०१
विश्वास-प्रस्तुतिः
अ᳘थ पु᳘रीषं नि᳘वपति॥
माᳫँ᳭सं वै पु᳘रीषं माᳫँ᳭से᳘नै᳘वैनमेतत्प्र᳘च्छादयती᳘ष्टका ऽउपधायास्थी᳘ष्टका ऽअ᳘स्थि त᳘न्माᳫँ᳭सैः सं᳘छादयति॥
मूलम् - श्रीधरादि
अ᳘थ पु᳘रीषं नि᳘वपति॥
माᳫँ᳭सं वै पु᳘रीषं माᳫँ᳭से᳘नै᳘वैनमेतत्प्र᳘च्छादयती᳘ष्टका ऽउपधायास्थी᳘ष्टका ऽअ᳘स्थि त᳘न्माᳫँ᳭सैः सं᳘छादयति॥
मूलम् - Weber
अ᳘थ पु᳘रीषं नि᳘वपति॥
मांसं वै पु᳘रीषम् मांसे᳘नैॗवैनमेतत्प्र᳘छादयती᳘ष्टका उपधायास्यी᳘ष्टका अ᳘स्थि त᳘न्मांसैः सं᳘छादयति॥
मूलम् - विस्वरम्
अथ पुरीषनिवपनम् ।
अथ पुरीषं निवपति । मांसं वै पुरीषम् । मांसेनैवैनमेतत्प्रच्छादयति । इष्टका उपधाया । अस्थीष्टकाः । अस्थि तन्मांसैः संछादयति ॥ १ ॥
सायणः
अथ लोकंपृणायां पञ्चम्यां चितावुपदिष्टमाह- अथेति । ‘अथ’ लोकंपृणाधानस्यानन्तरं पुरीषं निवपति, अस्यामेव पञ्चम्यां चिताविति गम्यते । तथा च यदेतदूर्ध्वमुपरि पुरीषं सा एषा चितिः । अथ पञ्चमीं चितिमुपधाय पुरीषं निवपतीत्युत्तमायामपि चितौ पुरीषं दृश्यते । न च तस्यान्यद्विधानं किंचन अस्ति यथा ऽन्यासु चितिषु पुरीषं निवपति तस्योपरि बन्धुरिति तस्मादुत्तमाया एवायं विधिरथ पुरीषं निवपतीति । मांसं वै पुरीषमित्यादिस्त्वर्थवादसाधारणस्योपरि बन्धुरिति वचनात् । मांसं पुरीषमिष्टकापेक्षया फल्गुत्वाद्वाप्याचलघुत्वात् वा ऽप्याल्पत्त्वाच्चेष्टका उपधाय सर्वास्वेव दर्शनायानुवाद अपीष्टकाकाठिन्यादंत्ययोरनन्तरत्वात् ॥ १ ॥
Eggeling
- He now throws loose soil (on the layer); for the loose soil means flesh: he thus covers him (Agni) with flesh. [He does so] after having laid down the bricks;–the bricks are the bone: he thus covers the bone with flesh.
०२
विश्वास-प्रस्तुतिः
स वै᳘ स्वयमातृण्णा᳘यामा᳘वपति॥
प्राणो वै᳘ स्वयमातृण्णा᳘ ऽन्नं पु᳘रीषं प्रा᳘णे तद᳘न्नं दधाति ते᳘न स᳘र्व्वमात्मा᳘नं प्र᳘च्छादयति त᳘म्माद्य᳘त्प्राणे᳘ ऽन्नं धीय᳘ते तत्स᳘र्व्वमात्मा᳘नम᳘वति स᳘र्व्वमात्मा᳘नमनु᳘व्येति॥
मूलम् - श्रीधरादि
स वै᳘ स्वयमातृण्णा᳘यामा᳘वपति॥
प्राणो वै᳘ स्वयमातृण्णा᳘ ऽन्नं पु᳘रीषं प्रा᳘णे तद᳘न्नं दधाति ते᳘न स᳘र्व्वमात्मा᳘नं प्र᳘च्छादयति त᳘म्माद्य᳘त्प्राणे᳘ ऽन्नं धीय᳘ते तत्स᳘र्व्वमात्मा᳘नम᳘वति स᳘र्व्वमात्मा᳘नमनु᳘व्येति॥
मूलम् - Weber
स वै᳘ स्वयमातृणा᳘यामा᳘वपति॥
प्राणो वै᳘ स्वयमातृणा᳘न्नम् पु᳘रीषम् प्राणे तद᳘न्नं दधाति ते᳘न स᳘र्वमात्मा᳘नम् प्र᳘छादयति त᳘म्माद्य᳘त्प्राणे᳘ ऽन्नं धीय᳘ते स᳘र्वमात्मा᳘नम᳘वति स᳘र्वमात्मा᳘नमनुॗव्येति॥
मूलम् - विस्वरम्
स वै स्वयमातृण्णायामावपति । प्राणो वै स्वयमातृण्णा । अन्नं पुरीषम् । प्राणे तदन्नं दधाति । तेन सर्वमात्मानं प्रच्छादयति । तस्माद्यत्प्राणे ऽन्नं धीयते- तत् सर्वमात्मानमवति, सर्वमात्मानमनुव्येति ॥ २ ॥
सायणः
स वै स्वयमातृण्णायामिति । स्वयमातृण्णायाः स्वयमातृण्णादेशे मध्ये सर्वमेव पुरीषं प्रथमं तावदावपति । ततस्तेन सर्वमात्मानं प्रच्छादयति कस्मात्पुनः स्वयमातृण्णायाः प्रदेशो लक्ष्यते । सामर्थ्यादस्यां तावच्चितावपि स्वयमातृण्णोपधीयते । अन्यथा कथं तस्यां पुरीषमोप्येत ? अथ प्रथमतृतीयचितावेतदित्युच्यते । ततः ‘तस्योपरि बन्धुः’ इत्यनेनार्तवं सर्वविषयप्रत्ययो बाध्येत अपि च तत्रापि स वै स्वयमातृण्णां लोकंपृणया प्रच्छादयतीति प्रच्छन्नायां लोकंपृणायां (सौख्यातपुरीषमशक्यामावापस्तुतस्मादवश्यं) स्वयमातृण्णादेशमध्ये आवपतीत्येतदभ्युपगन्तव्यम् । प्राणो वै स्वयमातृण्णा मध्यवर्त्तित्वात् । अन्नं पुरीषं फलं कामयतीत्यर्थः । मध्ये तथा कुर्वन्ति । स्वयमातृण्णायामावपंति । स यथा शुष्कासु सूर्मीसु ईरिता दीर्घकाष्ठकोष्ठीसु रात्रिः सुषिरैवमस्मिल्ँ लोके सम्भवति सर्वपुरीषं स्वयमातृण्णादेशे कूटयित्वा अनूक्यया लेख्यया सहितं छन्दाः प्राङ्मुख एव यावत्यः परिश्रितः स तेनैव अनुवाकानुकारेण दक्षिणावृत्तं छादयंस्तावदेव यावत् सैवाजायेत ॥ २-४ ॥
Eggeling
- He also strews it on (the place where lies) the naturally-perforated (brick), for the naturally-perforated one means vital air, and the loose soil
means food: he thus puts food into (the channels of) the vital air. In that manner 1 he covers the whole body (of the altar); whence the food which is put into (the channels of) the vital air benefits the whole body, extends over the whole body.
०३
विश्वास-प्रस्तुतिः
न᳘ स्वयमातृण्णा᳘यामा᳘वपेदि᳘त्यु है᳘क ऽआहुः॥
प्राणः᳘ स्वयमातृण्णा ने᳘त्प्राणा᳘नपिद᳘धानी᳘ति स वा᳘ ऽऐव᳘ व्वपेद᳘न्नेन वै᳘ प्राणा व्वि᳘ष्टब्धा यो वा ऽअ᳘न्नं ना᳘त्ति सम्वै त᳘स्य प्राणा᳘ रोहन्ति तद्य᳘स्य ह त᳘था कुर्व्व᳘न्ति य᳘था शु᳘ष्का सूर्मी᳘ सुषि᳘रैव᳘ᳫँ᳘ ह᳘ सो ऽमु᳘ष्मिल्ँ लोके स᳘म्भवति त᳘स्मात्स्वयमातृण्णा᳘या᳘मैव᳘ व्वपेत्॥
मूलम् - श्रीधरादि
न᳘ स्वयमातृण्णा᳘यामा᳘वपेदि᳘त्यु है᳘क ऽआहुः॥
प्राणः᳘ स्वयमातृण्णा ने᳘त्प्राणा᳘नपिद᳘धानी᳘ति स वा᳘ ऽऐव᳘ व्वपेद᳘न्नेन वै᳘ प्राणा व्वि᳘ष्टब्धा यो वा ऽअ᳘न्नं ना᳘त्ति सम्वै त᳘स्य प्राणा᳘ रोहन्ति तद्य᳘स्य ह त᳘था कुर्व्व᳘न्ति य᳘था शु᳘ष्का सूर्मी᳘ सुषि᳘रैव᳘ᳫँ᳘ ह᳘ सो ऽमु᳘ष्मिल्ँ लोके स᳘म्भवति त᳘स्मात्स्वयमातृण्णा᳘या᳘मैव᳘ व्वपेत्॥
मूलम् - Weber
न᳘ स्वयमातृणा᳘यामा᳘वपेदि᳘त्यु है᳘क आहुः॥
प्राणः᳘ स्वयमातृणा ने᳘त्प्राणा᳘नपिद᳘धानी᳘ति स वाॗ ऐव᳘ वपेद᳘न्नेन वै᳘ प्राणा वि᳘ष्टब्धा यो वा अ᳘न्नं ना᳘त्ति सं वै त᳘स्य प्राणा᳘ रोहन्ति तद्य᳘स्य ह त᳘था कुर्व᳘न्ति य᳘था शु᳘ष्का सूर्मी᳘ सुषिॗरैव᳘ᳫं᳘ हॗ सो ऽमु᳘ष्मिंलोके स᳘म्भवति त᳘स्मात्स्वयमातृणा᳘याॗमैव᳘ वपेत्॥
मूलम् - विस्वरम्
न स्वयमातृण्णायामावपेदित्यु हैके आहुः । प्राणः स्वयमातृण्णा । नेत्प्राणानपिदधानीति । स वा ऐव वपेत् । अन्नेन वै प्राणा विष्टब्धाः । यो वा अन्नं नात्ति- सं वै तस्य प्राणा रोहन्ति । तद् यस्य ह तथा कुर्वन्ति- यथा शुष्का सूर्मी सुषिरा- एवं ह सो ऽमुष्मिंल्लोके सम्भवति । तस्मात्स्वयमातृण्णायामैव वपेत् ॥ ३ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- ‘Let him not strew it on (the place of) the naturally-perforated one,’ say some, ’lest he should stop up (the channels of) the vital airs, for the naturally-perforated one is the vital air.’ Let him, nevertheless, strew it, for the vital airs are sustained by food, and whoever eats no food his (channels of the) vital airs grow up (and close): hence he for whom they act thus, comes to exist in yonder world even like a dry, hollow tube. Let him, therefore, by all means strew (loose soil) on (the place of) the naturally-perforated one.
०४
विश्वास-प्रस्तुतिः
(त्स्व) स्वयमातृण्णा᳘यामो᳘प्य॥
(प्या) अनू᳘क्यया[[!!]] संछाद᳘यन्नेत्या᳘ परिश्रि᳘द्भ्यः स ते᳘नैव᳘ दक्षिणावृ᳘ज्जघ᳘नेन स्वयमातृण्णा᳘ᳫँ᳘ संछाद᳘यन्नैत्या पु᳘नरनू᳘क्यायै॥
मूलम् - श्रीधरादि
(त्स्व) स्वयमातृण्णा᳘यामो᳘प्य॥
(प्या) अनू᳘क्यया[[!!]] संछाद᳘यन्नेत्या᳘ परिश्रि᳘द्भ्यः स ते᳘नैव᳘ दक्षिणावृ᳘ज्जघ᳘नेन स्वयमातृण्णा᳘ᳫँ᳘ संछाद᳘यन्नैत्या पु᳘नरनू᳘क्यायै॥
मूलम् - Weber
स्वयमातृणा᳘यामो᳘प्य॥
अनूक्य᳘या संछाद᳘यन्नेत्या᳘ परिश्रि᳘द्भ्यः स ते᳘नैव᳘ दक्षिणावृ᳘ज्जघ᳘नेन स्वयमातृणा᳘ᳫं᳘ संछाद᳘यन्नैत्या पु᳘नरनूॗक्यायै॥
मूलम् - विस्वरम्
स्वयमातृण्णायामोप्य, अनूक्यया संछादयन्नैति- आ परिश्रिद्भ्यः । स तेनैव दक्षिणावृज्जघनेन स्वयमातृण्णां संछादयन्नैति- आ पुनरनूक्यायै ॥ ४ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- Having strewed it on the svayamātr̥ṇṇā (place) he goes on covering (the altar) from the (brick) on the cross-spine up to the enclosing-stones. In the same way he goes on covering it from left to right behind the naturally-perforated one up to the one on the cross-spine again.
०५
विश्वास-प्रस्तुतिः
(या ऽआ) आत्मा᳘नम᳘ग्रे सं᳘छादयति॥
(त्या) आत्मा᳘ ह्येवा᳘ग्रे सम्भ᳘वतः सम्भ᳘वत्य᳘थ द᳘क्षिणं पक्षम᳘थ पु᳘च्छमथो᳘त्तरं त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा[[!!]]॥
मूलम् - श्रीधरादि
(या ऽआ) आत्मा᳘नम᳘ग्रे सं᳘छादयति॥
(त्या) आत्मा᳘ ह्येवा᳘ग्रे सम्भ᳘वतः सम्भ᳘वत्य᳘थ द᳘क्षिणं पक्षम᳘थ पु᳘च्छमथो᳘त्तरं त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा[[!!]]॥
मूलम् - Weber
आत्मा᳘नम᳘ग्रे सं᳘छादयति॥
आत्माॗ ह्येवा᳘ग्रे सम्भ᳘वतः सम्भ᳘वत्य᳘थ द᳘क्षिणम् पक्षम᳘थ पु᳘छमथो᳘त्तरं त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳟॥
मूलम् - विस्वरम्
आत्मानमग्रे संछादयति । आत्मा ह्येवाग्रे सम्भवतः संभवति । अथ दक्षिणं पक्षम् । अथोत्तरम् । तद्दक्षिणावृत् । तद्धि देवत्रा ॥ ५ ॥
सायणः
आत्मानमग्रे संछादयतीति । प्रसन्ने द्वे ॥ ५ ॥ ६ ॥
Eggeling
- The body (of the altar) he covers first, for of (a bird) that is produced, the body is the first to be produced; then the right wing, then the tail, then the left wing: that is in the rightward (sunwise) way, for this is (the way) with the gods.
०६
विश्वास-प्रस्तुतिः
स᳘ एष᳘ ऽप्राण᳘ ऽएव यत्पु᳘रीषम्॥
(न्ते᳘) ते᳘न स᳘र्व्वमात्मा᳘नं प्र᳘च्छादयति स᳘र्व्वस्मिंस्त᳘दात्म᳘न्प्राणं᳘ दधाति तद्य᳘द्धास्यैतद᳘ङ्गं᳘ नाभिप्राप्नुया᳘त्प्राणो᳘ हास्य तद᳘ङ्गं᳘[[!!]] नाभिप्रा᳘प्नुयाद्य᳘दु वै᳘ प्राणो᳘ ऽङ्गं᳘ नाभिप्राप्नो᳘ति शुष्यति[[!!]] वावैतन्म्ला᳘यति वा त᳘स्मादेनᳫँ᳭ स᳘र्व्वमे᳘वैते᳘न प्र᳘च्छादयेत्॥
मूलम् - श्रीधरादि
स᳘ एष᳘ ऽप्राण᳘ ऽएव यत्पु᳘रीषम्॥
(न्ते᳘) ते᳘न स᳘र्व्वमात्मा᳘नं प्र᳘च्छादयति स᳘र्व्वस्मिंस्त᳘दात्म᳘न्प्राणं᳘ दधाति तद्य᳘द्धास्यैतद᳘ङ्गं᳘ नाभिप्राप्नुया᳘त्प्राणो᳘ हास्य तद᳘ङ्गं᳘[[!!]] नाभिप्रा᳘प्नुयाद्य᳘दु वै᳘ प्राणो᳘ ऽङ्गं᳘ नाभिप्राप्नो᳘ति शुष्यति[[!!]] वावैतन्म्ला᳘यति वा त᳘स्मादेनᳫँ᳭ स᳘र्व्वमे᳘वैते᳘न प्र᳘च्छादयेत्॥
मूलम् - Weber
स᳘ एष᳘ प्राण᳘ एव यत्पु᳘रीषम्॥
ते᳘न स᳘र्वमात्मा᳘नम् प्र᳘छादयति स᳘र्वस्मिंस्त᳘दात्म᳘न्प्राणं᳘ दधाति तद्य᳘द्धास्यैतद᳘ङ्गं᳘ नाभिप्राप्नुया᳘त्प्राणो᳘ हास्य तॗद᳘ङ्गं नाभिप्रा᳘प्नुयाद्य᳘दु वै᳘ प्राणोॗ ऽङ्गं नाभिप्राप्नो᳘ति शु᳘ष्यति वा वै तन्म्ला᳘यति वा त᳘स्मादेनᳫं स᳘र्वमेॗवैते᳘न प्र᳘छादयेत्॥
मूलम् - विस्वरम्
स एष प्राण एव- यत्पुरीषम् । तेन सर्वमात्मानं प्रच्छादयति । सर्वस्मिंस्तदात्मन् प्राणं दधाति । तद् यद्धास्यैतदङ्गं नाभिप्राप्नुयात्- प्राणो हास्य तदङ्गं नाभिप्राप्नुयात् । यदु वै प्राणो ऽङ्गं नाभिप्राप्नोति- शुष्यति वावैतत्, म्लायति वा । तस्मादेनं सर्वमेतेन प्रच्छादयेत् ॥ ६ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- Now this loose soil, indeed, is the vital air; he therewith covers the whole body: he thus puts vital air into the whole body. And, assuredly, whatsoever member thereof he should not reach, that member of him (Agni) the vital air would not
reach; and whatever member the vital air does not reach that either dries up or withers away: let him, therefore, cover it entirely therewith.
०७
विश्वास-प्रस्तुतिः
(दि᳘) इ᳘न्द्रं व्वि᳘श्वा ऽअवीवृधन्निति[[!!]]॥
(ती᳘) इ᳘न्द्रᳫँ᳭ हि स᳘र्व्वाणि भूता᳘नि व्वर्ध᳘यन्ति समुद्र᳘व्यचसं गि᳘र ऽइ᳘ति महिमा᳘नमस्यैत᳘दाह रथी᳘तमᳫँ᳭ रथी᳘नामि᳘ति रथि᳘तमो᳘ ह्येष᳘ रथि᳘नां व्वा᳘जानाᳫँ᳭ स᳘त्पतिं प᳘तिमित्य᳘न्नं वै व्वा᳘जा ऽअ᳘न्नानाᳫँ᳭ स᳘त्पतिं प᳘तिमि᳘त्येत᳘दै᳘न्द्र्या ऽनुष्टु᳘भा नि᳘वपत्यैन्द्रᳫँ᳭ हि पु᳘रीषं त᳘देत᳘दर्ध᳘मग्नेर्यत्पु᳘रीषमर्ध᳘मैष्टकम्[[!!]]॥
मूलम् - श्रीधरादि
(दि᳘) इ᳘न्द्रं व्वि᳘श्वा ऽअवीवृधन्निति[[!!]]॥
(ती᳘) इ᳘न्द्रᳫँ᳭ हि स᳘र्व्वाणि भूता᳘नि व्वर्ध᳘यन्ति समुद्र᳘व्यचसं गि᳘र ऽइ᳘ति महिमा᳘नमस्यैत᳘दाह रथी᳘तमᳫँ᳭ रथी᳘नामि᳘ति रथि᳘तमो᳘ ह्येष᳘ रथि᳘नां व्वा᳘जानाᳫँ᳭ स᳘त्पतिं प᳘तिमित्य᳘न्नं वै व्वा᳘जा ऽअ᳘न्नानाᳫँ᳭ स᳘त्पतिं प᳘तिमि᳘त्येत᳘दै᳘न्द्र्या ऽनुष्टु᳘भा नि᳘वपत्यैन्द्रᳫँ᳭ हि पु᳘रीषं त᳘देत᳘दर्ध᳘मग्नेर्यत्पु᳘रीषमर्ध᳘मैष्टकम्[[!!]]॥
मूलम् - Weber
इ᳘न्द्रं वि᳘श्वा अ᳘वीवृधन्नि᳘ति॥
इ᳘न्द्रᳫं हि स᳘र्वाणि भूता᳘नि वर्ध᳘यन्ति समुद्र᳘व्यचसं गि᳘र इ᳘ति महिमा᳘नमस्यैत᳘दाह रथी᳘तमं रथी᳘नामि᳘ति रथि᳘तमोॗ ह्येष᳘ रथि᳘नां वा᳘जानाᳫं स᳘त्पतिम् प᳘तिमित्य᳘न्नं वै वा᳘जा अ᳘न्नानाᳫं स᳘त्पतिम् प᳘तिमि᳘त्येत᳘दैॗन्द्र्यानुष्टु᳘भा नि᳘वपत्यैन्द्रᳫं हि पु᳘रीषं त᳘देत᳘दर्ध᳘मग्नेर्यत्पु᳘रीषमर्ध᳘मैष्टक᳘म्॥
मूलम् - विस्वरम्
“इन्द्रं विश्वा अवीवृधन्”- इति । इन्द्रं हि सर्वाणि भूतानि वर्धयन्ति । “समुद्रव्यचसं गिरः”- इति । महिमानमस्यैतदाह । “रथीतमं रथीनाम्”- इति । रथितमो ह्येष रथिनाम् । “वाजानां सत्पतिं पतिम्”- (वा. सं. १५ । ६१) इति । अन्नं वै वाजाः । अन्नानां सत्पतिं पतिमित्येतत् । ऐन्द्र्या ऽनुष्टुभा निवपति । ऐन्द्रं हि पुरीषम् । तदेतदर्धमग्नेः- यत्पुरीषम्, अर्धमैष्टकम् ॥ ७ ॥
सायणः
इन्द्रं विश्वा अवीवृधन्निति । ऐन्द्रमिमं (पुरीषशरीरमयान्युप्ता मनं सर्वावारिनि) सामात्मिका वर्द्धयन्त्वित्यनेन मन्त्रार्थो दर्शित इति द्रष्टव्यम् । स इन्द्रं इति वचनात् ॥ ७ ॥
Eggeling
- [He scatters the loose soil 2, with, Vāj. S. XV, 56; R̥g-veda I, 11, 1], ‘They all have magnified Indra,’–for all beings, indeed, magnify Indra;–’the voices, him, of ocean-wide extent,’–he thereby alludes to his greatness;–’the foremost of charioteers,’–for of charioteers he is the greatest charioteer;–’the lordly lord of viands,’–viands mean food: thus, ’the lordly lord of food.’ With this anushṭubh verse addressed to Indra he scatters it; for the loose soil belongs to Indra: that (layer of) loose soil is one half of Agni (the fire-altar), the (other) half is the collection of bricks.
०८
विश्वास-प्रस्तुतिः
(न्त᳘) त᳘दाहुः॥
(र्य) यत्स᳘र्व्वैश्छ᳘न्दोभिः स᳘र्व्वाभिर्देव᳘ताभिरि᳘ष्टका ऽउपद᳘धात्य᳘थैतदे᳘कयैकदेव᳘त्यया निव᳘पति कथ᳘मेत᳘दर्ध᳘मग्नेरिती᳘न्द्रो वै स᳘र्व्वान्देवा᳘न्प्रतिस्तद्य᳘दैन्द्र्या᳘ निव᳘पति ते᳘नैत᳘दर्ध᳘मग्नेर᳘थ य᳘दनुष्टु᳘भा व्वाग्वा᳘ ऽअनुष्टुब्वा᳘गु स᳘र्व्वाणि च्छ᳘न्दᳫँ᳭सि ते᳘नो ऽए᳘वार्धम्[[!!]]॥
मूलम् - श्रीधरादि
(न्त᳘) त᳘दाहुः॥
(र्य) यत्स᳘र्व्वैश्छ᳘न्दोभिः स᳘र्व्वाभिर्देव᳘ताभिरि᳘ष्टका ऽउपद᳘धात्य᳘थैतदे᳘कयैकदेव᳘त्यया निव᳘पति कथ᳘मेत᳘दर्ध᳘मग्नेरिती᳘न्द्रो वै स᳘र्व्वान्देवा᳘न्प्रतिस्तद्य᳘दैन्द्र्या᳘ निव᳘पति ते᳘नैत᳘दर्ध᳘मग्नेर᳘थ य᳘दनुष्टु᳘भा व्वाग्वा᳘ ऽअनुष्टुब्वा᳘गु स᳘र्व्वाणि च्छ᳘न्दᳫँ᳭सि ते᳘नो ऽए᳘वार्धम्[[!!]]॥
मूलम् - Weber
त᳘दाहुः॥
यत्स᳘र्वैश्छ᳘न्दोभिः स᳘र्वाभिर्देव᳘ताभिरि᳘ष्टका उपद᳘धात्य᳘थैतदे᳘कयैकदेव᳘त्यया निव᳘पति कथ᳘मेत᳘दर्ध᳘मग्नेरिती᳘न्द्रो वै स᳘र्वान्देवा᳘न्प्रतिस्तद्य᳘दैन्द्र्या᳘ निव᳘पति ते᳘नैत᳘दर्ध᳘मग्नेर᳘थ य᳘दनुष्टु᳘भा वाग्वा᳘ अनुष्टुब्वा᳘गु स᳘र्वाणि छ᳘न्दांसि ते᳘नो एॗवार्ध᳘म्॥
मूलम् - विस्वरम्
तदाहुः- यत्सर्वैश्छन्दोभिः सवाभिर्देवताभिरिष्टका उपदधाति, अथैतदेकयैकदेवत्यया निवपति, कथमेतदर्धमग्नेरिति । इन्द्रो वै सर्वान्देवान्प्रतिप्रतिः । तद् यदैन्द्या निवपति- तेनैव तदर्धमग्नेः । अथ यदनुष्टुभा । वाग्वा अनुष्टुप् । वागु सर्वाणि च्छन्दांसि । तेनो एवार्धम् ॥ ८ ॥
सायणः
तदाहुर्यत्सर्वैश्छन्दोभिरिति । “प्रकारे गुणवचनस्य” (पा. ८ । १ । १२) इति प्रतेर्द्विर्वचनं कर्मधारयवद्रूपमेतत्प्रतिप्रतिरिति । गुणवचनत्वं सादृश्ये वक्तव्यम् । इन्द्रः सर्वेषां देवानां सदृशः प्रतिरूपमित्यर्थः ॥ ८ ॥
Eggeling
- Here, now, they say, ‘Whilst he lays down the bricks with all kinds of metres, and with (verses addressed to) all deities, he now scatters (the soil) with a single (verse) addressed to a single deity,–how is this one half of Agni?’ Indra, surely, is equal to all the gods; hence in that he scatters it with a (verse) addressed to Indra, this (soil) is one half of Agni. And as to its being (done) with an anushṭubh verse,–the Anushṭubh is speech, and all metres are speech: thereby also it is one half.
०९
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ व्विकर्णीं᳘ च स्वयमातृण्णां चो᳘पदधाति॥
व्वायुर्व्वै᳘ व्विकर्णी द्यौ᳘रुत्तमा᳘ स्वयमातृण्णा᳘ व्वायुं[[!!]] च तद्दि᳘वं चो᳘पदधात्युत्तमे ऽउ᳘पदधात्युत्तमे हि᳘ व्वायु᳘श्च द्यौ᳘श्च स᳘ᳫँ᳘स्पृष्टे स᳘ᳫँ᳘स्पृष्टे हि᳘ व्वायु᳘श्च द्यौ᳘श्च पू᳘र्व्वां विकर्णीमु᳘पदधात्यर्व्वाची᳘नं त᳘द्दिवो᳘ व्वायुं᳘ दधाति त᳘स्मादे᳘षो ऽर्व्वाची᳘नमेव व्वा᳘तः पवते॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ व्विकर्णीं᳘ च स्वयमातृण्णां चो᳘पदधाति॥
व्वायुर्व्वै᳘ व्विकर्णी द्यौ᳘रुत्तमा᳘ स्वयमातृण्णा᳘ व्वायुं[[!!]] च तद्दि᳘वं चो᳘पदधात्युत्तमे ऽउ᳘पदधात्युत्तमे हि᳘ व्वायु᳘श्च द्यौ᳘श्च स᳘ᳫँ᳘स्पृष्टे स᳘ᳫँ᳘स्पृष्टे हि᳘ व्वायु᳘श्च द्यौ᳘श्च पू᳘र्व्वां विकर्णीमु᳘पदधात्यर्व्वाची᳘नं त᳘द्दिवो᳘ व्वायुं᳘ दधाति त᳘स्मादे᳘षो ऽर्व्वाची᳘नमेव व्वा᳘तः पवते॥
मूलम् - Weber
अ᳘थ विकर्णीं᳘ च स्वयमातृणां चो᳘पदधाति॥
वायुर्वै᳘ विकर्णी द्यौ᳘रुत्तमा᳘ स्वयमातृणा᳘ वायुं᳘ च तद्दि᳘वं चो᳘पदधात्युत्तमे उ᳘पदधात्युत्तमे हि᳘ वायु᳘श्च द्यौ᳘श्च स᳘ᳫं᳘स्पृष्टे स᳘ᳫं᳘स्पृष्टे हि᳘ वायु᳘श्च द्यौ᳘श्च पू᳘र्वां विकर्णीमु᳘पदधात्यर्वाची᳘नं त᳘द्दिवो᳘ वायुं᳘ दधाति त᳘स्मादेॗषो ऽर्वाची᳘नमेव वा᳘तः पवते॥
मूलम् - विस्वरम्
अथ विकर्णीं च स्वयमातृण्णां चोपदधाति । वायुर्वै विकर्णी । द्यौरुत्तमा स्वयमातृण्णा । वायुं च तद्दिवं चोपदधाति । उत्तमे उपदधाति । उत्तमे हि वायुश्च द्यौश्च । संस्पृष्टे । संस्पृष्टे हि वायुश्च द्यौश्च । पूर्वां विकर्णीमुपदधाति । अर्वाचीनं तद्दिवो वायुं दधाति । तस्मादेषो ऽर्वाचीनमेव वातः पवते ॥ ९ ॥
सायणः
अथ विकर्णीं चेति । विष्णोः स्थानाकाराश्छिद्राः शर्कराः स्वयमातृण्णाः स्वयंछिद्राः शर्करास्तयोः पुरीषस्योपधानमेताभिस्त्रयोदशभिः 3 कण्डिकाभिः प्रपञ्च्यते । तत्र आद्या-तृतीया द्वादशी त्रयोदशी एताः साधारण्य एव द्वितीयया चतुर्थ्या विकर्ण्या किंचिदुच्यते । शिष्टाभिः स्वयमातृण्णायाः प्रायः (प्रारवावेता) पूर्वं प्रथमां विकर्णीमुपदधाति ॥ ९ ॥
Eggeling
- He then lays down the Vikarṇī and Svayamātr̥ṇṇā (bricks),–the Vikarṇī is Vāyu (the wind), and the last naturally-perforated one is the sky: he thus sets up both the wind and the sky. He lays them down as the last (highest), for wind and sky are the highest; and close together, for wind and
sky are close together. The Vikarṇī he lays down first: he thereby places the wind on this side of the sky; whence that wind blows only on this side (thereof).
१०
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ व्विकर्णी᳘मुपद᳘धाति॥
य᳘त्र वा᳘ ऽअदो᳘ ऽश्वं चि᳘तिमवघ्राप᳘यन्ति त᳘दसा᳘वादित्य᳘ ऽइमाल्ँ᳘लोकान्त्सू᳘त्रे समा᳘वयते तद्यत्तत्सू᳘त्रं व्वायुः स स यः स᳘ व्वायु᳘रेषा सा᳘ व्विकर्णी तद्य᳘देता᳘मुपद᳘धात्यसा᳘वेव त᳘दादित्य᳘ ऽइमाल्ँ᳘लोकान्त्सू᳘त्रे समा᳘वयते॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ व्विकर्णी᳘मुपद᳘धाति॥
य᳘त्र वा᳘ ऽअदो᳘ ऽश्वं चि᳘तिमवघ्राप᳘यन्ति त᳘दसा᳘वादित्य᳘ ऽइमाल्ँ᳘लोकान्त्सू᳘त्रे समा᳘वयते तद्यत्तत्सू᳘त्रं व्वायुः स स यः स᳘ व्वायु᳘रेषा सा᳘ व्विकर्णी तद्य᳘देता᳘मुपद᳘धात्यसा᳘वेव त᳘दादित्य᳘ ऽइमाल्ँ᳘लोकान्त्सू᳘त्रे समा᳘वयते॥
मूलम् - Weber
य᳘द्वेव᳘ विकर्णी᳘मुपद᳘धाति॥
य᳘त्र वा᳘ अदो᳘ ऽश्वं चि᳘तिमवघ्राप᳘यन्ति त᳘दसा᳘वादित्य᳘ इमां᳘लोकान्त्सू᳘त्रे समा᳘वयते तद्यत्तत्सू᳘त्रं वायुः स स यः स᳘ वायु᳘रेषा सा᳘ विकर्णी तद्य᳘देता᳘मुपद᳘धात्यसा᳘वेव त᳘दादित्य᳘ इमां᳘लोकान्त्सू᳘त्रे समा᳘वयते॥
मूलम् - विस्वरम्
यद्वेव विकर्णीमुपदधाति । यत्र वा अदो ऽश्वं चितिमवघ्रापयन्ति- तदसावादित्य इमांल्लोकान्त्सूत्रे समावयते । तद् यत्तत्सूत्रम्- वायुः सः । स यः स वायुः- एषा सा विकर्णी । तद् यदेतामुपदधाति- असावेव तदादित्य इमांल्लोकान्त्सूत्रे समावयते ॥ १० ॥
सायणः
यद्वेव विकर्णीमिति । ‘समावयते’ समापूर्वकस्य “वेञ् तन्तुसन्ताने”- (धा. पा. भ्वा. उ. १०३१) इत्येतस्य रूपम् । सूत्रस्योपरि सन्तनोति इत्यर्थः ॥ १० ॥
Eggeling
- And, again, as to why he lays down the Vikarṇī. When, on that (former) occasion, they make the horse smell (the pile of bricks of) the (first) layer 4, then yonder sun strings these worlds to himself on a thread. Now that thread is the same as the wind; and that wind is the same as this Vikarṇī: thus when he lays down the latter, then yonder sun strings to himself these worlds on a thread.
११
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ व्विकर्णीं᳘ च स्वयमातृण्णां᳘ चोपद᳘धाति॥
(त्या᳘) आ᳘युर्व्वै᳘ व्विकर्णी᳘ प्राणः᳘ स्वयमातृण्णा᳘ ऽऽयुश्च त᳘त्प्राणं चो᳘पदधात्युत्तमे ऽउ᳘पदधात्युत्तमे ह्या᳘युश्च प्राण᳘श्च स᳘ᳫँ᳘स्पृष्टे स᳘ᳫँ᳘स्पृष्टे ह्या᳘युश्च प्राण᳘श्च पू᳘र्व्वामु᳘त्तरां व्विकर्णीमु᳘पदधात्या᳘युषा त᳘त्प्राण᳘मुभय᳘तः प᳘रिगृह्णाति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ व्विकर्णीं᳘ च स्वयमातृण्णां᳘ चोपद᳘धाति॥
(त्या᳘) आ᳘युर्व्वै᳘ व्विकर्णी᳘ प्राणः᳘ स्वयमातृण्णा᳘ ऽऽयुश्च त᳘त्प्राणं चो᳘पदधात्युत्तमे ऽउ᳘पदधात्युत्तमे ह्या᳘युश्च प्राण᳘श्च स᳘ᳫँ᳘स्पृष्टे स᳘ᳫँ᳘स्पृष्टे ह्या᳘युश्च प्राण᳘श्च पू᳘र्व्वामु᳘त्तरां व्विकर्णीमु᳘पदधात्या᳘युषा त᳘त्प्राण᳘मुभय᳘तः प᳘रिगृह्णाति॥
मूलम् - Weber
य᳘द्वेव᳘ विकर्णीं᳘ च स्वयमातृणां᳘ चोपद᳘धाति॥
आ᳘युर्वै᳘ विकर्णी᳘ प्राणः᳘ स्वयमातृणा᳘युश्च त᳘त्प्राणं चो᳘पदधात्युत्तमे उ᳘पदधात्युत्तमे ह्या᳘युश्च प्राण᳘श्च स᳘ᳫं᳘स्पृष्टे स᳘ᳫं᳘स्पृष्टे ह्या᳘युश्च प्राण᳘श्च पू᳘र्वामु᳘त्तरां विकर्णीमु᳘पदधात्या᳘युषा त᳘त्प्राण᳘मुभय᳘तः प᳘रिगृह्णाति॥
मूलम् - विस्वरम्
यद्वेव विकर्णीं च स्वयमातृण्णां चोपदधाति । आयुर्वै विकर्णी, प्राणः स्वयमातृण्णा । आयुश्च तत्प्राणं चोपदधाति । उत्तमे उपदधाति । उत्तमे ह्यायुश्च प्राणश्च । संस्पृष्टे । संस्पृष्टे ह्यायुश्च प्राणश्च । पूर्वामुत्तरां विकर्णीमुपदधाति । आयुषा तत्प्राणमुभयतः परिगृह्णाति ॥ ११ ॥
सायणः
यद्वेव विकर्णीं च स्वयमातृण्णां चेति । ‘आयुः’ (स्वयमातृण्णा) विकर्णी आग्नेयेन मन्त्रेणोपधानात् । उत्तमे ह्यायुश्च प्राणश्चेति सर्वाङ्गे व्याधिते ऽपि उत्तमे ऽन्तकाले ( ) एवोपसंह्रियत इत्यभिप्रायमेतत् । ‘सँस्पृष्टे ह्यायुश्चेति’ । प्राणाग्न्योरत्यन्तसम्पर्कं दर्शयति- पूर्वां क्रमतः उत्तरां दैवतः । उत्तरपार्श्वे स्वयमातृण्णायाः, विकर्णीमुपदधाति । आयुषा ऽग्निना तत्प्राणं वायुमुभयोः पूर्वतः उत्तरतश्च परिगृह्णाति । कायाग्निं परित एव प्राणो मध्ये संचरति इत्यभिप्रायः ॥ ११ ॥
Eggeling
- And, again, as to why he lays down the Vikarṇī and the Svayamātr̥ṇṇā; the Vikarṇī, doubtless, is vital power, and the naturally-perforated one is vital air: he thus bestows both vital power and vital air. He lays them down as the two last (highest bricks), because vital power and vital air are the two highest (endowments); and close together, because vital power and vital air are closely (bound) together. The upper (northern) Vikarṇī he lays down first 5: he thereby encloses the vital air on both sides in vital power.
१२
विश्वास-प्रस्तुतिः
प्रो᳘थद᳘श्वो न य᳘वसे॥
(से ऽवि) अविष्य᳘न्यदा᳘ महः᳘ संव्व᳘रणाद्व्य᳘स्थात्। आ᳘दस्य व्वा᳘तो ऽअ᳘नुवाति शोचिर᳘ध स्म ते व्व्र᳘जनं कृष्ण᳘मस्ती᳘ति यदा वा᳘ ऽएत᳘स्य व्वा᳘तो ऽनुवा᳘ति शोचिर᳘थैत᳘स्य व्व्र᳘जनं कृष्णं᳘ भवति त्रिष्टुभो᳘पदधाति त्रै᳘ष्टुभो हि᳘ व्वायु᳘राग्ने᳘य्या ऽग्निकर्म ह्य᳘निरुक्तया᳘ ऽनिरुक्तो हि᳘ व्वायुर᳘थ यद्वा᳘त इत्या᳘ह व्वा᳘तो हि᳘ व्वायुः[[!!]]॥ (शतम् ४७००)॥
मूलम् - श्रीधरादि
प्रो᳘थद᳘श्वो न य᳘वसे॥
(से ऽवि) अविष्य᳘न्यदा᳘ महः᳘ संव्व᳘रणाद्व्य᳘स्थात्। आ᳘दस्य व्वा᳘तो ऽअ᳘नुवाति शोचिर᳘ध स्म ते व्व्र᳘जनं कृष्ण᳘मस्ती᳘ति यदा वा᳘ ऽएत᳘स्य व्वा᳘तो ऽनुवा᳘ति शोचिर᳘थैत᳘स्य व्व्र᳘जनं कृष्णं᳘ भवति त्रिष्टुभो᳘पदधाति त्रै᳘ष्टुभो हि᳘ व्वायु᳘राग्ने᳘य्या ऽग्निकर्म ह्य᳘निरुक्तया᳘ ऽनिरुक्तो हि᳘ व्वायुर᳘थ यद्वा᳘त इत्या᳘ह व्वा᳘तो हि᳘ व्वायुः[[!!]]॥ (शतम् ४७००)॥
मूलम् - Weber
प्रो᳘थद᳘श्वो न य᳘वसे॥
ऽविष्य᳘न्यदा᳘ महः᳘ संव᳘रणाद्व्य᳘स्थात् आ᳘दस्य वा᳘तो अ᳘नुवाति शोचिर᳘ध स्म ते व्र᳘जनं कृष्ण᳘मस्ती᳘ति यदा वा᳘ एत᳘स्य वा᳘तो ऽनुवा᳘ति शोचिर᳘थैत᳘स्य व्र᳘जनं कृष्ण᳘म् भवति त्रिष्टुभो᳘पदधाति त्रै᳘ष्टुभो हि᳘ वायु᳘राग्नेॗय्याग्निकर्म ह्य᳘निरुक्तया᳘निरुक्तो हि᳘ वायुर᳘थ यद्वा᳘त इत्या᳘ह वा᳘तो हि᳘ वायुः᳟॥
मूलम् - विस्वरम्
“प्रोथदश्वो न यवसे ऽविष्यन् यदा महः संवरणाद्व्यस्थात् । आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति”- (वा. सं. १५ । ६२) इति । यदा वा एतस्य वातो ऽनुवाति शोचिरथैतस्य व्रजनं कृष्णं भवति । त्रिष्टुभोपदधाति । त्रैष्टुभो हि वायुः । आग्नेय्या अग्निकर्म हि । अनिरुक्तया । अनिरुक्तो हि वायुः । अथ यद्वात इत्याह- वातो हि वायुः ॥ १२ ॥
सायणः
प्रोथदश्व इति । अश्वो यदा तावद्वायुर्व्यस्थात् प्रकाशीभवति । इति दर्शनं तदा योनेः शोचिरधः (अन्नेन वाविनयस्तामसूपदधाति) इति मन्त्रार्थः । उपहर्त्तव्यः यदा वायुरग्निः विकर्णीति दर्शनं तदा यस्य प्रोथत् शोचिरधः वाति यस्य च व्रजनं कृष्णं भवति तामहमुपदधामीति ॥ १२ ॥
Eggeling
- [He lays it down, with, Vāj. S. XV, 62; R̥g-veda VII, 3, 2], ‘When, like a snorting steed, that longeth for the pasture, he started forth from the great enclosure, then the wind fanned his flame, and black then was thy path;’–for when the wind fans his (Agni’s) flame,
then his path does become black. With a trishṭubh verse he lays it down, because Vāyu (the wind) is of trishṭubh nature; with one relating to Agni, because it is Agni’s performance; with an undefined one, because Vāyu is undefined. And as to his saying ’the wind,’ Vāyu indeed is the wind.
१३
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ स्वयमातृण्णा᳘मुपदधाति॥
(त्या) आ᳘योष्ट्वा स᳘दने सादयामी᳘त्येष वा᳘ ऽआयुस्त᳘स्यैतत्स᳘दनम᳘वत ऽइ᳘त्येष᳘[[!!]] हीदᳫँ᳭ स᳘र्व्वम᳘वति च्छाया᳘यामि᳘त्येत᳘स्य᳘ हीदᳫँ᳭ स᳘र्व्वं छाया᳘याᳫँ᳭ समुद्र᳘स्य[[!!]] हृ᳘दय ऽइ᳘ति समुद्र᳘स्य᳘ ह्येतद्धृ᳘दयᳫँ᳭ रश्मीव᳘तीं भा᳘स्वतीमि᳘ति रश्मीव᳘ती हि द्यौर्भा᳘स्वत्या या द्यां भास्या᳘ पृथिवी᳘मोर्व्वन्त᳘रिक्षमि᳘त्येव᳘ᳫँँ᳘ ह्येष᳘ ऽइमाल्ँ᳘लोका᳘नाभा᳘ति॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ स्वयमातृण्णा᳘मुपदधाति॥
(त्या) आ᳘योष्ट्वा स᳘दने सादयामी᳘त्येष वा᳘ ऽआयुस्त᳘स्यैतत्स᳘दनम᳘वत ऽइ᳘त्येष᳘[[!!]] हीदᳫँ᳭ स᳘र्व्वम᳘वति च्छाया᳘यामि᳘त्येत᳘स्य᳘ हीदᳫँ᳭ स᳘र्व्वं छाया᳘याᳫँ᳭ समुद्र᳘स्य[[!!]] हृ᳘दय ऽइ᳘ति समुद्र᳘स्य᳘ ह्येतद्धृ᳘दयᳫँ᳭ रश्मीव᳘तीं भा᳘स्वतीमि᳘ति रश्मीव᳘ती हि द्यौर्भा᳘स्वत्या या द्यां भास्या᳘ पृथिवी᳘मोर्व्वन्त᳘रिक्षमि᳘त्येव᳘ᳫँँ᳘ ह्येष᳘ ऽइमाल्ँ᳘लोका᳘नाभा᳘ति॥
मूलम् - Weber
अ᳘थ स्वयमातृणा᳘मुपदधाति॥
आ᳘योष्ट्वा स᳘दने सादयामी᳘त्येष वा आ᳘युस्त᳘स्यैतत्स᳘दनम᳘वत इ᳘त्येषॗ हीदᳫं स᳘र्वम᳘वति छाया᳘यामित्येत᳘स्यॗ हीदᳫं स᳘र्वं छाया᳘याᳫं समुद्र᳘स्यॗह्येतद्धृ᳘दयं रश्मीव᳘तीम् भा᳘स्वतीमि᳘ति रश्मीव᳘ती हि द्यौर्भा᳘स्वत्या या द्याम् भास्या᳘ पृथिवीॗमोर्व᳘न्त᳘रिक्षमित्येॗवᳫं ह्येष᳘ इमां᳘लोका᳘नाभा᳘ति॥
मूलम् - विस्वरम्
अथ स्वयमातृण्णामुपदधाति । “आयोष्ट्वा सदने सादयामि”- इति । एष वा आयुः । तस्यैतत्सदनम् । “अवतः”- इति । एष हीदं सर्वमवति । “छायायाम्”- इति । एतस्य हीदं सर्वं छायायाम् । “समुद्रस्य हृदये”- इति । समुद्रस्य ह्येतद्धृदयम् । “रश्मीवतीं भास्वतीम्”- इति । रश्मीवती हि द्यौः, भास्वती । “आ या द्यां भास्या पृथिवीमोर्वन्तरिक्षम्”- (वा० सं० १५ । ६३) इति । एवं ह्येष इमांल्लोकानाभाति ॥ १३ ॥
सायणः
अथ स्वयमातृण्णामिति । (स्वयमातृण्णामायुरमादित्ययसाश्वेः तदातद्य) एष आदित्य इदं जगत् सर्वमवति रक्षति न प्रकाशादिना ह्येतस्य आदित्यस्येति (दृदं सर्वधाययां) अवननिमित्तं वर्त्तते । तदनु च निमित्तस्य वृत्तिः समुद्राद्युदकस्यैतदयं हृदयमिति तत्तु न बहिर्द्यौरिति द्यौः सेयं स्वयमातृण्णा इत्यभिप्रायः । एवं हि सहितानि लोकानि यः सविता ऽऽभाति तत्त्वया ( ) भास्वतीमिति मंत्रे द्यौरिष्टकासक्ता कथं ब्राह्मणा । एवं ह्येतदादित्यो विवृत्य नैष दोषः । न हि द्योरिष्टा सा ऽऽभाति किं तर्हि आदित्यसम्पर्कात् तनू य ( ) दिव इति एवं भाव एव ब्राह्मणरक्षणे दर्शितः । ‘ह्येष इमाल्ँ लोकानाभाति’ तत्संपर्काद्द्यौरिष्टका चेत्यर्थः ॥ १३॥
Eggeling
- He then lays down the Svayamātr̥ṇṇā, with (Vāj. S. XV, 63), ‘I seat thee in the seat of the vital power,’–the vital power, doubtless, is yonder (sun), and his seat this is;–’the animating,’–for he (the sun) animates all this universe;–‘in the shadow,’–for in his shadow all this universe is;–‘in the heart of the sea,’–for this, indeed, is the heart of the (aerial) sea 6;–’the radiant, the luminous,’–for radiant and luminous is the sky;–’thou that illumines the sky, the earth and the wide air;’–for thus, indeed, does he (the sun) illumine these worlds.
१४
विश्वास-प्रस्तुतिः
परमेष्ठी᳘ त्वा सादयत्वि᳘ति॥
परमेष्ठी᳘ ह्येतां᳘ पञ्चमीं᳘ चि᳘तिम᳘पश्यत्॥
मूलम् - श्रीधरादि
परमेष्ठी᳘ त्वा सादयत्वि᳘ति॥
परमेष्ठी᳘ ह्येतां᳘ पञ्चमीं᳘ चि᳘तिम᳘पश्यत्॥
मूलम् - Weber
परमेष्ठी᳘ त्वा सादयत्वि᳘ति॥
परमेष्ठीॗ ह्येता᳘म् पञ्चमीं चि᳘तिम᳘पश्यन्॥
मूलम् - विस्वरम्
“परमेष्ठी त्वा सादयतु”- इति । परमेष्ठी ह्येतां पञ्चमीं चितिमपश्यत् ॥ १४ ॥
सायणः
परमेष्ठी त्वेति । षट् प्रसन्नाः ॥ १४-१९ ॥
Eggeling
- ‘May Parameshṭḥin settle thee,’–for Parameshṭḥin saw this fifth layer 7.
१५
विश्वास-प्रस्तुतिः
(द्य᳘) य᳘द्वेव᳘ परमेष्ठि᳘नोपद᳘धाति॥
प्रजा᳘पतिं व्वि᳘स्रस्तं देव᳘ता ऽआदा᳘य व्यु᳘दक्रामंस्त᳘स्य परमेष्ठी शि᳘र ऽआदा᳘योत्क्र᳘म्यातिष्ठत्॥
मूलम् - श्रीधरादि
(द्य᳘) य᳘द्वेव᳘ परमेष्ठि᳘नोपद᳘धाति॥
प्रजा᳘पतिं व्वि᳘स्रस्तं देव᳘ता ऽआदा᳘य व्यु᳘दक्रामंस्त᳘स्य परमेष्ठी शि᳘र ऽआदा᳘योत्क्र᳘म्यातिष्ठत्॥
मूलम् - Weber
य᳘द्वेव᳘ परमेष्ठि᳘नोपद᳘धाति॥
प्रजा᳘पतिं वि᳘स्रस्तं देव᳘ता आदा᳘य व्यु᳘दक्रामंस्त᳘स्य परमेष्ठी शि᳘र आदा᳘योत्क्र᳘म्यातिष्ठन्॥
मूलम् - विस्वरम्
यद्वेव परमेष्ठिनोपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामन् । तस्य परमेष्ठी शिर आदायोत्क्रम्यातिष्ठत् ॥ १५ ॥
सायणः
[व्याख्यानं चतुर्दशे]
Eggeling
- And, again, as to why he lays it down by means of Parameshṭḥin. When Prajāpati had become disjointed, the deities took him and went off in different directions. Parameshṭḥin took his head, and kept going away from him.
१६
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘मब्रवीत्॥
(दु᳘) उ᳘प मे᳘हि प्र᳘ति म ऽएत᳘द्धेहि ये᳘न मे त्व᳘मुद᳘क्रमीरि᳘ति किं᳘ मे त᳘तो भविष्यती᳘ति त्वद्देव᳘त्यमेव᳘ म ऽएत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘त्परमेष्ठी प्र᳘त्यदधात्॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘मब्रवीत्॥
(दु᳘) उ᳘प मे᳘हि प्र᳘ति म ऽएत᳘द्धेहि ये᳘न मे त्व᳘मुद᳘क्रमीरि᳘ति किं᳘ मे त᳘तो भविष्यती᳘ति त्वद्देव᳘त्यमेव᳘ म ऽएत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘त्परमेष्ठी प्र᳘त्यदधात्॥
मूलम् - Weber
त᳘मब्रवीत्॥
उ᳘प मे᳘हि म एत᳘द्धेहि ये᳘न मे त्व᳘मुद᳘क्रमीरि᳘ति कि᳘म् मे त᳘तो भविष्यती᳘ति त्वद्देव᳘त्यमेव᳘ म एत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘त्परमेष्ठी प्र᳘त्यदधात्॥
मूलम् - विस्वरम्
तमब्रवीत्- उप मेहि, प्रति म एतद्धेहि, येन मे त्वमुदक्रमीरिति । किं मे ततो भविष्यतीति । त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति । तथेति । तदस्मिन्नेतत् परमेष्ठी प्रत्यदधात् ॥ १६ ॥
सायणः
[व्याख्यानं चतुर्दशे]
Eggeling
- He spake to him, ‘Come to me and restore unto me that wherewith thou hast gone from me!’–‘What will therefrom accrue to me?’–‘That part of my body shall be sacred to thee!’–‘So be it!’ So Parameshṭḥin restored that to him.
१७
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘द्यै᳘षोत्तमा᳘ स्वयमातृ᳘ण्णा॥
(ण्णै) एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देताम᳘त्रोपद᳘धाति य᳘दे᳘वास्यै᳘षा ऽऽत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेतामत्रो᳘पदधाति॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘द्यै᳘षोत्तमा᳘ स्वयमातृ᳘ण्णा॥
(ण्णै) एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देताम᳘त्रोपद᳘धाति य᳘दे᳘वास्यै᳘षा ऽऽत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेतामत्रो᳘पदधाति॥
मूलम् - Weber
तॗद्यैॗषोत्तमा᳘ स्वयमातृॗणा॥
एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देताम᳘त्रोपद᳘धाति य᳘देॗवास्यैॗषात्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेतामत्रो᳘पदधाति॥
मूलम् - विस्वरम्
तद् यैषोत्तमा स्वयमातृण्णा- एतदस्य तदात्मनः । तद् यदेतामत्रोपदधाति- यदेवास्यैषा ऽऽत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेतामत्रोपदधाति ॥ १७ ॥
सायणः
[व्याख्यानं चतुर्दशे]
Eggeling
- Now that last self-perforated (brick) is just
that part of him (Prajāpati-Agni); and when he now lays it down in this place, he thereby restores to him what part of his body this is: that is why he lays it down in this place.
१८
विश्वास-प्रस्तुतिः
दिव᳘स्पृष्ठे व्य᳘चस्वतीं प्र᳘थस्वतीमि᳘ति॥
दि᳘वो ह्येत᳘त्पृष्ठं व्य᳘चस्वत्प्र᳘थस्तद्दि᳘वं यच्छ दि᳘वं दृᳫँ᳭ह दि᳘वं मा᳘ हिᳫँ᳭सीरि᳘त्यात्मा᳘नं यच्छात्मा᳘नं दृᳫँ᳭हात्मा᳘नं मा᳘ हिᳫँ᳭सीरि᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
दिव᳘स्पृष्ठे व्य᳘चस्वतीं प्र᳘थस्वतीमि᳘ति॥
दि᳘वो ह्येत᳘त्पृष्ठं व्य᳘चस्वत्प्र᳘थस्तद्दि᳘वं यच्छ दि᳘वं दृᳫँ᳭ह दि᳘वं मा᳘ हिᳫँ᳭सीरि᳘त्यात्मा᳘नं यच्छात्मा᳘नं दृᳫँ᳭हात्मा᳘नं मा᳘ हिᳫँ᳭सीरि᳘त्येतत्[[!!]]॥
मूलम् - Weber
दिव᳘स्पृष्ठे व्य᳘चस्वतीम् प्र᳘थस्वतीमि᳘ति॥
दिॗवो ह्येत᳘त्पृष्ठं व्य᳘चस्वत्प्र᳘थस्तद्दि᳘वं यछ दि᳘वं दृंह दि᳘वम् मा᳘ हिंसीरि᳘त्यात्मा᳘नं यछात्मा᳘नं दृंहात्मा᳘नम् मा᳘ हिंसीरि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“दिवस्पृष्ठे व्यचस्वतीं प्रथस्वतीम्”- इति । दिवो ह्येतत्पृष्ठं व्यचस्वत्प्रथस्वत् । “दिवं यच्छ, दिवं दृंह, दिवं मा हिंसीः”-इति । आत्मानं यच्छ, आत्मानं दृंह, आत्मानं मा हिंसीरित्येतत् ॥ १८ ॥
सायणः
[व्याख्यानं चतुर्दशे]
Eggeling
- ‘On the back of the sky, thee, the wide and broad one!’–for this (top of the altar) is indeed the back of the sky, and it is both wide and broad 8;–‘Sustain thou the sky! make firm the sky! injure not the sky!’–that is, ‘Sustain thy self, make firm thy self, injure not thy self (body)!’
१९
विश्वास-प्रस्तुतिः
(द्वि᳘) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य[[!!]]॥
व्याना᳘योदानाये᳘ति प्राणो वै᳘ स्वयमातृण्णा स᳘र्व्वस्मा ऽउ वा᳘ ऽएत᳘स्मै प्राणः᳘ प्रतिष्ठा᳘यै चरि᳘त्राये᳘तीमे वै᳘ लोकाः᳘ स्वयमातृण्णा᳘ ऽइम᳘ ऽउ लोकाः᳘ प्रतिष्ठा᳘ चरि᳘त्रᳫँ᳭ सू᳘र्यस्त्वा ऽभि᳘पात्वि᳘ति सू᳘र्यस्त्वा ऽभि᳘गोपायत्वि᳘त्येत᳘न्मह्या᳘ स्वस्त्ये᳘ति महत्या᳘ स्वस्त्ये᳘त्येत᳘च्छिर्दि᳘षा शं᳘तमेने᳘ति य᳘च्छर्दिः शं᳘तमं तेने᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(द्वि᳘) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य[[!!]]॥
व्याना᳘योदानाये᳘ति प्राणो वै᳘ स्वयमातृण्णा स᳘र्व्वस्मा ऽउ वा᳘ ऽएत᳘स्मै प्राणः᳘ प्रतिष्ठा᳘यै चरि᳘त्राये᳘तीमे वै᳘ लोकाः᳘ स्वयमातृण्णा᳘ ऽइम᳘ ऽउ लोकाः᳘ प्रतिष्ठा᳘ चरि᳘त्रᳫँ᳭ सू᳘र्यस्त्वा ऽभि᳘पात्वि᳘ति सू᳘र्यस्त्वा ऽभि᳘गोपायत्वि᳘त्येत᳘न्मह्या᳘ स्वस्त्ये᳘ति महत्या᳘ स्वस्त्ये᳘त्येत᳘च्छिर्दि᳘षा शं᳘तमेने᳘ति य᳘च्छर्दिः शं᳘तमं तेने᳘त्येतत्[[!!]]॥
मूलम् - Weber
वि᳘श्वस्मै प्र᳘णा᳘यापाना᳘य॥
व्याना᳘योदानाये᳘ति प्राणो वै᳘ स्वयमातृणा स᳘र्वस्मा उ वा᳘ एत᳘स्मै प्राणः प्रतिष्ठा᳘यै चरि᳘त्राये᳘तीमे वै᳘ लोकाः᳘ स्वयमातृणा᳘ इम᳘ उ लोकाः᳘ प्रतिष्ठा᳘ चरि᳘त्रᳫं सू᳘र्यस्त्वाभि᳘पात्वि᳘ति सू᳘र्यस्त्वाभि᳘गोपायत्वि᳘त्येत᳘न्मह्या᳘ स्वस्त्ये᳘ति महत्या᳘ स्वस्त्ये᳘त्येत᳘च्छर्दि᳘षा शं᳘तमेने᳘ति य᳘च्छर्दिः शं᳘तमं तेने᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“विश्वस्मै प्राणायापानाय व्यानायोदानाय”- इति । प्राणो वै स्वयमातृण्णा । सर्वस्मा उ वा एतस्मै प्राणः । “प्रतिष्ठायै चरित्राय”-इति । इमे वै लोकाः स्वयमातृण्णा, इम उ लोकाः प्रतिष्ठा चरित्रम् । “सूर्यस्त्वा ऽभिपातु”- इति । सूर्यस्त्वा ऽभिगोपायत्वित्येतत् । “मह्या स्वस्त्या”- इति । महत्या स्वस्त्येत्येतत् । “छर्दिषा शंतमेन”- (वा. सं. १५ । ६४) इति । यच्छर्दिः शंतमं तेनेत्येतत् ॥ १९ ॥
सायणः
[व्याख्यानं चतुर्दशे]
Eggeling
- ‘For all out-breathing, off-breathing, through-breathing, up-breathing!’–the naturally-perforated (brick) is the vital air, and the vital air truly serves for everything here;–‘for a resting-place, for a moving-place!’–the naturally-perforated (bricks) are these worlds, and these worlds are the resting-place and the moving-place;–‘May Sūrya guard thee,’–that is, ‘May Sūrya protect thee,’–‘with mighty well-being,’–that is, ‘with great well-being;’–‘with the safest roof!’–that is, ‘with whatever roof (abode) is the safest.’
२०
विश्वास-प्रस्तुतिः
(न्ना) नानो᳘पदधाति॥
ना᳘ना हि᳘ व्वायु᳘श्च द्यौ᳘श्च सकृ᳘त्सादयति समानं त᳘त्करोति समानᳫँ᳭ ह्या᳘युश्च प्राण᳘श्च ते वा᳘ ऽउभे᳘ ऽएव श᳘र्करे भ᳘वत ऽउभे᳘ स्वयमातृण्णे᳘ समान᳘ᳫँ᳘ ह्येवा᳘युश्च प्राणश्चा᳘थैने सू᳘ददोहसा᳘ ऽधिवदति प्राणो वै सू᳘ददोहाः प्राणे᳘नै᳘वैने ऽएतत्सं᳘तनोति सं᳘दधाति॥
मूलम् - श्रीधरादि
(न्ना) नानो᳘पदधाति॥
ना᳘ना हि᳘ व्वायु᳘श्च द्यौ᳘श्च सकृ᳘त्सादयति समानं त᳘त्करोति समानᳫँ᳭ ह्या᳘युश्च प्राण᳘श्च ते वा᳘ ऽउभे᳘ ऽएव श᳘र्करे भ᳘वत ऽउभे᳘ स्वयमातृण्णे᳘ समान᳘ᳫँ᳘ ह्येवा᳘युश्च प्राणश्चा᳘थैने सू᳘ददोहसा᳘ ऽधिवदति प्राणो वै सू᳘ददोहाः प्राणे᳘नै᳘वैने ऽएतत्सं᳘तनोति सं᳘दधाति॥
मूलम् - Weber
नानो᳘पदधाति॥
ना᳘ना हि᳘ वायु᳘श्च द्यौ᳘श्च सकृ᳘त्सादयति समानं त᳘त्करोति समानᳫं ह्या᳘युश्च प्राण᳘श्च ते वा᳘ उभे᳘ एव श᳘र्करे भ᳘वत उभे᳘ स्वयमातृणे᳘ समान᳘ᳫं᳘ ह्येवा᳘युश्च प्राणश्चा᳘थैने सू᳘ददोहसा᳘धिवदति प्राणो वै सू᳘ददोहाः प्राणे᳘णैॗवैने एतत्सं᳘तनोति सं᳘दधाति॥
मूलम् - विस्वरम्
नानोपदधाति । नाना हि वायुश्च द्यौश्च । सकृत् सादयति । समानं तत्करोति । समानं ह्यायुश्च प्राणश्च । ते वा उभे एव शर्करे भवतः । उभे स्वयमातृण्णे- समानं ह्येवायुश्च प्राणश्च । अथैने सूददोहसा ऽधिवदति । प्राणो वै सूददोहाः । प्राणेनैवैने एतत्सन्तनोति, सन्दधाति ॥ २० ॥
सायणः
स प्राणो विभूत इति । प्राणत्वमतः प्राणकारणत्वात्प्राणः । नान्यस्य तु याव सोधिका ( ) भातः स लोकमागता अपस्ता अस्य यजमानस्य या अपः (?) ति प्रापयानि त्रीणि सवनानि तेषु (प. सूता) दधामीत्येतस्य समुदायार्थसिद्ध्यर्थं च पदार्थानाचष्टे । आपो वै तदा तद्दक्षिणकरणे स्यन्दतीति सूदः स्थानसंघातस्तदाह- संघोदकः संघातः कार्याद्यभावेन परिणत उपजीव्यत्वादन्नं वृत्त इति दोहः । तदुदकसंघातो दोहः । कार्यं चासां सूक्ष्माणामुपात्तानां सूददोहस इत्यभिप्रायः । एतदस्य दिवस्पते अन्नं वै पृश्नि प्राप्य नानावर्णं तर्हीवान्नानि अद्यापि पृश्नय इत्यभिप्रायः । संवत्सरो वै यज्ञोत्पन्नानां देवानां तस्माद्धि तद्देवत्थं लभते । विश इति षष्ठी । सवनसम्बन्धजनितारः सवनानीति सवनरोचत इति वचनव्यत्ययं दर्शयति । वाचा चैवैने एतत्प्राणेनेति । सर्वं प्राणानामेव एष स्थितिकारणेन सन्धीयमानत्वात् । ( ) प्राणा हि ता एव भवन्ति ताश्च वाचा वाक्यमुखैः प्राणैः प्राणेनैव मान्यो एकः नैतन्मनः तिर्यक् सूददोहसा संदधाति सा वा एषैका सतीति सामान्यो विधिः । अथ त्वायाहि ( ) योन्ते च सर्वत्र विसृष्टो विधिः । किमिति क्लिष्टेन कल्पितेनेति ततस्तस्यायमर्थवादो द्रष्टव्यः ॥ २० ॥ २१ ॥
इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये ऽष्टमेकाण्डे सप्तमे ऽध्याये तृतीयं ब्राह्मणम् ॥ (८-७-३) ॥
Eggeling
- Separately he lays them down, for separate are wind and sky; and once only he ‘settles’ them: he thereby makes them the same, for vital power and vital air are the same. They are both of them stones and both of them naturally-perforated; for vital power and vital air are the same. He then pronounces the Sūdadohas over them,–the Sūdadohas means vital air; he thus makes them
continuous, joins them together by means of the vital air.
२१
विश्वास-प्रस्तुतिः
ता᳘ ऽअस्य सू᳘ददोहस ऽइ᳘ति॥
(त्या᳘) आ᳘पो वै सूदो᳘ ऽन्नं दो᳘हः सो᳘मᳫँ᳭ श्रीणन्ति पृ᳘श्नय इत्य᳘न्नं वै पृ᳘श्नि ज᳘न्मन्देवा᳘नामि᳘ति संव्वत्सरो वै᳘ देवा᳘नां ज᳘न्म व्वि᳘श ऽइ᳘ति यज्ञो वै व्वि᳘शो यज्ञे हि स᳘र्व्वाणि भूता᳘नि व्विष्टा᳘नि त्रिष्वा᳘ रोचने᳘ दिव ऽइ᳘ति स᳘वनानि वै त्री᳘णि रोचना᳘नि स᳘वनान्येत᳘दाहानुष्टु᳘भा व्वाग्वा᳘ ऽअनुष्टुब्वा᳘गु स᳘र्व्वे प्राणा᳘ व्वाचा᳘ चै᳘वैने ऽएत᳘त्प्राणे᳘न च सं᳘तनोति सं᳘दधाति सा वा᳘ ऽएषै᳘का सती सू᳘ददोहाः स᳘र्व्वा ऽइ᳘ष्टका ऽअनुसं᳘चरति प्राणो वै सू᳘ददोहास्त᳘स्मादयमे᳘क ऽएव᳘ प्राणः सन्त्स᳘र्व्वाण्य᳘ङ्गानि स᳘र्व्वमात्मा᳘नमनुसं᳘चरति॥
मूलम् - श्रीधरादि
ता᳘ ऽअस्य सू᳘ददोहस ऽइ᳘ति॥
(त्या᳘) आ᳘पो वै सूदो᳘ ऽन्नं दो᳘हः सो᳘मᳫँ᳭ श्रीणन्ति पृ᳘श्नय इत्य᳘न्नं वै पृ᳘श्नि ज᳘न्मन्देवा᳘नामि᳘ति संव्वत्सरो वै᳘ देवा᳘नां ज᳘न्म व्वि᳘श ऽइ᳘ति यज्ञो वै व्वि᳘शो यज्ञे हि स᳘र्व्वाणि भूता᳘नि व्विष्टा᳘नि त्रिष्वा᳘ रोचने᳘ दिव ऽइ᳘ति स᳘वनानि वै त्री᳘णि रोचना᳘नि स᳘वनान्येत᳘दाहानुष्टु᳘भा व्वाग्वा᳘ ऽअनुष्टुब्वा᳘गु स᳘र्व्वे प्राणा᳘ व्वाचा᳘ चै᳘वैने ऽएत᳘त्प्राणे᳘न च सं᳘तनोति सं᳘दधाति सा वा᳘ ऽएषै᳘का सती सू᳘ददोहाः स᳘र्व्वा ऽइ᳘ष्टका ऽअनुसं᳘चरति प्राणो वै सू᳘ददोहास्त᳘स्मादयमे᳘क ऽएव᳘ प्राणः सन्त्स᳘र्व्वाण्य᳘ङ्गानि स᳘र्व्वमात्मा᳘नमनुसं᳘चरति॥
मूलम् - Weber
ता᳘ अस्य सू᳘ददोहस इ᳘ति॥
आ᳘पो वै सूदो᳘ ऽन्नं दो᳘हः सो᳘मं श्रीणन्ति पृ᳘श्नय इत्य᳘न्नं वै पृ᳘श्नि ज᳘न्मन्देवा᳘नामि᳘ति संवत्सरो वै᳘ देवा᳘नां ज᳘न्म वि᳘श इ᳘ति यज्ञो वै वि᳘शो यज्ञे हि स᳘र्वाणि भूता᳘नि विष्टा᳘नि त्रिष्वा᳘ रोचने᳘ दिव इ᳘ति स᳘वनानि वै त्री᳘णि रोचना᳘नि स᳘वनान्येत᳘दाहानुष्टु᳘भा वाग्वा᳘ अनुष्टुब्वा᳘गु स᳘र्वे प्राणा᳘ वाचा᳘ चैॗवैने एत᳘त्प्राणे᳘न च सं᳘तनोति सं᳘दधाति सा वा᳘ एषै᳘का सती सू᳘ददोहाः स᳘र्वा इ᳘ष्टका अनुसं᳘चरति प्राणो वै सू᳘ददोहास्त᳘स्मादयमे᳘क एव᳘ प्राणः सन्त्स᳘र्वाण्य᳘ङ्गानि स᳘र्वमात्मा᳘नमनुसं᳘चरति॥
मूलम् - विस्वरम्
“ता अस्य सूददोहसः”- इति । आपो वै सूदः, अन्नं दोहः । “सोमं श्रीणन्ति पृश्नयः”- इति । अन्नं वै पृश्नि । “जन्मन्देवानाम्”- इति । संवत्सरो वै देवानां जन्म । “विशः”- इति । यज्ञो वै विशः । यज्ञे हि सर्वाणि भूतानि विष्टानि । “त्रिष्वा रोचने दिवः"- (वा. सं. १५ । ६०) इति । सवनानि वै त्रीणि रोचनानि । सवनान्येतदाह । अनुष्टुभा । वाग्वा अनुष्टुप् । वागु सर्वे प्राणाः । वाचा चैवैने एतत्प्राणेन च सन्तनोति, सन्दधाति । सा वा एषैका सती सूददोहाः सर्वा इष्टका अनुसंचरति । प्राणो वै सूददोहाः । तस्मादयमेक एव प्राणः सन् सर्वाण्यङ्गानि, सर्वमात्मानमनुसंचरति ॥ २१ ॥
सायणः
[व्याख्यानं विंशतितमे]
Eggeling
- ‘Those his well-like milking ones 9’–a well (sūda) means water, and milking means food;–’the speckled ones mix the Soma,’–the speckled (cow) means food;–‘at the birth of the gods,’–the birth of the gods is the year;–’the tribes,’ the tribes (viś), doubtless, are the sacrifice, for all beings are ranged (vishṭa) 10 under the sacrifice;–‘in the three spheres of the heavens,’–the three spheres of the heavens, doubtless, are the (three) pressings (of Soma): he thus means the pressings. With an anushṭubh verse (he performs this rite), for the Anushṭubh is speech, and speech (includes) all vital airs; and by means of speech, that is vital air, he thus makes these two (bricks) continuous, and joins them together. This same Sūdadohas, whilst being a single (verse), extends over all the bricks, whence–the Sūdadohas being the vital air–this vital air, whilst being one only, extends over all the limbs, over the whole body.
-
139:1 Or, therewith (with loose soil). ↩︎
-
140:1 Taking it from the edge of the Cātvāla or pit, cf. VII, 1, 1, 36. ↩︎
-
प्रच्छाद्य पुरीषेण व्विकर्ण्णीयस्वयमातृण्णे शर्करे सँस्पृष्टे छिद्रे प्रोथदश्च इत्युत्तरां व्विकर्ण्णीमायोष्ट्वेति स्वयमातृण्णां सकृन्नित्वे । का. श्रौ. सू. १७ । २६१-२६२ । ↩︎
-
141:1 See VII, 3, 2, 13. ↩︎
-
141:2 As ‘uttarām’ means both ’northern’ and ‘higher,’ so ‘pūrvām’ means both ‘first’ and ’eastern,’ hence, by a whimsical play on these double meanings, ‘on both (or two) sides.’ ↩︎
-
142:1 The topmost naturally-perforated brick represents the heavens. ↩︎
-
142:2 See VI, 2, 3, 5; 10. ↩︎
-
143:1 Though, in the text of the formula, the adjectives are feminine, and evidently refer to the brick, the author here makes them neuter, referring them to ‘pr̥shṭḥam,’ the back (of the sky). ↩︎
-
144:1 Part iii, p. 307, note 2, the following translation of this difficult and obscure verse was proposed:–‘At his birth the well-like milking, speckled ones mix the Soma (draught), the clans of the gods in the three spheres of the heavens.’ ↩︎
-
144:2 Literally, have entered, or settled. At XIV, 8, 13, 3, the same etymological word-play occurs, only ‘food (anne)’ being substituted for ‘sacrifice (yajñe)’; where the St. Petersb. Dict. takes ‘vishṭa’ in the sense of ’entered, i. e. contained.’ ↩︎