०१

विश्वास-प्रस्तुतिः

अथा᳘तः सम्प्रे᳘ष्यति॥
(त्यु᳘) उ᳘द्यच्छेध्ममु᳘पयच्छोपय᳘मनीरग्न᳘ये प्रह्रिय᳘माणाया᳘नुब्रूह्य᳘ग्नीदे᳘कस्फ्य᳘या ऽनूदे᳘हि ब्र᳘ह्मन्न᳘प्रतिरथं जपे᳘ति॥

मूलम् - श्रीधरादि

अथा᳘तः सम्प्रे᳘ष्यति॥
(त्यु᳘) उ᳘द्यच्छेध्ममु᳘पयच्छोपय᳘मनीरग्न᳘ये प्रह्रिय᳘माणाया᳘नुब्रूह्य᳘ग्नीदे᳘कस्फ्य᳘या ऽनूदे᳘हि ब्र᳘ह्मन्न᳘प्रतिरथं जपे᳘ति॥

मूलम् - Weber

अथा᳘तः सम्प्रे᳘ष्यति॥
उ᳘द्यछेध्ममु᳘पयछोपय᳘मनीरग्न᳘ये प्रह्रिय᳘माणाया᳘नुब्रूह्य᳘ग्नीदेकस्फ्य᳘यानूदे᳘हि ब्र᳘ह्मन्न᳘प्रतिरथं जपे᳘ति॥

मूलम् - विस्वरम्

अथातः सम्प्रेष्यति- उद्यच्छेध्मम्, उपयच्छोपयमनीः, अग्नये प्रह्रियमाणायानुब्रूहि, अग्नीद् ! एकस्फ्यया ऽनूदेहि, ब्रह्मन् ! अप्रतिरथं जप इति ॥ १ ॥

सायणः

इत्थमग्निप्रणयनार्थं यथोक्तं होमं विधायाथ तत्प्रायणौपयिकीः क्रियाः कर्तुं तदुचितं संप्रैषमाह- अथातः संप्रेष्यतीति 1 । प्रणेष्यमाणाग्निसिद्ध्यर्थं गार्हपत्ये प्रक्षिप्तं काष्ठम् ‘इध्मं’ तद् ‘उद्यच्छ’ । अग्निधारणार्थमधस्तात्क्रियमाणाः सिकता उपयमन्यः, ताश्च ‘उपयच्छ’ ताः कुरु । तदेतदुभयं प्रतिप्रस्थातारं प्रत्युच्यते । हे होत ! ‘प्रह्रियमाणाय’ अग्नये ‘अनुब्रूहि’ । अग्निप्रणयनीया ऋचः ‘अनुब्रूहि’ । हे अग्नीत् ! त्वमेकया स्फ्यरेखया ऽनुगच्छ । हे ब्रह्मन् ! “आशुः शिशानः” (वा. सं. १७ । ३३-४९) इत्येतदप्रतिरथाख्यं सूक्तं ‘जप’ इति । एवं तत्र तत्र व्यापारे तं तं ‘संप्रेष्यति’ विनियुञ्ज्यादित्यर्थः ॥ १ ॥

Eggeling
  1. He (the Adhvaryu) then gives orders (to his assistant, the Pratiprasthātr̥); ‘Lift the log 2! hold up the underlayer!’–[To the Hotr̥], ‘Recite for

Agni as he is taken forward!’–‘Agnīdh, follow up with the single sword (-line)!’–‘Brahman, mutter the Apratiratha (hymn)!’

०२

विश्वास-प्रस्तुतिः

(त्ये) एतद्वै᳘ देवा᳘नुपप्रैष्यतः᳘[[!!]]॥
(ऽ) एतं᳘ यज्ञं᳘ तᳫँ᳭स्य᳘मानान्दक्षिणतो᳘ ऽसुरा र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअजिघाᳫँ᳭सन्न᳘ यक्ष्यध्वे न᳘ यज्ञं᳘ तᳫँ᳭स्यध्व ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्ये) एतद्वै᳘ देवा᳘नुपप्रैष्यतः᳘[[!!]]॥
(ऽ) एतं᳘ यज्ञं᳘ तᳫँ᳭स्य᳘मानान्दक्षिणतो᳘ ऽसुरा र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअजिघाᳫँ᳭सन्न᳘ यक्ष्यध्वे न᳘ यज्ञं᳘ तᳫँ᳭स्यध्व ऽइ᳘ति॥

मूलम् - Weber

एतद्वै᳘ देवा᳘नुपप्रैष्य᳘तः॥
एतं᳘ यज्ञं᳘ तंस्य᳘मानान्दक्षिणतो᳘ ऽसुरा र᳘क्षांसि नाष्ट्रा᳘ अजिघांसन्न᳘ यक्ष्यध्वे न᳘ यज्ञं᳘ तंस्यध्व इ᳘ति॥

मूलम् - विस्वरम्

एतद्वै देवानुपप्रैष्यत एतं यज्ञं तंस्यमानान् दक्षिणतो ऽसुरा रक्षांसि नाष्ट्रा अजिघांसन्- ‘न यक्षध्वे, न यज्ञं तस्यध्वे’ इति ॥ २ ॥

सायणः

अत्र संप्रैषे ब्रह्मन्नप्रतिरथं जपेति यदुक्तं तस्योपयोगममिधातुं पुराकल्पमवतारयति- एतद्वा इति । एतस्मिन्काले खलु ‘एतम्’ अग्निचयनाख्यं ‘यज्ञं’ ‘तंस्यमानान्’ करिष्यमाणान् । इडभावश्छान्दसः । अत एवाग्निविहारसमीपे गच्छतो देवान् दक्षिणभागेन एत्य असुरा रक्षांसि च ‘न यक्षध्वे’ लोडर्थे व्यत्ययेन लृट्प्रत्ययः । न यज्ञं तंस्यध्वे विस्तारयध्वमिति ‘अजिघांसन्’ देवांना यज्ञं विहन्तुमैच्छन्नित्यर्थः ॥ २ ॥

Eggeling
  1. For at that time, as the gods were about to come up in order to perform this sacrifice, the Asuras, the mischievous fiends, tried to smite them from the south, saying, ‘Ye shall not sacrifice! ye shall not perform the sacrifice!’

०३

विश्वास-प्रस्तुतिः

ते᳘ देवा ऽइ᳘न्द्रमब्रुवन्॥
(वंस्त्वं) त्वं वै᳘ नः श्रे᳘ष्ठो ब᳘लिष्ठो व्वी᳘र्यवत्तमो ऽसि[[!!]] त्व᳘मिमा᳘नि र᳘क्षाᳫँ᳭सि प्र᳘तियतस्वे᳘ति त᳘स्य वै᳘ मे ब्र᳘ह्म द्विती᳘यमस्त्वि᳘ति तथे᳘ति त᳘स्मै वै बृ᳘हस्प᳘तिं द्विती᳘यमकुर्व्वन्ब्र᳘ह्म वै बृ᳘हस्प᳘तिस्त ऽइ᳘न्द्रेण चैव बृ᳘हस्प᳘तिना च दक्षिणतो᳘ ऽसुरान्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञ᳘मतन्वत॥

मूलम् - श्रीधरादि

ते᳘ देवा ऽइ᳘न्द्रमब्रुवन्॥
(वंस्त्वं) त्वं वै᳘ नः श्रे᳘ष्ठो ब᳘लिष्ठो व्वी᳘र्यवत्तमो ऽसि[[!!]] त्व᳘मिमा᳘नि र᳘क्षाᳫँ᳭सि प्र᳘तियतस्वे᳘ति त᳘स्य वै᳘ मे ब्र᳘ह्म द्विती᳘यमस्त्वि᳘ति तथे᳘ति त᳘स्मै वै बृ᳘हस्प᳘तिं द्विती᳘यमकुर्व्वन्ब्र᳘ह्म वै बृ᳘हस्प᳘तिस्त ऽइ᳘न्द्रेण चैव बृ᳘हस्प᳘तिना च दक्षिणतो᳘ ऽसुरान्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञ᳘मतन्वत॥

मूलम् - Weber

ते᳘ देवा इ᳘न्द्रमब्रुवन्॥
त्वं वै᳘ नः श्रे᳘ष्ठो ब᳘लिष्ठो वीर्य᳘वत्तमो ऽसि त्व᳘मिमा᳘नि र᳘क्षांसि प्र᳘तियतस्वे᳘ति त᳘स्य वै᳘ मे ब्र᳘ह्म द्विती᳘यमस्त्वि᳘ति तथे᳘ति त᳘स्मै वै बृ᳘हस्प᳘तिं द्विती᳘यमकुर्वन्ब्र᳘ह्म वै बृ᳘हस्प᳘तिस्त इ᳘न्द्रेण चैव बृ᳘हस्प᳘तिना च दक्षिणतो ऽसुरान्र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये नाष्ट्र᳘ एतं᳘ यज्ञ᳘मतन्वत॥

मूलम् - विस्वरम्

ते देवा इन्द्रमब्रुवन्- ‘त्वं वै नः श्रेष्ठो बलिष्ठो वीर्यवत्तमो ऽसि, त्वमिमानि रक्षांसि प्रतियतस्व’ इति । ‘तस्य वै मे ब्रह्म द्वितीयमस्तु’ इति । तथेति । तस्मै वै बृहस्पतिं द्वितीयमकुर्वन् । ब्रह्म वै बृहस्पतिः । त इन्द्रेण चैव बृहस्पतिना च दक्षिणतो ऽसुरान्, रक्षांसि, नाष्ट्रा अपहत्य; अभये ऽनाष्ट्र एतं यज्ञमतन्वत ॥ ३ ॥

सायणः

पश्चात्तैर्देवैरस्माकं मध्ये त्वमेव प्रशस्यतमो बलवत्तमश्चासि । बलिष्ठ इत्येतद्विशेषणम् वीर्यवत्तम इति । अतः त्वभिमानि रक्षांसि ‘प्रतियतस्व’ प्रतियत्नं कुरुष्व इत्युक्ते इन्द्रेण ‘मे’ ब्राह्मणो द्वितीयो ऽस्त्वित्युक्तम् । तथैव कुर्म इति बृहस्पतेर्ब्राह्मणत्वात् तमिन्द्रस्य ‘द्वितीयमकुर्वन्’ । तथा कृत्वा ‘ते’ देवाः ‘इन्द्रेण बृहस्पतिना च’ ‘दक्षिणतो’ दक्षिणभागे नाशकान् ‘असुरान्’ ‘रक्षांसि’ चापहत्य ‘अनाष्ट्रे’ अत एव ‘अभये’ प्रदेशे ‘एतं’ प्रकृतं ‘यज्ञम्’ अकुर्वत ॥ ३ ॥

Eggeling
  1. The gods said to Indra, ‘Thou art the highest and mightiest, and strongest of us: do thou hold those fiends in check!’–‘Let the Brahman (n.) be my ally!’ he said.–‘So be it!’ They made Br̥haspati his ally, for Br̥haspati is the Brahman (the priesthood); and having had the Asuras, the mischievous fiends, chased away in the south by Br̥haspati and Indra, they spread this sacrifice in a place free from danger and devilry.

०४

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएत᳘त्क्रियते॥
य᳘द्देवा ऽअ᳘कुर्व्वन्निदं नु ता᳘नि र᳘क्षाᳫँ᳭सि देवै᳘रेवा᳘पहतानि य᳘त्त्वेत᳘त्करो᳘ति य᳘द्देवा ऽअ᳘कुर्व्वंस्त᳘त्करवाणीत्य᳘थो ऽइ᳘न्द्रेण चै᳘वैतद्बृ᳘हस्प᳘तिना च दक्षिणतो᳘ ऽसुरान्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञं᳘ तनुते॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएत᳘त्क्रियते॥
य᳘द्देवा ऽअ᳘कुर्व्वन्निदं नु ता᳘नि र᳘क्षाᳫँ᳭सि देवै᳘रेवा᳘पहतानि य᳘त्त्वेत᳘त्करो᳘ति य᳘द्देवा ऽअ᳘कुर्व्वंस्त᳘त्करवाणीत्य᳘थो ऽइ᳘न्द्रेण चै᳘वैतद्बृ᳘हस्प᳘तिना च दक्षिणतो᳘ ऽसुरान्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञं᳘ तनुते॥

मूलम् - Weber

तद्वा᳘ एत᳘त्क्रियते॥
य᳘द्देवा अ᳘कुर्वन्निदं नु ता᳘नि र᳘क्षांसि देवै᳘रेवा᳘पहतानि यॗत्त्वेत᳘त्करो᳘ति य᳘द्देवा अ᳘कुर्वंस्त᳘त्करवाणीत्य᳘थो इ᳘न्द्रेण चैॗवैतद्बृ᳘हस्प᳘तिना च दक्षिणतो᳘ सुरान्र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये ऽनाष्ट्र᳘ एतं᳘ यज्ञं᳘ तनुते॥

मूलम् - विस्वरम्

तद्वा एतत्क्रियते- यद्देवा अकुर्वन् । इदं नु तानि रक्षांसि देवैरेवापहतानि- यत्त्वेतत्करोति- यद्देवा अकुर्वन्- तत्करवाणीति । अथो ऽइन्द्रेण चैवैतद् बृहस्पतिना च दक्षिणतो ऽसुरान् रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र एतं यज्ञं तनुते ॥ ४ ॥

सायणः

तद्वा एतदित्यादिकस्यायमर्थः । ‘देवाः’ पूर्वं यत्कर्म ‘अकुर्वन्’ एतस्मिन्काले ऽपि ‘तद्’ एव ‘क्रियते’ खलु ‘इदम्’ इत्यपहननक्रियाविशेषणम् । इदं रक्षसामपहननं पूर्वं देवैरेव सम्पादितम्, तस्माच्चरितार्थत्वादेतत्कर्म यद्यपि न करणीयम्; तथापि ‘यदेतत्’ कर्म ‘करोति’ तद् ‘देवाः’ ‘यदकुर्वन्’ ‘तत् करवाणीति’ धिया क्रियते । न तु रक्षसामपहननार्थं तस्य तु देवैरेव सम्पादितत्वात् । किञ्च स्वयमपि चैतेन ‘इन्द्रेण बृहस्पतिना च’ दक्षिणभागस्थितान्नाशकान् ‘असुरान् रक्षांसि’ च ‘अपहत्य’ ‘अनाष्ट्रे’ ‘अभये’ देशे ‘एतं’ कृतवान् भवतीति ॥ ४ ॥

Eggeling
  1. Now what the gods did then, that is done on this occasion. Those fiends, it is true, have now been chased away by the gods themselves, but when he does this, he does so thinking, ‘I will do what the gods did;’ and having had the Asuras, the mischievous fiends, chased away in the south by Indra and Br̥haspati, he performs this sacrifice in a place free from danger and devilry.

०५

विश्वास-प्रस्तुतिः

स यः स ऽइ᳘न्द्रः॥
(ऽ) एष सो᳘ ऽप्रतिरथो᳘ ऽथ यः स बृ᳘हस्प᳘तिरेष स᳘ ब्रह्मा तद्य᳘द्ब्रह्मा᳘ ऽप्रतिरथं ज᳘पती᳘न्द्रेण चै᳘वैतद्बृ᳘हस्प᳘तिना च दक्षिणतो᳘ ऽसुरान्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञं᳘ त᳘नुते त᳘स्माद्ब्रह्मा᳘ ऽप्रतिरथं जपति॥

मूलम् - श्रीधरादि

स यः स ऽइ᳘न्द्रः॥
(ऽ) एष सो᳘ ऽप्रतिरथो᳘ ऽथ यः स बृ᳘हस्प᳘तिरेष स᳘ ब्रह्मा तद्य᳘द्ब्रह्मा᳘ ऽप्रतिरथं ज᳘पती᳘न्द्रेण चै᳘वैतद्बृ᳘हस्प᳘तिना च दक्षिणतो᳘ ऽसुरान्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञं᳘ त᳘नुते त᳘स्माद्ब्रह्मा᳘ ऽप्रतिरथं जपति॥

मूलम् - Weber

स यः स इ᳘न्द्रः॥
एष सो᳘ ऽप्रतिरथो᳘ ऽथ यः स बृ᳘हस्प᳘तिरेष स᳘ ब्रह्मा तद्य᳘द्ब्रह्मा᳘प्रतिरथं ज᳘पती᳘न्द्रेण चैॗवैतद्बृ᳘हस्प᳘तिना च दक्षिणतो᳘ ऽसुरान्र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये ऽनाष्ट्र᳘ एतं᳘ यज्ञं᳘ तनुते त᳘स्माद्ब्रह्मा᳘प्रतिरथं जपति॥

मूलम् - विस्वरम्

स यः स इन्द्रः- एष सो ऽप्रतिरथः । अथ यः स बृहस्पतिः- एष स ब्रह्मा । तद् यद्ब्रह्मा ऽप्रतिरथं जपति- इन्द्रेण चैवैतद् बृहस्पतिना च दक्षिणतो ऽसुरान् रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र एतं यज्ञं तनुते । तस्माद्ब्रह्मा ऽप्रतिरथं जपति ॥ ५ ॥

सायणः

ननु देवाः पूर्वमिन्द्रबृहस्पतिभ्यां रक्षांस्यपाघ्नन्नित्येतदस्तु प्रकृते कः इन्द्रः को वा बृहस्पतिः कथं वा ताभ्यां रक्षसामपहननं कर्तुं युक्तमुपपद्यते इत्याह- स यः स इति । प्रथमतच्छब्देन पूर्वं दक्षिणभागे रक्षसामपहन्ता इन्द्रः परामृश्यते । ‘सः यः’ इन्द्रो ऽस्ति ‘एष सो ऽप्रतिरथः’ इत्यादि स्पष्टम् ॥ ५ ॥

Eggeling
  1. As to that Indra, he is that Apratiratha (irresistible hymn); and as to that Br̥haspati, he is the Brahman (priest) thus, when the Brahman mutters the Apratiratha (hymn) he (the Sacrificer), having the Asuras, the mischievous fiends, chased away in the south, by Indra and Br̥haspati, performs this sacrifice in a place free from danger and devilry. This is why the Brahman mutters the Apratiratha (hymn, Vāj. S. XVII, 33-44; R̥g v. S. X, 103,1-12).

०६

विश्वास-प्रस्तुतिः

(त्या) आशुः शि᳘शानो व्वृषभो न᳘ भीम ऽइ᳘ति॥
(त्यै᳘) ऐ᳘न्द्र्यो ऽभि᳘रूपा द्वा᳘दश भवन्ति द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैत᳘द्दक्षिणतो᳘ ऽसुरान्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति त्रिष्टु᳘ब्भिर्व्व᳘ज्रो वै᳘ त्रिष्टुब्व᳘ज्रेणै᳘वैत᳘द्दक्षिणतो᳘ ऽसुरान्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति ता द्वा᳘विᳫँ᳭शतिर्गाय᳘त्र्यः[[!!]] स᳘म्पद्यन्ते त᳘दाग्ने᳘य्यो भवन्त्यग्निकर्म हि[[!!]]॥

मूलम् - श्रीधरादि

(त्या) आशुः शि᳘शानो व्वृषभो न᳘ भीम ऽइ᳘ति॥
(त्यै᳘) ऐ᳘न्द्र्यो ऽभि᳘रूपा द्वा᳘दश भवन्ति द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैत᳘द्दक्षिणतो᳘ ऽसुरान्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति त्रिष्टु᳘ब्भिर्व्व᳘ज्रो वै᳘ त्रिष्टुब्व᳘ज्रेणै᳘वैत᳘द्दक्षिणतो᳘ ऽसुरान्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति ता द्वा᳘विᳫँ᳭शतिर्गाय᳘त्र्यः[[!!]] स᳘म्पद्यन्ते त᳘दाग्ने᳘य्यो भवन्त्यग्निकर्म हि[[!!]]॥

मूलम् - Weber

आशुः शि᳘शानो वृषभो न᳘ भीम इ᳘ति॥
ऐॗन्द्र्यो ऽभि᳘रूपा द्वा᳘दश भवन्ति द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैत᳘द्दक्षिणतो᳘ ऽसुरान्र᳘क्षांसि नाष्ट्रा अ᳘पहन्ति त्रिष्टु᳘ब्भिर्व᳘ज्रो वै᳘ त्रिष्टुब्व᳘ज्रेणैॗवैत᳘द्दक्षिणतो᳘ ऽसुरान्र᳘क्षांसि नाष्ट्रा अ᳘पहन्ति ता द्वा᳘विंशतिर्गायत्र्यः᳘ स᳘म्पद्यन्ते त᳘दाग्नेॗय्यो भवन्त्यग्निकर्म हि᳟॥

मूलम् - विस्वरम्

“आशुः शिशानो वृषभो न भीमः”- (वा० सं० १७ । ३३) इति । ऐन्द्र्यो ऽभिरूपा द्वादश भवन्ति । द्वादश मासाः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैतद्दक्षिणतो ऽसुरान् रक्षांसि नाष्ट्रा अपहन्ति । त्रिष्टुभिः । वज्रो वै त्रिष्टुप् । वज्रेणैवैतद्दक्षिणतो ऽसुरान् रक्षांसि नाष्ट्रा अपहन्ति । ता द्वाविंशतिर्गायत्र्यः सम्पद्यन्ते । तदाग्नेय्यो भवन्ति । अग्निकर्म हि ॥ ६ ॥

सायणः

अप्रतिरथस्यैव इन्द्रात्मकत्वमुपपादयति आशुः शिशानः इति । मन्त्रप्रतिपाद्यायाः देवतायाः मन्त्रस्य चाभेदात् आशुः शिशान इत्यादिका ऐन्द्र्य ऋचो ऽभिरूपाः सदृशा भवन्तीति इन्द्रत्वेन स्वीकर्तुमुचिता भवन्तीत्यर्थः । अप्रतिरथसूक्तस्थानामृचां द्वादशसंख्यया कृत्स्नाग्नेः सकाशात् असुरा रक्षांसि च अपहन्यन्ते इति प्रशंसति- द्वादश भवन्तीति । अप्रतिरथे ऋचो द्वादश भवन्तीति । तासां छन्दः प्रशंसति- त्रिष्टुब्भिरिति । त्रिष्टुभो वज्रत्वं वज्रिणेन्द्रेण सहोत्पत्तेः । सा चोत्पत्तिः- तैत्तिरीयके श्रूयते- “उरसो बाहुभ्यां पञ्चदशं निरमिमीत तमिन्द्रो देवता ऽन्वसृज्यत त्रिष्टुप् छन्दः” (तै. सं. ७ । १ । १ । ४) इति । अथवा वीर्यवत्त्वात् त्रिष्टुभो वज्रत्वम्, वीर्यवत उरःप्रदेशात्तन्निर्माणात् । अत एव श्रुतं “तस्मात्ते वीर्यावन्तो वीर्याद्ध्यसृज्यन्त” (तै. सं. ७ । १ । १ । ५) इति । ननु प्रकृतस्याग्निकर्मत्वात् तत्रैतासामैन्द्रीणामृचामसमवेतार्थत्वं स्यादित्यत आह- ता द्वाविंशतिरिति । चतुश्चत्वारिंशदक्षरा द्वादश त्रिष्टुभः सम्भूयाष्टाविंशतिपञ्चशताक्षराणि सम्पद्यन्ते । चतुर्विंशत्यक्षराणां गायत्रीणां ‘द्वाविंशतिः’ च तावदक्षरा भवन्ति । अतो द्वादश त्रिष्टुभो मिलित्वा द्वाविंशतिर्गायत्र्यः । ताश्च ‘आग्नेय्यो’ भवन्ति । अग्निना सहोत्पन्नत्वात् । अत एव श्रूयते- “स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवता ऽन्वसृज्यत गायत्री छन्दः” (तै. सं. ७ । १ । १ । ३) इति । प्रकृतं च कर्माग्निसम्बन्धि भवति, तत्प्रणयनात्मकत्वात् । अतस्ता ऋच ऐन्द्र्यो ऽपि छन्दःसम्पत्तिद्वारा प्रकृतकर्मसमवेतार्था एवेत्यर्थः ॥ ६ ॥

Eggeling
  1. ‘The swift (Indra), sharpening (his weapon), like a terrible bull,’–these are twelve suitable (verses) relating to Indra,–a year consists of twelve months, and Agni (the fire-altar) is the year: as great as Agni is, as great as is his measure, by so much he drives off the Asuras, the mischievous fiends, in the south. With trishṭubh 3 (verses he does so),–the Trishṭubh is the thunderbolt: by the thunderbolt he thus drives off the Asuras, the mischievous fiends, in the south. They amount to twenty-two Gāyatrīs 3, and thus they relate to Agni, for this is Agni’s performance.

०७

विश्वास-प्रस्तुतिः

(ह्य᳘) अ᳘थैनमु᳘द्यच्छति॥
(त्यु᳘) उ᳘दु त्वा व्वि᳘श्वे देवा ऽअ᳘ग्ने भ᳘रन्तु चि᳘त्तिभिरि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(ह्य᳘) अ᳘थैनमु᳘द्यच्छति॥
(त्यु᳘) उ᳘दु त्वा व्वि᳘श्वे देवा ऽअ᳘ग्ने भ᳘रन्तु चि᳘त्तिभिरि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थैनमु᳘द्यछति॥
उ᳘दु त्वा वि᳘श्वे देवा अ᳘ग्ने भ᳘रन्तु चि᳘त्तिभिरि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

अथैनमुद्यच्छति । “उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः”- (वा० सं० १७ । ५३) इति । तस्योक्तो बन्धुः ॥ ७ ॥

सायणः

इत्थं ब्रह्मणा कृतस्याप्रतिरथसूक्तजपस्योपयोगमुक्त्वा अथाग्नेरुद्यमनं समन्त्रकं विधत्ते- अथैनमिति 4 । “उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः" इत्यादिना मन्त्रेणेत्यर्थः । तस्य मन्त्रस्य ब्राह्मणं (श. प. ६ । ८ । १ । ७) प्रागुक्तमित्याह- तस्योक्तो बन्धुरिति ॥ ७ ॥

Eggeling
  1. He then takes him up (in the form of a burning piece of firewood), with [Vāj. S. XVII, 53], ‘Upwards may the All-gods bear thee, O Agni, by their thoughts! . . .’ the meaning of this has been explained 5.

०८

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थाभिप्र᳘यन्ति॥
प᳘ञ्च दि᳘शो दै᳘वीर्यज्ञ᳘मवन्तु देवीरि᳘ति देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ दि᳘क्ष्वस्पर्द्धन्त[[!!]] ते᳘ देवा ऽअ᳘सुराणां दि᳘शो ऽवृञ्जत त᳘थै᳘वैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य दि᳘शो व्वृङ्क्ते दै᳘वीरि᳘ति त᳘देना दै᳘वीः कुरुते यज्ञ᳘मवन्तु देवीरि᳘ति यज्ञ᳘मिम᳘वन्तु देवीरि᳘त्येतदपा᳘मतिं दुर्मतिं बा᳘धमाना ऽइ᳘त्यशनाया वा ऽअ᳘मतिरशनाया᳘मपबा᳘धमाना ऽइ᳘त्येत᳘द्रायस्पो᳘षे यज्ञ᳘पतिमाभ᳘जन्तीरि᳘ति रय्यां᳘ च पो᳘षे च यज्ञ᳘पतिमाभ᳘जन्तीरि᳘त्येत᳘द्रायस्पो᳘षे ऽअ᳘धि यज्ञो᳘ ऽअस्थादि᳘ति रय्या᳘ञ्च पो᳘षे चा᳘धि य᳘ज्ञो ऽस्थादि᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थाभिप्र᳘यन्ति॥
प᳘ञ्च दि᳘शो दै᳘वीर्यज्ञ᳘मवन्तु देवीरि᳘ति देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ दि᳘क्ष्वस्पर्द्धन्त[[!!]] ते᳘ देवा ऽअ᳘सुराणां दि᳘शो ऽवृञ्जत त᳘थै᳘वैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य दि᳘शो व्वृङ्क्ते दै᳘वीरि᳘ति त᳘देना दै᳘वीः कुरुते यज्ञ᳘मवन्तु देवीरि᳘ति यज्ञ᳘मिम᳘वन्तु देवीरि᳘त्येतदपा᳘मतिं दुर्मतिं बा᳘धमाना ऽइ᳘त्यशनाया वा ऽअ᳘मतिरशनाया᳘मपबा᳘धमाना ऽइ᳘त्येत᳘द्रायस्पो᳘षे यज्ञ᳘पतिमाभ᳘जन्तीरि᳘ति रय्यां᳘ च पो᳘षे च यज्ञ᳘पतिमाभ᳘जन्तीरि᳘त्येत᳘द्रायस्पो᳘षे ऽअ᳘धि यज्ञो᳘ ऽअस्थादि᳘ति रय्या᳘ञ्च पो᳘षे चा᳘धि य᳘ज्ञो ऽस्थादि᳘त्येतत्[[!!]]॥

मूलम् - Weber

अ᳘थाभिप्र᳘यन्ति॥
प᳘ञ्च दि᳘शो दै᳘वोर्यज्ञ᳘मवन्तु देवीरि᳘ति देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ दिक्ष्व᳘स्पर्धन्त ते᳘ देवा अ᳘सुराणां दि᳘शो वृञ्जत त᳘थैॗवैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य दि᳘शो वृङ्क्ते दै᳘वीरि᳘ति त᳘देना दै᳘वीः कुरुते यज्ञ᳘मवन्तु देवारि᳘ति यज्ञ᳘मिम᳘वन्तु देवीरि᳘त्येतदपा᳘मतिं दुर्मतिम् बा᳘धमाना इ᳘त्यशनाया वा अ᳘मतिरशनाया᳘मपबा᳘धमाना इ᳘त्येत᳘द्रायस्पो᳘षे यज्ञ᳘पतिमाभ᳘जन्तीरि᳘ति रय्यां᳘ च पो᳘स्\ए च यज्ञ᳘पतिमाभ᳘जन्तीरि᳘त्येत᳘द्रायस्पो᳘षे अ᳘धि यज्ञो᳘ अस्थादि᳘ति रय्यां᳘ च पो᳘षे चा᳘धि यॗज्ञो ऽस्थादि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

अथाभिप्रयन्ति । “पञ्च दिशो दैवीर्यज्ञमवन्तु देवीः”- इति । देवाश्चासुराश्चोभये प्राजापत्या दिक्ष्वस्पर्द्धन्त । ते देवा असुराणां दिशो ऽवृञ्जत । तथैवैतद्यजमानो द्विषतो भ्रातृव्यस्य दिशो वृङ्क्ते । दैवीरिति । तदेना दैवीः कुरुते । यज्ञमवन्तु देवीरिति । यज्ञमिममवन्तु देवीरित्येतत् । “अपामतिं दुर्मतिं बाधमानाः”- इति । अशनाया वा ऽअमतिः । अशनायामपबाधमाना इत्येतत् । “रायस्पोषे यज्ञपतिमाभजन्तीः”-इति । रय्यां च पोषे च यज्ञपतिमाभजन्तीरित्येतत् । “रायस्पोषे अधि यज्ञो अस्थात्”- (वा. सं. १७ । ५४) इति । रय्यां च पोषे च अधि यज्ञो ऽस्थादित्येतत् ॥ ८ ॥

सायणः

उद्यमनानन्तरमध्वर्युप्रभृतीनां चित्यं प्रति गमनं विधत्ते- अथेति 6 । अत्र “पञ्च दिशो दैवीः” इत्यादिभिः पञ्चभिर्ऋग्भिराग्नीध्रपर्यन्तं गच्छन्ति । अतस्ता ऋचः क्रमेण व्याचष्टे- देवाश्चासुराश्चेत्यादिना । प्रजापत्यपत्यभूता देवाश्चासुराश्चेत्येते ‘उभये’ दिग्विषये स्पर्द्धां कृतवन्तः । पश्चाद् ‘देवाः असुराणां दिशो ऽवृञ्जत’ उपगमय्य स्वाधीनीकृतवन्तः । मन्त्रे ‘पञ्च दिशः’ इत्यनेन ‘तथैव’ यजमानो ऽपि द्वेषं कुर्वतो ‘भ्रातृव्यस्य’ ‘दिशः’ स्वाधीनाः करोति । ‘दैवीः’ इत्यनेन ‘एना दिशो’ देवसंबन्धिनीः ‘कुरुते’ । असुरेभ्य उपगमय्य देवैः स्वाधीनीकृतत्वाद् ‘दैवीः’ इत्यनेन तथैव सम्पादितवान् भवतीत्यर्थः । ‘यज्ञमवन्तु देवीः’ इत्यनेन प्रकृतस्य यज्ञस्यावनं विवक्षितमिति दर्शयति- यज्ञमिममिति । ‘अमति’ शब्दस्याशनेच्छा ऽर्थ इति व्याचष्टे- अपामतिमिति । “अशनायोदन्यधनाया०” (पा. सू. ७ । ४ । ३४) इत्यादिसूत्रेण ‘अशनाया’ शब्दः क्यजन्तो निपातितः । ‘रायस्पोषे’ इति धने तद्विषये पोषे चेति वक्तुमभिप्रेतमित्याह- रायस्पोष इति । रायस्पोषे अधीत्यत्रापि तथैव विवक्षितमित्याह- रायस्पोषे अधीति । मन्त्रार्थस्तु- ‘दैवीः’ दीव्यन्तीः देवसंबन्धिन्यः ‘पञ्च दिशः’ ‘अमतिम्’ अशनेच्छाम्, ‘दुर्मतिम्’ अशास्त्रीयां मतिं च ‘अपबाधमानाः’ धने तद्विषयपोषणे च यज्ञपतिसम्बन्धिन्यः एनं प्रणीयमानाग्निलक्षणं ‘यज्ञमवन्तु’ । अस्थादिति “छन्दसि लुङ्लङ्लिटः”- (पा. सू. ३ । ४ । ६) इति लोडर्थे लुङ् प्रत्ययः । किञ्चायमपि यज्ञः धने तत्पोषे चाधितिष्ठत्विति प्रथममन्त्रस्यार्थः ॥ ८ ॥

Eggeling
  1. They then go forward, with (Vāj. S. XVII, 54-58), ‘May the divine regions, the goddesses, protect the sacrifice!’–The gods and the Asuras, both of them sprung from Prajāpati, were contending for the regions, and the gods wrested the regions from the Asuras; and in like manner does the Sacrificer now wrest the regions from his hateful rival. ‘Divine’ he says, and thereby makes them divine for himself;–‘may the goddesses protect the sacrifice,’ that is, ‘may the goddesses protect this sacrifice!’–‘keeping off want and ill-will,’–want is hunger: thus, ‘keeping off hunger;’–‘granting

to the lord of the sacrifice a share in wealth-affluence,’ that is, ‘granting to the lord of the sacrifice a share in wealth and in affluence;’ ‘may the sacrifice be founded on wealth-affluence!’–that is, ‘may the sacrifice be founded on wealth and affluence!’

०९

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘मिद्धे ऽअग्नाव᳘धि मामहान ऽइ᳘ति॥
य᳘जमानो वै᳘ मामहा᳘न ऽउक्थ᳘पत्र ऽइ᳘त्युक्था᳘नि᳘ ह्येत᳘स्य प᳘त्राणी᳘ड्य ऽइ᳘ति यज्ञि᳘य ऽइ᳘त्येत᳘द्गृभीत ऽइ᳘ति धारित ऽइ᳘त्येत᳘त्तप्तं᳘ घर्मं᳘ परिगृ᳘ह्यायजन्तेति[[!!]] तप्त᳘ᳫँ᳘[[!!]] ह्येतं᳘ घर्मं᳘ परिगृह्या᳘यजन्तोर्जा य᳘द्यज्ञम᳘यजन्त देवा ऽइ᳘त्यूर्जा᳘ ह्येतं᳘ यज्ञम᳘यजन्त देवाः[[!!]]॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘मिद्धे ऽअग्नाव᳘धि मामहान ऽइ᳘ति॥
य᳘जमानो वै᳘ मामहा᳘न ऽउक्थ᳘पत्र ऽइ᳘त्युक्था᳘नि᳘ ह्येत᳘स्य प᳘त्राणी᳘ड्य ऽइ᳘ति यज्ञि᳘य ऽइ᳘त्येत᳘द्गृभीत ऽइ᳘ति धारित ऽइ᳘त्येत᳘त्तप्तं᳘ घर्मं᳘ परिगृ᳘ह्यायजन्तेति[[!!]] तप्त᳘ᳫँ᳘[[!!]] ह्येतं᳘ घर्मं᳘ परिगृह्या᳘यजन्तोर्जा य᳘द्यज्ञम᳘यजन्त देवा ऽइ᳘त्यूर्जा᳘ ह्येतं᳘ यज्ञम᳘यजन्त देवाः[[!!]]॥

मूलम् - Weber

स᳘मिद्धे अग्नाव᳘धि मामहान इ᳘ति॥
य᳘जमानो वै᳘ मामहा᳘न उक्थ᳘पत्र इ᳘त्युक्था᳘निॗ ह्येत᳘स्य प᳘त्राणी᳘ड्य इ᳘ति यज्ञि᳘यं इ᳘त्येत᳘द्गृभीत इ᳘ति धारित इ᳘त्येत᳘त्तप्तं᳘ घर्म᳘म् परिगृ᳘ह्यायजन्ते᳘ति तॗप्तᳫं ह्येतं᳘ घर्म᳘म् परिगृह्या᳘यजन्तोर्जा य᳘द्यज्ञम᳘यजन्त देवा इ᳘त्यूर्जाॗ ह्येतं᳘ यज्ञम᳘यजन्त देवाः᳟॥

मूलम् - विस्वरम्

“समिद्धे अग्नावधि मामहानः”- इति । यजमानो वै मामहानः । “उक्थपत्रः"- इति । उक्थानि ह्येतस्य पत्राणि । “ईड्यः”- इति । यज्ञिय इत्येतत् । “गृभीतः”- इति । धारित इत्येतत् । “तप्तं घर्मं परिगृह्यायजन्त”- इति । तप्तं ह्येतं घर्मं परिगृह्यायजन्त । “ऊर्जा यद्यज्ञमयजन्त देवाः”- (वा. सं. १७ । ५५) इति । ऊर्जा ह्येतं यज्ञमयजन्त देवाः ॥ ९ ॥

सायणः

यजमानस्यैव पूजकत्वात् ‘मामहान’ शब्दो यजमानपर इत्याह- यजमानो वा इति । अग्नेरुक्थानि स्तोत्रशस्त्राणि पत्राण्यङ्गानि भवन्तीत्यग्निरुक्थपत्र इत्याह- उक्थानि ह्येतस्येति । यद्वा उक्थान्येव पत्रं वाहनं यस्य स उक्थपत्रः, इति । ‘गृभीतः’ इत्यनेनाध्वर्युणा ‘धारित’ इत्येतदुक्तं भवतीत्याह- गृभीत इति । यतो देवाः तप्तं ‘घर्मं’ घर्मलक्षणम् अग्निं ‘परिगृह्य अयजन्त’ अत उच्यते मन्त्रे तप्तं घर्ममित्याह- तप्तं घर्ममिति । उत्तरवाक्यमप्येवमेव व्याचष्टे- ऊर्जेति । ‘ऊर्जा’ आज्यदधिपयःप्रभृतिना रसेनेत्यर्थः । मन्त्रार्थस्तु- सम्यग्दीप्ते अग्नौ प्रणीयमाने मामहानो ऽत्यर्थं पूजको यजमानो ऽधिकारभावेनानुगच्छति । उक्थान्येवाङ्गानि यस्य सः ‘उक्थपत्रः’ ‘ईड्यः’ स्तुत्यो यज्ञियो वा स चाग्निरध्वर्युणा धारितः । किञ्च देवास्तप्तं घर्मात्मकं तमग्निं परिगृह्यायजन्त यतस्तप्तत्वादेव यज्ञरूपम् तम् आज्यादिहविर्लक्षणेनान्नेनाशमयन्तेति द्वितीयस्यार्थः ॥ ९ ॥

Eggeling
  1. ‘Glorifying on the kindled fire,’–the glorifying one is the Sacrificer;–’the hymn-winged,’–for hymns are his wings;–’taken,’–that is, ‘held;’–‘praiseworthy,’–that is, ‘worthy of worship;’–’(when) they sacrificed, encircling the heated cauldron,’–for they did sacrifice, whilst encircling the heated (Pravargya) cauldron; ‘when the gods offered the sacrifice with food,’–for the gods did offer this sacrifice with food.

१०

विश्वास-प्रस्तुतिः

दै᳘व्याय धर्त्रे जो᳘ष्ट्र ऽइ᳘ति॥
दै᳘वो᳘ ह्येष᳘ धर्ता जो᳘षयितृतमो देवश्रीः श्री᳘मनाः शत᳘पया ऽइ᳘ति देवश्री᳘र्ह्येष श्री᳘मनाः शत᳘पयाः परिगृ᳘ह्य देवा᳘ यज्ञ᳘मायन्नि᳘ति परिगृ᳘ह्य᳘ ह्येतं᳘ देवा᳘ यज्ञमा᳘यन्देवा᳘ देवे᳘भ्यो ऽअध्वर्य᳘न्तो ऽअस्थुरि᳘त्यध्वरो वै᳘ यज्ञो᳘ देवा᳘ देवे᳘भ्यो यज्ञिय᳘न्तो ऽस्थुरि᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

दै᳘व्याय धर्त्रे जो᳘ष्ट्र ऽइ᳘ति॥
दै᳘वो᳘ ह्येष᳘ धर्ता जो᳘षयितृतमो देवश्रीः श्री᳘मनाः शत᳘पया ऽइ᳘ति देवश्री᳘र्ह्येष श्री᳘मनाः शत᳘पयाः परिगृ᳘ह्य देवा᳘ यज्ञ᳘मायन्नि᳘ति परिगृ᳘ह्य᳘ ह्येतं᳘ देवा᳘ यज्ञमा᳘यन्देवा᳘ देवे᳘भ्यो ऽअध्वर्य᳘न्तो ऽअस्थुरि᳘त्यध्वरो वै᳘ यज्ञो᳘ देवा᳘ देवे᳘भ्यो यज्ञिय᳘न्तो ऽस्थुरि᳘त्येत᳘त्॥

मूलम् - Weber

दै᳘व्याय धर्त्रे जो᳘ष्ट्र इ᳘ति॥
दै᳘वोॗ ह्येष᳘ धर्ता जो᳘षयितृतमो देवश्रीः श्री᳘मनाः शत᳘पया इ᳘ति देवश्रीॗर्ह्येष श्री᳘मनाः शत᳘पयाः परिगृ᳘ह्य देवा᳘ यज्ञ᳘मायन्नि᳘ति परिगृ᳘ह्यॗ ह्येतं᳘ देवा᳘ यज्ञमा᳘यन्देवा᳘ देवे᳘भ्यो अध्वर्य᳘न्तो अस्थुरि᳘त्यध्वरो वै᳘ यज्ञो᳘ देवा᳘ देवे᳘भ्यो यज्ञिय᳘न्तो ऽथुरि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“दैव्याय धर्त्रे जोष्ट्रे”- इति । दैवो ह्येष धर्ता जोषयितृतमः । “देवश्रीः श्रीमनाः शतपयाः”- इति । देवश्रीर्ह्येष श्रीमनाः शतपयाः । “परिगृह्य देवा यज्ञमायन्”- इति । परिगृह्य ह्येतं देवा यज्ञमायन् । “देवा देवेभ्यो अध्वर्यन्तो अस्थुः"- (वा० सं० १७ । ५६) इति । अध्वरो वै यज्ञः । देवा देवेभ्यो यज्ञियन्तो ऽस्थुरित्येतत् ॥ १० ॥

सायणः

अग्नेर्देवसम्बन्धित्वाद् धारयितृत्वाज्जोषयितृतमत्वाच्चाग्निरेव दैव्यायेत्यादिनोच्यते इत्याह- दैव्यायेति । उत्तरवाक्यद्वयं प्रसिद्धार्थमित्याह- देवश्रीरिति । परिगृह्येति । ‘देवा देवेभ्यः’ इत्यत्र ‘अध्वर्यन्त’ इत्येतत्पदं व्याचष्टे- अध्वरो वा इति । ‘अध्वर्यन्त’ इति “कव्यध्वरपृतनस्यर्चि लोपः”- (पा. सू. ७ । ४ । ३९) इति क्यचि अध्वर्यूकारलोपः । मन्त्रार्थस्तु- देवसम्बन्धिने धारयित्रे जोषयितृतमायाग्नये हविर्दानार्थं तत्प्रणयनं क्रियत इति वाक्यशेषः । किञ्च यो ‘देवश्रीः’ श्रयन्त इति श्रियः देवाः श्रियो यस्य स तथोक्तः । भक्तेभ्यः श्रियं दातुं मनो यस्येति ‘श्रीमनाः’ शतानि पयांसि यस्यासौ ‘शतपयाः’ तमग्निं परिगृह्य देवा यजनप्रदेशं गतवन्तः गत्वा च देवा ऋत्विगादयः देवेभ्यो यज्ञमिच्छन्तः स्थितवन्त इति तृतीयस्यार्थः ॥ १० ॥

Eggeling
  1. ‘To the divine, fostering upholder,’–for he, Agni, is the divine upholder, the most fostering;–‘he, the approacher of gods, the well-disposed, of a hundred draughts,’–for he is indeed an approacher of the gods, and well-disposed, and possessed of a hundred draughts;–’encircling, the gods drew nigh unto the sacrifice,’–for encircling him (Agni), the gods drew nigh to the sacrifice;–’the gods stood ready to perform the cult unto the gods,’–the cult, doubtless, is the sacrifice, thus, ’the gods stood ready to perform the sacrifice to the gods.’

११

विश्वास-प्रस्तुतिः

(द्वी) व्वीत᳘ᳫँ᳘ हविः᳘ शमित᳘ᳫँ᳘ शमिता᳘ यज᳘ध्या ऽइ᳘ति॥
(ती) इष्ट᳘ᳫँ᳘[[!!]] स्विष्टमि᳘त्येत᳘त्तुरी᳘यो यज्ञो य᳘त्र हव्यमेती᳘त्यध्वर्युः᳘ पुर᳘स्ताद्य᳘जूᳫँ᳭षि ज᳘पति हो᳘ता पश्चादृचो᳘ ऽन्वाह ब्र᳘ह्मा[[!!]] दक्षिणतो᳘ ऽप्रतिरथं जपत्येष᳘ ऽएव᳘ तुरी᳘यो यज्ञस्त᳘तो व्वाका᳘ ऽआशि᳘षो नो जुषन्तामि᳘ति त᳘तो नो व्वाका᳘श्चाशि᳘षश्च जुषन्तामि᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(द्वी) व्वीत᳘ᳫँ᳘ हविः᳘ शमित᳘ᳫँ᳘ शमिता᳘ यज᳘ध्या ऽइ᳘ति॥
(ती) इष्ट᳘ᳫँ᳘[[!!]] स्विष्टमि᳘त्येत᳘त्तुरी᳘यो यज्ञो य᳘त्र हव्यमेती᳘त्यध्वर्युः᳘ पुर᳘स्ताद्य᳘जूᳫँ᳭षि ज᳘पति हो᳘ता पश्चादृचो᳘ ऽन्वाह ब्र᳘ह्मा[[!!]] दक्षिणतो᳘ ऽप्रतिरथं जपत्येष᳘ ऽएव᳘ तुरी᳘यो यज्ञस्त᳘तो व्वाका᳘ ऽआशि᳘षो नो जुषन्तामि᳘ति त᳘तो नो व्वाका᳘श्चाशि᳘षश्च जुषन्तामि᳘त्येतत्[[!!]]॥

मूलम् - Weber

वीत᳘ᳫं᳘ हविः᳘ शमितं᳘ शमिता᳘ यज᳘ध्या इ᳘ति॥
इॗष्टᳫं स्विष्टमि᳘त्येत᳘त्तुरी᳘यो यज्ञो य᳘त्र हव्यमेती᳘त्यध्वर्युः᳘ पुर᳘स्ताद्य᳘जूंषि ज᳘पति हो᳘ता पश्चादृचो᳘ ऽन्वाह ब्रह्मा᳘ दक्षिणतो᳘ ऽप्रतिरथं जपत्येष᳘ एव᳘ तुरी᳘यो यज्ञस्त᳘तो वाका᳘ आशि᳘षो नो जुषन्तामि᳘ति त᳘तो नो वाका᳘श्चाशि᳘षश्च जुषन्तामि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“वीतं हविः शमितं शमिता यजध्यै”- इति । इष्टं स्विष्टमित्येतत् । “तुरीयो यज्ञो यत्र हव्यमेति”- इति । अध्वर्युः पुरस्ताद्यजूंषि जपति । होता पश्चादृचो ऽन्वाह । ब्रह्मा दक्षिणतो ऽप्रतिरथं जपति । एष एव तुरीयो यज्ञः । “ततो वाका आशिषो नो जुषन्ताम्”- (वा० सं० १७ । ५७) इति । ततो नो वाकाश्चाशिषश्च जुषन्तामित्येतत् ॥ ११ ॥

सायणः

‘वीतं शमितम्’ इत्यस्य पदद्वयस्यार्थमाह- इष्टं स्विष्टमिति । अध्वर्युहोतृब्रह्मणां यथास्थानं यथायथं मन्त्रजप एव तुरीयो यज्ञ इति व्याचष्टे- अध्वर्युः पुरस्तादिति । ‘वाकाः, आशिषः’ इत्यनयोः शब्दयोः सामानाधिकरण्यशङ्कां निवारयति- ततो नो वाकाश्चाशिषश्चेति । मन्त्रार्थस्तु- शमितेति तृतीयैकवचनस्य सु इत्यादेशः । ‘शमित्रा’ अग्न्यर्थयागीयं हविः वीतम् इष्टं यत्र यस्मिन् प्रणयनदेशे हव्यं हवनार्हमग्निम् तुरीयो यज्ञो गच्छति । तथाविधादस्मादग्नेः अध्वर्य्वादीनाम् अप्रतिरथादयो मन्त्रा वाकाः ऋग्यजुःसामलक्षणानि वाक्यानि, आशिषश्च ‘नः’ अस्माकं जुषन्तामिति चतुर्थस्यार्थः ॥ ११ ॥

Eggeling
  1. ‘The welcome oblation slaughtered by the slaughterer 7 to sacrifice;’–that is, ‘wished-for, much wished-for;’–‘where the fourth sacrifice goeth to the offering,’–the Adhvaryu first mutters the formulas, the Hotr̥ afterwards recites

the verses, the Brahman mutters the Apratiratha (hymn) on the south side; this (set of verses), then, is the fourth sacrifice;–‘may the prayers, the blessings favour us 8!’–that is, ‘may both prayers and blessings favour us!’

१२

विश्वास-प्रस्तुतिः

(त्सू᳘) सू᳘र्यरश्मिर्ह᳘रिकेशः पुर᳘स्तात्॥
(त्स) सविता ज्यो᳘तिरु᳘द्रयाँ२॥ अ᳘जस्रमि᳘त्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्निः स᳘ ऽएष सू᳘र्यरश्मिर्ह᳘रिकेशः पुर᳘स्तात्सवि᳘तैतज्ज्यो᳘तिरु᳘द्यच्छत्य᳘जस्रं त᳘स्य पूषा᳘ प्रसवे᳘ याति व्विद्वानि᳘ति पश᳘वो वै᳘ पूषा त᳘ ऽएत᳘स्य प्रसवे प्रे᳘रते सम्प᳘श्यन्वि᳘श्वा भुवनानि[[!!]] गोपा ऽइ᳘त्येष वा᳘ ऽइदᳫँ᳭ स᳘र्व्वᳫँ᳭ स᳘म्पश्यत्येष᳘ ऽउ ऽए᳘वास्य स᳘र्व्वस्य भु᳘वनस्य गोप्ताः[[!!]]॥

मूलम् - श्रीधरादि

(त्सू᳘) सू᳘र्यरश्मिर्ह᳘रिकेशः पुर᳘स्तात्॥
(त्स) सविता ज्यो᳘तिरु᳘द्रयाँ२॥ अ᳘जस्रमि᳘त्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्निः स᳘ ऽएष सू᳘र्यरश्मिर्ह᳘रिकेशः पुर᳘स्तात्सवि᳘तैतज्ज्यो᳘तिरु᳘द्यच्छत्य᳘जस्रं त᳘स्य पूषा᳘ प्रसवे᳘ याति व्विद्वानि᳘ति पश᳘वो वै᳘ पूषा त᳘ ऽएत᳘स्य प्रसवे प्रे᳘रते सम्प᳘श्यन्वि᳘श्वा भुवनानि[[!!]] गोपा ऽइ᳘त्येष वा᳘ ऽइदᳫँ᳭ स᳘र्व्वᳫँ᳭ स᳘म्पश्यत्येष᳘ ऽउ ऽए᳘वास्य स᳘र्व्वस्य भु᳘वनस्य गोप्ताः[[!!]]॥

मूलम् - Weber

सू᳘र्यरश्मिर्ह᳘रिकेशः पुर᳘स्तात्॥
सविता ज्यो᳘तिरु᳘द्रियां अ᳘जस्रमि᳘त्यसौ वा᳘ आदित्य᳘ एॗषो ऽग्निः स᳘ एष सू᳘र्यरश्मिर्ह᳘रिकेशः पुर᳘स्तात्सविॗतैतज्ज्यो᳘तिरु᳘द्यछत्य᳘जस्रं त᳘स्य पूषा᳘ प्रसवे᳘ याति विद्वानि᳘ति पश᳘वो वै᳘ पूषा त᳘ एत᳘स्य प्रसवे प्रे᳘रते सम्प᳘श्यन्वि᳘श्वा भु᳘वनानि गोपा इ᳘त्येष वा᳘ इदᳫं स᳘र्वᳫं स᳘म्पश्यत्ये᳘ष उ एॗवास्य स᳘र्वस्य भु᳘वनस्य गोप्ताः᳟॥

मूलम् - विस्वरम्

“सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयां अजस्रम्”- इति । असौ वा आदित्य एषो ऽग्निः । स एष सूर्यरश्मिर्हरिकेशः पुरस्तात् सवितैतज्ज्योतिरुद्यच्छत्यजस्रम् । “तस्य पूषा प्रसवे याति विद्वान्”- इति । पशवो वै पूषा । त एतस्य प्रसवे प्रेरते । “सम्पश्यन्विश्वा भुवनानि गोपाः”- (वा. सं. १७ । ५८) इति । एष वा इदं सर्वं सम्पश्यति । एष उ ऽएवास्य सर्वस्य भुवनस्य गोप्ता ॥ १२ ॥

सायणः

एतस्य प्रणीयमानस्याग्नेरादित्यात्मकत्वात् ‘स एषः’ प्रणीयमानाग्निलक्षणः सूर्यस्य च रश्मिभिर्युक्तो हरितवर्णकेशः तेजोरूपः ‘सविता’ अनवच्छिन्नं ‘पुरस्तादुदयान्’ यद् ‘उद्यच्छति’ अतो मन्त्र इममेवार्थमाचष्ट इत्याह-सूर्यरश्मिरिति । पूष्णः पशुजनकत्वेन ‘पूषा’ इति पशवः उच्यन्ते । ‘त एतस्य’ अग्नेरनुज्ञायां प्रवर्त्तन्त इत्ययमर्थो मन्त्रभागेन विवक्षित इत्याह- पशवो वा इति । ‘प्रेरते’ “ईर गतौ” (धा. पा. अ. आ. ८) इत्यस्यादादिकस्य लेटि बहुवचने रूपम् । अग्नेः प्रजापत्यात्मकत्वेन सर्वस्यापि द्रष्टृत्वाद्द्रष्टा रक्षितृत्वाच्च गोपाः तत्रायं संपश्यन्नित्यादिमन्त्रभागः समवेतार्थ इत्याह- संपश्यन्निति । मन्त्रार्थस्तु- सूर्यस्य च रश्मिभिर्युक्तो हरितकेशस्तेजोरूपः प्रणीयमानाग्निः पुरस्तादुद्यच्छति तस्य प्रसवे विद्वान् पूषा याति अग्नेः प्रजापत्यात्मकत्वेन, विश्वा भुवनानि संपश्यन् सर्वस्यापि भुवनस्य द्रष्टृत्वाद्द्रष्टा, ‘गोपाः’ रक्षितृत्वाद् ‘भुवनस्य गोप्ता’ गोपायितेति पञ्चमस्यार्थः ॥ १२ ॥

Eggeling
  1. ‘The sun-rayed, golden-haired Savitr̥ ever lifted up 9 the light in front,’–this Agni, doubtless, is yonder sun, and that sun-rayed, golden-haired Savitr̥ in front ever lifts up that light;–‘at his behest Pūshan goeth, the wise,’–Pūshan, doubtless, means cattle, and they indeed start forth at his (Agni-Sūrya’s) behest;–‘viewing all beings as their guardian,’–for he indeed views everything here, and he is the protector of all this world.

१३

विश्वास-प्रस्तुतिः

तद्या᳘ ऽअमु᳘ष्मादादित्या᳘दर्व्वा᳘च्यः प᳘ञ्च दि᳘शः॥
(स्ता᳘) ता᳘ ऽएत᳘द्देवा ऽअ᳘सुराणामवृञ्जता᳘थो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहंस्ता᳘ ऽउ ऽए᳘वैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य व्वृङ्क्ते᳘ ऽथो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहत्य᳘थो ऽएतद्वा᳘ ऽएता᳘भिर्देवा ऽआ᳘तः सम्प्रा᳘प्नुवंस्त᳘थै᳘वाभिरय᳘मेतदा᳘तः संप्रा᳘प्नोति॥

मूलम् - श्रीधरादि

तद्या᳘ ऽअमु᳘ष्मादादित्या᳘दर्व्वा᳘च्यः प᳘ञ्च दि᳘शः॥
(स्ता᳘) ता᳘ ऽएत᳘द्देवा ऽअ᳘सुराणामवृञ्जता᳘थो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहंस्ता᳘ ऽउ ऽए᳘वैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य व्वृङ्क्ते᳘ ऽथो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहत्य᳘थो ऽएतद्वा᳘ ऽएता᳘भिर्देवा ऽआ᳘तः सम्प्रा᳘प्नुवंस्त᳘थै᳘वाभिरय᳘मेतदा᳘तः संप्रा᳘प्नोति॥

मूलम् - Weber

तद्या᳘ अमु᳘ष्मादादित्या᳘दर्वा᳘ज्यः प᳘ञ्च दि᳘शः॥
ता᳘ एत᳘द्देवा अ᳘सुराणामवृञ्जता᳘थो ता᳘ एॗवैत᳘त्समा᳘रोहंस्ता᳘ उ एॗवैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य वृङ्क्ते᳘ ऽथो ता᳘ एॗवैत᳘त्समा᳘रोहत्य᳘थो एतद्वा᳘ एता᳘भिर्देवा आ᳘तः सम्प्रा᳘प्नुवंस्त᳘थैॗवाभिरय᳘मेतदा᳘तः सम्प्रा᳘प्नोति॥

मूलम् - विस्वरम्

तद् या अमुष्मादादित्यादर्वाच्यः पञ्च दिशः- ता एतद्देवा असुराणामवृञ्जत । अथो ता एवैतत् समारोहन् । ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्ते । अथो ता एवैतत्समारोहति । अथो एतद्वा एताभिर्देवा आतः सम्प्राप्नुवन् । तथैवाभिरयमेतदातः सम्प्राप्नोति ॥ १३ ॥

सायणः

“तथैवैतद्यजमानो द्विषतो भ्रातृव्यस्य दिशो वृङ्क्ते" इति सामान्येनोक्तम् । सम्प्रति ता एव पञ्च दिशो विशिष्य दर्शयन् तासामुक्तमन्त्रैः स्वाधीनतया प्राप्तिमाह- तद्या इति । ‘तद्’ इति देवा यस्मिन् काले असुराणां दिशो ऽवृञ्जत तस्य कालस्य परामर्शः । एतच्छब्देनानन्तरोक्ता मन्त्राः परामृश्यन्ते । ‘अवृञ्जत’ एभ्य उपनमितवन्तः । ‘समारोहन्’ स्वाधीनीकृतवन्तः । अथो इति । किञ्च देवास्तस्मिन्काले एताभिर्ऋग्भिः ‘आतः’ सूर्यावस्थानप्रदेशलक्षणान्तरिक्षपर्यन्तं ‘सम्प्राप्नुवन्’ तद्वदेवायमपि यजमानो भ्रातृव्यतो ऽपगमय्य स्वाधीनीकृताः ताः ‘पञ्च दिशः’ ‘आतः सम्प्राप्नोति’ अन्तरिक्षात्मकाग्नीध्रमण्डपपर्यन्तं सः सम्प्राप्नोति । उक्तैर्मन्त्रैराग्नीध्रपर्यन्तं गमने भ्रातृव्यसम्बन्धित्वादन्तरिक्षादर्वाचीनाः पञ्च दिशस्ततो ऽपगमय्य स्वाधीनतायां संप्राप्ता भवन्तीत्यर्थः ॥ १३ ॥

Eggeling
  1. Now, the gods thereby (viz. by these five verses) wrested from the Asuras the five regions which are on this side of yonder sun, and then ascended them; and so does the Sacrificer now wrest them from his hateful rival, and then ascend them. And by means of them the gods reached this place, and in like manner does this (Sacrificer) by means of them reach this place 10.

१४

विश्वास-प्रस्तुतिः

(त्य) अथा᳘श्मानं पृ᳘श्निमु᳘पदधाति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ ऽश्मा पृ᳘श्निरमु᳘मे᳘वैत᳘दादित्यमु᳘पदधाति पृ᳘श्निर्भवति रश्मि᳘भिर्हि म᳘ण्डलं पृ᳘श्नि तम᳘न्तरेणाहवनी᳘यं च गा᳘र्हपत्यं चो᳘पदधात्ययं वै᳘ लोको गा᳘र्हपत्यो द्यौ᳘राहवनी᳘य ऽएतं त᳘दिमौ᳘ लोकाव᳘न्तरेण दधाति त᳘स्मादेष᳘ ऽइमौ᳘ लोकाव᳘न्तरेण तपति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘श्मानं पृ᳘श्निमु᳘पदधाति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ ऽश्मा पृ᳘श्निरमु᳘मे᳘वैत᳘दादित्यमु᳘पदधाति पृ᳘श्निर्भवति रश्मि᳘भिर्हि म᳘ण्डलं पृ᳘श्नि तम᳘न्तरेणाहवनी᳘यं च गा᳘र्हपत्यं चो᳘पदधात्ययं वै᳘ लोको गा᳘र्हपत्यो द्यौ᳘राहवनी᳘य ऽएतं त᳘दिमौ᳘ लोकाव᳘न्तरेण दधाति त᳘स्मादेष᳘ ऽइमौ᳘ लोकाव᳘न्तरेण तपति॥

मूलम् - Weber

अथा᳘श्मानम् पृ᳘श्निमु᳘पदधाति॥
असौ वा᳘ आदित्यो᳘ ऽश्मा पृ᳘श्निरमु᳘मेॗवैत᳘दादित्यमु᳘पदधाति पृ᳘श्निर्भवति रश्मि᳘भिर्हि म᳘ण्डलम् पृ᳘श्नि तम᳘न्तरेणाहवनी᳘यं च गा᳘र्हपत्यं चो᳘पदधात्ययं वै᳘ लोको गा᳘र्हपत्यो द्यौ᳘राहवनी᳘य एतं त᳘दिमौ᳘ लोकाव᳘न्तरेण दधाति त᳘स्मादेष᳘ इमौ᳘ लोकाव᳘न्तरेण तपति॥

मूलम् - विस्वरम्

अथाश्मानं पृश्निमुपदधाति । असौ वा आदित्यो ऽश्मा पृश्निः । अमुमेवैतदादित्यमुपदधाति । पुश्निर्भवति । रश्मिभिर्हि मण्डलं पृश्नि । तमन्तरेणाहवनीयं च गार्हपत्यं चोपदधाति । अयं वै लोको गार्हपत्यः, द्यौराहवनीयः । एतं तदिमौ लोकावन्तरेण दधाति । तस्मादेष इमौ लोकावन्तरेण तपति ॥ १४ ॥

सायणः

उक्तैर्मन्त्रैः आग्नीध्रपर्यन्तं गत्वा तत्रैकस्य पृश्निवर्णस्याश्मन उपधानं विधत्ते- अथेति 11 । पृश्निशब्देन श्वैत्यमुच्यते । पृश्नेरश्मन उपधानेनादित्यस्यैवोपधानं भवतीत्याह- असौ वा आदित्य इति । आदित्यमण्डलसादृश्यप्रदर्शनेनोक्तमश्मनः पृश्नित्वमुपपादयति- पृश्निर्भवतीति । तस्य चाश्मन उपधानं गार्हपत्याहवनीययोर्मध्ये कर्तव्यमित्याह- तमन्तरेणेति । गार्हपत्याहवनीययोरधस्तनोपरितनलोकद्वयात्मकत्वाल्लोकद्वयस्य च मध्ये सूर्यस्य तपनात् सूर्यात्मकस्याश्मनस्तत्रोपधानमुपपन्नमित्याह- अयं वै लोक इति । गार्हपत्याहवनीययोर्मध्यभागस्योपधानस्थानतया विधानात् आग्नीध्रादन्यत्रापि तदुपधानं स्यात् इत्यत आह- आग्नीध्रवेलायामिति । वेलाशब्दः अवकाशमाचष्टे- गार्हपत्याहवनीययोरधस्तनोपरितनलोकात्मकयोर्मध्यवर्त्तित्वेनाग्नीध्रस्यान्तरिक्षत्वम् । ‘व्यध्व’ इत्यर्द्धमार्ग उच्यते । तत्रैतस्याश्मन उपधानं क्रियते । तस्मात् ‘इतः’ प्रदेशात् ‘व्यध्वे’ अर्द्धमार्गे ‘एषः’ सूर्यस्तपतीत्यर्थः ॥ १४ ॥ १५ ॥

Eggeling
  1. He then sets up a variegated stone;–the

variegated stone, doubtless, is yonder sun: it is thus yonder sun that is set up. It is variegated, for by means of its rays that disk is variegated. He sets it up between the Āhavanīya and the Gārhapatya; for the Gārhapatya is this (terrestrial) world, and the Āhavanīya is the sky: he thus places him (the sun) between these two worlds, whence he shines between these two worlds.

१५

विश्वास-प्रस्तुतिः

(त्या) आग्नीध्रवेला᳘याम्॥
(म) अन्त᳘रिक्षं वा ऽआ᳘ग्नीध्रमेतं त᳘दन्त᳘रिक्षे दधाति त᳘स्मादे᳘षो ऽन्त᳘रिक्षायतनो᳘ व्व्यध्वे᳘[[!!]] व्व्यध्वे᳘[[!!]] ह्येष᳘ ऽइतः[[!!]]॥

मूलम् - श्रीधरादि

(त्या) आग्नीध्रवेला᳘याम्॥
(म) अन्त᳘रिक्षं वा ऽआ᳘ग्नीध्रमेतं त᳘दन्त᳘रिक्षे दधाति त᳘स्मादे᳘षो ऽन्त᳘रिक्षायतनो᳘ व्व्यध्वे᳘[[!!]] व्व्यध्वे᳘[[!!]] ह्येष᳘ ऽइतः[[!!]]॥

मूलम् - Weber

आग्नीध्रवेला᳘याम्॥
अन्त᳘रिक्षं वा आ᳘ग्नीध्रमेतं त᳘दन्तरिक्षे दधाति त᳘स्मादेॗषो ऽन्त᳘रिक्षायतनो व्य᳘ध्वे व्य᳘ध्वेॗ ह्येष᳘ इतः᳟॥

मूलम् - विस्वरम्

आग्नीध्रवेलायाम् । अन्तरिक्षं वा आग्नीध्रम् । एतं तदन्तरिक्षे दधाति । तस्मादेषो ऽन्तरिक्षायतनः । व्यध्वे । व्यध्वे ह्येष इतः ॥ १५ ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. On the Āgnīdhra range 12 (he places it), for the Āgnīdhra’s fire-shed is the air; he thus places it in the air, whence that (sun) has the air for his seat. Halfway (between the two fires he places it); for that (sun) is halfway from this (earth).

१६

विश्वास-प्रस्तुतिः

स᳘ ऽएष᳘ प्राणः᳘॥
प्राण᳘मे᳘वैत᳘दात्म᳘न्धत्ते त᳘देतदा᳘युरा᳘युरे᳘वैत᳘दात्म᳘न्धत्ते त᳘देतद᳘न्नमायु᳘र्ह्येतद᳘न्नमु वा ऽआ᳘युर᳘श्मा भवति स्थिरो वा ऽअ᳘श्मा स्थिरं तदा᳘युः कुरुते पृ᳘श्निर्भवति पृ᳘श्नीव ह्य᳘न्नम्॥

मूलम् - श्रीधरादि

स᳘ ऽएष᳘ प्राणः᳘॥
प्राण᳘मे᳘वैत᳘दात्म᳘न्धत्ते त᳘देतदा᳘युरा᳘युरे᳘वैत᳘दात्म᳘न्धत्ते त᳘देतद᳘न्नमायु᳘र्ह्येतद᳘न्नमु वा ऽआ᳘युर᳘श्मा भवति स्थिरो वा ऽअ᳘श्मा स्थिरं तदा᳘युः कुरुते पृ᳘श्निर्भवति पृ᳘श्नीव ह्य᳘न्नम्॥

मूलम् - Weber

स᳘ एष᳘ प्राणः᳟॥
प्राण᳘मेॗवैत᳘दात्म᳘न्धत्ते त᳘देतदा᳘युरा᳘युरेॗवैत᳘दात्म᳘न्धत्ते त᳘देतद᳘न्नमायुॗर्ह्येतद᳘न्नमु वा आ᳘युर᳘श्मा भवति स्थिरो वा अ᳘श्मा स्थिरं तदा᳘युः कुरुते पृ᳘श्निर्भवति पृ᳘श्नीव ह्य᳘न्नम्॥

मूलम् - विस्वरम्

स एष प्राणः । प्राणमेवैतदात्मन्धत्ते । तदेतदायुः । आयुरेवैतदात्मन्धत्ते । तदेतदन्नम् । आयुर्ह्येतत् । अन्नमु वा आयुः । अश्मा भवति । स्थिरो वा अश्मा । स्थिरं तदायुः कुरुते । पृश्निर्भवति । पृश्नीव ह्यन्नम् ॥ १६ ॥

सायणः

अथ तस्याश्मन आदित्यात्मकत्वादादित्यस्य च प्राणाद्यात्मकत्वात् तदुपधानेनात्मनि प्राणादिधारणं सम्पाद्यत इत्याह- स एष इति । ‘सः’ आदित्यात्मकः ‘एषः’ अश्मा ‘प्राणः’ प्राणात्मकादित्यरूपत्वात् । आदित्यस्य च प्राणत्वं तदुदये प्राणिनश्चेष्टन्ते । तदस्तमये तु न चेष्टन्त इति । अत एव श्रूयते- “यो ऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति, असौ यो ऽस्तमेति स सर्वेषां भूतानां प्राणानादायास्तमेति”- (तै. आ. १ । १४ । १) इति । प्राणत्वादेवायूरूपत्वं प्राणिनामेव जीवनकालसम्बन्धात् । आयुर्ह्येतदिति । एषः ‘अश्मा’ यतः कारणात् ‘आयुः’ एव ‘एतद्’ इति नपुंसकलिङ्गमायुरित्येतदपेक्षम् । तद् ‘आयुः’ अन्नम् । तद्वतामेव भोक्तृत्वात् । यत् एतदन्नं तस्मात्तदुपधानेन स्वकीय आत्मनि प्राणादीन् धारितवान् सम्भवति ॥ १६ ॥

Eggeling
  1. This (stone) is the breath,–he thus puts the breath into the body; and it is the vital power,–he thus puts vital power into the body; it is food, for it is vital power, and vital power is indeed food. It is a stone, for a stone is firm: he thus makes the vital power firm. It is variegated, for food is variegated (varied).

१७

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स उ᳘पदधाति॥
व्विमा᳘न ऽएष᳘ दिवो म᳘ध्य ऽआस्त ऽइ᳘ति व्विमा᳘नो᳘ ह्येष᳘ दिवो म᳘ध्य ऽआस्त ऽआपप्रिवान्रो᳘दसी ऽअन्त᳘रिक्षमि᳘त्युद्यन्वा᳘ ऽएष᳘ ऽइमाल्ँ᳘लोकाना᳘पूरयति स᳘ व्विश्वा᳘चीरभि᳘चष्टे घृता᳘चीरि᳘ति स्रु᳘चश्चैतद्वे᳘दीश्चाहान्तरा पू᳘र्व्वम᳘परं च केतुमि᳘त्यन्त᳘रेमं᳘ च लोक᳘ममुं चे᳘त्येतद᳘थो य᳘च्चेद᳘मेत᳘र्हि चीय᳘ते य᳘च्चादः पू᳘र्वम᳘चीयते᳘ति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स उ᳘पदधाति॥
व्विमा᳘न ऽएष᳘ दिवो म᳘ध्य ऽआस्त ऽइ᳘ति व्विमा᳘नो᳘ ह्येष᳘ दिवो म᳘ध्य ऽआस्त ऽआपप्रिवान्रो᳘दसी ऽअन्त᳘रिक्षमि᳘त्युद्यन्वा᳘ ऽएष᳘ ऽइमाल्ँ᳘लोकाना᳘पूरयति स᳘ व्विश्वा᳘चीरभि᳘चष्टे घृता᳘चीरि᳘ति स्रु᳘चश्चैतद्वे᳘दीश्चाहान्तरा पू᳘र्व्वम᳘परं च केतुमि᳘त्यन्त᳘रेमं᳘ च लोक᳘ममुं चे᳘त्येतद᳘थो य᳘च्चेद᳘मेत᳘र्हि चीय᳘ते य᳘च्चादः पू᳘र्वम᳘चीयते᳘ति॥

मूलम् - Weber

स उ᳘पदधाति॥
विमा᳘न एष᳘ दिवो म᳘ध्य आस्त इ᳘ति विमा᳘नोॗ ह्येष दिवो म᳘ध्य आस्त आपप्रिवान्रो᳘दसी अन्त᳘रिक्षमि᳘त्युद्यन्वा᳘ एष᳘ इमां᳘लोकाना᳘पूरयति स᳘ विश्वा᳘चीरभि᳘चष्टे घृता᳘चीरि᳘ति स्रु᳘चश्चैतद्वे᳘दीश्चाहान्तरा पू᳘र्वम᳘परं च केतुमि᳘त्यन्तॗरेमं᳘ च लोक᳘ममुं चे᳘त्येतद᳘थो य᳘च्चेद᳘मेत᳘र्हि चीय᳘ते य᳘च्चादः पू᳘र्वम᳘चीयते᳘ति॥

मूलम् - विस्वरम्

स उपदधाति । “विमान एष दिवो मध्य आस्ते”- इति । विमानो ह्येष दिवो मध्य आस्ते । “आपप्रिवान्रोदसी अन्तरिक्षम्”- इति । उद्यन्वा एष इमांल्लोकानापूरयति । “स विश्वाचीरभिचष्टे घृताचीः”- इति । स्रुचश्चैतद्वेदीश्चाह । “अन्तरा पूर्वमपरञ्च केतुम्”- (वा. सं. १७ । ५९) इति । अन्तरेमं च लोकममुं चेत्येतत् । अथो यच्चेदमेतर्हि चीयते, यच्चादः पूर्वमचीयतेति ॥ १७ ॥

सायणः

अथ तस्योपधाने मन्त्रद्वयं प्रदर्शयन् व्याचष्टे- स उपदधाति विमान एष इति । ‘हि’ यस्मात्कारणात् ‘एषः’ सूर्यो भूतग्रामस्य निर्माता द्युलोकस्य ‘मध्य आस्ते’ अत उक्तम् ‘विमान’ इति । उदयमानः सूर्यः पृथिव्यादीन् स्वप्रकाशेनापूरयतीति तमर्थमाहेति व्याचष्टे- आपप्रिवानिति । “प्रा पूरणे”- (धा. पा. अ. प. ५१) इत्यस्माद्वर्त्तमानार्थस्य लिटः क्वसुरादेशः । ‘विश्वाची घृताची’- पदाभ्यां विश्वेषां हविषां घृतानां च स्थापनाद् वेदयः स्रुचश्च विवक्ष्यन्त इत्याह- स विश्वाचीरिति । पूर्वमपरमिति पृथिवीद्युलोकावभिधीयेते । किञ्च पूर्वमित्यनेन पूर्वचितो गार्हपत्य उच्यते, अपरमित्यनेन तदानीं चीयमान आहवनीय इति व्याचष्टे- अन्तरा पूर्वमिति । भूतग्रामस्य निर्माता द्यावापृथिव्यौ अन्तरिक्षं चा समन्तात्पूरयन् एष सूर्यो द्युलोकस्य मध्ये तिष्ठति । किञ्च यः सूर्यः ‘पूर्वमपरं च केतुं’ लोकम् ‘अन्तरा’ द्यावापृथिव्योर्मध्ये गार्हपत्याहवनीययोर्वा मध्ये सन् विश्वाचीर्वेदीः, घृताचीः स्रुचश्च ‘अभिचष्टे’ पश्यतीति प्रथमस्यार्थः ॥ १७ ॥

Eggeling
  1. He sets it up (with, Vāj. S. XVII, 59, 60), ‘Measuring he keeps in the middle of the sky,’–for that (sun) indeed keeps measuring in the middle of the sky;–‘filling the two worlds and the air,’ for even in rising he fills these (three) worlds, ‘he scans the all-reaching, the butter-reaching,’–he thereby means the offering-ladles and the offering-grounds;–‘between the front and back lights,’–that is, between this world and that one; or that (fire-altar) which is here at this moment being built, and that which was there built at first.

१८

विश्वास-प्रस्तुतिः

(त्यु) उक्षा᳘ समुद्रो᳘ ऽअरुणः᳘ सुपर्ण ऽइ᳘ति॥
(त्यु) उक्षा᳘ ह्येष᳘ समु᳘द्रो ऽरुणः᳘ सुपर्णः पू᳘र्व्वस्य यो᳘निं पितुरा᳘विवेशे᳘ति पू᳘र्व्वस्य᳘ ह्येष᳘ ऽएतं यो᳘निं पितु᳘राविश᳘ति म᳘ध्ये दिवो नि᳘हितः पृ᳘श्निरश्मे᳘ति म᳘ध्ये᳘ ह्येष᳘ दिवो नि᳘हितः पृ᳘श्निर᳘श्मा व्वि᳘चक्रमे र᳘जसस्पात्य᳘न्तावि᳘ति व्विक्र᳘ममाणो वा᳘ ऽएष᳘ ऽएषां᳘ लोका᳘नाम᳘न्तान्पाति॥

मूलम् - श्रीधरादि

(त्यु) उक्षा᳘ समुद्रो᳘ ऽअरुणः᳘ सुपर्ण ऽइ᳘ति॥
(त्यु) उक्षा᳘ ह्येष᳘ समु᳘द्रो ऽरुणः᳘ सुपर्णः पू᳘र्व्वस्य यो᳘निं पितुरा᳘विवेशे᳘ति पू᳘र्व्वस्य᳘ ह्येष᳘ ऽएतं यो᳘निं पितु᳘राविश᳘ति म᳘ध्ये दिवो नि᳘हितः पृ᳘श्निरश्मे᳘ति म᳘ध्ये᳘ ह्येष᳘ दिवो नि᳘हितः पृ᳘श्निर᳘श्मा व्वि᳘चक्रमे र᳘जसस्पात्य᳘न्तावि᳘ति व्विक्र᳘ममाणो वा᳘ ऽएष᳘ ऽएषां᳘ लोका᳘नाम᳘न्तान्पाति॥

मूलम् - Weber

उक्षा᳘ समुद्रो᳘ अरुणः᳘ सुपर्ण इ᳘ति॥
उक्षाॗ ह्येष᳘ समु᳘द्रो ऽरुणः᳘ सुपर्णः पू᳘र्वस्य यो᳘निम् पितुरा᳘विवेशे᳘ति पू᳘र्वस्यॗ ह्येष᳘ एतं यो᳘निम् पितु᳘राविश᳘ति म᳘ध्ये दिवो नि᳘हितः पृ᳘श्निरश्मे᳘ति म᳘ध्येॗ ह्येष᳘ दिवो नि᳘हितः पृ᳘श्निर᳘श्मा वि᳘चक्रमे र᳘जसस्पात्य᳘न्तावि᳘ति विक्र᳘ममाणो वा᳘ एष᳘ एषां᳘ लोका᳘नाम᳘न्तान्याति॥

मूलम् - विस्वरम्

“उक्षा समुद्रो अरुणः सुपर्णः”- इति । उक्षा ह्येष समुद्रो ऽरुणः सुपर्णः । “पूर्वस्य योनिं पितुराविवेश”- इति । पूर्वस्य ह्येष एतं योनिं पितुराविशति । “मध्ये दिवो निहितः पृश्निरश्मा”- इति । मध्ये ह्येष दिवो निहितः पृश्निरश्मा । “विचक्रमे रजसस्पात्यन्तौ"- (वा. सं. १७ । ६०) इति । विक्रममाणो वा एष एषां लोकानामन्तान्पाति ॥ १८ ॥

सायणः

द्वितीयमन्त्रे उक्षा समुद्रः, पूर्वस्य योनिं, मध्ये दिवः इति पादत्रयार्थः प्रसिद्ध इत्याह- उक्षा समुद्रो अरुण इति । चतुर्थपादे रजःशब्देनैते लोका विवक्ष्यन्त इत्याह- विचक्रम इति । ‘उक्षा’ सेचकः “आदित्याज्जायते वृष्टिः”- (म. स्मृ. ३ । ७६) इति तस्य वृष्टिहेतुत्वात् । अत एव समुद्रात्मकः वर्णतो ऽरुणः । पर्णशब्देन पतनमुच्यते । शोभनपतनः एवंविधः सूर्यः ‘पूर्वस्य’ द्युलोकस्य पितृरूपस्य ‘योनिं’ स्थानम् आविवेश द्युलोकादादित्याज्जायमान इव दृश्यत इति तस्य पितृलोकोपचारः । किंच ‘दिवो मध्ये’ आग्नीध्रमण्डपलक्षणे ‘निहितः’ वर्णतः पृश्निः ‘अश्मा’ अश्मरूपः सूर्यः विविधं लोकान् क्रमते “छन्दसि लुङ्लङ्लिटः”- (पा. सू. ३ । ४ । ६) इति वर्तमाने लिट् । “विक्रममाणो वा एष एषां लोकानामन्तान्पाति” इति श्रुतेः । रजस इत्येकवचनम् अन्ताविति द्विवचनं च अविवक्षितं, लोकानामन्तान् प्रान्तान् पाति स्वकीयेन प्रकाशेन तमो निवर्त्तयन् पदार्थांश्च दर्शयन् रक्षतीति द्वितीयस्यार्थः ॥ १८ ॥

Eggeling
  1. ‘The showering ocean, the ruddy bird,’–for he (the sun) is indeed a showering ocean, and a ruddy bird,–‘hath entered the seat of his easterly father,’–for he indeed enters that seat of his easterly 13 father;–’the many-hued rock set up in the middle of the sky,’–for that variegated stone is indeed set up in the middle of the sky;–‘hath traversed and guardeth the two ends of the atmosphere;’–for in traversing he guards the ends of these worlds.

१९

विश्वास-प्रस्तुतिः

द्वा᳘भ्यामुपदधाति[[!!]]॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदु᳘पदधाति त्रिष्टु᳘ब्भ्यां त्रै᳘ष्टुभो᳘[[!!]] ह्येष न᳘ सादयत्य᳘सन्नो᳘ ह्येष न सू᳘ददोहसा᳘ ऽधिवदति प्राणो वै सू᳘ददोहाः प्राण᳘ ऽएष किं᳘ प्राणे᳘ प्राणं᳘ दध्यामि᳘ति तं᳘ निधा᳘य य᳘था न न᳘श्येत्॥

मूलम् - श्रीधरादि

द्वा᳘भ्यामुपदधाति[[!!]]॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदु᳘पदधाति त्रिष्टु᳘ब्भ्यां त्रै᳘ष्टुभो᳘[[!!]] ह्येष न᳘ सादयत्य᳘सन्नो᳘ ह्येष न सू᳘ददोहसा᳘ ऽधिवदति प्राणो वै सू᳘ददोहाः प्राण᳘ ऽएष किं᳘ प्राणे᳘ प्राणं᳘ दध्यामि᳘ति तं᳘ निधा᳘य य᳘था न न᳘श्येत्॥

मूलम् - Weber

द्वा᳘भ्यामु᳘पदधाति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतदु᳘पदधाति त्रिष्टु᳘ब्भ्यां त्रै᳘ष्टुॗभो ह्येष न᳘ सादयत्य᳘सन्नोॗय् ह्येष न सू᳘ददोहसा᳘धिवदति प्राणो वै सू᳘ददोहाः प्राण᳘ एष कि᳘म् प्राणे᳘ प्राणं᳘ दध्यामि᳘ति तं᳘ निधा᳘य य᳘था न न᳘श्येत्॥

मूलम् - विस्वरम्

द्वाभ्यामुपदधाति । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदुपदधाति । त्रिष्टुब्भ्याम् । त्रैष्टुभो ह्येषः । न सादयति । असन्नो ह्येषः । न सूददोहसा ऽधिवदति । प्राणो वै सूददोहाः । प्राण एषः । किं प्राणे प्राणं दध्यामिति । तं निधाय यथा न नश्येत् ॥ १९ ॥

सायणः

उपधानमन्त्रयोर्द्वित्वं प्रशंसति- द्वाभ्यामिति । अथ तयोरेव च्छन्दः प्रशंसति- त्रिष्टुब्भ्यामिति । ‘एषः’ सूर्यः ‘त्रैष्टुभः’ त्रैष्टुभे ऽन्तरिक्षे वर्तमानत्वात् । अन्तरिक्षस्य त्रैष्टुभत्वं तैत्तिरीयके श्रूयते- “गायत्री वै पृथिवी त्रैष्टुभमन्तरिक्षम्” (तै. सं. ५ । २ । १ । १) इति । प्रकृतस्याश्मन इष्टकान्तरवदुपधानस्य विधानात्तद्वदेव सादनप्रसक्तौ निषेधति- न सादयतीति । तत्रोपपत्तिमाह- असन्नो ह्येष इति । ‘एषः’ सूर्यः ‘असन्नः’ क्वचिदेवावस्थितो न भवति सर्वत्र परिभ्रमणादित्यर्थः । मा भूदसन्नत्वात्तस्य सादनं सूददोहसा ऽधिवदनं तु कर्तव्यमित्यत आह- न सूददोहसा ऽधिवदतीति । सूददोहसा ऽधिवदनमपि न कर्तव्यम्, कुत इत्यत आह-प्राणो वा इति । प्राणात्मके सूर्ये प्राणात्मकस्य सूददोहसः पिष्टपेषणवन्नैष्फल्यादित्यर्थः । तस्योपहितस्याश्मनो रक्षां विधायाहवनीयदेशं प्रति गच्छेयुरिति विधत्ते- तं निधायेति 14 । ‘यथा’ अश्मा ‘न’ नश्येत्तथा निधायानीध्रसमीपदेशमतिक्रामेयुरित्यर्थः । तस्योक्तो बन्धुरिति । “इन्द्रं विश्वा अवीवृधन्नितीन्द्रं हि सर्वाणि भूतानि वर्द्धयन्ति” इत्यादिना ऽस्य ब्राह्मणं (श. प. ८ । ७ । ३ । ७) अष्टमकाण्डे ऽभिहितम् । ‘देवहूः’ इत्यादिकस्यायमर्थः । यतो यज्ञो देवानाह्वयतीति देवहूः । सुम्नमिति सुखनामधेयम् (निघ. ३ । ६ । १६) सुम्नमाह्वयतीति ‘सुम्नहूः’ तत्साधनत्वात् । अतो देवहूर्यज्ञो देवान् आ च वक्षत् आवहतु सुम्नहूर्यज्ञः ‘आवहतु’ इत्युच्यते- यक्षच्चैवाग्निरिति । अग्निर्देवो देवान् यक्षत् यजतु आवहतु इत्येतदुक्तं भवतीति । यक्षत् वक्षत् इति यजेर्वहतेश्च लृटि रूपम् ॥ १९ ॥ २० ॥

Eggeling
  1. With two (verses) he sets it up;–two-footed is the Sacrificer, and the Sacrificer is Agni: as great as Agni is, as great as is his measure, with so much he thus sets him (the sun, Agni) up. With trishṭubh (verses he sets him up),–for that (sun) is related to the Trishṭubh. He does not ‘settle’ (the stone), for unsettled is that (sun); nor does he pronounce the Sūdadohas over it;–the Sūdadohas means the breath, and that (sun) is the breath, and why should he put breath into (or on) the breath? Having deposited it in such a way that it is not lost;–

२०

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थोपा᳘यन्ति॥
(न्ती᳘) इ᳘न्द्रं व्वि᳘श्वा ऽअवीवृधन्नि᳘ति त᳘स्योक्तो ब᳘न्धुर्देवहू᳘र्यज्ञ ऽआ᳘ च व्वक्षत्सुम्नहू᳘र्यज्ञ ऽआ᳘ ऽच व्वक्षदि᳘ति देवहू᳘श्चैव᳘ यज्ञः᳘ सुम्नहू᳘श्च य᳘क्षदग्नि᳘र्देवो᳘ देवाँ२॥ ऽआ᳘ च व्वक्षदि᳘ति य᳘क्षच्चै᳘वाग्नि᳘र्देवो᳘ देवाना᳘ च व्वहत्वि᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थोपा᳘यन्ति॥
(न्ती᳘) इ᳘न्द्रं व्वि᳘श्वा ऽअवीवृधन्नि᳘ति त᳘स्योक्तो ब᳘न्धुर्देवहू᳘र्यज्ञ ऽआ᳘ च व्वक्षत्सुम्नहू᳘र्यज्ञ ऽआ᳘ ऽच व्वक्षदि᳘ति देवहू᳘श्चैव᳘ यज्ञः᳘ सुम्नहू᳘श्च य᳘क्षदग्नि᳘र्देवो᳘ देवाँ२॥ ऽआ᳘ च व्वक्षदि᳘ति य᳘क्षच्चै᳘वाग्नि᳘र्देवो᳘ देवाना᳘ च व्वहत्वि᳘त्येत᳘त्॥

मूलम् - Weber

अ᳘थोपा᳘यन्ति॥
इ᳘न्द्रं वि᳘श्वा अवीवृधन्नि᳘ति त᳘स्योक्तो ब᳘न्धुर्देवहू᳘र्यज्ञ आ᳘ च वक्षत्सुम्नहू᳘र्यज्ञ आ᳘ च वक्षदि᳘ति देवहू᳘श्चैव᳘ यज्ञः᳘ सुम्नहू᳘श्च य᳘क्षदग्नि᳘र्देवो᳘ देवां आ᳘ च वक्षदि᳘ति य᳘क्षच्चैॗवाग्नि᳘र्देवो᳘ देवाना᳘ च वहत्वि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

अथोपायन्ति । “इन्द्रं विश्वा अवीवृधन्”- (वा. सं. १७ । ६१) इति । तस्योक्तो बन्धुः । “देवहूर्यज्ञ आ च वक्षत्, सुम्नहूर्यज्ञ आ च वक्षत्”- इति । देवहूश्चैव यज्ञः सुम्नहूश्च । “यक्षदग्निर्देवो देवान् आ च वक्षत्”- (वा. सं. १७ । ६२) इति । यक्षच्चैवाग्निर्देवो देवान् आ च वहत्वित्येतत् ॥ २० ॥

सायणः

[व्याख्यानं नवदशे]

Eggeling
  1. They now approach (the fire-altar, with, Vāj. S. XVII, 61-64), They all have magnified Indra,’–the meaning of this has been explained 15. ‘Let the god-invoking sacrifice lead hither, let the favour-invoking sacrifice lead hither (the gods)!’–both god-invoking and favour-invoking indeed is the sacrifice; ’let Agni, the god, make offering and lead hither the gods!’ that is, ‘may

Agni, the god, both make offering and bring hither the gods!’

२१

विश्वास-प्रस्तुतिः

(द्वा᳘) व्वा᳘जस्य मा प्रसवः᳘॥
(ऽ) उद्ग्राभेणो᳘दग्रभीत्। अ᳘धा सप᳘त्नानि᳘न्द्रो मे निग्राभेणा᳘धराँ२॥ ऽअकरि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

(द्वा᳘) व्वा᳘जस्य मा प्रसवः᳘॥
(ऽ) उद्ग्राभेणो᳘दग्रभीत्। अ᳘धा सप᳘त्नानि᳘न्द्रो मे निग्राभेणा᳘धराँ२॥ ऽअकरि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

वा᳘जस्य मा प्रसवः᳟॥
उद्ग्राभेणो᳘दग्रभीत् अ᳘धा सप᳘त्नानि᳘न्द्रो मे निग्राभेणा᳘धरा अकरि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

“वाजस्य मा प्रसव उद्ग्राभेणोदग्रभीत् । अधा सपत्नानिन्द्रो मे निग्राभेणाधरान् अकः”- (वा. सं. १७ । ६३) इति । यथैव यजुस्तथा बन्धुः ॥ २१ ॥

सायणः

वाजस्येति उद्भामं चेति मन्त्रद्वयं निगदव्याख्यातम् इत्याह- वाजस्य मा प्रसव इति । पञ्च दिशो दैवीरित्यादिमंत्रैर्गार्हपत्यादाग्नीध्रपर्यन्तं गमने भ्रातृव्यसम्बन्धिनीः सूर्यादर्वाचीः पञ्च दिशः ततोपगमय्य स्वयं प्राप्तवान् भवति इत्युक्तम् । अथेन्द्रं विश्वा अवीवृधन्नित्यादिमन्त्रैराग्नीध्रादाहवनीयपर्यन्तं गमने सूर्यादूर्ध्वा भ्रातृव्यसम्बन्धिनीश्चतस्रो दिशः तथैव प्राप्नोतीत्याह- तद्या अमुष्मादित्यादिना । ‘आतः’ इति द्युलोकपर्यन्तमित्यर्थः ॥ २१-२३ ॥

Eggeling
  1. ‘The creation of strength hath upheaved me with upheaval, and Indra hath laid low mine enemies by subdual,’–as the text, so the meaning.

२२

विश्वास-प्रस्तुतिः

(रु) उद्ग्राभं᳘ च निग्राभं᳘ च॥
ब्र᳘ह्म देवा᳘ ऽअवीवृधन्। अ᳘धा सप᳘त्नानिन्द्राग्नी᳘ मे व्विषूची᳘नान्व्य᳘स्यतामि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

(रु) उद्ग्राभं᳘ च निग्राभं᳘ च॥
ब्र᳘ह्म देवा᳘ ऽअवीवृधन्। अ᳘धा सप᳘त्नानिन्द्राग्नी᳘ मे व्विषूची᳘नान्व्य᳘स्यतामि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

उद्ग्राभं᳘ च निग्राभं᳘ च॥
ब्र᳘ह्म देवा᳘ अवीवृधन् अ᳘धा सप᳘त्नानिन्द्राग्नी᳘ मे विषूची᳘नान्व्य᳘स्यतामि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

“उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अधा सपत्नानिन्द्राग्नी मे विषूचीनान्व्यस्यताम्”- (वा. सं. १७ । ६४) इति । यथैव यजुस्तथा बन्धुः ॥ २२ ॥

सायणः

[व्याख्यानं एकविंशतितमे]

Eggeling
  1. ‘May the gods advance the Brahman both by upheaval and subdual; and may Indra and Agni scatter asunder mine enemies!’–as the text, so the meaning.

२३

विश्वास-प्रस्तुतिः

(स्त) तद्या᳘ ऽअमु᳘ष्मादादित्या᳘दूर्ध्वाश्च᳘तस्रो दि᳘शः॥
(स्ता᳘) ता᳘ ऽएत᳘द्देवा ऽअ᳘सुराणामवृञ्जता᳘थो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहंस्ता᳘ ऽउ ऽए᳘वैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य व्वृङ्क्ते᳘ ऽथो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहत्य᳘थो ऽएतद्वा᳘ ऽएता᳘भिर्देवा ऽआ᳘तः संप्रा᳘प्नुवंस्त᳘थै᳘वाभिरय᳘मेतदा᳘तः सम्प्रा᳘प्नोति॥

मूलम् - श्रीधरादि

(स्त) तद्या᳘ ऽअमु᳘ष्मादादित्या᳘दूर्ध्वाश्च᳘तस्रो दि᳘शः॥
(स्ता᳘) ता᳘ ऽएत᳘द्देवा ऽअ᳘सुराणामवृञ्जता᳘थो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहंस्ता᳘ ऽउ ऽए᳘वैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य व्वृङ्क्ते᳘ ऽथो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहत्य᳘थो ऽएतद्वा᳘ ऽएता᳘भिर्देवा ऽआ᳘तः संप्रा᳘प्नुवंस्त᳘थै᳘वाभिरय᳘मेतदा᳘तः सम्प्रा᳘प्नोति॥

मूलम् - Weber

तद्या᳘ अमु᳘ष्मादादित्या᳘दूर्ध्वाश्च᳘तस्रो दि᳘शः॥
ता᳘ एत᳘द्देवा अ᳘सुराणामवृञ्जता᳘थो ता᳘ एॗवैत᳘त्समा᳘रोहंस्ता᳘ उ एॗवैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य वृङ्क्ते᳘ ऽथो ता᳘ एॗवैत᳘त्समा᳘रोहत्य᳘थो एतद्वा᳘ एता᳘भिर्देवा आ᳘तः सम्प्रा᳘प्नुवंस्त᳘थैॗवाभिरय᳘मेतदा᳘तः सम्प्रा᳘प्नोति॥

मूलम् - विस्वरम्

तद् या अमुष्मादादित्यादूर्ध्वाश्चतस्रो दिशः- ता एतद्देवा असुराणामवृञ्जत । अथो ता एवैतत्समारोहन् । ता उ एवैतद्- यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्ते । अथो ता एवैतत्समारोहति । अथो एतद्वा एताभिर्देवा आतः सम्प्राप्नुवन् । तथैवाभिरयमेतदातः सम्प्राप्नोति ॥ २३ ॥

सायणः

[व्याख्यानं एकविंशतितमे]

Eggeling
  1. Now, the gods thereby (viz. by these four verses) wrested from the Asuras the four regions which are above yonder sun, and then ascended them; and in like manner does the Sacrificer thereby wrest them from his hateful enemy, and then ascend them. And by means of them the gods then attained to that place; and in like manner does this (Sacrificer) by means of them attain thither.

२४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाग्निमा᳘रोहन्ति॥
क्र᳘मध्वमग्नि᳘ना ना᳘कमि᳘ति स्वर्गो वै᳘ लोको ना᳘कः क्र᳘मध्वमने᳘नाग्नि᳘नैत᳘ᳫँ᳘ स्वर्गं᳘ लोकमि᳘त्येतदु᳘ख्यᳫँ᳭ ह᳘स्तेषु बि᳘भ्रत ऽइत्यु᳘ख्य᳘ᳫँ᳘ ह्येत᳘ ऽएतᳫँ᳭ ह᳘स्तेषु बि᳘भ्रति दिव᳘स्पृष्ठ᳘ᳫँ᳘ स्वर्गत्वा᳘[[!!]] मिश्रा᳘ देवे᳘भिराध्वमि᳘ति दिव᳘स्पृष्ठ᳘ᳫँ᳘ स्वर्गं᳘ लोकं᳘ गत्वा᳘ मिश्रा᳘ देवे᳘भिराध्वमि᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाग्निमा᳘रोहन्ति॥
क्र᳘मध्वमग्नि᳘ना ना᳘कमि᳘ति स्वर्गो वै᳘ लोको ना᳘कः क्र᳘मध्वमने᳘नाग्नि᳘नैत᳘ᳫँ᳘ स्वर्गं᳘ लोकमि᳘त्येतदु᳘ख्यᳫँ᳭ ह᳘स्तेषु बि᳘भ्रत ऽइत्यु᳘ख्य᳘ᳫँ᳘ ह्येत᳘ ऽएतᳫँ᳭ ह᳘स्तेषु बि᳘भ्रति दिव᳘स्पृष्ठ᳘ᳫँ᳘ स्वर्गत्वा᳘[[!!]] मिश्रा᳘ देवे᳘भिराध्वमि᳘ति दिव᳘स्पृष्ठ᳘ᳫँ᳘ स्वर्गं᳘ लोकं᳘ गत्वा᳘ मिश्रा᳘ देवे᳘भिराध्वमि᳘त्येतत्[[!!]]॥

मूलम् - Weber

अ᳘थाग्निमा᳘रोहन्ति॥
क्र᳘मध्वमग्नि᳘ना ना᳘कमिति स्वर्गो वै᳘ लोको ना᳘कः क्र᳘मध्वमने᳘नाग्नि᳘नैत᳘ᳫं᳘ स्वर्गं᳘ लोकमि᳘त्येतदु᳘ख्यᳫं ह᳘स्तेषु बि᳘भ्रत इत्युॗख्यᳫं ह्येत᳘ एतᳫं ह᳘स्तेषु बि᳘भ्रति दिव᳘स्पृष्ठᳫं स्व᳘र्गत्वा᳘ मिश्रा᳘ देवे᳘भिराध्वमि᳘ति दिव᳘स्पृष्ठ᳘ᳫं᳘ स्वर्गं᳘ लोकं᳘ गत्वा᳘ मिश्रा᳘ देवे᳘भिराध्वमि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

अथाग्निमारोहन्ति । “क्रमध्वमग्निना नाकम्”- इति । स्वर्गो वै लोको नाकः । क्रमध्वमनेनाग्निनैतं स्वर्गं लोकमित्येतत् । “उख्यं हस्तेषु बिभ्रतः”- इति । उख्यं ह्येत एतं हस्तेषु बिभ्रति । “दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम्”- (वा. सं. १७ । ६५) इति । दिवस्पृष्ठं स्वर्गं लोकं गत्वा मिश्रा देवेभिराध्वमित्येतत् ॥ २४ ॥

सायणः

चित्याग्निसमीपगमनानन्तरं क्रमध्वमित्यादिभिः पञ्चभिर्मन्त्रैस्तस्यारोहणं विधत्ते 16- अथाग्निमिति । चित्याग्नेरुपरि धार्यमाणे उख्याग्नौ होमविधानेन तत्र तद्धारणार्थे कस्यचिदपेक्षणादग्निनिधाने यजमानस्यापि संनिधानात्तदपेक्षमारोहन्तीति बहुवचनम् । स्वर्गो वै लोको नाक इत्यादिना ऽऽरोहणमन्त्रान्व्याचष्टे । क्रमध्वमिति तेषामेव परो ऽक्षेणाभिधानम् । ‘अनेनाग्निना’ चित्याग्निना ‘एतम्’ इत्यभिनयेन निर्देशः । एतं स्वर्गं ‘क्रमध्वम्’ अप्रतिबन्धेन गच्छत इत्येतदुक्तं भवतीत्यर्थः । क्रमध्वमिति वृत्त्यर्थे तङ् । एते क्रममाणा अध्वर्युप्रभृतयः एतमुख्याग्निं हस्तेषु चितिषु बिभ्रति यतः अतः स एवार्थो मन्त्रेण प्रतिपाद्यते । ‘दिवस्पृष्ठं स्वर्गं लोकम्’ इत्यनेन मन्त्रे ‘स्वर्गत्वा’ इत्यत्र ‘स्वः’ इत्यस्यार्थ उक्तः । अत्र दिवःशब्देन द्युलोक उच्यते । द्युलोकस्य पृष्ठम् उपरितनं स्वर्गं सुखातिशयहेतुं तस्यैव स्थानविशेषं गत्वा देवैर्मिश्राः सन्तस्तिष्ठतेत्यर्थः । ‘दिवस्पृष्ठम्’ इति “षष्ठ्याः पतिपुत्रपृष्ठ०" (पा. सू. ८ । ३ । ५३) इत्यादिना विसर्जनीयस्य सकारः ॥ २४ ॥

Eggeling
  1. They then mount the fire-altar, with (Vāj. S. XVII, 65-69), ‘By Agni ascend ye to the firmament!’–the firmament, doubtless, is the heavenly world: thus, ‘by means of this Agni (fire-altar) ascend ye to that heavenly world!’–‘holding the Ukhya in your hands,’–for the Ukhya (the fire in the pan) they do hold in their hands 17;–‘having gone to the back of the sky, to heaven, keep ye mingling with the gods!’–that is, ‘having gone to the back of the sky, to the heavenly world, keep ye mingling with the gods!’

२५

विश्वास-प्रस्तुतिः

(त्प्रा᳘) प्रा᳘चीम᳘नु प्रदि᳘शं प्रे᳘हि व्विद्वानि᳘ति॥
प्रा᳘ची वै दि᳘गग्नेः स्वाम᳘नु प्रदि᳘शं प्रे᳘हि व्विद्वानि᳘त्येत᳘दग्ने᳘रग्ने पुरो᳘ ऽअग्निर्भवेहे᳘त्यस्य त्व᳘मग्ने᳘रग्ने पु᳘रो ऽग्निर्भवेहे᳘त्येतद्वि᳘श्वा ऽआ᳘शा दी᳘द्यानो व्वि᳘भाही᳘ति स᳘र्व्वा ऽआ᳘शा दी᳘प्यमानो व्वि᳘भाही᳘त्येतदू᳘र्जं नो धेहि द्विप᳘दे च᳘तुष्पद ऽइ᳘त्याशि᳘षमा᳘शास्ते॥

मूलम् - श्रीधरादि

(त्प्रा᳘) प्रा᳘चीम᳘नु प्रदि᳘शं प्रे᳘हि व्विद्वानि᳘ति॥
प्रा᳘ची वै दि᳘गग्नेः स्वाम᳘नु प्रदि᳘शं प्रे᳘हि व्विद्वानि᳘त्येत᳘दग्ने᳘रग्ने पुरो᳘ ऽअग्निर्भवेहे᳘त्यस्य त्व᳘मग्ने᳘रग्ने पु᳘रो ऽग्निर्भवेहे᳘त्येतद्वि᳘श्वा ऽआ᳘शा दी᳘द्यानो व्वि᳘भाही᳘ति स᳘र्व्वा ऽआ᳘शा दी᳘प्यमानो व्वि᳘भाही᳘त्येतदू᳘र्जं नो धेहि द्विप᳘दे च᳘तुष्पद ऽइ᳘त्याशि᳘षमा᳘शास्ते॥

मूलम् - Weber

प्रा᳘चीम᳘नु प्रदि᳘शम् प्रे᳘हि विद्वानि᳘ति॥
प्रा᳘ची वै दि᳘गग्नेः स्वाम᳘नु प्रदि᳘शम् प्रे᳘हि विद्वानि᳘त्येत᳘दग्ने᳘रग्ने पुरो᳘ अग्निर्भवेहे᳘त्यस्य त्व᳘मग्ने᳘रग्ने पुॗरो ऽग्निर्भवेहे᳘त्येतद्वि᳘श्वा आ᳘शा दी᳘द्यानो वि᳘भाही᳘ति स᳘र्वा आ᳘शा दी᳘प्यमानो वि᳘भाही᳘त्येतदू᳘र्जं नो धेहि द्विप᳘दे च᳘तुष्पद इ᳘त्याशि᳘षमा᳘शास्ते॥

मूलम् - विस्वरम्

“प्राचीमनु प्रदिशं प्रेहि विद्वान्”- इति । प्राची वै दिगग्नेः । स्वामनु प्रदिशं प्रेहि विद्वानित्येतत् । “अग्नेरग्ने पुरो अग्निर्भवेह”- इति । अस्य त्वमग्नेरग्ने पुरो ऽग्निर्भवेहेत्येतत् । “विश्वा आशा दीद्यानो विभाहि”- इति । सर्वा आशा दीप्यमानो विभाहीत्येतत् । “ऊर्जं नो धेहि द्विपदे चतुष्पदे”- (वा. सं. १७ । ६६) इति । आशिषमाशास्ते ॥ २५ ॥

सायणः

प्राची वै दिगग्नेरिति । ‘प्राची’ दिक् ‘अग्नेः’ सम्बन्धिनी खलु । अत एव तैत्तिरीयके- “प्राची दिक् अग्निर्देवता”- इति । अस्य त्वमिति । ‘अस्य’ इष्टकास्थलरूपस्य ‘अग्नेः’ ‘त्वं’ पुरो वर्त्तमानः । ‘अग्निर्भव’ हे यज्ञ ! इत्युक्तं भवति । दीप्यमान इति ‘दीद्यानः’ इत्यस्यार्थकथनम् ॥ २५ ॥

Eggeling
  1. ‘Go thou forth to the eastern quarter, knowing!’–the eastern quarter, doubtless, is Agni’s: thus, ‘To thine own quarter go thou forth, knowing!’–‘be thou Agni’s fore-fire here, O Agni!’–that is, ‘Of this Agni (citya) be thou, O Agni, the fore-fire 18!’–‘Shine thou, illumining all regions!’–that is, ‘shine thou, illuminating every region!’–‘Grant thou food to our two-footed and four-footed one!’ he thereby invokes a blessing.

२६

विश्वास-प्रस्तुतिः

पृथिव्या᳘ ऽअहम्[[!!]]॥
(मु᳘) उ᳘दन्त᳘रिक्षमा᳘रुहमन्त᳘रिक्षाद्दि᳘वमा᳘रुहमि᳘ति गा᳘र्हपत्या᳘द्ध्याग्नीध्री᳘यमाग᳘च्छन्त्याग्नीध्री᳘यादाहवनी᳘यं दिवो ना᳘कस्य पृष्ठा᳘त्स्वर्ज्यो᳘तिरगामहमि᳘ति[[!!]] दिवो ना᳘कस्य पृष्ठा᳘त्स्वर्गं᳘ लोक᳘मगामहमि᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

पृथिव्या᳘ ऽअहम्[[!!]]॥
(मु᳘) उ᳘दन्त᳘रिक्षमा᳘रुहमन्त᳘रिक्षाद्दि᳘वमा᳘रुहमि᳘ति गा᳘र्हपत्या᳘द्ध्याग्नीध्री᳘यमाग᳘च्छन्त्याग्नीध्री᳘यादाहवनी᳘यं दिवो ना᳘कस्य पृष्ठा᳘त्स्वर्ज्यो᳘तिरगामहमि᳘ति[[!!]] दिवो ना᳘कस्य पृष्ठा᳘त्स्वर्गं᳘ लोक᳘मगामहमि᳘त्येत᳘त्॥

मूलम् - Weber

पृथिव्या᳘ अह᳘म्॥
उ᳘दन्त᳘रिक्षमा᳘रुहमन्त᳘रिक्षाद्दि᳘वमा᳘रुहमि᳘ति गा᳘र्हपत्याॗद्ध्याग्नीध्री᳘यमाग᳘छन्त्याग्नीध्री᳘यादाहवनी᳘यं दिवो ना᳘कस्य पृष्ठात्स्व᳘र्ज्यो᳘तिरगामहमि᳘ति दिवो ना᳘कस्य पृष्ठात्स्वर्गं᳘ लोक᳘मगामहमि᳘त्येतत्॥

मूलम् - विस्वरम्

“पृथिव्या अहमुदन्तरिक्षमारुहम्, अन्तरिक्षाद्दिवमारुहम्”- इति । गार्हपत्याद्ध्याग्नीध्रीयमागच्छन्ति, आग्नीध्रीयादाहवनीयम् । “दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम्"- (वा. सं. १७ । ६७) इति । दिवो नाकस्य पृष्ठात्स्वर्गं लोकमगामहमित्येतत् ॥ २६ ॥

सायणः

पृथिव्या अहमिति । गार्हपत्याग्नीध्राहवनीयानां पृथिव्यादिलोकत्रयात्मकत्वात् क्रमेण तत्र गमनात् पृथिव्यादिलोकत्रयं क्रमेणारूढवानस्मीत्यर्थः । आरुहमिति । “कृ मृ दृ-रुहिभ्यश्छन्दसि” (पा. सू. ३ । १ । ५९) इति च्लेरङादेशः । दिवो नाकस्येति । ‘नाकस्य’ सुखहेतुभूतस्य द्युलोकस्य ‘पृष्ठात् ज्योतिः’ विशिष्टं प्रकाशमानं ‘स्वर्गं लोकमगामहमित्येतद्’ उक्तं भवति । अत्रापि पूर्ववत् सुखातिशये हेतुभूतो द्युलोको देशविशेषः स्वर्गशब्देनोच्यते ॥ २६ ॥

Eggeling
  1. ‘From the earth have I ascended the air; from the air have I ascended the sky;’–for from the Gārhapatya they go to the Āgnīdhrīya, and from the Āgnīdhrīya to the Āhavanīya;–‘from the sky, the back of the firmament, have I gone to heaven, to the light;’–that is, ‘from the sky, the back of the firmament, have I gone to the heavenly world.’

२७

विश्वास-प्रस्तुतिः

(त्स्व) स्वर्य᳘न्तो ना᳘पेक्षन्ते॥
(न्त ऽ) आ द्या᳘ᳫँ᳘ रोहन्ति रो᳘दसी ऽइ᳘ति न᳘ हैव ते᳘ ऽपेक्षन्ते ये᳘ स्वर्गं᳘ लोकं य᳘न्ति यज्ञं ये᳘ व्विश्व᳘तोधारᳫँ᳭ सु᳘विद्वाᳫँ᳭सो व्वितेनिर ऽइ᳘त्येष᳘ ऽएव᳘ यज्ञो᳘ व्विश्व᳘तोधार ऽएत᳘ ऽउ ऽएव सु᳘विद्वाᳫँ᳭सो य᳘ ऽएतं᳘ व्वितन्वते[[!!]]॥

मूलम् - श्रीधरादि

(त्स्व) स्वर्य᳘न्तो ना᳘पेक्षन्ते॥
(न्त ऽ) आ द्या᳘ᳫँ᳘ रोहन्ति रो᳘दसी ऽइ᳘ति न᳘ हैव ते᳘ ऽपेक्षन्ते ये᳘ स्वर्गं᳘ लोकं य᳘न्ति यज्ञं ये᳘ व्विश्व᳘तोधारᳫँ᳭ सु᳘विद्वाᳫँ᳭सो व्वितेनिर ऽइ᳘त्येष᳘ ऽएव᳘ यज्ञो᳘ व्विश्व᳘तोधार ऽएत᳘ ऽउ ऽएव सु᳘विद्वाᳫँ᳭सो य᳘ ऽएतं᳘ व्वितन्वते[[!!]]॥

मूलम् - Weber

स्वर्य᳘न्तो ना᳘पेक्षन्ते॥
आ द्यां᳘ रोहन्ति रो᳘दसी इ᳘ति न᳘ हैव ते᳘ ऽपेक्षन्ते ये᳘ स्वर्गं᳘ लोकं य᳘न्ति यज्ञं ये᳘ विश्व᳘तोधारᳫं सु᳘विद्वांसो वितेनिर इ᳘त्येष᳘ एव᳘ यज्ञो᳘ विश्व᳘तोधार एत᳘ उ एव सु᳘विद्वांसो य᳘ एतं᳘ वितन्व᳘ते॥

मूलम् - विस्वरम्

“स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी”- इति । न हैव ते ऽपेक्षन्ते- ये स्वर्गं लोकं यन्ति । “यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे”- (वा. सं. १७ । ६८) इति । एष एव यज्ञो विश्वतोधारः । एत उ एव सुविद्वांसो- य एतं वितन्वते ॥ २७ ॥

सायणः

न हैवेति । ‘ये स्वर्गं लोकं यन्ति,’ ‘ते’ फलान्तरं ‘नापेक्षन्ते’ खलु, अत उक्तम्- स्वर्यन्त इति । एष एवेति । सर्वेण प्रकारेण जगद्धारयतीति ‘एष एव यज्ञो विश्वतोधारः’ । ‘ये’ नराः ‘एतं’ यज्ञं ‘वितन्वते’, ‘एत एव’ ‘सुविद्वांसः’ खलु । विदुषामेव यज्ञनिष्पादकत्वादित्यर्थः ॥ २७ ॥

Eggeling
  1. ‘The heaven-going look not round, they ascend the heaven, the two worlds,’–those who go to the heavenly world do not indeed look round 19; ’the wise who performed the all-sustaining sacrifice,’–for that sacrifice is indeed all-sustaining 20, and they who perform it are indeed wise.

२८

विश्वास-प्रस्तुतिः

(ते᳘ ऽग्ने) अ᳘ग्ने प्रे᳘हि प्रथमो᳘ देवयतामि᳘ति॥
(ती) इम᳘मेत᳘दग्नि᳘माह त्व᳘मेषां प्रे᳘हि प्रथमो᳘ देवयतामि᳘ति च᳘क्षुर्देवा᳘नामुत म᳘र्त्यानामि᳘त्युभ᳘येषाᳫँ᳭ हैत᳘द्देवमनुष्या᳘णां च᳘क्षुरि᳘यक्षमाणा भृ᳘गुभिः सजो᳘षा ऽइ᳘ति य᳘जमानो भृ᳘गुभिः सजो᳘षा ऽइ᳘त्येतत्स्वर्य᳘न्तु[[!!]] य᳘जमानाः स्वस्ती᳘ति स्वर्गं᳘ लोकं᳘ यन्तु य᳘जमानाः स्वस्ती᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(ते᳘ ऽग्ने) अ᳘ग्ने प्रे᳘हि प्रथमो᳘ देवयतामि᳘ति॥
(ती) इम᳘मेत᳘दग्नि᳘माह त्व᳘मेषां प्रे᳘हि प्रथमो᳘ देवयतामि᳘ति च᳘क्षुर्देवा᳘नामुत म᳘र्त्यानामि᳘त्युभ᳘येषाᳫँ᳭ हैत᳘द्देवमनुष्या᳘णां च᳘क्षुरि᳘यक्षमाणा भृ᳘गुभिः सजो᳘षा ऽइ᳘ति य᳘जमानो भृ᳘गुभिः सजो᳘षा ऽइ᳘त्येतत्स्वर्य᳘न्तु[[!!]] य᳘जमानाः स्वस्ती᳘ति स्वर्गं᳘ लोकं᳘ यन्तु य᳘जमानाः स्वस्ती᳘त्येतत्[[!!]]॥

मूलम् - Weber

अ᳘ग्ने प्रे᳘हि प्रथमो᳘ देवयतामि᳘ति॥
इम᳘मेत᳘दग्नि᳘माह त्व᳘मेषाम् प्रे᳘हि प्रथमो᳘ देवयतामि᳘ति च᳘क्षुर्देवा᳘नामुत म᳘र्त्यानामि᳘त्युभ᳘येषाᳫं हैत᳘द्देवमनुष्या᳘णां च᳘क्षुरि᳘यक्षमाणा भृ᳘गुभिः सजो᳘षा इ᳘ति य᳘जमाना भृ᳘गुभिः सजो᳘षा इ᳘त्येतत्स्व᳘र्यन्तु य᳘जमानाः स्वस्ती᳘ति स्वर्गं᳘ लोकं᳘ यन्तु य᳘जमानाः स्वस्ती᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“अग्ने प्रेहि प्रथमो देवयताम्”- इति । इममेतदग्निमाह- त्वमेषां प्रेहि प्रथमो देवयतामिति । “चक्षुर्देवानामुत मर्त्यानाम्”- इति । उभयेषां हैतद्देवमनुष्याणां चक्षुः । “इयक्षमाणा भृगुभिः सजोषाः”- इति । यजमानो भृगुभिः सजोषा इत्येतत् । “स्वर्यन्तु यजमानाः स्वस्ति”- (वा. सं. १७ । ६९) इति । स्वर्गं लोकं यन्तु यजमानाः स्वस्तीत्येतत् ॥ २८ ॥

सायणः

इममेतदिति । ‘त्वमेषां’ देवान्यष्टुमिच्छतां ‘प्रथमः प्रेहि’ इति इममुख्याग्निमाह । अग्नेश्चक्षुष्ट्वं च बहूपकारकत्वात् । ‘इयक्षमाणाः’ इति व्याख्यातम् ‘यजमानो भृगुभिः’ इति । स्पष्टमन्यत् ॥ २८ ॥

Eggeling
  1. ‘Go forward, Agni, first of the godward-going,’–he thereby says to this Agni (that is carried forward), ‘Go thou forward, as the first of these godward-going ones; the eye of the gods

and of mortals,’–for this (Agni) is indeed the eye of both gods and men;–’they who love to sacrifice together with the Bhr̥gus,’–that is, ‘sacrificing together with the Bhr̥gus,’–’let the offerers go unto heaven, hail!’–that is, ‘may the offerers go to the heavenly world, hail!’

२९

विश्वास-प्रस्तुतिः

(त्त) तद्या᳘ ऽअमु᳘ष्मिल्ँ लोके प᳘ञ्च दि᳘शः॥
(स्ता᳘) ता᳘ ऽएत᳘द्देवा ऽअ᳘सुराणामवृञ्जता᳘थो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहंस्ता᳘ ऽउ ऽए᳘वैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य व्वृङ्क्ते᳘ ऽथो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहत्य᳘थो ऽएतद्वा᳘ ऽएता᳘भिर्देवा ऽआ᳘तः सम्प्रा᳘प्नुवंस्त᳘थै᳘वाभिरय᳘मेतदा᳘तः सम्प्रा᳘प्नोति॥

मूलम् - श्रीधरादि

(त्त) तद्या᳘ ऽअमु᳘ष्मिल्ँ लोके प᳘ञ्च दि᳘शः॥
(स्ता᳘) ता᳘ ऽएत᳘द्देवा ऽअ᳘सुराणामवृञ्जता᳘थो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहंस्ता᳘ ऽउ ऽए᳘वैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य व्वृङ्क्ते᳘ ऽथो ता᳘ ऽए᳘वैत᳘त्समा᳘रोहत्य᳘थो ऽएतद्वा᳘ ऽएता᳘भिर्देवा ऽआ᳘तः सम्प्रा᳘प्नुवंस्त᳘थै᳘वाभिरय᳘मेतदा᳘तः सम्प्रा᳘प्नोति॥

मूलम् - Weber

तद्या᳘ अमु᳘ष्मिंलोके प᳘ञ्च दि᳘शः॥
ता᳘ एत᳘द्देवा अ᳘सुराणामवृञ्जता᳘थो ता᳘ एॗवैत᳘त्समा᳘रोहंस्ता᳘ उ एॗवैतद्य᳘जमानो द्विषतो भ्रा᳘तृव्यस्य वृङ्क्ते᳘ ऽथो ता᳘ एॗवैत᳘त्समा᳘रोहत्य᳘थो एतद्वा᳘ एता᳘भिर्देवा आ᳘तः सम्प्रा᳘प्नुवंस्त᳘थैॗवाभिरय᳘मेतदा᳘तः सम्प्रा᳘प्नोति॥

मूलम् - विस्वरम्

तद् या अमुष्मिंल्लोके पञ्च दिशः- ता एतद्देवा असुराणामवृञ्जत । अथो ता एवैतत्समारोहन् । ता उ एवैतद्यजमानो द्विषतो भ्रातृव्यस्य वृङ्क्ते । अथो ता एवैतत्समारोहति । अथो एतद्वा एताभिर्देवा आतः सम्प्राप्नुवन् । तथैवाभिरयमेतदातः सम्प्राप्नोति ॥ २९ ॥

सायणः

उक्तमन्त्रसाध्येन चित्याग्नेरारोहणेन स्वर्गे लोके विद्यमाना भ्रातृव्यसम्बन्धिनीः पञ्च दिशः पूर्वतः प्राप्तवान् भवतीत्याह- तद्या अमुष्मिंल्लोक इति । अत्रापि ‘आतः’ इति द्युलोकादुपरितनस्वर्गावधित्वेनोच्यते ॥ २९ ॥

Eggeling
  1. Now, the gods thereby (viz. by these five verses) wrested from the Asuras the five regions which are in yonder world, and then ascended them; and so does the Sacrificer thereby wrest them from his hateful enemy, and then ascend them. And by means of them the gods attained thither, and so also does this (Sacrificer) by means of them attain thither.

३०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनमभि᳘जुहोति॥
(त्ये) एतद्वा᳘ ऽएनं देवा᳘ ऽईयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेनाप्रीणन्नेतया᳘ ऽऽहुत्या त᳘थै᳘वैनमय᳘मेत᳘दीयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेन प्रीणात्येतया᳘ ऽऽहुत्या कृष्णा᳘यै शुक्ल᳘वत्सायै प᳘यसा रा᳘त्रिर्व्वै᳘ कृष्णा᳘ शुक्ल᳘वत्सा त᳘स्या ऽअसा᳘वादित्यो᳘ व्वत्सः स्वे᳘नै᳘वैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणात्युप᳘रि धार्य᳘माण ऽउ᳘परि हि स य᳘मेत᳘त्प्रीणा᳘ति दो᳘हनेन दो᳘हनेन हि प᳘यः प्रदीय᳘ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनमभि᳘जुहोति॥
(त्ये) एतद्वा᳘ ऽएनं देवा᳘ ऽईयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेनाप्रीणन्नेतया᳘ ऽऽहुत्या त᳘थै᳘वैनमय᳘मेत᳘दीयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेन प्रीणात्येतया᳘ ऽऽहुत्या कृष्णा᳘यै शुक्ल᳘वत्सायै प᳘यसा रा᳘त्रिर्व्वै᳘ कृष्णा᳘ शुक्ल᳘वत्सा त᳘स्या ऽअसा᳘वादित्यो᳘ व्वत्सः स्वे᳘नै᳘वैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणात्युप᳘रि धार्य᳘माण ऽउ᳘परि हि स य᳘मेत᳘त्प्रीणा᳘ति दो᳘हनेन दो᳘हनेन हि प᳘यः प्रदीय᳘ते॥

मूलम् - Weber

अ᳘थैनमभि᳘जुहोति॥
एतद्वा᳘ एनं देवा᳘ ईयिवा᳘ᳫं᳘समुप᳘रिष्टादन्नेनाप्रीणन्नेतया᳘हुत्या त᳘थैॗवैनमय᳘मेत᳘दीयिवा᳘ᳫं᳘समुप᳘रिष्टाद᳘न्नेन प्रीणात्येतया᳘हुत्या कृष्णा᳘यै शुक्ल᳘वत्सायै प᳘यसा रा᳘त्रिर्वै᳘ कृष्णा᳘ शुक्ल᳘वत्सा त᳘स्या असा᳘वादित्यो᳘ वत्सः स्वे᳘नैॗवैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणात्युप᳘रि धार्य᳘माण उ᳘परि हि स य᳘मेत᳘त्प्रीणा᳘ति दो᳘हनेन दो᳘हनेन हि प᳘यः प्रदीय᳘ते॥

मूलम् - विस्वरम्

अथैनमभिजुहोति । एतद्वा एनं देवा ईयिवांसमुपरिष्टादन्नेनाप्रीणन्नेतया ऽऽहुत्या । तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणात्येतया ऽऽहुत्या । कृष्णायै शुक्लवत्सायै पयसा । रात्रिर्वै कृष्णा शुक्लवत्सा । तस्या असावादित्यो वत्सः । स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति । उपरि धार्यमाणे । उपरि हि सः- यमेतत्प्रीणाति । दोहनेन । दोहनेन हि पयः प्रदीयते ॥ ३० ॥

सायणः

चित्याग्निसमारोहणानन्तरमस्मिन्नुख्याग्नौ होम विधत्ते- अथेति 21 । ‘अभिजुहोति’ अभिहोमानामीप्सिततमत्वात् ‘एनम्’ इति कर्मणि द्वितीया । विहिताहुतिश्चित्यं प्राप्तस्याग्नेरुपरिष्टादन्नं सम्पाद्यत इत्याह- एतद्वा इति । विहिते होमे द्रव्यं विधत्ते- कृष्णायै शुक्लवत्सायै पयसेति । उक्तलक्षणाया गोः पयस उपादाने कारणमाह- रात्रिर्वा इति । रात्रिः खलु कृष्णा शुक्लवत्सा । अस्या रात्रेः असौ आदित्यो वत्सः यथा वत्सो गोसमीपे वर्तते तद्वदस्य रात्रिसमीपे वर्तमानत्वात् । अयमेवार्थस्तैत्तिरीयके श्रूयते- “अग्निश्चादित्यश्च रात्रेर्वत्सः” (तै. आ. १ । १० । ५) इति । एवं चास्याग्नेरादित्यात्मकत्वात्तथाविधाया गोः पयसा होमे स्वकीयभागेन तदेव विव्रियते- स्वेन रसेनेति । तेन प्रीणितवान् भवति । प्रीणयितव्यस्यादित्यात्मकस्याग्नेरुपरि एव वर्तमानत्वेन उपरि धार्यमाणे एव उख्याग्नौ जुहुयादित्याह- उपरीति । प्रकृतहोमे साधारणं जौहवं प्राप्नोतीति तदपवादत्वेन दोहनं विधत्ते- दोहनेनेति । दोहनेन हि पयः प्रदीयते इति । दोहनानन्तरं पात्रान्तरे दोहनेन खलु पयः प्रदीयते इत्यर्थः ॥ ३० ॥

Eggeling
  1. He then makes offering on that (firebrand);–for now that he (Agni) had arrived the gods thereupon gratified him with food, this oblation; and in like manner does this (Sacrificer), now that he (Agni) has arrived, thereupon gratify him with food, this oblation. With milk from a black (cow) which has a white calf (he makes offering); the black (cow) with a white calf is the night, and her calf is yonder sun: he thus regales him with his own share, with his own relish. On it (the firebrand, he offers) while it is held above (the naturally-perforated brick); for above (everything) is he whom he thereby gratifies. By means of the milk-pail (he offers), for with the milk-pail milk is given away.

३१

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैनमभिजुहो᳘ति॥
शि᳘र ऽएत᳘द्यज्ञ᳘स्य य᳘दग्निः᳘ प्राणः प᳘यः शीर्षंस्त᳘त्प्राणं᳘ दधाति य᳘था स्वयमातृण्णा᳘मभिप्रक्ष᳘रेदेव᳘मभि᳘जुहुयात्प्राणः᳘ स्वयमातृण्णा र᳘स ऽएष शि᳘रश्च त᳘त्प्राणं᳘ च र᳘सेन सं᳘तनोति सं᳘दधाति न᳘क्तोषा᳘सा स᳘मनसा व्वि᳘रूपे ऽइ᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैनमभिजुहो᳘ति॥
शि᳘र ऽएत᳘द्यज्ञ᳘स्य य᳘दग्निः᳘ प्राणः प᳘यः शीर्षंस्त᳘त्प्राणं᳘ दधाति य᳘था स्वयमातृण्णा᳘मभिप्रक्ष᳘रेदेव᳘मभि᳘जुहुयात्प्राणः᳘ स्वयमातृण्णा र᳘स ऽएष शि᳘रश्च त᳘त्प्राणं᳘ च र᳘सेन सं᳘तनोति सं᳘दधाति न᳘क्तोषा᳘सा स᳘मनसा व्वि᳘रूपे ऽइ᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

य᳘द्वेॗवैनमभिजुहो᳘ति॥
शि᳘र एत᳘द्यज्ञ᳘स्य य᳘दग्निः᳘ प्राणः प᳘यः शीर्षंस्त᳘त्प्राणं᳘ दधाति य᳘था स्वयमातृणा᳘मभिप्रक्ष᳘रेदेव᳘मभि᳘जुहुयात्प्राणः᳘ स्वयमातृणा र᳘स एष शि᳘रश्च त᳘त्प्राणं᳘ च र᳘सेन सं᳘तनोति सं᳘दधाति न᳘क्तोषा᳘सा स᳘मनसा वि᳘रूपे इ᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

यद्वेवैनमभिजुहोति । शिर एतद्यज्ञस्य- यदग्निः । प्राणः पयः । शीर्षंस्तत्प्राणं दधाति । यथा स्वयमातृण्णामभिप्रक्षरेद् एवमभिजुहुयात् । प्राणः स्वयमातृण्णा । रस एषः । शिरश्च तत्प्राणं च रसेन संतनोति, संदधाति । “नक्तोषासा समनसा विरूपे”- (वा. सं. १७ । ७०) इति । तस्योक्तो बन्धुः ॥ ३१ ॥

सायणः

प्रकृतमेवाभिहोमं प्रकारान्तरेण प्रशंसति- यद्वेवेति । अग्नेः शिरोवत्प्राधान्यात् स हि शिरः । पयसः प्राणत्वं तत्पुष्टिहेतुत्वात् । यथा स्वयमातृण्णामिति । होमाभिघारः स्वयमातृण्णायामुपरि किञ्चित्किञ्चिद्यथा ‘प्रक्षरेत्’ तथा होमं कुर्यात् । एवं च स्वयमातृण्णायाः प्राणत्वात्, अग्नेस्तु शिरस्त्वात् ‘प्राणं च शिरश्च’ इत्युभे अपि पयोलक्षणेन ‘रसेन’ ‘संतनोति’ । तदेव विवृणोति ‘सन्दधाति’ परस्परसम्बद्धं करोतीत्यर्थः । प्रकृतहोमे मन्त्रौ दर्शयन् प्रथममन्त्रस्य ब्राह्मणं षष्ठकाण्डे (श. प. ६ । ७ । २ । ३) प्रागेवाभिहितमित्याह- नक्तोषासेति ॥ ३१ ॥

Eggeling
  1. And, again, as to why he makes offering upon it. That (Āhavanīya) fire is the head of the sacrifice, and milk means breath: he thus puts breath into the head. He should make the offering so that it (the milk) flows on the naturally-perforated (brick);–the naturally-perforated one is breath, and this

(milk) is vital sap: he thus connects and puts together the head and the breath by means of vital sap. [He pours it out, with, Vāj. S. XVII, 70, 71], ‘Night and Dawn, of one mind, unlike in form,’–the meaning of this has been explained 22.

३२

विश्वास-प्रस्तुतिः

(र᳘) अ᳘ग्ने सहस्राक्षे᳘ति॥
हिरण्यशकलैर्व्वा᳘ ऽएष᳘ सहस्राक्षः᳘ शतमूर्धन्नि᳘ति य᳘ददः᳘ शत᳘शीर्षा रुद्रो᳘ ऽसृज्यत शतं᳘ ते प्राणाः᳘ सह᳘स्रं व्याना ऽइ᳘ति शत᳘ᳫँ᳘ हैव त᳘स्य प्राणाः᳘ सह᳘स्रं व्याना यः᳘ शत᳘शीर्षा त्व᳘ᳫँ᳘ साहस्र᳘स्य राय᳘ ऽईशिष ऽइ᳘ति त्वᳫँ᳭ स᳘र्व्वस्यै रय्या᳘ ऽईशिष ऽइ᳘त्येतत्त᳘स्मै ते व्विधेम व्वा᳘जाय स्वाहे᳘त्येष वै व्वा᳘जस्त᳘मेत᳘त्प्रीणाति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘ग्ने सहस्राक्षे᳘ति॥
हिरण्यशकलैर्व्वा᳘ ऽएष᳘ सहस्राक्षः᳘ शतमूर्धन्नि᳘ति य᳘ददः᳘ शत᳘शीर्षा रुद्रो᳘ ऽसृज्यत शतं᳘ ते प्राणाः᳘ सह᳘स्रं व्याना ऽइ᳘ति शत᳘ᳫँ᳘ हैव त᳘स्य प्राणाः᳘ सह᳘स्रं व्याना यः᳘ शत᳘शीर्षा त्व᳘ᳫँ᳘ साहस्र᳘स्य राय᳘ ऽईशिष ऽइ᳘ति त्वᳫँ᳭ स᳘र्व्वस्यै रय्या᳘ ऽईशिष ऽइ᳘त्येतत्त᳘स्मै ते व्विधेम व्वा᳘जाय स्वाहे᳘त्येष वै व्वा᳘जस्त᳘मेत᳘त्प्रीणाति॥

मूलम् - Weber

अ᳘ग्ने सहस्राक्षे᳘ति॥
हिरण्यशकलैर्वा᳘ एष᳘ सहस्राक्षः᳘ शतमूर्धन्नि᳘ति य᳘ददः᳘ शत᳘शीर्षा रुद्रो᳘ ऽसृज्यत शतं᳘ ते प्राणाः᳘ सह᳘स्रं व्याना इ᳘ति शत᳘ᳫं᳘ हैव त᳘स्य प्राणाः᳘ सह᳘स्रं व्याना यः᳘ शत᳘शीर्षा त्व᳘ᳫं᳘ साहस्र᳘स्य राय᳘ ईशिष इ᳘ति त्वᳫं स᳘र्वस्यै रय्या᳘ ईशिष इ᳘त्येतत्त᳘स्मै ते विधेम वा᳘जाय स्वाहे᳘त्येष वै वा᳘जस्त᳘मेत᳘त्प्रीणाति॥

मूलम् - विस्वरम्

“अग्ने सहस्राक्ष"- इति । हिरण्यशकलैर्वा एव सहस्राक्षः । “शतमूर्द्धन्”- इति । यददः शतशीर्षा रुद्रो ऽसृज्यत । “शतं ते प्राणाः सहस्रं व्यानाः”- इति । शतं हैव तस्य प्राणाः, सहस्रं व्यानाः- यः शतशीर्षा । “त्वं साहस्रस्य राय ईशिषे”-इति । त्वं सर्वस्यै रय्या ईशिष इत्येतत् । “तस्मै ते विधेम वाजाय स्वाहा”- (वा० सं० १७ । ७१) इति । एष वै वाजः । तमेतत्प्रीणाति ॥ ३२ ॥

सायणः

द्वितीयं मन्त्रं व्याचष्टे- अग्ने सहस्राक्षेति । हिरण्यशकलैर्वा इति । ‘एषः’ अग्निः प्रोक्षणे विनियुक्तैः सहस्रसंख्याकैः ‘हिरण्यशकलैः सहस्राक्षः’ खलु । अतश्च मन्त्रे तथा सम्बोध्यत इत्यर्थः । प्रकाशकत्वसाधारण्येन हिरण्यशकलानामक्षित्वोपचारः । यददः शतशीर्षेति । प्रजापतिरोदनेन उदितेष्वश्रुषु अन्तर्वर्त्तमाने मन्यौ प्रतिष्ठितेषु स एव शतशीर्षा रुद्रः समभूत् इति (श. प. ९ । २ । १ । ६) काण्डस्यादावुक्तम् । अतो ऽत्रादः-शब्देन स कालः परामृश्यते । ‘अदः’ अस्मिन्काले ‘शतशीर्षा रुद्रो ऽसृज्यत’ इति यत् अत उक्तं मन्त्रे ‘शतमूर्धन्निति’ इत्यर्थः । ‘यः शतशीर्षा’ भवति तस्य शतसंख्याकाः ‘प्राणाः’ सहस्रसंख्याका ‘व्यानाः’ च भवन्ति । सहस्रमित्यपरिमितनामधेयम् (निघ. ३ । १ । १०) तस्मादुच्यते- शतं त इति । त्वं सर्वस्यै इति । सहस्रमित्यपरिमितसंख्यावचनात् ‘साहस्रस्य’ इत्यनेनापरिमितसंख्यावत इत्यस्यार्थस्याभिधानात् ‘सवस्या’ इत्येतदुक्तं भवति । “अधीगर्थदयेशां कर्मणि” (पा. सू. २ । ३ । ५२) इति षष्ठीप्राप्तौ “षष्ठ्यर्थे चतुर्थी वाच्या” (पा. सू. २ । ३ । ६२ वा. १) सर्वस्यै, रय्या इति चतुर्थी । एष वै वाज इति । ‘वाज’ शब्दो ऽन्नवाची तद्धेतुत्वाद् ‘एषः’ अग्निर्वाजः खलु । अतः ‘तस्मै ते विधेम वाजाय स्वाहा’ इत्यनेन ‘तम्’ अग्निं ‘प्रीणाति’ । हे सहस्राक्ष शतमूर्द्धन् अग्ने ! ते शतसंख्याकाः प्राणाः सहस्रसंख्याका व्यानाश्च भवन्ति । त्वं सर्वस्य धनस्य ईशिषे ईश्वरो भवसि । तस्मै ‘वाजाय’ अन्नहेतुत्वेन तदात्मकाय ते वयं ‘विधेम’ परिचरेम, इदं हविः ते ‘स्वाहा’ सुहुतमस्त्विति मन्त्रार्थः ॥ ३२ ॥

Eggeling
  1. ‘O Agni, thousand-eyed!–through the chips of gold 23 Agni is indeed thousand-eyed;–hundred-headed,’–inasmuch as, at that time 24, he was created as the hundred-headed Rudra;–’thine are a hundred out-breathings, and a thousand through-breathings,’–his indeed are a hundred out-breathings and a thousand through-breathings who is hundred-headed and thousand-eyed;–’thou art the master of wealth,’–that is, ’thou art the master of all wealth;’–’to thee, our strength, do we give honour!’–he (Agni) is indeed the strength 25: it is him he thereby gratifies.

३३

विश्वास-प्रस्तुतिः

द्वा᳘भ्यामभि᳘जुहोति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘दभि᳘जुहोति॥

मूलम् - श्रीधरादि

द्वा᳘भ्यामभि᳘जुहोति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘दभि᳘जुहोति॥

मूलम् - Weber

द्वा᳘भ्यामभि᳘जुहोति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘दभि᳘जुहोति॥

मूलम् - विस्वरम्

द्वाभ्यामभिजुहोति । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदभिजुहोति ॥ ३३ ॥

सायणः

मन्त्रगतेन द्वित्वेन सकलस्याग्नेरभिहोमः सम्पद्यत इति प्रशंसति- द्वाभ्यामिति ॥ ३३ ॥

Eggeling
  1. With two (verses) he makes offering thereon,–two-footed is the Sacrificer, and the Sacrificer is Agni: as great as Agni is, as great as is his measure, with so much he thus makes offering to him.

३४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैनं नि᳘दधाति॥
सुप᳘र्णो ऽसि गरु᳘त्मानि᳘त्येतद्वा᳘ ऽएनमदो व्वि᳘कृत्य सुपर्णं᳘ गरु᳘त्मन्तं व्वि᳘करोति त᳘ᳫँ᳘ सुपर्णं᳘ गरु᳘त्मन्तं चिनोति त᳘ᳫँ᳘ सुपर्णं᳘ गरु᳘त्मन्तं कृ᳘त्वा ऽन्ततो नि᳘दधाति पृष्ठे᳘ पृथिव्याः᳘ सीद भा᳘सा ऽन्त᳘रिक्षमा᳘पृण ज्यो᳘तिषा दि᳘वमु᳘त्तभान ते᳘जसा दि᳘श ऽउ᳘द्दृᳫँ᳭हे᳘त्येव᳘ᳫँ᳘[[!!]] ह्येष᳘ ऽएतत्स᳘र्व्वं करो᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनं नि᳘दधाति॥
सुप᳘र्णो ऽसि गरु᳘त्मानि᳘त्येतद्वा᳘ ऽएनमदो व्वि᳘कृत्य सुपर्णं᳘ गरु᳘त्मन्तं व्वि᳘करोति त᳘ᳫँ᳘ सुपर्णं᳘ गरु᳘त्मन्तं चिनोति त᳘ᳫँ᳘ सुपर्णं᳘ गरु᳘त्मन्तं कृ᳘त्वा ऽन्ततो नि᳘दधाति पृष्ठे᳘ पृथिव्याः᳘ सीद भा᳘सा ऽन्त᳘रिक्षमा᳘पृण ज्यो᳘तिषा दि᳘वमु᳘त्तभान ते᳘जसा दि᳘श ऽउ᳘द्दृᳫँ᳭हे᳘त्येव᳘ᳫँ᳘[[!!]] ह्येष᳘ ऽएतत्स᳘र्व्वं करो᳘ति॥

मूलम् - Weber

अ᳘थैनं नि᳘दधाति॥
सुपॗर्णो ऽसि गरु᳘त्मानि᳘त्येतद्वा᳘ एनमदो वि᳘कृत्य सुपर्णं᳘ गरु᳘त्मन्तं वि᳘करोति त᳘ᳫं᳘ सुपर्णं᳘ गरु᳘त्मन्तं चिनोति त᳘ᳫं᳘ सुपर्णं᳘ गरु᳘त्मन्तं कृॗत्वान्ततो नि᳘दधाति पृष्ठे᳘ पृथिव्याः᳘ सीद भाॗसान्त᳘रिक्षमा᳘पृण ज्यो᳘तिषा दि᳘वमु᳘त्तभान ते᳘जसा दि᳘श उ᳘द्दूंहे᳘त्येॗवᳫं ह्येष᳘ एतत्स᳘र्वं करोति॥

मूलम् - विस्वरम्

अथैनं निदधाति । “सुपर्णो ऽसि गरुत्मान्”- इति । एतद्वा एनमदो विकृत्या सुपर्णं गरुत्मन्तं विकरोति । तं सुपर्णं गरुत्मन्तं चिनोति । तं सुपर्णं गरुत्मन्तं कृत्वा ऽन्ततो निदधाति । “पृष्ठे पृथिव्याः सीद । भासा ऽन्तरिक्षमापृण । ज्योतिषा दिवमुत्तभान । तेजसा । दिश उद्दृंह”- (वा० सं० १७ । ७२) इति । एवं ह्येष एतत्सर्वं करोति ॥ ३४ ॥

सायणः

अभिहोमानन्तरमुख्याग्नेश्चितीनामुपरि निधानं विधत्ते- अथैनमिति 26 । निधानमन्त्रे सुपर्णो ऽसि गरुत्मानित्यस्योपयोगमाह- एतद्वा इत्यादिना । लोके हि योनौ सिक्तं प्रजननसमर्थं रेतो विक्रियते अवयवविभागवत् क्रियते, अतो ऽत्रापि योनिरूपायामुखायामाहितस्याग्नेरितरस्यान्नस्यापि विकृत्या भवितव्यमिति पूर्वं ‘विकृत्या’ विकृतिसाधनभूतेन मन्त्रेण सुपर्णो ऽसि गरुत्मानित्यादिकेन सुपर्णं गरुत्मन्तं कृत्वा चितवान् । तथा चयनकाले ऽपि सुपर्णं गरुत्मन्तमेव कृत्वा चितवान् । संप्रति ‘सुपर्णो ऽसि गरुत्मान्’ इत्यादिकेन सुपर्णं गरुत्मन्तं कृत्वा निहितवान् भवति । चीयमानस्याग्नेः पक्ष्याकारेण चयनात् सुपर्णो ऽसि गरुत्मान् इत्युक्तम् । ‘गरुत्मान्’ प्रशस्तपक्षवान् अत एव ‘सुपर्णः’ पर्णशब्देन पतनमुच्यते शोभनपतनविशिष्ट इत्यर्थः । एवं ह्येष इति । ‘एषः’ अग्निः, ‘एवम्’ उक्तप्रकारम् ‘एतत्सर्वं करोति’ यतः, अतः उक्तं मन्त्रे पृष्ठे पृथिव्याः सीदेत्यर्थः ॥ ३४ ॥

Eggeling
  1. He then lays it (the firebrand) down, with (Vāj. S. XVII, 72, 73), ‘A well-winged bird thou art,’–for on that former occasion he, by means of the fashioning-formula, fashions him into a well-winged bird 27; that well-winged bird he builds up, and having fashioned that well-winged bird, he finally sets him down;–‘seat thee on the back

of the earth, fill the air with thy shine, prop the sky with thy light, and uphold the quarters by thy lustre!’–for that one (Agni) indeed does all this.

३५

विश्वास-प्रस्तुतिः

(त्या) आजु᳘ह्वानः सुप्र᳘तीकः पुर᳘स्तादि᳘ति॥
(त्या) आजु᳘ह्वानो नः सुप्र᳘तीकः पुर᳘स्तादि᳘त्येतद᳘ग्ने स्वं यो᳘निमा᳘सीद साधुये᳘त्येष वा᳘ ऽअस्य स्वो यो᳘निस्त᳘ᳫँ᳘ साध्वा᳘सीदे᳘त्येत᳘दस्मि᳘न्त्सध᳘स्थे ऽअध्यु᳘त्तरस्मिन्नि᳘ति द्यौर्वा ऽउ᳘त्तरᳫँ᳭ सध᳘स्थं व्वि᳘श्वे देवा य᳘जमानश्च सीदते᳘ति तद्वि᳘श्वैर्देवैः᳘ सह य᳘जमानᳫँ᳭ सादयति द्वा᳘भ्यां नि᳘दधाति त᳘स्योक्तो ब᳘न्धुर्व्वषट्कारे᳘ण त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्या) आजु᳘ह्वानः सुप्र᳘तीकः पुर᳘स्तादि᳘ति॥
(त्या) आजु᳘ह्वानो नः सुप्र᳘तीकः पुर᳘स्तादि᳘त्येतद᳘ग्ने स्वं यो᳘निमा᳘सीद साधुये᳘त्येष वा᳘ ऽअस्य स्वो यो᳘निस्त᳘ᳫँ᳘ साध्वा᳘सीदे᳘त्येत᳘दस्मि᳘न्त्सध᳘स्थे ऽअध्यु᳘त्तरस्मिन्नि᳘ति द्यौर्वा ऽउ᳘त्तरᳫँ᳭ सध᳘स्थं व्वि᳘श्वे देवा य᳘जमानश्च सीदते᳘ति तद्वि᳘श्वैर्देवैः᳘ सह य᳘जमानᳫँ᳭ सादयति द्वा᳘भ्यां नि᳘दधाति त᳘स्योक्तो ब᳘न्धुर्व्वषट्कारे᳘ण त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - Weber

आजु᳘ह्वानः सुप्र᳘तीकः पुर᳘स्तादिति॥
आजु᳘ह्वानो नः सुप्र᳘तीकः पुर᳘स्तादि᳘त्येतद᳘ग्ने त्वं यो᳘निमा᳘सीद साधुये᳘त्येष वा अस्य स्वो यो᳘निस्त᳘ᳫं᳘ साध्वा᳘सीदे᳘त्येत᳘दस्मि᳘न्त्सध᳘स्थे अध्यु᳘त्तरस्मिन्नि᳘ति द्यौर्वा उ᳘त्तरᳫं सध᳘स्थं वि᳘श्वे देवा य᳘जमानश्च सीदते᳘ति तद्वि᳘श्वैर्देवैः᳘ सह य᳘जमानᳫं सादयति द्वा᳘भ्यां नि᳘दधाति त᳘स्योक्तो ब᳘न्धुर्वषट्कारे᳘ण त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - विस्वरम्

“आजुह्वानः सुप्रतीकः पुरस्तात्”- इति । आजुह्वानो नः सुप्रतीकः पुरस्तादित्येतत् । “अग्ने स्वं योनिमासीद साधुया”- इति । एष वा अस्य स्वो योनिः । तं साध्वासीदेत्येतत् । “अस्मिन्त्सधस्थे अध्युत्तरस्मिन्”- इति । द्यौर्वा उत्तरं सधस्थम् । “विश्वे देवा यजमानश्च सीदत”- (वा. सं. १७ । ७३) इति । तद् विश्वैर्देवैः सह यजमानं सादयति । द्वाभ्यां निदधाति । तस्योक्तो बन्धुः । वषट्कारेण । तस्योपरि बन्धुः ॥ ३५ ॥

सायणः

द्वितीयं मन्त्रं व्याचष्टे- आजुह्वान इति । ‘सुप्रतीकः’ शोभनावयवः । तत्त्वमितरान् प्रति न, अपि तु अस्मान्प्रतीति व्याचष्टे- आजुव्हानो नः सुप्रतीक इति । ‘अस्य’ उख्याग्नेः ‘एषः’ चित्याग्निः । ‘स्वो योनिः’ स्वसम्बन्धि स्थानम् अतो ऽग्ने स्वं योनिमित्यादिना चित्याग्निं साध्वधितिष्ठेत्येतदुक्तं भवतीति व्याचष्टे- अग्ने स्वमिति । अस्मिन् इति । पृथिव्यन्तरिक्षाभ्यामुपरि वर्त्तमानत्वेन द्युलोकात्मकत्वात् ‘अस्मिन्’ चित्याग्निलक्षणे द्युलोके ‘अध्यासीत’ इत्यर्थः । ‘विश्वे देवाः’ इत्यनेन विश्वैर्देवैः सह स्वं यजमानमत्रासादितवान् भवति । हे अग्ने । त्वं ‘गरुत्मान्’ अत एव शोभनपतनो ऽसि तादृशस्त्वं पृथिव्याः पृष्ठे उपरि सीद, स्वीयया मासा अन्तरिक्षमापूरय, ज्योतिषा दिवं दृढां कुरु, तेजसा दिशो ऽपि दृढीकुर्विति प्रथमस्यार्थः । भाः ज्योतिस्तेज प्रति प्रकाशविशेषः । हे अग्ने ! त्वं पूर्वस्यां दिशि आहूयमानः अस्माकं शोभनावयवो भूयाः । अतः स्वं योनिं चित्याग्निं ‘साधुया’ क्रियया अधितिष्ठ । ‘साधुया’ इति तृतीयैकवचनस्य “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इत्यादिना यादेशः । अस्मिन् चित्याग्निरूप उत्तरस्मिन् सधःस्थे द्युलोके अभ्यासीद । हे विश्वे देवाः । यूयं यजमानश्च अत्र सीदत यूयं सम्प्रदानत्वेन सीदत यजमानो ऽधिकारित्वेन सीदत्विति द्वितीयऋगर्थः स्पष्टार्थः ॥ ३५ ॥

Eggeling
  1. ‘Receiving offering, kind-faced, in front,’–that is, ‘receiving offering, kind-faced for us, in front;’–‘seat thee, O Agni, aright in thine own seat!’–for this (fire-altar) is his (Agni’s) own seat: thus, ‘do thou rightly seat thee in it!’–‘in this higher abode,’–the higher abode, doubtless, is the sky;–‘sit ye down, the All-gods and the Sacrificer!’–he thus establishes the Sacrificer together with the All-gods. With two (verses) he deposits it: the significance of this has been explained,–with the Vashaṭ-call: the significance of this (will be explained) farther on.

३६

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थास्मिन्त्समि᳘ध ऽआ᳘दधाति॥
(त्ये) एतद्वा᳘ ऽएनं देवा᳘ ऽईयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेनाप्रीणन्त्समि᳘द्भिश्चा᳘हुतिभिश्च त᳘थै᳘वैनमय᳘मेत᳘दीयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेन प्रीणाति समि᳘द्भिश्चा᳘हुतिभिश्च॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थास्मिन्त्समि᳘ध ऽआ᳘दधाति॥
(त्ये) एतद्वा᳘ ऽएनं देवा᳘ ऽईयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेनाप्रीणन्त्समि᳘द्भिश्चा᳘हुतिभिश्च त᳘थै᳘वैनमय᳘मेत᳘दीयिवा᳘ᳫँ᳘समुप᳘रिष्टाद᳘न्नेन प्रीणाति समि᳘द्भिश्चा᳘हुतिभिश्च॥

मूलम् - Weber

अ᳘थास्मिन्त्समि᳘ध आ᳘दधाति॥
एतद्वा᳘ एनं देवा᳘ ईयिवा᳘ᳫं᳘समुप᳘रिष्टाद᳘न्नेनाप्रीणन्त्समि᳘द्भिश्चा᳘हुतिभिश्च त᳘थैॗवैनमय᳘मेत᳘दीयिवा᳘ᳫं᳘समुप᳘रिष्टाद᳘न्नेन प्रीणाति समि᳘द्भिश्चा᳘हुतिभिश्च॥

मूलम् - विस्वरम्

अथास्मिन्समिध आदधाति । एतद्वा एनं देवा ईयिवांसमुपरिष्टादन्नेनाप्रीणन् । समिद्भिश्चाहुतिभिश्च । तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणाति । समिद्भिश्चाहुतिभिश्च ॥ ३६ ॥

सायणः

उत्तरवाक्यद्वये निधानानन्तरमस्मिन्नग्नौ समिधामाधानं विधाय ताः समिधश्चित्याग्निं प्राप्तस्याग्नेरुपरितनान्नरूपेण स्तीति- अथास्मिन्निति ॥ ३६ ॥

Eggeling
  1. He then puts pieces of firewood thereon; for now that he (Agni) had arrived, the gods thereupon gratified him with food, both pieces of firewood and oblations; and in like manner does this (Sacrificer), now that he has arrived, thereupon gratify him with food, both pieces of wood and oblations.

३७

विश्वास-प्रस्तुतिः

स वै᳘ शमीम᳘यीं प्रथमामा᳘दधाति॥
(त्ये) एतद्वा᳘ ऽएष᳘ ऽएत᳘स्यामा᳘हुत्याᳫँ᳭ हुता᳘यां प्रा᳘दीप्यतो᳘दज्वलत्त᳘स्माद्देवा᳘ ऽअबिभयुर्यद्वै᳘ नो ऽयं न᳘ हिᳫँ᳭स्यादि᳘ति त᳘ ऽएता᳘ᳫँ᳘ शमी᳘मपश्यंस्त᳘यैनमशमयंस्तद्य᳘देतᳫँ᳭ शम्या᳘ ऽशमयंस्त᳘स्माच्छमी त᳘थै᳘वैनमय᳘मेत᳘च्छम्या᳘ शमयति शा᳘न्त्या ऽएव न ज᳘ग्ध्यै॥

मूलम् - श्रीधरादि

स वै᳘ शमीम᳘यीं प्रथमामा᳘दधाति॥
(त्ये) एतद्वा᳘ ऽएष᳘ ऽएत᳘स्यामा᳘हुत्याᳫँ᳭ हुता᳘यां प्रा᳘दीप्यतो᳘दज्वलत्त᳘स्माद्देवा᳘ ऽअबिभयुर्यद्वै᳘ नो ऽयं न᳘ हिᳫँ᳭स्यादि᳘ति त᳘ ऽएता᳘ᳫँ᳘ शमी᳘मपश्यंस्त᳘यैनमशमयंस्तद्य᳘देतᳫँ᳭ शम्या᳘ ऽशमयंस्त᳘स्माच्छमी त᳘थै᳘वैनमय᳘मेत᳘च्छम्या᳘ शमयति शा᳘न्त्या ऽएव न ज᳘ग्ध्यै॥

मूलम् - Weber

स वै᳘ शमीम᳘यीम् प्रथमामा᳘दधाति॥
एतद्वा᳘ एष᳘ एत᳘स्यामा᳘हुत्याᳫं हुता᳘याम् प्रा᳘दीप्यतो᳘दज्वलत्त᳘स्माद्देवा अबिभयुर्यद्वै᳘ नो ऽयं न᳘ हिंस्यादि᳘ति त᳘ एतां᳘ शमी᳘मपश्यस्त᳘यैनमशमयंस्तद्य᳘देतं शम्या᳘शमयंस्त᳘स्माछमी त᳘थैॗवैनमय᳘मेत᳘छम्या᳘ शमयति शा᳘न्त्या एव न ज᳘ग्ध्यै॥

मूलम् - विस्वरम्

स वै शमीमयीं प्रथमामादधाति । एतद्वा एष एतस्यामाहुत्यां हुतायां प्रादीप्यतोदज्वलत् । तस्माद्देवा अबिभयुः- ‘यद्वै नो ऽयं न हिंस्यात्’ इति । त एतां शमीमपश्यन् । तयैनमशमयन् । तद्यदेतं शम्या ऽशमयन् । तस्माच्छमी । तथैवैनमयमेतच्छम्या शमयति । शान्त्या एव, न जग्घ्यै ॥ ३७ ॥

सायणः

तत्र शमीमयीं समिधं प्रथमामादध्यादित्याह- स वा इति । शमीमय्याः प्रथममाधाने हेतुमाह- एतद्वा इति । एतस्यामाहुत्यामित्यनेन ‘अथैनमभिजुहोति’ इति विहिता ऽऽहुतिः परामृश्यते । एतस्यामाहुत्यां हुतायामग्निः प्रदीप्तः सन्नुदज्वलत् । पश्चात् अग्निं दृष्ट्वा येनोपायेन ‘नो ऽयं न हिंस्यादिति’ देवास्तस्माद् भीताः । पश्चादहिंसोपायत्वेन ते एतां शमीमयीं समिधं अपश्यन् दृष्ट्वा च तया एनमशमयन् । यत्त एतमनया ऽशमयन् । तस्मादसौ शमीनामधेया अभूत् । अतः प्रथमं शमीमय्याः समिध आधानेन तथैवायमपि यजमानः शान्त्यै एनं शमयति, न जग्घ्यै जग्घिर्भक्षणं भक्षणाभावाय अहिंसायै इत्यर्थः ॥ ३७ ॥

Eggeling
  1. He first puts on one of śamī-wood (acacia suma). For at that time, when this oblation had been offered, he (Agni) was enkindled and blazed up. The gods were afraid of him, lest he might injure them. They saw this śamī tree, and therewith appeased him; and inasmuch as they appeased (śam) him by that śamī, it is (called) Śamī; and in like manner this (Sacrificer) now appeases him by means of that śamī (wood),–just with a view to appeasement, not for food.

३८

विश्वास-प्रस्तुतिः

ता᳘ᳫँ᳘ सवितुर्व्व᳘रेण्यस्य॥
चित्रा᳘माहं᳘ व्वृणे सुमतिं᳘ व्विश्व᳘जन्याम्। या᳘मस्य क᳘ण्वो ऽअ᳘दुहत्प्र᳘पीनाᳫँ᳭ सह᳘स्रधारां प᳘यसा महीं गामि᳘ति क᳘ण्वो हैनां ददर्श सा᳘ हास्मै सह᳘स्रधारा स᳘र्व्वान्का᳘मान्दुदुहे त᳘थै᳘वैतद्य᳘जमानाय सह᳘स्रधारा स᳘र्व्वान्का᳘मान्दुहे॥

मूलम् - श्रीधरादि

ता᳘ᳫँ᳘ सवितुर्व्व᳘रेण्यस्य॥
चित्रा᳘माहं᳘ व्वृणे सुमतिं᳘ व्विश्व᳘जन्याम्। या᳘मस्य क᳘ण्वो ऽअ᳘दुहत्प्र᳘पीनाᳫँ᳭ सह᳘स्रधारां प᳘यसा महीं गामि᳘ति क᳘ण्वो हैनां ददर्श सा᳘ हास्मै सह᳘स्रधारा स᳘र्व्वान्का᳘मान्दुदुहे त᳘थै᳘वैतद्य᳘जमानाय सह᳘स्रधारा स᳘र्व्वान्का᳘मान्दुहे॥

मूलम् - Weber

ता᳘ᳫं᳘ सवितुर्व᳘रेण्यस्य॥
चित्राॗमाहं᳘ वृणे सुमतिं᳘ विश्व᳘जन्यां या᳘मस्य क᳘ण्वो अ᳘दुहत्प्र᳘पीनाᳫं सह᳘स्रधाराम् प᳘यसा महीं गामि᳘ति क᳘ण्वो हैनां ददर्श सा᳘ हास्मै सह᳘स्रधारा स᳘र्वान्का᳘मान्दुदुहे त᳘थैॗवैतद्य᳘जमानाय सह᳘स्रधारा स᳘र्वान्का᳘मान्दुहे॥

मूलम् - विस्वरम्

“तां सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमतिं विश्वजन्याम् । यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां पयसा महीं गाम्”- (वा. सं. १७ । ७४) इति । कण्वो हैनां ददर्श । सा हास्मै सहस्रधारा सर्वान्कामान्दुदुहे । तथैवैतद्यजमानाय सहस्रधारा सर्वान्कामान्दुहे ॥ ३८ ॥

सायणः

अथास्याः शमीसमिध आधाने मन्त्रं दर्शयति- तां सवितुरिति 28 । कण्डो हैनामित्यस्यायमर्थः । ‘कण्वो’ महर्षिः ‘एनां’ शमीरूपां गां ‘ददर्श’ खलु । अतश्च सा सहस्रधारा भूत्वा अस्मै कण्वाय सर्वान् कामान् दुदुहे । तस्मादाहिता शमी तथैव यजमानाय सर्वान् कामान् दुग्धे । दुह इति “लोपस्त आत्मनेपदेषु” (पा. सू. ६ । ४ । १०७) इति तकारलोपः । अस्य अग्नेरुत्पादकत्वेन सम्बन्धेन । अत एव श्रुतिः- “शमीगर्भादग्निं मन्थति” (तै. ब्रा. १ । ९ । १) इति । ‘प्रपीनां’ प्रकर्षेण पीवरीं ‘सहस्रधारां’ ‘पयसा’ ‘महीं’ महतीं टिलोपश्छान्दसः । शमीरूपां या गां कण्वमहर्षिः ‘अदुहत्’ । व्यत्ययेन शः । वरणीयस्य ‘सवितुः’ अभिमतां चित्रां चयनीयां ‘सुमतिं’ शोभनमतिं विश्वं जन्यं जनहितं यस्याः सा तथोक्ता । सर्वस्योत्पादयित्रीं वा तामहमावृणे इत्यर्थः ॥ ३८ ॥

Eggeling
  1. [He puts it on, with, Vāj. S. XVII, 74], ‘I desire the manifest favour of the admirable

Savitr̥, enjoyed by all men; that great cow of his, the thousand-streamed, teeming with milk, which Kaṇva was wont to milk;’–for Kaṇva indeed saw her, and she, the thousand-streamed, milked him all his wishes (objects of desire); and in like manner does the thousand-streamed one now milk to the Sacrificer all his objects of desire.

३९

विश्वास-प्रस्तुतिः

(हे᳘ ऽथ) अ᳘थ व्वै᳘कङ्कतीमा᳘दधाति॥
त᳘स्या ऽउक्तो ब᳘न्धुर्व्विधे᳘म ते परमे ज᳘न्मन्नग्न ऽइ᳘ति द्यौर्व्वा᳘ ऽअस्य परमं ज᳘न्म व्विधे᳘म स्तो᳘मैर᳘वरे सध᳘स्थ ऽइ᳘त्यन्त᳘रिक्षं वा ऽअ᳘वरᳫँ᳭ सध᳘स्थं य᳘स्माद्यो᳘नेरुदा᳘रिथा य᳘जे तमि᳘त्येष वा᳘ ऽअस्य स्वो यो᳘निस्तं᳘ यज ऽइ᳘त्येतत्प्र त्वे᳘ हवी᳘ᳫँ᳘षि जुहुरे स᳘मिद्ध ऽइ᳘ति यदा वा᳘ ऽएष᳘ समिध्यते᳘ ऽथैत᳘स्मिन्हवी᳘ᳫँ᳘षि प्र᳘जुह्वति॥

मूलम् - श्रीधरादि

(हे᳘ ऽथ) अ᳘थ व्वै᳘कङ्कतीमा᳘दधाति॥
त᳘स्या ऽउक्तो ब᳘न्धुर्व्विधे᳘म ते परमे ज᳘न्मन्नग्न ऽइ᳘ति द्यौर्व्वा᳘ ऽअस्य परमं ज᳘न्म व्विधे᳘म स्तो᳘मैर᳘वरे सध᳘स्थ ऽइ᳘त्यन्त᳘रिक्षं वा ऽअ᳘वरᳫँ᳭ सध᳘स्थं य᳘स्माद्यो᳘नेरुदा᳘रिथा य᳘जे तमि᳘त्येष वा᳘ ऽअस्य स्वो यो᳘निस्तं᳘ यज ऽइ᳘त्येतत्प्र त्वे᳘ हवी᳘ᳫँ᳘षि जुहुरे स᳘मिद्ध ऽइ᳘ति यदा वा᳘ ऽएष᳘ समिध्यते᳘ ऽथैत᳘स्मिन्हवी᳘ᳫँ᳘षि प्र᳘जुह्वति॥

मूलम् - Weber

अ᳘थ वै᳘कङ्कतीमा᳘दधाति॥
त᳘स्या उक्तो ब᳘न्धुर्विधे᳘म ते परमे ज᳘न्मन्नग्न इ᳘ति द्यौर्वा᳘ अस्य परमं ज᳘न्म विधे᳘म स्तो᳘मैर᳘वरे सध᳘स्थ इ᳘त्यन्त᳘रिक्षं वा अ᳘वरᳫं सध᳘स्थं य᳘स्माद्यो᳘नेरुदा᳘रिथा य᳘जे तमि᳘त्येष वा᳘ अस्य स्वो यो᳘निस्तं᳘ यज इ᳘त्येतत्प्र 29 त्वे᳘ हवीं᳘षि जुहुरे स᳘मिद्ध इ᳘ति यदा वा᳘ एष᳘ समिध्यते᳘ ऽथैत᳘स्मिन्हवीं᳘षि प्र᳘जुह्वति॥ ः

मूलम् - विस्वरम्

अथ वैकंकतीमादधाति । तस्या उक्तो बन्धुः । “विधेम ते परमे जन्मन्नग्ने”- इति । द्यौर्वा अस्य परमं जन्म । “विधेम स्तोमैरवरे सधस्थे”- इति । अन्तरिक्षं वा अवरं सधस्थम् । “यस्माद्योनेरुदारिथा यजे तम्”- इति । एष वा अस्य स्वो योनिः, तं यज इत्येतत् । “प्र त्वे हवींषि जुहुरे समिद्धे”- (वा. सं. १७ । ७५) इति । यदा वा ऽष समिध्यते- अथैतस्मिह्नवींषि प्रजुह्वति ॥ ३९ ॥

सायणः

शमीसमिदाधानानन्तरं वैकङ्कतसमिदाधानं विधाय तस्या वैकङ्कतसमिधो होमब्राह्मणं प्रागेव (श. प. ६ । ६ । ३ । १) षष्ठकाण्डे ऽभिहितमित्याह- अथेति । तदाधानमन्त्रं व्याचष्टे- विधेमेति । प्रथमपादे परमे जन्मन्नित्यनेन द्युलोको विवक्ष्यत इत्याह- द्यौर्वा इति । द्वितीयपादे अवरे सधस्थे इत्यनेनान्तरिक्षमुच्यत इत्याह- अन्तरिक्षं वा इति । यस्माद्योनेरित्यत्र योनिशब्देनैष भूलोको विवक्ष्यत इत्याह- एष वा इति । ‘प्र त्वे हवींषि’ इति तुरीयः पादः प्रसिद्धार्थ इत्याह- यदा वा ऽएष इति । हे ‘अग्ने’ ‘ते’ त्वां ‘परमे जन्मन्’ उत्पत्तिस्थाने द्युलोके ‘विधेम’ परिचरेम । न केवलं द्युलोक एव किन्तु ‘स्तोमैः’ स्तुतिभिरुपलक्षिता वयम् ‘अवरे सधस्थे’ द्युलोकादधस्थाने अन्तरिक्षे ऽपि विधेम । किञ्च यस्माद्योनेः पृथिव्यात्मकयोनेः त्वम् ‘उदारिथ’ उद्गतवानसि । अर्तेर्लिटि थलि “इडत्त्यर्तिव्ययतीनाम्”- (पा. सू. ७ । २ । ६६) इतीडागमः । “अन्येषामपि दृश्यते” (पा. सू. ६ । ३ । १३७) इति दीर्घः । ‘तम्’ एतं लोकम् अनया समिधा यज्ञेषु द्युलोकादीनामग्निकारणत्वेनाग्नेः कारणादेकहोम उक्तः । अथ प्रत्येत्य हवींषीत्यनेन कार्याकारे ऽग्नौ होमो विधीयते- समिद्ध इति । समिद्धे ‘त्वे’ त्वयि छान्दसत्वात्, हवींषि ‘प्रजुहुरे’ जुहविरे । विपश्चित इति शेषः । ‘जुहुरे’ इति “इरयोरे” (पा. सू. ६ । ४ । ७६) इति रे आदेशः । अतो वयमपि समिद्धे त्वयि एतां समिधमादध्महे इत्यर्थः ॥ ३९ ॥

Eggeling
  1. He then puts on one of vikaṅkata (flacourtia sapida) wood–the significance whereof has been explained–with (Vāj. S. XVII, 75), ‘To thee give we honour, O Agni, in the highest home;’–his highest home, doubtless, is the sky;–’to thee give we honour, in hymns of praise, in the lower abode;’–the lower abode, doubtless, is the air;–’the birth-place whence thou hast arisen do I worship,’–that is, ’this is his (Agni’s) own birth-place: that I worship;’–‘on thee, when kindled, offerings are poured forth;’–for when he (the fire) is kindled, they make offerings on him.

४०

विश्वास-प्रस्तुतिः

(त्य) अथौ᳘दुम्बरीमा᳘दधाति॥
(त्यू) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जै᳘वैनमेतद्र᳘सेन प्रीणाति क᳘र्णकवती भवति पश᳘वो वै कर्ण᳘काः पशु᳘भिरे᳘वैनमेतद᳘न्नेन प्रीणाति य᳘दि क᳘र्णकवतीं न᳘ व्विन्दे᳘द्दधिद्रप्स᳘मुपहत्या᳘दध्यात्तद्य᳘द्दधिद्रप्स᳘ ऽउपति᳘ष्ठते त᳘देव᳘ पशुरूपं प्रे᳘द्धो ऽअग्ने दीदिहि पुरो᳘ न ऽइ᳘ति व्विराजा᳘ ऽऽदधान्य᳘न्नं व्विराड᳘न्नेनै᳘वैनमेत᳘त्प्रीणाति तिस्रः᳘ समि᳘ध ऽआ᳘दधाति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - श्रीधरादि

(त्य) अथौ᳘दुम्बरीमा᳘दधाति॥
(त्यू) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जै᳘वैनमेतद्र᳘सेन प्रीणाति क᳘र्णकवती भवति पश᳘वो वै कर्ण᳘काः पशु᳘भिरे᳘वैनमेतद᳘न्नेन प्रीणाति य᳘दि क᳘र्णकवतीं न᳘ व्विन्दे᳘द्दधिद्रप्स᳘मुपहत्या᳘दध्यात्तद्य᳘द्दधिद्रप्स᳘ ऽउपति᳘ष्ठते त᳘देव᳘ पशुरूपं प्रे᳘द्धो ऽअग्ने दीदिहि पुरो᳘ न ऽइ᳘ति व्विराजा᳘ ऽऽदधान्य᳘न्नं व्विराड᳘न्नेनै᳘वैनमेत᳘त्प्रीणाति तिस्रः᳘ समि᳘ध ऽआ᳘दधाति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - Weber

अथौ᳘दुम्बरीमा᳘दधाति॥
ऊर्ग्वै र᳘स उदुम्ब᳘र ऊॗर्जैॗवैनमेद्र᳘सेन प्रीणाति क᳘र्णकवती भवति पश᳘वो वै कर्ण᳘काः पशु᳘भिरेॗवैनमेतद᳘न्नेन प्रीणाति य᳘दि क᳘र्णकवतीं न᳘ विन्दे᳘द्दधिद्रप्स᳘मुपहत्या᳘दध्यात्तद्य᳘द्दधिद्रप्स᳘ उपति᳘ष्ठते त᳘देव᳘ पशुरूपम् प्रे᳘द्धो अग्ने दीदिहि पुरो᳘ न इ᳘ति विराजा᳘दधान्य᳘न्नं विराड᳘न्नेॗवैनमेत᳘त्प्रीणाति तिस्रः᳘ समि᳘ध आ᳘दधाति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - विस्वरम्

अथौदुम्बरीमादधाति । ऊर्ग्वै रस उदुम्बरः । ऊर्जैवैनमेतद्रसेन प्रीणाति । कर्णकवती भवति । पशवो वै कर्णकाः । पशुभिरेवैनमेतदन्नेन प्रीणाति । यदि कर्णवतीं न विन्देद्- दधिद्रप्समुपहत्या ऽऽदध्यात् । तद् यद्दधिद्रप्स उपतिष्ठते- तदेव पशुरूपम् । “प्रेद्धो अग्ने दीदिहि पुरो नः”- (वा. सं. १७ । ७६) इति विराजा ऽऽदधाति । अन्नं विराट् । अन्नेनैवैनमेतत्प्रीणाति । तिस्रः समिध आदधाति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्नेन प्रीणाति ॥ ४० ॥

सायणः

वैकङ्कतसमिद्धोमानन्तरमौदुम्बरसमिधो होमं विधत्ते- अथौदुम्बरीमिति । आधातव्याया उदुम्बरसमिधः कति गुणास्तानाह- कर्णकवती भवतीति । कर्णकशब्देनात्र पत्रशाखादिकं विवक्ष्यते । पत्रादीनां पशुपुष्टिसाधनत्वेन पशुत्वात्तथाविधायाः समिधो होमेन पशुरूपेणैव अन्नेनैनं प्रीणाति । तथाविधायाः समिधो ऽसम्भवे किं कुर्यादिति तत्राह- यदि कर्णकवतीं न विन्देदिति । ‘दधिद्रप्सं’ दधिबिन्दुम् ‘उपहत्य’ समिधि संश्लिष्य आदध्यात् । तत्र समिधि द्रप्स उपतिष्ठते इति यत् तदेव पशुरूपं भवति । अतस्तथाविधायाः समिध आधाने ऽपि एनमग्निं पशुरूपेणान्नेन प्रीणाति । ‘प्रेद्धो अग्ने दीदिहि’ इत्यादिकं दीप्त्यर्थम् ॥ ४० ॥

Eggeling
  1. He then puts on one of udumbara (ficus glomerata) wood;–the Udumbara means strength and sap: with strength and sap he thus gratifies him. It has forking branches 30,–forking branches mean cattle: with cattle, as food, he thus gratifies him. If he cannot get one with bifurcate branches, let him take up a globule of sour curds and put it on (the wood): that globule of sour curds which supervenes is a form of cattle. With the virāj (verse, Vāj. S. XVII, 76; R̥g-veda VII, I, 3),

‘Kindled, blaze forth, O Agni, before us, (with inexhaustible flame, O youngest! perpetual viands accrue unto thee!)’–he puts it on;–the Virāj means food: with food he thus gratifies him. Three pieces of wood he puts on,–threefold is Agni: as great as Agni is, as great as is his measure, with so much food he thus gratifies him.

४१

विश्वास-प्रस्तुतिः

(त्य) अथा᳘हुतीर्जुहोति॥
य᳘था परिवि᳘ष्यानुपाय᳘येत्ता᳘दृक्त᳘त्स्रुवे᳘ण पू᳘र्व्वे स्रुचो᳘त्तराम᳘ग्ने त᳘मद्या᳘श्वं न स्तो᳘मैः क्र᳘तुं न᳘ भद्र᳘ᳫँ᳘ हृदिस्पृ᳘शम्। ऋध्या᳘मा त ऽओ᳘हैरि᳘ति य᳘स्ते हृदिस्पृक्स्तो᳘मस्तं᳘ त ऽऋध्यासमि᳘त्येत᳘त्पङ्क्त्या᳘ जुहोति प᳘ञ्चपदा पङ्क्तिः प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘हुतीर्जुहोति॥
य᳘था परिवि᳘ष्यानुपाय᳘येत्ता᳘दृक्त᳘त्स्रुवे᳘ण पू᳘र्व्वे स्रुचो᳘त्तराम᳘ग्ने त᳘मद्या᳘श्वं न स्तो᳘मैः क्र᳘तुं न᳘ भद्र᳘ᳫँ᳘ हृदिस्पृ᳘शम्। ऋध्या᳘मा त ऽओ᳘हैरि᳘ति य᳘स्ते हृदिस्पृक्स्तो᳘मस्तं᳘ त ऽऋध्यासमि᳘त्येत᳘त्पङ्क्त्या᳘ जुहोति प᳘ञ्चपदा पङ्क्तिः प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - Weber

अथा᳘हुतीर्जुहोति॥
य᳘था परिवि᳘ष्यानुपाय᳘येत्ता᳘दृक्त᳘त्स्रुवे᳘ण पू᳘र्वे स्रुचो᳘त्तराम᳘ग्ने त᳘मद्या᳘श्वं न स्तो᳘मैः क्र᳘तुं न᳘ भद्र᳘ᳫं᳘ हृदिस्पृ᳘शं ऋध्या᳘मा त ओ᳘हैरि᳘ति य᳘स्ते हृदिस्पृक्स्तो᳘मस्तं᳘ त ऋध्यासमि᳘त्येत᳘त्पङ्क्त्या᳘ जुहोति प᳘ञ्चपदा पङ्क्तिः प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - विस्वरम्

अथाहुतीर्जुहोति । यथा परिविष्यानुपाययेत्- तादृक् तत् । स्रुवेण पूर्वे । स्रुचोत्तराम् । “अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । ऋध्यामा त ओहैः"- (वा. सं. १७ । ७७) इति । यस्ते हृदिस्पृक् स्तोमः- तं त ऽऋध्यासमित्येतत् । पंक्त्या जुहोति । पञ्चपदा पंक्तिः । पञ्चचितिको ऽग्निः । पञ्चर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्नेन प्रीणाति ॥ ४१ ॥

सायणः

समिद्धोमानन्तरमाज्याहुतीर्विधत्ते- अथाहुतीरिति 31 । यथेति । लोके भुञ्जानस्य पुरुषस्य यथा शाकसूपौदनादिकं परिविष्य पश्चात् जलादिकं पेयं पाययेत्तथा ऽऽज्याहुतिकरणं भवति । प्रथमसमिद्धोमस्य परिवेषणवत् कृतत्वादित्यर्थः । तत्र साधारण्येन स्रुचैव सर्वासामेव होमप्राप्तौ आह- स्रुवेणेति । अग्ने तमद्याश्वमित्यस्य प्रथमाहुतिमन्त्रस्य तादृशं तात्पर्यमाह- यस्ते हृदिस्पृगिति । “हृदद्युभ्यां ङेरुपसंख्यानम्” इति सप्तम्या अलुक् । हे अग्ने ! ते हृदिस्पृग् यः स्तोमो ऽस्ति ते तं स्तोमं ऋध्यासं समृद्धं क्रियासमित्युक्तं भवति अनेन मन्त्रेणेत्यर्थः । अथास्य मंत्रस्य छन्दः प्रशंसति- पंक्त्या जुहोतीति । पंच पादा यस्याः सा पञ्चपदा । “संख्यासुपूर्वस्य” इति सूत्रस्थभाष्ये ‘पादो ऽन्यतरस्याम्’ इति विकल्पेन ङीपि प्राप्ते टाप् प्रत्ययो दृष्टः । पंचचितिको ऽग्निरित्यनेन अग्नेः पञ्चत्वसंख्यायोगो दर्शितः । ‘पञ्चर्तवः संवत्सरः संवत्सरो ऽग्निः’ इत्यनेनापि प्रकारान्तरेण स एव योगः प्रदर्श्यते । हेमन्तशिशिरयोरुभयोरपि विहितवैशिष्ट्याविशेषेणैकत्वमभिप्रेत्योक्तम्- पञ्चर्तव इति । होमः तत्सम्मितेनैवान्नेन एनं प्रीणातीत्यर्थः ॥ ४१ ॥

Eggeling
  1. He then offers oblations,–this is just as if, after serving food to some one, one gives him something to drink. With the dipping-spoon (sruva) he offers the first two, with the offering-ladle (sruc) the last (oblation); (the first) with (Vāj. S. XVII, 77), ‘O Agni, may we, with hymns and thoughts, speed this day this (sacrifice) of thine, even as a steed, as a noble, heart-stirring deed!’–that is, ‘whatever heart-stirring hymn is thine, may I speed (perform) that for thee.’ With a paṅkti (verse) he offers,–of five feet consists the Paṅkti, of five layers the fire-altar, five seasons are a year, and Agni is the year: as great as Agni is, as great as is his measure, with so much food he thus gratifies him.

४२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वैश्वकर्मणीं᳘ जुहोति॥
विश्व᳘कर्मा ऽय᳘मग्निस्त᳘मे᳘वैत᳘त्प्रीणाति चि᳘त्तिं जुहोमि म᳘नसा घृतेने᳘ति चित्त᳘मेषां जुहोमि म᳘नसा च घृते᳘न चे᳘त्येतद्य᳘था देवा᳘ ऽइ᳘हाग᳘मन्नि᳘ति य᳘था देवा᳘ ऽइ᳘हाग᳘च्छानि᳘त्येत᳘द्वीति᳘होत्रा ऽऋतावृ᳘ध ऽइ᳘ति सत्यवृ᳘ध ऽइ᳘त्येतत्प᳘त्ये व्वि᳘श्वस्य भू᳘मनो जुहो᳘मि व्विश्व᳘कर्मण ऽइ᳘ति᳘ यो ऽस्य स᳘र्व्वस्य भूत᳘स्य पतिस्त᳘स्मै जुहोमि व्विश्व᳘कर्मण ऽइ᳘त्येत᳘द्विश्वाहा᳘दाभ्यᳫँ᳭ हविरि᳘ति सर्व्व᳘दैवा᳘क्षितᳫँ᳭ हविरि᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वैश्वकर्मणीं᳘ जुहोति॥
विश्व᳘कर्मा ऽय᳘मग्निस्त᳘मे᳘वैत᳘त्प्रीणाति चि᳘त्तिं जुहोमि म᳘नसा घृतेने᳘ति चित्त᳘मेषां जुहोमि म᳘नसा च घृते᳘न चे᳘त्येतद्य᳘था देवा᳘ ऽइ᳘हाग᳘मन्नि᳘ति य᳘था देवा᳘ ऽइ᳘हाग᳘च्छानि᳘त्येत᳘द्वीति᳘होत्रा ऽऋतावृ᳘ध ऽइ᳘ति सत्यवृ᳘ध ऽइ᳘त्येतत्प᳘त्ये व्वि᳘श्वस्य भू᳘मनो जुहो᳘मि व्विश्व᳘कर्मण ऽइ᳘ति᳘ यो ऽस्य स᳘र्व्वस्य भूत᳘स्य पतिस्त᳘स्मै जुहोमि व्विश्व᳘कर्मण ऽइ᳘त्येत᳘द्विश्वाहा᳘दाभ्यᳫँ᳭ हविरि᳘ति सर्व्व᳘दैवा᳘क्षितᳫँ᳭ हविरि᳘त्येतत्[[!!]]॥

मूलम् - Weber

अ᳘थ वैश्वकर्मणीं᳘ जुहोति॥
विश्व᳘कर्माय᳘मग्निस्त᳘मेॗवैत᳘त्प्रीणाति चि᳘त्तिं जुहोमि म᳘नसा घृतेने᳘ति चित्त᳘मेषां जुहोमि म᳘नसा च घृते᳘न चे᳘त्येतद्य᳘था देवा᳘ इॗहाग᳘मन्नि᳘ति य᳘था देवा᳘ इॗहाग᳘छानि᳘त्येत᳘द्वीति᳘होत्रा ऋतावृ᳘ध इ᳘ति सत्यवृ᳘ध इ᳘त्येतत्प᳘त्ये वि᳘श्वस्य भू᳘मनो जुहो᳘मि विश्व᳘कर्मण इ᳘तिॗ यो ऽस्य स᳘र्वस्य भूत᳘स्य पतिस्त᳘स्मै जुहोमि विश्व᳘कर्मण इ᳘त्येत᳘द्विश्वाहा᳘हाभ्यᳫं हविरिति सर्वॗदैवा᳘क्षितᳫं हविरि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

अथ वैश्वकर्मणीं जुहोति । विश्वकर्मा ऽयमग्निः । तमेवैतत्प्रीणाति । “चित्तिं जुहोमि मनसा घृतेन”- इति । चित्तमेषां जुहोमि मनसा च घृतेन चेत्येतत् । “यथा देवा इहागमन्”- इति । यथा देवा इहागच्छानित्येतत् । “वीतिहोत्रा ऋतावृधः”- इति । सत्यवृध इत्येतत् । “पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे”- इति । यो ऽस्य सर्वस्य भूतस्य पतिः- तस्मै जुहोमि विश्वकर्मण इत्येतत् । “विश्वाहादाभ्यं हविः”- (वा. सं. १७ । ७८) इति । सर्वदैवाक्षितं हविरित्येतत् ॥ ४२ ॥

सायणः

अथेति । विश्वकर्मा देवता ऽस्या इति वैश्वकर्मणीमाहुतिं जुहोति कुर्यादित्यर्थः । ननु अस्य होमस्याग्न्यर्थत्वादत्र विश्वकर्मदेवताकत्वाच्च प्रकृतसमवेतार्थता न स्यादित्यत उक्तम्- विश्वकर्मा ऽयमग्निरिति । अथैतद्धोमसाधनमन्त्रं व्याचष्टे- चित्तिं जुहोमीत्यादिना । अत्र ‘चित्ति’- शब्दार्थं दर्शयन् तस्य चात्र सम्बन्धिविशेषोपादानाभावेन साधारण्यात् सम्बन्ध्यन्तरप्रसक्तिनिवारणेनोत्तरवाक्योपात्तादेव सम्बन्धित्वं दर्शयति-चित्तमेषामिति । ‘यथा देवा इहागमन्’ इत्यत्रागमन्नित्येतत्पदं व्याचष्टे- यथा देवा इहागच्छानिति । आगच्छानिति । आगच्छेयुरित्यर्थः । गमेर्लिङर्थे लेटि “इतश्च लोपः परस्मैपदेषु”- (पा. सू. ३ । ४ । ९७) इतीकारलोपः । “लेटो ऽडाटो” (पा. सू. ३ । ४ । ९४) इत्यडागमः । ‘ऋतावृध’ इत्यत्र ऋतशब्दस्य सत्यमर्थ इत्याह- सत्यवृध इति । विश्वस्येत्यादिपदद्वयं व्याचष्टे- यो ऽस्येति । विश्वाहादाभ्यमित्येतद्व्याख्यातम् । वीतिहोत्राः कामितयज्ञाः । ‘होत्रा’-शब्दो यजमाननामसु पठितः (निघ. ३। १७ । ८) । ‘ऋतावृधः’ सत्येन वर्द्धमानाः । छांदसो दीर्घः । देवा यथा इहाग्निसमीपे आगमन् आगच्छेयुः तदर्यमेषां देवानां चित्तिं अस्य यजमानस्य यज्ञं गच्छाम इत्येवंरूपं जुहोमि सम्पादयामि । केन साधनेन ? ‘समाहितेन मनसा’ हूयमानेन अनेन घृतेन च एषां चित्तं सम्पादयामि । यत एतस्य विश्वस्य अस्य सर्वस्य भुवनस्य पत्ये विश्वकर्मणे ‘एतत्’ सर्वदा विषयप्रकाशनभक्षितम् इदमाज्यरूपं हविर्जुहोमीत्यर्थः ॥ ४२ ॥

Eggeling
  1. He then offers (the second oblation), the one for Viśvakarman,–Viśvakarman (the all-worker) is this Agni: it is him he thereby gratifies,–with (Vāj. S. XVII, 78), ‘Thought I offer, with mind and ghee,’–that is, ‘The thought of these (priests and Sacrificer) I offer with mind and ghee;’–’that the gods come hither,’–that is, ’that the gods may come hither;’–’enjoying their offering-meal, the holy-minded,’–that is, the true-minded;–’to Viśvakarman, the lord of all existence, I offer,’–that is, ’to that Viśvakarman who is the lord of all that here exists I offer;’–’every day the

unimpaired oblation,’–that is, ‘always the uninjured oblation.’

४३

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ पूर्णाहुतिं᳘ जुहोति॥ स᳘र्व्वमेतद्य᳘त्पूर्णᳫँ᳭ स᳘र्व्वेणै᳘वैनमेत᳘त्प्रीणाति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ पूर्णाहुतिं᳘ जुहोति॥ स᳘र्व्वमेतद्य᳘त्पूर्णᳫँ᳭ स᳘र्व्वेणै᳘वैनमेत᳘त्प्रीणाति॥

मूलम् - Weber

अ᳘थ पूर्णाहुतिं᳘ जुहोति स᳘र्वमेतद्य᳘त्पूर्णᳫं स᳘र्वेणैॗवैनमेत᳘त्प्रीणाति॥

मूलम् - विस्वरम्

अथ पूर्णाहुतिहोमः ।

अथ पूर्णाहुतिं जुहोति । सर्वमेतद्यत्पूर्णम् । सर्वेणैवैनमेतत्प्रीणाति ॥ ४३ ॥

सायणः

उक्तहोमानन्तरं पूर्णाहुतिं विधत्ते 32- अथेति । पूर्णा चासावाहुतिश्चेति पूर्णाहुतिः । आज्यपूर्णया स्रुचा संपाद्यमाना आहुतिरित्यर्थः । सर्वमेतद्यदिति । पूर्णा चासावाहुतिरिति ‘यत्’ पूर्णं तत्सर्वं अपरिमितत्वात् । अतः ‘एनम्’ तेन ‘सर्वेणैवान्नेन प्रीणाति’ ॥ ४३ ॥

Eggeling
  1. He then offers a full (-spoon) oblation,–the full means everything: with everything he thus gratifies him.

४४

विश्वास-प्रस्तुतिः

सप्त᳘ ते ऽअग्ने समि᳘ध ऽइ᳘ति॥ प्राणा वै᳘ समि᳘धः प्राणा᳘ ह्येत᳘ᳫँ᳘ समिन्ध᳘ते सप्त᳘ जिह्वा ऽइ᳘ति या᳘नमू᳘न्त्सप्त पु᳘रुषाने᳘कं पु᳘रुषम᳘कुर्व्वंस्ते᳘षामेत᳘दाह सप्त ऽऋ᳘षय ऽइ᳘ति सप्त हि त ऽऋ᳘षय ऽआ᳘सन्त्सप्त धा᳘म प्रियाणी᳘ति च्छ᳘न्दाᳫँ᳭स्येत᳘दाह च्छ᳘न्दाᳫँ᳭सि वा᳘ ऽअस्य सप्त धा᳘म प्रिया᳘णि सप्त हो᳘त्राः सप्तधा᳘ त्वा यजन्ती᳘ति सप्त᳘ ह्येतᳫँ᳭ हो᳘त्राः सप्तधा य᳘जन्ति सप्त यो᳘निरि᳘ति चि᳘तीरेत᳘दाहा᳘पृणस्वेत्या प्र᳘जायस्वे᳘त्येत᳘द्घ्रृतेने᳘ति रे᳘तो वै᳘ घृतᳫँ᳭ रे᳘त ऽए᳘वैत᳘देषु᳘ लोके᳘षु दधाति स्वाहे᳘ति यज्ञो वै᳘ स्वाहाकारो᳘ यज्ञि᳘यमे᳘वैत᳘दिद᳘ᳫँ᳘ सकृत्स᳘र्व्वं करोति॥

मूलम् - श्रीधरादि

सप्त᳘ ते ऽअग्ने समि᳘ध ऽइ᳘ति॥ प्राणा वै᳘ समि᳘धः प्राणा᳘ ह्येत᳘ᳫँ᳘ समिन्ध᳘ते सप्त᳘ जिह्वा ऽइ᳘ति या᳘नमू᳘न्त्सप्त पु᳘रुषाने᳘कं पु᳘रुषम᳘कुर्व्वंस्ते᳘षामेत᳘दाह सप्त ऽऋ᳘षय ऽइ᳘ति सप्त हि त ऽऋ᳘षय ऽआ᳘सन्त्सप्त धा᳘म प्रियाणी᳘ति च्छ᳘न्दाᳫँ᳭स्येत᳘दाह च्छ᳘न्दाᳫँ᳭सि वा᳘ ऽअस्य सप्त धा᳘म प्रिया᳘णि सप्त हो᳘त्राः सप्तधा᳘ त्वा यजन्ती᳘ति सप्त᳘ ह्येतᳫँ᳭ हो᳘त्राः सप्तधा य᳘जन्ति सप्त यो᳘निरि᳘ति चि᳘तीरेत᳘दाहा᳘पृणस्वेत्या प्र᳘जायस्वे᳘त्येत᳘द्घ्रृतेने᳘ति रे᳘तो वै᳘ घृतᳫँ᳭ रे᳘त ऽए᳘वैत᳘देषु᳘ लोके᳘षु दधाति स्वाहे᳘ति यज्ञो वै᳘ स्वाहाकारो᳘ यज्ञि᳘यमे᳘वैत᳘दिद᳘ᳫँ᳘ सकृत्स᳘र्व्वं करोति॥

मूलम् - Weber

सप्त᳘ ते अग्ने समि᳘ध इ᳘ति प्राणा वै᳘ समि᳘धः प्राणाॗ ह्येत᳘ᳫं᳘ समिन्ध᳘ते सप्त᳘ जिह्वा इ᳘ति या᳘नमू᳘न्त्सप्त पु᳘रुषाने᳘कम् पु᳘रुषम᳘कुर्वंस्ते᳘षामेत᳘दाह सप्त ऋ᳘षय इ᳘ति सप्त हि त ऋ᳘षय आ᳘सन्त्सप्त धा᳘म प्रियाणी᳘ति छ᳘न्दांस्येत᳘दाह छ᳘न्दांसि वा᳘ अस्य सप्त धा᳘म प्रिया᳘णि सप्त हो᳘त्राः सप्तधा᳘ त्वा यजन्ती᳘ति सप्तॗ ह्येतᳫं हो᳘त्राः सप्तधा य᳘जन्ति सप्त यो᳘निरि᳘ति चि᳘तीरेत᳘दाहा᳘पृणस्वेत्या प्र᳘जायस्वे᳘त्येत᳘द्घ्रृतेने᳘ति रे᳘तो वै᳘ घृतं रे᳘त एॗवैत᳘देषु᳘ लोके᳘षु दधाति स्वाहे᳘ति यज्ञो वै᳘ स्वाहाकारो᳘ यज्ञि᳘यमेॗवैत᳘दिद᳘ᳫं᳘ सकृत्स᳘र्वं करोति॥

मूलम् - विस्वरम्

“सप्त ते ऽअग्ने समिधः”- इति । प्राणा वै समिधः । प्राणा ह्येतं समिन्धते । “संप्त जिह्वाः”- इति । यानमून्त्सप्त पुरुषानेकं पुरुषमकुर्वन् । तेषामेतदाह । “सप्त ऋषयः”- इति । सप्त हि त ऋषय आसन् । “सप्त धाम प्रियाणि"- इति । छन्दांस्येतदाह । छन्दांसि वा अस्य सप्त धाम प्रियाणि । “सप्त होत्राः सप्तधा त्वा यजन्ति”- इति । सप्त ह्येतं होत्राः सप्तधा यजन्ति । “सप्त योनीः”- इति । चितीरेतदाह । “आपृणस्व"- इति । आ प्रजायस्वेत्येतद् । “घृतेन"- इति । रेतो वै घृतम् । रेत एवैतदेषु लोकेषु दधाति । “स्वाहा”- (वा. सं. १७ । ७९) इति । यज्ञो वै स्वाहाकारः । यज्ञियमेवैतदिदं सकृत् सर्वं करोति ॥ ४४ ॥

सायणः

सप्त ते ऽअग्न इत्यादिना तन्मन्त्रं व्याचष्टे । तत्र ‘समिध’ इत्यनेनास्य समिन्धनहेतुत्वात्प्राणा विवक्ष्यन्त इत्याह- प्राणा वै समिध इति । प्रजापतेर्विस्रंसनेनैते निर्मिताः ‘ऋषयः’ पृथगेव ‘यान् अमून् सप्त’ देहानसृजन् । ततश्च तान् व्यवहारासमर्थान् दृष्ट्वा पश्चात्तान् ‘एकमेव पुरुषमकुर्वन् ।’ एतत्सर्वं सप्रपञ्चं (श.प. ६ । १ । १ । १) षष्ठकाण्डस्यादावभिहितम् । स एव प्रजापतिः प्रणीयमानो ऽग्निः । अतो ऽत्र जिह्वाशब्देन सप्त पुरुषा विवक्ष्यन्त इत्याह- यानमूनिति । तेषामेतदाहेति । तेषाम् ‘एतद्’ अभिधानं करोति ‘तान् आह’ इत्यर्थः । अत्र प्राणशब्देन शरीरस्थानीन्द्रियाण्युच्यन्ते, जिह्वाशब्देन सप्तपुरुषात्मकानीन्द्रियाणि । ऋषिशब्देन तु निर्गतानि इष्टकास्थापनानि इन्द्रियाण्युच्यन्ते । अतश्चैषां शब्दानामन्तरम्, इन्द्रियवाचकत्वे ऽपि न सांकर्यम् । ‘सप्त धाम प्रियाणि’ इत्यनेन छन्दांस्यभिधीयन्त इत्याह- छन्दांसीति । यत एतमग्निं होतृमैत्रावरुणादयः सप्त होत्रा अग्निष्टोमादिभेदेन सप्तधा यजन्ति । अत उच्यते ऽस्यार्थो मन्त्रेणेत्याह- सप्त होत्रा इति । स्थानवाचकत्वाद्योनिशब्देन तु चितय उच्यन्ते अत आह- सप्त योनीरिति । स्पष्टमन्यत् ॥ ४४ ॥

Eggeling
  1. [He offers, with, Vāj. S. XVII, 79], Thine, O Agni, are seven logs,’–logs mean vital airs, for the vital airs do kindle him;–‘seven tongues,’–this he says with regard to those seven persons which they made into one person 33;–‘seven R̥shis,’–for seven R̥shis they indeed were;–‘seven beloved seats,’–this he says with regard to the metres, for his seven beloved seats are the metres;–‘sevenfold the seven priests worship thee,’–for in a sevenfold way the seven priests indeed worship him;–’the seven homes,’–he thereby means the seven layers (of the altar);–‘fill thou!’–that is, ‘generate thou;’–‘with ghee,’–ghee means seed: he thus lays seed into these worlds;–‘svāhā!’–the svāhā (hail!) is the sacrifice; he thus at once makes everything here fit for sacrifice.

४५

विश्वास-प्रस्तुतिः

सप्त᳘ सप्ते᳘ति॥
सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘त्प्रीणाति तिस्र ऽआ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति तिस्रः᳘ समि᳘ध ऽआ᳘दधाति तत्षट् त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

सप्त᳘ सप्ते᳘ति॥
सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘त्प्रीणाति तिस्र ऽआ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति तिस्रः᳘ समि᳘ध ऽआ᳘दधाति तत्षट् त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

सप्त᳘ सप्ते᳘ति॥
सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘त्प्रीणाति तिस्र आ᳘हुतीर्जुहोति त्रिवृदग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति तिस्रः᳘ समि᳘ध आ᳘दधाति तत्षट् त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

सप्त सप्त- इति । सप्तचितिको ऽग्निः । सप्तर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत्प्रीणाति । तिस्र आहुतीर्जुहोति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्नेन प्रीणाति । तिस्रः समिध आदधाति । तत्षट् । तस्योक्तो बन्धुः ॥ ४५ ॥

सायणः

मन्त्रे पौनःपुन्येन सप्तशब्दप्रयोगः कृत्स्नस्याग्नेस्तृप्तिहेतुर्भवतीत्याह- सप्त सप्तेति । प्रकृताहुतीनां त्रित्वमपि तथैव प्रशंसति- तिस्र आहुतीरिति । समिधामाहुतीनां च मिलिता षट्संख्या भवति तस्य तु ब्राह्मणं (श. प. ९ । २ । २ । ७) प्रागुक्तमित्याह- तिस्रः समिध इति ॥ ४५ ॥

Eggeling
  1. ‘Seven’ he says each time,–of seven layers the fire-altar consists, and of seven seasons the year, and Agni is the year: as great as Agni is, as great as is his measure, with so much he thus gratifies him. Three oblations he offers,–threefold is Agni: as great as Agni is, as great as is his measure, with so much food he thus gratifies him. Three logs he puts on,–that makes six: the significance of this has been explained.

४६

विश्वास-प्रस्तुतिः

(स्ति᳘) ति᳘ष्ठन्त्समि᳘ध ऽआ᳘दधाति॥
(त्य᳘) अ᳘स्थीनि वै᳘ समि᳘धस्ति᳘ष्ठन्तीव वा ऽअ᳘स्थीन्या᳘सीन ऽआ᳘हुतीर्जुहोति माᳫँ᳭सा᳘नि वा ऽआ᳘हुतय ऽआ᳘सत ऽइव वै᳘ माᳫँ᳭सान्य᳘न्तराः समि᳘धो भ᳘वन्ति बा᳘ह्या ऽआ᳘हुतयो᳘ ऽन्तराणि ह्य᳘स्थीनि बा᳘ह्यानि माᳫँ᳭सा᳘नि॥

मूलम् - श्रीधरादि

(स्ति᳘) ति᳘ष्ठन्त्समि᳘ध ऽआ᳘दधाति॥
(त्य᳘) अ᳘स्थीनि वै᳘ समि᳘धस्ति᳘ष्ठन्तीव वा ऽअ᳘स्थीन्या᳘सीन ऽआ᳘हुतीर्जुहोति माᳫँ᳭सा᳘नि वा ऽआ᳘हुतय ऽआ᳘सत ऽइव वै᳘ माᳫँ᳭सान्य᳘न्तराः समि᳘धो भ᳘वन्ति बा᳘ह्या ऽआ᳘हुतयो᳘ ऽन्तराणि ह्य᳘स्थीनि बा᳘ह्यानि माᳫँ᳭सा᳘नि॥

मूलम् - Weber

ति᳘ष्ठन्त्समि᳘ध आ᳘दधाति॥
अ᳘स्थीनि वै᳘ समि᳘धस्ति᳘ष्ठन्तीव वा अ᳘स्थीन्या᳘सीन आ᳘हुतीर्जुहोति मांसा᳘नि वा आ᳘हुतय आ᳘सत इव वै᳘ मांसान्यन्तराः समि᳘धो भ᳘वन्ति बा᳘ह्या आ᳘हुतयो᳘ ऽन्तराणि ह्य᳘स्थीनि बा᳘ह्यानि मांसा᳘नि॥

मूलम् - विस्वरम्

तिष्ठन्त्समिध आदधाति । अस्थीनि वै समिधः । तिष्ठन्तीव वा अस्थीनि । आसीन आहुतीर्जुहोति । मांसानि वा आहुतयः । आसत इव वै मांसानि । अन्तराः समिधो भवन्ति । बाह्या आहुतयः । अन्तराणि ह्यस्थीनि, बाह्यानि मांसानि ॥ ४६ ॥

सायणः

अथ समिदाहुतीनामस्थिमांसात्मकत्वात्तत्सन्निवेशानुसारेण तास्तिष्ठन् आसीनो वा जुहुयादित्याह- तिष्ठन्नित्यादिना 34 । कठिनावयवसन्निवेशसाधारण्यात् समिधामस्थित्वम् । तानि उच्छ्रितत्वात्तिष्ठन्तीव भवन्ति । मृद्ववयवसन्निवेशसामान्यादाज्यस्य मांसत्वम् । तानि च मांसानि आसीनानीव सन्ततानि भवन्ति । अस्थिमांसानुसारेण समिधः अन्तरा आज्याहुतयस्तु बाह्याः कर्तव्या इत्याह- अन्तरा इति ॥ ४६ ॥

Eggeling
  1. Standing he puts on the logs,–the logs are bones, and bones stand, so to speak. Sitting he

offers the oblations,–oblations are the flesh, and the flesh sits (lies), so to speak. The logs are inside (the fire), and the oblations outside, for the bones are inside, and the flesh is outside.

४७

विश्वास-प्रस्तुतिः

(न्य) अथा᳘तः सम्प᳘देव॥
ष᳘ट् पुर᳘स्ताज्जुहो᳘ति ष᳘डुप᳘रिष्टात्षड्भिरा᳘श्मनः पृ᳘श्नेर्य᳘न्ति द्वा᳘भ्याम᳘श्मानं पृ᳘श्निमु᳘पदधाति चतु᳘र्भि᳘राग्नेर्य᳘न्ति पञ्च᳘भिरग्निमा᳘रोहन्ति तदे᳘कान्न᳘त्रिᳫँ᳭शदा᳘हुतिरेव᳘ त्रिᳫँ᳭शत्तमी द्वा᳘भ्यामग्निं नि᳘दधाति तद्द्वा᳘त्रिᳫँ᳭शद्द्वा᳘त्रिᳫँ᳭शदक्षरा ऽनुष्टु᳘प्सै᳘षा ऽनुष्टुप्[[!!]]॥

मूलम् - श्रीधरादि

(न्य) अथा᳘तः सम्प᳘देव॥
ष᳘ट् पुर᳘स्ताज्जुहो᳘ति ष᳘डुप᳘रिष्टात्षड्भिरा᳘श्मनः पृ᳘श्नेर्य᳘न्ति द्वा᳘भ्याम᳘श्मानं पृ᳘श्निमु᳘पदधाति चतु᳘र्भि᳘राग्नेर्य᳘न्ति पञ्च᳘भिरग्निमा᳘रोहन्ति तदे᳘कान्न᳘त्रिᳫँ᳭शदा᳘हुतिरेव᳘ त्रिᳫँ᳭शत्तमी द्वा᳘भ्यामग्निं नि᳘दधाति तद्द्वा᳘त्रिᳫँ᳭शद्द्वा᳘त्रिᳫँ᳭शदक्षरा ऽनुष्टु᳘प्सै᳘षा ऽनुष्टुप्[[!!]]॥

मूलम् - Weber

अथा᳘तः सम्प᳘देव॥
ष᳘ट् पुर᳘स्ताज्जुहो᳘ति ष᳘डुप᳘रिष्टात्षद्भिरा᳘श्मनः पृ᳘श्नेर्य᳘न्ति द्वा᳘भ्याम᳘श्मानम् पृ᳘श्निमु᳘पदधाति चतु᳘र्भिॗराग्नेर्य᳘न्ति पञ्च᳘भिरग्निमा᳘रोहन्ति तदे᳘कां न᳘ त्रिंशदा᳘हुतिरेव᳘ त्रिंशत्तमी द्वा᳘भ्यामग्निम् नि᳘दधाति तद्द्वा᳘त्रिंशद्द्वा᳘त्रिंशदक्षरानुष्टुॗप्सैॗषानुष्टु᳘प्॥

मूलम् - विस्वरम्

अथातः सम्पदेव । षट् पुरस्ताज्जुहोति, षडुपरिष्टात्, षड्भिराश्मनः पृश्नेर्यन्ति, द्वाभ्यामश्मानं पृश्निमुपदधाति, चतुर्भिराग्नेर्यन्ति, पञ्चभिरग्निमारोहन्ति- तदेकान्नत्रिंशत् । आहुतिरेव त्रिंशत्तमी । द्वाभ्यामग्निं निदधाति । तद्-द्वात्रिंशत् । द्वात्रिंशदक्षरा ऽनुष्टुप् । सैषा ऽनुष्टुप् ॥ ४७ ॥

सायणः

अथास्याग्निप्रणयनात्मकस्य कर्मणः सम्पत्तिमभिधातुं प्रतिजानीते- अथातः सम्पदेवेति । तामेव दर्शयति- षट्पुरस्तादित्यादिना । प्रणयनात्पूर्वं तिस्र आज्याहुतीस्तिस्रः समिदाहुतीश्च जुहोति । अतस्ते षण्मन्त्रा भवन्ति । यद्यपि द्वितीयतृतीययोराज्याहुत्योः षोडश मन्त्राः प्रयुज्यन्ते । तथापि आहुत्यनुसारेण ते सर्वे ऽपि द्वौ मन्त्राविति परिगण्यन्ते । ‘उपरिष्टाद्’ अग्निनिधानात्पश्चात्तिस्रः समिदाहुतीस्तिस्र आज्याहुतीश्च जुहोतीति ते ऽपि षण्मन्त्राः । आग्नीध्रमण्डपे ऽपि कश्चित् पृश्निरश्मोपधीयते, तत्पर्यन्तं षड्भिर्मन्त्रैर्गच्छन्ति । अत्र यद्यपि “पञ्च दिशो दैवीः” (वा. सं. १७ । ५४-५८) इत्यादयः पञ्चैव मन्त्रा गमने विनियुक्ताः, तथापि “उदु त्वा” (वा. सं. १७ । ५३) इति मन्त्रेण सहिताः षड् भवन्ति; इति षण्णामपि मन्त्राणां गमनसाधनत्वाभिधानं गमनमन्त्रबाहुल्याभिप्रायम् । “विमान एषः” (वा० सं० १७ । ५९) इति द्वाभ्यां पृश्निमश्मानमुपदधाति । “इन्द्रं विश्वा” (वा० सं० १७ । ६१-६४) इत्यादिभिश्चतुर्भिर्मन्त्रैरग्निपर्यन्तं गच्छन्ति । “क्रमध्वमग्निना” इत्यादिभिः पञ्चभिर्मन्त्रैश्चित्याग्निमारोहन्ति । तदेवमेकोनत्रिंशन्मन्त्रा भवन्ति । एतदुक्तमंत्रसाध्या आहुतिरेव त्रिंशत्तमी त्रिंशत्संख्यापूरणी । यद्यपि आहुतिव्यक्तयो बह्व्यः सन्ति तथापि सामान्यानुसारेण ताः सर्वा अपि एकैवाहुतिर्भवति । “सुपर्णो ऽसि गरुत्मान्” (वा. सं. १७ । ७२) इत्याभ्यां द्वाभ्यामग्निं निदधातीति द्वात्रिंशत्संख्येयं सम्पद्यते । अनुष्टुप् द्वात्रिंशदक्षरा भवति । अतस्तदेतदग्निप्रणयनं सर्वमन्त्राहुतिसंख्याद्वारा अनुष्टुप्छन्दो भवति । सैषेति स्त्रीलिङ्गाच्च ‘अनुष्टुप्’ इत्येतद्द्वितीयविशेषापेक्षम् ॥ ४७ ॥

Eggeling
  1. Now, then, as to the (mystic) correspondence (or, amount). Six he offers before (the leading forward of the fire), and six afterwards; with six (formulas) they proceed up to the variegated stone; with two he lays down the variegated stone; with four they proceed as far as the fire-altar; with five they mount the fire-altar: that makes twenty-nine, and the oblation itself is the thirtieth. With two (verses) he deposits the fire,–that makes thirty-two, and of thirty-two syllables consists the Anushṭubh: such, then, is this Anushṭubh.

४८

विश्वास-प्रस्तुतिः

(प्त) तद्या᳘ ऽअमू᳘स्ति᳘स्रो ऽनुष्टु᳘भः॥
(भो) गा᳘र्हपत्ये सम्पाद᳘यन्ति ता᳘सामेतामत्रै᳘कामा᳘हरन्ति तद्य᳘देताम᳘त्राह᳘रन्त्य᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतः स᳘ एषो᳘ ऽत्र त᳘स्मै ना᳘लमासीद्यद᳘न्नमा᳘त्स्य᳘त्॥

मूलम् - श्रीधरादि

(प्त) तद्या᳘ ऽअमू᳘स्ति᳘स्रो ऽनुष्टु᳘भः॥
(भो) गा᳘र्हपत्ये सम्पाद᳘यन्ति ता᳘सामेतामत्रै᳘कामा᳘हरन्ति तद्य᳘देताम᳘त्राह᳘रन्त्य᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतः स᳘ एषो᳘ ऽत्र त᳘स्मै ना᳘लमासीद्यद᳘न्नमा᳘त्स्य᳘त्॥

मूलम् - Weber

तद्या᳘ अमू᳘स्तिॗस्रो ऽनुष्टु᳘भः॥
गा᳘र्हपत्ये सम्पाद᳘यन्ति ता᳘सामेतामत्रि᳘कामा᳘हरन्ति तद्य᳘देताम᳘त्राह᳘रन्त्य᳘त्रैष स᳘र्वो ऽग्निः स᳘ᳫं᳘स्कृतः स᳘ एषो᳘ ऽत्र त᳘स्मै ना᳘लमासीद्यद᳘न्नमा᳘त्स्य᳘त्॥

मूलम् - विस्वरम्

तद् या अमृस्तिस्रो ऽनुष्टुभो गार्हपत्ये सम्पादयन्ति- तासामेतामत्रैकामाहरन्ति । तद् यदेतामत्राहरन्ति- अत्रैष सर्वो ऽग्निः संस्कृतः । स एषो ऽत्र तस्मै नालमासीद्- यदन्नमात्स्यत् ॥ ४८ ॥

सायणः

सप्तमकाण्डे (श. प. ७ । १ । २ । १९) गार्हपत्यचयनामिधानानन्तरं तत्र तिस्रो ऽनुष्टुभः सम्पाद्य तासां मध्ये एकामाहवनीयं हरन्तीत्युक्तम्, अन्त्रोक्तप्रकारेणानुष्टुभः सम्पादनेन एतासामेकामनुष्टुभमत्राहृतवन्तो भवन्तीत्याह- तद्या अमूरिति । गार्हपत्यात् खल्वग्निराहवनीयस्थानं प्रति प्रणीयते । अतश्चाग्निप्रणयने विद्यमानमन्त्राहुतिसंख्याद्वारा ऽस्या अनुष्टुभः सम्पादनाद् गार्हपत्ये सम्पादितानामनुष्टुभाममूमेकामत्राहृतवन्तो भवन्तीत्युच्यते । गार्हपत्यादेकस्या अनुष्टुभो ऽत्राहरणे प्रयोजनमाह- तद्यदेतामिति । ‘अत्र’ अस्मिन्नवसरे ‘एषो ऽग्निः’ ‘सर्वः संस्कृतः’ कार्त्स्न्येन संस्कृतः, स एषो ऽग्निः ‘अन्नमात्स्यत्’ अभक्षयिष्यदिति यत् तस्मै ‘नालमासीत्’ । अन्नादनाय समर्थो नाभूदित्यर्थः ॥ ४८ ॥

Eggeling
  1. And this one (Anushṭubh) they bring hither from those three Anushṭubhs which they make up on the Gārhapatya 35; and inasmuch as they bring this (therefrom) hither, thereby this whole Agni (fire-altar) becomes completed. But now he was not yet fit to eat food 36.

४९

विश्वास-प्रस्तुतिः

(त्सो) सो ऽग्नि᳘मब्रवीत्॥
(त्त्व) त्वया᳘ ऽन्नमदानी᳘ति तथे᳘ति त᳘स्माद्य᳘दै᳘वैतम᳘त्राह᳘रन्त्य᳘थैषो᳘ ऽलम᳘न्नाया᳘लमा᳘हुतिभ्यो भवति॥

मूलम् - श्रीधरादि

(त्सो) सो ऽग्नि᳘मब्रवीत्॥
(त्त्व) त्वया᳘ ऽन्नमदानी᳘ति तथे᳘ति त᳘स्माद्य᳘दै᳘वैतम᳘त्राह᳘रन्त्य᳘थैषो᳘ ऽलम᳘न्नाया᳘लमा᳘हुतिभ्यो भवति॥

मूलम् - Weber

सो ऽग्नि᳘मब्रवीत्॥
त्वया᳘न्नमदानी᳘ति तथे᳘ति त᳘स्माद्यॗदैॗवैतम᳘त्राह᳘रन्त्य᳘थैषो᳘ ऽलम᳘न्नाया᳘लमा᳘हुतिभ्यो भवति॥

मूलम् - विस्वरम्

सो ऽग्निमब्रवीत्- त्वया ऽन्नमदानीति । तथेति । तस्माद्यदैवैतमत्राहरन्ति- अथैषो ऽलमन्नाय, अलमाहुतिभ्यो भवति ॥ ४९ ॥

सायणः

पश्चात् ‘सः’ चित्याग्निः प्रणेष्यमाणम् ‘अग्निम्’ ‘त्वया’ आगतेन ‘अन्नमदानि इति’ ‘अब्रवीत्’ ततः ‘तथेति’ तेनाप्यङ्गीकृतम् । ‘तस्मात्’ यस्मिन्नेवावसरे ‘एतम्’ अग्निं गार्हपत्यादेव चित्याग्नावाहरन्ति । अनेन गार्हपत्यानुष्टुभ आहरणमुक्तम् । ‘अथ’ पश्चाद् ‘एषः’ ‘अन्नाय’ समर्थो भवति । ‘अलमाहुतिभ्यः’ इति तदेवान्नं दर्शितम् । आहुतिरूपायान्नाय समर्थो भवति । अग्निप्रणयनानन्तरं भवतीत्यग्नेराहुतिसम्बन्धादिति भावः । “नमः स्वस्ति”- (पा. सू. २ । ३ । १६) इत्यादिना ‘अलं’- शब्दयोगात् चतुर्थी ॥ ४९ ॥

Eggeling
  1. He said to Agni 37, ‘By thee I will eat food!’–So be it!’ Hence it is only when they bring him hither, that this (cityāgni) becomes fit to eat food, to eat oblations.

५०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थो ऽआहुः॥
प्रजा᳘पतिरे᳘वैतं᳘ प्रियं᳘ पुत्रमु᳘रस्या᳘धत्त ऽइ᳘ति स यो᳘ हैत᳘देवं व्वेदा᳘ हैवं᳘ प्रियं᳘ पुत्रमु᳘रसि धत्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थो ऽआहुः॥
प्रजा᳘पतिरे᳘वैतं᳘ प्रियं᳘ पुत्रमु᳘रस्या᳘धत्त ऽइ᳘ति स यो᳘ हैत᳘देवं व्वेदा᳘ हैवं᳘ प्रियं᳘ पुत्रमु᳘रसि धत्ते॥

मूलम् - Weber

अ᳘थो आहुः॥
प्रजा᳘पतिरेॗवैत᳘म् प्रिय᳘म् पुत्रमु᳘रस्या᳘धत्त इ᳘ति स यो᳘ हैत᳘देवं वेदा᳘ हैवम् प्रिय᳘म् पुत्रमु᳘रसि धत्ते॥

मूलम् - विस्वरम्

अथो आहुः- प्रजापतिरेवैतं प्रियं पुत्रमुरस्याधत्त इति । स यो हैतदेवं वेद- आ हैवं प्रियं पुत्रमुरसि धत्ते ॥ ५० ॥

सायणः

अथो ऽआहुरित्यादिकस्यायमर्थः । किंच गार्हपत्यादनुष्टुभः आहरणेन चित्याग्निरूपः प्रजापतिरेव प्रणीताग्निरूपं ‘प्रियं पुत्रमुरसि’ धारितवन् भवति ‘इति’ ब्रह्मवादिन ‘आहुः’ अतो ऽपि तस्मादनुष्टुभमाहरन्तीत्यर्थः । उक्तार्थवेदनं प्रशंसति- स यो हैतादिति । लोके ‘यः’ कश्चिज्जनः ‘एतद्’ अर्थरूपं ‘एवम्’ उक्तप्रकारेण जानाति ‘सः’ जनश्च ‘एवम्’ एव ‘उरसि प्रियं पुत्रम्’ आधत्ते खलु । हेति निपातः प्रसिद्ध्यर्थद्योतकः । “व्यवहिताश्च” (पा. सू. १ । ४ । ८२) इत्यनुशासनात्पदान्तरव्यवहितो ऽप्याङित्युपसर्गो धत्त इत्यनेन सम्बध्यते ॥ ५० ॥

Eggeling
  1. Moreover, they say, ‘It is Prajāpati himself who takes this (Agni) as his dear son to his bosom;’ and verily, whosoever so knows this, takes thus a dear son to his bosom.

५१

विश्वास-प्रस्तुतिः

य᳘दे᳘वैतम᳘त्राह᳘रन्ति॥
यान्वै ता᳘न्त्सप्त पु᳘रुषाने᳘कं पु᳘रुषमकुर्व्वन्नय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘मेषां ता᳘मूर्ध्वाᳫँ᳭ श्रि᳘यᳫँ᳭ र᳘सᳫँ᳭ समुदौ᳘हन्नेष स य᳘मेतम᳘त्राग्नि᳘माह᳘रन्ति तद्य᳘देतम᳘त्राह᳘रन्ति᳘ यै᳘वैते᳘षा᳘ᳫँ᳘ सप्तानां पु᳘रुषाणाᳫँ᳭ श्रीर्यो र᳘सस्त᳘मेत᳘दूर्ध्व᳘ᳫँ᳘ समु᳘दूहन्ति त᳘दस्यैतच्छि᳘र ऽआ᳘त्मा ऽय᳘मग्नि᳘श्चत᳘ ऽआत्मा᳘नमे᳘वास्यैत᳘त्सᳫँ᳭स्कृ᳘त्य शि᳘रः प्र᳘तिदधाति॥

मूलम् - श्रीधरादि

य᳘दे᳘वैतम᳘त्राह᳘रन्ति॥
यान्वै ता᳘न्त्सप्त पु᳘रुषाने᳘कं पु᳘रुषमकुर्व्वन्नय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘मेषां ता᳘मूर्ध्वाᳫँ᳭ श्रि᳘यᳫँ᳭ र᳘सᳫँ᳭ समुदौ᳘हन्नेष स य᳘मेतम᳘त्राग्नि᳘माह᳘रन्ति तद्य᳘देतम᳘त्राह᳘रन्ति᳘ यै᳘वैते᳘षा᳘ᳫँ᳘ सप्तानां पु᳘रुषाणाᳫँ᳭ श्रीर्यो र᳘सस्त᳘मेत᳘दूर्ध्व᳘ᳫँ᳘ समु᳘दूहन्ति त᳘दस्यैतच्छि᳘र ऽआ᳘त्मा ऽय᳘मग्नि᳘श्चत᳘ ऽआत्मा᳘नमे᳘वास्यैत᳘त्सᳫँ᳭स्कृ᳘त्य शि᳘रः प्र᳘तिदधाति॥

मूलम् - Weber

य᳘देॗवैतम᳘त्राह᳘रन्ति॥
यान्वै ता᳘न्त्सप्त पु᳘रुषाने᳘कम् पु᳘रुषमकुर्वन्नय᳘मेव सॗ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘मेषां ता᳘मूर्ध्वां श्रि᳘यं र᳘सᳫं समुदौ᳘हन्नेष स य᳘मेतम᳘त्राग्नि᳘माह᳘रन्ति तद्य᳘देतम᳘त्राह᳘रन्तिॗ यैॗवैते᳘षा सप्तानाम् पु᳘रुषाणां श्रीर्यो र᳘सस्त᳘मेत᳘दूर्ध्व᳘ᳫं᳘ समु᳘दूहन्ति त᳘दस्यैतछि᳘र आॗत्माय᳘मग्नि᳘श्चत᳘ आत्मा᳘नमेॗवास्यैत᳘त्संस्कृ᳘त्य शि᳘रः प्र᳘तिदधाति॥

मूलम् - विस्वरम्

यद्वेवैतमत्राहरन्ति । यान्वै तान्त्सप्त पुरुषानेकं पुरुषमकुर्वन्- अयमेव सः- यो ऽयमग्निश्चीयते । अथ यामेषां तामूर्ध्वां श्रियं रसं समुदौहन्- एष सः- यमेतमत्राग्निमाहरन्ति । तद्यदेतमत्राहरन्ति- यैवैतेषां सप्तानां पुरुषाणां श्रीः, यो रसः, तमेतदूर्ध्वं समुदूहन्ति । तदस्यैतच्छिरः । आत्मा ऽयमग्निश्चितः । आत्मानमेवास्यैतत्संस्कृत्य शिरः प्रतिदधाति ॥ ५१ ॥

सायणः

अथ प्रकारान्तरेणापि गार्हपत्यादग्नेराहरणं प्रशंसति- यद्वेवैतमिति । अयमेवेति । ‘यो ऽयमग्निः’ अधुना ऽस्माभिः ‘चीयते’ । अयमेव चित्याग्निः सप्तानां पुरुषाणां समष्टिरूप एकः पुरुषः । अथ ‘एषां’ पुरुषाणां यां श्रियम् ‘ऊर्ध्वां समुदौहन्’ समुदाक्षिपन् । ‘एषः’ सरूपा श्रीः ‘सो ऽग्निः’ । एष इति पुल्ँलिङ्गविधिरग्न्यपेक्षया । एतमग्निमिदानीं चित्याग्नावाहरन्ति । इदानीं चाह्रियमाणो ऽग्निः सप्तपुरुषाणां समुत्क्षिप्तश्रीरूप इत्यर्थः । तस्मात् कारणात् ‘तम्’ एतमग्निम् अत्राहरन्तीति यत्तेन एतेषां सप्तानां पुरुषाणां श्रीरूपो यो रसो ऽस्ति तमूर्ध्वमुत्क्षिपन्ति । किञ्च तस्याः श्रियः शिरोरूपत्वं तत्रैव षष्ठकाण्डे ऽभिहितम् (श. प. ६ । १ । १ । ७) तस्मात्तदेतच्छ्रीरूपो यो ऽग्निरस्य प्रजापतेः शिरश्चितो ऽयमग्निः पुनः- ‘आत्मा’ शरीरम् । अत एतेन गार्हपत्यादग्नेराहरणसंस्कृतेन प्रजापतिशरीरेण स्वकीयं शिर एव सम्बध्नातीत्यर्थः ॥ ५१ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे द्वितीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (९-२-३) ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे द्वितीयो ऽध्यायः ॥ ९-२ ॥

Eggeling
  1. And, again, as to why they bring it here,–the Agni (fire-altar) which is built up here is the same as those seven persons which they made into one person; and that excellence and life-sap of them which they concentrated above, that is the fire which they now bring here,–hence, when they now bring it here, they concentrate above (in the head) that excellence and life-sap which belonged to those seven persons,–that is his (Agni’s) head, and this built-up fire-altar is the body: having thus completed his body, he restores the head to it.

  1. अग्नये प्रह्रियमाणायानुब्रूत्यग्नीदेकस्फ्यया ऽनूदेहि ब्रह्मन्नप्रतिरथं जपेति । का. श्रौ. सू. १८ । ३४ । ↩︎

  2. 191:1 Viz. a burning piece of wood taken from the Gārhapatya hearth to serve as the new Āhavanīya on the great fire-altar. The Gārhapatya fire, it will be remembered, was the Ukhya Agni, or the sacred fire carried in a pan (ukhā) by the Sacrificer during his time of initiation (dīkshā) lasting for a year (or some other definite period), till, at the end of that period, at the beginning of the Prāyaṇīya, or opening-offering, it was transferred from the pan to the newly-built Gārhapatya hearth. ↩︎

  3. 193:1 The trishṭubh verse consists of 4 × 11 syllables, hence the twelve verses of together 528 syllables. The gāyatrī verse, on the other hand, consists of 3 × 8 syllables; and twenty-two such verses would thus consist of altogether 528 syllables. ↩︎ ↩︎

  4. त्रिरुक्तायामुद्यम्योदु त्वेति । का० श्रौ० सू० १८ । ३५ ॥ ↩︎

  5. 193:2 Viz. VI, 8, 1, 7. ↩︎

  6. चित्यं गच्छंति पंच दिश इति । का० श्रौ० सू० १८ । ३६ । ↩︎

  7. 194:1 Mahīdhara takes ‘śamitā’ to stand for ‘śamitrā.’ ↩︎

  8. 195:1 ? Or, ‘May they favour our prayers and blessings!’ These verses are rather enigmatical. ↩︎

  9. 195:2 The author of the Brāhmaṇa connects ‘udayāṁ’ with ‘yam,’ Mahīdhara with ‘yā’ (udayān for udayāt). ↩︎

  10. 195:3 ? Or, reach ṭḥaṭ place; Sāyaṇa, in the first instance, takes it to mean ‘as far as this place’ (from beyond the sun down to the end of the air); but in the second instance, he takes it as referring to the particular spot on the sacrificial ground near which this part of the ceremonial is performed, viz. the Āgnīdhra’s fire-shed (as representing the air), south of which the Adhvaryu lays down a variegated stone close to the ‘spine.’ ↩︎

  11. आग्नीध्रदेशाद्दक्षिणं पृष्ठ्या सहितं पृश्न्यश्मानमुपदधाति व्विमान इति । का. श्रौ. सू. १८ । ३७ । ↩︎

  12. 196:1 That is, where the Āgnīdhra shed and hearth will afterwards have to be erected (see IX, 4, 3, 5-6) on the northern edge of the Vedi, midway between the Gārhapatya and Āhavanīya fire-places. ↩︎

  13. 197:1 Thus Mahīdhara here takes ‘pūrva,’ and apparently also the author of the Brāhmaṇa; the easterly father being the Āhavanīya, and hence the sky. In the formula it would rather seem to mean former, old.’ ↩︎

  14. निधायैनमतिक्रामतीन्द्रं व्विश्वा इति । का. श्रौ. सू. १८ । ३९ । ↩︎

  15. 197:2 See VIII, 7, 3, 7. ↩︎

  16. क्रमध्वमग्निनेति चित्यमारोहंति । का० श्रौ० सू० १८ । ४० । ↩︎

  17. 198:1 Viz. inasmuch as the firebrand now being carried forward to the great fire-altar, where it is henceforth to serve as Āhavanīya, was taken from the Gārhapatya fire, which itself is identical with the Ukhya Agni, or fire carried about by the Sacrificer in the Ukhā, or pan, during his period of initiation. See p. 191, note 1. ↩︎

  18. 199:1 Mahīdhara takes ‘puro’gni’ in the sense of fore-goer (puras agre aṅgati gacchati). ↩︎

  19. 199:2 That is, according to Mahīdhara, they think not of their sons, cattle, &c. ↩︎

  20. 199:3 Thus Mahīdhara takes ‘viśvatodhāra;’ ‘flowing in every direction’ (viśvato + dhārā), St. Petersb. Dict. ↩︎

  21. स्वयमातृण्णामध्यग्निं धारयन् शुक्लवत्सापयसा ऽभिजुहोति कृष्णाया दोहनेन स्वयमातृण्णामवसिंचन्नक्तोषासेति । का० श्रौ० सू० । १८ । ४१ । ↩︎

  22. 201:1 Viz. VI, 7, 2, 2. ↩︎

  23. 201:2 See IX, 2, 1, 1. ↩︎

  24. 201:3 See IX, 1, 1, 6. ↩︎

  25. 201:4 ? Or, that (firebrand) is indeed food (vāja). Mahīdhara interprets this part of the formula thus: To thee do we give food (vājāya for vājam). ↩︎

  26. तस्थामग्निं निदधाति सुपर्णो ऽसीति व्वषट्कारेण । का० श्रौ० सू० । १८ । ४३ । ↩︎

  27. 201:5 See VI, 7, 2, 5 seq. ↩︎

  28. समिदाधानँ शामिलीवैकंकत्यौदुम्वर्यस्ताँ सवितुरिति प्रत्यृचमुत्तमा सकर्णका ॥ कर्णका ऽभावे दधिद्रप्साक्ता । का. श्रौ. सू १८ । ४५-४६ । ↩︎

  29. इ᳘त्येत᳘त्प्र ABC. ↩︎

  30. 203:1 Weber, Ind. Stud. XIII, 281, takes ‘karṇakavat’ to mean ‘one that has a knot-hole;’ but Deva’s explanation, ‘karṇako dvitīyaśākhodbhedaḥ,’ probably means nothing else than ‘showing the appearance of a second branch,’ or ‘one in which a second branch (side branch) has struck out.’ ↩︎

  31. स्रुवाहुती जुहोत्यग्ने तमद्येति च प्रत्यृवम् । का० श्रौ० सू० १८ । ४७ । ↩︎

  32. पूर्णाहुतिं च सप्त त इति । का. श्रौ. सू. १८ । ४८ । ↩︎

  33. 205:1 See VI, 1, 1, 1 seq. ↩︎

  34. तिष्ठन् समिधः सर्वत्र मध्ये । का० श्रौ० सू. १८ । ४९ । ↩︎

  35. 206:1 See VII, 1, 2, 16-19. ↩︎

  36. 206:2 Literally, he was not equal thereto that he should eat food. ↩︎

  37. 206:3 That is, the Cityāgni (fire-altar) said to the Agni (fire) about to be led forward. ↩︎