०१
विश्वास-प्रस्तुतिः
अ᳘थ स्वयमातृण्णा᳘सु सा᳘मानि गायति॥
(ती) इमे वै᳘ लोकाः᳘ स्वयमातृण्णास्ता᳘ ऽएताः श᳘र्करास्ता᳘ देवा᳘ ऽउपधा᳘यैतादृ᳘शीरे᳘वापश्यन्य᳘थैताः शु᳘ष्काः श᳘र्कराः᳘॥
मूलम् - श्रीधरादि
अ᳘थ स्वयमातृण्णा᳘सु सा᳘मानि गायति॥
(ती) इमे वै᳘ लोकाः᳘ स्वयमातृण्णास्ता᳘ ऽएताः श᳘र्करास्ता᳘ देवा᳘ ऽउपधा᳘यैतादृ᳘शीरे᳘वापश्यन्य᳘थैताः शु᳘ष्काः श᳘र्कराः᳘॥
मूलम् - Weber
अ᳘थ स्वयमातृणा᳘सु सा᳘मानि गायति॥
इमे वै᳘ लोकाः᳘ स्वयमातृणास्ता᳘ एताः श᳘र्करास्ता᳘ देवा᳘ उपधा᳘यैतादृ᳘शीरेॗवापश्यन्य᳘थैताः शु᳘ष्काः श᳘र्कराः॥
मूलम् - विस्वरम्
अथ स्वयमातृण्णसु सामानि गायति । इमे वै लोकाः स्वयमातृण्णाः । ता एताः शर्कराः । ता देवा उपधायैतादृशीरेवापश्यन्- यथैताः शुष्काः शर्कराः ॥ १ ॥
सायणः
अथ साम 1 गायतीति वक्तव्ये- स्वयमातृण्णासु सामानि गायतीति पूर्वोक्तो ऽप्युपन्यासो ब्राह्मणस्य साधारण्यार्थः । अथ च द्विविधोक्तिः स्वयमातृण्णासामगानस्योत्तरार्थं तु वचनद्वयमिति द्रष्टव्यम् । तदा ऽन्तरिक्षलोकंपृणावाक्ये ऽप्यस्या (वेषनीति) द्रष्टव्यः । प्रसन्नप्रायाश्चैताः षट् कण्डिकाः । ‘नाना’ पृथग्भूताः प्रस्तावाः येषामिति नानाप्रस्तावानि भूर्भुवः स्वरित्यनेन हि नानाप्रारम्भास्तेषां समानं निधनं समाप्तिः एषामिति समाननिधनानि स्वर्ज्योतिरित्येषा (एवायमपि चैषामेतानि समाख्यानादध्वर्युः । एवमन्नदमर्दति शेषवचनमुद्रा नास्ति ।) एका ह्येव यज्ञस्य प्रतिष्ठा ( ) प्रतिनिधिः कार्यः तस्याः चितिं प्रयतिष्यामि यतः ( ) तस्मिन्निति च नाकं तु स्वर्ग एव लोकस्तस्मादेतत्स्वर्ज्योतिरित्येतन्निधनानि ॥ १-६ ॥
Eggeling
- On the (three) naturally-perforated (bricks) he (the Sacrificer) sings sāmans; for the naturally-perforated ones are these (three) worlds; and they
are just these (ordinary) stones. The gods, having laid them down, saw them as such: that they were dry stones.
०२
विश्वास-प्रस्तुतिः
(स्ते) ते ऽब्रुवन्॥
(न्नु᳘) उ᳘प त᳘ज्जानीत य᳘थैषु᳘ लोके᳘षु र᳘समुपजी᳘वनं द᳘धामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘थैषु᳘ लोके᳘षु र᳘समुपजी᳘वनं द᳘धामे᳘ति॥
मूलम् - श्रीधरादि
(स्ते) ते ऽब्रुवन्॥
(न्नु᳘) उ᳘प त᳘ज्जानीत य᳘थैषु᳘ लोके᳘षु र᳘समुपजी᳘वनं द᳘धामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘थैषु᳘ लोके᳘षु र᳘समुपजी᳘वनं द᳘धामे᳘ति॥
मूलम् - Weber
ते ऽब्रुवन्॥
उ᳘प त᳘ज्जानीत य᳘थैषु᳘ लोके᳘षु र᳘मसुपजी᳘वनं द᳘धामे᳘तिॗ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्त᳘दिछत य᳘थैषु᳘ लोके᳘षु र᳘समुपजी᳘वनं द᳘धामे᳘ति॥
मूलम् - विस्वरम्
ते ऽब्रुवन्- उप तज्जानीत- यथैषु लोकेषु रसमुपजीवनं दधामेति । ते ऽब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । तदिच्छत- यथैषु लोकेषु रसमुपजीवनं दधामेति ॥ २ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- They spake, ‘Think ye upon this, how we may lay sap, the means of subsistence, into these worlds!’ They spake, ‘Meditate ye!’ whereby, doubtless, they meant to say, ‘Seek ye a layer! seek ye how we may lay sap, the means of subsistence, into these worlds!’
०३
विश्वास-प्रस्तुतिः
ते᳘ चेत᳘यमानाः॥
(ऽ) एता᳘नि सा᳘मान्यपश्यंस्ता᳘न्यगायंस्तै᳘रेषु लोके᳘षु र᳘समुपजी᳘वनमदधुस्त᳘थै᳘वैतद्य᳘जमानो य᳘देता᳘नि सा᳘मानि गा᳘यत्ये᳘ष्वे᳘वैत᳘ल्लोके᳘षु र᳘समुपजी᳘वनं दधाति॥
मूलम् - श्रीधरादि
ते᳘ चेत᳘यमानाः॥
(ऽ) एता᳘नि सा᳘मान्यपश्यंस्ता᳘न्यगायंस्तै᳘रेषु लोके᳘षु र᳘समुपजी᳘वनमदधुस्त᳘थै᳘वैतद्य᳘जमानो य᳘देता᳘नि सा᳘मानि गा᳘यत्ये᳘ष्वे᳘वैत᳘ल्लोके᳘षु र᳘समुपजी᳘वनं दधाति॥
मूलम् - Weber
ते᳘ चेत᳘यमानाः॥
एता᳘नि सा᳘मान्यपश्यंस्ता᳘न्यगायंस्तै᳘रेषु लोके᳘षु र᳘समुपजी᳘वनमदधुस्त᳘थैॗवैतद्य᳘जमानो य᳘देता᳘नि सा᳘मानि गा᳘यत्येॗष्वेॗवैत᳘ल्लोके᳘षु र᳘समुपजी᳘वनं दधाति॥
मूलम् - विस्वरम्
ते चेतयमाना एतानि सामान्यपश्यन् । तान्यगायन् । तैरेषु लोकेषु रसमुपजीवनमदधुः । तथैवैतद्यजमानो यदेतानि सामानि गायति- एष्वेवैतल्लोकेषु रसमुपजीवनं दधाति ॥ ३ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- Whilst meditating, they saw these sāmans (hymn-tunes), and sang them; and by means of them they laid sap, the means of subsistence, into these worlds; and in like manner does the Sacrificer now, when he sings these sāmans, lay sap, the means of subsistence, into these worlds.
०४
विश्वास-प्रस्तुतिः
स्वयमातृण्णा᳘सु गायति॥
(ती) इमे वै᳘ लोकाः᳘ स्वयमातृण्णा᳘ ऽए᳘ष्वे᳘वैत᳘ल्लोके᳘षु र᳘समुपजी᳘वनं दधाति॥
मूलम् - श्रीधरादि
स्वयमातृण्णा᳘सु गायति॥
(ती) इमे वै᳘ लोकाः᳘ स्वयमातृण्णा᳘ ऽए᳘ष्वे᳘वैत᳘ल्लोके᳘षु र᳘समुपजी᳘वनं दधाति॥
मूलम् - Weber
स्वयमातृणा᳘सु गायति॥
इमे वै᳘ लोकाः᳘ स्वयमातृणा᳘ एॗष्वेॗवैत᳘ल्लोके᳘षु र᳘समुपजी᳘वनं दधाति॥
मूलम् - विस्वरम्
स्वयमातृण्णासु गायति । इमे वै लोकाः स्वयमातृण्णाः । एष्वेवैतल्लोकेषु रसमुपजीवनं दधाति ॥ ४ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- Over the naturally-perforated ones he sings them: the naturally-perforated ones being these worlds, it is into these worlds that he thereby lays sap, the means of subsistence.
०५
विश्वास-प्रस्तुतिः
स वै भूर्भु᳘वः स्वरि᳘ति[[!!]]॥
(त्ये) एता᳘सु व्या᳘हृतिषु गायति भूरि᳘ति वा᳘ ऽअयं᳘ लोको भु᳘व ऽइ᳘त्यन्तरिक्षलोकः᳘ स्व᳘रित्यसौ᳘ लोक᳘ ऽए᳘ष्वे᳘वैत᳘ल्लोके᳘षु र᳘समुपजी᳘वनं दधाति॥
मूलम् - श्रीधरादि
स वै भूर्भु᳘वः स्वरि᳘ति[[!!]]॥
(त्ये) एता᳘सु व्या᳘हृतिषु गायति भूरि᳘ति वा᳘ ऽअयं᳘ लोको भु᳘व ऽइ᳘त्यन्तरिक्षलोकः᳘ स्व᳘रित्यसौ᳘ लोक᳘ ऽए᳘ष्वे᳘वैत᳘ल्लोके᳘षु र᳘समुपजी᳘वनं दधाति॥
मूलम् - Weber
स वै भूर्भु᳘वः स्व᳘रि᳘ति॥
एता᳘सु व्या᳘हृतिषु गायति भूरि᳘ति वा᳘ अयं᳘ लोको भु᳘व इ᳘त्यन्तरिक्षलोकः स्व᳘रित्यसौ᳘ लोक᳘ एॗष्वेॗवैत᳘ल्लोके᳘षु र᳘समुपजी᳘वनं दधाति॥
मूलम् - विस्वरम्
स वै “भूर्भुवः स्वः”- इति एतासु व्याहृतिषु गायति । भूरिति वा ऽअयं लोकः, भुव इत्यन्तरिक्षलोकः, स्वरित्यसौ लोकः । एष्वेवैतल्लोकेषु रसमुपजीवनं दधाति ॥ ५ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- He sings (the tunes) on the (mystic) words ‘Bhūs, Bhuvas, Svar’;–bhūs (earth), doubtless, is this world, bhuvas is the air-world, and svar (light) is yonder world: into these worlds he thereby lays sap, the means of subsistence.
०६
विश्वास-प्रस्तुतिः
ता᳘नि वै ना᳘नाप्रस्तावानि॥
समान᳘निधनानि ता᳘नि यन्ना᳘नाप्रस्तावानि ना᳘ना ह्य᳘पश्यन्न᳘थ य᳘त्समान᳘निधनान्ये᳘का᳘ ह्येव᳘ यज्ञ᳘स्य प्रतिष्ठै᳘कं निध᳘नᳫँ᳭ स्वर्ग᳘ एव᳘ लोकस्त᳘स्मा᳘त्स्वर्ज्योतिर्निधनानि[[!!]]॥
मूलम् - श्रीधरादि
ता᳘नि वै ना᳘नाप्रस्तावानि॥
समान᳘निधनानि ता᳘नि यन्ना᳘नाप्रस्तावानि ना᳘ना ह्य᳘पश्यन्न᳘थ य᳘त्समान᳘निधनान्ये᳘का᳘ ह्येव᳘ यज्ञ᳘स्य प्रतिष्ठै᳘कं निध᳘नᳫँ᳭ स्वर्ग᳘ एव᳘ लोकस्त᳘स्मा᳘त्स्वर्ज्योतिर्निधनानि[[!!]]॥
मूलम् - Weber
ता᳘नि वै ना᳘नाप्रस्तावानि॥
समान᳘निधनानि ता᳘नि यन्ना᳘नाप्रस्तावानि ना᳘ना ह्य᳘पश्यन्न᳘थ य᳘त्समान᳘निधनान्ये᳘काॗ ह्येव᳘ यज्ञ᳘स्य प्रतिष्ठै᳘कं निध᳘नᳫं स्वर्ग᳘ एव᳘ लोकस्त᳘स्मात्स्व᳘र्ज्योतिर्निधनानि॥
मूलम् - विस्वरम्
तानि वै नानाप्रस्तावानि, समाननिधनानि । तानि यन्नानाप्रस्तावानि- नाना ह्यपश्यन् । अथ यत्समाननिधनानि- एका ह्येव यज्ञस्य प्रतिष्ठा, एकं निधनं स्वर्ग एव लोकः । तस्मात्स्वर्ज्योतिर्निधनानि ॥ ६ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- They have different preludes, and the same finale 2; and as to their having different preludes, it
is because they (the gods) saw them separately; and as to their having the same finale (nidhana), it is because there is only one foundation, only one finale to the sacrifice–even heaven: therefore they have ‘svar-jyotis (heaven-light)’ for their finale.
०७
विश्वास-प्रस्तुतिः
(न्य᳘) अथै᳘नᳫँ᳭ हिरण्यशकलैः प्रो᳘क्षति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतस्त᳘स्मिन्देवा᳘ ऽएत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तम᳘दधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति॥
मूलम् - श्रीधरादि
(न्य᳘) अथै᳘नᳫँ᳭ हिरण्यशकलैः प्रो᳘क्षति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतस्त᳘स्मिन्देवा᳘ ऽएत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तम᳘दधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति॥
मूलम् - Weber
अथै᳘नᳫं हिरण्यशकलैः प्रो᳘क्षति॥
अ᳘त्रैष स᳘र्वो ऽग्निः स᳘ᳫं᳘स्कृतस्त᳘स्मिन्देवा᳘ एत᳘दमृ᳘तं रूप᳘मुत्तम᳘दधुस्त᳘थैॗवास्मिन्नय᳘मेतदमृ᳘तं रूप᳘मुत्तमं᳘ दधाति॥
मूलम् - विस्वरम्
अथैनं हिरण्यशकलैः प्रोक्षति 3 । अत्रैष सर्वो ऽग्निः संस्कृतः । तस्मिन्देवा एतदमृतं रूपमुत्तममदधुः । तथैवास्मिन्नयमेतदमृतं रूपमुत्तमं दधाति ॥ ७ ॥
सायणः
अथैनं हिरण्यशकलैरिति । प्रसन्नाः चतस्रः ॥ ७-१०॥
Eggeling
- He then bestrews him (Agni, the fire-altar and Agni’s body) with chips of gold. Now that whole Agni had been completed, and the gods bestowed on him immortality, that highest form; and in like manner does this one now bestow upon him that highest, immortal form 4.
०८
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैनᳫँ᳭ हिरण्यशकलैः᳘ प्रोक्ष᳘ति॥
(त्ये) एतद्वा᳘ ऽअस्मिन्न᳘दो ऽमूं᳘ पुर᳘स्ताद्र᳘म्यां तनूं᳘ मध्यतो᳘ दधाति रुक्मं᳘ च पु᳘रुषं चा᳘थैनमेतत्स᳘र्व्वमे᳘वोप᳘रिष्टाद्र᳘म्यया[[!!]] त᳘न्वा प्र᳘च्छादयति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैनᳫँ᳭ हिरण्यशकलैः᳘ प्रोक्ष᳘ति॥
(त्ये) एतद्वा᳘ ऽअस्मिन्न᳘दो ऽमूं᳘ पुर᳘स्ताद्र᳘म्यां तनूं᳘ मध्यतो᳘ दधाति रुक्मं᳘ च पु᳘रुषं चा᳘थैनमेतत्स᳘र्व्वमे᳘वोप᳘रिष्टाद्र᳘म्यया[[!!]] त᳘न्वा प्र᳘च्छादयति॥
मूलम् - Weber
य᳘द्वेॗवैनᳫं हिरण्यशकलैः᳘ प्रोक्ष᳘ति॥
एतद्वा᳘ अस्मिन्नॗदो ऽमूम् पुर᳘स्ताद्रॗम्यां तनू᳘म् मध्यतो᳘ दधाति रुक्भं᳘ च पु᳘रुषं चा᳘थैनमेतत्स᳘र्वमेॗवोप᳘रिष्टाद्रम्य᳘या तॗन्वा प्र᳘छादयति॥
मूलम् - विस्वरम्
यद्वेवैनं हिरण्यशकलैः प्रोक्षति । एतद्वा अस्मिन्नदो ऽमूं पुरस्ताद्रम्यां तनूं मध्यतो दधाति- रुक्मं च पुरुषं च । अथैनमेतत्सर्वमेवोपरिष्टाद्रम्यया तन्वा प्रच्छादयति ॥ ८ ॥
सायणः
[व्याख्यानं सप्तमे]
Eggeling
- And, again, as to why he bestrews him with chips of gold. Now on that former occasion he first lays into him that pleasing form, the gold plate and the (gold) man 5; and he now decks him all over with a pleasing form.
०९
विश्वास-प्रस्तुतिः
द्वा᳘भ्यां द्वाभ्याᳫँ᳭ शता᳘भ्याम्॥
(न्द्वि) द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति प᳘ञ्चकृ᳘त्वः प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति सह᳘स्रेण स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वेणै᳘वास्मिन्नेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति॥
मूलम् - श्रीधरादि
द्वा᳘भ्यां द्वाभ्याᳫँ᳭ शता᳘भ्याम्॥
(न्द्वि) द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति प᳘ञ्चकृ᳘त्वः प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति सह᳘स्रेण स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वेणै᳘वास्मिन्नेत᳘दमृ᳘तᳫँ᳭ रूप᳘मुत्तमं᳘ दधाति॥
मूलम् - Weber
द्वा᳘भ्यां-द्वाभ्यां शता᳘भ्याम्॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेत᳘दमृ᳘तं रूप᳘मुत्तमं᳘ दधाति प᳘ञ्च कृ᳘त्वः प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानाग्नर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेत᳘दमृ᳘तं रूप᳘मुत्तमं᳘ दधाति सह᳘स्रेण स᳘र्वं वै᳘ सह᳘स्रᳫं स᳘र्वेणैॗवास्मिन्नेत᳘दमृ᳘तं रूप᳘मुत्तमं᳘ दधाति॥
मूलम् - विस्वरम्
द्वाभ्यां द्वाभ्यां शताभ्याम् । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति । पञ्चकृत्वः । पञ्चचितिको ऽग्निः । पञ्च ऽर्तवः सम्वत्सरः । सम्वत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति । सहस्रेण । सर्वं वै सहस्रम् । सर्वेणैवास्मिन्नेतदमृतं रूपमुत्तमं दधाति ॥ ९ ॥
सायणः
[व्याख्यानं सप्तमे]
Eggeling
- With two hundred (chips he bestrews him) each time,–two-footed is the Sacrificer, and Agni
is the sacrificer: as great as Agni is, as great as is his measure, with so much he thus bestows upon him immortality, that highest form. Five times (he strews),–five-layered is the altar, five seasons make a year, and Agni is the year: as great as Agni is, as great as is his measure, with so much he thus bestows upon him immortality, that highest form. With a thousand (chips he bestrews him),–a thousand means everything: with everything he thus confers upon him immortality, that highest form.
१०
विश्वास-प्रस्तुतिः
पश्चाद᳘ग्रे प्राङ्ति᳘ष्ठन्॥
(न्न᳘) अ᳘थोत्तरतो᳘ दक्षिणा᳘ ऽथ पुर᳘स्तात्प्रत्यङ्ङ᳘थ जघ᳘नेन परी᳘त्य दक्षिणत ऽउ᳘दङ्ति᳘ष्ठंस्त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳘ ऽथानुपरी᳘त्य पश्चात्प्राङ्ति᳘ष्ठंस्त᳘थो हास्यैतत्प्रा᳘गेव क᳘र्म कृतं᳘ भवति॥
मूलम् - श्रीधरादि
पश्चाद᳘ग्रे प्राङ्ति᳘ष्ठन्॥
(न्न᳘) अ᳘थोत्तरतो᳘ दक्षिणा᳘ ऽथ पुर᳘स्तात्प्रत्यङ्ङ᳘थ जघ᳘नेन परी᳘त्य दक्षिणत ऽउ᳘दङ्ति᳘ष्ठंस्त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳘ ऽथानुपरी᳘त्य पश्चात्प्राङ्ति᳘ष्ठंस्त᳘थो हास्यैतत्प्रा᳘गेव क᳘र्म कृतं᳘ भवति॥
मूलम् - Weber
पश्चाद᳘ग्रे प्राङ् ति᳘ष्ठन्॥
अ᳘थोत्तरतो᳘ दक्षिणा᳘थ पुर᳘स्तात्प्रत्यङ्ङ᳘थ जघ᳘नेन परी᳘त्य दक्षिणत उ᳘दङ् ति᳘ष्ठंस्त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳘थानुपरी᳘त्य पश्चात्प्राङ् ति᳘ष्ठंस्त᳘थो हास्यैतत्प्रा᳘गेव क᳘र्म कृत᳘म् भवति॥
मूलम् - विस्वरम्
पश्चादग्रे प्राङ् तिष्ठन् । अथोत्तरतो दक्षिणा । अथ पुरस्तात्प्रत्यङ् । अथ जघनेन परीत्य दक्षिणत उदङ् तिष्ठन् । तद्दक्षिणावृत् । तद्धि देवत्रा । अथानुपरीत्य पश्चात्प्राङ् तिष्ठन् । तथो हास्यैतत्प्रागेव कर्म कृतं भवति ॥ १० ॥
सायणः
[व्याख्यानं सप्तमे]
Eggeling
- First (he scatters them) at the back whilst standing with his face towards the east; then on the left (north) side towards the south; then in front whilst facing the west; then, having gone round the back, from the south whilst facing the north: this is from left to right (sunwise), for that is (the way) with the gods. Then, having gone round, (he scatters chips) at the back whilst standing with his face to the east, for in this way that former performance of him 6 took place.
११
विश्वास-प्रस्तुतिः
सह᳘स्रस्य प्र᳘मा ऽसि॥
सह᳘स्रस्य प्रति᳘मा ऽसि सह᳘स्रस्यो᳘न्मा ऽसि साह᳘स्रो ऽसि सह᳘स्राय त्वे᳘ति स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वमसि स᳘र्व्वस्मै त्वे᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
सह᳘स्रस्य प्र᳘मा ऽसि॥
सह᳘स्रस्य प्रति᳘मा ऽसि सह᳘स्रस्यो᳘न्मा ऽसि साह᳘स्रो ऽसि सह᳘स्राय त्वे᳘ति स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्वमसि स᳘र्व्वस्मै त्वे᳘त्येतत्[[!!]]॥
मूलम् - Weber
सह᳘स्रस्य प्रॗमासि॥
सह᳘स्रस्य प्रतिॗमासि सह᳘स्रस्योॗन्मासि साहॗस्रो ऽसि सह᳘स्राय त्वे᳘ति स᳘र्वं वै᳘ सह᳘स्रᳫं स᳘र्वमसि स᳘र्वस्मै त्वे᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“सहस्रस्य प्रमा ऽसि, सहस्रस्य प्रतिमा ऽसि, सहस्रस्योन्मा ऽसि, साहस्रो ऽसि, सहस्राय त्वा”- (वा. सं. १५ । ६५) इति । सर्वं वै सहस्रम् । सर्वमसि सर्वस्मै त्वेत्येतत् ॥ ११ ॥
सायणः
सहस्रस्य प्रमा ऽसीत्येते पञ्च मन्त्राः ॥ ११ ॥
Eggeling
- [He scatters, with, Vāj. S. XV, 65], ‘The fore-measure of a thousand thou art,–The counter-measure of a thousand thou art,–The up-measure of a thousand thou art,–The thousandfold thou art,–For a thousand thee!’–a thousand, doubtless, means everything: thus, ‘Everything thou art,–thee for everything!’
१२
विश्वास-प्रस्तुतिः
(द) अथा᳘तश्चितिपुरीषा᳘णामेव᳘ मीमा᳘ᳫँ᳘सा॥
(सा ऽय᳘) अय᳘मेव᳘ लोकः᳘ प्रथमा चि᳘तिः पश᳘वः पु᳘रीषं य᳘त्प्रथमां चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यतीमं त᳘ल्लोकं᳘ पशुभिः[[!!]] प्र᳘च्छादयति॥
मूलम् - श्रीधरादि
(द) अथा᳘तश्चितिपुरीषा᳘णामेव᳘ मीमा᳘ᳫँ᳘सा॥
(सा ऽय᳘) अय᳘मेव᳘ लोकः᳘ प्रथमा चि᳘तिः पश᳘वः पु᳘रीषं य᳘त्प्रथमां चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यतीमं त᳘ल्लोकं᳘ पशुभिः[[!!]] प्र᳘च्छादयति॥
मूलम् - Weber
अथा᳘तश्चितिपुरीषा᳘णामेव᳘ मीमाॗᳫंॗसा॥
अय᳘मेव᳘ लोकः᳘ प्रथमा चि᳘तिः पश᳘वः पु᳘रीषं य᳘त्प्रथमां चि᳘तिम् पु᳘रीषेण प्रछाद᳘यतीमं त᳘ल्लोकम् पशु᳘भिः प्र᳘छादयति॥
मूलम् - विस्वरम्
(१) अथातश्चितिपुरीषाणामेव मीमांसा । अयमेव लोकः प्रथमा चितिः । पशवः पुरीषम् । यत्प्रथमां चितिं पुरीषेण प्रच्छादयति- इमं तल्लोकं पशुभिः प्रच्छादयति ॥ १२ ॥
सायणः
अथातश्चितिपुरीषाणामिति । सप्तभिरेताभिरेव चितिभिः पुरुषविषयाणि दर्शनान्तराण्युच्यन्ते ॥ १२-१८ ॥
Eggeling
- Now, then, the consideration of the layer-fillings. The first layer is this (terrestrial) world; and the filling of soil means cattle: thus, in
covering the first layer with a filling of soil he covers this (terrestrial) world with cattle.
१३
विश्वास-प्रस्तुतिः
(त्य) अन्त᳘रिक्षमेव᳘ द्विती᳘या चि᳘तिः॥
(र्व्व᳘) व्व᳘याᳫँ᳭सि पु᳘रीषं य᳘द्द्विती᳘यां चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यत्यन्त᳘रिक्षं तद्व᳘योभिः प्र᳘च्छादयति॥
मूलम् - श्रीधरादि
(त्य) अन्त᳘रिक्षमेव᳘ द्विती᳘या चि᳘तिः॥
(र्व्व᳘) व्व᳘याᳫँ᳭सि पु᳘रीषं य᳘द्द्विती᳘यां चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यत्यन्त᳘रिक्षं तद्व᳘योभिः प्र᳘च्छादयति॥
मूलम् - Weber
अन्त᳘रिक्षमेव᳘ द्विती᳘या चि᳘तिः॥
व᳘यांसि पु᳘रीषं य᳘द्द्विती᳘यां चि᳘तिम् पु᳘रीषेण प्रछाद᳘यत्यन्त᳘रिक्षं तद्व᳘योभिः प्र᳘छादयति॥
मूलम् - विस्वरम्
(२) अन्तरिक्षमेव द्वितीया चितिः । वयांसि पुरीषम् । यद्द्वितीयां चितिं पुरीषेण प्रच्छादयति- अन्तरिक्षं तद्वयोभिः प्रच्छादयति ॥ १३ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- The second layer is the air, and the filling of soil means birds: thus, in covering the second layer with a filling of soil, he covers (fills) the air with birds.
१४
विश्वास-प्रस्तुतिः
द्यौ᳘रेव᳘ तृती᳘या चि᳘तिः॥
(र्न᳘) न᳘क्षत्राणि पु᳘रीषं य᳘त्तृती᳘यां चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यति दि᳘वं तन्न᳘क्षत्रैः प्र᳘च्छादयति॥
मूलम् - श्रीधरादि
द्यौ᳘रेव᳘ तृती᳘या चि᳘तिः॥
(र्न᳘) न᳘क्षत्राणि पु᳘रीषं य᳘त्तृती᳘यां चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यति दि᳘वं तन्न᳘क्षत्रैः प्र᳘च्छादयति॥
मूलम् - Weber
द्यौ᳘रेव᳘ तृती᳘या चि᳘तिः॥
न᳘क्षत्राणि पु᳘रीषं य᳘त्तृती᳘यां चि᳘तिम् पु᳘रीषेण प्रछाद᳘यति दिवं तन्न᳘क्षत्रैः प्र᳘छादयति॥
मूलम् - विस्वरम्
(३) द्यौरेव तृतीया चितिः । नक्षत्राणि पुरीषम् । यत्तृतीयां चितिं पुरीषेण प्रच्छादयति- दिवं तन्नक्षत्रैः प्रच्छादयति ॥ १४ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- The third layer is the sky, and the filling of soil means stars; thus, in covering the third layer with a filling of soil, he covers the sky with stars.
१५
विश्वास-प्रस्तुतिः
यज्ञ᳘ ऽएव᳘ चतुर्थी चि᳘तिः॥
(र्द᳘) द᳘क्षिणाः पु᳘रीषं य᳘च्चतुर्थीं चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यति यज्ञं तद्द᳘क्षिनाभिः प्र᳘च्छादयति॥
मूलम् - श्रीधरादि
यज्ञ᳘ ऽएव᳘ चतुर्थी चि᳘तिः॥
(र्द᳘) द᳘क्षिणाः पु᳘रीषं य᳘च्चतुर्थीं चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यति यज्ञं तद्द᳘क्षिनाभिः प्र᳘च्छादयति॥
मूलम् - Weber
यज्ञ᳘ एव᳘ चतुर्थी चि᳘तिः॥
द᳘क्षिणाः पु᳘रीषं य᳘च्चतुर्थी चि᳘तिम् पु᳘रीषेण प्रछाद᳘यति यज्ञम् तद्द᳘क्षिनाभिः प्र᳘छादयति॥
मूलम् - विस्वरम्
(४) यज्ञ एव चतुर्थी चितिः । दक्षिणाः पुरीषम् । यच्चतुर्थीं चितिं पुरीषेण प्रच्छादयति- यज्ञं तद् दक्षिणाभिः प्रच्छादयति ॥ १५ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- The fourth layer is the sacrifice, and the filling of soil means sacrificial gifts: thus, in covering the fourth layer with a filling of soil, he covers the sacrifice with sacrificial gifts (to the priests).
१६
विश्वास-प्रस्तुतिः
य᳘जमान ऽएव᳘ पञ्चमी चि᳘तिः॥
प्रजा पु᳘रीषं य᳘त्पञ्चमीं चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यति य᳘जमानं त᳘त्प्रज᳘या प्र᳘च्छादयति॥
मूलम् - श्रीधरादि
य᳘जमान ऽएव᳘ पञ्चमी चि᳘तिः॥
प्रजा पु᳘रीषं य᳘त्पञ्चमीं चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यति य᳘जमानं त᳘त्प्रज᳘या प्र᳘च्छादयति॥
मूलम् - Weber
य᳘जमान एव᳘ पञ्चमी चि᳘तिः॥
प्रजा पु᳘रीषं य᳘त्पञ्चमीं चि᳘तिम् पु᳘रीषेण प्रछाद᳘यति य᳘जमानं त᳘त्प्रज᳘या प्र᳘छादयति॥
मूलम् - विस्वरम्
(५) यजमान एव पञ्चमी चितिः । प्रजा पुरीषम् । यत्पञ्चमीं चितिं पुरीषेण प्रच्छादयति- यजमानं तत् प्रजया प्रच्छादयति ॥ १६ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- The fifth layer is the Sacrificer, and the filling of soil means progeny (or subjects) thus, in covering the fifth layer with a filling of soil, he covers (abundantly supplies) the Sacrificer with progeny (or subjects).
१७
विश्वास-प्रस्तुतिः
स्वर्ग᳘ ऽएव᳘ लोकः᳘ षष्ठी चि᳘तिः॥
(र्दे) देवाः पु᳘रीषं य᳘त्षष्ठीं चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यति स्वर्गं त᳘ल्लोकं᳘ देवैः प्र᳘च्छादयति॥
मूलम् - श्रीधरादि
स्वर्ग᳘ ऽएव᳘ लोकः᳘ षष्ठी चि᳘तिः॥
(र्दे) देवाः पु᳘रीषं य᳘त्षष्ठीं चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यति स्वर्गं त᳘ल्लोकं᳘ देवैः प्र᳘च्छादयति॥
मूलम् - Weber
स्वर्ग᳘ एव᳘ लोकः᳘ षष्ठी चि᳘तिः॥
देवाः पु᳘रीषं य᳘त्षष्ठीम् चि᳘तिम् पु᳘रीषेण प्रछाद᳘यति स्वर्गं त᳘ल्लोकं᳘ देवैः प्र᳘छादयति॥
मूलम् - विस्वरम्
(६) स्वर्ग एव लोकः षष्ठी चितिः । देवाः पुरीषम् । यत् षष्ठीं चितिं पुरीषेण प्रच्छादयति- स्वर्गं तल्लोकं देवैः प्रच्छादयति ॥ १७ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- The sixth layer is the heavenly world, and the filling of soil means the gods: thus in covering the sixth layer with a filling of soil, he fills the heavenly world with gods.
१८
विश्वास-प्रस्तुतिः
(त्य) अमृ᳘तमेव᳘ सप्तमी चि᳘तिः॥ (स्ता᳘) ता᳘मुत्तमामु᳘पदधात्यमृ᳘तं त᳘दस्य स᳘र्व्वस्योत्तमं᳘ दधाति त᳘स्मादस्य स᳘र्व्वस्यामृ᳘तमुत्तमं त᳘स्माद्देवा ऽअ᳘नन्तर्हितास्त᳘स्मादु᳘ ते ऽमृ᳘ता ऽइ᳘त्यधिदेवतम्[[!!]]॥
मूलम् - श्रीधरादि
(त्य) अमृ᳘तमेव᳘ सप्तमी चि᳘तिः॥ (स्ता᳘) ता᳘मुत्तमामु᳘पदधात्यमृ᳘तं त᳘दस्य स᳘र्व्वस्योत्तमं᳘ दधाति त᳘स्मादस्य स᳘र्व्वस्यामृ᳘तमुत्तमं त᳘स्माद्देवा ऽअ᳘नन्तर्हितास्त᳘स्मादु᳘ ते ऽमृ᳘ता ऽइ᳘त्यधिदेवतम्[[!!]]॥
मूलम् - Weber
अमृ᳘तमेव᳘ सप्तमी चि᳘तिः ता᳘मुत्तमामु᳘पदधात्यमृ᳘तं त᳘दस्य स᳘र्वस्योत्तमं᳘ दधाति त᳘स्मादस्य स᳘र्वस्यामृ᳘तमुत्तमं त᳘स्माद्देवा अ᳘नन्तर्हितास्त᳘स्मादुॗ ते ऽमृ᳘ता इ᳘त्यधिदेवत᳘म्॥
मूलम् - विस्वरम्
(७) अमृतमेव सप्तमी चितिः । तामुत्तमामुपदधाति । अमृतं तदस्य सर्वस्पोत्तमं दधाति । तस्मादस्य सर्वस्यामृतमुत्तमम् । तस्माद्देवा अनन्तर्हिताः । तस्मादु ते ऽमृता इत्यधिदेवतम् ॥ १८ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- The seventh layer is immortality,–that is the last (layer) he lays down, and thus bestows immortality as the highest thing of all this (universe): therefore immortality is the highest thing of all this (universe); therefore the gods are not separated therefrom; and therefore they are immortal. Thus much as to the deity 7.
१९
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाध्यात्म᳘म्॥
यै᳘वेयं᳘ प्रतिष्ठा य᳘श्चायम᳘वाङ्प्राणस्स᳘त्प्रथमा चि᳘तिर्माᳫँ᳭सं पु᳘रीषं य᳘त्प्रथमां चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यत्येत᳘स्य त᳘दात्मनो[[!!]] माᳫँ᳭सैः सं᳘छादयती᳘ष्टका ऽउपधा᳘यास्थी᳘ष्टका ऽअ᳘स्थि त᳘न्माᳫँ᳭सैः सं᳘छादयति᳘ नाध᳘स्तात्सं᳘छादयति त᳘स्मादिमे᳘ प्राणा᳘ ऽअध᳘स्ताद᳘संछन्ना ऽउप᳘रिष्टात्तु प्र᳘च्छादयत्येत᳘दस्य तदात्म᳘न ऽउप᳘रिष्टान्माᳫँ᳭सैः[[!!]] सं᳘छादयति त᳘स्मादस्यैत᳘दात्म᳘न ऽउप᳘रिष्टान्माᳫँ᳭सैः सं᳘छन्नं ना᳘वकाशते॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाध्यात्म᳘म्॥
यै᳘वेयं᳘ प्रतिष्ठा य᳘श्चायम᳘वाङ्प्राणस्स᳘त्प्रथमा चि᳘तिर्माᳫँ᳭सं पु᳘रीषं य᳘त्प्रथमां चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यत्येत᳘स्य त᳘दात्मनो[[!!]] माᳫँ᳭सैः सं᳘छादयती᳘ष्टका ऽउपधा᳘यास्थी᳘ष्टका ऽअ᳘स्थि त᳘न्माᳫँ᳭सैः सं᳘छादयति᳘ नाध᳘स्तात्सं᳘छादयति त᳘स्मादिमे᳘ प्राणा᳘ ऽअध᳘स्ताद᳘संछन्ना ऽउप᳘रिष्टात्तु प्र᳘च्छादयत्येत᳘दस्य तदात्म᳘न ऽउप᳘रिष्टान्माᳫँ᳭सैः[[!!]] सं᳘छादयति त᳘स्मादस्यैत᳘दात्म᳘न ऽउप᳘रिष्टान्माᳫँ᳭सैः सं᳘छन्नं ना᳘वकाशते॥
मूलम् - Weber
अ᳘थाध्यात्मम्᳟᳟॥
यैॗवेय᳘म् प्रतिष्ठा य᳘श्चायम᳘वाङ् प्राणस्स᳘त्प्रथमा चि᳘तिर्मांसम् पु᳘रीषं य᳘त्प्रथमां चि᳘तिम् पु᳘रीषेण प्रछाद᳘यत्येत᳘स्य त᳘दात्म᳘नो मांसैः सं᳘छादयती᳘ष्टका उपधायास्थी᳘ष्टका अ᳘स्थि त᳘न्मांसैः सं᳘छादयतिॗ नाध᳘स्तात्सं᳘छादयति त᳘स्मादिमे᳘ प्राणा᳘ अध᳘स्ताद᳘संछन्ना उप᳘रिष्टात्तु प्र᳘छादयत्येत᳘दस्य त᳘दात्म᳘न उप᳘रिष्टान्मांसैः सं᳘छादयति त᳘स्मादस्यैत᳘दात्म᳘न उप᳘रिष्टान्मांसैः सं᳘छन्नं ना᳘वकाशते॥
मूलम् - विस्वरम्
(१) अथाध्यात्मम्- यैवेयं प्रतिष्ठा, यश्चायमवाङ् प्राणः- तत्प्रथमा चितिः । मांसं पुरीषम् । यत्प्रथमां चितिं पुरीषेण प्रच्छादयति- एतदस्य तदात्मनो मांसैः संछादयति । इष्टका उपधाय । अस्थीष्टकाः । अस्थि तन्मांसैः संछादयति । नाधस्तात्संछादयति । तस्मादिमे प्राणा अधस्तादसंछन्नाः । उपरिष्टात्तु प्रच्छादयति । एतदस्य तदात्मन उपरिष्टान्मांसैः संछादयति । तस्मादस्यैतदात्मन उपरिष्टान्मांसैः संछन्नं नावकाशते ॥ १९ ॥
सायणः
अथाध्यात्मम् । एताभिराध्यात्मिकानि दर्शनान्युच्यन्ते ॥ १९-२१ ॥
8 इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये ऽष्टमे काण्डे सप्तमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (८-७-४) ॥
इति सप्तमो ऽध्यायश्च समाप्तः ॥ (८-७) ॥
इति समाप्तमिदमष्टमं चितिकाण्डम् ॥ ८ ॥
Eggeling
- Now, as to the Self (body). The first layer is the legs, and the downward flowing vital air; and
the filling of soil is the flesh: thus, in covering the first layer with a filling of soil, he covers that (part) of his (Agni’s) body with flesh. [He does so] after laying down bricks, and bricks mean bone: he thus covers the bone with flesh. He does not cover (the altar-site) below (the first layer), whence these vital airs are not closed up below; but, he covers it above, and thereby covers that (part) of his body above with flesh; and hence that (part) of his body above, being covered with flesh, is not visible.
२०
विश्वास-प्रस्तुतिः
य᳘दूर्ध्वं᳘ प्रतिष्ठा᳘या ऽअवाची᳘नं म᳘ध्यात्॥
(त्त᳘) त᳘द्द्विती᳘या चि᳘तिर्माᳫँ᳭सं पु᳘रीषं य᳘द्द्विती᳘यां चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यत्येत᳘दस्य त᳘दात्म᳘नो माᳫँ᳭सैः सं᳘छादयती᳘ष्टका ऽउपधा᳘यास्थी᳘ष्टका ऽअ᳘स्थि त᳘न्माᳫँ᳭सैः सं᳘छादयति पु᳘रीष ऽउ᳘पदधाति पु᳘रीषेण प्र᳘च्छादयत्येत᳘दस्य त᳘दात्म᳘न ऽउभय᳘तो माᳫँ᳭सैः सं᳘छादयति त᳘स्मादस्यैत᳘दात्म᳘न ऽउभय᳘तो माᳫँ᳭सैः सं᳘छन्नं ना᳘वकाशते॥
मूलम् - श्रीधरादि
य᳘दूर्ध्वं᳘ प्रतिष्ठा᳘या ऽअवाची᳘नं म᳘ध्यात्॥
(त्त᳘) त᳘द्द्विती᳘या चि᳘तिर्माᳫँ᳭सं पु᳘रीषं य᳘द्द्विती᳘यां चि᳘तिं पु᳘रीषेण प्रच्छाद᳘यत्येत᳘दस्य त᳘दात्म᳘नो माᳫँ᳭सैः सं᳘छादयती᳘ष्टका ऽउपधा᳘यास्थी᳘ष्टका ऽअ᳘स्थि त᳘न्माᳫँ᳭सैः सं᳘छादयति पु᳘रीष ऽउ᳘पदधाति पु᳘रीषेण प्र᳘च्छादयत्येत᳘दस्य त᳘दात्म᳘न ऽउभय᳘तो माᳫँ᳭सैः सं᳘छादयति त᳘स्मादस्यैत᳘दात्म᳘न ऽउभय᳘तो माᳫँ᳭सैः सं᳘छन्नं ना᳘वकाशते॥
मूलम् - Weber
य᳘दूर्ध्व᳘म् प्रतिष्ठा᳘या अवाची᳘नम् म᳘ध्यात्॥
त᳘द्द्विती᳘या चि᳘तिर्मांसम् पु᳘रीषं य᳘द्द्विती᳘यां चि᳘तिम् पु᳘रीषेण प्रछाद᳘यत्येत᳘दस्य त᳘दात्म᳘नो मांसैः सं᳘छादयती᳘ष्टका उपधायास्थी᳘ष्टका अ᳘स्थि त᳘न्मांसैः सं᳘छादयति पु᳘रीष उ᳘पदधाति पु᳘रीषेण प्र᳘छादयत्येत᳘दस्य त᳘दात्म᳘न उभय᳘तो मांसैः सं᳘छादयति त᳘स्मादस्यैत᳘दात्म᳘न उभय᳘तो मांसैः सं᳘छन्नं ना᳘वकाशते॥
मूलम् - विस्वरम्
(२) यदूर्ध्वं प्रतिष्ठायाः, अवाचीनं मध्यात्- तद्द्वितीया चितिः । मांसं पुरीषम् । यद्द्वितीयां चितिं पुरीषेण प्रच्छादयति- एतदस्य तदात्मनो मांसैः संछादयति । इष्टका उपधाय । अस्थीष्टकाः । अस्थि तन्मांसैः संछादयति । पुरीष उपदधाति, पुरीषेण प्रच्छादयति । एतदस्य तदात्मन उभयतो मांसैः संछादयति । तस्मादस्यैतदात्मन उभयतो मांसैः संछन्नं नावकाशते ॥ २० ॥
सायणः
[व्याख्यानं नवदशे]
Eggeling
- The second layer is that (part of the body) which is above the legs and below the waist; and the filling of soil is flesh: thus, in covering the second layer with a filling of soil, he covers that (part) of his body with flesh. [He does so] after laying down bricks, and bricks mean bone: he thus covers the bone with flesh. He places them on a filling of soil, and covers them with a filling of soil: he thus covers that (part) of his body on both sides with flesh; whence that part of his body, being on both sides covered with flesh, is not visible.
२१
विश्वास-प्रस्तुतिः
म᳘ध्यमेव᳘ तृती᳘या चि᳘तिः॥
(र्य᳘) य᳘दूर्ध्वं म᳘ध्यादवाची᳘नं ग्रीवा᳘भ्यस्त᳘च्चतुर्थी चि᳘तिर्ग्रीवा᳘ ऽएव᳘ पञ्चमी चि᳘तिः शि᳘र ऽएव᳘ षष्ठी चि᳘तिः प्राणा᳘ ऽएव᳘ सप्तमी चि᳘तिस्ता᳘मुत्तमामु᳘पदधाति प्राणांस्त᳘दस्य स᳘र्व्वस्योत्तमा᳘न्दधाति त᳘स्मादस्य स᳘र्व्वस्य प्राणा᳘ ऽउत्तमाः पु᳘रीष ऽउ᳘पदधाति माᳫँ᳭सं वै पु᳘रीषं माᳫँ᳭से᳘न त᳘त्प्राणान्प्र᳘तिष्ठापयति᳘ नोप᳘रिष्टात्प्र᳘च्छादयति त᳘स्मादिमे᳘ प्राणा᳘ ऽउप᳘रिष्टाद᳘संछन्नाः॥
मूलम् - श्रीधरादि
म᳘ध्यमेव᳘ तृती᳘या चि᳘तिः॥
(र्य᳘) य᳘दूर्ध्वं म᳘ध्यादवाची᳘नं ग्रीवा᳘भ्यस्त᳘च्चतुर्थी चि᳘तिर्ग्रीवा᳘ ऽएव᳘ पञ्चमी चि᳘तिः शि᳘र ऽएव᳘ षष्ठी चि᳘तिः प्राणा᳘ ऽएव᳘ सप्तमी चि᳘तिस्ता᳘मुत्तमामु᳘पदधाति प्राणांस्त᳘दस्य स᳘र्व्वस्योत्तमा᳘न्दधाति त᳘स्मादस्य स᳘र्व्वस्य प्राणा᳘ ऽउत्तमाः पु᳘रीष ऽउ᳘पदधाति माᳫँ᳭सं वै पु᳘रीषं माᳫँ᳭से᳘न त᳘त्प्राणान्प्र᳘तिष्ठापयति᳘ नोप᳘रिष्टात्प्र᳘च्छादयति त᳘स्मादिमे᳘ प्राणा᳘ ऽउप᳘रिष्टाद᳘संछन्नाः॥
मूलम् - Weber
म᳘ध्यमेव᳘ तृती᳘या चि᳘तिः॥
य᳘दूर्ध्वम् म᳘ध्यादवाची᳘नं ग्रीवा᳘भ्यस्त᳘च्चतुर्थी चि᳘तिर्ग्रीवा एव᳘ पञ्चमी चि᳘तिः शि᳘र एव᳘ षष्ठी चि᳘तिः प्राणा᳘ एव᳘ सप्तमी चि᳘तिस्ता᳘मुत्तमामु᳘पदधाति प्राणांस्त᳘दस्य स᳘र्वस्योत्तमा᳘न्दधाति त᳘स्मादस्य स᳘र्वस्य प्राणा᳘ उत्तमाः पु᳘रीष उ᳘पदधाति मांसं वै पु᳘रीषम् मांसे᳘न त᳘त्प्राणान्प्र᳘तिष्ठापयतिॗ नोप᳘रिष्टात्प्र᳘छादयति त᳘स्मादिमे᳘ प्राणा उप᳘रिष्टाद᳘संछन्नाः॥
मूलम् - विस्वरम्
(३) मध्यमेव तृतीया चितिः (४) । यदूर्ध्वं मध्यादवाचीनं ग्रीवाभ्यः तच्चतुर्थी चितिः । (५) ग्रीवा एव पञ्चमी चितिः । (६) शिर एव षष्ठी चितिः । (७) प्राणा एव सप्तमी चितिः । तामुत्तमामुपदधाति- प्राणांस्तदस्य सर्वस्योत्तमान्दधाति । तस्मादस्य सर्वस्य प्राणा उत्तमाः । पुरीष उपदधाति । मांसं वै पुरीषम् । मांसेन तत्प्राणान्प्रतिष्ठापयति । नोपरिष्टात्प्रच्छादयति । तस्मादिमे प्राणा उपरिष्टादसंछन्नाः ॥ २१ ॥
इत्याहवनीयाग्निचयनं समाप्तम् ।
सायणः
[व्याख्यानं नवदशे]
Eggeling
21. The third layer is the waist itself; the fourth layer is that (part of the body) which is above the waist and below the neck; the fifth layer is the neck, the sixth layer is the head, and the seventh layer is the vital airs. This he lays down as the last (or highest): he thus makes the vital airs the highest of all this (universe), and hence the vital airs are the highest thing of all this (universe). He places it on a filling of soil; and the filling of soil means flesh; he thus covers (the channels of) the vital airs with flesh. He does not cover it above, whence these (channels of the) vital airs are not closed up above.-
तत्वसाम गायति । का. श्रौ. सू. । १७ । ७२ । ↩︎
-
145:1 These hymn-tunes are given, Sam. Ved. V, p. 487, in the way in which they are here to be chanted. They consist entirely of the respective words, separated four times by musical interjections (stobhas) inserted between them, ending with the common finale: thus, (r) bhūḥ–bhūḥ–hoyi–bhūḥ–hoyi–bhūḥ–hā
ūvāe–suvarjyotīḥ; (2) bhuvāḥ–bhuvaḥ–hoyi–bhuvaḥ–hāūvāe–suvarjyotīḥ; (3) suvāḥ–suvaḥ–hoyi–suvaḥ–hoyi–suvaḥ–hāūvāe–suvarjyotī~ḥ. Along with these, as to be chanted on the same model, are given, (4) the ‘satyaṁ sāman,’ beginning ‘satyām–satyam–hoyi’ &c., and (5) the ‘purusha-sāman,’ beginning ‘purushāḥ–purusha–hoyi’ &c. which are similarly chanted by the Sacrificer at the beginning of the first layer, when laying down the lotus leaf (part iii, p. 363, where note 1 should be corrected in accordance with the present note), and the gold man (ib. p. 369, where the note requires likewise to be corrected), as the ‘citre gāyati,’ ‘he sings on the bright one,’ of the text cannot refer to the ‘Citra-sāman’ there referred to. Cf. Lāṭy. S. I, 5, 8.–In regard to these sāmans (hymn-verses), the text might lead one to suppose that they only consist of two, instead of the usual four parts (omitting the intermediate Udgītha and Pratihāra, cf. part ii, p. 310 note). The sāman being, however, sung by the Sacrificer himself, the usual distinction into parts to be performed by different chanters was probably dispensed with. ↩︎ -
पुरुषाभिहोमवत् तिष्ठन्नग्निं प्रोक्षति हिरण्यशकलसहस्रेण शते द्वे द्वे प्रकिरति सहस्रस्येति प्रतिमंत्रँ सहस्रस्येति प्रतिमंत्रम् । का. श्रौ. सू. १७ । २६३ ॥ ↩︎
-
146:1 That is, the Sacrificer bestows it on Agni; with probably, however, the ḍouble eṇṭeṇṭe, ’this Adhvaryu priest bestows it on the Sacrificer.’ ↩︎
-
146:2 See VII, 4, 1, 10 seq.; 15 seq. ↩︎
-
147:1 Viz. of Agni (and the Sacrificer). The ceremony alluded to was the fivefold libation of ghee offered on the gold man (representing Agni and the Sacrificer), see VII, 4, 1, 34-35. ↩︎
-
148:1 That is, so much as to the objects to which the different parts of the altar are sacred or dedicated. ↩︎
-
अस्मिन्नष्टमे काण्डे आद्ययोर्द्वयोः प्रपाठकयोरर्थादादितश्चतुर्थाध्यायस्य तृतीयब्राह्मणपर्यन्तमेव सायणभाष्यमुपलब्धम् । ततो ऽग्रिमं सायणभाष्यं लुप्तप्रायमभूत् तदन्वेषणे प्रयतितव्यं विपश्चिद्भिः । अन्त्ययोर्द्वयोः प्रपाठकयोरर्थाश्चतुर्थाध्यायस्य चतुर्थ ब्राह्मणमारभ्य काण्डसमाप्तिपर्यन्तमेकेन ब्राह्मणेनाधिकस्याध्यायत्रयस्य हरिस्वामिभाष्यमुपलब्धमतस्तदेवात्र संगृहीतम् । परंच तदत्यन्ताशुद्धमस्ति । यदेतद्भाष्यस्यादर्शभूतं पुस्तकद्वयं प्राप्तं तदप्यशुद्धिबहुलम् । परंतु केवलं मूलमात्रसंग्रहापेक्षया सभाष्यस्य संग्रहः प्रशस्त इति मत्वा तादृगपीदं हरिस्वामिभाष्यं यथामति यथाशक्ति संशोध्य संगृहीतमिति ध्येयम् । अस्याशुद्धिविषये विद्वद्भिः क्षन्तव्यम् । एतद्भाष्यस्य शुद्धं पुस्तकान्तरं यदि केषांचन विदुषां सविधे स्यात्तैर्दीयेत चेद्द्वितीयावृत्तौ तत्संयोजयाम इति सविनयं प्रार्थ्यन्ते ते महाभागाः ॥ ↩︎