्वानर᳘ आॗत्माय᳘मग्नि᳘श्चित᳘ आत्माय᳘मग्नि᳘श्चित᳘ आत्मा᳘नमेॗवास्यैत᳘त्संस्कृ᳘त्य शि᳘रः प्र᳘तिदधाति॥

मूलम् - विस्वरम्

शिर एव द्यौः । नक्षत्राणि केशाः । तदेतद्विश्वम् । चक्षुरेवादित्यः । स नरः । तदवस्ताच्छीर्ष्णो भवति । अवस्ताद्धि दिव आदित्यः । तदस्यैतच्छिरो वैश्वानरः । आत्मा ऽयमग्निश्चितः । आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति ॥ ६ ॥

सायणः

शिर एवेति । अत्र ‘शिरः’- शब्देन ललाटादुपरितनं केशोद्गमस्थानमुच्यते । ‘इदं तच्छिरः’ इत्यत्र गलादुपरितनं सर्वमपि शिरःशब्देन विवक्षितम् । अन्यथा पूर्वोक्तस्यानुपपत्तेः । तदस्यैतदिति । यत एवम् तस्माद्वैश्वानरः ‘अस्य’ प्रजापतेः ‘एतद्’ उक्तप्रकारं ‘शिरः’ । चितो ऽयमग्निस्तु शरीरम् । अत एतेन होमेन ‘अस्य’ आत्मानं ‘संस्कृत्य’ तत्र ‘शिरः’ संबध्नातीत्यर्थः ॥ ६ ॥

Eggeling
  1. The sky is the (upper part of the) head, and the stars are the hair; it is the All, and Āditya (the sun) is the eye, he is the man: it is in the lower part of the (upper) head, for the sun is below the sky. Vaiśvānara is the head thereof, and this built-up Agni (the altar) is the body: thus, having completed his body, he restores the head thereto.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ मारुता᳘ञ्जुहोति॥
प्राणा वै᳘ मारुताः᳘ प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति व्वैश्वानर᳘ᳫँ᳘ हुत्वा शि᳘रो वै व्वैश्वानरः᳘ शीर्षंस्त᳘त्प्राणा᳘न्दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ मारुता᳘ञ्जुहोति॥
प्राणा वै᳘ मारुताः᳘ प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति व्वैश्वानर᳘ᳫँ᳘ हुत्वा शि᳘रो वै व्वैश्वानरः᳘ शीर्षंस्त᳘त्प्राणा᳘न्दधाति॥

मूलम् - Weber

अ᳘थ मारुता᳘न्जुहोति॥
प्राणा वै᳘ मारुताः᳘ प्राणा᳘नेॗवास्मिन्नेत᳘द्दधाति वैश्वानर᳘ᳫं᳘ हुत्वा शि᳘रो वै वैश्वानरः᳘ शीर्षंस्त᳘त्प्राणा᳘न्दधाति॥

मूलम् - विस्वरम्

**अथ मारुतहोमः **

अथ मारुताञ्जुहोति । प्राणा वै मारुताः । प्राणानेवास्मिन्नेतद्दधाति । वैश्वानरं हुत्वा । शिरो वै वैश्वानरः । शीर्षंस्तत्प्राणान्दधाति ॥ ७ ॥

सायणः

वैश्वानरयागानन्तरं मारुतानां होमं विधाय तान् प्राणात्मना प्रशंसति- अथेति । तद्धोमस्य वैश्वानरसम्बन्धादित्यर्थः ॥ ७ ॥

Eggeling
  1. He then offers the (cakes) to the Maruts;–

the Maruts’ (cakes) are the vital airs: he thus puts the vital airs into him (Agni). [He does so] after offering the Vaiśvānara; for the Vaiśvānara is the head: he thus puts vital airs into the head.

०८

विश्वास-प्रस्तुतिः

(त्ये᳘) ए᳘क ऽएष᳘ भवति॥
(त्ये᳘) ए᳘कमिव हि शि᳘रः सप्ते᳘तरे सप्त᳘कपाला य᳘दु वा ऽअ᳘पि बहुकृ᳘त्वः सप्त᳘ सप्त स᳘प्तैव त᳘च्छीर्ष᳘ण्येव त᳘त्सप्त᳘ प्राणा᳘न्दधाति॥

मूलम् - श्रीधरादि

(त्ये᳘) ए᳘क ऽएष᳘ भवति॥
(त्ये᳘) ए᳘कमिव हि शि᳘रः सप्ते᳘तरे सप्त᳘कपाला य᳘दु वा ऽअ᳘पि बहुकृ᳘त्वः सप्त᳘ सप्त स᳘प्तैव त᳘च्छीर्ष᳘ण्येव त᳘त्सप्त᳘ प्राणा᳘न्दधाति॥

मूलम् - Weber

ए᳘क एष᳘ भवति॥
ए᳘कमिव हि शि᳘रः सप्ते᳘तरे सप्त᳘कपाला य᳘दु वा अ᳘पि बहु कृ᳘त्वः सप्त᳘-सप्त सॗप्तैव त᳘छीर्ष᳘ण्येव त᳘त्सप्त᳘ प्राणा᳘न्दधाति॥

मूलम् - विस्वरम्

एक एष भवति । एकमिव हि शिरः । सप्तेतरे सप्तकपालाः । यदु वा अपि बहुकृत्वः सप्त-सप्त-सप्तैव तत् । शीर्षण्येव तत्सप्त प्राणान्दधाति ॥ ८ ॥

सायणः

तान्प्राणात्मना प्रशंस्य प्राणात्मकत्वात्तेषां तदनुविधायिनीं संख्यामाह- एक एष इति । ‘एषः’ वैश्वानरः । ‘इतरे’ मारुताः पुरोडाशाः सप्तसु कपालेषु संस्कृताः सप्त भवेयुः । ‘बहुकृत्वः अपि’ सप्त-सप्तेति यदस्ति एतत्सप्तैव । यद्यपि सप्तानां कपालसप्तकानां मिलिता संख्या एकोनपञ्चाशत् भवति, मरुतां तावत्संख्याकत्वात् । तथापि सप्तधा भागेन ते सप्तैव भवन्ति । अतश्चैतच्छिरस्येव सप्त प्राणान्निदधाति ॥ ८ ॥

Eggeling
  1. That (Vaiśvānara oblation) is a single one, for single, as it were, is the head; the others (viz. the Mārutas) are seven in number, of seven potsherds each; and though ‘seven-seven’ means ‘many times,’ here it is only seven 3: he thus places seven vital airs in the head.

०९

विश्वास-प्रस्तुतिः

नि᳘रुक्त ऽएष᳘ भवति॥
नि᳘रुक्तमिव हि शिरो᳘ ऽनिरुक्ता ऽइ᳘तरे ऽनिरुक्ता इव हि᳘ प्राणास्ति᳘ष्ठन्नेतं᳘ जुहोति ति᳘ष्ठतीव हि शि᳘र ऽआ᳘सीन ऽइ᳘तराना᳘सत ऽइव हि᳘ प्राणाः[[!!]]॥

मूलम् - श्रीधरादि

नि᳘रुक्त ऽएष᳘ भवति॥
नि᳘रुक्तमिव हि शिरो᳘ ऽनिरुक्ता ऽइ᳘तरे ऽनिरुक्ता इव हि᳘ प्राणास्ति᳘ष्ठन्नेतं᳘ जुहोति ति᳘ष्ठतीव हि शि᳘र ऽआ᳘सीन ऽइ᳘तराना᳘सत ऽइव हि᳘ प्राणाः[[!!]]॥

मूलम् - Weber

नि᳘रुक्त एष᳘ भवति॥
नि᳘रुक्तमिव हि शिरो᳘ ऽनिरुक्ता इ᳘तरे ऽनिरुक्ता इव हि᳘ प्राणास्ति᳘ष्ठन्नेतं᳘ जुहोति ति᳘ष्ठतीव हि शि᳘र आ᳘सीन इ᳘तराना᳘सत इव हि᳘ प्राणाः᳟॥

मूलम् - विस्वरम्

निरुक्त एष भवति । निरुक्तमिव हि शिरः । अनिरुक्ता इतरे । अनिरुक्ता इव हि प्राणाः । तिष्ठन्नेतं जुहोति । तिष्ठतीव हि शिरः । आसीन इतरान् । आसत इव हि प्राणाः ॥ ९ ॥

सायणः

अथ तदेव प्राणत्वमुपजीव्य तेषामुपांशुयागादिकमाह- निरुक्त एष इति । ‘एषः’ वैश्वानरः ‘निरुक्तः’ व्यक्तः, उच्चैर्यागो भवति शिरसो व्यक्तत्वात् । ‘इतरे’ मारुताः ‘अनिरुक्ताः’ अव्यक्ता उपांशुयागा भवेयुः । प्राणानामतीन्द्रियत्वेनाव्यक्तत्वादित्यर्थः । तिष्ठतीव हीति । शिर उच्छ्रितत्वात् ‘तिष्ठतीव’ भवति । इन्द्रियाणि तु ‘आसत इव’ आसीनानीव भवन्ति ॥ ९ ॥

Eggeling
  1. That (Vaiśvānara oblation) is (performed in a) distinct (voice), for the head is distinct; but indistinct the other (oblations), for indistinct, as it were, are the vital airs. Standing he offers the former, for the head stands, so to speak; sitting the others, for the vital airs are, so to speak, seated.

१०

विश्वास-प्रस्तुतिः

(स्त) तद्यौ᳘ प्रथमौ᳘ मारुतौ᳘ जुहो᳘ति॥
(ती) इमौ तौ᳘ प्राणौ तौ म᳘ध्ये व्वैश्वानर᳘स्य जुहोति म᳘ध्ये᳘ हीमौ᳘ शीर्ष्णः᳘ प्राणौ[[!!]]॥

मूलम् - श्रीधरादि

(स्त) तद्यौ᳘ प्रथमौ᳘ मारुतौ᳘ जुहो᳘ति॥
(ती) इमौ तौ᳘ प्राणौ तौ म᳘ध्ये व्वैश्वानर᳘स्य जुहोति म᳘ध्ये᳘ हीमौ᳘ शीर्ष्णः᳘ प्राणौ[[!!]]॥

मूलम् - Weber

तद्यौ᳘ प्रथमौ᳘ मारुतौ᳘ जुहो᳘ति॥
इमौ तौ᳘ प्राणौ तौ म᳘ध्ये वैश्वानर᳘स्य जुहोति म᳘ध्येॗ हीमौ᳘ शीर्ष्णः᳘ प्राणौ᳟॥

मूलम् - विस्वरम्

तद् यौ प्रथमौ मारुतौ जुहोति- इमौ तौ प्राणौ । तौ मध्ये वैश्वानरस्य जुहोति । मध्ये हीमौ शीर्ष्णः प्राणौ ॥ १० ॥

सायणः

अथ द्वन्द्वशो मारुतानां होममनूद्य तेषां तत्तद्द्वन्द्वीभूतप्राणात्मकताप्रदर्शनेन होमस्थानप्रकारमाह- तद्यौ प्रथमावित्यादिना । अत्र प्रथमसन्निधानेन द्वितीये उपचारात् प्रथमशब्दप्रयोगः । एवमुत्तरत्र द्वितीयौ तृतीयावित्यत्रापि । इमौ ताविति । ‘तौ’ प्रथमौ ‘प्राणौ’ ‘इमौ’ इति कर्णयोर्हस्तेन निर्देशः । ‘तौ’ ‘वैश्वानरस्य’ पुरोडाशस्य ‘मध्ये जुहोति’- अनयोः श्रोत्रयोः शिरोमध्ये ऽवस्थानात् । अत एव कात्यायनेन “वैश्वानरे वा वैश्वानरं पृथुं कृत्वा” (का. श्रौ. सू. १८ । ६२) इति “अग्नौ वा वैश्वानरे वा” इति विकल्पः सूत्रितः । तत्र अग्नौ होमः शाखान्तरानुसारेण विकल्पितः । वैश्वानरे यदा होमस्तदा वैश्वानरस्य पृथुत्वकरणम् ॥ १० ॥

Eggeling
  1. Now, the first two Māruta (oblations) he offers are these two vital airs (in the ears): he offers them in the middle 4 of the Vaiśvānara (oblations), for these two vital airs are in the middle of the head.

११

विश्वास-प्रस्तुतिः

(णाव᳘) अ᳘थ यौ᳘ द्विती᳘यौ॥
(यावि) इमौ तौ तौ स᳘मन्तिकतरं जुहोति स᳘मन्तिकतरमिव᳘ हीमौ᳘ प्राणौ[[!!]]॥

मूलम् - श्रीधरादि

(णाव᳘) अ᳘थ यौ᳘ द्विती᳘यौ॥
(यावि) इमौ तौ तौ स᳘मन्तिकतरं जुहोति स᳘मन्तिकतरमिव᳘ हीमौ᳘ प्राणौ[[!!]]॥

मूलम् - Weber

अ᳘थ यौ᳘ द्विती᳘यौ॥
इमौ तौ तौ स᳘मन्तिकतरं जुहोति स᳘मन्तिकतरमिवॗ हीमौ᳘ प्राणौ᳟॥

मूलम् - विस्वरम्

अथ यौ द्वितीयौ- इमौ तौ । तौ समन्तिकतरं जुहोति । समन्तिकतरमिव हीमौ प्राणौ ॥ ११ ॥

सायणः

अथ यौ द्वितीयौइमौ ताविति । ‘इमौ’ इति चक्षुषोः निर्देशः । ‘तौ समन्तिकतरम्’ सन्निहिततरं जुहुयात् चक्षुषोः परस्परं सन्निधानेनावस्थानात् । होमस्तु वैश्वानरस्य पश्चाद्भागे कर्तव्यः । पंचमषष्ठयोर्होमस्तृतीयचतुर्थयोः पश्चात् । सप्तमस्य तु होमः सर्वेषां पश्चात्क्रियते । अत एव कात्यायनः- “वैश्वानरमधिश्रित्य दक्षिणोत्तरौ मारुतौ” “पश्चाच्च सन्निकृष्टतरौ” “एवमपरौ” “पश्चादरण्ये ऽनूच्यम्” “होमासादनयोश्च” (का. श्रौ. सू. १८ । ५६-६०) इति । वैश्वानरस्य मारुतानामेकतन्त्रत्वाद्वैश्वानरमधिश्रित्य दक्षिणोत्तरौ मारुतावित्यर्थः । तत्प्रयोगप्रकारस्तु सूत्रतो ऽवगन्तव्यः ॥ ११ ॥

Eggeling
  1. And the second pair are these two (vital airs

in the eyes); he offers them closer together, for closer together, as it were, are these two vital airs.

१२

विश्वास-प्रस्तुतिः

(णाव᳘) अ᳘थ यौ᳘ तृती᳘यौ॥
(यावि) इमौ तौ तौ स᳘मन्तिकतरं जुहोति स᳘मन्तिकतरमिव᳘ हीमौ᳘ प्राणौ व्वा᳘गे᳘वारण्ये ऽनू᳘च्यः सो ऽरण्ये ऽनू᳘च्यो भवति बहु हि᳘ व्वाचा᳘ घोरं᳘ निग᳘च्छति॥

मूलम् - श्रीधरादि

(णाव᳘) अ᳘थ यौ᳘ तृती᳘यौ॥
(यावि) इमौ तौ तौ स᳘मन्तिकतरं जुहोति स᳘मन्तिकतरमिव᳘ हीमौ᳘ प्राणौ व्वा᳘गे᳘वारण्ये ऽनू᳘च्यः सो ऽरण्ये ऽनू᳘च्यो भवति बहु हि᳘ व्वाचा᳘ घोरं᳘ निग᳘च्छति॥

मूलम् - Weber

अ᳘थ यौ᳘ तृती᳘यौ॥
इमौ तौ तौ स᳘मन्तिकतरं जुहोति स᳘मन्तिकतरमिवॗ हीमौ᳘ प्राणौ वा᳘गेॗवारण्ये ऽनूॗच्यः सो ऽरण्ये ऽनू᳘च्यो भवति बहु हि᳘ वाचा᳘ घोरं᳘ निग᳘छति 5

मूलम् - विस्वरम्

अथ यौ तृतीयौ- इमौ तौ । तौ समन्तिकतरं जुहोति । समन्तिकतरमिव हीमौ प्राणौ । वागेवारण्ये ऽनूच्यः । सो ऽरण्ये ऽनूच्यो भवति । बहु हि वाचा घोरं निगच्छति ॥ १२ ॥

सायणः

अथ यौ तृतीयाविमौ तावित्यत्र इमाविति नासिकाविवरयोर्निर्देशः । इत्थं षण्णां मारुतानां तत्प्राणात्मकतामभिधाय ‘अरण्ये ऽनूच्यं’ वागात्मना प्रशंसति- वागेवेति । ‘अरण्ये ऽनूच्यः’ कश्चिदनुवाकः, तेन हूयमानो ऽपि पुरोडाशः “अरण्ये ऽनूच्यो” भवतीत्यादिना तस्य वागात्मतामेवोपपादयति । यतः कारणाद्वाचा बहु घोरं निगच्छति । अरण्ये प्रकाश्यते यः सो ऽनुवाको ऽरण्ये ऽनूच्यो भवति । तस्मादरण्ये ऽनूच्यवचनात्तस्य वागात्मकत्वमुपपन्नमिति भावः ॥ १२ ॥

Eggeling
  1. And the third pair are these two (vital airs in the nostrils). He offers them closer together, for closer together, as it were, are these two vital airs. The one to be recited in the forest 6 is speech: it is to be recited in the forest, for by speech one gets into much terrible (trouble).

१३

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्वैश्वानरमारुता᳘ञ्जुहो᳘ति॥
क्षत्रं वै᳘ व्वैश्वानरो व्वि᳘ण्मारुताः᳘ क्षत्रं᳘ च तद्वि᳘शं च करोति व्वैश्वानरं पू᳘र्व्वं जुहोति क्षत्रं त᳘त्कृत्वा व्वि᳘शं करोति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्वैश्वानरमारुता᳘ञ्जुहो᳘ति॥
क्षत्रं वै᳘ व्वैश्वानरो व्वि᳘ण्मारुताः᳘ क्षत्रं᳘ च तद्वि᳘शं च करोति व्वैश्वानरं पू᳘र्व्वं जुहोति क्षत्रं त᳘त्कृत्वा व्वि᳘शं करोति॥

मूलम् - Weber

य᳘द्वेव᳘ वैश्वानरमारुता᳘न्जुहो᳘ति॥
क्षत्रं वै᳘ वैश्वानरो वि᳘ण्मारुताः᳘ क्षत्रं᳘ च तद्वि᳘शं च करोति वैश्वानरम् पू᳘र्वं जुहोति क्षत्रं त᳘त्कृत्वा वि᳘शं करोति॥

मूलम् - विस्वरम्

यद्वेव वैश्वानरमारुताञ्जुहोति । क्षत्रं वै वैश्वानरो, विण्मारुताः । क्षत्रं च तद्विशं च करोति । वैश्वानरं पूर्वं जुहोति । क्षत्रं तत्कृत्वा विशं करोति ॥ १३ ॥

सायणः

पूर्वं वैश्वानरं शिरोरूपेण मारुतांस्तु तत्तत्प्राणरूपेण उक्तवान् । इदानीं तु तानेव वैश्वानरमारुतान् क्षत्रप्रजात्मना स्तौति- यद्वेवेति । वैश्वानरस्य प्रजापत्यात्मकत्वेन सर्वतः प्राधान्यात् क्षत्रत्वम् । मरुतां प्रजात्वं तैत्तिरीयके श्रूयते- “मरुतो वै देवानां विशः” (तै. सं. ५ । ४ । ७७) इति ॥ १३ ॥

Eggeling
  1. And, again, as to why he offers the Vaiśvānara and Mārutas,–the Vaiśvānara is the ruling power (chieftaincy), and the Mārutas are the clan: he thus sets up both the chief and the clan. The Vaiśvānara he offers first: thus, having set up the chief, he sets up the clan.

१४

विश्वास-प्रस्तुतिः

(त्ये᳘) ए᳘क ऽएष᳘ भवति॥
(त्ये) एकस्थं त᳘त्क्षत्र᳘मेकस्थाᳫँ᳭ श्रि᳘यं करोति बह᳘व ऽइ᳘तरे व्विशि त᳘द्भूमा᳘नं दधाति॥

मूलम् - श्रीधरादि

(त्ये᳘) ए᳘क ऽएष᳘ भवति॥
(त्ये) एकस्थं त᳘त्क्षत्र᳘मेकस्थाᳫँ᳭ श्रि᳘यं करोति बह᳘व ऽइ᳘तरे व्विशि त᳘द्भूमा᳘नं दधाति॥

मूलम् - Weber

ए᳘क एष᳘ भवति॥
एकस्थं त᳘त्क्षत्र᳘मेकस्थां श्रि᳘यं करोति बह᳘व इ᳘तरे विशि त᳘द्भूमा᳘नं दधाति॥

मूलम् - विस्वरम्

एक एष भवति । एकस्थं तत्क्षत्रमेकस्थां श्रियं करोति । बहव इतरे । विशि तद्भूमानं दधाति ॥ १४ ॥

सायणः

अथ तेषामुक्तमेव क्षत्रप्रजात्मकत्वमुपजीव्य तत्संख्यादिकं प्रशंसति- एक एष भवतीति । वैश्वानरस्यैकत्वेन तत्र जातिनिबन्धनं प्राधान्यमेकस्थमेव करोति । अत एव ‘श्रियम्’ अपि ‘एकस्थाम्’ करोति । बहुक्षत्रप्राधान्ये परस्परैकमत्याभावेन राष्ट्रविप्लवप्रसङ्गात् । मारुतानां बहुत्वेन प्रजायामेव ‘भूमानम्’ बहुत्वं निदधाति । प्रजां बव्हीकृतवान् भवति । भूमानमिति “बहोर्लोपो भू च बहोः”- (पा. सू. ६ । ४ । १५८) इति बहुशब्दाद्विहितस्येमनिच इकारस्य लोपः । प्रकृतेश्च भू इत्ययमादेशः ॥ १४ ॥

Eggeling
  1. The former is a single (oblation): he thus makes the ruling power (chieftaincy) to attach to a single (person), and (social) distinction to attach to a single (person). The others are numerous: he thus bestows multiplicity on the clan.

१५

विश्वास-प्रस्तुतिः

नि᳘रुक्त ऽएष᳘ भवति॥
नि᳘रुक्तमिव हि᳘ क्षत्रम᳘निरुक्ता ऽइ᳘तरे᳘ ऽनिरुक्तेव हि व्विट्ति᳘ष्ठन्नेतं᳘ जुहोति ति᳘ष्ठतीव हि᳘ क्षत्रमा᳘सीन ऽइ᳘तराना᳘स्त ऽइव हि व्विट्[[!!]]॥

मूलम् - श्रीधरादि

नि᳘रुक्त ऽएष᳘ भवति॥
नि᳘रुक्तमिव हि᳘ क्षत्रम᳘निरुक्ता ऽइ᳘तरे᳘ ऽनिरुक्तेव हि व्विट्ति᳘ष्ठन्नेतं᳘ जुहोति ति᳘ष्ठतीव हि᳘ क्षत्रमा᳘सीन ऽइ᳘तराना᳘स्त ऽइव हि व्विट्[[!!]]॥

मूलम् - Weber

नि᳘रुक्त एष᳘ भवति॥
नि᳘रुक्तमिव हि᳘ क्षत्रम᳘निरुक्ता इ᳘तरे᳘ ऽनिरुक्तेव हि विट् ति᳘ष्ठन्नेतं᳘ जुहोति ति᳘ष्ठतीव हि᳘ क्षत्रमा᳘सीन इ᳘तराना᳘स्त इव हि वि᳘ट्॥

मूलम् - विस्वरम्

निरुक्त एष भवति । निरुक्तमिव हि क्षत्रम् । अनिरुक्ता इतरे । अनिरुक्तेव हि विट् । तिष्ठन्नेतं जुहोति । तिष्ठतीव हि क्षत्रम् । आसीन इतरान् । आस्त इव हि विट् ॥ १५ ॥

सायणः

निरुक्तमिव हि क्षत्रमिति । स्वाज्ञया सर्वां प्रजामाक्रम्योच्चैर्वर्त्तमानत्वेन क्षत्रस्य निरुक्तत्वम् । प्रजायास्तु तदाज्ञाधीनत्वात् नीचैर्वृत्तेरनिरुक्तत्वम् । अत एव क्षत्रं तिष्ठतीव भवति । प्रजा त्वासीनेव भवति ॥ १५ ॥

Eggeling
  1. The former is (offered in a) distinct (voice), for the ruling power is something distinct, so to speak; and the others are indistinct, for indistinct, so to speak, is the clan. Standing he offers the former, for the ruling power (the chief) stands, so to speak; and sitting (he offers) the others, for the clan sits, so to speak.

१६

विश्वास-प्रस्तुतिः

(ट्तं) तं वा᳘ ऽएत᳘म्॥
(म्पु) पुरो ऽनुवाक्य᳘वन्तं या᳘ज्यवन्तं[[!!]] व्व᳘षट्कृते स्रुचा᳘ जुहोति ह᳘स्तेनैवे᳘तराना᳘सीनः[[!!]] स्वाहाकारे᳘ण क्षत्रा᳘यैव तद्वि᳘शं कृतानुकराम᳘नुवर्त्मानं करोति॥

मूलम् - श्रीधरादि

(ट्तं) तं वा᳘ ऽएत᳘म्॥
(म्पु) पुरो ऽनुवाक्य᳘वन्तं या᳘ज्यवन्तं[[!!]] व्व᳘षट्कृते स्रुचा᳘ जुहोति ह᳘स्तेनैवे᳘तराना᳘सीनः[[!!]] स्वाहाकारे᳘ण क्षत्रा᳘यैव तद्वि᳘शं कृतानुकराम᳘नुवर्त्मानं करोति॥

मूलम् - Weber

तं वा᳘ एत᳘म्॥
पुरो ऽनुवाक्य᳘वन्तं याज्य᳘वन्तं व᳘षट्कृते स्रुचा᳘ जुहोति हस्तेॗनैवे᳘तराना᳘सीनः स्वाहाकारे᳘ण क्षत्रा᳘यैव तद्वि᳘शं कृतानुकराम᳘नुवर्त्मानं करोति॥

मूलम् - विस्वरम्

तं वा एतं पुरो ऽनुवाक्यवन्तं याज्यवन्तं वषट्कृते स्रुचा जुहोति । हस्तेनैवेतरान्- आसीनः स्वाहाकारेण । क्षत्रायैव तद्- विशं कृतानुकरामनुवर्त्मानं करोति ॥ १६ ॥

सायणः

“वैश्वानरं जुहोति, मारुतान् जुहोति”-इति होममात्रविधानात्तत्र विशेषं विधाय प्रशंसति- तं वा एतमिति । पुरो ऽनुवाक्यवन्तं याज्यवन्तमिति । छान्दसो ह्रस्वः । तमेव वैश्वानरं कीदृशं पुरो ऽनुवाक्यवन्तं याज्यवन्तम् । होत्रा वषट्कृते जुह्वा जुहुयात् । इतरान्मारुतान् आसीनो हस्तेन स्वाहाकारेण जुहुयात् । एवं च वैश्वानरस्य पुरो ऽनुवाक्यासम्बन्धनिबन्धनेन यागत्वेन प्राधान्यादितरेषां तु तद्वैलक्षण्येनोपसर्जनत्वात् प्रजां क्षत्राय कृतानुकारिणीमनुगतवर्त्मानं च करोति ॥ १६ ॥

Eggeling
  1. The former he offers with the offering-ladle,

when the Vashaṭ is uttered, with both an invitatory formula (anuvākyā) and an offering-formula (yājyā); with the hand the others sitting, with the Svāhā-call: he thus makes the clan subservient and obedient to the chieftain.

१७

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
कथ᳘मस्यैते᳘ पुरो ऽनुवाक्यवन्तो[[!!]] याज्य᳘वन्तो व्व᳘षट्कृते स्रुचा᳘ हुता᳘ भवन्ती᳘त्येते᳘षां वै᳘ सप्त᳘पदानां मारुता᳘नां या᳘नि त्री᳘णि प्रथमा᳘नि पदा᳘नि सा त्रि᳘पदा गायत्री᳘ पुरो ऽनुवाक्या᳘ ऽथ या᳘नि चत्वा᳘र्युत्तमा᳘नि सा च᳘तुष्पदा त्रिष्टु᳘ब्या᳘ज्येद᳘मेव᳘ कपु᳘च्छलमयं᳘ दण्डः᳘ स्वाहाकारो᳘ व्वषट्कार᳘ ऽएव᳘मु हास्यैते᳘ पुरो ऽनुवा᳘क्यवन्तो[[!!]] या᳘ज्यवन्तो[[!!]] व्व᳘षट्कृते स्रुचा᳘ हुता᳘ भवन्ति॥

मूलम् - श्रीधरादि

त᳘दाहुः 7
कथ᳘मस्यैते᳘ पुरो ऽनुवाक्यवन्तो[[!!]] याज्य᳘वन्तो व्व᳘षट्कृते स्रुचा᳘ हुता᳘ भवन्ती᳘त्येते᳘षां वै᳘ सप्त᳘पदानां मारुता᳘नां या᳘नि त्री᳘णि प्रथमा᳘नि पदा᳘नि सा त्रि᳘पदा गायत्री᳘ पुरो ऽनुवाक्या᳘ ऽथ या᳘नि चत्वा᳘र्युत्तमा᳘नि सा च᳘तुष्पदा त्रिष्टु᳘ब्या᳘ज्येद᳘मेव᳘ कपु᳘च्छलमयं᳘ दण्डः᳘ स्वाहाकारो᳘ व्वषट्कार᳘ ऽएव᳘मु हास्यैते᳘ पुरो ऽनुवा᳘क्यवन्तो[[!!]] या᳘ज्यवन्तो[[!!]] व्व᳘षट्कृते स्रुचा᳘ हुता᳘ भवन्ति॥

मूलम् - Weber

त᳘दाहुः॥
कथ᳘मस्यैते᳘ पुरो ऽनुवाक्य᳘वन्तो याज्य᳘वन्तो व᳘षट्कृते स्रुचा᳘ हुता᳘ भवन्ती᳘त्येते᳘षां वै᳘ सप्त᳘पदानाम् मारुता᳘नां या᳘नि त्री᳘णि प्रथमा᳘नि पदा᳘नि सा त्रि᳘पदा गायत्री᳘ पुरो ऽनुवाक्या᳘थ या᳘नि चत्वा᳘र्युत्तमा᳘नि सा च᳘तुष्पदा त्रिष्टु᳘ब्याॗज्येद᳘मेव᳘ कपु᳘छलमयं᳘ 8 दण्डः᳘ स्वाहाकारो᳘ वषट्कार᳘ एव᳘मु हास्यैते᳘ पुरो ऽनुवाक्य᳘वन्तो याज्य᳘वन्तो व᳘षट्कृते स्रुचा᳘ हुता᳘ भवन्ति॥

मूलम् - विस्वरम्

तदाहुः- कथमस्यैते पुरो ऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता भवन्तीति । एतेषां वै सप्तपदानां मारुतानां यानि त्रीणि प्रथमानि पदानि सा त्रिपदा गायत्री पुरो ऽनुवाक्या । अथ यानि चत्वार्युत्तमानि- सा चतुष्पदा त्रिष्टुप् याज्या । इदमेव कपुच्छलम् । अयं दण्डः । स्वाहाकारो वषट्कारः । एवमु हास्यैते पुरो ऽनुवाक्यवन्तो याज्यवन्तो वषट्कृते स्रुचा हुता भवन्ति ॥ १७ ॥

सायणः

अथ मारुतानामुक्तप्रकारेण होमेन वैश्वानरवद्यागसंपत्तिर्घटते इति सा संपत्तिः कथं भवतीति प्रश्नपूर्वकं तां दर्शयति- तदाहुरिति । एतेषां वै सप्तपदानामिति । अत्र मारुतशब्देन तद्धोमसाधनभूताः “शुक्रज्योतिश्च” (वा. सं. १७ । ८०) इत्यादयो मन्त्राः विवक्ष्यन्ते ते च सप्तपदा भवन्ति । अतश्चैतेषां मन्त्राणां यानि त्रीणि ‘प्रथमानि पदानि’ सन्ति- ‘सा त्रिपदा गायत्री’ सैव ‘पुरो ऽनुवाक्या’ भवति । ‘अथ यानि चत्वारि’ उपरितनानि पदानि सन्ति तानि ‘चतुष्पदा त्रिष्टुप्’ । सैव ‘याज्या’ भवति । ‘इदमेव’ इति प्रसृतिरभिनयेन प्रदर्श्यते । कपुच्छलमिति स्रुचो मुखम् उच्यते । ‘अयम्’ इति बाहुदण्डः प्रदर्श्यते । एवं बाहुरेव स्रुक् इत्युक्तं भवति । स्वाहाकार एव वषट्कारो भवति । इत्थमुक्तेन प्रकारेणास्याग्नेर्यजमानस्य च सम्बन्धिन एव मारुताः पुरो ऽनुवाक्यावन्तो याज्यावंतो ‘वषट्कृते स्रुचा हुता भवन्ति’ ॥ १७ ॥

Eggeling
  1. As to this they say, ‘How do these (Māruta oblations) also come to be offered for him by the offering-ladle, at the Vashaṭ-call, and with invitatory and offering formulas?’ Well, the first three feet of those seven-footed Māruta (verses), being a three-footed Gāyatrī, are the invitatory formula, and the last four, being a four-footed Trishṭubh, are the offering-formula. The one is the bowl, and the other the handle (of the offering-ladle), and the Svāhā-call is the Vashaṭ-call: in this way, then, these (Māruta oblations) also become offered for him by the offering-ladle, at the Vashaṭ-call, and with invitatory and offering-formulas.

१८

विश्वास-प्रस्तुतिः

तद्यं᳘ प्रथमं᳘ दक्षिणतो᳘ मारुतं᳘ जुहो᳘ति॥
याः᳘ सप्त प्रा᳘च्यः स्र᳘वन्ति ताः स स᳘ सप्त᳘कपालो भवति सप्त हि ता याः प्रा᳘च्यः स्र᳘वन्ति॥

मूलम् - श्रीधरादि

तद्यं᳘ प्रथमं᳘ दक्षिणतो᳘ मारुतं᳘ जुहो᳘ति॥
याः᳘ सप्त प्रा᳘च्यः स्र᳘वन्ति ताः स स᳘ सप्त᳘कपालो भवति सप्त हि ता याः प्रा᳘च्यः स्र᳘वन्ति॥

मूलम् - Weber

तद्य᳘म् प्रथमं᳘ दक्षिणतो᳘ मारुतं᳘ जुहो᳘ति॥
याः᳘ सप्त प्रा᳘च्यः स्र᳘वन्ति ताः स स᳘ सप्त᳘कपालो भवति सप्त हि ता याः प्रा᳘च्यः स्र᳘वन्ति॥

मूलम् - विस्वरम्

तद् यं प्रथमं दक्षिणतो मारुतं जुहोति- याः सप्त प्राच्यः स्रवन्ति- ताः सः । स सप्तकपालो भवति । सप्त हि ताः- याः प्राच्यः स्रवन्ति ॥ १८ ॥

सायणः

अथ होमक्रमेण तान्मारुतान् प्रत्येकं नद्यादिरूपेण प्रशंसति- तद्यं प्रथममिति । ‘प्राच्यः’ प्राङ्मुखाः पूर्वसमुद्रगामिन्यो गङ्गायमुनादयो याः ‘सप्त’ नद्यः स्रवन्ति । ‘ताः सः’ प्रथमं दक्षिणभागे हुतो मारुतः पुरोडाशः । स सप्तसु कपालेषु संस्कृतो भवति । या नद्यः प्राच्यः स्रवन्ति तासां सप्तसंख्याप्रदर्शनेन तस्य मारुतस्योक्तसंख्यनद्यात्मकत्वं समर्थ्यते । उत्तरत्र सर्वत्राप्येवमेव ॥ १८ ॥

Eggeling
  1. And the first Māruta (cake) which he offers on the right (south) side, is the seven (rivers) which flow eastwards. It is one of seven potsherds, for there are seven of. those (rivers) which flow eastwards.

१९

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ यं᳘ प्रथम᳘मुत्तरतो᳘ जुहो᳘ति॥
(त्यृ) ऋत᳘वः स स᳘ सप्त᳘कपालो भवति सप्त᳘ ह्यृतवः[[!!]]॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ यं᳘ प्रथम᳘मुत्तरतो᳘ जुहो᳘ति॥
(त्यृ) ऋत᳘वः स स᳘ सप्त᳘कपालो भवति सप्त᳘ ह्यृतवः[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘म् प्रथम᳘मुत्तरतो᳘ जुहो᳘ति॥
ऋत᳘वः स स᳘ सप्त᳘कपालो भवति सप्तॗ ह्यृत᳘वः॥

मूलम् - विस्वरम्

अथ यं प्रथममुत्तरतो जुहोति- ऋतवः सः । स सप्तकपालो भवति । सप्त हि ऋतवः ॥ १९ ॥

सायणः

अधिमासापेक्षया ‘सप्तहि ऋतव’ इत्युक्तम् ॥ १९ ॥

Eggeling
  1. And the first (cake) which he offers on the left (north) side, is the seasons; it is one of seven potsherds, for there are seven seasons.

२०

विश्वास-प्रस्तुतिः

(वो᳘ ऽथ) अ᳘थ यं᳘ द्विती᳘यं दक्षिणतो᳘ जुहो᳘ति॥
पश᳘वः स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ ग्राम्याः᳘ पश᳘वस्तम᳘नन्तर्हितं पू᳘र्व्वस्माज्जुहोत्यप्सु त᳘त्पशून्प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

(वो᳘ ऽथ) अ᳘थ यं᳘ द्विती᳘यं दक्षिणतो᳘ जुहो᳘ति॥
पश᳘वः स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ ग्राम्याः᳘ पश᳘वस्तम᳘नन्तर्हितं पू᳘र्व्वस्माज्जुहोत्यप्सु त᳘त्पशून्प्र᳘तिष्ठापयति॥

मूलम् - Weber

अ᳘थ यं᳘ द्विती᳘यं दक्षिणतो᳘ जुहो᳘ति॥
पश᳘वः स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ ग्राम्याः᳘ पश᳘वस्तम᳘नन्तर्हितम् पू᳘र्वस्माज्जुहोत्यप्सु त᳘त्पशून्प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

अथ यं द्वितीयं दक्षिणतो जुहोति- पशवः सः । स सप्तकपालो भवति । सप्त हि ग्राम्याः पशवः । तमनन्तर्हितं पूर्वस्माज्जुहोति । अप्सु तत्पशून्प्रतिष्ठापयति ॥ २० ॥

सायणः

अनन्तर्हितमिति । ‘तम्’ द्वितीयं पुरोडाशं ‘पूर्वस्मात्’ मारुताद् ‘अनन्तर्हितम्’ अव्यवहितं तत्सम्बद्धं जुहुयात् । एवं पूर्वस्यावात्मकत्वादप्स्वेव पशून् प्रतिष्ठापयति ॥ २० ॥ २१ ॥

Eggeling
  1. And the second (cake) which he offers on the right side, is animals; it is one of seven potsherds, for there are seven domestic animals. He offers it close to the preceding one (representing the rivers): he thus settles animals near water.

२१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यं᳘ द्विती᳘यमुत्तरतो᳘ जुहो᳘ति॥
सप्त ऽऋष᳘यः स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ सप्त ऽर्ष᳘यस्तम᳘नन्तर्हितं पू᳘र्व्वस्माज्जुहोत्यृतु᳘षु तदृ᳘षीन्प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यं᳘ द्विती᳘यमुत्तरतो᳘ जुहो᳘ति॥
सप्त ऽऋष᳘यः स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ सप्त ऽर्ष᳘यस्तम᳘नन्तर्हितं पू᳘र्व्वस्माज्जुहोत्यृतु᳘षु तदृ᳘षीन्प्र᳘तिष्ठापयति॥

मूलम् - Weber

अ᳘थ यं᳘ द्विती᳘यमुत्तररो᳘ जुहो᳘ति॥
सप्त ऋष᳘यः स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ सप्त ऽर्ष᳘यस्तम᳘नन्तर्हितम् पू᳘र्वस्माज्जुहोत्यृतु᳘षु तदृ᳘षीन्प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

अथ यं द्वितीयमुत्तरतो जुहोति- सप्त ऋषयः सः । स सप्तकपालो भवति । सप्त हि सप्तर्षयः । तमनन्तर्हितं पूर्वस्माज्जुहोति- ऋतुषु तदृषीन्प्रतिष्ठापयति ॥ २१ ॥

सायणः

[व्याख्यानं विंशतितमे]

Eggeling
  1. And the second (cake) which he offers on the left side, is the seven R̥shis; it is one of seven potsherds, for the seven R̥shis are seven in number.

He offers it close to the preceding one: he thus establishes the seven R̥shis in the seasons.

२२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यं᳘ तृती᳘यं दक्षिणतो᳘ जुहो᳘ति॥
प्राणाः स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ शीर्ष᳘न्प्राणास्तम᳘नन्तर्हितं पू᳘र्व्वस्माज्जुहोत्य᳘नन्तर्हितांस्त᳘च्छीर्ष्णः᳘ प्राणा᳘न्दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यं᳘ तृती᳘यं दक्षिणतो᳘ जुहो᳘ति॥
प्राणाः स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ शीर्ष᳘न्प्राणास्तम᳘नन्तर्हितं पू᳘र्व्वस्माज्जुहोत्य᳘नन्तर्हितांस्त᳘च्छीर्ष्णः᳘ प्राणा᳘न्दधाति॥

मूलम् - Weber

अ᳘थ यं᳘ तृती᳘य दक्षिणतो᳘ जुहो᳘ति॥
प्राणाः स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ शीर्ष᳘न्प्राणास्तम᳘नन्तर्हितम् पू᳘र्वस्माज्जुहोत्य᳘नन्तर्हितांस्त᳘छीर्ष्णः᳘ प्राणा᳘न्दधाति॥

मूलम् - विस्वरम्

अथ यं तृतीयं दक्षिणतो जुहोति- प्राणाः सः । स सप्तकपालो भवति । सप्त हि शीर्षन्प्राणाः । तमनन्तर्हितं पूर्वस्माज्जुहोति । अनन्तर्हितांस्तच्छीर्ष्णः प्राणान्दधाति ॥ २२ ॥

सायणः

अनन्तर्हितांस्तच्छीर्ष्णः प्राणान्दधातीति । पूर्वमारुतपुरोडाशस्य प्रथममारुतेन सम्बन्धात्तस्य च वैश्वानरेण सम्बन्धात् प्राणान् शिरसो ऽनन्तर्हितानव्यवहितान् करोतीत्यर्थः ॥ २२ ॥

Eggeling
  1. And the third (cake) which he offers on the right side, is the vital airs; it is one of seven potsherds, for there are seven vital airs in the head. He offers it close to the preceding one: he thus puts the vital airs so as to be close to (not separated from) the head.

२३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यं᳘ तृती᳘यमुत्तरतो᳘ जुहो᳘ति॥
च्छ᳘न्दाᳫँ᳭सि स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ चतुरुत्तरा᳘णि च्छ᳘न्दाᳫँ᳭सि तम᳘नन्तर्हितं पू᳘र्व्वस्माज्जुहोत्य᳘नन्तर्हितानि तदृ᳘षिभ्यश्छ᳘न्दाᳫँ᳭सि दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यं᳘ तृती᳘यमुत्तरतो᳘ जुहो᳘ति॥
च्छ᳘न्दाᳫँ᳭सि स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ चतुरुत्तरा᳘णि च्छ᳘न्दाᳫँ᳭सि तम᳘नन्तर्हितं पू᳘र्व्वस्माज्जुहोत्य᳘नन्तर्हितानि तदृ᳘षिभ्यश्छ᳘न्दाᳫँ᳭सि दधाति॥

मूलम् - Weber

अ᳘थ यं᳘ तृती᳘यमुत्तरतो᳘ जुहो᳘ति॥
छ᳘न्दांसि स स᳘ सप्त᳘कपालो भवति सप्त हि᳘ चतुरुत्तरा᳘णि छ᳘न्दांसि तम᳘नन्तर्हितम् पू᳘र्वस्माज्जुहोत्य᳘नन्तर्हितानि तदृ᳘षिभ्यश्छ᳘न्दांसि दधाति॥

मूलम् - विस्वरम्

अथ यं तृतीयमुत्तरतो जुहोति- छन्दांसि सः । स सप्तकपालो भवति । सप्त हि चतुरुत्तराणि च्छन्दांसि । तमनन्तर्हितं पूर्वस्माज्जुहोति । अनन्तर्हितानि तद्यषिभ्यश्छन्दांसि दधाति ॥ २३ ॥

सायणः

सप्त हि चतुरुत्तराणीति । चतुरक्षराधिकानि छन्दासि सप्त भवन्ति । यद्यप्यवान्तरच्छन्दांसि बहूनि सन्ति तथापि चतुरक्षराधिकानि च्छन्दांसि सप्तैवेत्यर्थः । गायत्री चतुर्विंशत्यक्षरा, उष्णिक् पुनरष्टाविंशत्यक्षरा, अनुष्टुप् द्वात्रिंशदक्षरा, एवं बृहतीपङ्क्तित्रिष्टुब्जगत्यश्चतुरक्षराधिका भवन्ति ॥ २३ ॥

Eggeling
  1. And the third (cake) which he offers on the left side, is the metres; it is one of seven potsherds, for there are seven metres increasing by four (syllables respectively). He offers it close to the preceding one: he thus places the metres close to the R̥shis.

२४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ याः᳘ सप्त᳘ प्रती᳘च्यः स्र᳘वन्ति᳘॥
सो ऽरण्ये ऽनू᳘च्यः स᳘ सप्त᳘कपालो भवति सप्त हि ता याः᳘ प्रती᳘च्यः स्र᳘वन्ति᳘ सो ऽस्यैषो᳘ ऽवाङ्प्राण᳘ ऽएत᳘स्य प्रजा᳘पतेः᳘ सो ऽरण्ये ऽनू᳘च्यो भवति तिर᳘ ऽइव तद्यद᳘रण्यं तिर᳘ ऽइव तद्यद᳘वाङ्प्राणस्त᳘स्माद्य᳘ ऽएता᳘सां नदी᳘नां पि᳘बन्ति रिप्र᳘तराः शपन᳘तरा ऽआहनस्य वादि᳘तरा भवन्ति तद्य᳘द्यदेतदा᳘हेदं᳘ मारुता ऽइ᳘ति त᳘दस्मा ऽअ᳘न्नं कृत्वा᳘ ऽपिदधाति ते᳘नैनं प्रीणाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ याः᳘ सप्त᳘ प्रती᳘च्यः स्र᳘वन्ति᳘॥
सो ऽरण्ये ऽनू᳘च्यः स᳘ सप्त᳘कपालो भवति सप्त हि ता याः᳘ प्रती᳘च्यः स्र᳘वन्ति᳘ सो ऽस्यैषो᳘ ऽवाङ्प्राण᳘ ऽएत᳘स्य प्रजा᳘पतेः᳘ सो ऽरण्ये ऽनू᳘च्यो भवति तिर᳘ ऽइव तद्यद᳘रण्यं तिर᳘ ऽइव तद्यद᳘वाङ्प्राणस्त᳘स्माद्य᳘ ऽएता᳘सां नदी᳘नां पि᳘बन्ति रिप्र᳘तराः शपन᳘तरा ऽआहनस्य वादि᳘तरा भवन्ति तद्य᳘द्यदेतदा᳘हेदं᳘ मारुता ऽइ᳘ति त᳘दस्मा ऽअ᳘न्नं कृत्वा᳘ ऽपिदधाति ते᳘नैनं प्रीणाति॥

मूलम् - Weber

अ᳘थ याः᳘ सप्त᳘ प्रती᳘च्यः स्र᳘वन्ति᳟᳟॥
सो ऽरण्ये ऽनू᳘च्यः स᳘ सप्त᳘कपालो भवति सप्त हि ता याः᳘ प्रती᳘च्यः स्र᳘वन्तिॗ सो ऽस्यैषो᳘ ऽवाङ् प्राण᳘ एत᳘स्य प्रजा᳘पतेःॗ सो ऽरण्ये ऽनू᳘च्यो भवन्ति तिर᳘ इव तद्यद᳘रण्यं तिर᳘ इवं तद्यद᳘वाङ् प्राणस्त᳘स्माद्य᳘ एता᳘सां नदी᳘नाम् पि᳘बन्ति रिप्र᳘तराः शपन᳘तरा 9 आहनस्यवादि᳘तरा भवन्ति तद्य᳘द्यदेतदा᳘हेद᳘म् मारुता इ᳘ति त᳘दस्मा अ᳘न्नं कृत्वा᳘पिदधाति ते᳘नैनम् प्रीणाति॥

मूलम् - विस्वरम्

अथ याः सप्त प्रतीच्यः स्रवन्ति- सो ऽरण्ये ऽनूच्यः । स सप्तकपालो भवति । सप्त हि ताः- याः प्रतीच्यः स्रवन्ति । सो ऽस्यैषो ऽवाङ्प्राण एतस्य प्रजापतेः । सो ऽरण्ये ऽनूच्यो भवति । तिर इव तद्- यदरण्यम् । तिर इव तद्- यदवाङ् प्राणः । तस्माद्य एतासां नदीनां पिबन्ति- रिप्रतराः, शपनतराः, आहनस्य वादितरा भवन्ति । तद् यद् यदेतदाह- इदं मारुता इति । तदस्मा अन्नं कृत्वा ऽपिदधाति । तेनैनं प्रीणाति ॥ २४ ॥

सायणः

अथ या इति । ‘सो ऽस्यैषः’ इत्यादिकस्या ऽयमर्थः । ‘सः’ ‘एषः’ ‘अरण्ये ऽनूच्यः’ गणः 10 ‘अवाङ्’ अधस्तनः ‘प्राणः’ इन्द्रियम् । अस्येति पदस्यैवार्थं विवृणोति- एतस्य प्रजापतेरिति । तरुगुल्मादिभूयिष्ठत्वेनाप्रकाशत्वादरण्यं तिरोहितं भवति । अवाङ्प्राणो ऽप्याच्छादितो भवति । अत एव अनेन तस्योक्तमवाङ्प्राणत्वं समर्थितम् । तस्मात्तदात्मिकानाम् ‘एतासां नदीनां’ कर्मणि षष्ठी; नदीः ये पिबन्ति । अथवा अप इत्यध्याहार्य तासामपो ये पिबन्ति, ते ‘रिप्रतराः’ रिप्रमिति पापमुच्यते । पापिष्ठाः । ‘शपनतराः’ अत्यर्थमुपालम्भनीयाः । आहनमिति नीचोक्तिरुच्यते । तस्या अत्यर्थं वादितरा भवन्तीति, मूत्ररूपत्वात्तासां नदीनां तदिदं पयः पिबन्तो ऽतितरां नीचा भवन्तीत्यर्थः । उत्तरकण्डिकायाम् ‘अथ ये ते मारुताः’ इत्यभिधानेन द्रव्यदेवतासम्बन्धप्रतीतेः अन्नं सम्पाद्य ‘अस्मै’ प्रजापतये प्रतिपादयति तेनैनं प्रीणातीत्याह- तद्यद्यदेतदिति ॥ २४ ॥

Eggeling
  1. And the Araṇyenūcya is the seven (rivers) which flow westwards; it is one of seven potsherds, for there are seven of those (rivers) which flow westwards. It is that downward vital air of his. That Araṇyenūcya belongs to this Prajāpati; for the forest (araṇya) is, as it were, concealed, and concealed, as it were, is that downward vital air; whence those who drink of these (downward flowing) rivers become most vile, most blasphemous, most lascivious in their speech. Whenever he here speaks of them as belonging to the Maruts, he makes them food for him (Agni) 11 and offers it to him, and gratifies him thereby.

२५

विश्वास-प्रस्तुतिः

स यः स᳘ व्वैश्वान᳘रः॥
(रो ऽसौ) असौ स᳘ ऽआदित्यो᳘ ऽथ ये ते᳘ मारुता᳘ रश्म᳘यस्ते ते᳘ सप्त᳘ सप्त᳘कपाला भवन्ति स᳘प्त सप्त हि᳘ मारुता᳘ गणाः[[!!]]॥

मूलम् - श्रीधरादि

स यः स᳘ व्वैश्वान᳘रः॥
(रो ऽसौ) असौ स᳘ ऽआदित्यो᳘ ऽथ ये ते᳘ मारुता᳘ रश्म᳘यस्ते ते᳘ सप्त᳘ सप्त᳘कपाला भवन्ति स᳘प्त सप्त हि᳘ मारुता᳘ गणाः[[!!]]॥

मूलम् - Weber

स यः स᳘ वैश्वानॗरो॥
ऽसौ स᳘ आदित्यो᳘ ऽथ ये ते᳘ मारुता᳘ रश्म᳘यस्ते ते᳘ सप्त᳘ सप्त᳘कपाला भवन्ति स᳘प्त-सप्त हि᳘ मारुता᳘ गणाः᳟॥

मूलम् - विस्वरम्

स यः स वैश्वानरः- असौ स आदित्यः । अथ ये ते मारुताः- रश्मयस्ते । ते सप्त सप्तकपाला भवन्ति । सप्त सप्त हि मारुता गणाः ॥ २५ ॥

सायणः

अथ वैश्वानरमादित्यरूपेण मारुतांस्तु रश्मिरूपेण प्रशंसति- स यः स वैश्वानर इति । ‘ते’ च ‘मारुताः’ मरुद्गणसंख्यानुसारेण सप्तकपाला भवेयुरित्याह- ते सप्त सप्तकपाला इति । सप्त सप्त हीति । ‘मारुता गणाः’ सप्त सप्तकानि भवन्ति । एकोनपञ्चाशत्संख्याका मरुतः सप्तधा विभागेन सप्त समुदाया भवन्ति । अतस्तत्संख्यानुसारेण तत्पुरोडाशाः सप्त सप्तकपाला भवेयुः । ननु च पूर्वमेव “सप्तेतरे सप्तकपालाः” इत्यत्र तेनायमेवार्थो ऽभिहितः किमिति स एवात्रोच्यत इति । नैतदस्ति, पूर्वं “यदु वा अपि बहुकृत्वः” इत्यादिना सप्तधा विभागेन ते सर्वे सप्तैव भवन्तीति शिरसि सप्त प्राणान्निदधातीत्युक्तम् । नतु सप्तकपालानां सप्तत्वकरणमुक्तम् । अत्र पुनस्तत्करणमुच्यते ॥ २५ ॥

Eggeling
  1. That Vaiśvānara (cake), doubtless, is yonder sun, and the Māruta (cakes) are those rays. They are of seven potsherds each, for the troops of the Maruts consist of seven each.

२६

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
शुक्र᳘ज्योतिश्च चित्र᳘ज्योतिश्च सत्य᳘ज्योतिश्च ज्यो᳘तिष्मांश्चे᳘ति ना᳘मान्येषामेता᳘नि म᳘ण्डलमे᳘वैत᳘त्सᳫँ᳭स्कृत्या᳘थास्मिन्नेता᳘न्रश्मी᳘न्नामग्रा᳘हं प्र᳘तिदधाति॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
शुक्र᳘ज्योतिश्च चित्र᳘ज्योतिश्च सत्य᳘ज्योतिश्च ज्यो᳘तिष्मांश्चे᳘ति ना᳘मान्येषामेता᳘नि म᳘ण्डलमे᳘वैत᳘त्सᳫँ᳭स्कृत्या᳘थास्मिन्नेता᳘न्रश्मी᳘न्नामग्रा᳘हं प्र᳘तिदधाति॥

मूलम् - Weber

स᳘ जुहोति॥
शुक्र᳘ज्योतिश्च चित्र᳘ज्योतिश्च सत्य᳘ज्योतिश्च ज्यो᳘तिष्मांश्चे᳘ति ना᳘मान्येषामेता᳘नि म᳘ण्डलमेॗवैत᳘त्संस्कृत्या᳘थास्मिन्नेता᳘न्रश्मी᳘न्नामग्रा᳘हम् प्र᳘तिदधाति॥

मूलम् - विस्वरम्

स जुहोति । “शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्च”- (वा. सं. १७ । ८०) इति । नामान्येषामेतानि । मण्डलमेवैतत्संस्कृत्य, अथास्मिन्नेतान् रश्मीन्नामग्राहं प्रतिदधाति ॥ २६ ॥

सायणः

अथ मारुतानां होमे मन्त्रान्दर्शयति- स जुहोतीति । “शुक्रज्योतिश्च 12 चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्च” इत्यादिकैर्मन्त्रैरित्यर्थः । नामान्येषामिति । एतानि शुक्रज्योतिरित्यादीनि एषां रश्मीना नामानि । वैश्वानरस्यादित्यात्मकत्वं मारुतानां च रश्म्यात्मकत्वं प्रागुक्तम् । अतश्चैतैर्नामभिर्होमे आदित्यमेव संस्कृत्याथास्मिन्मण्डले एतानुक्तनाम्नो रश्मीनवस्थापयति ॥ २६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे तृतीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (९-३-१) ॥

Eggeling
  1. He offers (the first Māruta cake), with (Vāj. S. XVII, 80), ‘The clear-lighted, and the bright- lighted, and the true-lighted, and the light, and the clear, and the law-observing, and the sinless one!’–these are their names: having completed that disk (of the sun, in the shape of the Vaiśvānara), he bestows those rays on it by calling them by their names.

  1. 207:1 Cp. VI, 6, 1, 6. Whilst the initiation-offering of the ordinary Soma-sacrifice consists only of a cake on eleven potsherds to Agni and Vishṇu, that of the Agnicayana requires two further oblations, viz. a cake on twelve potsherds to Vaiśvānara, and a rice-pap with ghee to the Ādityas; cf. part iii, p. 247 note. ↩︎

  2. 208:1 Or, rather, in a low voice, the name of the deity being pronounced in an undertone while the oblation is poured into the fire; see VI, 6, 1, 11. No special formula is, however, used on either occasion. ↩︎

  3. 209:1 See VIII, 1, 1, 2. Also VI, 5, 3, 11, where the translation should be altered accordingly. ↩︎

  4. 209:2 In baking the cakes, the Vaiśvānara is placed on the centre of the fire, and the first two Māruta cakes are placed north and south of it, then the following pair of cakes behind the first, but more closely together, and behind these the third pair, still more closely together, and finally the last cake forming, as it were, the apex of a phalanx of Māruta cakes (or wind-deities) protecting (that of) Agni Vaiśvānara. In offering the cakes a similar method is to be followed; except that the first pair of Māruta cakes may be offered, not in the fire itself, but on the previously flattened out Vaiśvānara cake lying on the fire. Whilst the Kātīya-sūtra (XVIII, 4, 23) admits this as an alternative mode (though not very clearly expressed), our passage seems to require it as the only possible mode. Both the Vaiśvānara and the Māruta cakes are offered whole. ↩︎

  5. नियछति Sây. ↩︎

  6. 210:1 ‘Araṇyenūcya’ is the technical term applied to the odd, or seventh, Māruta oblation. According to Sāyaṇa it is so called after an anuvāka of the Saṁhitā, to be recited only in the forest. Possibly, however, it is to the particular formula (Vāj. S. XXXIX, 7), also called ‘vimukha’ (? to be pronounced ‘with averted face’), and containing the names of the seven most terrible Maruts, that the name applies. ↩︎

  7. इयं सप्तदशी कंडिका कपुच्छलश्रुतिः दंडश्रुतिर्वा इत्युच्यते । ↩︎

  8. कपु᳘त्स A. B1. कपु᳘छ C. B2. इयमेव कपुशा Sây. ↩︎

  9. शफन Sây. (?). ↩︎

  10. ण्विमुखेनारण्ये ऽनुच्यम् । का० श्रौ० सू० १८ । ६३ ॥ अरण्ये ऽनूच्यमानः उप्रश्च भीमश्चेति मंत्रो विमुखसंज्ञः । ↩︎

  11. 212:1 Probably, inasmuch as the Maruts (and the Māruta oblations) represent the clansmen who are considered the legitimate ‘food’ or the chief, Agni Vaiśvānara. ↩︎

  12. वैश्वानरे वैश्वानरं पृथुं कृत्वा शुकज्योतिरिति प्रतिमंत्रम् । का० श्रौ० सू० १८ । ६२ । ↩︎