०१
विश्वास-प्रस्तुतिः
प्रत्ये᳘त्याग्निं᳘ प्रहरिष्यन्[[!!]]॥
(न्ना᳘) आ᳘हुतीश्च जुहो᳘ति समि᳘धश्चा᳘दधात्येतद्वा᳘ ऽएनं देवा᳘ ऽएष्य᳘न्तं पुर᳘स्ताद᳘न्नेना᳘प्रीणन्ना᳘हुतिभिश्च समि᳘द्भिश्च त᳘थै᳘वैनमय᳘मेत᳘देष्य᳘न्तं पुर᳘स्ताद᳘न्नेन प्रीणात्या᳘हुतिभिश्च समि᳘द्भिश्च स वै᳘ पञ्चगृहीतं᳘ गृह्णीते त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
प्रत्ये᳘त्याग्निं᳘ प्रहरिष्यन्[[!!]]॥
(न्ना᳘) आ᳘हुतीश्च जुहो᳘ति समि᳘धश्चा᳘दधात्येतद्वा᳘ ऽएनं देवा᳘ ऽएष्य᳘न्तं पुर᳘स्ताद᳘न्नेना᳘प्रीणन्ना᳘हुतिभिश्च समि᳘द्भिश्च त᳘थै᳘वैनमय᳘मेत᳘देष्य᳘न्तं पुर᳘स्ताद᳘न्नेन प्रीणात्या᳘हुतिभिश्च समि᳘द्भिश्च स वै᳘ पञ्चगृहीतं᳘ गृह्णीते त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
प्रत्ये᳘त्याग्नि᳘म् प्रहरिष्य᳘न्॥
आ᳘हुतीश्च जुहो᳘ति समि᳘धश्चा᳘दधात्येतद्वा᳘ एनं देवा᳘ एष्य᳘न्तम् पुर᳘स्ताद᳘न्नेनाप्रीणन्ना᳘हुतिभिश्च समि᳘द्भिश्च त᳘थैॗवैनमय᳘मेत᳘देष्य᳘न्तम् पुर᳘स्ताद᳘न्नेन प्रीणात्या᳘हुतिभिश्च समि᳘द्भिश्च स वै᳘ पञ्चगृहीतं᳘ गृह्णीते त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
प्रत्येत्याग्निं प्रहरिष्यन्नाहुतीश्च जुहोति, समिधश्चादधाति । एतद्वा एनं देवा एष्यन्तं पुरस्तादन्नेनाप्रीणन्- आहुतिभिश्च समिद्भिश्च । तथैवैनमयमेतदेष्यन्तं पुरस्तादन्नेन प्रीणाति- आहुतिभिश्च समिद्भिश्च । स वै पञ्चगृहीतं गृह्णीते । तस्योक्तो बन्धुः ॥ १ ॥
सायणः
प्रवर्ग्योद्वासनानन्तरं सञ्चिते इष्टकासमूहे स्थापनायाग्निं प्रणेतुं तावद्गार्हपत्ये आज्यहोमं समिद्धोमं च विधत्ते- प्रत्येत्याग्निमिति । ‘प्रहरिष्यन्’ इति । प्रणेष्यन्नित्यर्थः । विहितहोम आहवनीयप्रदेशं गमिष्यतो ऽग्नेः प्रीणनाय पुरस्तादन्नेन सम्पाद्यत इत्याह- एतद्वा एनमित्यादिना । ‘आहुतिभिः’ ‘समिद्भिश्च’ इत्येतद् अन्नेन इत्यस्य विशेषणम् । आहुतिसमिद्रूपेणान्नेनेत्यर्थः । आहुतिभिश्च समिद्भिश्चेति सामान्येन विधानात् कथं होमप्रकार इत्यपेक्षायामाह- स वै पञ्चगृहीतमिति 1 । आज्यं च पञ्चगृहीतं यथा भवति तथा ‘गृहीते’ पञ्चवारं गृह्णीत इत्यर्थः । तस्य तु “पञ्च वा ऋतवः” इत्यादिकं ब्राह्मणं प्रागुक्तम् । अनेन पञ्चगृहीतेनाज्येनैकाहुतिः सम्पद्यते ॥ १ ॥
Eggeling
- Having returned to the (Gārhapatya 2) in order to take forward the fire, he offers oblations, and puts on pieces of firewood. For now that Agni was about to go forward (to the fire-altar), the gods regaled him with food, both with oblations and pieces of firewood; and in like manner does this (Sacrificer), now that he (Agni) is about to go forward, regale him with food, both with oblations and pieces of firewood. He takes (ghee) in five ladlings: the meaning of this has been explained.
०२
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ षोडशगृहीतं᳘ गृह्णीते॥
षो᳘डशकलः प्रजा᳘पतिः प्रजा᳘पतिरग्नि᳘रात्म᳘संमितेनै᳘वैनमेतद᳘न्नेन प्रीणाति य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति समान्या᳘ᳫँ᳘ स्रुचि᳘ गृह्णीते समानो हि स य᳘मेत᳘त्प्रीणा᳘ति व्वैश्वकर्मणा᳘भ्यां जुहोति व्विश्व᳘कर्मा ऽय᳘मग्निस्त᳘मे᳘वैत᳘त्प्रीणाति तिस्र ऽआ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ षोडशगृहीतं᳘ गृह्णीते॥
षो᳘डशकलः प्रजा᳘पतिः प्रजा᳘पतिरग्नि᳘रात्म᳘संमितेनै᳘वैनमेतद᳘न्नेन प्रीणाति य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति समान्या᳘ᳫँ᳘ स्रुचि᳘ गृह्णीते समानो हि स य᳘मेत᳘त्प्रीणा᳘ति व्वैश्वकर्मणा᳘भ्यां जुहोति व्विश्व᳘कर्मा ऽय᳘मग्निस्त᳘मे᳘वैत᳘त्प्रीणाति तिस्र ऽआ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - Weber
अ᳘थ षोडशगृहीतं᳘ गृह्णीते॥
षो᳘डशकलः प्रजा᳘पतिः प्रजा᳘पतिरग्नि᳘रात्म᳘सम्मितेनैॗवैनमेतद᳘न्नेन प्रीणाति य᳘दु वा᳘ आत्म᳘सम्मितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति समान्या᳘ᳫं᳘ स्रुचि᳘ गृह्णीते समानो हि स य᳘मेत᳘त्प्रीणा᳘ति वैश्वकर्मणा᳘भ्यां जुहोति विश्व᳘कर्माय᳘मग्निस्त᳘मेॗवैत᳘त्प्रीणाति तिस्र आ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - विस्वरम्
अथ षोडशगृहीतं गृह्णीते । षोडशकलः प्रजापतिः । प्रजापतिरग्निः । आत्मसम्मितेनैवैनमेतदन्नेन प्रीणाति । यदु वा आत्मसम्मितमन्नं- तदवति, तन्न हिनस्ति । यद्भूयो- हिनस्ति तत् । यत्कनीयो- न तदवति । समान्यां स्रुचि गृह्णीते । समानो हि सः- यमेतत्प्रीणाति । वैश्वकर्मणाभ्यां जुहोति । विश्वकर्मा ऽयमग्निः । तमेवैतत्प्रीणाति । तिस्र आहुतीर्जुहोति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्नेन प्रीणाति ॥ २ ॥
सायणः
‘अथ षोडशगृहीतम्’ आज्यं ‘गृह्णीते’ । अष्टौ प्राणाः, अष्टावङ्गानीत्येतैः षोडशावयवः ‘प्रजापतिः’ अयं च चीयमानः ‘अग्निः’ प्रजापत्यात्मकः । अतस्तत्य षोडशगृहीतमात्मसदृशमन्नं भवतीति तदुचितेनैव ‘अन्नेन एनं प्रीणाति’ लोके हि ‘यद् एव अन्नमात्मसम्मितं’ तदेव रक्षति, न च ‘हिनस्ति’ भूयसो हिंसकत्वादल्पस्य त्वपर्याप्तत्वेनारक्षकत्वादिति । अत्र षोडशगृहीतं समं विभज्य द्वे आहुती क्रियेते, अतश्चाहुतिभेदेन पृथगेव ग्रहणप्रसक्तावाह- समान्यामिति । ‘समान्याम्’ एकस्याम् ‘स्रुचि गृह्णीते’ षोडशगृहीतमाज्यं सहैव गृह्णीयादित्यर्थः । आहुतिभेदे ऽपि कथमेकं गृह्यत इत्याह- समानो हीति । एतेन षोडशगृहीतेनाज्येन ‘यं’ ‘प्रीणाति’ तस्याग्नेरेकत्वादित्यर्थः । प्रकृतेन षोडशगृहीतेनाज्येन साध्यौ द्वौ होमाविति दर्शयन् मान्त्रवर्णिकदेवतासम्बन्धस्याग्नेये प्रकृतहोमे पर्यवसानार्थतामाह- वैश्वकर्मणाभ्यामिति । ‘वैश्वकर्मण’- शब्द उद्भिदादिशब्दवत् कर्मनामधेयम् । अग्नेः प्रजापत्यात्मकत्वेन विश्वविषयकर्मवत्त्वाद्विश्वकर्मत्वम् । पञ्चगृहीतेनाज्येनैकाहुतिः, षोडशगृहीतेन द्वे आहुती, इति तिस्र आहुतयः सम्पद्यन्ते । या च त्रित्वसङ्ख्या सा संचितस्याग्नेस्तृप्तिहेतुर्भवतीत्याह- तिस्र आहुतीर्जुहोति त्रिवृदग्निरिति ॥ २ ॥
Eggeling
- He then takes (ghee) in sixteen ladlings 3,–Prajāpati consists of sixteen parts, and Prajāpati is Agni: he thus regales him with food proportionate to his body; and the food which is proportionate to the body satisfies and does no injury; but that which is excessive does injury, and that which is too little does not satisfy. He takes (the oblations) in the same offering-ladle, for one and the same (Agni) is he whom he regales therewith. With two (verses) addressed to Viśvakarman he offers; for this Agni is Viśvakarman (the all-worker): it is him he thereby gratifies. Three oblations he offers,–threefold is Agni: as great as Agni is, as great as is his measure, with so much food he thus regales him.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ समि᳘ध ऽआ᳘दधाति॥
य᳘था तर्पयित्वा᳘ परिवेविष्या᳘त्तादृक्तदौ᳘दुम्बर्यो भवन्त्यूर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जै᳘वैनमेतद्र᳘सेन प्रीणात्यार्द्रा᳘ भवन्त्येतद्वै व्व᳘नस्प᳘तीनाम᳘नार्तं जीवं य᳘दार्द्रं तद्य᳘देव व्व᳘नस्प᳘तीनाम᳘नार्तं जीवं ते᳘नैनमेत᳘त्प्रीणाति घृते᳘ न्युत्ता भवन्त्याग्नेयं वै᳘ घृतᳫँ᳭ स्वे᳘नै᳘वैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणाति स᳘र्वाᳫँ᳭ रा᳘त्रिं व्वसन्ति त᳘त्र हि ता र᳘सेन सम्प᳘द्यन्ते[[!!]] तिस्रः᳘ समि᳘ध ऽआ᳘दधाति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणा᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ समि᳘ध ऽआ᳘दधाति॥
य᳘था तर्पयित्वा᳘ परिवेविष्या᳘त्तादृक्तदौ᳘दुम्बर्यो भवन्त्यूर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जै᳘वैनमेतद्र᳘सेन प्रीणात्यार्द्रा᳘ भवन्त्येतद्वै व्व᳘नस्प᳘तीनाम᳘नार्तं जीवं य᳘दार्द्रं तद्य᳘देव व्व᳘नस्प᳘तीनाम᳘नार्तं जीवं ते᳘नैनमेत᳘त्प्रीणाति घृते᳘ न्युत्ता भवन्त्याग्नेयं वै᳘ घृतᳫँ᳭ स्वे᳘नै᳘वैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणाति स᳘र्वाᳫँ᳭ रा᳘त्रिं व्वसन्ति त᳘त्र हि ता र᳘सेन सम्प᳘द्यन्ते[[!!]] तिस्रः᳘ समि᳘ध ऽआ᳘दधाति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणा᳘ति॥
मूलम् - Weber
अ᳘थ समि᳘ध आ᳘दधाति॥
य᳘था तर्पयित्वा᳘ परिवेविष्या᳘त्तादृक्तदौ᳘दुम्बर्यो भवन्त्यूर्ग्वै र᳘स उदुम्ब᳘र ऊॗर्जैॗवैनमेतद्र᳘सेन प्रीणात्यार्द्रा᳘ भवन्त्येतद्वै व᳘नस्प᳘तीनाम᳘नार्तं जीवं य᳘दार्द्रं तद्य᳘देव व᳘नस्प᳘तीनाम᳘नार्तं जीवं ते᳘नैनमेत᳘त्प्रीणाति घृतेॗ न्युत्ता भवन्त्याग्नेयं वै᳘ घृतᳫं स्वे᳘नैॗवैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणाति स᳘र्वां रा᳘त्रिं वसन्ति त᳘त्र हि ता र᳘सेन स᳘म्पद्यन्ते तिस्रः᳘ समि᳘ध आ᳘दधाति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति॥
मूलम् - विस्वरम्
अथ समिध आदधाति । यथा तर्पयित्वा परिवेविष्यात्- तादृक् तत् । औदुम्बर्यो भवन्ति । ऊर्ग्वै रस उदुम्बरः। ऊर्जैवैनमेतद्रसेन प्रीणाति । आर्द्रा भवन्ति । एतद्वै वनस्पतीनामनार्तं जीवम्- यदार्द्रम् । तद् यदेव वनस्पतीनामनार्तं जीवं- तेनैनमेतत्प्रीणाति । घृते न्युत्ता भवन्ति । आग्नेयं वै घृतम् । स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति । सर्वां रात्रिं वसन्ति । तत्र हि ता रसेन सम्पद्यन्ते । तिस्रः समिध आदधाति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्नेन प्रीणाति ॥ ३ ॥
सायणः
आहुतीश्च जुहोति समिधश्चादधातीति होमद्वयमपि सामान्येन विहितम् । तत्राज्याहुतीनां होमप्रकारो ऽभिहितः । अथ समिधां होमे विशेषमभिधातुमाह- अथ समिध इति । यथा तर्पयित्वेति । लोके जनः कंचित्पुरुषं साधारणान्नेन तर्पयित्वा पश्चादन्नविशेषाणां परिवेषणं करोति तद्वदेवायमपि समिद्धोमो भवति । आज्याहुतिलक्षणस्यान्नस्य प्रथमं सम्पादितत्वादिस्यर्थः । ‘परिवेविष्यात्’ इति यङ्लुगन्तस्य लिङि रूपम् । ताश्च समिध औदुम्बर्यो भवेयुरित्याह- औदुम्बर्य इति । उदुम्बरस्य च ऊर्ग्रूपरसात्मकत्वात्तेनैनं प्रीणातीत्याह- ऊर्ग्वा इति । ‘एतद्वै वनस्पतीनाम्’ इत्यादिकस्यायमर्थः । ‘आर्द्रम्’ आर्द्रत्वं गुण इति यदेतद्वनस्पतीनामार्द्रत्वमनुपहतं ‘जीवम्’ आर्द्रेतराणामुपजीव्यत्वात् । अत आर्द्राभिः समिद्भिर्होमे तेन जीवेन एवं प्रीणाति । अग्नौ हूयमानस्प घृतस्य समिदादिवद्भस्मीभावाभावात्, केवलं ज्वालारूपेण परिणामाद् ‘आग्नेयम्’ अत एव श्रूयते- “एतद्वा अग्नेः प्रियं धाम यदाज्यमिति” (तै. सं. ६ । ३ । ५ । ४) । ‘ताः समिधः’ पूर्वेद्युः रात्रौ सर्वस्यामेव घृते ‘वसन्ति’ । ‘सर्वां रात्रिम्’ इति अत्यन्तसंयोगे द्वितीया । तत्तथा निवासे हि ताः रसेन सम्पन्ना भवन्तीति । अतस्तथाविधाभिः समिद्भिर्होमे स्वकीयेन रसरूपेण भागेन ‘एनम्’ अग्निम् प्रीणितवान् भवतीति । समिध आदधातीति सामान्येन बहुत्वविधानात्तद्विशेषपर्यवसानमाह- तिस्र इति । तां च त्रित्वसङ्ख्यां सकलाग्निप्रीतिहेतुत्वेन प्रशंसति- त्रिवृदग्निरित्यादिना ॥ ३ ॥
Eggeling
- He then puts on the pieces of firewood: this is as if, after regaling some one, one were to attend upon him. They are of udumbara (ficus glomerata) wood; for the Udumbara is food and sap: with food and sap he thus regales him. They are fresh (green), for that part of trees which is fresh is uninjured and living: he thus regales him with what is uninjured and living in trees. They are soaked in ghee; for ghee is sacred to Agni: with his own portion, with his own sap he thus regales him. They remain the whole night in it, for there they become imbued with sap. Three pieces of wood he puts on,–threefold is Agni: as great as Agni is, as great as is his measure, with so much food he thus regales him.
०४
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैता ऽआ᳘हुतीर्जुहो᳘ति॥
(त्ये) एतद्वा᳘ ऽएनं देवा᳘ ऽएष्य᳘न्तं पुर᳘स्ताद᳘न्नेन स᳘मस्कुर्व्वन्नेता᳘भिरा᳘हुतिभिस्त᳘थै᳘वैनमय᳘मेत᳘देष्य᳘न्तं पुर᳘स्ताद᳘न्नेन स᳘ᳫँ᳘स्करोत्येता᳘भिरा᳘हुतिभिः॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैता ऽआ᳘हुतीर्जुहो᳘ति॥
(त्ये) एतद्वा᳘ ऽएनं देवा᳘ ऽएष्य᳘न्तं पुर᳘स्ताद᳘न्नेन स᳘मस्कुर्व्वन्नेता᳘भिरा᳘हुतिभिस्त᳘थै᳘वैनमय᳘मेत᳘देष्य᳘न्तं पुर᳘स्ताद᳘न्नेन स᳘ᳫँ᳘स्करोत्येता᳘भिरा᳘हुतिभिः॥
मूलम् - Weber
य᳘द्वेॗवैता आ᳘हुतीर्जुहो᳘ति॥
एतद्वा᳘ एनं देवा᳘ एष्य᳘न्त पुर᳘स्ताद᳘न्नेन स᳘मस्कुर्वन्नेता᳘भिरा᳘हुतिभिस्त᳘थैॗवैनमय᳘मेत᳘देष्य᳘न्तम् पुर᳘स्ताद᳘न्नेन संस्करोत्येता᳘भिरा᳘हुतिभिः॥
मूलम् - विस्वरम्
यद्वेवैता आहुतीर्जुहोति । एतद्वा एनं देवा एष्यन्तं पुरस्तादन्नेन समस्कुर्वन्-एताभिराहुतिभिः । तथैवैनमयमेतदेष्यन्तं पुरस्तादन्नेन संस्करोति- एताभिराहुतिभिः ॥ ४ ॥
सायणः
यद्वेवैता इति । समस्कुर्वन्निति । आहवनीयरूपतानुगुणं संस्कार- विशिष्टमकुर्वन्नित्यर्थः ॥ ४ ॥
Eggeling
- And; again, as to why he offers those oblations;–now that he (Agni) was about to go forward,
the gods restored (recruited) him beforehand with food, with these oblations; and in like manner does this (Sacrificer), now that he (Agni) is about to go forward, restore him beforehand with food, with these oblations.
०५
विश्वास-प्रस्तुतिः
स वै᳘ पञ्चगृहीतं[[!!]] गृह्णीते॥
पञ्चधाविहितो वा᳘ ऽअय᳘ᳫँ᳘ शीर्ष᳘न्प्राणो म᳘नो व्वा᳘क्प्राणश्च᳘क्षुः श्रो᳘त्रमे᳘तमे᳘वास्मिन्नेत᳘त्पञ्चधाविहित᳘ᳫँ᳘ शीर्ष᳘न्प्राणं᳘ दधात्यग्नि᳘स्तिग्मे᳘न शोचिषे᳘ति तिग्म᳘वत्या शि᳘र ऽए᳘वास्यैत᳘या स᳘ᳫँ᳘श्यति तिग्म᳘तायै॥
मूलम् - श्रीधरादि
स वै᳘ पञ्चगृहीतं[[!!]] गृह्णीते॥
पञ्चधाविहितो वा᳘ ऽअय᳘ᳫँ᳘ शीर्ष᳘न्प्राणो म᳘नो व्वा᳘क्प्राणश्च᳘क्षुः श्रो᳘त्रमे᳘तमे᳘वास्मिन्नेत᳘त्पञ्चधाविहित᳘ᳫँ᳘ शीर्ष᳘न्प्राणं᳘ दधात्यग्नि᳘स्तिग्मे᳘न शोचिषे᳘ति तिग्म᳘वत्या शि᳘र ऽए᳘वास्यैत᳘या स᳘ᳫँ᳘श्यति तिग्म᳘तायै॥
मूलम् - Weber
स वै᳘ पञ्चगृहीतं᳘ गृह्णीते॥
पञ्चधाविहितो वा᳘ अयं᳘ शीर्ष᳘न्प्राणो म᳘नो वा᳘क् प्राणश्च᳘क्षुः श्रो᳘त्रमे᳘तमेॗवास्मिन्नेत᳘त्पञ्चधाविहितं᳘ शीर्ष᳘न्प्राणं᳘ दधात्यग्नि᳘स्तिग्मे᳘न शोचिषे᳘ति तिग्म᳘वत्या शि᳘र एॗवास्यैत᳘या सं᳘श्यति तिग्म᳘तायै॥
मूलम् - विस्वरम्
स वै पञ्चगृहीतं गृह्णीते । पञ्चधाविहितो वा अयं शीर्षन्प्राणः । मनो, वाक्, प्राणः, चक्षुः, श्रोत्रम् । एतमेवास्मिन्नेतत्पञ्चधाविहितं शीर्षन्प्राणं दधाति । “अग्निस्तिग्मेन शोचिषा”- (वा. सं. १७ । १६) इति तिग्मवत्या । शिर एवास्यैतया संश्यति तिग्मतायै ॥ ५ ॥
सायणः
तत्र प्रथमाहुत्यर्थं पञ्चवारग्रहणमग्नेः शीर्षण्यप्राणपञ्चकोपाधानरूपेण प्रशंसति- स वै पञ्चगृहीतमिति । वागिति । ‘वाग्’ इति मुखम्, प्राण इति घ्राणम्, चक्षुर्द्वयं श्रोत्रद्वयं च द्वौ प्राणौ, मनःसहिता वागादयः शिरसि पञ्चधाविहितः प्राणः । अतश्च पञ्चवारग्रहणेन ‘अस्मिन्’ अग्नौ शिरसि मनः- प्रभृति प्राणपञ्चकं निदधाति । होममन्त्रस्य तिग्मपदसम्बन्धं प्रशंसति-अग्निस्तिग्मेनेति । तिग्मशब्दस्य तीक्ष्णवाचकत्वात् तद्वत्या ऋचा होमेन तैक्ष्ण्यसिद्धये ऽग्नेः शिरस्तीक्ष्णं करोति । ‘संश्यति’ इति “शो तनूकरणे”- (धा. पा. दि. प. ३९) अस्माल्लटि श्यनि “ओतः श्यनि”- (पा. सू. ७ । ३ । ११) इत्याकारलोपः ॥ ५ ॥
Eggeling
- He takes (ghee) in five ladlings, for fivefold divided is that vital air in the head,–the mind, speech, the breath, the eye, and the ear,–he thus lays that fivefold divided vital air into this head. [He offers it, with, Vāj. S. XVII, 16], ‘Agni, with sharp flame, (may destroy every demon! Agni gaineth wealth for us)’ thus with a (verse) containing (the word) ‘sharp’: he therewith sharpens his head so as to become sharp.
०६
विश्वास-प्रस्तुतिः
(या ऽअ) अ᳘थ षोडशगृहीतं᳘ गृह्णीते॥
(ते ऽष्तौ᳘) अष्टौ᳘ प्राणा᳘ ऽअष्टाव᳘ङ्गान्येता᳘मभिसम्प᳘दᳫँ᳭ समान्या᳘ᳫँ᳘ स्रुचि᳘ गृह्णीते समाने᳘ ह्ये᳘वात्मन्न᳘ङ्गानि च प्रा᳘णाश्च भ᳘वन्ति ना᳘ना जुहोत्य᳘ङ्गेभ्यश्च त᳘त्प्राणे᳘भ्यश्च व्वि᳘धृतिं करोति व्वैश्वकर्मणा᳘भ्यां जुहोति व्विश्व᳘कर्मा ऽय᳘मग्निस्त᳘मे᳘वैतत्स᳘ᳫँ᳘स्करोति तिस्र ऽआ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन स᳘ᳫँ᳘स्करोति सप्तदश᳘भिर्ऋग्भिः᳘ सप्तदशः᳘ प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानाग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘ᳫँ᳘स्करोत्ये᳘कविᳫँ᳭शतिगृहीते᳘न द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वादित्य᳘ ऽएकविᳫँ᳭श᳘ ऽएता᳘मभिसम्प᳘दम्॥
मूलम् - श्रीधरादि
(या ऽअ) अ᳘थ षोडशगृहीतं᳘ गृह्णीते॥
(ते ऽष्तौ᳘) अष्टौ᳘ प्राणा᳘ ऽअष्टाव᳘ङ्गान्येता᳘मभिसम्प᳘दᳫँ᳭ समान्या᳘ᳫँ᳘ स्रुचि᳘ गृह्णीते समाने᳘ ह्ये᳘वात्मन्न᳘ङ्गानि च प्रा᳘णाश्च भ᳘वन्ति ना᳘ना जुहोत्य᳘ङ्गेभ्यश्च त᳘त्प्राणे᳘भ्यश्च व्वि᳘धृतिं करोति व्वैश्वकर्मणा᳘भ्यां जुहोति व्विश्व᳘कर्मा ऽय᳘मग्निस्त᳘मे᳘वैतत्स᳘ᳫँ᳘स्करोति तिस्र ऽआ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन स᳘ᳫँ᳘स्करोति सप्तदश᳘भिर्ऋग्भिः᳘ सप्तदशः᳘ प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानाग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतत्स᳘ᳫँ᳘स्करोत्ये᳘कविᳫँ᳭शतिगृहीते᳘न द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वादित्य᳘ ऽएकविᳫँ᳭श᳘ ऽएता᳘मभिसम्प᳘दम्॥
मूलम् - Weber
अ᳘थ षोडशगृहीतं᳘ गृह्णीते॥
अष्टौॗ प्राणा᳘ अष्टाव᳘ङ्गान्येता᳘मभिसम्प᳘दᳫं समान्या᳘ᳫं᳘ स्रुचि᳘ गृह्णीते समानेॗ ह्येॗवात्मन्न᳘ङ्गानि च प्रा᳘णाश्च भ᳘वन्ति ना᳘ना जुहोत्य᳘ङ्गेभ्यश्च त᳘त्प्राणे᳘भ्यश्च वि᳘धृतिं करोति वैश्वकर्मणा᳘भ्यां जुहोति विश्व᳘कर्माय᳘मग्निस्त᳘मेॗवैतत्स᳘ᳫं᳘स्करोति तिस्र आ᳘हुतीर्जुहोति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन स᳘ᳫं᳘स्करोति सप्तदश᳘भिरृग्भिः᳘ सप्तदशः᳘ प्रजा᳘पतिः प्रजा᳘पतिरग्निर्या᳘वानाग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतत्स᳘ᳫं᳘स्करोत्येकविंशतिगृहीते᳘न द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य इमे᳘ लोका᳘ असा᳘वादित्य᳘ एकविंश᳘ एता᳘मभिसम्प᳘दम्॥
मूलम् - विस्वरम्
अथ षोडशगृहीतं गृह्णीते । अष्टौ प्राणाः, अष्टावङ्गानि, एतामभिसम्पदम् । समान्यां स्रुचि गृह्णीते । समाने ह्येवात्मन्नङ्गानि च प्राणाश्च भवन्ति । नाना जुहोति । अङ्गेभ्यश्च तत्प्राणेभ्यश्च विधृतिं करोति । वैश्वकर्मणाभ्यां जुहोति । विश्वकर्मा ऽयमग्निः । तमेवैतत् संस्करोति । तिस्र आहुतीर्जुहोति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदन्नेन संस्करोति । सप्तदशभिर्ऋग्भिः । सप्तदशः प्रजापतिः । प्रजापतिरग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतत् संस्करोति । एक विंशतिगृहीतेन । द्वादश मासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंशः- एतामभिसम्पदम् ॥ ६ ॥
सायणः
अथ तत्राहुतिद्वयार्थं षोडशवारग्रहणं प्रशंसति- अथेति । शीर्षण्याः प्राणाः सप्त, अवाङ् प्राण एक इत्यष्टौ प्राणाः, “चत्वारि दोर्बाहवाणि, चत्वार्यूर्वष्ठीवानीति” च प्रसिद्धान्यष्टावङ्गानि । एतां सम्पदमभिलक्ष्य षोडशगृहीतस्य ग्रहणमस्मिन्नग्नौ प्राणानामङ्गानां च अष्टकसम्पादनार्थम् षोडशवारं गृह्णीत इत्यर्थः । एकस्मिन्नेव शरीरे ऽङ्गानां प्राणानां चावस्थानात्षोडशगृहीतमेकस्रुचि गृह्णीते । होमं तु पृथगेव करोति । एवञ्च अङ्गानां प्राणानाञ्च ‘विधृतिं’ विभेदेन धारणमसङ्कीर्णतां करोति । तयोर्होमयोर्वैश्वकर्मणत्वाद् विश्वकर्मशब्दाभिधेयमग्निं संस्करोति । आहुतीनाञ्च त्रित्वात्त्रिवृतो ऽग्नेः सकलस्यापि संस्कारं सम्पादयति । अत्र “अग्निस्तिग्मेन” (वा. सं. १७ । १६) इत्यनया ऋचा पञ्चगृहीतं हूयते । “य इमा विश्वा” (वा. सं. १७ । १७) इत्यादिभिरष्टाभिर्ऋग्भिः षोडशगृहीतार्धं हूयते । अवशिष्टं “चक्षुषः पिता” (वा. सं. १७ । २५) इत्यादिभिरष्टभिर्हूयते । अत एव कात्यायनः- “पञ्चगृहीतं जुहोत्यग्निस्तिग्मेनेत्यृचा षोडशगृहीतार्धमनुवाकशेषेण" (१८ । ३०) “चक्षुषः 4 पितेत्यपरमनुवाकेन” इति । एवं सर्वाः सम्भूय सप्तदश भवन्ति । तामेतां मन्त्रगतां संख्यां कृत्स्नाग्निसंस्कारहेतुत्वेन प्रशंसति- सप्तदशभिर्ऋग्भिरिति । प्रजापतेः सप्तदशत्वं तैत्तिरीयके श्रुतम्- “आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशः प्रजापतिः” (तै. सं. १ । ६ । ११ । १) इति । अथवा अष्टौ प्राणाः, अष्टावङ्गानि, स्वयमेक इति सप्तदशात्मकः । मिलितां ग्रहणसंख्यां प्रशंसति- एकविँ शतिगृहीतेनेति । ‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’ एषा संपत् । एतामभिलक्ष्य एकविंशतिगृहीतेन हूयते । एतस्याग्नेर्यथोक्तैकविंशात्मकत्वसम्पादनायैकविंशतिगृहीतेन होम इत्यर्थः ॥ ६ ॥
Eggeling
- He then takes (ghee) in sixteen ladlings: eight vital airs, and eight limbs 5,–this (the symbolical) amount. He takes it in the same spoon, for, indeed, the vital airs and the limbs are in the same body. Separately 6 he offers: he thereby makes a distinction between the vital airs and the limbs. With two (verses) addressed to Viśvakarman he offers: Viśvakarman is this Agni, it is him he thus puts together. Three oblations he offers,–threefold is Agni: as great as Agni is, as great as is his measure, with so much food he thus restores him. With seventeen verses (he offers) 7,–Prajāpati is seventeenfold, and Prajāpati is Agni: as great as Agni is, as great as is his measure, with so much he thus restores him.
With (ghee) taken in twenty-one ladlings (he offers the two oblations),–there are twelve months, five seasons, these three worlds, and yonder sun as the twenty-first: this is the (symbolical) amount (or, correspondence).
०७
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैताः᳘ समि᳘ध ऽआद᳘धाति॥
(त्ये) एतद्वा᳘ ऽएनं देवाः स᳘र्व्वं कृत्स्न᳘ᳫँ᳭ सᳫँ᳭स्कृत्या᳘थैनमेते᳘ना᳘न्नेनाप्रीणन्नेता᳘भिः समि᳘द्भिस्त᳘थै᳘वैनमय᳘मेतत्स᳘र्व्वं कृत्स्न᳘ᳫँ᳘ सᳫँ᳭स्कृत्या᳘थैनमेतेना᳘न्नेन प्रीणात्येता᳘भिः समि᳘द्भिरौ᳘दुम्बर्यो भवन्त्यार्द्रा᳘ घृते᳘ न्युत्ताः स᳘र्व्वाᳫँ᳭ रा᳘त्रिं व्वसन्ति त᳘स्योक्तो ब᳘न्धुरु᳘देन᳘मुत्तरां᳘ नये᳘न्द्रेमं᳘ प्रतरां᳘ नय य᳘स्य कुर्मो᳘ गृहे᳘ हविरि᳘ति य᳘था य᳘जुस्त᳘था ब᳘न्धुस्तिस्रः᳘ समि᳘ध ऽआ᳘दधाति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति तिस्र ऽआ᳘हुतीर्जुहोति तत्षट् त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैताः᳘ समि᳘ध ऽआद᳘धाति॥
(त्ये) एतद्वा᳘ ऽएनं देवाः स᳘र्व्वं कृत्स्न᳘ᳫँ᳭ सᳫँ᳭स्कृत्या᳘थैनमेते᳘ना᳘न्नेनाप्रीणन्नेता᳘भिः समि᳘द्भिस्त᳘थै᳘वैनमय᳘मेतत्स᳘र्व्वं कृत्स्न᳘ᳫँ᳘ सᳫँ᳭स्कृत्या᳘थैनमेतेना᳘न्नेन प्रीणात्येता᳘भिः समि᳘द्भिरौ᳘दुम्बर्यो भवन्त्यार्द्रा᳘ घृते᳘ न्युत्ताः स᳘र्व्वाᳫँ᳭ रा᳘त्रिं व्वसन्ति त᳘स्योक्तो ब᳘न्धुरु᳘देन᳘मुत्तरां᳘ नये᳘न्द्रेमं᳘ प्रतरां᳘ नय य᳘स्य कुर्मो᳘ गृहे᳘ हविरि᳘ति य᳘था य᳘जुस्त᳘था ब᳘न्धुस्तिस्रः᳘ समि᳘ध ऽआ᳘दधाति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद᳘न्नेन प्रीणाति तिस्र ऽआ᳘हुतीर्जुहोति तत्षट् त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
य᳘द्वेॗवैताः᳘ समि᳘ध आद᳘धाति॥
एतद्वा᳘ एनं देवाः स᳘र्वं कृत्स्न᳘ᳫं᳘ संस्कृत्या᳘थैनमेते᳘ना᳘न्नेनाप्रीणन्नेता᳘भिः समि᳘द्भिस्त᳘थैॗवैनमय᳘मेतत्स᳘र्वं कृत्स्न᳘ᳫं᳘ संस्कृत्या᳘थैनमेतेना᳘न्नेन प्रीणात्येता᳘भिः समि᳘द्भिरौ᳘दुम्बर्यो भवन्त्यार्द्रा᳘ घृतेॗ न्युत्ता स᳘र्वां रा᳘त्रिं वसन्ति त᳘स्योक्तो ब᳘न्धुरु᳘देनमुत्तरां᳘ नये᳘न्द्रेम᳘म् प्रतरां᳘ नय य᳘स्य कुर्मो᳘ गृहे᳘ हविरि᳘ति य᳘था य᳘जुस्त᳘था ब᳘न्धुस्तिस्रः᳘ समि᳘ध आ᳘दधाति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद᳘न्नेन प्रीणाति तिस आ᳘हुतीर्जुहोति तत्षट् त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
यद्वेवैताः समिध आदधाति । एतद्वा एनं देवाः सर्वं कृत्स्नं संस्कृत्य- अथैनमेतेनान्नेनाप्रीणन्- एताभिः समिद्भिः । तथैवैनमयमेतत्सर्वं कृत्स्नं संस्कृत्य- अथैनमेतेनान्नेन प्रीणाति- एताभिः समिद्भिः । औदुम्बर्यो भवन्ति । आर्द्राः घृते न्युत्ताः । सर्वां रात्रिं वसन्ति । तस्योक्तो बन्धुः । “उदेनमुत्तरां नय”- (वा. सं. १७ । ५०) “इन्द्रेमं प्रतरां नय”- (वा. सं. १७ । ५१) “यस्य कुर्मो गृहे हविः”- (वा. सं. १७ । ५२) इति । यथा यजुस्तथा बन्धुः । तिस्रः समिध आदधाति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति । तिस्र आहुतीर्जुहोति । तत् षट् । तस्योक्तो बन्धुः ॥ ७ ॥
सायणः
अथ समिधां होमं प्रकारान्तरेण प्रशंसति- यद्वेवैता इति । पूर्वं “यथा तर्पयित्वा परिवेविष्याद्” इति आज्याहुतिलक्षणेनान्नेन तर्पितस्याग्नेः समिद्धोमः परिवेषणवद्भवतीति प्रशंसितः । इदानीं तु एकविंशतिगृहीतेन होमेन एकविंशत्यात्मकत्वसम्पादनात् कार्त्स्न्येन संस्कृतस्याग्नेरन्नरूपेण प्रशस्यत इति न पौनरुक्त्यम् । सर्वमित्यस्यैवार्थकथनं- ‘कृत्स्नम्’ इति । औदुम्बर्यो भवन्त्यार्द्रा घृते न्युत्ताः सर्वां रात्रिं वसन्तीति 8 यदस्ति तस्य ‘ऊर्ग्वा उदुम्बरः’ इत्यादिरूपं ब्राह्मणमनन्तरमेवोक्तं (तृतीयायां कण्डिकायां) तदेवानुसंधेयमित्यर्थः । प्रकृतानां समिदाहुतीनां मन्त्रा निगदव्याख्याता इत्याह- उदेनमुत्तरां नयेति । “उदेनमुत्तरां नय” इत्यादिकः प्रथमो मन्त्रः, “इन्द्रेमं प्रतरां नय” इत्यादिको द्वितीयः, “यस्य कुर्मो गृहे हविः”- इत्यादिकस्तृतीयः, एते यथा मन्त्राः स्पष्टा स्तथैव ब्राह्मणं स्पष्टार्थमित्यर्थः । ‘तिस्रः समिधः’ इत्येतदुक्तार्थम् । आज्यसमिदाहुतिसङ्ख्यां भूयः स्तौति- तिस्र आहुतीरिति । प्रकृतत्वात् तिस्रः समिध आदधातीति सम्बध्यते । एवं षट्संख्या सम्पद्यते । तद्ब्राह्मणं “षड्वा ऋतवः”- इत्यादिरूपं प्रागुक्तमित्यर्थः ॥ ७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे द्वितीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (९ । २ । २) ॥
Eggeling
- And, again, as to why he puts the pieces of firewood on; the gods having set him up wholly and completely, now regaled him with this food, these pieces of firewood; and in like manner does this (Sacrificer), now that he has set him up wholly and completely, regale him with this food, these pieces of firewood. They are of udumbara wood, and fresh, and remain for a whole night (being) soaked in ghee: the significance of this has been explained. [He puts them on, with, Vāj. S. XVII, 50-52], ‘Upwards lead thou him, O Agni! . . . Forward lead thou him, O Indra! . . . In whose house we make offering . . .,’ as the text, so the meaning. Three pieces of firewood he puts on,–threefold is Agni: as great as Agni is, as great as is his measure, with so much food he thus regales him. Three oblations he offers,–that makes six: the significance of this has been explained.
-
पञ्चगृहीतं जुहोत्यग्निस्तिग्मेनेत्यृचा षोडशगृहीतार्धमनुवाकशेषेण । का. श्रौ. सू. १८ । ३० । ↩︎
-
188:1 That is, the newly-built Gārhapatya-hearth (part iii, p. 302) on which the Ukhya fire has been deposited. ↩︎
-
189:1 That is, he ladles sixteen sruva-spoonfuls of ghee into the sruc or offering-ladle. ↩︎
-
इत्युक्तसूत्रस्थकर्कभाष्यम् । ↩︎
-
190:1 Viz. the upper and fore-arms, the thighs and legs. ↩︎
-
190:2 That is, he offers this ladleful (obtained by sixteen ladlings with the dipping-spoon) in two separate libations (āhuti) or, according to Kāty., in two halves. ↩︎
-
190:3 Viz. Vāj. S. XVII, 17-32 (sixteen verses, eight for each oblation) and verse 16 (given above) used with the oblation of five ladlings. ↩︎
-
आर्द्रोदुंबरीर्घृतोषितास्तिस्र उदेनमित्यादधाति प्रत्यृचम्। अग्निं प्रणयति । का. श्रौ. सू. १८ । ३१ । ३२ । ↩︎