०१

विश्वास-प्रस्तुतिः

अ᳘थैनम᳘तः प᳘रिषिञ्चति॥
(त्ये) एतद्वा᳘ ऽएनं देवाः᳘ शतरुद्रि᳘येण शमयित्वा᳘ ऽथैनमेतद्भू᳘य ऽए᳘वाशमयंस्त᳘थै᳘वैनमय᳘मेत᳘च्छतरुद्रि᳘येण शमयित्वा᳘ ऽथैनमेतद्भू᳘य ऽएव᳘ शमयति॥

मूलम् - श्रीधरादि

अ᳘थैनम᳘तः प᳘रिषिञ्चति॥
(त्ये) एतद्वा᳘ ऽएनं देवाः᳘ शतरुद्रि᳘येण शमयित्वा᳘ ऽथैनमेतद्भू᳘य ऽए᳘वाशमयंस्त᳘थै᳘वैनमय᳘मेत᳘च्छतरुद्रि᳘येण शमयित्वा᳘ ऽथैनमेतद्भू᳘य ऽएव᳘ शमयति॥

मूलम् - Weber

अ᳘थैनम᳘तः प᳘रिषिश्चति॥
एतद्वा᳘ एनं देवाः᳘ शतरुद्रि᳘येण शमयित्वा᳘थैनमेतद्भू᳘य एॗवाशमयंस्त᳘थैॗवैनमेव᳘मेत᳘छतरुद्रि᳘येण शमयित्वा᳘थैनमेतद्भू᳘य एव᳘ शमयति॥

मूलम् - विस्वरम्

अथैनमतः परिषिञ्चति । एतद्वा एनं देवाः शतरुद्रियेण शमयित्वा ऽथैनमेतद्भूय एवाशमयन् । तथैवैनमयमेतच्छतरुद्रियेण शमयित्वा ऽथैनमेतद्भूय एव शमयति ॥ १ ॥

सायणः

पूर्वस्मिन् ब्राह्मणे शतरुद्रियहोमो ऽभिहितः । अथास्मिन्नग्नौ परिषेकधेनूकरणावकर्षणादिकं कर्माभिधास्यते । कात्यायनः- “चित्यं परिषिञ्चत्यग्नीद्दक्षिणे निकक्षे ऽद्रिं कृत्वा ऽश्मन्नूर्जमित्यद्रेरधि"- (का. श्रौ. सू. १८ । ७) इति । आग्नीध्रो दक्षिणकक्षप्रदेशे पाषाणं निधाय “अश्मन्नूर्जम्”- (वा. सं. १७ । १) इति मन्त्रेण पाषाणस्योपरि आरभ्याग्निं परिषिञ्चतीति सूत्रार्थः । तमेकं परिषेकं विधत्ते- अथेति । यतः कारणात्संचितो ऽग्नी रुद्ररूपत्वादशान्तः । ‘अतः’ ‘एनं’ शान्त्यर्थं परिषिञ्चेत् । ननु चात्र सञ्चितस्याग्ने रुद्ररूपत्वेनाशान्तस्य शमनार्थमेव शतरुद्रियहोमः । अत एव तत्रोक्तम् “तस्मा ऽएतदन्नं सममरञ्छान्तदेवत्यम्”- (श. प. ९ । १ । १ । २) इति । अतः किमर्थं पुनः शमनार्थं परिषेकस्य विधानम् । न हि शान्तः पुनरपि शान्तिमपेक्षते । न हि भुक्तवान् भोजनमपेक्षत- इत्यत आह- एतद्वा इति । ‘एतत्’ इति देवानां कर्मानुष्ठानावसरपरामर्शः । एतस्मिन्नवसरे सर्वे ‘देवाः’ अशान्तम् ‘एनम्’ अग्निं ‘शतरुद्रियेण’ ‘शमयित्वा’ ‘अथ’ एतेन परिषेकेण ‘भूय एव’ अधिकमेव ‘अशमयन्’ । अतो यथैव देवा अकुर्वन्, ‘तथैव’ अयमपि यजमानः शतरुद्रियेण शान्तमपि पुनरधिकशमनार्थं परिषिञ्चति । अतः शमनाधिक्यार्थत्वात्परिषेको ऽवश्यं विधेय इति भावः ॥ १ ॥

Eggeling
  1. He then sprinkles him (Agni-Rudra, the fire-altar). For the gods, having now appeased him by the Śatarudriya, thereby appeased him still further; and in like manner does this (Sacrificer), now that he has appeased him by the Śatarudriya, still further appease him thereby.

०२

विश्वास-प्रस्तुतिः

(त्य) अद्भिः प᳘रिषिञ्चति॥
शा᳘न्तिर्वा ऽआ᳘पः शम᳘यत्ये᳘वैनमेत᳘त्सर्व्व᳘तः परिषिञ्चति सर्व्व᳘त ऽए᳘वैनमेत᳘च्छमयति त्रिष्कृ᳘त्वः प᳘रिषिञ्चति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘च्छमयति॥

मूलम् - श्रीधरादि

(त्य) अद्भिः प᳘रिषिञ्चति॥
शा᳘न्तिर्वा ऽआ᳘पः शम᳘यत्ये᳘वैनमेत᳘त्सर्व्व᳘तः परिषिञ्चति सर्व्व᳘त ऽए᳘वैनमेत᳘च्छमयति त्रिष्कृ᳘त्वः प᳘रिषिञ्चति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘च्छमयति॥

मूलम् - Weber

अद्भिः प᳘रिषिञ्चति॥
शा᳘न्तिर्वा आ᳘पः शम᳘यत्येॗवैनमेत᳘त्सर्व᳘तः प᳘रिषिञ्चति सर्व᳘त एॗवैनमेत᳘छमयति त्रिष्कृ᳘त्वः प᳘रिषिञ्चति त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘छमयति॥

मूलम् - विस्वरम्

अद्भिः परिषिञ्चति । शान्तिर्वा आपः । शमयत्येवैनमेतत् । सर्वतः परिषिञ्चति । सर्वत एवैनमेतच्छमयति । त्रिष्कृत्वः परिषिञ्चति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतच्छमयति ॥ २ ॥

सायणः

‘अथैनमतः परिषिञ्चति’ इति सामान्यविधानात्पयआदिना ऽपि परिषेकः स्यादित्यत आह- अद्भिरिति । परिषेकस्य शमनार्थत्वादपां चाग्न्यादिकृतसन्तापशमनक्षमत्वेन शान्तित्वादद्भिः सम्पादितेन परिषेकेणैनं शमयति । अद्भिरपि क्वचिदेव परिषेके साकल्येन शमनं न सेत्स्यतीत्याह- सर्वत इति । “सकृत् कृतः शास्त्रार्थः” इति न्यायेन सकृदपि परिषेके कृते परिषेकविधिश्चरितार्थः स्यादित्यभिप्रेत्य तदावृत्तिसङ्ख्यां दर्शयति- त्रिष्कृत्व इति । त्रित्वसङ्ख्यस्य परिषेकस्य कार्त्स्न्येन शमनहेतुत्वमित्याह- त्रिवृदग्निरिति ॥ २ ॥

Eggeling
  1. With water he sprinkles him 1,–water is a means of appeasing (soothing): he thus appeases him thereby. He sprinkles him all over; he thus appeases him all over. Thrice he sprinkles,–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus appeases him.

०३

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैनं परिषिञ्च᳘ति॥
(ती) इमे वै᳘ लोका᳘ ऽए᳘षो ऽग्नि᳘रिमांस्त᳘ल्लोका᳘नद्भिः प᳘रितनोति समुद्रे᳘ण हैनांस्तत्प᳘रितनोति सर्व्व᳘तस्त᳘स्मादिमाल्ँ᳘लोका᳘न्त्सर्व्व᳘तः समुद्रः प᳘र्येति दक्षिणावृत्त᳘स्मादिमाल्ँ᳘लोका᳘न्दक्षिणावृ᳘त्समुद्रः प᳘र्येति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैनं परिषिञ्च᳘ति॥
(ती) इमे वै᳘ लोका᳘ ऽए᳘षो ऽग्नि᳘रिमांस्त᳘ल्लोका᳘नद्भिः प᳘रितनोति समुद्रे᳘ण हैनांस्तत्प᳘रितनोति सर्व्व᳘तस्त᳘स्मादिमाल्ँ᳘लोका᳘न्त्सर्व्व᳘तः समुद्रः प᳘र्येति दक्षिणावृत्त᳘स्मादिमाल्ँ᳘लोका᳘न्दक्षिणावृ᳘त्समुद्रः प᳘र्येति॥

मूलम् - Weber

य᳘द्वेॗवैनम् परिषिञ्च᳘ति॥
इमे वै᳘ लोका᳘ एॗषो ऽग्नि᳘रिमांस्त᳘ल्लोका᳘नद्भिः प᳘रितनोति समुद्रे᳘ण हैनांस्तत्प᳘रितनोति सर्व᳘तस्त᳘स्मादिमां᳘लोका᳘न्त्सर्व᳘तः समुद्रः प᳘र्येति दक्षिणावृत्त᳘स्मादिमां᳘लोका᳘न्दक्षिणावृ᳘त्समुद्रः प᳘र्येति॥

मूलम् - विस्वरम्

यद्वेवैनं परिषिञ्चति । इमे वै लोकाः एषो ऽग्निः । इमांस्तल्लोकानद्भिः परितनोति । समुद्रेण हैनांस्तत्परितनोति । सर्वतः । तस्मादिमाल्ँ लोकान्त्सर्वतः समुद्रः पर्येति । दक्षिणावृत् । तस्मादिमांल्लोकान्दक्षिणावृत्समुद्रः पर्येति ॥ ३ ॥

सायणः

अथ तमेव परिषेकं प्रकारान्तरेण प्रशंसति- यद्वेवैनमिति । ‘एषः’ सञ्चितः ‘अग्निः’ प्रजापत्यात्मकत्वेन प्रजापतेश्च सर्वलोकहेतुत्वेन तदात्मकत्वाद् ‘इमे’ पृथिव्यादयो ‘लोकाः’ खलु । अतश्च तादृशस्याग्नेः परिषेकेण ‘इमान्’ ‘एव’ ‘लोकान्’ ‘अद्भिः परितनोति’ परिवेष्टयति । समुद्रस्याबात्मकत्वात् ‘अद्भिः’ परिषेके ‘समुद्रेण’ एव ‘एनान्’ ‘लोकान्’ परिवेष्टयति । स च परिषेकः ‘सर्वतः’ सम्पादित इति ‘समुद्रः’ अपि ‘इमान् लोकान्’ ‘सर्वतः’ ‘पर्येति’ पृथिव्याः समुद्रेण वलयितत्वादन्तरिक्षद्युलोकयोः पृथिव्या उपरि वर्त्तमानत्वात् पृथिव्यादीन्सर्वान् लोकान्सर्वतः समुद्रः ‘पर्येति’ इत्युच्यते । सर्वतः परिषेकः सव्यावृदपि कर्तुमीप्सितः स्यात् इत्यत आह- दक्षिणावृदिति । यतः प्रादक्षिण्येन क्रमेण परिषेकः सम्पादितः अतः ‘समुद्रः’ अपि तथैव ‘पर्येति’ ॥ ३ ॥

Eggeling
  1. And, again, as to why he sprinkles him,–that Agni (the fire-altar), doubtless, is these worlds: by water he thus encompasses these worlds, by the ocean, indeed, he encompasses them. On every side (he sprinkles the altar): hence the ocean flows round these worlds on every side. From left to right (he sprinkles): hence the ocean flows round these worlds from left to right.

०४

विश्वास-प्रस्तुतिः

(त्य) अग्नीत्प᳘रिषिञ्चति॥
(त्य) अग्नि᳘रेष यदा᳘ग्नीध्रो᳘ नो वा᳘ ऽआ᳘त्मा ऽऽत्मा᳘नᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭साया ऽअ᳘श्मनो ऽध्य᳘श्मनो ह्या᳘पः प्रभ᳘वन्ति निकक्षा᳘न्निकक्षाद्ध्या᳘पः प्रभ᳘वन्ति द᳘क्षिणान्निकक्षाद्द᳘क्षिणाद्धि᳘ निकक्षादा᳘पः प्रभ᳘वन्ति॥

मूलम् - श्रीधरादि

(त्य) अग्नीत्प᳘रिषिञ्चति॥
(त्य) अग्नि᳘रेष यदा᳘ग्नीध्रो᳘ नो वा᳘ ऽआ᳘त्मा ऽऽत्मा᳘नᳫँ᳭ हिनस्त्य᳘हिᳫँ᳭साया ऽअ᳘श्मनो ऽध्य᳘श्मनो ह्या᳘पः प्रभ᳘वन्ति निकक्षा᳘न्निकक्षाद्ध्या᳘पः प्रभ᳘वन्ति द᳘क्षिणान्निकक्षाद्द᳘क्षिणाद्धि᳘ निकक्षादा᳘पः प्रभ᳘वन्ति॥

मूलम् - Weber

अग्नीत्प᳘रिषिञ्चति॥
अग्नि᳘रेष यदा᳘ग्नीध्रोॗ नो वा᳘ आॗत्मात्मा᳘नᳫं हिनस्त्य᳘हिंसाया अ᳘श्मनो ऽध्य᳘श्मनो ह्या᳘पः प्रभ᳘वन्ति निकक्षा᳘न्निकक्षाद्ध्या᳘पः प्रभ᳘वन्ति द᳘क्षिणान्निकक्षाद्द᳘क्षिणाद्धि निकक्षादा᳘पः प्रभ᳘वन्ति॥

मूलम् - विस्वरम्

अग्नीत्परिषिञ्चति । अग्निरेषः- यदाग्नीध्रः । नो वा आत्मा ऽऽऽत्मानं हिनस्ति । अहिंसायै । अश्मनो ऽधि । अश्मनो ह्यापः प्रभवन्ति । निकक्षात् । निकक्षाद्ध्यापः प्रभवन्ति । दक्षिणान्निकक्षात् । दक्षिणाद्धि निकक्षादापः प्रभवन्ति ॥ ४ ॥

सायणः

समाख्याविनियोगादध्वर्योः परिषेकप्राप्तावपवादमाह- अग्नीदिति । अथ कस्मादध्वर्युपरित्यागेनाग्नीध्रः परिगृह्यत इत्यत आह- अग्निरेष इति । परिषेक्तव्यस्याग्नेः शमने नक्षमत्वादध्वर्यौ परिषेक्तरि च हिंसा सम्भाविता स्यात् । आग्नीध्रस्य पुनरग्न्यात्मकत्वेन आत्मनैवात्मनो हिंसाया असम्भवादहिंसार्थं तस्य परिग्रह इत्यर्थः । परिषेकावसरे दक्षिणे निकक्षे कंचित्पाषाणं निधाय तत आरभ्यत इत्याह- अश्मनो ऽधीत्यादिना । ‘निकक्षः’ कक्षप्रदेशः तत्सन्धिस्थानम् । लोके ऽपि पर्वतादिषु दक्षिणात्पाषाणात्संधिस्थानादपामुत्पत्तेरुक्तस्थाने पाषाणं निधाय, तत आरभ्य परिषिच्यत इत्यर्थः ॥ ४ ॥

Eggeling
  1. For safety from injury it is the Agnīdh who sprinkles, for the Agnīdh is the same as Agni, and no one injures his own self. From a stone (he sprinkles), for from the rock water springs forth;–from the arm-pit, for from the arm-pit water springs forth; from the right arm-pit 2, for from the right arm-pit water springs forth.

०५

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘श्मन्नू᳘र्जं प᳘र्वते शिश्रियाणामिति[[!!]]॥
(त्य᳘) अ᳘श्मनि वा᳘ ऽएषोर्क्प᳘र्वतेषु श्रिता यदा᳘पो ऽद्भ्य ऽओ᳘षधीभ्यो व्व᳘नस्प᳘तिभ्यो ऽअ᳘धि स᳘म्भृतं प᳘य ऽइ᳘त्येत᳘स्मा᳘द्ध्येतत्स᳘र्व्वस्मा᳘द᳘धि स᳘म्भृतं प᳘यस्ता᳘न्न ऽइ᳘षमू᳘र्जं धत्त मरुतः सᳫँ᳭रराणा ऽइ᳘ति मरु᳘तो वै᳘ व्वर्ष᳘स्येशते᳘ ऽश्मंस्ते क्षुदि᳘ति नि᳘दधाति तद᳘श्मनि क्षु᳘धं दधाति त᳘स्माद᳘श्मा नाद्यो᳘ ऽथो स्थिरो वा ऽअ᳘श्मा स्थिरा क्षु᳘त्स्थिर᳘ ऽएव त᳘त्स्थिरं᳘ दधाति म᳘यि त ऽऊर्गि᳘त्यपा᳘दत्ते त᳘दात्मन्नू᳘र्जं धत्ते त᳘था द्विती᳘यं त᳘था तृती᳘यम्॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘श्मन्नू᳘र्जं प᳘र्वते शिश्रियाणामिति[[!!]]॥
(त्य᳘) अ᳘श्मनि वा᳘ ऽएषोर्क्प᳘र्वतेषु श्रिता यदा᳘पो ऽद्भ्य ऽओ᳘षधीभ्यो व्व᳘नस्प᳘तिभ्यो ऽअ᳘धि स᳘म्भृतं प᳘य ऽइ᳘त्येत᳘स्मा᳘द्ध्येतत्स᳘र्व्वस्मा᳘द᳘धि स᳘म्भृतं प᳘यस्ता᳘न्न ऽइ᳘षमू᳘र्जं धत्त मरुतः सᳫँ᳭रराणा ऽइ᳘ति मरु᳘तो वै᳘ व्वर्ष᳘स्येशते᳘ ऽश्मंस्ते क्षुदि᳘ति नि᳘दधाति तद᳘श्मनि क्षु᳘धं दधाति त᳘स्माद᳘श्मा नाद्यो᳘ ऽथो स्थिरो वा ऽअ᳘श्मा स्थिरा क्षु᳘त्स्थिर᳘ ऽएव त᳘त्स्थिरं᳘ दधाति म᳘यि त ऽऊर्गि᳘त्यपा᳘दत्ते त᳘दात्मन्नू᳘र्जं धत्ते त᳘था द्विती᳘यं त᳘था तृती᳘यम्॥

मूलम् - Weber

अ᳘श्मन्नू᳘र्जम् प᳘र्वते शिश्रियाणामि᳘ति॥
अ᳘श्मनि वा᳘ एषोर्क्प᳘र्वतेषु श्रिता यदा᳘पो ऽद्भ्य ओ᳘षधीभ्यो व᳘नस्प᳘तिभ्यो अ᳘धि स᳘म्भृतम् प᳘य इ᳘त्येत᳘स्माॗद्ध्येतत्स᳘र्वस्माद᳘धि स᳘म्भृतम् प᳘यस्तां᳘ न इ᳘षमू᳘र्जं धत्त मरुतः संरराणा इ᳘ति मरु᳘तो वै᳘ वर्ष᳘स्येशते᳘ ऽश्मंस्ते क्षुदि᳘ति नि᳘दधाति तद᳘श्मनि क्षु᳘धं दधाति त᳘स्माद᳘श्मानाद्यो᳘ ऽथो स्थिरो वा अ᳘श्मा स्थिरा क्षु᳘त्स्थिर᳘ एव त᳘त्स्थिरं᳘ दधाति म᳘यि त ऊर्गि᳘त्यपा᳘दत्ते त᳘दात्मन्नू᳘र्जं धत्ते त᳘था द्विती᳘यं त᳘था तृती᳘यम्॥

मूलम् - विस्वरम्

“अश्मन्नूर्जं पर्वते शिश्रियाणाम्”- इति । अश्मनि वा एषोर्क् पर्वतेषु श्रिता । यदापः । “अद्भ्य ओषधीभ्यो वनस्पतिभ्यो अधि सम्भृतं पयः”- इति । एतस्माद्ध्येतत्सर्वस्मादधि सम्भृतं पयः । “तान्न इषमूर्जं धत्त मरुतः संरराणाः”- इति । मरुतो वै वर्षस्येशते । “अश्मंस्ते क्षुत्”- इति निदधाति । तदश्मनि क्षुधं दधाति । तस्मादश्मा नाद्यः । अथो स्थिरो वा अश्मा, स्थिरा क्षुत् । स्थिर एव तत् स्थिरं दधाति । “मयि त ऽऊर्क्”- इति अपादत्ते । तदात्मन्नूर्जं धत्ते । तथा द्वितीयम्, तथा तृतीयम् ॥ ५ ॥

सायणः

इत्थं सप्रकारकं परिषेकं विधाय तत्र मन्त्रं प्रदर्शयन् व्याचष्टे- अश्मन्नूर्जमिति । ‘आपः’ इति ‘यद्’ ‘एषा’ ‘पर्वतेषु’ ‘अश्मनि’ स्थिता ‘ऊर्क्’ रसः । पर्वतेषु पाषाणसन्धिभ्यो ऽपामुत्पत्तेः अतश्चाश्मन्नूर्जमित्येष भागो ऽप एवाभिधत्ते । ‘शिश्रियाणाम्’ इति श्रयतेः कानचि, इयङादेशे च रूपम् । उत्तरत्र ‘रराणाः’ इत्येतदपि कानजन्तं पदम् । ‘अद्भ्य ओषधीभ्यः’ इत्येतन्मन्त्रभागप्रतिपाद्यो ऽर्थः प्रसिद्ध इत्याह- एतस्माद्धीति । ‘पयः’ क्षीरं तच्चाबादिभ्यः सम्पाद्यत इत्येतत्प्रसिद्धमेव । अबाद्युपभुक्तवतीभ्यो गोभ्यस्तदुत्पत्तिरिति । तां न इषमित्यनेन भागेन मरुतां तत्प्रदातृत्वस्य प्रतिपादनात्तेषां तत्प्रेरकत्वेन तदुपपादयति- मरुतो वा इति । मन्त्रस्यायमर्थः- ‘पर्वते’ अश्मनि ‘शिश्रियाणां’ श्रिताम् ‘ऊर्जं’ रसम्, अप इत्यर्थः । ‘ताम्’ ऊर्जम् ‘अद्भ्य ओषधीभ्यो वनस्पतिभ्यश्च’ सम्पादितं पयो व्याहरन्ति तद्रसत्वात् । हे मरुतः । ‘संरराणाः’ “रा दाने"- (धा. पा. अ. प. ४७) सम्यग्ददाना यूयं ‘तामिषम्’ इष्यमाणाम् ‘ऊर्जं’ रसं ‘नः’ अस्मभ्यं ‘धत्त’ सम्पादयतेति । परिषेकानन्तरं ‘अश्मंस्ते’ इत्यनेन मन्त्रेण पाषाणे कुम्भं निदध्यादित्याह- अश्मंस्ते क्षुदिति 3 निदधातीति । अश्मनि कुम्भस्य निधाने परिषेकेण शान्तस्य रुद्रस्य क्षुधं पाषाणे निहितवान्भवतीत्याह- तदश्मनि क्षुधं दधातीति । तस्मादिति । यतः ‘अश्मनि क्षुद्’ निहिता ‘तस्मादश्मा नाद्यः’ नः भक्षणीयः । तस्याग्निक्षुदाधारत्वेन घस्मरत्वात् । नन्वग्निसंबन्धिन्याः क्षुधो निधानं पाषाणव्यतिरिक्तस्थाने ऽपि कर्तव्यं स्यात् । अतस्तदुल्लङ्घनेनात्रैव किमिति निहितेति तत्राह- अथो इति । ‘अश्मा’ कठिनत्वात् ‘स्थिरः’ ‘क्षुद्’ अपि तथा ‘स्थिरा’ हि । इदानीमुपशान्तापि कालान्तरे ऽनुवर्त्तनात् । अतो ऽश्मनि क्षुधो निधाने ‘स्थिर एव स्थिरं दधाति’ । अश्मनि निहितस्य कुम्भस्य पुनर्मन्त्रेण स्वीकारं विधत्ते- मयि त इति । ‘तत्’ तेन स्वीकारेण पुनरात्मनि ‘ऊर्जम्’ अवात्मिकां ‘धत्ते’ । पूर्वं क्षुधो ऽपगमनार्थम् अश्मनि कुम्भो निहितः । ‘तथा’ चाश्मन्यूर्जो धारणं न सिद्ध्येदिति तदर्थं पुनः तस्य स्वीकारो भवतीत्यर्थः । परिषेकादि अश्मनि निधानान्तं कर्म पुनर्द्विवारं कर्तव्यमित्याह- तथा द्वितीय तथा तृतीयम् इति ॥ ५ ॥

Eggeling
  1. [He sprinkles the stone, with, Vāj. S. XVII, 1], ‘The food that is lying in the rock, in the mountain,’–for that food, water, is indeed contained in the rock, in the mountains;–’the drink that is gathered from waters, plants and trees,’–for from all that that drink is indeed gathered;–’that sap and food bring ye unto us, O Maruts, as bountiful givers!’–for the Maruts are the rulers of the rain. With ‘In the rock is thy hunger,’ he (after watering the altar) sets down (the pitcher on the stone): he thus lays hunger into the stone, whence the stone is not fit for eating. But hard also is the stone, and hard is hunger: he thus puts the hard along with the hard. With, ‘In me thy food!’ he takes up (the pitcher): he thereby takes up the food into his own self. Thus (he does) a second and a third time.

०६

विश्वास-प्रस्तुतिः

(न्नि) निधा᳘योदह᳘रणं त्रि᳘र्व्विद्प᳘ल्ययते॥
(त ऽ) एतद्वा᳘ ऽएतमेत᳘ल्लघूय᳘तीव य᳘देनᳫँ᳭ समन्तं᳘ पर्ये᳘ति त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते᳘ ऽहिᳫँ᳭सायै॥

मूलम् - श्रीधरादि

(न्नि) निधा᳘योदह᳘रणं त्रि᳘र्व्विद्प᳘ल्ययते॥
(त ऽ) एतद्वा᳘ ऽएतमेत᳘ल्लघूय᳘तीव य᳘देनᳫँ᳭ समन्तं᳘ पर्ये᳘ति त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते᳘ ऽहिᳫँ᳭सायै॥

मूलम् - Weber

निधा᳘योदह᳘रणं त्रि᳘र्विप᳘ल्ययते॥
एतद्वा᳘ एनमेत᳘ल्लघूय᳘तीव य᳘देनᳫं समन्त᳘म् पर्ये᳘ति त᳘स्मा एॗवैतन्नि᳘ह्नुते᳘ ऽहिंसायै॥

मूलम् - विस्वरम्

निधायोदहरणं त्रिर्विपल्ययते । एतद्वा एनमेतल्लघूयतीव- यदेनं समन्तं पर्येति । तस्मा एवैतन्निह्नुते ऽहिंसायै ॥ ६ ॥

सायणः

तृतीयवारनिधाने किं कर्त्तव्यमिति तत्राह- निधायेति 4 । उदकं ह्रियते ऽनेनेति ‘उदहरणं’ कुम्भः । “उदकस्योदः संज्ञायाम्”- (पा. सू. ६ । ३ । ५७) इत्युदादेशः । तं ‘निधाय’ त्रिवारं ‘विपल्ययते’ प्रतिपर्येति । सव्यावृत् पर्येति । ‘विपल्ययते’ इति “उपसर्गस्यायतौ”- (पा. सू. ८ । २ । १९) प्रति लत्वम् । किमर्थं विपल्ययनमित्याह- एतद्वा इति । एतस्मिन्नवसरे खलु ‘एनम्’ अग्निं समन्तात् ‘पर्येति’ इति यत् एतेन ‘एनम्’ लघुमिवाचरति । अतस्तथा कृते ऽग्निं हिंस्यादिति । अहिंसार्थं ‘तस्मा एव’ अग्नये ‘निह्नुते’ स्वकृतं तद्विषयमपराधमपमार्ष्टीत्यर्थः । ‘लघूयतीति’ “उपमानादाचारे” (पा. सू. ३ । १ । १०) इति क्यच् प्रत्ययः । तस्मा एवाग्नये “श्लाघह्नुस्था०” (पा. सू. १ । ४ । ३४) इत्यादिना सम्प्रदानसंज्ञायां चतुर्थी ॥ ६ ॥

Eggeling
  1. Having (finally) set down the pitcher, he perambulates thrice (the altar); for when (in sprinkling) he walks all round it, he, as it were, makes light of him (Agni-Rudra). He now makes amends to him, for (his own) safety.

०७

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्विपल्य᳘यते॥
(त ऽ) एतद्वा᳘ ऽएनमेत᳘दन्व᳘वैति त᳘त ऽए᳘वैत᳘दात्मा᳘नमपो᳘द्धरते जीवा᳘त्वै त᳘थो हाने᳘नात्म᳘ना स᳘र्व्वमा᳘युरेति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्विपल्य᳘यते॥
(त ऽ) एतद्वा᳘ ऽएनमेत᳘दन्व᳘वैति त᳘त ऽए᳘वैत᳘दात्मा᳘नमपो᳘द्धरते जीवा᳘त्वै त᳘थो हाने᳘नात्म᳘ना स᳘र्व्वमा᳘युरेति॥

मूलम् - Weber

य᳘द्वेव᳘ विपल्य᳘यते॥
एतद्वा᳘ एनमेत᳘दन्व᳘वैति त᳘त एॗवैत᳘दात्मा᳘नमपो᳘द्धरते जीवा᳘त्वै त᳘थो हाने᳘नात्म᳘ना स᳘र्वमा᳘युरेति॥

मूलम् - विस्वरम्

यद्वेव विपल्ययते । एतद्वा एनमेतदन्ववैति । तत एवैतदात्मानमपोद्धरते । जीवात्वै । तथो हानेनात्मना सर्वमायुरेति ॥ ७ ॥

सायणः

प्रकारान्तरेणापि विपल्ययनं प्रशंसति- यद्वेवेति । प्रदक्षिणप्रक्रमावसरे ‘एनम्’ अग्निमनुगतो भवति । विपल्ययनात्तत एव जीवनायात्मानं पृथक्करोति । तथा सति ‘अनेन’ इदानीं ध्रियमाणेन शरीरेण च ‘सर्वमायुः’ प्राप्नोति ॥ ७ ॥

Eggeling
  1. And, again, as to why he perambulates it,–he then (in sprinkling the altar) goes after him 5 (Agni-Rudra): thereupon he now recovers his own self unto life, and so does he by that self of his obtain all vital power.

०८

विश्वास-प्रस्तुतिः

त्रि᳘र्व्विप᳘ल्ययते॥
त्रिर्हि कृ᳘त्वः पर्ये᳘ति तद्या᳘वत्कृ᳘त्वः पर्ये᳘ति ता᳘वत्कृ᳘त्वो व्विप᳘ल्ययते॥

मूलम् - श्रीधरादि

त्रि᳘र्व्विप᳘ल्ययते॥
त्रिर्हि कृ᳘त्वः पर्ये᳘ति तद्या᳘वत्कृ᳘त्वः पर्ये᳘ति ता᳘वत्कृ᳘त्वो व्विप᳘ल्ययते॥

मूलम् - Weber

त्रि᳘र्विप᳘ल्ययते॥
त्रिर्हि कृ᳘त्वः पर्ये᳘ति तद्या᳘वत्कृ᳘त्वः पर्ये᳘ति ता᳘वत्कृ᳘त्वो विप᳘ल्ययते॥

मूलम् - विस्वरम्

त्रिर्विपल्ययते । त्रिर्हि कृत्वः पर्येति । तद् यावत्कृत्वः पर्येति- तावत्कृत्वो विपल्ययते ॥ ८ ॥

सायणः

विपल्ययनस्य त्रिवारकरणं प्रशंसति- त्रिर्विपल्ययत इति ॥ ८ ॥

Eggeling
  1. Thrice he perambulates it, for thrice he walks round it (whilst sprinkling): thus as many times as he walks round it, so many times does he perambulate it.

०९

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ तम᳘श्मानमुदह᳘रणे ऽवधा᳘य॥
(यै) एतां दि᳘शᳫँ᳭ हरन्त्येषा वै᳘ नैर्ऋती दि᳘ङ्नै᳘र्ऋत्या᳘मेव त᳘द्दिशि शु᳘चं दधाति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ तम᳘श्मानमुदह᳘रणे ऽवधा᳘य॥
(यै) एतां दि᳘शᳫँ᳭ हरन्त्येषा 6 वै᳘ नैर्ऋती दि᳘ङ्नै᳘र्ऋत्या᳘मेव त᳘द्दिशि शु᳘चं दधाति॥

मूलम् - Weber

अ᳘थ तम᳘श्मानमुदह᳘रणे ऽवधा᳘य॥
एतां दि᳘शᳫं हरन्त्येषा वै᳘ नैरृती दि᳘ङ्नैरृत्या᳘मेव त᳘द्दिशि शु᳘चं दधाति॥

मूलम् - विस्वरम्

अथ तमश्मानमुदहरणे ऽवधायैतां दिशं हरन्ति । एषा वै नैर्ऋती दिक् । नैर्ऋत्यामेव तद्दिशि शुचं दधाति ॥ ९ ॥

सायणः

त्रिवारं पर्येत्य पश्चात् सारमानं कुम्भं नैर्ऋत्यां दिशि प्रक्षिपेदित्याह- अथेति । एतां दिशमिति । नैर्ऋतीं ‘दिशं’ हस्तेनाभिनीय दर्शयति- ‘एषा वै नैर्ऋती दिग्’ इति विवरणात् ॥ ९ ॥

Eggeling
  1. Having thereupon put that stone into the water-pitcher, they throw it in that (south-western) direction, for that is Nirr̥ti’s region: he thus consigns pain 7 to Nirr̥ti’s region.

१०

विश्वास-प्रस्तुतिः

(त्ये) एतद्वा᳘ ऽएनं देवाः᳘॥
शतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा᳘ ऽथास्यैते᳘न शुचं[[!!]] पाप्मा᳘नम᳘पाघ्नंस्त᳘थै᳘वैनमय᳘मेत᳘च्छतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा᳘ ऽथास्यैते᳘न शु᳘चं पाप्मा᳘नम᳘पहन्ति॥

मूलम् - श्रीधरादि

(त्ये) एतद्वा᳘ ऽएनं देवाः᳘॥
शतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा᳘ ऽथास्यैते᳘न शुचं[[!!]] पाप्मा᳘नम᳘पाघ्नंस्त᳘थै᳘वैनमय᳘मेत᳘च्छतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा᳘ ऽथास्यैते᳘न शु᳘चं पाप्मा᳘नम᳘पहन्ति॥

मूलम् - Weber

एतद्वा᳘ एनं देवाः᳟॥
शतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा᳘थास्यैते᳘न शु᳘चम् पाप्मा᳘नम᳘पाघ्नंस्त᳘थैॗवैनमय᳘मेत᳘छतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा᳘थास्यैते᳘न शु᳘चम् पाप्मा᳘नम᳘पहन्ति॥

मूलम् - विस्वरम्

एतद्वा एनं देवाः शतरुद्रियेण चाद्भिश्च शमयित्वा ऽथास्यैतेन शुचं पाप्मानमपाघ्नन् । तथैवैनमयमेतच्छतरुद्रियेण चद्भिश्च शमयित्वा ऽथास्यैतेन शुचं पाप्मानमपहन्ति ॥ १० ॥

सायणः

एतद्वा- इति । पूर्वं देवा ‘एनम्’ अग्निं ‘शतरुद्रियेणाद्भिश्च शमयित्वा ‘अथ’ ‘अस्य’ अग्नेः ‘एतेन’ उक्तप्रदेशे प्रक्षेपेण ‘शुचं’ शोकरूपं पापं हतवन्तः अतो यजमानो ऽपि तत्र प्रक्षेपेण तथैव कृतवान् भवति ॥ १० ॥

Eggeling
  1. For at that time, the gods, having appeased him by the Śatarudriya and the water, thereby drove out his pain, his evil; and in like manner does this (Sacrificer) now, after appeasing him by the Śatarudriya and the water, cast away his pain, his evil.

११

विश्वास-प्रस्तुतिः

बा᳘ह्येनाग्नि᳘ᳫँ᳘ हरति॥
(ती) इमे वै᳘ लोका᳘ ऽए᳘षो ऽग्नि᳘रेभ्यस्त᳘ल्लोके᳘भ्यो बहिर्धा शु᳘चं दधाति बहिर्व्वे᳘दीयं वै व्वे᳘दिरस्यै त᳘द्बहिर्धा शु᳘चं दधाति॥ (अर्धप्रपाठकः ५५)

मूलम् - श्रीधरादि

बा᳘ह्येनाग्नि᳘ᳫँ᳘ हरति॥
(ती) इमे वै᳘ लोका᳘ ऽए᳘षो ऽग्नि᳘रेभ्यस्त᳘ल्लोके᳘भ्यो बहिर्धा शु᳘चं दधाति बहिर्व्वे᳘दीयं वै व्वे᳘दिरस्यै त᳘द्बहिर्धा शु᳘चं दधाति॥ (अर्धप्रपाठकः ५५)

मूलम् - Weber

बा᳘ह्येनाग्नि᳘ᳫं᳘ हरति॥
इमे वै᳘ लोका᳘ एॗषो ऽग्नि᳘रेभ्यस्त᳘ल्लोके᳘भ्यो बहिर्धा शु᳘चं दधाति बहिर्वेॗदीयं वै वे᳘दिरस्यै त᳘द्बहिर्धा शु᳘चं दधाति॥

मूलम् - विस्वरम्

बाह्येनाग्निं हरति । इमे वै लोका एषो ऽग्निः । एभ्यस्तल्लोकेभ्यो बहिर्धा शुचं दधाति । बहिर्वेदि । इयं वै वेदिः । अस्यै तद्बहिर्धा शुचं दधाति ॥ ११ ॥

सायणः

प्रक्षेपार्थं हरणावसरे अग्नेर्बाह्यभागेन हरेदित्याह- बाह्येनाग्निमिति । तथा हरणेन शोच्यः पृथिव्यादिभ्यो लोकेभ्यो बहिर्धा कृतो भवतीत्याह- इमे वा इति । अग्नेः पृथिव्यादिलोकरूपात्मकत्वं प्रजापत्यात्मकत्वात् । तथैव वेदेरपि बहिर्हरणमभिधाय प्रशंसति- बहिर्वेदीति ॥ ११ ॥

Eggeling
  1. Outside the fire-altar he throws it; for this fire-altar indeed is the same as these (three) worlds: he thus puts pain outside these worlds;–outside the sacrificial ground (vedi); for the Vedi is this (earth): he thus puts pain outside this earth.

१२

विश्वास-प्रस्तुतिः

स व्वे᳘देर्द᳘क्षिणायाᳫँ᳭ श्रो᳘णौ॥
प्राङ्ति᳘ष्ठन्दक्षिणा नि᳘रस्यति यं᳘ द्विष्मस्तं᳘ ते शु᳘गृच्छत्वि᳘ति य᳘मेव द्वे᳘ष्टि त᳘मस्य शु᳘गृच्छत्यमुं᳘ ते शु᳘गृच्छत्वि᳘ति ह ब्रूयाद्यं᳘ द्विष्यात्त᳘तो ह त᳘स्मिन्न पु᳘नरस्त्य᳘पि तन्ना᳘द्रियेत स्वयंनिर्दिष्टो᳘ ह्येव स य᳘मेवं विद्वे᳘ष्टि य᳘दि न᳘ भिद्ये᳘त भे᳘त्तवै᳘ ब्रूयाद्यदा᳘ ह्येव स᳘ भिद्यते᳘ ऽथ तᳫँ᳭ शु᳘गृच्छति यं द्वेष्ट्य᳘प्रतीक्षमा᳘यन्त्य᳘प्रतीक्षमेव तच्छु᳘चं पाप्मा᳘नं जहति॥

मूलम् - श्रीधरादि

स व्वे᳘देर्द᳘क्षिणायाᳫँ᳭ श्रो᳘णौ॥
प्राङ्ति᳘ष्ठन्दक्षिणा नि᳘रस्यति यं᳘ द्विष्मस्तं᳘ ते शु᳘गृच्छत्वि᳘ति य᳘मेव द्वे᳘ष्टि त᳘मस्य शु᳘गृच्छत्यमुं᳘ ते शु᳘गृच्छत्वि᳘ति ह ब्रूयाद्यं᳘ द्विष्यात्त᳘तो ह त᳘स्मिन्न पु᳘नरस्त्य᳘पि तन्ना᳘द्रियेत स्वयंनिर्दिष्टो᳘ ह्येव स य᳘मेवं विद्वे᳘ष्टि य᳘दि न᳘ भिद्ये᳘त भे᳘त्तवै᳘ ब्रूयाद्यदा᳘ ह्येव स᳘ भिद्यते᳘ ऽथ तᳫँ᳭ शु᳘गृच्छति यं द्वेष्ट्य᳘प्रतीक्षमा᳘यन्त्य᳘प्रतीक्षमेव तच्छु᳘चं पाप्मा᳘नं जहति॥

मूलम् - Weber

स वे᳘देर्द᳘क्षिणायां श्रो᳘णौ॥
प्राङ् ति᳘ष्ठन्दक्षिणा नि᳘रस्यति यं᳘ द्विष्मस्तं᳘ ते शु᳘गृछत्वि᳘ति य᳘मेव द्वे᳘ष्टि त᳘मस्य शु᳘गृछत्यमुं᳘ ते शु᳘गृछत्वि᳘ति ह ब्रूयाद्यं᳘ द्विष्यात्त᳘तो ह त᳘स्मिन्न पु᳘नरस्त्य᳘पि तन्ना᳘द्रियेत स्वयंनिर्दिष्टोॗ ह्येव स य᳘मेवंविद्द्वे᳘ष्टि य᳘दि न᳘ भिद्ये᳘त भि᳘त्तवै᳘ ब्रूयाद्यदाॗ ह्येव स᳘ भिद्यते᳘ ऽथ तं शु᳘गृछति यं द्वेष्ट्य᳘प्रतीक्षमा᳘यन्त्य᳘प्रतीक्षमेव तछु᳘चम् पाप्मा᳘नं जहति॥

मूलम् - विस्वरम्

स वेदेर्दक्षिणायां श्रोणौ प्राङ्तिष्ठन् दक्षिणा निरस्यति । “यन्द्विष्मस्तं ते शुगृच्छतु”- (वा. सं. १७ । १) इति । यमेव द्वेष्टि- तमस्य शुगृच्छति । अमुं ते शुगृच्छतु- इति ह ब्रूयात्- यं द्विष्यात् । ततो ह तस्मिन्न पुनरस्ति । अपि तन्नाद्रियेत । स्वयंनिर्दिष्टो ह्येव सः- यमेवं विद्वेष्टि । यदि न भिद्येत- भेत्तवै ब्रूयात् । यदा ह्येव स भिद्यते- अथ तं शुगृच्छति- यं द्वेष्टि । अप्रतीक्षमायन्ति । अप्रतीक्षमेव तच्छुचं पाप्मानं जहति ॥ १२ ॥

सायणः

उक्तप्रकारेण साश्मानं कुम्भं कृत्वा वेदेर्दक्षिणस्यां श्रोणौ प्राङ्मुखस्तिष्ठन् ‘यं द्विष्मः’ इत्यनेन मन्त्रेण दक्षिणतो निरस्यतीत्याह- इत्यादिना 6 । उक्तमन्त्रेण निरसने मन्त्रार्थस्तथैव फलतीत्याह- यमेवेति । ‘अमुं ते शुगृच्छतु’ इत्यादिकं तु प्रागेव व्याख्यातम् । निरस्तस्य तस्याश्मनो ऽभेदने किं कुर्यादिति तत्राह- यदीति । ‘भेतवै’ भेत्तुं “तुमर्थे” (पा. सू. ३ । ४ । ९) इत्यादिसूत्रेण तुमर्थे तवै-प्रत्ययः । निरसनेनाभिन्नस्य तस्य बलाद्भेदने किं लभ्यत इति तत्राह- यदीति । अत्र ‘यदि न भिद्येत भेत्तवै ब्रूयाद्’ इति सामान्येन च तद्भेदनमश्मविषयमुत कुम्भविषयमिति निर्णयो न दृश्यते अतो ऽत्र विचार्यते किमेतद्भेदनं कुम्भविषयमश्मविषयं वेति । किं तावत्प्राप्तम् । सामर्थ्यात्कुम्भविषयमेतद्भेदनं नाश्मविषयम् । कुत एतत् । एवमेतद्वचनं समर्थं भवति- यदि न भिद्येत भेत्तवै- ब्रूयादिति । अद्रौ त्वसमर्थमेव । नहि तस्य कठिनत्वाद्भेदनमाशङ्क्येत इति प्राप्ते ऽभिधीयते । अश्मविषयं चैतद्भेदनं प्रतिपत्तव्यम्, न कुम्भविषयम् । कुतः ? अर्थवादात् ‘यदा ह्येव स भिद्यते ऽथ तं शुगृच्छति यं द्वेष्टि’ इति । सा च शुगश्मनि निहिता “तदश्मनि शुचं दधाति” इति । किञ्च अश्मन्येव वाच्यं भेदनम्, न कुम्भे । स ह्याद्रिगर्भः क्षिप्तो ऽवश्यमेव भिद्येतेति । तदेतत्सर्वं कात्यायनेन सूत्रितम्- “अभिन्ने भेत्तवै ब्रूयात्, कुम्भे भेदनँ सामर्थ्यात्, अश्मनि वा ऽर्थवादात्, वाच्यत्वाच्च”-(का. श्रौ. सू. १८ । ११, १२, १३, १४) इति । निरसनानन्तरं कर्त्तव्यमाह- अप्रतीक्षमिति ॥ १२ ॥

Eggeling
  1. Whilst standing at the right thigh of the Vedi, with his face to the east, he throws it southwards, with, ‘Let thy pain enter him whom we hate!’ and thus its pain enters whomsoever he hates. He may say, ‘Let thy pain enter so-and-so!’ naming him whom he hates, and then he has no longer any hold upon him; but let him take no notice of this, for indicated of himself is he whom he who knows this hates. If it 8 should remain unbroken, let him bid (the Pratiprasthātr̥) to break it; for only when it is broken, the pain enters him whom he hates. They return (to the altar) without looking back: they thus leave pain and evil behind without looking back to them.

१३

विश्वास-प्रस्तुतिः

प्रत्येत्ये᳘ष्टका धेनूः᳘ कुरुते॥
(त ऽ) एतद्वा᳘ ऽएनं देवाः᳘ शतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा शु᳘चमस्य पाप्मा᳘नमपह᳘त्य प्रत्येत्ये᳘ष्टका धेनू᳘रकुर्व्वत त᳘थै᳘वैनमय᳘मेत᳘च्छतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा शु᳘चमस्य पाप्मा᳘नमपह᳘त्य प्रत्येत्ये᳘ष्टका धेनूः᳘ कुरुते॥

मूलम् - श्रीधरादि

प्रत्येत्ये᳘ष्टका धेनूः᳘ कुरुते॥
(त ऽ) एतद्वा᳘ ऽएनं देवाः᳘ शतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा शु᳘चमस्य पाप्मा᳘नमपह᳘त्य प्रत्येत्ये᳘ष्टका धेनू᳘रकुर्व्वत त᳘थै᳘वैनमय᳘मेत᳘च्छतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा शु᳘चमस्य पाप्मा᳘नमपह᳘त्य प्रत्येत्ये᳘ष्टका धेनूः᳘ कुरुते॥

मूलम् - Weber

प्रत्येत्ये᳘ष्टका धेनूः᳘ कुरुते॥
एतद्वा᳘ एनं देवाः᳘ शतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा शु᳘चमस्य पाप्मा᳘नमपह᳘त्य प्रत्येत्ये᳘ष्टका धेनू᳘रकुर्वत त᳘थैॗवैनमय᳘मेत᳘छतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा शु᳘चमस्य पाप्मा᳘नमपह᳘त्य प्रत्येत्ये᳘ष्टका धेनूः᳘ कुरुते॥

मूलम् - विस्वरम्

प्रत्येत्येष्टका धेनूः कुरुते । एतद्वा एनं देवाः शतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्य प्रत्येत्येष्टका धेनूरकुर्वत । तथैवैनमयमेतच्छतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्य प्रत्येत्येष्टका धेनूः कुरुते ॥ १३ ॥

सायणः

साश्मानं कुम्भं निरस्य प्रत्येत्येष्टका धेनूः कुर्यादित्याह- प्रत्येत्येति । धेनुकरणं नाम वक्ष्यमाणमन्त्रजपपूर्वकं धेनुरूपेणानुसंधानम् । शतरुद्रियादिकुम्भनिरसनान्तं कर्म कृत्वा प्रत्येत्य देवैः धेनुकरणाद्यजमानो ऽपि एतेन तथैव कृतवान् भवतीत्याह- एतद्वा इति । ‘देवा इष्टका धेनूरकुर्वत, तथैवैनमयम्’ इत्यादि स्पष्टम् ॥ १३ ॥

Eggeling
  1. Having returned, he makes the bricks his own

milch cows; for the gods, having now appeased him (Agni-Rudra) by the Śatarudriya and the water, and having driven out his pain and evil, returned (to the altar) and made the bricks their own milch cows; and in like manner does this (Sacrificer) now, after appeasing him by the Śatarudriya and the water, and casting off his pain and evil, return and make the bricks his own milch cows.

१४

विश्वास-प्रस्तुतिः

(त ऽ) आ᳘सीनः कुर्व्वीते᳘त्यु है᳘क ऽआहुः॥
(रा᳘) आसीनो वै᳘ धेनुं᳘ दोग्धी᳘ति ति᳘ष्ठं᳘स्त्वेव᳘ कुर्व्वीतेमे वै᳘ लोका᳘ ऽए᳘षो ऽग्निस्ति᳘ष्ठन्तीव वा᳘ ऽइमे᳘ लोका ऽअ᳘थो ति᳘ष्ठन्वै᳘ व्वी᳘र्यवत्तरः[[!!]]॥

मूलम् - श्रीधरादि

(त ऽ) आ᳘सीनः कुर्व्वीते᳘त्यु है᳘क ऽआहुः॥
(रा᳘) आसीनो वै᳘ धेनुं᳘ दोग्धी᳘ति ति᳘ष्ठं᳘स्त्वेव᳘ कुर्व्वीतेमे वै᳘ लोका᳘ ऽए᳘षो ऽग्निस्ति᳘ष्ठन्तीव वा᳘ ऽइमे᳘ लोका ऽअ᳘थो ति᳘ष्ठन्वै᳘ व्वी᳘र्यवत्तरः[[!!]]॥

मूलम् - Weber

आ᳘सीनः कुर्वीते᳘त्यु है᳘क आहुः॥
आसीनो वै᳘ धेनुं᳘ दोग्धी᳘ति तिॗष्ठंस्त्वेव᳘ कुर्वीतेमे वै᳘ लोका᳘ एॗषो ऽग्निस्ति᳘ष्ठन्तीव वा᳘ इमे᳘ लोका अ᳘थो ति᳘ष्ठन्वै᳘ वीर्य᳘वत्तरः॥

मूलम् - विस्वरम्

आसीनः कुर्वीतेत्यु हैक आहुः । आसीनो वै धेनुं दोग्धीति । तिष्ठंस्त्वेव कुर्वीत । इमे वै लोका एषो ऽग्निः । तिष्ठन्तीव वा इमे लोकाः । अथो तिष्ठन्वै वीर्यवत्तरः ॥ १४ ॥

सायणः

विहितं धेनुकरणम् आसीनेन संपाद्यमिति केषांचिच्छाखिनां सोपपत्तिकं मतं पूर्वपक्षयितुं दर्शयति- आसीन इति । स्वमतमाह- तिष्ठंस्त्वेवेति । ‘तिष्ठन् एव कुर्वीत’ न पुनरासीन इत्येवकारेण पूर्वमुपन्यस्तस्य मतस्य निरासः । स्वमते उपपत्तिमाह- इमे वा इति । ‘एषः’ संचितः ‘अग्निः’ ‘इमे’ पृथिव्यादयो ‘लोकाः’ । कुतः ? प्रजापतिस्तावत्पृथिव्यादिलोकहेतुत्वेन तदात्मकः । एषो ऽग्निः प्रजापत्यात्मकः । “स यः स प्रजापतिर्व्यस्रंसतायमेव स यो ऽयमग्निश्चीयते” (श. प. ८ । २ । २ । ६)- इत्युक्तत्वात् । एवं प्रजापत्यात्मना अग्निरिमे लोकाः, लोकाश्चैते ‘तिष्ठन्तीव’ ऊर्द्ध्वा अवतिष्ठन्त इव । अतश्च पृथिव्यादिलोकत्रयात्मकस्याग्नेरवयवीभूतानामिष्टकानां धेनुकरणं स्थित्वा संपाद्यमित्यर्थः । अपि च अग्निवल्लोके तिष्ठन् पुरुषो वीर्यवत्तरो भवति न त्वासीनः । ततश्च वीर्यवानिव भूत्वा ऽनुकरोति । यथा धेनवो ऽभिमतं पयो दुहन्ति तद्वदेवैता अपीष्टकाः स्वाभिलषितं दुहन्ति इति बुद्ध्या धेनुरूपेणानुसन्धानं क्रियते । धेनवश्च वीर्यवत्तरेण जनेन दुह्यमानाः भूयः पयो दुहन्ति न पुनर्दुर्बलेन । अतो ऽत्रापि स्वाभिलषितदोहनार्थं धेनुकरणं वीर्यवता सम्पाद्यम् । तच्च वीर्यवत्वं तिष्ठत एव सम्भवतीति तिष्ठन्नेव धेनूः कुर्यादिति भावः ॥ १४ ॥

Eggeling
  1. And some say, ‘Let him make them his own whilst sitting, for sitting one milks the cow.’ But let him rather make them his own standing; for that fire-altar is these worlds, and these worlds are, as it were, standing. And, moreover, one is stronger whilst standing.

१५

विश्वास-प्रस्तुतिः

(ऽ) उ᳘दङ्प्राङ्ति᳘ष्ठन्॥
(न्पु) पुर᳘स्ताद्वा᳘ ऽएषा᳘ प्रती᳘ची य᳘जमानं धेनुरु᳘पतिष्ठते दक्षिणतो वै᳘ प्रती᳘चीं धेनुं ति᳘ष्ठन्तीसु᳘पसीदन्ति॥

मूलम् - श्रीधरादि

(ऽ) उ᳘दङ्प्राङ्ति᳘ष्ठन्॥
(न्पु) पुर᳘स्ताद्वा᳘ ऽएषा᳘ प्रती᳘ची य᳘जमानं धेनुरु᳘पतिष्ठते दक्षिणतो वै᳘ प्रती᳘चीं धेनुं ति᳘ष्ठन्तीसु᳘पसीदन्ति॥

मूलम् - Weber

उ᳘दङ् प्राङ् ति᳘ष्ठन्॥
पुर᳘स्ताद्वा᳘ एषा᳘ प्रती᳘ची य᳘जमानं धेनुरु᳘पतिष्ठते दक्षिणतो वै᳘ प्रती᳘चीं धेनुं ति᳘ष्ठन्तीसु᳘पसीदन्ति॥

मूलम् - विस्वरम्

उदङ् प्राङ्तिष्ठन् । पुरस्ताद्वा एषा प्रतीची यजमानं धेनुरुपतिष्ठते । दक्षिणतो वै प्रतीचीं धेनुं तिष्ठन्तीमुपसीदन्ति ॥ १५ ॥

सायणः

तिष्ठन्नपि कथं तिष्ठन्कुर्यादिति तत्राह- उदङ्प्राङिति 9 । ‘उदङ् प्राङ्’ इति ऐशानी दिगुच्यते तदभिमुखस्तिष्ठन्नित्यर्थः । लोके हि यजमानस्य पूर्वभागे धेनोः प्रत्यङ्मुखतया ऽवस्थानाद्दोग्धॄणां च प्रत्यङ्मुखाया धेनोः दक्षिणतो दोहनात्स्वाभिलषितदोहनार्थे इष्टकानां धेनुकरणे तथा करणमुचितमित्याह- पुरस्ताद्वा इति ॥ १५ ॥

Eggeling
  1. [He does so], whilst standing (near the right thigh of the altar) with his face towards the north-east; in front stands that cow by the Sacrificer with her face towards the west (back), for from the right side they approach the cow which stands with its face towards the back (west).

१६

विश्वास-प्रस्तुतिः

स य᳘त्राभ्याप्नो᳘ति॥
त᳘दभिमृ᳘श्यैतद्य᳘जुर्जपतीमा᳘ मे ऽअग्न ऽइ᳘ष्टका धेन᳘वः सन्त्वि᳘त्यग्नि᳘र्हैता᳘सां धेनुकरण᳘स्येष्टे त᳘स्मादेता᳘वतीनां देव᳘तानामग्नि᳘मेवा᳘मन्त्रयत ऽए᳘का च द᳘श चा᳘न्तश्च परार्धश्चे᳘त्येष᳘ हावरा᳘र्घ्यो भूमा यदे᳘का च द᳘श चा᳘थ हैष᳘ परा᳘र्घ्यो भूमा यदन्तश्च[[!!]] परार्ध᳘श्चावरार्घत᳘श्चै᳘वैना ऽएत᳘त्परार्धत᳘श्च परिगृ᳘ह्य देवा᳘ धेनू᳘रुकुर्व्वत त᳘थै᳘वैना ऽअय᳘मेत᳘दवरार्धत᳘श्चैव᳘ परार्धत᳘श्च परिगृ᳘ह्य धेनूः᳘ कुरुते त᳘स्माद᳘पि ना᳘द्रियेत बह्वीः क᳘र्तुममु᳘त्र वा᳘ ऽएष᳘ ऽएता ब्र᳘ह्मणा य᳘जुषा बह्वीः[[!!]] कुरुते᳘ ऽथ य᳘त्संतनो᳘ति का᳘मानेव तत्स᳘न्तनोति॥

मूलम् - श्रीधरादि

स य᳘त्राभ्याप्नो᳘ति॥
त᳘दभिमृ᳘श्यैतद्य᳘जुर्जपतीमा᳘ मे ऽअग्न ऽइ᳘ष्टका धेन᳘वः सन्त्वि᳘त्यग्नि᳘र्हैता᳘सां धेनुकरण᳘स्येष्टे त᳘स्मादेता᳘वतीनां देव᳘तानामग्नि᳘मेवा᳘मन्त्रयत ऽए᳘का च द᳘श चा᳘न्तश्च परार्धश्चे᳘त्येष᳘ हावरा᳘र्घ्यो भूमा यदे᳘का च द᳘श चा᳘थ हैष᳘ परा᳘र्घ्यो भूमा यदन्तश्च[[!!]] परार्ध᳘श्चावरार्घत᳘श्चै᳘वैना ऽएत᳘त्परार्धत᳘श्च परिगृ᳘ह्य देवा᳘ धेनू᳘रुकुर्व्वत त᳘थै᳘वैना ऽअय᳘मेत᳘दवरार्धत᳘श्चैव᳘ परार्धत᳘श्च परिगृ᳘ह्य धेनूः᳘ कुरुते त᳘स्माद᳘पि ना᳘द्रियेत बह्वीः क᳘र्तुममु᳘त्र वा᳘ ऽएष᳘ ऽएता ब्र᳘ह्मणा य᳘जुषा बह्वीः[[!!]] कुरुते᳘ ऽथ य᳘त्संतनो᳘ति का᳘मानेव तत्स᳘न्तनोति॥

मूलम् - Weber

स य᳘त्राभ्याप्नो᳘ति॥
त᳘दभिमृ᳘श्यैतद्य᳘जुर्जपतीमा᳘ मे अग्न इ᳘ष्टका धेन᳘वः सन्त्वि᳘त्यग्नि᳘र्हैता᳘सां धेनुकरण᳘स्येष्टे त᳘स्मादेता᳘वतीनां देव᳘तानामग्नि᳘मेवा᳘मन्त्रयत ए᳘का च द᳘श चा᳘न्तश्च परार्धश्चे᳘त्येष᳘ हावराॗर्ध्यो भूमा यदे᳘का च द᳘श चा᳘थ हैष᳘ पराॗर्ध्यो भूमा यद᳘न्तश्च परार्ध᳘श्चावरार्धत᳘श्चैॗवैना एत᳘त्परार्धत᳘श्च परिगृ᳘ह्य देवा᳘ धेनू᳘रुकुर्वत त᳘थैॗवैना अय᳘मेत᳘दवरार्धत᳘श्चैव᳘ परार्धत᳘श्च परिगृ᳘ह्य धेनूः᳘ कुरुते त᳘स्माद᳘पि ना᳘द्रियेत बह्वीः क᳘र्तुममु᳘त्र वा᳘ एष᳘ एता ब्र᳘ह्मणा य᳘जुषा बह्वीः᳘ कुरुते᳘ ऽथ य᳘त्संतनो᳘ति का᳘मानेव तत्सं᳘तनोति॥

मूलम् - विस्वरम्

स यत्राभ्याप्नोति- तदभिमृश्यैतद्यजुर्जपति । “इमा मे अग्न इष्टका धेनवः सन्तु्”- इति । अग्निर्हैतासां धेनुकरणस्येष्टे । तस्मादेतावतीनां देवतानामग्निमेवामन्त्रयते । “एका च दश चान्तश्च परार्धश्च”- इति । एष हावरार्ध्यो भूमा- यदेका च दश च । अथ हैष परार्ध्यो भूमा- यदन्तश्च परार्धश्च । अवरार्धतश्चैवैना एतत्परार्धतश्च परिगृह्य देवा धेनूरकुर्वत । तथैवैना अयमेतदवरार्धतश्चैव परार्धतश्च परिगृह्य धेनूः कुरुते । तस्मादपि नाद्रियेत बह्वीः कर्तुम् । अमुत्र वा एष एता ब्रह्मणा यजुषा बह्वीः कुरुते । अथ यत्सन्तनोति- कामानेव तत्सन्तनोति ॥ १६ ॥

सायणः

प्रकृते धेनुकरणे स्थानविशेषस्पर्शपूर्वकं मन्त्रं विधत्ते- स यत्रेति । अग्नेरात्मभागस्योपरि ‘यत्र’ स्प्रष्टुमाप्नोति ‘तत्’ स्थानम् ‘अभिमृश्य’ “इमा मे अग्ने”- (वा. स. १७ । २) इति मन्त्रं जपेदित्यर्थः । अत्र आत्मन इत्यग्न्यात्मभागस्येत्यर्थः । अग्निव्यतिरिक्तासु बह्वीषु देवतासु सतीष्वपि तत्राग्निमेव प्राधान्येन किमिति संबोधयतीत्याह- अग्निर्हैतासामिति । अवयवव्यापारे ऽवयविनः सामर्थ्योपलम्भादिष्टकानामग्न्यवयवत्वेनाग्निस्तासां धेनुकरणे समर्थ इति भावः । मन्त्रे आदावेका च दश चेति, अवसाने-अन्तश्च परार्द्धश्चेति सङ्ख्याविशेषप्रयोगस्याभिप्रायमाह- एका च दश चेति । य एषः ‘अवरार्ध्यो भूमा’ अवकृष्टं बहुत्वम् अवरसङ्ख्याचरमसीमा । शताद्यपेक्षया दशत्वसङ्ख्या अवरा, ततो ऽप्यवरा एकत्वसङ्ख्या । ततश्चार्वाचीनायाः सङ्ख्याया अभावादिति । यदन्तश्चेति । य एव पुनः ‘परार्द्ध्यो भूमा’ उत्कृष्टं बहुत्वम् अधिकसंख्या । एकदशशतसहस्रादिसंख्यापेक्षया ऽन्तस्याधिकत्वम् । ततो ऽपि परार्द्धस्याधिकत्वम्, तत उत्तरस्या अधिकसंख्याया अभावादित्यर्थः । एवं च ‘देवाः’ न्यूनसंख्याभूम्ना अधिकसंख्याभूम्ना च मध्यतः शतादिसंख्याका ‘एनाः’ इष्टकाः परितो गृहीत्वा ‘धेनूरकुर्वत’ यत एवम्, तस्मादिदानीं यजमानो ऽपि “एका च” इत्यादिमन्त्रपाठेन तद्वदेव ‘परिगृह्य धेनूः कुरुते’ इति । नन्वेवं सति मन्त्रे यत्संख्याकानामिष्टकानां धेनुरूपता सम्पाद्यते तत्संख्याका इष्टका धेनवः क्रियन्ते । तथाप्युक्तसंख्यातिक्रमेण तत्संख्यानुसाराद् ‘बह्वीः कर्तुं नाद्रियेत’ इत्यर्थः । कथं तथेष्टकास्तत्संख्याका धेनवः सम्पाद्यन्त इत्यत आह- अमुत्र वा इति । ‘एषः’ यजमानो ऽमुष्मिल्ँ लोके, उपलक्षणमेतत् । इह लोके ऽपि ब्रह्मणा बृहता वीर्यवतेत्यर्थः । तेन यजुर्मन्त्रेण ‘एता’ इष्टकाः ‘बह्वीः’ एकादिपरार्द्धान्तसंख्याकाः ‘कुरुते’ मन्त्रसामर्थ्यादल्पस्य बहुभवनं तैत्तिरीयके श्रूयते- “धान्यमसि धिनुहि देवानित्याह । एतस्य यजुषो वीर्येण । यावदेका देवता कामयते यावदेका । तावदाहुतिः प्रथते । नहि तदस्ति । यत्तावदेव स्यात् । यावज्जुहोति” (तै. ब्रा. ३ । २ । ६ । ३) इति । मन्त्रे एका च दश चेत्यादिनोत्तरोत्तराधिकसंख्यासन्तानस्य फलमाह- अथ यदिति ॥ १६ ॥

Eggeling
  1. And wherever he reaches (whilst stretching his arms over the altar), there he touches it and mutters this formula (Vāj. S. XVII, 2), ‘Let these bricks be mine own milch cows, O Agni!’ for Agni rules over this making of cows, whence he addresses Agni out of so many deities;–‘One, and ten 10 . . . . and a hundred thousand millions, and a billion;’–for the one, to wit, one and ten, is the lowest quantity, and the other, to wit, a hundred thousand millions, and a billion, is the highest quantity; thus, having comprehended them by the

lowest and the highest quantity, the gods made them their own milch cows; and in like manner does this (Sacrificer), having thus comprehended them by the lowest and the highest quantity, make them his own milch cows. Hence also he need not care to make many (cows) his own 11, for in yonder world that (Sacrificer), by means of the Brahman (holy writ), the Yajus, will make many (cows) his own. And in that he carries on (the numbers) uninterruptedly, thereby he carries on, without interruption, his objects of desire.

१७

विश्वास-प्रस्तुतिः

य᳘द्वेवे᳘ष्टका धेनूः᳘ कुरुते[[!!]]॥
व्वाग्वा᳘ ऽअय᳘मग्नि᳘र्व्वाचा हि᳘ चितः स यदाहै᳘का च द᳘श चा᳘न्तश्च परार्धश्चे᳘ति व्वाग्वा ऽए᳘का व्वाग्द᳘श व्वाग᳘न्तो व्वा᳘क्परार्धो व्वा᳘चमेव त᳘द्देवा᳘ धेनु᳘मकुर्व्वत त᳘थै᳘वैतद्य᳘जमानो व्वा᳘चमेव᳘ धेनुं᳘ कुरुते᳘ ऽथ य᳘त्सन्तनो᳘ति व्वा᳘चमेव तत्सं᳘तनोत्येता᳘ मे ऽअग्न ऽइ᳘ष्टका धेन᳘वः सन्त्वमु᳘त्रामु᳘ष्मिल्ँ लोक ऽइ᳘त्येतद्वा᳘ ऽएना ऽअस्मिल्ँ᳘लोके᳘ धेनूः᳘ कुरुते᳘ ऽथैना ऽएत᳘दमु᳘ष्मिल्ँ लोके᳘ धेनूः᳘ कुरुते त᳘थो हैनमेता ऽउभ᳘योर्लोक᳘योर्भुञ्जन्त्यस्मिं᳘श्चामु᳘ष्मिंश्च॥

मूलम् - श्रीधरादि

य᳘द्वेवे᳘ष्टका धेनूः᳘ कुरुते[[!!]]॥
व्वाग्वा᳘ ऽअय᳘मग्नि᳘र्व्वाचा हि᳘ चितः स यदाहै᳘का च द᳘श चा᳘न्तश्च परार्धश्चे᳘ति व्वाग्वा ऽए᳘का व्वाग्द᳘श व्वाग᳘न्तो व्वा᳘क्परार्धो व्वा᳘चमेव त᳘द्देवा᳘ धेनु᳘मकुर्व्वत त᳘थै᳘वैतद्य᳘जमानो व्वा᳘चमेव᳘ धेनुं᳘ कुरुते᳘ ऽथ य᳘त्सन्तनो᳘ति व्वा᳘चमेव तत्सं᳘तनोत्येता᳘ मे ऽअग्न ऽइ᳘ष्टका धेन᳘वः सन्त्वमु᳘त्रामु᳘ष्मिल्ँ लोक ऽइ᳘त्येतद्वा᳘ ऽएना ऽअस्मिल्ँ᳘लोके᳘ धेनूः᳘ कुरुते᳘ ऽथैना ऽएत᳘दमु᳘ष्मिल्ँ लोके᳘ धेनूः᳘ कुरुते त᳘थो हैनमेता ऽउभ᳘योर्लोक᳘योर्भुञ्जन्त्यस्मिं᳘श्चामु᳘ष्मिंश्च॥

मूलम् - Weber

य᳘द्वेवे᳘ष्टका धेनूः᳘ कुरुते᳟॥
वाग्वा᳘ अय᳘मग्नि᳘र्वाचा हि᳘ चितः स यदाहै᳘का च द᳘श चा᳘न्तश्च परार्धश्चे᳘ति वाग्वा ए᳘का वाग्द᳘श वाग᳘न्तो वा᳘क्परार्धो वा᳘चमेव त᳘द्देवा᳘ धेनु᳘मकुर्वत त᳘थैॗवैतद्य᳘जमानो वा᳘चमेव᳘ धेनुं᳘ कुरुते᳘ ऽथ य᳘त्संतनो᳘ति वा᳘चमेव तत्सं᳘तनोत्येता᳘ मे अग्न इ᳘ष्टका धेन᳘वः सन्त्वमु᳘त्रामु᳘ष्मिंलोक इ᳘त्येतद्वा᳘ एना अस्मिं᳘लोके᳘ धेनूः᳘ कुरुते᳘ ऽथैना एत᳘दमु᳘ष्मिंलोके᳘ धेनूः᳘ कुरुते त᳘थो हैनमेता उभ᳘योर्लोक᳘योर्भुञ्जन्त्यस्मिं᳘श्चामु᳘ष्मिंश्च॥

मूलम् - विस्वरम्

यद्वेवेष्टका धेनूः कुरुते । वाग्वा अयमग्निः । वाचा हि चितः । स यदाह- एका च दश चान्तश्च परार्धश्चेति । वाग्वा एका, वाग्दश, वागन्तः, वाक् परार्धः । वाचमेव तद्देवा धेनुमकुर्वत । तथैवैतद्यजमानो वाचमेव धेनुं कुरुते । अथ यत्सन्तनोति- वाचमेव तत्सन्तनोति । “एता मे अग्न इष्टका धेनवः सन्त्वमुत्रामुष्मिल्ँ लोके”- (वा. सं. १७ । २) इति । एतद्वा एना अस्मिल्ँ लोके धेनूः कुरुते । अथैना एतदमुष्मिल्ँ लोके धेनूः कुरुते । तथो हैनमेता उभयोर्लोकयोर्भुञ्जन्ति- अस्मिश्चामुष्मिंश्च ॥ १७ ॥

सायणः

अथ तदेवेष्टकाधेनुकरणं वाग्धेनुकरणात्मना प्रशंसति- यद्वेवेति । मन्त्ररूपया वाचा चितत्वादग्निर्वागात्मकः । एकत्वादिका अपि संख्या वाचा प्रकाश्यमानत्वाद् वागात्मिकाः । एवं च सतिः अग्न्यवयवीभूतानामिष्टकानाम् ‘एका च दश च’ इत्यादिसंख्याप्रकाशकेन मन्त्रेण ‘देवा वाचम्’ एव ‘धेनुम्’ अकुर्वन् । अत इदानीन्तनो ऽपि ‘यजमानः’ तद्वदेव करोति । एकत्वादिसंख्यानां वागात्मकत्वादुत्तरोत्तराधिकसंख्यासन्तानेन वाचमेव भूयसीमविच्छिन्नां सम्पादितवान् भवतीत्याह- अथेति । ननु च “इमा मे अग्न इष्टका धेनवः सन्तु” इत्यनेन धेनुरूपत्वसंपादनात् पुनरपि तदेव “एता मे अग्ने” इत्यादिना सम्पाद्यत इति पौनरुक्त्याशङ्कां निवारयति- एतद्वा इति । “इमा मे अग्ने” इत्येतेनैता ‘इष्टकाः’ ‘अस्मिल्ँ लोके’ इह लोके धेनूः करोति । अथ ‘एता मे अग्ने’ इत्यनेन ‘अमुष्मिल्ँ लोके’ स्वर्गे ‘धेनूः’ करोति । अतश्च पृथगर्थत्वान्न पुनरुक्तिरिति भावः । इष्टकानां लोकद्वये ऽपि धेनुरूपतासम्पादनस्य फलमाह- तथो हेति । तथा सति, ‘एताः’ इष्टकारूपा धेनवः, ‘अस्मिंश्चामुष्मिंश्च’ इति ‘उभयोर्लोकयोः’ अपि ‘एनम्’ यजमानं ‘भुञ्जन्ति’ पालयन्तीत्यर्थः । भुञ्जन्तीति “भुजो ऽनवने”- (पा. सू. १ । ३ । ६६) इत्यात्मनेपदविधाने अवननिषेधात्परस्मैपदम् । हे अग्ने ! इमा ‘इष्टका’ इह लोके एकत्वादिपरार्द्धान्तसंख्याविशिष्टा ‘धेनवः’ न केवलं हि इह लोक एव, किन्तु हे अग्ने ! अमुत्रेत्येतत्पदं मन्त्र एव विवृणोति- अमुष्मिल्ँ लोक इति । तत्रापि ‘एता इष्टका मे धेनवः सन्तु’ इति मन्त्रस्यार्थः ॥ १७ ॥

Eggeling
  1. And as to why he makes the bricks his own milch cows,–this fire-altar is speech, for with speech it is built up; and when he says, ‘One, and ten, . . . and a hundred thousand millions, and a billion,’–‘one’ is speech, and a hundred thousand millions is speech, and a billion is speech: it is Speech herself that the gods thereby made their own milch cow; and in like manner does the Sacrificer thereby make Speech herself his own milch cow. And in that he carries on (the numbers) uninterruptedly, thereby it is Speech herself that he carries on:–‘Let these bricks be mine own milch cows, O Agni, hereafter in yonder world!’ He thereby makes them his own milch cows in this world, and he also makes them his own milch cows in yonder world; and thus they are profitable to him in both worlds, in this one and in the other.

१८

विश्वास-प्रस्तुतिः

(श्चर्त᳘) ऋत᳘व स्थे᳘ति॥
(त्यृ) ऋत᳘वो᳘ ह्येता᳘ ऽऋतावृ᳘ध ऽइ᳘ति सत्यवृ᳘ध ऽइ᳘त्येत᳘दृतुष्ठा᳘ स्थ ऽऋतावृ᳘ध ऽइ᳘त्यहोरात्रा᳘णि वा ऽइ᳘ष्टका ऽऋतु᳘षु वा᳘ ऽअहोरात्रा᳘णि तिष्ठन्ति घृतश्चु᳘तो मधुश्चु᳘त ऽइ᳘ति त᳘देना घृतश्चु᳘तश्च मधुश्चु᳘तश्च कुरुते॥

मूलम् - श्रीधरादि

(श्चर्त᳘) ऋत᳘व स्थे᳘ति॥
(त्यृ) ऋत᳘वो᳘ ह्येता᳘ ऽऋतावृ᳘ध ऽइ᳘ति सत्यवृ᳘ध ऽइ᳘त्येत᳘दृतुष्ठा᳘ स्थ ऽऋतावृ᳘ध ऽइ᳘त्यहोरात्रा᳘णि वा ऽइ᳘ष्टका ऽऋतु᳘षु वा᳘ ऽअहोरात्रा᳘णि तिष्ठन्ति घृतश्चु᳘तो मधुश्चु᳘त ऽइ᳘ति त᳘देना घृतश्चु᳘तश्च मधुश्चु᳘तश्च कुरुते॥

मूलम् - Weber

ऋत᳘व स्थे᳘ति॥
ऋत᳘वोॗ ह्येता᳘ ऋतावृ᳘ध इ᳘ति सत्यवृ᳘ध इ᳘त्येत᳘दृतुष्वा᳘ स्थ ऋतावृ᳘ध इ᳘त्यहोरात्रा᳘णि वा इ᳘ष्टका ऋतु᳘षु वा᳘ अहोरात्रा᳘णि तिष्ठन्ति घृतश्चु᳘तो मधुश्चु᳘त इ᳘ति त᳘देना घृतश्चु᳘तश्च मधुश्चु᳘तश्च कुरुते॥

मूलम् - विस्वरम्

“ऋतव स्थ”- इति । ऋतवो ह्येताः । “ऋतावृधः”- इति । सत्यवृध इत्येतत् । “ऋतुष्ठा स्थ ऋतावृधः”- इति । अहोरात्राणि वा इष्टकाः । ऋतुषु वा अहोरात्राणि तिष्ठन्ति । “घृतश्चुतो मधुश्चुतः”- इति । तदेना घृतश्चुतश्च मधुश्चुतश्च कुरुते ॥ १८ ॥

सायणः

अथ तत्रैव मन्त्रान्तरं प्रदर्शयन् व्याचष्टे- ऋतवः स्थेति । ऋतवो हीति । एता इष्टका ऋतवः खलु संवत्सरात्मकस्य अग्नेरवयवत्वादित्यर्थः । अहोरात्राणि वा इष्टका इत्यत्राप्येवमेवाभिप्रायः । ‘ऋतावृधः’ इति च्छान्दसो दीर्घः । ‘ऋतावृध’ इति पुनर्वचनमादरार्थम् । स्पष्टमन्यत् ॥ १८ ॥

Eggeling
  1. [Vāj. S. XVII, 3], ‘The seasons ye are,’–for these (bricks) are indeed the seasons;–’law-sustaining,’ that is, ’truth-sustaining;’–‘be ye season-abiding, law-sustaining!–for the bricks

are the days and nights, and the days and nights indeed abide in the seasons;–‘fat-showering, honey-showering,’–he thereby makes them fat-showering and honey-showering for himself.

१९

विश्वास-प्रस्तुतिः

व्विरा᳘जो नामे᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽएता ऽइ᳘ष्टका ना᳘मभिरु᳘पाह्वयन्त य᳘थायथैना ऽएत᳘दाच᳘क्षते ता᳘ ऽएनानभ्युपा᳘वर्तन्ता᳘थ लोकम्पृणा᳘ ऽएव प᳘राच्यस्तस्थुर᳘हितनाम्न्यो निमे᳘मिहत्यस्ता᳘ व्विरा᳘जो ना᳘माकुर्वत ता᳘ ऽएनानभ्युपावर्तन्त त᳘स्माद्द᳘शदशे᳘ष्टका ऽउपधा᳘य लोकम्पृण᳘या ऽभि᳘मन्त्रयते त᳘देना व्विरा᳘जः कुरुते द᳘शाक्षरा हि᳘ व्विरा᳘ट्कामदु᳘घा ऽअ᳘क्षीयमाणा ऽइ᳘ति त᳘देनाः कामदु᳘घा ऽअ᳘क्षीयमाणाः कुरुते॥

मूलम् - श्रीधरादि

व्विरा᳘जो नामे᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽएता ऽइ᳘ष्टका ना᳘मभिरु᳘पाह्वयन्त य᳘थायथैना ऽएत᳘दाच᳘क्षते ता᳘ ऽएनानभ्युपा᳘वर्तन्ता᳘थ लोकम्पृणा᳘ ऽएव प᳘राच्यस्तस्थुर᳘हितनाम्न्यो निमे᳘मिहत्यस्ता᳘ व्विरा᳘जो ना᳘माकुर्वत ता᳘ ऽएनानभ्युपावर्तन्त त᳘स्माद्द᳘शदशे᳘ष्टका ऽउपधा᳘य लोकम्पृण᳘या ऽभि᳘मन्त्रयते त᳘देना व्विरा᳘जः कुरुते द᳘शाक्षरा हि᳘ व्विरा᳘ट्कामदु᳘घा ऽअ᳘क्षीयमाणा ऽइ᳘ति त᳘देनाः कामदु᳘घा ऽअ᳘क्षीयमाणाः कुरुते॥

मूलम् - Weber

विरा᳘जो नामे᳘ति॥
एतद्वै᳘ देवा᳘ एता इ᳘ष्टका ना᳘मभिरु᳘पाह्वयन्ति य᳘था-यथैना एत᳘दाच᳘क्षते ता᳘ एनानभ्युपा᳘वर्तन्ता᳘थ लोकम्पृणा᳘ एव प᳘राच्यस्तस्थुर᳘हितनाम्न्यो निमे᳘मिहत्यस्ता᳘ विरा᳘जो ना᳘माकुर्वत ता᳘ एनानभ्युपावर्तन्त त᳘स्माद्द᳘श-दशे᳘ष्टका उपधा᳘य लोकम्पृण᳘याभि᳘मन्त्रयते त᳘देना विरा᳘वः कुरुते द᳘शाक्षरा हि᳘ विरा᳘ट् कामदु᳘धा अ᳘क्षीयमाणा इ᳘ति त᳘देनाः कामदु᳘धा अ᳘क्षीयमाणाः कुरुते॥

मूलम् - विस्वरम्

“विराजो नाम”- इति । एतद्वै देवा एता इष्टका नामभिरुपाह्वयन्त- यथायथैना एतदाचक्षते । ता एनानभ्युपावर्तन्त । अथ लोकम्पृणा एव पराच्यस्तस्थुरहितनाम्न्यो निमेमिहत्यः । ता विराजो नामाकुर्वत । ता एनानभ्युपावर्तन्त । तस्माद्दशदशेष्टका उपधाय लोकम्पृणया ऽभिमन्त्रयते । तदेना विराजः कुरुते । दशाक्षरा हि विराट् । “कामदुघा अक्षीयमाणाः”- (वा. सं. १७ । ३) इति । तदेनाः कामदुघा अक्षीयमाणाः कुरुते ॥ १९ ॥

सायणः

विराजो नामेत्यादिकस्यायमर्थः । एतस्मिन्काले खलु ‘देवाः’ यथायथा ‘एता इष्टका’ आचक्षाणायैर्नामभिः ‘एना’ इष्टका ‘आचक्षते’ जनास्तैरेव ‘नामभिः’ स्वयमप्युपाह्वयन्त । ततश्च एता इष्टका ‘एनान्’ देवान् ‘अभ्युपावर्त्तन्त’ समीपमगमन् । अथ लोकम्पृणा इति । एता अविहितनाम्न्यः धेमुरूपतया ऽत्यर्थं मूत्रं विसृजन्त्यः पराङ्मुख्य एव ‘तस्थुः’ । अन्यासामिष्टकानां स्वयमातृण्णारेतःसिग्विश्वज्योतिरपस्याप्राणभृदित्यादिकानि नामानि विद्यन्ते । लोकम्पृणानां तु तथा प्रातिस्विकनामधेयाभावादितरेष्टकावत्स्वसमानाह्वानेन विमुखीभूता अवस्थिता इत्यर्थः । पश्चाद्देवाः ‘ताः’ इष्टका विराट्नाम्नीः ‘अकुर्वत’ अतः स्वयमपि तत्समीपमगमन् । अत एव तदुपधानावसरे ऽपि लोकम्पृणा ‘दशदशोपधाय’ मन्त्रेण ‘अभिमन्त्रयते’ । एवं च सति विराजो दशाक्षरत्वादेता ‘विराजः’ कृतवान् भवतीति तस्मान्मन्त्रे लोकम्पृणा उद्दिश्य विराजो नामेति प्रयुक्तमिति विशदमन्यत् । ‘ऋतवः स्थ’ इत्यादिमन्त्रस्य योजनं यथाश्रुतमेव ॥ १९ ॥

Eggeling
  1. ‘The widely-shining by name,’–for the gods then called those bricks to them by their names, and in the same way in which they called them, they turned unto them; but the ‘space-fillers’ alone stood with averted faces discharging water, having no names applied to them. They called them by the name ’the widely-shining,’ and they turned unto them. Hence, each time he has laid down ten bricks, he addresses them with the ‘space-filling 12 (verse)’: he thereby makes them widely-shining (virāj), for the Virāj (metre) consists of ten syllables:–‘wish-milking, never-failing,’–he thereby makes them wish-milking and never-failing.

२०

विश्वास-प्रस्तुतिः

(ते᳘ ऽथै) अ᳘थैनं व्वि᳘कर्षति॥
मण्डू᳘केना᳘वकया व्वेतसशाख᳘यैतद्वा᳘ ऽएनं देवाः᳘ शतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा[[!!]] शु᳘चमस्य पाप्मा᳘नमपहत्या᳘थैनमेतद्भूय ऽए᳘वाशमयंस्त᳘थै᳘वैनमय᳘मेत᳘च्छतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा शुचमस्य[[!!]] पाप्मा᳘नमहत्या᳘थैनमेतद्भू᳘य ऽएव᳘ शमयति सर्व्व᳘तो व्वि᳘कर्षति सर्व्व᳘त ऽए᳘वैनमेत᳘च्छमयति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथै) अ᳘थैनं व्वि᳘कर्षति॥
मण्डू᳘केना᳘वकया व्वेतसशाख᳘यैतद्वा᳘ ऽएनं देवाः᳘ शतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा[[!!]] शु᳘चमस्य पाप्मा᳘नमपहत्या᳘थैनमेतद्भूय ऽए᳘वाशमयंस्त᳘थै᳘वैनमय᳘मेत᳘च्छतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा शुचमस्य[[!!]] पाप्मा᳘नमहत्या᳘थैनमेतद्भू᳘य ऽएव᳘ शमयति सर्व्व᳘तो व्वि᳘कर्षति सर्व्व᳘त ऽए᳘वैनमेत᳘च्छमयति॥

मूलम् - Weber

अ᳘थैनं वि᳘कर्षति॥
मण्डू᳘केना᳘वकया वेतसशाख᳘यैतद्वा᳘ एनं देवाः᳘ शतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा᳘ शु᳘चमस्य पाप्मा᳘नमपहत्या᳘थैनमेतद्भूय एॗवाशमयंस्त᳘थैॗवैनमय᳘मेत᳘छतरुद्रि᳘येण चाद्भि᳘श्च शमयित्वा शु᳘चमस्य पाप्मानमहत्या᳘थैनमेतद्भू᳘य एव᳘ शमयति सर्व᳘तो वि᳘कर्षति सर्व᳘त एॗवैनमेत᳘छमयति॥

मूलम् - विस्वरम्

अथैनं विकर्षति- मण्डूकेनावकया वेतसशाखया । एतद्वा एनं देवाः शतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्याथैनमेतद्भूय एवाशमयन् । तथैवैनमयमेतच्छतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्याथैनमेतद्भूय एव शमयति । सर्वतो विकर्षति । सर्वत एवैनमेतच्छमयति ॥ २० ॥

सायणः

इष्टकानां धेनुरूपतासम्पादनानन्तरं मण्डूकावकावेतसशाखाभिरग्निस्थलस्य विकर्षणं विधत्ते- अथेति 13 । “एतद्वा” इत्यादिकस्य संबन्धस्तु (श. प. ९ । १ । २ । १०) प्रागेवाभिहितः । विहितं तद्विकर्षणं सर्वतः कर्तव्यमित्याह- सर्वत इति । सर्वत्रापि विकर्षणप्रकारः परस्तात्स्वयमेव वक्ष्यते ॥ २० ॥

Eggeling
  1. He then draws a frog, a lotus-flower, and a bamboo-shoot across (the central part of the altar). For the gods having now appeased him by the Śatarudriya and the water, and having driven out his pain and evil, thereby still further appeased him; and in like manner does this (Sacrificer), now that he has appeased him by the Śatarudriya and the water, and driven out his pain and evil, still further appease him thereby. In every direction he draws them: he thus appeases him everywhere.

२१

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैनं व्विक᳘र्षति॥
(त्ये) एतद्वै य᳘त्रैतं᳘ प्राणा ऽऋ᳘षयो᳘ ऽग्रे ऽग्नि᳘ᳫँ᳘ सम᳘स्कुर्वंस्त᳘मद्भिर᳘वोक्षंस्ता ऽआ᳘पः स᳘मस्कन्दंस्ते᳘ मण्डू᳘का ऽअभवन्॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैनं व्विक᳘र्षति॥
(त्ये) एतद्वै य᳘त्रैतं᳘ प्राणा ऽऋ᳘षयो᳘ ऽग्रे ऽग्नि᳘ᳫँ᳘ सम᳘स्कुर्वंस्त᳘मद्भिर᳘वोक्षंस्ता ऽआ᳘पः स᳘मस्कन्दंस्ते᳘ मण्डू᳘का ऽअभवन्॥

मूलम् - Weber

य᳘द्वेॗवैनं विक᳘र्षति॥
एतद्वै य᳘त्रैत᳘म् प्राणा ऋ᳘षयो᳘ ऽग्रे ऽग्नि᳘ᳫं᳘ सम᳘स्कुर्वंस्त᳘मद्भिर᳘वोक्षंस्ता आ᳘पः स᳘मस्कन्दंस्ते᳘ मण्डू᳘का अभवन्॥

मूलम् - विस्वरम्

यद्वेवैनं विकर्षति । एतद्वै यत्रैतं प्राणा ऋषयो ऽग्रे ऽग्निं समस्कुर्वन् । तमद्भिरवोक्षन्- ता आपः समस्कन्दन्-तं मण्डूका अभवन् ॥ २१ ॥

सायणः

अथ मण्डूकावकावेतसशाखानामुत्पत्तिप्रदर्शनपूर्वकं तत्संपाद्यस्य विकर्षणस्य शमनार्थतां दर्शयति- यद्वेवैनमिति । ‘एनम्’ अग्निं मण्डूकादिभिर्विकर्षतीति ‘यत्’ तत्र ‘एतत्’ कारणं खल्विति कारणाभिधानं प्रतिज्ञाय ‘यत्रैतम्’ इत्यादिना तत्प्रदर्श्यते- ‘अग्रे’ पूर्वं ‘यत्र’ यस्मिन्प्रस्तावे ऋषिशब्दाभिधेयाः ‘प्राणाः’ ‘एतमग्निं’ ‘समस्कुर्वन्’ । संस्कारप्रकारस्तु षष्ठकाण्डस्यादावुक्तः । तदा ते प्राणाः ‘तम्’ अग्निम् ‘अद्भिः’ अवोक्षितवन्तः । ‘ताः’ चापः ‘समस्कन्दंस्ते मण्डूका अभवन्’ ॥ २१ ॥

Eggeling
  1. And, again, as to why he draws them across. Now, in the beginning, when the R̥shis, the vital airs, made up that Agni 14, they sprinkled him with water: that water dripped off and became the frogs.

२२

विश्वास-प्रस्तुतिः

(वंस्ताः᳘) ताः᳘ प्रजा᳘पतिमब्रुवन्॥
(न्य) यद्वै᳘ नः कम᳘भूद᳘वाक्त᳘दगादि᳘ति᳘ सो ऽब्रवीदेष᳘ व ऽएत᳘स्य व्व᳘नस्प᳘तिर्व्वेत्त्वि᳘ति व्वेत्तु स᳘ व्वेत्तुसो᳘ ऽह वै तं᳘ व्वेतस ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवा ऽअ᳘थ यद᳘ब्रुवन्न᳘वाङ्नः क᳘मगादि᳘ति ता ऽअ᳘वाक्का ऽअभवन्न᳘वाक्का ह वै ता ऽअ᳘वका ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवास्ता᳘ हैता᳘स्त्र᳘य्य ऽआ᳘पो[[!!]] य᳘न्मण्डूको᳘ ऽवका व्वेतसशा᳘खैता᳘भिरे᳘वैनमेत᳘त्त्रयी᳘भिरद्भिः᳘ शमयति॥

मूलम् - श्रीधरादि

(वंस्ताः᳘) ताः᳘ प्रजा᳘पतिमब्रुवन्॥
(न्य) यद्वै᳘ नः कम᳘भूद᳘वाक्त᳘दगादि᳘ति᳘ सो ऽब्रवीदेष᳘ व ऽएत᳘स्य व्व᳘नस्प᳘तिर्व्वेत्त्वि᳘ति व्वेत्तु स᳘ व्वेत्तुसो᳘ ऽह वै तं᳘ व्वेतस ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवा ऽअ᳘थ यद᳘ब्रुवन्न᳘वाङ्नः क᳘मगादि᳘ति ता ऽअ᳘वाक्का ऽअभवन्न᳘वाक्का ह वै ता ऽअ᳘वका ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवास्ता᳘ हैता᳘स्त्र᳘य्य ऽआ᳘पो[[!!]] य᳘न्मण्डूको᳘ ऽवका व्वेतसशा᳘खैता᳘भिरे᳘वैनमेत᳘त्त्रयी᳘भिरद्भिः᳘ शमयति॥

मूलम् - Weber

ताः᳘ प्रजा᳘पतिमब्रुवन्॥
यद्वै᳘ नः कम᳘भूद᳘वाक्त᳘दगादि᳘तिॗ सो ऽब्रवीदेष᳘ व एत᳘स्य व᳘नस्प᳘तिर्वेत्त्वि᳘ति वेत्तु सं᳘वेत्तु सो᳘ ऽह वै तं᳘ वेतस इत्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवा अ᳘थ यद᳘ब्रुवन्न᳘वाङ्तः क᳘मगादि᳘ति ता अ᳘वाक्का अभवन्न᳘वाक्का ह वै ता अ᳘वका इत्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवास्ता᳘ हैता᳘स्त्रय्य᳘ आ᳘पो य᳘न्मण्डूको᳘ ऽवका वेतसशाॗखैता᳘भिरेॗवैनमेत᳘त्त्रयी᳘भिरद्भिः᳘ शमयति॥

मूलम् - विस्वरम्

ताः प्रजापतिमब्रुवन्- यद्वै नः कमभूद्- अवाक्तदगादिति । सो ऽब्रवीत्- एष व एतस्य वनस्पतिर्वेत्त्विति । वेत्तु सः । वेत्तुसो ह वै तं वेतस इत्याचक्षते परोक्षम् । परोक्षकामा हि देवाः । अथ यदब्रुवन्- अवाङ् नः कमगादिति- ता अवाक्का अभवन् । अवाक्का ह वै ता अवका इत्याचक्षते परो ऽक्षम् । परो ऽक्षकामा हि देवाः । ता हैतास्त्रय्य आपः- यन्मण्डूकः, अवका, वेतसशाखा, एताभिरेवैनमेतत्त्रयीभिरद्भिः शमयति ॥ २२ ॥

सायणः

ततः प्रजापतिं प्रति ‘नः’ अस्माकं ‘कं’ रसः ‘अवागगात्’ इत्यद्भिरुक्ते स प्रजापतिः ‘वः’ एतस्य ‘रसस्य’ एष वनस्पतिर्वेत्तु इति ‘अब्रवीत्’ । एतस्येति कर्मार्थे षष्ठी । ‘एष’ इति प्रत्यक्षेण निर्दिष्टस्तं ‘वनस्पतिर्वेत्तु सः’ इति परोक्षेणाप्याह । यत एवमुक्तं तेन वेत्तुसो ऽभूत् खलु । ‘तं’ देवाः परोक्षकामत्वाद् ‘वेतस’ इति ‘आचक्षते’ । ‘अथ’ आपो ‘यदब्रुवन्’ ‘अवाक् तदगादिति’ तस्मात् स रसः ‘अवाक्का’ अभवन् । ‘ताः’ च देवाः परोक्षकामत्वाद् ‘अवका’ इति ‘आचक्षते’ । ता हैता इति । उक्तप्रकारेण मण्डूकाः साक्षादेवापः, वेतसो ऽपि तद्रसवेदनाद्, अवकास्तु तद्रसात्मकत्वादिति सर्वे ऽप्येते मण्डूकादयः अवात्मका इति ‘ता एताः’ त्रिविधा आपः खलु । तस्मात्तैरवकर्षणे ‘एताभिः’ त्रिविधाभिरपि ‘अद्भिः’ ‘एनम्’ अग्निम् शमितवान्भवति ॥ २२ ॥

Eggeling
  1. They (the waters) said to Prajāpati, ‘Whatever moisture 15 we had, has gone down.’ He said, ‘This tree shall know it!’–he shall know (vettu), he shall taste it (saṁ vettu)–that one, indeed, they mystically call ‘vetasa’ (bamboo), for the gods love the mystic. And because they said, ‘Down (avāk) has gone our moisture (ka),’ they became avākkās;–‘avākkās,’ they mystically call ‘avakās (lotuses),’ for the gods love the mystic. These, then, are those three kinds of water, to wit, the frog, the lotus-flower, and the bamboo-shoot: by means of these three kinds of water he appeases him.

२३

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैनं व्विक᳘र्षति॥
जाय᳘त ऽएष᳘ ऽएतद्य᳘च्चीय᳘ते स᳘ ऽएष स᳘र्व्वस्मा ऽअ᳘न्नाय जायते स᳘र्व्वम्वेतद᳘न्नं य᳘न्मण्डूको᳘ ऽवका व्वेतसशाखा᳘ पश᳘वश्च᳘ ह्येता ऽआ᳘पश्च व्व᳘नस्प᳘तयश्च स᳘र्व्वेणै᳘वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैनं व्विक᳘र्षति॥
जाय᳘त ऽएष᳘ ऽएतद्य᳘च्चीय᳘ते स᳘ ऽएष स᳘र्व्वस्मा ऽअ᳘न्नाय जायते स᳘र्व्वम्वेतद᳘न्नं य᳘न्मण्डूको᳘ ऽवका व्वेतसशाखा᳘ पश᳘वश्च᳘ ह्येता ऽआ᳘पश्च व्व᳘नस्प᳘तयश्च स᳘र्व्वेणै᳘वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - Weber

य᳘द्वेॗवैनं विक᳘र्षति॥
जाय᳘त एष᳘ एतद्य᳘च्चीय᳘ते स᳘ एष स᳘र्वस्मा अ᳘न्नाय जायते स᳘र्वम्वेतद᳘न्नं य᳘न्मण्डूको᳘ ऽवका वेतसशाखा᳘ पश᳘वश्चॗ ह्येता आ᳘पश्च व᳘नस्प᳘तयश्च स᳘र्वेणैॗ वैनमेतद᳘न्नेन प्रीणाति॥

मूलम् - विस्वरम्

यद्वेवैनं विकर्षति । जायत ऽएष एतद्- यच्चीयते । स एष सर्वस्मा अन्नाय जायते । सर्वम्वेतदन्नम्- यन्मण्डूकः, अवका, वेतसशाखा । पशवश्च ह्येताः, आपश्च, वनस्पतयश्च । सर्वेणैवैनमेतदन्नेन प्रीणाति ॥ २३ ॥

सायणः

इत्थं मण्डूकादीनामवात्मकत्वेन शमनार्थत्वं प्रदर्श्याथ तानेव कृत्स्नान्नरूपेण प्रशंसति- यद्वेवेति । पूर्वं प्रजासृष्टिनिबन्धनेन परासुः प्रजापतिरिदानीं चयनलक्षणान्नसंस्कारेण प्राणादीनां निधानात्पुनरुत्पद्यत इति चीयमानाग्निलक्षणः प्रजापतिर्जायत एव । जायमानस्य च सर्वान्नभोगार्थमेवोत्पत्तेः ‘एषः’ अपि ‘सर्वस्मा अन्नाय जायते’ । मण्डूकादयश्च कृत्स्नमन्नं, तदेव प्रदर्श्यते- पशवश्च ह्येता इति । ‘एताः’ मण्डूकावकावेतसशाखाः क्रमेण ‘पशव आपो वनस्पतयश्च’ भवन्तीति मण्डूकादयः स्थावरजङ्गमात्मकं कृत्स्नमन्नम् । अत्र यद्यप्येते मण्डूकादयः सर्वे ऽप्यबात्मकाः, तथापि अवकानां जलैकायतनत्वाद् वेतसानामप्प्ररूढवनस्पतिरूपत्वाच्च ता आप इत्युक्तम् । एवं च सति मण्डूकादिभिर्विकर्षणेन ‘एनम्’ अग्निं ‘सर्वेणैवान्नेन प्रीणाति’ इति ॥ २३ ॥

Eggeling
  1. And, again, why he draws them across it;–when he (Agni, the fire-altar) is built up, he is being born, and he is born for every kind of food; and these are every kind of food, to wit, the frog, the lotus-flower, and the bamboo-shoot, for these, indeed, are animals, water, and trees: with all this food he gratifies him.

२४

विश्वास-प्रस्तुतिः

मण्डू᳘केन पशूनाम्[[!!]]॥
(न्त᳘) त᳘स्मान्मण्डू᳘कः पशूना᳘मनुपजीवनीय᳘तमो यात᳘यामा हि सो᳘ ऽवकाभिरपां त᳘स्माद᳘वका ऽअपा᳘मनुपजीवनीय᳘तमा यात᳘याम्न्यो हि ता᳘ व्वेतसे᳘न व्व᳘नस्प᳘तीनां त᳘स्माद्वेतसो व्व᳘नस्प᳘तीनामनुपजीवनीय᳘तमो यात᳘यामा हि सः॥

मूलम् - श्रीधरादि

मण्डू᳘केन पशूनाम्[[!!]]॥
(न्त᳘) त᳘स्मान्मण्डू᳘कः पशूना᳘मनुपजीवनीय᳘तमो यात᳘यामा हि सो᳘ ऽवकाभिरपां त᳘स्माद᳘वका ऽअपा᳘मनुपजीवनीय᳘तमा यात᳘याम्न्यो हि ता᳘ व्वेतसे᳘न व्व᳘नस्प᳘तीनां त᳘स्माद्वेतसो व्व᳘नस्प᳘तीनामनुपजीवनीय᳘तमो यात᳘यामा हि सः॥

मूलम् - Weber

मण्डू᳘केन पशूना᳘म्॥
त᳘स्मान्मण्डू᳘कः पशूना᳘मनुपजीवनीय᳘तमो यात᳘यामा हि सो᳘ ऽवकाभिरपां त᳘स्माद᳘वका अपा᳘मनुपजीवनीय᳘तमा यात᳘याम्न्यो हि ता᳘ वेतसे᳘न व᳘नस्प᳘तीनां त᳘स्माद्वेतसो व᳘नस्प᳘तीनामनुपजीवनीय᳘तमो यात᳘यामा हि सः॥

मूलम् - विस्वरम्

मण्डूकेन पशूनाम् । तस्मान्मण्डूकः पशूनामनुपजीवनीयतमः । यातयामा हि सः । अवकाभिरपाम् । तस्मादवका अपामनुपजीवनीयतमाः । यातयाम्न्यो हि ताः । वेतसेन वनस्पतीनाम् । तस्माद्वेतसो वनस्पतीनामनुपजीवनीयतमः । यातयामा हि सः ॥ २४ ॥

सायणः

विकर्षणेन वान्तरसा मण्डूकादयो ऽनुपजीवनीया आसन्नित्याह- मण्डूकेनेति । “पशूनां” मध्ये मण्डूकेन विकृष्टवानिति ‘यद्’ तस्मात् पशूनां मध्ये मण्डूको गतसारत्वात् पश्वंतरवदुपकारको न भवति । एवमवका अपि भक्ष्याः पेया वा न भवन्तीति । वेतसो ऽपि वनस्पत्यन्तरवत्पुष्पफलादिनोपकारको न भवतीति एते सर्वे ऽप्यनुपजीवनीया अभूवन्नित्यर्थः ॥ २४ ॥

Eggeling
  1. With the frog, on the part of animals, whence, of animals, the frog is the one affording least subsistence, for he is used up;–with the lotus-flower, on the part of water, whence of the kinds of water (plants), lotus-flowers are those affording least subsistence, for they are used up;–and with the bamboo-shoot, on the part of trees; whence, of trees, the bamboo is the one affording least subsistence, for it is used up.

२५

विश्वास-प्रस्तुतिः

(स ता᳘) ता᳘नि व्वᳫँ᳭शे᳘ प्रब᳘ध्य॥
दक्षिणार्धे᳘नाग्नेर᳘न्तरेण परिश्रि᳘तः प्राग᳘ग्रे व्वि᳘कर्षति समुद्र᳘स्य त्वा᳘ ऽवकया᳘ ऽग्ने प᳘रिव्ययामसि। पावको᳘ ऽअस्म᳘भ्यᳫँ᳭ शिवो᳘ भवे᳘ति समुद्रि᳘याभिस्त्वा ऽद्भिः᳘ शमयाम ऽइ᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

(स ता᳘) ता᳘नि व्वᳫँ᳭शे᳘ प्रब᳘ध्य॥
दक्षिणार्धे᳘नाग्नेर᳘न्तरेण परिश्रि᳘तः प्राग᳘ग्रे व्वि᳘कर्षति समुद्र᳘स्य त्वा᳘ ऽवकया᳘ ऽग्ने प᳘रिव्ययामसि। पावको᳘ ऽअस्म᳘भ्यᳫँ᳭ शिवो᳘ भवे᳘ति समुद्रि᳘याभिस्त्वा ऽद्भिः᳘ शमयाम ऽइ᳘त्येतत्[[!!]]॥

मूलम् - Weber

ता᳘नि वंशे᳘ प्रब᳘ध्य॥
दक्षिणार्धे᳘नाग्नेर᳘न्तरेण परिश्रि᳘तः प्राग᳘ग्रे वि᳘कर्षति समुद्र᳘स्य त्वा᳘वकया᳘ग्ने प᳘रिव्ययामसि पावको᳘ अस्म᳘भ्यं शिवो᳘ भवे᳘ति समुद्रि᳘याभिस्त्वाद्भिः᳘ शमयाम इ᳘त्येत᳘त्॥

मूलम् - विस्वरम्

तानि वंशे प्रबध्य दक्षिणार्धेनाग्नेरन्तरेण परिश्रितः प्रागग्रे विकर्षति । “समुद्रस्य त्वा ऽवकया ऽग्ने परिव्ययामसि । पावको ऽअस्मभ्यं शिवो भव”- (वा. सं. १७ । ४) इति । समुद्रियाभिस्त्वा ऽद्भिः शमयाम इत्येतत् ॥ २५ ॥

सायणः

मण्डूकादिभिः कथं विकर्षणं सम्भवतीति तदुपायमाह- तानीति । ‘तानि’ मण्डूकादीनि ‘वंशे’ ‘प्रबध्य’ विकर्षेदिति शेषः । पूर्वमग्निस्थलस्य सामान्येन विकर्षणमुक्तम् । “अथैनं विकर्षति” इति । कुत्रेदानीं कस्मिन् कस्मिन् प्रदेशे केन केन प्रकारेणेति विशेषजिज्ञासायामाह- दक्षिणार्धेनेति । परिश्रिताम् ‘अन्तरेण’ अग्नेरात्मभागस्य दक्षिणभागे प्रथमं ‘प्राक्’ अपवर्गं कर्षति “समुद्रस्य त्वा”- (वा. सं. १७ । ४) इति मन्त्रेणेत्यर्थः । दक्षिणार्द्धेनेति । (पा. सू. ३ । १ । ८५) व्यत्ययेन तृतीया । समुद्रस्य त्वा ऽवकया ऽग्ने परिव्ययामसीत्यस्य तात्पर्यमाह- समुद्रियाभिरिति । ‘समुद्र’ शब्देनात्र जलाशय उच्यते । समुद्रसम्बन्धिनीभिः ‘अद्भिः’ त्वां ‘शमयाम’ ‘इत्येतद्’ उक्तं भवति । अवकाया अबात्मकत्वात् तथा संवरणेन शमनस्य निष्पादनादित्यर्थः । समुद्रियाभिरिति “समुद्राभ्राद्धः”- (पा. सू. ४ । ४ । ११८) इति घप्रत्ययः । “आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्”- (पा. सू. ७ । १ । २) इति सूत्रेणेयादेशः । हे अग्ने ! त्वां समुद्रसम्बन्धिन्या अवकया ‘परिव्ययामसि’ परितः संवृणुमः । “इदन्तो मसि” (पा. सू. ७ । १ । ४६) इत्युत्तमपुरुषबहुवचनसकारस्यान्ते इकारागमः । तेन च संवरणेन शान्तस्त्वम् ‘अस्मभ्यम्’ अस्मदर्थं पावयति शोधयतीति ‘पावकः’ ‘शिवः’ स्योनः आनुकूल्यवान् ‘भव’ इति मन्त्रस्यार्थः ॥ २५ ॥

Eggeling
  1. Having tied them to a cane, he, in the first place, draws them eastwards along the right (south) part of the (body of the) altar inside the enclosing-stones,

with (Vāj. S. XVII, 4), ‘With the lotus-flower of the ocean we encompass thee, O Agni: be thou bright and propitious unto us!’ that is, ‘With the waters of the ocean we appease thee.’

२६

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ जघनार्धेनो᳘दक्॥
(ग्घि) हिम᳘स्य त्वा जरा᳘युणा᳘ ऽग्ने प᳘रिव्ययामसि। पावको᳘ ऽअस्म᳘भ्यᳫँ᳭ शिवो᳘ भवे᳘ति यद्वै᳘ शीत᳘स्य प्र᳘शीतं त᳘द्धिम᳘स्य जरा᳘यु शीत᳘स्य त्वा प्र᳘शीतेन शमयाम ऽइ᳘त्येतत्[[!!]]॥ (शतम् ४८००॥)

मूलम् - श्रीधरादि

(द᳘) अ᳘थ जघनार्धेनो᳘दक्॥
(ग्घि) हिम᳘स्य त्वा जरा᳘युणा᳘ ऽग्ने प᳘रिव्ययामसि। पावको᳘ ऽअस्म᳘भ्यᳫँ᳭ शिवो᳘ भवे᳘ति यद्वै᳘ शीत᳘स्य प्र᳘शीतं त᳘द्धिम᳘स्य जरा᳘यु शीत᳘स्य त्वा प्र᳘शीतेन शमयाम ऽइ᳘त्येतत्[[!!]]॥ (शतम् ४८००॥)

मूलम् - Weber

अ᳘थ जघनार्धेनो᳘दक्॥
हिम᳘स्य त्वा जरा᳘युणा᳘ग्ने प᳘रिव्ययामसि पावको᳘ अस्म᳘भ्यं शिवो᳘ भवे᳘ति यद्वै᳘ शीत᳘स्य प्र᳘शीतं त᳘द्धिम᳘स्य जरा᳘यु शीत᳘स्य त्वा प्र᳘शीतेन शमयाम इ᳘त्येत᳘त्॥

मूलम् - विस्वरम्

अथ जघनार्धेनोदक् । “हिमस्य त्वा जरायुणा ऽग्ने परिव्ययामसि । पावको ऽअस्मभ्यं शिवो भव"- (वा. सं. १७ । ५) इति । यद्वै शीतस्य प्रशीतं- तद्धिमस्य जरायु । शीतस्य त्वा प्रशीतेन शमयाम इत्येतत् ॥ २६ ॥

सायणः

उक्तप्रकारेण दक्षिणभागे विकृष्य पश्चिमभागमुदगपवर्गं हिमस्य त्वेत्यनेन मन्त्रेण विकर्षेदित्याह- अथ जघनार्द्धेनेति । ‘यद्वै शीतस्य’ इत्यादिकस्यायमर्थः- ‘यत्’ खलु ‘शीतस्य’ अपि ‘प्रशीतं’ प्रकृष्टं शीतं ‘तद्धिमस्य’ ‘जरायु’ जरायु-शब्दो गर्भवेष्टनवचनः । अतश्च जरायुर्यथा गर्भमाच्छादयति तद्वदधिकं शीतमप्यल्पं शीतम् । ‘तद्धिमस्य जरायुणा’ इति । शीतादप्यधिकं शीतमुच्यत इति । अत्राबात्मका मण्डूकादय एव हिमस्य जरायुणेत्येतेन विवक्ष्यन्ते । तेन च शब्देन तेषामभिधानं प्रकृष्टशमनसमर्थत्वसूचनार्थमिति प्रतिपत्तव्यम् ॥ २६ ॥

Eggeling
  1. Then northwards along the hind part (of the altar), with (Vāj. S. XVII, 5), ‘With an outer vesture of cold we encompass thee, O Agni: be thou bright and propitious unto us!’–that part of the cold which is frozen hard is an outer vesture of cold: thus, ‘By the frozen part of cold we appease thee!’

२७

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थोत्तरार्धे᳘न प्राक्[[!!]]॥
(गु᳘) उ᳘प ज्मन्नु᳘प वेतसे᳘ ऽवतर नदीष्वा[[!!]]। अ᳘ग्ने पित्त᳘मपा᳘मसि म᳘ण्डूकि ता᳘भिरा᳘गहि᳘ सेमं᳘ नो यज्ञं᳘ पावक᳘वर्णᳫँ᳭ शिवं᳘ कृधी᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थोत्तरार्धे᳘न प्राक्[[!!]]॥
(गु᳘) उ᳘प ज्मन्नु᳘प वेतसे᳘ ऽवतर नदीष्वा[[!!]]। अ᳘ग्ने पित्त᳘मपा᳘मसि म᳘ण्डूकि ता᳘भिरा᳘गहि᳘ सेमं᳘ नो यज्ञं᳘ पावक᳘वर्णᳫँ᳭ शिवं᳘ कृधी᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

अ᳘थोत्तरार्धे᳘न प्रा᳘क्॥
उ᳘प ज्मन्नु᳘प वेतसे᳘ ऽवतर नदीष्वा᳘ अ᳘ग्ने पित्त᳘मपा᳘मसि म᳘ण्डूकि ता᳘भिरा᳘गहिॗ सेमं᳘ नो यज्ञ᳘म् पावक᳘वर्णं शिवं᳘ कृधी᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

अथोत्तरार्धेन प्राक् । “उप ज्मन्नुप वेतसे ऽवतर नदीष्वा । अग्ने पित्तमपामसि मण्डूकि ताभिरागहि सेमं नो यज्ञं पावकवर्णं शिवं कृधि"- (वा. सं. १७ । ६) इति । यथैव यजुस्तथा बन्धुः ॥ २७ ॥

सायणः

अथ पश्चाद्भागे विकर्षणानन्तरमुत्तरभागं प्रागपवर्गं विकर्षेदित्याह- अथोत्तरार्द्धेन प्रागिति । विकर्षणे मन्त्रमाह- उप ज्मन्नुपेति । मन्त्रस्तु स्पष्टार्थ इत्याह- यथैवेति ॥ २७ ॥

Eggeling
  1. Then eastwards along the left (north) part, with (Vāj. S. XVII, 6), ‘Upon the earth, into the reed, into the rivers descend thou, O Agni, thou art the bile 16 of waters: with them, come thou, O she-frog, and make the sacrifice bright-coloured and propitious for us!’ as the text, so the meaning.

२८

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ पूर्वार्धे᳘न दक्षि᳘णा॥
(णा ऽपा᳘) अपा᳘मिदं न्य᳘यनᳫँ᳭ समु᳘द्रस्य निवे᳘शनम्। अन्यां᳘स्ते ऽअस्म᳘त्तपन्तु हेत᳘यः पावको᳘ ऽअस्म᳘भ्यᳫँ᳭ शिवो᳘ भवे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरित्य᳘ग्रे व्वि᳘कर्षत्यथे᳘ति। अथेत्यथे᳘ति त᳘द्दक्षिणावृत्तद्धि᳘ देव᳘त्रा॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ पूर्वार्धे᳘न दक्षि᳘णा॥
(णा ऽपा᳘) अपा᳘मिदं न्य᳘यनᳫँ᳭ समु᳘द्रस्य निवे᳘शनम्। अन्यां᳘स्ते ऽअस्म᳘त्तपन्तु हेत᳘यः पावको᳘ ऽअस्म᳘भ्यᳫँ᳭ शिवो᳘ भवे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरित्य᳘ग्रे व्वि᳘कर्षत्यथे᳘ति। अथेत्यथे᳘ति त᳘द्दक्षिणावृत्तद्धि᳘ देव᳘त्रा॥

मूलम् - Weber

अ᳘थ पूर्वार्धे᳘न दक्षिॗणा॥
अपा᳘मिदं न्य᳘यनᳫं समु᳘द्रस्य निवे᳘शनम् अन्या᳘ᳫं᳘स्ते अस्म᳘त्तपन्तु हेत᳘यः पावको᳘ अस्म᳘भ्यं शिवो᳘ भवे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरित्य᳘ग्रे वि᳘कर्षत्यथे᳘ति अथेत्यथे᳘ति त᳘द्दक्षिणावृत्तद्धि᳘ देवॗत्रा॥

मूलम् - विस्वरम्

अथ पूर्वार्धेन दक्षिणा । “अपामिदं न्ययनं समुद्रस्य निवेशनम् । अन्यांस्ते अस्मत्तपन्तु हेतयः पावको ऽअस्मभ्यं शिवो भव”- (वा. सं. १७ । ७) इति । यथैव यजुस्तथा बन्धुः । इत्यग्रे विकर्षति । अथेति, अथेति, अथेति- तद् दक्षिणावृत् । तद्धि देवत्रा ॥ २८ ॥

सायणः

अथ पूर्वभागे अपामिदमिति मन्त्रेण दक्षिणापवर्गं विकर्षेदित्याह- अथ पूर्वार्द्धेनेति । अयमपि मन्त्रः स्पष्टार्थ इत्याह- यथैवेति । हे अग्ने ! यदेतन्मण्डूकावकावेतसशाखालक्षणं वस्तु ‘इदमपां न्ययनं’ नितरां स्थानम् । अपां मध्ये लीनत्वेन तदयनत्वं सम्भवतीति तत्राह- समुद्रस्येति । न ह्यल्पीयसीनामपामयनमेतत्, अपि तु ‘समुद्रस्य’ जलनिधेरेव ‘निवेशनं’ निविशते ऽस्मिन्निति निवेशनम् । अधिकरणे ल्युट्, स्थानमित्यर्थः । एवं च तथाविधेन मण्डूकादिना विकृष्यसे यतः, अतः त्वां ब्रवीमि । ‘ते हेतयो’ ज्वालाः ‘अस्मदन्याँस्तपन्तु’ । ‘अस्मभ्यं’ तु त्वं ‘पावकः’ ‘शिवः’ च भवेति मन्त्रार्थः । तत्तद्भागे विकर्षणप्रकारं हस्ताभिनयेन दर्शयन् दक्षिणभागादिक्रमेण विकर्षणात् सिद्धं प्रादक्षिण्यक्रमं प्रशंसति- इत्यग्रे विकर्षतीति । ‘देवत्रेति’ “देवमनुष्यपुरुषपुरुमर्त्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्-”- (पा. सू. ५ । ४ । ५६) इति सूत्रेणात्र देवात्सप्तम्यर्थे त्राप्रत्ययः । देवदेयं देवोचितं भवतीत्यर्थः ॥ २८ ॥

Eggeling
  1. Then southwards along the forepart, with (Vāj. S. XVII, 7), ‘Thou art the receptacle of waters, the abode of the ocean: let thy darts burn others than us! unto us be thou bright and propitious!’ as the text, so the meaning. He first draws them thus 17, then thus, then thus, then thus: that is from left to right, for so it is with the gods.

२९

विश्वास-प्रस्तुतिः

(त्रा ऽऽत्मा᳘) आत्मा᳘नम᳘ग्रे व्वि᳘कर्षति॥
(त्या) आत्मा᳘ ह्येवा᳘ग्रे सम्भ᳘वतः सम्भ᳘वत्य᳘थ द᳘क्षिणं पक्षम᳘थ पु᳘च्छमथो᳘त्तरं त᳘द्दक्षिणावृत्तद्धि᳘ देव᳘त्रा॥

मूलम् - श्रीधरादि

(त्रा ऽऽत्मा᳘) आत्मा᳘नम᳘ग्रे व्वि᳘कर्षति॥
(त्या) आत्मा᳘ ह्येवा᳘ग्रे सम्भ᳘वतः सम्भ᳘वत्य᳘थ द᳘क्षिणं पक्षम᳘थ पु᳘च्छमथो᳘त्तरं त᳘द्दक्षिणावृत्तद्धि᳘ देव᳘त्रा॥

मूलम् - Weber

आत्मा᳘नम᳘ग्रे वि᳘कर्षति॥
आत्माॗ ह्येवा᳘ग्रे सम्भ᳘वतः सम्भ᳘वत्य᳘थ द᳘क्षिणम् पक्षम᳘थ पु᳘छमथो᳘त्तरं त᳘द्दक्षिणावृत्तद्धि᳘ देवॗत्रा॥

मूलम् - विस्वरम्

आत्मानमग्रे विकर्षति । आत्मा ह्येवाग्रे सम्भवतः सम्भवति । अथ दक्षिणं पक्षम् । अथ पुच्छम् । अथोत्तरम् । तद्दक्षिणावृत् । तद्धि देवत्रा ॥ २९ ॥

सायणः

आत्मभागविकर्षणस्य प्राथमिकत्वमुपपादयति- आत्मानमिति । दक्षिणार्द्धेनेत्यादिना विहितं विकर्षणमग्नेरात्मभाग एव क्रियते । अतश्चाग्रे आत्मानं विकर्षतीत्येतदुपपन्नम् । कुतः ? ‘सम्भवतो’ जायमानस्य करचरणाद्यवयवजातस्य मध्ये पूर्वमात्मभाग एव ‘सम्भवति’ तत्सकाशात्करचरणादीनामुत्पत्तिरिति । अथ दक्षिणपक्षादीनां विकर्षणं विधाय ततः क्रमसिद्धं प्रादक्षिण्यं पूर्ववत्प्रशंसति- अथेति ॥ २९ ॥

Eggeling
  1. Over the body (of the altar) he draws them

first, for of (the bird, or Agni) that is born the body is born first, then the right wing, then the tail, then the left wing: that is from left to right, for so it is with the gods.

३०

विश्वास-प्रस्तुतिः

(त्रा ऽभ्या) अभ्यात्मं᳘ पक्षपुच्छा᳘नि व्वि᳘कर्षति॥
(त्य) अभ्यात्म᳘मेव तच्छा᳘न्तिं धत्ते पुरस्ता᳘दर्व्वा᳘क्पर᳘स्तादेव त᳘दर्व्वा᳘चीᳫँ᳭ शा᳘न्तिं धत्ते᳘ ऽग्ने पावक रोचिषे᳘ति द᳘क्षिणं पक्षᳫँ᳭ स᳘ नः पावक दीदिव ऽइ᳘ति पु᳘च्छं पावक᳘या य᳘श्चित᳘यन्त्या कृपेत्यु᳘त्तरं पावकं᳘ पावकमि᳘ति यद्वै᳘ शिव᳘ᳫँ᳘ शान्तं त᳘त्पावक᳘ᳫँ᳘ शम᳘यत्ये᳘वैनमेत᳘त्॥

मूलम् - श्रीधरादि

(त्रा ऽभ्या) अभ्यात्मं᳘ पक्षपुच्छा᳘नि व्वि᳘कर्षति॥
(त्य) अभ्यात्म᳘मेव तच्छा᳘न्तिं धत्ते पुरस्ता᳘दर्व्वा᳘क्पर᳘स्तादेव त᳘दर्व्वा᳘चीᳫँ᳭ शा᳘न्तिं धत्ते᳘ ऽग्ने पावक रोचिषे᳘ति द᳘क्षिणं पक्षᳫँ᳭ स᳘ नः पावक दीदिव ऽइ᳘ति पु᳘च्छं पावक᳘या य᳘श्चित᳘यन्त्या कृपेत्यु᳘त्तरं पावकं᳘ पावकमि᳘ति यद्वै᳘ शिव᳘ᳫँ᳘ शान्तं त᳘त्पावक᳘ᳫँ᳘ शम᳘यत्ये᳘वैनमेत᳘त्॥

मूलम् - Weber

अभ्यात्म᳘म् पक्षपुछा᳘नि वि᳘कर्षति॥
अभ्यात्म᳘मेव तछा᳘न्तिं धत्ते पुरस्ता᳘दर्वा᳘क्पर᳘स्तादेव त᳘दर्वा᳘चीं शा᳘न्तिं धत्ते᳘ ऽग्ने पावक रोचिषे᳘ति द᳘क्षिणम् पक्षᳫं स᳘ नः पावक दीदिव इ᳘ति पु᳘छम् पावक᳘या य᳘श्चित᳘यन्त्या कृपेत्यु᳘त्तरम् पावक᳘म् पावकमि᳘ति यद्वै᳘ शिवं᳘ शान्तं त᳘त्पावकं᳘ शम᳘यत्येॗवैनमेत᳘त्॥

मूलम् - विस्वरम्

अभ्यात्मं पक्षपुच्छानि विकर्षति । अभ्यात्ममेव तच्छान्तिं धत्ते । परस्तादर्वाक् । परस्तादेव तदर्वाचीं शान्तिं धत्ते । “अग्ने पावक रोचिषा”- (वा. सं. १७ । ८) इति दक्षिणं पक्षम् । “स नः पावक दीदिवः”- (वा. सं. १७ । ९) इति पुच्छम् । “पावकया यश्चितयन्त्या कृपा”- (वा. सं. १७ । १०) इति उत्तरम् । पावकं पावकमिति । यद्वै शिवं शान्तं तत्पावकम् । शमयत्येवैनमेतत् ॥ ३० ॥

सायणः

पक्षादीनां विकर्षणमात्मभागमभिलक्ष्य कुर्यादित्याह- अभ्यात्ममिति 18 । अग्निरूपमात्मानमभि अभ्यात्मम् “लक्षणेनाभिप्रती आभिमुख्ये”- (पा. सू. २ । १ । १४) इत्यव्ययीभावसमासः । “अनश्च” (पा. सू. ५ । ४ । १०८) इति समासान्तष्टच् । विकर्षणानुसारेण शान्तिं निहितवान्भवतीत्याह- अभ्यात्ममेवेति । कथमभ्यात्मं विकर्षणं भवतीति तत्राह- परस्तादिति अथ दक्षिणपक्षादीनां विकर्षणेषु मन्त्रान्विधत्ते- अग्ने पावक रोचिषेत्यादिना । मन्त्रेषु पावकशब्दप्रयोगस्याभिप्रायमाह- पावकं पावकमिति । ‘यद्वै’ खलु वस्तु ‘शिवम्’ तस्यैवार्थप्रदर्शनं ‘शान्तम्’ इव तत्पावकं भवति । शान्तं शान्तेः शुद्धिसम्पादकत्वात् । अतश्चाग्नेः शान्ततासिद्धये तेन शब्देन सम्बोधनमिति भावः ॥ ३० ॥

Eggeling
  1. Over the wings and tail he draws them in the direction of the body (self): he thus lays calmness into his own self;–from the further end (he draws) hitherwards: he thus lays calmness into his own self from the further end hitherwards. The right wing, with (Vāj. S. XVII, 8), ‘O bright Agni, with thy light, (with thy dainty tongue, O god, bring hither the gods, and worship them)!’ The tail, with (Vāj. S. XVII, 9), ‘O bright and shining Agni, (bring hither the gods to our sacrifice and our offering)!’ The left wing, with (Vāj. S. XVII, 10), ‘He who with bright and glittering light (shineth upon the earth, as the dawns with their glow, who, the ever young, speeding, as in the race, in the battle, of the steed, thirsteth not in the heat).’ ‘Bright,’ he says each time, for whatever is kindly and propitious is bright: he thus propitiates him thereby.

३१

विश्वास-प्रस्तुतिः

(त्स) सप्त᳘भिर्व्वि᳘कर्षति॥
सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्वि᳘कर्षति तं᳘ वᳫँ᳭श᳘मुत्करे न्यस्य[[!!]]॥

मूलम् - श्रीधरादि

(त्स) सप्त᳘भिर्व्वि᳘कर्षति॥
सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्वि᳘कर्षति तं᳘ वᳫँ᳭श᳘मुत्करे न्यस्य[[!!]]॥

मूलम् - Weber

सप्त᳘भिर्वि᳘कर्षति॥
सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद्वि᳘कर्षति तं᳘ वंश᳘मुत्करेन्य᳘स्य॥

मूलम् - विस्वरम्

सप्तभिर्विकर्षति । सप्तचितिको ऽग्निः । सप्तर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्विकर्षति । तं वंशमुत्करे न्यस्य ॥ ३१ ॥

सायणः

विकर्षणे विनियुक्तानां मन्त्राणां सप्तसंख्यां प्रशंसति- सप्तचितिको ऽग्निरिति । पञ्च चितयो नित्याः इतरे द्वे चिती नैमित्तिके इति सप्त चितयः । अधिमासापेक्षया ‘सप्तर्तवः’ । यस्मिन् वंशे मण्डूकादीनि बद्धानि ‘तं वंशम्’ ‘उत्करे’ प्रक्षिपेदित्याह- तं वंशमिति 18 ॥ ३१ ॥

Eggeling
  1. With seven (formulas) he draws them across,–the altar consists of seven layers, and seven seasons are a year, and Agni is the year: as great as Agni is, as great as is his measure, with so much he thus crosses him. Having thrown the cane on the heap of rubbish;–

३२

विश्वास-प्रस्तुतिः

(स्या᳘) अ᳘थैनᳫँ᳭ सा᳘मभिः प᳘रिगायति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतस्त᳘स्मिन्देवा᳘ ऽएत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तम᳘मदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति सा᳘मानि भवन्ति प्राणा वै सा᳘मान्यमृ᳘तमु वै᳘ प्राणा᳘ ऽअमृ᳘तमे᳘वास्मिन्नेत᳘द्रूप᳘मुत्तमं᳘ दधाति सर्व्व᳘तः प᳘रिगायति सर्व्व᳘त ऽए᳘वास्मिन्नेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति॥

मूलम् - श्रीधरादि

(स्या᳘) अ᳘थैनᳫँ᳭ सा᳘मभिः प᳘रिगायति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतस्त᳘स्मिन्देवा᳘ ऽएत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तम᳘मदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति सा᳘मानि भवन्ति प्राणा वै सा᳘मान्यमृ᳘तमु वै᳘ प्राणा᳘ ऽअमृ᳘तमे᳘वास्मिन्नेत᳘द्रूप᳘मुत्तमं᳘ दधाति सर्व्व᳘तः प᳘रिगायति सर्व्व᳘त ऽए᳘वास्मिन्नेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति॥

मूलम् - Weber

अ᳘थैनᳫं सा᳘मभिः प᳘रिगायति॥
अ᳘त्रैष स᳘र्वो ऽग्निः स᳘ᳫं᳘स्कृतस्त᳘स्मिन्देवा᳘ एत᳘दमृ᳘तं रूप᳘मुत्तम᳘मदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘दमृ᳘तं रूप᳘मुत्तमं᳘ दधाति सा᳘मानि भवन्ति प्राणा वै सा᳘मान्यमृ᳘तमु वै᳘ प्राणा᳘ अमृ᳘तमेॗवास्मिन्नेत᳘द्रूप᳘मुत्तमं᳘ दधाति सर्व᳘तः प᳘रिगायति सर्व᳘त एॗवास्मिन्नेत᳘दमृ᳘तं रूप᳘मुत्तमं᳘ दधाति॥

मूलम् - विस्वरम्

अथैनं सामभिः परिगायति । अत्रैष सर्वो ऽग्निः संस्कृतः । तस्मिन्देवा एतदमृतं रूपमुत्तममदधुः । तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति । सामानि भवन्ति । प्राणा वै सामानि । अमृतमु वै प्राणाः। अमृतमेवास्मिन्नेतद्रूपमुत्तमं दधाति । सर्वतः परिगायति । सर्वत एवास्मिन्नेतदमृतं रूपमुत्तमं दधाति ॥ ३२ ॥

सायणः

अथैनमग्निं परितः सामभिर्गायेदित्याह- अथेति 19 । विहितं सामगानममृतरूपतया प्रशंसति- अत्रैष इति । कथमेतत्साम्नाममृतरूपत्वमिति तत्राह- यद्वेवेत्यादिना ॥ ३२-३४ ॥

Eggeling
  1. [The Adhvaryu] then sings hymns round it (the altar);–for therein that whole Agni is completed; and the gods laid into him that highest form, immortality; and in like manner does this (Sacrificer) thereby lay into him that highest form, immortality. Sāman-hymns are (used), for sāmans are vital airs,

and the vital airs are immortality: immortality, that highest form, he thus lays into him. On every side he sings around it: everywhere he thus lays immortality, that highest form, into him.

३३

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैनᳫँ᳭ सा᳘मभिः परिगा᳘यति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअकामयन्तान᳘स्थिकमिम᳘ममृ᳘तमात्मा᳘नं कुर्व्वीमही᳘ति᳘ ते ऽब्रुवन्नु᳘प त᳘ज्जानीत य᳘थेम᳘मात्मा᳘नमन᳘स्थिकममृ᳘तं कर᳘वामहा ऽइ᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘थेम᳘मात्मा᳘नमन᳘स्थिकममृ᳘तं कर᳘वामहा ऽइ᳘ति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैनᳫँ᳭ सा᳘मभिः परिगा᳘यति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअकामयन्तान᳘स्थिकमिम᳘ममृ᳘तमात्मा᳘नं कुर्व्वीमही᳘ति᳘ ते ऽब्रुवन्नु᳘प त᳘ज्जानीत य᳘थेम᳘मात्मा᳘नमन᳘स्थिकममृ᳘तं कर᳘वामहा ऽइ᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘थेम᳘मात्मा᳘नमन᳘स्थिकममृ᳘तं कर᳘वामहा ऽइ᳘ति॥

मूलम् - Weber

य᳘द्वेॗवैनᳫं सा᳘मभिः परिगा᳘यति॥
एतद्वै᳘ देवा᳘ अकामयन्तान᳘स्थिकमिम᳘ममृ᳘तमात्मा᳘नं कुर्वीमही᳘तिॗ ते ऽब्रुवन्नु᳘प त᳘ज्जानीत य᳘थेम᳘मात्मा᳘नमन᳘स्थिकममृ᳘तं कर᳘वामहा इ᳘तिॗ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्त᳘दिछत य᳘थेम᳘मात्मा᳘नमन᳘स्थिकममृ᳘तं कर᳘वामहा इ᳘ति॥

मूलम् - विस्वरम्

यद्वेवैनं सामभिः परिगायति । एतद्वै देवा अकामयन्त- अनस्थिकमिमममृतमात्मानं कुर्वीमहीति । ते ऽब्रुवन्- उप तज्जानीत- यथेममात्मानमनस्थिकममृतं करवामहा इति । ते ऽब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । तदिच्छत- यथेममात्मानमनस्थिकममृतं करवामहा इति ॥ ३३ ॥

सायणः

[व्याख्यानं द्वात्रिंशत्तमे]

Eggeling
  1. And, again, as to why he sings sāman-hymns round about it;–the gods then desired, ‘Let us make this body of ours boneless and immortal.’ They spake, ‘Think ye upon this, how we may make this body of ours boneless and immortal!’ They spake, ‘Meditate (cit) ye!’ whereby indeed they meant to say, ‘Seek ye a layer (citi)! seek ye how we may make this body of ours boneless and immortal!

३४

विश्वास-प्रस्तुतिः

ते᳘ चेत᳘यमानाः॥
(ऽ) एता᳘नि सा᳘मान्यपश्यंस्तै᳘रेनं प᳘र्यगायंस्तै᳘रेत᳘मात्मा᳘नमन᳘स्थिकममृ᳘तमकुर्व्वत त᳘थै᳘वैतद्य᳘जमानो य᳘देनᳫँ᳭ सा᳘मभिः परिगा᳘यत्येत᳘मे᳘वैत᳘दात्मा᳘नमन᳘स्थिकममृ᳘तं कुरुते सर्व्व᳘तः प᳘रिगायति सर्व्व᳘त ऽए᳘वैत᳘देत᳘मात्मा᳘नमन᳘स्थिकममृ᳘तं कुरुते ति᳘ष्ठन्गायति ति᳘ष्ठन्तीव वा᳘ ऽइमे᳘ लोका ऽअ᳘थो ति᳘ष्ठन्वै᳘ व्वी᳘र्यवत्तरो[[!!]] हि᳘ङ्कृ᳘त्य गायति त᳘त्र हि स᳘र्व्वं कृत्स्नᳫँ᳭ सा᳘म भ᳘वति॥

मूलम् - श्रीधरादि

ते᳘ चेत᳘यमानाः॥
(ऽ) एता᳘नि सा᳘मान्यपश्यंस्तै᳘रेनं प᳘र्यगायंस्तै᳘रेत᳘मात्मा᳘नमन᳘स्थिकममृ᳘तमकुर्व्वत त᳘थै᳘वैतद्य᳘जमानो य᳘देनᳫँ᳭ सा᳘मभिः परिगा᳘यत्येत᳘मे᳘वैत᳘दात्मा᳘नमन᳘स्थिकममृ᳘तं कुरुते सर्व्व᳘तः प᳘रिगायति सर्व्व᳘त ऽए᳘वैत᳘देत᳘मात्मा᳘नमन᳘स्थिकममृ᳘तं कुरुते ति᳘ष्ठन्गायति ति᳘ष्ठन्तीव वा᳘ ऽइमे᳘ लोका ऽअ᳘थो ति᳘ष्ठन्वै᳘ व्वी᳘र्यवत्तरो[[!!]] हि᳘ङ्कृ᳘त्य गायति त᳘त्र हि स᳘र्व्वं कृत्स्नᳫँ᳭ सा᳘म भ᳘वति॥

मूलम् - Weber

ते᳘ चेत᳘यमानाः॥
एता᳘नि सा᳘मान्यपश्यंस्तै᳘रेनम् प᳘र्यगायंस्तै᳘रेत᳘मात्मा᳘नमन᳘स्थिकममृ᳘तमकुर्वत त᳘थैॗवैतद्य᳘जमानो य᳘देनᳫं सा᳘मभिः परिगा᳘यत्येत᳘मेॗवैत᳘दात्मा᳘नमन᳘स्थिकममृ᳘तं कुरुते सर्व᳘तः प᳘रिगायति सर्व᳘त एॗवैतदेत᳘मात्मा᳘नमन᳘स्थिकममृ᳘तं कुरुते ति᳘ष्ठन्गायति ति᳘ष्ठन्तीव वा᳘ इमे᳘ लोका अ᳘थो ति᳘ष्ठन्वै वीर्य᳘वत्तरो हिङ्कृ᳘त्य गायति त᳘त्र हि स᳘र्वं कृत्स्नᳫं सा᳘म भ᳘वति॥

मूलम् - विस्वरम्

ते चेतयमाना एतानि सामान्यपश्यन् । तैरेनं पर्यगायन् । तैरेतमात्मानमनस्थिकममृतमकुर्वत । तथैवैतद्यजमानो यदेनं सामभिः परिगायति- एतमेवैतदात्मानमनस्थिकममृतं कुरुते । सर्वतः परिगायति । सर्वत एवैतदेतमात्मानमनस्थिकममृतं कुरुते । तिष्ठन् गायति । तिष्ठन्तीव वा इमे लोकाः । अथो तिष्ठन्वै वीर्यवत्तरः । हिङ्कृत्य गायति । तत्र हि सर्वं कृत्स्नं साम भवति ॥ ३४ ॥

सायणः

[व्याख्यानं द्वात्रिंशत्तमे]

Eggeling
  1. Whilst meditating, they saw those sāman-hymns, and sang them round about it, and by means of them they made that body of theirs boneless and immortal; and in like manner does the Sacrificer, when he sings the sāman-hymns round about it, make that body of his boneless and immortal. On every side he sings: everywhere he thus makes that body of his boneless and immortal. Standing he sings, for these worlds stand, as it were; and whilst standing one doubtless is stronger. He sings, after uttering (the syllable) ‘hiṁ,’ for therein the sāman-hymn becomes whole and complete.

३५

विश्वास-प्रस्तुतिः

गायत्रं᳘ पुर᳘स्ताद्गायति॥
(त्य) अग्निर्व्वै᳘ गायत्र᳘मग्नि᳘मे᳘वास्यैतच्छि᳘रः करोत्य᳘थो शि᳘र ऽए᳘वास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - श्रीधरादि

गायत्रं᳘ पुर᳘स्ताद्गायति॥
(त्य) अग्निर्व्वै᳘ गायत्र᳘मग्नि᳘मे᳘वास्यैतच्छि᳘रः करोत्य᳘थो शि᳘र ऽए᳘वास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - Weber

गायत्र᳘म् पुर᳘स्ताद्गायति॥
अग्निर्वै᳘ गायत्र᳘मग्नि᳘मेॗवास्यैतछि᳘रः करोत्य᳘थो शि᳘र एॗवास्यैत᳘दन᳘स्थिकममृतं करोति॥

मूलम् - विस्वरम्

गायत्रं पुरस्ताद्गायति । अग्निर्वै गायत्रम् । अग्निमेवास्यैतच्छिरः करोति । अथो शिर एवास्यैतदनस्थिकममृतं करोति ॥ ३५ ॥

सायणः

गायत्रं पुरस्ताद्गायतीति 20 । गायत्रस्य शिरः- प्रदेशत्वात् । किं चास्य शिर एवोक्तसामगानेनानस्थिकममृतं करोति ॥ ३५ ॥

Eggeling
  1. He first sings the Gāyatra hymn 21, for the Gāyatrī metre is Agni: he thus makes Agni his

head, and that head of his (or of him, Agni) he thus makes boneless and immortal.

३६

विश्वास-प्रस्तुतिः

रथन्तरं द᳘क्षिणे पक्षे᳘॥
(क्ष᳘ ऽ) इयं वै᳘ रथन्तर᳘मिय᳘मु वा᳘ ऽएषां᳘ लोका᳘नाᳫँ᳭ र᳘सतमो ऽस्या᳘ᳫँ᳘ हीमे स᳘र्व्वे र᳘सा रसंतम᳘ᳫँ᳘ ह वै त᳘द्रथन्तरमित्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवा᳘ ऽइमा᳘मे᳘वास्यैतद्द᳘क्षिणं पक्षं᳘ करोत्य᳘थो द᳘क्षिणमे᳘वास्यैत᳘त्पक्ष᳘मन᳘स्थिकममृ᳘तं करोति॥

मूलम् - श्रीधरादि

रथन्तरं द᳘क्षिणे पक्षे᳘॥
(क्ष᳘ ऽ) इयं वै᳘ रथन्तर᳘मिय᳘मु वा᳘ ऽएषां᳘ लोका᳘नाᳫँ᳭ र᳘सतमो ऽस्या᳘ᳫँ᳘ हीमे स᳘र्व्वे र᳘सा रसंतम᳘ᳫँ᳘ ह वै त᳘द्रथन्तरमित्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवा᳘ ऽइमा᳘मे᳘वास्यैतद्द᳘क्षिणं पक्षं᳘ करोत्य᳘थो द᳘क्षिणमे᳘वास्यैत᳘त्पक्ष᳘मन᳘स्थिकममृ᳘तं करोति॥

मूलम् - Weber

रथन्तरं द᳘क्षिणे पक्षे᳟॥
इयं वै᳘ रथन्तर᳘मिय᳘मु वा᳘ एषां᳘ लोका᳘नां र᳘सतमो ऽस्याॗᳫंॗ हीमे स᳘र्वे र᳘सा रसंतम᳘ᳫं᳘ ह वै त᳘द्रथन्तरमित्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवा᳘ इमा᳘मेॗवास्यैतद्द᳘क्षिणम् पक्षं᳘ करोत्य᳘थो द᳘क्षिणमेॗवास्यैत᳘त्पक्ष᳘मन᳘स्थिकममृ᳘तं करोति॥

मूलम् - विस्वरम्

रथन्तरं दक्षिणे पक्षे । इयं वै रथन्तरम् । इयमु वा एषां लोकानां रसतमः । अस्यां हीमे सर्वे रसाः; रसन्तमं ह वै तद्रथन्तरमित्याचक्षते परो ऽक्षम् । परो ऽक्षकामा हि देवाः । इमामेवास्यैतद्दक्षिणं । पक्षं करोति । अथो दक्षिणमेवास्यैतत्पक्षमनस्थिकममृतं करोति ॥ ३६ ॥

सायणः

“अभि त्वा शूर नोनुमः” (वा. सं. २७ । ३५) इत्येतस्यामृच्युत्पन्नं साम ‘रथन्तरम्’ । तद्दक्षिणपक्षे 20 । अतिशयरसाधारत्वेनेयं ‘रसतमः’ । रसतम एव रसंतमः । तं च परो ऽक्षकामत्वाद्देवा रथन्तरमित्यभिदधत इत्यर्थः । एवं चास्य पृथिवीमेव दक्षिणपक्षं कृतवान् भवति ॥ ३६ ॥

Eggeling
  1. The Rathantara 22 (hymn he sings) at the right wing; for the Rathantara is this (earth), and this (earth), doubtless, is the most essential (rasatama) of these worlds, for it is in her that all these essences (rasa) are contained, and ‘rasantama,’ indeed, they call mystically, ‘rathantara,’ for the gods love the mystic: he thus makes this (earth) his right wing, and that right wing of his he thus makes boneless and immortal.

३७

विश्वास-प्रस्तुतिः

बृहदु᳘त्तरे पक्षे[[!!]]॥
द्यौर्व्वै᳘ बृहद्द्यौर्हि ब᳘र्हिष्ठा दि᳘वमे᳘वास्यैतदु᳘त्तरं पक्षं᳘ करोत्य᳘थो ऽउ᳘त्तरमे᳘वास्यैत᳘त्पक्ष᳘मन᳘स्थिकममृ᳘तं करोति॥

मूलम् - श्रीधरादि

बृहदु᳘त्तरे पक्षे[[!!]]॥
द्यौर्व्वै᳘ बृहद्द्यौर्हि ब᳘र्हिष्ठा दि᳘वमे᳘वास्यैतदु᳘त्तरं पक्षं᳘ करोत्य᳘थो ऽउ᳘त्तरमे᳘वास्यैत᳘त्पक्ष᳘मन᳘स्थिकममृ᳘तं करोति॥

मूलम् - Weber

बृहदु᳘त्तरे पक्षे᳟॥
द्यौर्वै᳘ बृहद्द्यौर्हि ब᳘र्हिष्ठा दि᳘वमेॗवास्यैतदु᳘त्तरम् पक्षं᳘ करोत्य᳘थो उ᳘त्तरमेॗवास्यैत᳘त्पक्ष᳘मन᳘स्थिकममृ᳘तं करोति॥

मूलम् - विस्वरम्

बृहदुत्तरे पक्षे । द्यौर्वै बृहत् । द्यौर्हि बर्हिष्ठा । दिवमेवास्यैतदुत्तरं पक्षं करोति । अथो उत्तरमेवास्यैतत्पक्षमनस्थिकममृतं करोति ॥ ३७ ॥

सायणः

बृहदुत्तरे पक्ष इति 20 । “त्वामिद्धि हवामहे”- (वा. सं. २७ । ३७) इत्येतस्यामृच्युत्पन्नं साम ‘बृहत्’ । ‘बर्हिष्ठा’ अतिशयेन बृहती । बृहच्छब्दादतिशयार्थे इष्ठनि टिलोपे च रूपम् ॥ ३७ ॥

Eggeling
  1. The Br̥hat 22 (hymn he sings) at the left wing; the Br̥hat (great), doubtless, is the sky, for the sky is the greatest (of worlds): he thus makes the sky his (Agni’s) left wing, and that left wing of his he thus makes boneless and immortal.

३८

विश्वास-प्रस्तुतिः

व्वामदेव्य᳘मात्म᳘न्॥
(न्प्रा) प्राणो वै᳘ व्वामदेव्यं᳘ व्वायु᳘रु प्राणः स᳘र्व्वेषामु हैष᳘ देवा᳘नामात्मा य᳘द्वायु᳘र्व्वायु᳘मे᳘वास्यैत᳘दात्मा᳘नं करोत्य᳘थो ऽआत्मा᳘नमे᳘वास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - श्रीधरादि

व्वामदेव्य᳘मात्म᳘न्॥
(न्प्रा) प्राणो वै᳘ व्वामदेव्यं᳘ व्वायु᳘रु प्राणः स᳘र्व्वेषामु हैष᳘ देवा᳘नामात्मा य᳘द्वायु᳘र्व्वायु᳘मे᳘वास्यैत᳘दात्मा᳘नं करोत्य᳘थो ऽआत्मा᳘नमे᳘वास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - Weber

वामदेव्य᳘मात्म᳘न्॥
प्राणो वै᳘ वामदेव्यं᳘ वायु᳘रु प्राणः स᳘र्वेषामु हैष᳘ देवा᳘नामात्मा य᳘द्वायु᳘र्वायु᳘मेॗवास्यैत᳘दात्मा᳘नं करोत्य᳘थो आत्मा᳘नमेॗवास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - विस्वरम्

वामदेव्यमात्मन् । प्राणो वै वामदेव्यम् । वायुरु प्राणः । सर्वेषामु हैष देवानामात्मा- यद्वायुः । वायुमेवास्यैतदात्मानं करोति । अथो आत्मानमेवास्यैतदनस्थिकममृतं करोति ॥ ३८ ॥

सायणः

“कया नश्चित्र आभुवद्”- (वा. सं. २७ । ३९) इत्येतस्यामृच्युत्पन्नं साम वामदेव्यम्, तदात्मभागे गायेदित्याह- वामदेव्यमिति 23 । आत्मभागे वामदेव्यस्य गानेन वायुमेवात्मानं करोतीत्याह- प्राणो वा इति । सर्वेषामु हैष देवानामात्मा यद्वायुरिति । तदभावे तेषां व्यवहाराभावादित्यर्थः ॥ ३८ ॥

Eggeling
  1. The Vāmadevya 22 (hymn he sings) on the body (of the altar); for the Vāmadevya is the breath, and the breath is air (vāyu, the wind), and he, Vāyu, doubtless, is the self (body) of all the gods: he thus makes the air (wind) his body, and that body of his he thus makes boneless and immortal.

३९

विश्वास-प्रस्तुतिः

यज्ञायज्ञि᳘यं पु᳘च्छम्॥
(ञ्च) चन्द्र᳘मा वै᳘ यज्ञायज्ञि᳘यं यो हि क᳘श्च यज्ञः᳘ संति᳘ष्ठत ऽएत᳘मेव तस्या᳘हुतीनाᳫँ᳭ रसो᳘ ऽप्येति तद्य᳘देतं᳘ यज्ञो᳘ यज्ञो ऽप्ये᳘ति त᳘स्माच्चन्द्र᳘मा यज्ञायज्ञि᳘यं चन्द्र᳘मसमे᳘वास्यैतत्पु᳘च्छं करोत्य᳘थो पु᳘च्छमे᳘वास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - श्रीधरादि

यज्ञायज्ञि᳘यं पु᳘च्छम्॥
(ञ्च) चन्द्र᳘मा वै᳘ यज्ञायज्ञि᳘यं यो हि क᳘श्च यज्ञः᳘ संति᳘ष्ठत ऽएत᳘मेव तस्या᳘हुतीनाᳫँ᳭ रसो᳘ ऽप्येति तद्य᳘देतं᳘ यज्ञो᳘ यज्ञो ऽप्ये᳘ति त᳘स्माच्चन्द्र᳘मा यज्ञायज्ञि᳘यं चन्द्र᳘मसमे᳘वास्यैतत्पु᳘च्छं करोत्य᳘थो पु᳘च्छमे᳘वास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - Weber

यज्ञायज्ञि᳘यम् पु᳘छम्॥
चन्द्र᳘मा वै᳘ यज्ञायज्ञि᳘यं यो हि क᳘श्च यज्ञः᳘ संति᳘ष्ठत एत᳘मेव तस्या᳘हुतीनां रसो᳘ ऽप्येति तद्य᳘देतं᳘ यज्ञो᳘-यज्ञो ऽप्ये᳘ति त᳘स्माच्चन्द्र᳘मा यज्ञायज्ञि᳘यं चन्द्र᳘मसमेॗवास्यैतत्पु᳘छं करोत्य᳘थो पु᳘छमेवास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - विस्वरम्

यज्ञायज्ञियं पुच्छम् । चन्द्रमा वै यज्ञायज्ञियम् । यो हि कश्च यज्ञः सन्तिष्ठते- एतमेव तस्याहुतीनां रसो ऽप्येति । तद् यदेतं यज्ञो- यज्ञो ऽप्येति-तस्माच्चन्द्रमा यज्ञायज्ञियम् । चन्द्रमसमेवास्यैतत्पुच्छं करोति । अथो पुच्छमेवास्यैतदनस्थिकममृतं करोति ॥ ३९ ॥

सायणः

अथ पुच्छे यज्ञायज्ञियं साम गायेदित्याह- यज्ञायज्ञियमिति 23 । “यज्ञायज्ञा वो अग्नयः”- (वा. सं. २७ । ४२) इत्येतस्यामृच्युत्पन्नं साम यहायज्ञीयम्, यज्ञायज्ञशब्दो ऽस्मिन्नस्तीति “मतौ छः सूक्तसाम्नोः”- (पा. सू. ५ । २ । ५९) इति सामार्थे छप्रत्ययः, (पा. सू. ७ । १ । २) छस्य- ईयादेशः । अत्र ‘यज्ञायज्ञियम्’ इति ह्रस्वत्वं छान्दसम् । यज्ञायज्ञियस्य चन्द्रात्मतां प्रतिजानीते- चन्द्रमा वै यज्ञायज्ञियमिति । तदेवोपपादयति- यो हि कश्चेति । यज्ञः ‘संतिष्ठते’ सम्पूर्णतामेति । ‘तस्याहुतीनां रसः’ ‘एतं’ चन्द्रमसम् ‘एति’ । अतस्ता देवतास्तमुपजीवन्ति । अतो यज्ञाहुतिरसस्य चन्द्रं प्रति प्राप्तिद्वारा यज्ञायज्ञः कृत्स्न एव यज्ञः ‘एतमप्येति’ । ‘तस्माद्’ यज्ञोयज्ञ एतमेतीति ‘चन्द्रमा’ यज्ञायज्ञियमित्यर्थः । अस्तु यज्ञायज्ञियस्य चन्द्रात्मकत्वं ततः किं प्रकृते समायातमिति तत्राह- चन्द्रमसमेवेति ॥ ३९ ॥

Eggeling
  1. The Yajñāyajñiya 22 (hymn he sings) near the tail;–the Yajñāyajñiya, doubtless, is the moon; for whenever a sacrifice becomes completed 24, the essence of its oblations goes up to him (the moon);

and inasmuch as sacrifice after sacrifice (yajña) goes up to him, the moon is the Yajñāyajñiya: he thus makes the moon his (Agni’s) tail, and that tail of his he thus makes boneless and immortal.

४०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प्रजा᳘पतेर्हृ᳘दयं गायति॥
(त्य) असौ वा᳘ ऽआदित्यो हृदयᳫँ᳭ श्लक्ष्ण᳘ ऽएष᳘ श्लक्ष्णᳫँ᳭ हृ᳘दयं परिमण्डल᳘ ऽएष᳘ परिमण्डलᳫँ᳭ हृ᳘दयमात्म᳘न्गायत्यात्मन्हि हृ᳘दयं निकक्षे᳘ निकक्षे हि हृ᳘दयं द᳘क्षिणे निकक्षे᳘ ऽतो हि हृ᳘दयं ने᳘दीय ऽआदित्य᳘मे᳘वास्यैतद्धृ᳘दयं करोत्य᳘थो हृ᳘दयमे᳘वास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प्रजा᳘पतेर्हृ᳘दयं गायति॥
(त्य) असौ वा᳘ ऽआदित्यो हृदयᳫँ᳭ श्लक्ष्ण᳘ ऽएष᳘ श्लक्ष्णᳫँ᳭ हृ᳘दयं परिमण्डल᳘ ऽएष᳘ परिमण्डलᳫँ᳭ हृ᳘दयमात्म᳘न्गायत्यात्मन्हि हृ᳘दयं निकक्षे᳘ निकक्षे हि हृ᳘दयं द᳘क्षिणे निकक्षे᳘ ऽतो हि हृ᳘दयं ने᳘दीय ऽआदित्य᳘मे᳘वास्यैतद्धृ᳘दयं करोत्य᳘थो हृ᳘दयमे᳘वास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - Weber

अ᳘थ प्रजा᳘पतेर्हृ᳘दयं गायति॥
असौ वा᳘ आदित्यो हृ᳘दयं श्लक्ष्ण᳘ एष᳘ श्लक्ष्णᳫं हृ᳘दयम् परिमण्डल᳘ एष᳘ परिमण्डलᳫं हृ᳘दयमात्म᳘न्गायत्यात्मन्हि हृ᳘दयं निकक्षे᳘ निकक्षे हि हृ᳘दयं द᳘क्षिणे निकक्षे᳘ ऽतो हि हृ᳘दयं ने᳘दीय आदित्य᳘मेॗवास्यैतद्धृ᳘दयं करोत्य᳘थो हृ᳘दयमेॗवास्यैत᳘दन᳘स्थिकममृ᳘तं करोति॥

मूलम् - विस्वरम्

अथ प्रजापतेर्हृदयं गायति । असौ वा आदित्यो हृदयम् । श्लक्ष्ण एषः । श्लक्ष्णं हृदयम् । परिमण्डल एषः । परिमण्डलं हृदयम् । आत्मन् गायति । आत्मन् हि हृदयम् । निकक्षे । निकक्षे हि हृदयम् । दक्षिणे निकक्षे । अतो हि हृदयं नेदीयः । आदित्यमेवास्यैतद्धृदयं करोति । अथ हृदयमेवास्यैतदनस्थिकममृतं करोति ॥ ४० ॥

सायणः

‘अथ प्रजापतेर्हृदयम्’ इति किंचित्साम, तदप्यत्र गायेदित्याह- अथेति 23 । तत्साम आदित्यात्मना स्तौति- असौ वा इति । आदित्यस्य हृदयसादृश्यप्रदर्शनेनोक्तं प्रजापतेर्हृदयत्वमुपपादयति- श्लक्ष्ण एष इति । गायत्र्यादीनां गानस्य स्थानविशेष उक्तः, अथैतद्गानं कस्मिन्स्थाने कर्त्तव्यमिति तत्राह- आत्मन्निति । आत्मभागे ऽपि यत्र क्वचित् क्रियेतेति तत्राह- निकक्ष इति । निकक्षावपि द्वौ विद्येते इति तत्रान्यतरस्मिन् क्रियेत इत्यत आह- दक्षिणे निकक्ष इति । ‘अतः’ अस्मान्निकक्षाद् ‘हृदयं नेदीयः’ अत्यन्तं सन्निहितम् । नेदीय इत्यस्यान्तिकार्थत्वात्तद्योगे “दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्”- (पा. सू. २ । ३ । ३४) इति पक्षे प्रकरणात्पञ्चम्या विधानात् ‘अतः’ इति पञ्चमी । इत्थं प्रजापतेर्हृदयस्यादित्यात्मकत्वात्तस्य गानेनादित्यमेवाग्नेरात्मभागं करोतीत्याह- आदित्यमेवेति ॥ ४० ॥

Eggeling
  1. He then sings the heart of Prajāpati 25;–the heart assuredly is yonder sun, for he (the sun) is smooth, and the heart is smooth; he is round, and the heart is round. On the body (of the altar) he sings, for the heart is in the body;–at the armpit 26, for the heart is in (the vicinity of) the armpit;–

at the right armpit, for the heart is nearer thereto 27: he thus makes the sun his (Agni’s) heart, and that heart of his he thus makes boneless and immortal.

४१

विश्वास-प्रस्तुतिः

प्रजा᳘सु च प्रजा᳘पतौ च गायति॥
तद्य᳘त्प्रजा᳘सु गा᳘यति त᳘त्प्रजा᳘सु हृ᳘दयं दधात्य᳘थ य᳘त्प्रजा᳘पतौ गा᳘यति त᳘दग्नौ हृ᳘दयं दधाति॥

मूलम् - श्रीधरादि

प्रजा᳘सु च प्रजा᳘पतौ च गायति॥
तद्य᳘त्प्रजा᳘सु गा᳘यति त᳘त्प्रजा᳘सु हृ᳘दयं दधात्य᳘थ य᳘त्प्रजा᳘पतौ गा᳘यति त᳘दग्नौ हृ᳘दयं दधाति॥

मूलम् - Weber

प्रजा᳘सु च प्रजा᳘पतौ च गायति॥
तद्य᳘त्प्रजा᳘सु गा᳘यति त᳘त्प्रजा᳘सु हृ᳘दयं दधात्य᳘थ य᳘त्प्रजा᳘पतौ गा᳘यति त᳘दग्नौ हृ᳘दयं दधाति॥

मूलम् - विस्वरम्

प्रजासु च प्रजापतौ च गायति । तद्यत्प्रजासु गायति- तत्प्रजासु हृदयं दधाति । अथ यत्प्रजापतौ गायति- तदग्नौ हृदयं दधाति ॥ ४१ ॥

सायणः

प्रजापतेर्हृदयं गायत्र्यादिसामवत् कस्यांचिदृचि न गीयते, अपि तु केवलं प्रजापतिशब्देन गीयते । अत एव आपस्तम्बेन सूत्रितम्- “प्रजापतेः साम्नस्तृचं गायति” इति । अतस्तस्य साम्नस्तयोः शब्दयोर्गानं प्रशंसति- प्रजासु च प्रजापतौ चेति । नन्वत्र ‘प्रजासु प्रजापतौ’ इत्यभिधेयनिर्देशः क्रियते । नहि तत्र गानं सम्भवति, अशक्यत्वात् । न चायं शब्दनिर्देशः ‘प्रजासु’ इति बहुवचनवैयर्थ्यात् । अतः कथमस्य वचनस्योपपत्तिरिति ? नैतदस्ति, वाच्यवाचकयोरभेदविवक्षया वाचकशब्दे क्रियमाणं गानं वाच्ये क्रियत इत्युपचर्यते । ‘तद्यत्प्रजासु गायति’ । ‘तत्प्रजासु हृदयं दधाति’ । ‘अथ यत्प्रजापतौ गायति, तदग्नौ हृदयं दधाति’ इत्यभिधेयफलसम्बन्धप्रदर्शनात्तदनुरोधेन अभिधेय एव गायतीति- उपचारोक्तेरभिप्रायः ॥ ४१ ॥

Eggeling
  1. He sings about offspring (prajā) and Prajāpati (the lord of creatures and procreation);–when he sings about offspring, he lays the heart into offspring; and when he sings about Prajāpati, he lays the heart into Agni.

४२

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ प्रजा᳘सु च प्रजा᳘पतौ च गा᳘यति॥
(त्य) अयं वा᳘ ऽअग्निः᳘ प्रजा᳘श्च प्रजा᳘पतिश्च तद्य᳘दग्नौ गा᳘यति त᳘देव᳘ प्रजा᳘सु च प्रजा᳘पतौ च हृ᳘दयं दधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ प्रजा᳘सु च प्रजा᳘पतौ च गा᳘यति॥
(त्य) अयं वा᳘ ऽअग्निः᳘ प्रजा᳘श्च प्रजा᳘पतिश्च तद्य᳘दग्नौ गा᳘यति त᳘देव᳘ प्रजा᳘सु च प्रजा᳘पतौ च हृ᳘दयं दधाति॥

मूलम् - Weber

य᳘द्वेव᳘ प्रजा᳘सु च प्रजा᳘पतौ च गा᳘यति॥
अयं वा अग्निः᳘ प्रजा᳘श्च प्रजा᳘पतिश्च तद्य᳘दग्नौ गा᳘यति त᳘देव᳘ प्रजा᳘सु च प्रजा᳘पतौ च हृ᳘दयं दधाति॥

मूलम् - विस्वरम्

यद्वेव प्रजासु च प्रजापतौ च गायति । अयं वा अग्निः प्रजाश्च प्रजापतिश्च । तद्यदग्नौ गायति- तदेव प्रजासु च प्रजापतौ च हृदयं दधाति ॥ ४२ ॥

सायणः

पूर्वं प्रजा-प्रजापतिशब्दयोर्गानेन प्रजासु- अग्नौ च हृदयं निधीयत इत्युक्तम् । अथाग्नेस्तदुभयात्मकत्वात्तत्रैव गानेन उभयत्रापि हृदयं निधीयत इत्याह- यद्वेवेति । प्रजाशब्देन प्रजापतिशब्देन च तस्य गानमग्नौ क्रियते । अतश्च पूर्वं तच्छब्दद्वयाभिधेयप्राधान्येनाग्नेरुपसर्जनत्वमुक्तम् । अत्र तु, अग्निप्राधान्येन तच्छब्दद्वयाभिधेयस्योपसर्जनत्वमुच्यत इति विभागः । अयं वा अग्निः प्रजाश्च प्रजापतिश्चेति । “स यः स प्रजापतिर्व्यस्रंसतायमेव स यो ऽयमग्निश्चीयते” (श. प. ८ । २ । २ । ६) इति श्रुतेः अग्निस्तावत् प्रजापतिः, प्रजापतेश्च सर्वप्रजानिर्मातृत्वेन तदात्मकत्वात्तद्द्वारा ऽग्निरपि प्रजात्मक इत्यर्थः ॥ ४२ ॥

Eggeling
  1. And, again, as to why he sings about offspring and Prajāpati;–this Agni, doubtless, is both offspring and the lord of offspring, and hence, when he sings about Agni, he lays the heart both into the offspring and into the lord of offspring.

४३

विश्वास-प्रस्तुतिः

ता᳘ हैता᳘ ऽअमृतेष्टकाः[[!!]]॥
(स्ता᳘) ता᳘ ऽउत्तमा उ᳘पदधात्यमृ᳘तं त᳘दस्य स᳘र्व्वस्योत्तमं᳘ दधाति त᳘स्मादस्य स᳘र्व्वस्यामृ᳘तमुत्तमं᳘ ना᳘न्यो ऽध्वर्यो᳘र्गायेदि᳘ष्टका वा᳘ ऽएता व्वि᳘चितो ह स्याद्य᳘द᳘न्यो ऽध्वर्योर्गा᳘येत्॥

मूलम् - श्रीधरादि

ता᳘ हैता᳘ ऽअमृतेष्टकाः[[!!]]॥
(स्ता᳘) ता᳘ ऽउत्तमा उ᳘पदधात्यमृ᳘तं त᳘दस्य स᳘र्व्वस्योत्तमं᳘ दधाति त᳘स्मादस्य स᳘र्व्वस्यामृ᳘तमुत्तमं᳘ ना᳘न्यो ऽध्वर्यो᳘र्गायेदि᳘ष्टका वा᳘ ऽएता व्वि᳘चितो ह स्याद्य᳘द᳘न्यो ऽध्वर्योर्गा᳘येत्॥

मूलम् - Weber

ता᳘ हैता᳘ अमृतेष्टकाः᳟॥
ता᳘उत्तमा उ᳘पदधात्यमृ᳘तं त᳘दस्य स᳘र्वस्योत्तमं᳘ दधाति त᳘स्मादस्य स᳘र्वस्यामृ᳘तमुत्तॗमं नाॗन्यो ऽध्वर्यो᳘र्गायेदि᳘ष्टका वा᳘ एता वि᳘चितो 28 ह स्याद्य᳘दॗन्यो ऽध्वर्योर्गा᳘येत्॥

मूलम् - विस्वरम्

ता हैता अमृतेष्टकाः । ता उत्तमा उपदधाति । अमृतं तदस्य सर्वस्योत्तमं दधाति । तस्मादस्य सर्वस्यामृतमुत्तमम् । नान्यो ऽध्वर्योर्गायेत् । इष्टका वा एताः । विचितो ह स्यात्- यदन्यो ऽध्वर्योर्गायेत् ॥ ४३ ॥

सायणः

अथैतानि गायत्र्यादीनि सामानीष्टकारूपेण स्तौति- ता हैता इति । “सामानि भवन्ति प्राणा वै सामान्यमृतमु वै प्राणा अमृतमेवास्मिन्नेतद्रूपमुत्तमं दधाति” इति साम्नां तावदमृतत्वमुक्तम् । एवमिष्टकानां प्रतिदिशमुपधीयमानत्वात्तदुपधानवदेतेषां प्रतिदिशं गानादिष्टकात्वोपचारः । एवं च तान्येतानि सामान्यमृतेष्टका भवन्ति । ता हैता इति स्त्रीलिङ्गं विधेयेष्टकापेक्षया । ताश्चेष्टका ‘उत्तमाः’ सर्वाभ्य इष्टकाभ्यः उपरितनीः उपदधाति । तेनास्य दृश्यमानस्य ‘सर्वस्य’ अपि ‘अमृतम्’ ‘उत्तमं’ ‘दधाति’ । ‘तस्मादस्य सर्वस्य’ प्रपञ्चस्य ‘अमृतमुत्तमं’ भवति । विहितं सामगानं समाख्यानात् उद्गातुः प्राप्नोतीति तदपवादमाह- नान्यो ऽध्वर्योरिति । इतरस्य गातृत्वे दोषमाह- इष्टका वा एता इति । एतेषां साम्नामिष्टकात्वादिष्टकानां चाध्वर्युणा उपधेयत्वात् तद्व्यतिरिक्तस्य गातृत्वे तदुपधानवैधुर्येणाध्वर्युः ‘विचितः’ विजितः पराभूतो भवेदित्यर्थः ॥ ४३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे प्रथमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (९-१-२) ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकहरिहरभूपालसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये नवमकाण्डे प्रथमो ऽध्यायः (९-१ ॥)

Eggeling
  1. These (hymns) are the immortal bricks; he lays them down last (highest) of all:–he thereby makes immortality the highest thing of all this (universe), and hence immortality is the highest thing of all this (universe). Let none other but the Adhvaryu 29 sing; for these (hymns) are bricks, and he (Agni, the fire-altar) would be built up in the wrong way 30, were any other than the Adhvaryu to sing.

  1. 169:1 Or rather, he pours water on it (the altar). ↩︎

  2. 169:2 That is, from the lower (or hindmost) point where the right wing joins the body of the altar. Re there places a stone, from which he begins the sprinkling of the altar. ↩︎

  3. अश्मस्ते क्षुदित्यद्रौ कुंभं कृत्वा मयि त ऊर्गित्यादायैवं द्विरपरम् । का. श्रौ. सू. १८ । ८ । ↩︎

  4. तावत्प्रतिपर्येति । का. श्रौ. सू. १८ । ९ । ↩︎

  5. 170:1 See IX, I, 1, 33. ↩︎

  6. बहुत्वं चिन्त्यम् ↩︎ ↩︎

  7. 171:1 The burning heat of the fire, and all physical and mental suffering. ↩︎

  8. 171:2 Viz. the stone, or the pot, according to others; cf. Katy. Śrautas. XVIII, 2, 5-8. According to Prof. Weber the stone is meant to represent the hungry greed of the fire. ↩︎

  9. अनपेक्षमेत्योदङ्प्राङ् तिष्ठन्नात्मन उपरि प्रापणांते जपतीमा म इति । का० श्रौ० सू० १८ । १५ । ↩︎

  10. 172:1 The intervening numbers here omitted increase by multiples of ten. ↩︎

  11. 173:1 ? That is to say, he need not touch the altar more than once. ↩︎

  12. 174:1 That is with the verse Vāj. S. XII, 54, beginning ‘Lokam pr̥ṇa,’ ‘Fill thou the space;’ see part iii, p. 153 note. ↩︎

  13. मंडूकावकावेतसशाखा व्वेणौ बध्वा ऽवकर्षति मंत्रकृष्टवत् समुद्रस्य त्वेति प्रत्यृचम् । का. श्रौ. सू. १८ । १६ । ↩︎

  14. 174:2 See VI, 1, 1, 1-5. ↩︎

  15. 175:1 Thus, or essence (raśa), according to Sāyaṇa; cf. X, 6, 5, 1. The word ‘ka’ has, however, also the meaning ‘joy.’ ↩︎

  16. 176:1 That is, ’the heat’ which is considered the chief property of the bilious humour. ↩︎

  17. 176:2 The procedure in this case is an exact counterpart of the ploughing of the altar-site, for which see VII, 2, 2, 8-12, with notes. Hence also the verbs expressive of the two actions are closely analogous, viz. vikr̥shati and vikarshati. ↩︎

  18. पक्षपुच्छानि चाभ्यात्ममग्ने पावक रोचिषेति । अन्त्यमुत्तरम् । का० श्रौ० सू० । १८ । १७ । १८ । ↩︎ ↩︎

  19. चित्यमालभ्य तिष्ठन् हिंकृत्य साम गायति । का० श्रौ० सू० १८ । १९ । ↩︎

  20. पुरस्तात् गायत्रम् । का. श्रौ. सू. १८ । २० । ↩︎ ↩︎ ↩︎

  21. 178:1 The Gāyatra-sāman is the hymn-tune composed on the verse called ’the Gāyatrī,’ par excelleṇce, or ‘Sāvitrī’ (tat savitur varenyam, Rig-veda III, 62, 10), which plays an important part in the religious fife of the Hindu. The verse, as figured for chanting, is given, Sāma-v. Calc. ed. vol. v, p. 60 1. On the present occasion, according to Lāṭy. Śr. I, 5, 11, a different text, viz. Sāma-v. II, 8, 14 (R̥g-veda IX, 66, 19, agna āyūṁshi payase), is to be sung to this tune. ↩︎

  22. 179:1 The Rathantara, Br̥hat, Vāmadevya, and Yajñāyajñiya tunes are apparently to be sung here on their original texts (Sāma-v. II, 30, 31, abhi tvā śūra nonumaḥ; II, 159, 160, tvām id dhi havāmahe; II, 32, 33, kayā naś citra ā bhuvat; and II, 53, 54, yajñā-yajñā vo agnaye), though hardly in their elaborate setting, as performed in chanting. ↩︎ ↩︎ ↩︎ ↩︎

  23. आत्मनि वामदेव्यम् । का. श्रौ. सू. १८ । २१ । ↩︎ ↩︎ ↩︎

  24. 179:2 It should be remembered that the chanting of the Yajñāyajñiya (or Agnishṭoma)-sāman marks the completion (saṁsthā) of the ordinary (Agnishṭoma) Soma-sacrifice. ↩︎

  25. 180:1 The Prajāpati-hr̥daya, or Prajāpater hr̥dayam, as figured for chanting, is given, Sāma-v. Calc. ed. vol. ii, p. 499. It consists of the words, imāḥ prajāḥ prajāpate(r) hr̥dayam prajārūpam ajījane, with inserted stobhas and modulations. It is followed by a simpler form, which is perhaps the one used on the present occasion. ↩︎

  26. 180:2 Viz. on the place where the right wing joins the body of the altar. According to other authorities, the Śyaita hymn-tune is likewise to be sung near the left arm-pit (or, according to Sāṇḍilya, at the place where the Adhvaryu mounts the altar). For other variations, see Weber, Ind. Stud. XIII, p. 276. I do not think that the ritual of the White Yajus, in omitting the left arm-pit, shows any gap or inconsistency, since the right arm-pit is marked out, not for any bodily parallelism, but for the simple reason that it is supposed to indicate the position of the heart. Whilst all the other places on which hymns are sung are essential parts of the bird Agni, the arm-pit is not an essential part, but is merely indicative of the central organ of the body. Lāṭy. I, 5, 11 seqq. supplies the following directions, apparently implying a somewhat different order of procedure from that followed in our text: He passes along the south, and whilst standing (east of the altar) with his face towards the west, he sings the Gāyatra at the head. Returning, he sings the Rathantara at the right wing. Going round behind, he sings the Br̥hat at the left wing. Going back, and standing behind the tail, with his face towards the east, he sings the Yajñāyajñiya. The Vāmadevya he sings at the right, and the Prajāpati-hr̥daya at the left, arm-pit. Then follow different views held by different teachers.–With this ceremony, by which homage is paid to the different parts of Agni-Prajāpati’s body, compare the similar, but more elaborate, ceremony of the Parimādaḥ at the Mahāvrata, X, 1, 2, 9 with note. ↩︎

  27. 181:1 That is, by taking the auricles as parts of the heart. ↩︎

  28. वि᳘जितो A2. Sây. ↩︎

  29. 181:2 According to Lāṭy. I, 5, 1 seq., it is the Prastotr̥ who sings these sāmans. A similar conflict of competence in this respect is referred to not only in regard to detached sāmans (cf. Kāty. IV, 9, 6-9), but even in regard to such solemn performances as the chanting of the Mahāvrata-sāman (cf. note on X, 1, 1, 5). ↩︎

  30. 181:3 Vi-cita, in this sense, appears to be a ἅπαξ λεγόμενον. Sāyaṇa seems to have read vijita (parābhūta, defeated) instead. ↩︎