०१
विश्वास-प्रस्तुतिः
अ᳘थ लोकम्पृणामु᳘पदधाति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ लोकम्पृ᳘णैष᳘ हीमाल्ँ᳘लोका᳘न्पूर᳘यत्यमु᳘मे᳘वैत᳘दादित्यमु᳘पदधाति ताᳫँ᳭ स᳘र्व्वासु चि᳘तिषू᳘पदधातीमे वै᳘ लोका᳘ ऽएताश्चि᳘तयो ऽमुं त᳘दादित्य᳘मेषु᳘ लोके᳘षु दधाति त᳘स्मादेष स᳘र्व्वेभ्य ऽए᳘वैभ्यो᳘ लोके᳘भ्यस्तपति॥
मूलम् - श्रीधरादि
अ᳘थ लोकम्पृणामु᳘पदधाति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ लोकम्पृ᳘णैष᳘ हीमाल्ँ᳘लोका᳘न्पूर᳘यत्यमु᳘मे᳘वैत᳘दादित्यमु᳘पदधाति ताᳫँ᳭ स᳘र्व्वासु चि᳘तिषू᳘पदधातीमे वै᳘ लोका᳘ ऽएताश्चि᳘तयो ऽमुं त᳘दादित्य᳘मेषु᳘ लोके᳘षु दधाति त᳘स्मादेष स᳘र्व्वेभ्य ऽए᳘वैभ्यो᳘ लोके᳘भ्यस्तपति॥
मूलम् - Weber
अ᳘थ लोकम्पृणामु᳘पदधाति॥
असौ वा᳘ आदित्यो᳘ लोकम्पृॗणैषॗ हीमां᳘लोका᳘न्पूर᳘यत्यमु᳘मेॗवैत᳘दादित्यमु᳘पदधाति ताᳫं स᳘र्वासु चि᳘तिषू᳘पदधातीमे वै᳘ लोका᳘ एताश्चि᳘तयो ऽमुं त᳘दादित्य᳘मेषु᳘ लोके᳘षु दधाति त᳘स्मादेष स᳘र्वेभ्य एॗवैभ्यो᳘ लोके᳘भ्यस्तपति॥
मूलम् - विस्वरम्
अथ सर्वचितिशेषः ।
अथ लोकम्पृणेष्टकोपधानम् ।
अथ लोकम्पृणामुपदधाति । असौ वा आदित्यो लोकम्पृणा । एष हीमांल्लोकान्पूरयति । अमुमेवैतदादित्यमुपदधाति । तां सर्वासु चितिषूपदधाति । इमे वै लोका एताश्चितयः । अमुं तदादित्यमेषु लोकेषु दधाति । तस्मादेष सर्वभ्य एवैभ्यो लोकेभ्यस्तपति ॥ १ ॥
सायणः
अथ लोकम्पृणामिति । अधिलोकं पृणशब्दवानप्रधानं मात्वा पयस्या इष्टका लोकंपृणा उपदधाति 1 विश्वज्योतिषामुपधानानन्तरमेवेति विधिः । ‘असौ वा आदित्यो लोकंपृणा’ एष हि रश्मिभिरिमाल्ँ लोकान्पूरयति । तत्सर्वासु चितिषु पुनर्वचनमर्थवादसम्बन्धार्थम् । अथ लोकंपृणामुपदधाति । प्राप्तमेव लोकंपृणायाः सर्वचितिषूपधानम् ॥ १ ॥
Eggeling
- He then lays down a Lokampr̥ṇā 2 (space-filling brick); the Lokampr̥ṇā, doubtless, is yonder
sun, for he fills these worlds: it is thus yonder sun he thereby sets up. He lays down this (Lokampr̥ṇā) in all the (five) layers, for those layers are these (three) worlds 3: he thus places the sun in (all) these worlds, whence he shines for all these worlds.
०२
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ लोकम्पृणा᳘मुपद᳘धाति॥
क्षत्रं वै᳘ लोकम्पृणा व्वि᳘श ऽइमा ऽइ᳘तरा इ᳘ष्टकाः क्षत्रं त᳘द्वि᳘श्यत्ता᳘रं[[!!]] दधाति ताᳫँ᳭ स᳘र्व्वासु चि᳘तिषू᳘पदधाति स᳘र्व्वस्यां त᳘द्विशि᳘ क्षत्र᳘मत्ता᳘रं दधाति᳘॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ लोकम्पृणा᳘मुपद᳘धाति॥
क्षत्रं वै᳘ लोकम्पृणा व्वि᳘श ऽइमा ऽइ᳘तरा इ᳘ष्टकाः क्षत्रं त᳘द्वि᳘श्यत्ता᳘रं[[!!]] दधाति ताᳫँ᳭ स᳘र्व्वासु चि᳘तिषू᳘पदधाति स᳘र्व्वस्यां त᳘द्विशि᳘ क्षत्र᳘मत्ता᳘रं दधाति᳘॥
मूलम् - Weber
य᳘द्वेव᳘ लोकम्पृणा᳘मुपद᳘धाति॥
क्षत्रं वै᳘ लोकम्पृणा वि᳘श इमा इ᳘तरा इ᳘ष्टकाः क्षत्रं त᳘द्विश्य᳘त्ता᳘रं दधाति ताᳫं स᳘र्वासु चि᳘तिषू᳘पदधाति स᳘र्वस्यां त᳘द्विशि᳘ क्षत्र᳘मत्ता᳘रं दधाति॥
मूलम् - विस्वरम्
यद्वेव लोकम्पृणामुपदधाति । क्षत्त्रं वै लोकम्पृणा, विश इमा इतरा इष्टकाः । क्षत्त्रं तद् विश्यत्तारं दधाति । तां सर्वासु चितिषूपदधाति । सर्वस्यां तद् विशि क्षत्त्रमत्तारं दधाति ॥ २ ॥
सायणः
यद्वेव लोकंपृणामिति । प्रसन्ना ॥ २ ॥
Eggeling
- And, again, as to why he lays down a Lokampr̥ṇā,–the Lokampr̥ṇā, doubtless, is the nobility (or chieftaincy) 4, and these other bricks are the peasants (or clansmen): he thus places the nobility (or chieftain), as the eater, among the peasantry. He lays it down in all the layers: he thus places the nobility, as the eater, among the whole peasantry (or in every clan).
०३
विश्वास-प्रस्तुतिः
सैषै᳘कैव᳘ भवति॥
(त्ये) एकस्थं त᳘त्क्षत्र᳘मेकस्थाᳫँ᳭ श्रि᳘यं करोत्य᳘थ या᳘ द्विती᳘या मिथुनं त᳘दर्ध᳘मु हैत᳘दात्म᳘नो य᳘न्मिथुनं᳘ यदा वै᳘ सह᳘ मिथुनेना᳘थ सर्व्वो᳘ ऽथ कृत्स्नः᳘ कृत्स्न᳘ताया ऽए᳘केन य᳘जुषा बह्वीरि᳘ष्टका ऽउ᳘पदधाति क्षत्रं त᳘द्वी᳘र्येणात्या᳘दधाति क्षत्रं᳘ व्विशो᳘ व्वी᳘र्यवत्तरं करोत्यथे᳘तराः पृ᳘थङ्ना᳘ना य᳘जुर्भिरु᳘पदधाति व्वि᳘शं त᳘त्क्षत्रा᳘दवीर्य᳘तरां करोति पृथग्वादि᳘नीं ना᳘नाचेतसम्॥
मूलम् - श्रीधरादि
सैषै᳘कैव᳘ भवति॥
(त्ये) एकस्थं त᳘त्क्षत्र᳘मेकस्थाᳫँ᳭ श्रि᳘यं करोत्य᳘थ या᳘ द्विती᳘या मिथुनं त᳘दर्ध᳘मु हैत᳘दात्म᳘नो य᳘न्मिथुनं᳘ यदा वै᳘ सह᳘ मिथुनेना᳘थ सर्व्वो᳘ ऽथ कृत्स्नः᳘ कृत्स्न᳘ताया ऽए᳘केन य᳘जुषा बह्वीरि᳘ष्टका ऽउ᳘पदधाति क्षत्रं त᳘द्वी᳘र्येणात्या᳘दधाति क्षत्रं᳘ व्विशो᳘ व्वी᳘र्यवत्तरं करोत्यथे᳘तराः पृ᳘थङ्ना᳘ना य᳘जुर्भिरु᳘पदधाति व्वि᳘शं त᳘त्क्षत्रा᳘दवीर्य᳘तरां करोति पृथग्वादि᳘नीं ना᳘नाचेतसम्॥
मूलम् - Weber
सैषै᳘कैव᳘ भवति॥
एकस्थं त᳘त्क्षत्र᳘मेकस्थां श्रि᳘यं करोत्य᳘थ या᳘ द्विती᳘या मिथुनं त᳘दर्ध᳘मु हैत᳘दात्म᳘नो य᳘न्मिथुनं᳘ यदा वै᳘ सह᳘ मिथुनेना᳘थ सर्वो᳘ ऽथ कृत्स्नः᳘ कृत्स्न᳘ताया ए᳘केन य᳘जुषा बह्वीरि᳘ष्टका उ᳘पदधाति क्षत्रं त᳘द्वीर्येणात्या᳘दधाति क्षत्रं᳘ विशो᳘ वीर्य᳘वत्तरं करोत्यथे᳘तराः पृ᳘थङ्ना᳘ना य᳘जुर्भिरु᳘पदधाति विशं त᳘त्क्षत्रा᳘दवीर्य᳘तरां करोति पृथग्वादि᳘नीं ना᳘नाचेतसम्॥
मूलम् - विस्वरम्
सैषैकैव भवति । एकस्थं तत् क्षत्त्रमेकस्थां श्रियं करोति । अथ या द्वितीया-मिथुनं तत् । अर्धमु हैतदात्मनो- यन्मिथुनम् । यदा वै सह मिथुनेन- अथ सर्वः, अथ कृत्स्नः । कृत्स्नतायै । एकेन यजुषा बह्वीरिष्टका उपदधाति । क्षत्त्रं तद्वीर्येणात्यादधाति । क्षत्त्रं विशो वीर्यवत्तरं करोति । अथेतराः पृथङ्नाना यजुर्भिरुपदधाति । विशं तत्क्षत्त्रादवीर्येतरां करोति- पृथग्वादिनीं नानाचेतसम् ॥ ३ ॥
सायणः
सैषैकैवेति । एषा लोकंपृणाप्येकैव भवति इत्येकविभक्तित्वादित्यभिप्रायः । ‘एकस्थम्’ एकत्वात्तेन क्षत्रं एकस्थं तत्फलम् । यत्स्वयं करोति तथा च व्यवहारं कल्पयन् यजुषोपदधाति तेन । विशं नानाचेतसं चेति शेषः । स परस्परं वीर्यवत्तरं करोति क्षत्रमेकस्थां श्रियं सहैकवित्तमेकवचनमिति शेषः ॥ ३ ॥
Eggeling
- Now this is only a single (brick): he thus makes the nobility (or the chieftaincy) and (social) distinction to attach to a single (person). And what second (such brick there is) that is its mate,–a mate, doubtless, is one half of one’s own self, for when one is with a mate then he is whole and complete: (thus it is laid down) for the sake of completeness. With a single formula he lays down many bricks 5: he thereby endows the nobility preeminently
with power 6, and makes the nobility more powerful than the peasantry. And the other (bricks) he lays down singly, with separate formulas: he thereby makes the peasantry less powerful than the nobility, differing in speech, and of different thoughts (from one another).
०४
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स वा᳘ ऽअस्या᳘ᳫँ᳘ स्रक्त्यां᳘ प्रथमे ऽउ᳘पदधाति॥
(त्य) अमुं त᳘दादित्य᳘मेत᳘स्यां दिशि᳘ दधात्य᳘थेतस्त᳘स्माद᳘तो ऽनुपर्यैत्य᳘थेतस्त᳘स्माद᳘तो ऽनुपर्यैत्य᳘थेतस्त᳘स्माद᳘तो ऽनुपर्यैत्यथा᳘तस्त᳘स्मादतो ऽनुपर्यै᳘ति॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स वा᳘ ऽअस्या᳘ᳫँ᳘ स्रक्त्यां᳘ प्रथमे ऽउ᳘पदधाति॥
(त्य) अमुं त᳘दादित्य᳘मेत᳘स्यां दिशि᳘ दधात्य᳘थेतस्त᳘स्माद᳘तो ऽनुपर्यैत्य᳘थेतस्त᳘स्माद᳘तो ऽनुपर्यैत्य᳘थेतस्त᳘स्माद᳘तो ऽनुपर्यैत्यथा᳘तस्त᳘स्मादतो ऽनुपर्यै᳘ति॥
मूलम् - Weber
स वा᳘ अस्या᳘ᳫं᳘ स्रक्त्या᳘म् प्रथमे उ᳘पदधाति॥
अमुं त᳘दादित्य᳘मेत᳘स्यां दिशि᳘ पधात्य᳘थेतस्त᳘स्माद᳘तो ऽनुपर्यैत्य᳘थेतस्त᳘स्माद᳘तो ऽनुपर्यैत्य᳘थेतस्त᳘स्माद᳘तो ऽनुपर्यैत्यथा᳘तस्त᳘स्मादतो ऽनुपर्यै᳘ति॥
मूलम् - विस्वरम्
स वा अस्यां स्रक्त्यां प्रथमे उपदधाति । अमुं तदादित्यमेतस्यां दिशि दधाति । अथेतस्तस्मादतो ऽनुपर्यैति, अथेतस्तस्मादतो ऽनुपर्यैति, अथेतस्तस्मादतो ऽनुपर्यैति, अथातस्तस्मादतो ऽनुपर्यैति ॥ ४ ॥
सायणः
स वा अस्यामिति । अस्यामित्यभिनयेन दक्षिणस्रक्तिं दर्शयति- कुत एतत् ? ‘अमुं तदादित्यमेतस्यां’ पूर्वस्यां ‘दिशि’ उपदधातीति वाक्यशेषात् । ननु च वाक्यशेषो ऽसौ तदादित्यं विवक्ष्यत इत्यविस्पष्टमेवैतत् । नैष दोषः । अत्रापि वाक्यशेषादेष निर्णयः । तस्मादसावादित्यः पुरस्तात् प्रणिधीयते इत्येतेन तावत् पूर्वोक्ता स्रक्तिरिति निर्णीयते । तस्मादसावादित्य इमाल्ँ लोकान् दक्षिणावृदत्येति । दक्षिणावृदसावुदेत्येतां ( ) दिशं ज्येवानुसंचरतीत्येतेन दक्षिणा स्रक्तिरिति निर्णीयते । लोकंपृणे प्रथमायां चितावित्यर्थः । अथ प्रथमायां चितौ दक्षिणस्यां श्रोण्यां तेन चामुमादित्यमेतस्यामुपरिष्टाद्दिशि दधाति तस्मादेवानुपर्यैति । पूर्वस्यां दिश्युदित आलोकः पृणयति पञ्चम्यां चितौ । यैस्तु लोकंपृणा इति उपदधाति भवेदित्यर्थः । प्रत्यतिष्ठिपन् प्रतिष्ठापितवन्तः (देषु त्वांवज्यं सो ऽर्यः) न तु ते प्रतिष्ठापितवन्तः किं तर्हि प्रतिष्ठापयन्ति तेन प्रार्थ्यते न च्छन्दसा ऽयं मे भूतवत्प्रयोगो द्रष्टव्यः । प्रतिष्ठापयन्तीत्यर्थः । वाक्यैः शब्दात्मिका अनुष्टुभा तु सर्वमत्र स्तोम ( ) वाचैवेन्द्रियेणादित्यस्तुत्येकत्वादिन्द्र आदित्यो लोकं पृणाति । दर्शितमेव न सादयति तया देवतयेत्यनेन मन्त्रेणेति सामान्यविधेः पर्युदासः । सूद दोहसा ऽधिवदति इति ( ) (प्रच्छाद्येरन्ततोनमामिनो परिष्टुत) प्रच्छाद्येरन्यथा यजुष्मत्यो ऽपि पृथगेवाख्यायन्ते । तथा ऽन्नमपि आख्यायते । न च सर्वो ऽग्निर्दृष्टिविषये लोकंपृणामेवातिसम्पद्येत प्राणेन वाक्यात्मकं किंचिदङ्गं स्यात् । सर्वाण्येवान्नानि वासांसि भवेयुर्यजुष्मत्य एवान्नानामाजानानः प्रधानभूता इत्येतदुपधानं नेच्छति । स वा आत्मन्नेवेति । अनुवाद एवायं दर्शनार्थः ॥ ४-९ ॥
Eggeling
- The first two (Lokampr̥ṇās) he lays down in that (south-east) corner: he thereby places yonder sun in that quarter: from this (earth) he follows him (the sun) from that (place) there 7; from this (earth) he follows him from that (place) there; from this (earth) he follows hire from that (place) there; from this (earth) he follows him from that (place) there.
०५
विश्वास-प्रस्तुतिः
स यद्य᳘त्रैव᳘ प्रथमे᳘ ऽउपद᳘धाति॥
त᳘दुत्तमे᳘ ऽअनूपदध्या᳘त्सकृ᳘द्धै᳘वासा᳘वादित्य᳘ ऽइमाल्ँ᳘लोका᳘न्पर्ये᳘त्य᳘ नातिप्र᳘च्यवेतातिहृ᳘त्य पू᳘र्व्वे ऽउत्तमे᳘ ऽअनू᳘पदधात्यमुं त᳘दादित्य᳘मिमाल्ँ᳘लोका᳘नतिप्र᳘च्यावयति त᳘स्मादसा᳘वादित्य᳘ ऽइमाल्ँ᳘लोकान᳘सᳫँ᳭स्थितो दक्षिणावृत्पु᳘नः[[!!]] पुनरनुपर्यै᳘ति॥
मूलम् - श्रीधरादि
स यद्य᳘त्रैव᳘ प्रथमे᳘ ऽउपद᳘धाति॥
त᳘दुत्तमे᳘ ऽअनूपदध्या᳘त्सकृ᳘द्धै᳘वासा᳘वादित्य᳘ ऽइमाल्ँ᳘लोका᳘न्पर्ये᳘त्य᳘ नातिप्र᳘च्यवेतातिहृ᳘त्य पू᳘र्व्वे ऽउत्तमे᳘ ऽअनू᳘पदधात्यमुं त᳘दादित्य᳘मिमाल्ँ᳘लोका᳘नतिप्र᳘च्यावयति त᳘स्मादसा᳘वादित्य᳘ ऽइमाल्ँ᳘लोकान᳘सᳫँ᳭स्थितो दक्षिणावृत्पु᳘नः[[!!]] पुनरनुपर्यै᳘ति॥
मूलम् - Weber
स यद्य᳘त्रैव᳘ प्रथमे᳘ उपद᳘धाति॥
त᳘दुत्तमे᳘ अनूपदध्या᳘त्सकृ᳘द्धैॗवासा᳘वादित्य᳘ इमां᳘लोका᳘न्पर्ये᳘त्यॗ नातिप्र᳘च्यवेतातिहृ᳘त्य पू᳘र्वे उत्तमे᳘ अनू᳘पदधात्यमुं त᳘दादित्य᳘मिमां᳘लोका᳘नतिप्र᳘च्यावयति त᳘स्मादसा᳘वादित्य᳘ इमां᳘लोकान᳘संस्थितो द᳘क्षिणावृत्पु᳘नः पुनरनुपर्यै᳘ति॥
मूलम् - विस्वरम्
स यद्यत्रैव प्रथमे उपदधाति- तदुत्तमे अनूपदध्यात् । सकृद्धैवासावादित्य इमांल्लोकान्पर्येत्य नातिप्रच्यवेत । अतिहृत्य पूर्वे उत्तमे अनूपदधाति । अमुं तदादित्यमिमांल्लोकानतिप्रच्यावयति । तस्मादसावादित्य इमांल्लोकानसंस्थितो दक्षिणावृत् पुनः पुनः अनुपर्यैति ॥ ५ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- And in whatever place he lays down the first two (bricks), let him there lay down alongside of
them the last two (bricks): for (otherwise) having once revolved round these worlds, that sun would not pass by them. Let him lay down the two last alongside the two first by reaching over them: he thus causes that sun to pass by these worlds; and hence that sun revolves incessantly round these worlds again and again (from left) to right.
०६
विश्वास-प्रस्तुतिः
लोकं᳘ पृण च्छिद्रं᳘ पृणे᳘ति॥
लोकं᳘ च पूर᳘य च्छिद्रं᳘ च पूरये᳘त्येतद᳘थो सीद ध्रुवा त्वमित्य᳘थो सीद स्थिरा त्वं प्र᳘तिष्ठिते᳘त्येत᳘दिन्द्राग्नी᳘ त्वा बृ᳘हस्प᳘तिरस्मिन्यो᳘नावसीषदन्नि᳘तीन्द्राग्नी᳘ च त्वा बृ᳘हस्प᳘तिश्चास्मिन्यो᳘नौ प्र᳘त्यतिष्ठिपन्नि᳘त्येत᳘दनुष्टुभा[[!!]] व्वाग्वा᳘ ऽअनुष्टुब्वागि᳘न्द्र ऽइ᳘न्द्रो लोकम्पृणा न᳘ सादयत्य᳘सन्नो᳘ ह्येष सू᳘ददोहसा᳘ ऽधिवदति प्राणो वै सू᳘ददोहाः प्रा᳘णेनै᳘वैनमेतत्सं᳘तनोति सं᳘दधाति॥
मूलम् - श्रीधरादि
लोकं᳘ पृण च्छिद्रं᳘ पृणे᳘ति॥
लोकं᳘ च पूर᳘य च्छिद्रं᳘ च पूरये᳘त्येतद᳘थो सीद ध्रुवा त्वमित्य᳘थो सीद स्थिरा त्वं प्र᳘तिष्ठिते᳘त्येत᳘दिन्द्राग्नी᳘ त्वा बृ᳘हस्प᳘तिरस्मिन्यो᳘नावसीषदन्नि᳘तीन्द्राग्नी᳘ च त्वा बृ᳘हस्प᳘तिश्चास्मिन्यो᳘नौ प्र᳘त्यतिष्ठिपन्नि᳘त्येत᳘दनुष्टुभा[[!!]] व्वाग्वा᳘ ऽअनुष्टुब्वागि᳘न्द्र ऽइ᳘न्द्रो लोकम्पृणा न᳘ सादयत्य᳘सन्नो᳘ ह्येष सू᳘ददोहसा᳘ ऽधिवदति प्राणो वै सू᳘ददोहाः प्रा᳘णेनै᳘वैनमेतत्सं᳘तनोति सं᳘दधाति॥
मूलम् - Weber
लोक᳘म् पृण छिद्र᳘म् पृणे᳘ति॥
लोकं᳘ च पूर᳘य छिद्रं᳘ च पूरये᳘त्येतद᳘थो सीद ध्रुवा त्वमित्य᳘थो सीद स्थिरा त्वम् प्र᳘तिष्ठिते᳘त्येत᳘दिन्द्राग्नी᳘ त्वा बृ᳘हस्प᳘तिरस्मिन्यो᳘नावसीषदन्नि᳘तीन्द्राग्नी᳘ च त्वा बृ᳘हस्प᳘तिश्चास्मिन्यो᳘नौ प्र᳘त्यतिष्ठिपन्नि᳘त्येत᳘दनुष्टु᳘भा वाग्वा᳘ अनुष्टुब्वागि᳘न्द्र इ᳘न्द्रो लोकम्पृणा न᳘ सादयत्य᳘सन्नोॗ ह्येष सू᳘ददोहसा᳘ वदति प्राणो वै सू᳘ददोहाः प्रा᳘णेनैॗवैनमेतत्सं᳘तनोति संदधाति॥
मूलम् - विस्वरम्
“लोकं पृण च्छिद्रं पृण”- इति । लोकं च पूरय छिद्रं च पूरयेत्येतत् । “अथो सीद ध्रुवा त्वम्”- इति । अथो सीद स्थिरा त्वं प्रतिष्ठितेत्येतत् । **“इन्द्राग्नी त्वा बृहस्पतिरस्मिन्योनावसीदन्"- (वा. सं. १५ । ५९) इति । इन्द्राग्नी च त्वा बृहस्पतिश्चास्मिन्योनौ प्रत्यतिष्ठिपन्नित्येतत् । अनुष्टुभा । वाग्वा ऽअनुष्टुप्, वागिन्द्रः । इन्द्रो लोकम्पृणा । न सादयति । असन्नो ह्येषः । सूददोहसा ऽधिवदति । प्राणो वै सूददोहाः । प्राणेनैवैनमेतत्सन्तनोति, सन्दधाति ॥ ६ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- [He lays them down, with, Vāj. S. XV, 59], ‘Fill the space! fill the gap!’–that is, ‘fill up the space! fill up the gap;’–‘and lie thou steady!’–that is, ‘and lie thou firm, settled!’–‘Indra and Agni, and Br̥haspati, have settled thee in this womb;’ that is, ‘Indra and Agni, and Br̥haspati, have established thee in this womb.’ Thus (he establishes them) by an anushṭubh verse; for the Anushṭubh is speech, and Indra is speech, and the space-filler is Indra. He does not settle them, for that (sun) is unsettled. He pronounces the Sūdadohas on them, for the Sūdadohas is vital air: he thus makes him (Agni) continuous and joins him together by means of the vital air.
०७
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
कथ᳘मेषा᳘ लोकम्पृणा᳘ ऽयातयाम्नी भवती᳘त्यसौ वा᳘ ऽआदित्यो᳘ लोकम्पृणा᳘ ऽयातयामा वा᳘ ऽएषो᳘ ऽथो व्वाग्वै᳘ लोकम्पृणा᳘ ऽयातयाम्न्यु वै व्वाक्[[!!]]॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
कथ᳘मेषा᳘ लोकम्पृणा᳘ ऽयातयाम्नी भवती᳘त्यसौ वा᳘ ऽआदित्यो᳘ लोकम्पृणा᳘ ऽयातयामा वा᳘ ऽएषो᳘ ऽथो व्वाग्वै᳘ लोकम्पृणा᳘ ऽयातयाम्न्यु वै व्वाक्[[!!]]॥
मूलम् - Weber
त᳘दाहुः॥
कथ᳘मेषा᳘ लोकम्पृणा᳘यातयाम्नी भवती᳘त्यसौ वा᳘ आदित्यो᳘ लोकम्पृणा᳘यातयामा वा᳘ एषो᳘ ऽथो वाग्वै᳘ लोकम्पृणा᳘यातयाम्न्यु वै वा᳘क्॥
मूलम् - विस्वरम्
तदाहुः- कथमेषा लोकम्पृणा ऽयातयाम्नी भवतीति । असौ वा आदित्यो लोकम्पृणा । अयातयामा वा एषः । अथो वाग्वै लोकम्पृणा । अयातयाम्न्यु वै वाक् ॥ ७ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- Here now they say, ‘How does that Lokampr̥ṇā become of unimpaired strength?’ Well, the Lokampr̥ṇā is yonder sun, and he assuredly is of unimpaired strength. And the Lokampr̥ṇā also is speech, and of unimpaired strength assuredly is speech.
०८
विश्वास-प्रस्तुतिः
(क्स) स वै य᳘जुष्मतीरुपधा᳘य॥
लोकम्पृण᳘या प्र᳘च्छादयत्य᳘न्नं वै य᳘जुष्मत्य ऽइ᳘ष्टका ऽआत्मा᳘ लोकम्पृणा᳘ ऽन्नं त᳘दात्म᳘ना प᳘रिदधाति त᳘स्माद᳘न्नमात्म᳘ना प᳘रिहितमा᳘त्मैव᳘ भवति॥
मूलम् - श्रीधरादि
(क्स) स वै य᳘जुष्मतीरुपधा᳘य॥
लोकम्पृण᳘या प्र᳘च्छादयत्य᳘न्नं वै य᳘जुष्मत्य ऽइ᳘ष्टका ऽआत्मा᳘ लोकम्पृणा᳘ ऽन्नं त᳘दात्म᳘ना प᳘रिदधाति त᳘स्माद᳘न्नमात्म᳘ना प᳘रिहितमा᳘त्मैव᳘ भवति॥
मूलम् - Weber
स वै य᳘जुष्मतीरुपधा᳘य॥
लोकम्पृण᳘या प्र᳘छादयत्य᳘न्नं वै य᳘जुष्मत्य इ᳘ष्टका आत्मा᳘ लोकम्पृणा᳘न्नं त᳘दात्म᳘ना प᳘रिदधाति त᳘स्माद᳘न्नमात्म᳘ना परिहितमाॗत्मैव᳘ भवति॥
मूलम् - विस्वरम्
स वै यजुष्मतीरुपधाय लोकम्पृणया प्रच्छादयति । अन्नं वै यजुष्मत्य इष्टकाः, आत्मा लोकम्पृणा । अन्नं तदात्मना परिदधाति । तस्मादन्नमात्मना परिहितमात्मैव भवति ॥ ८ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- Having laid down those (bricks) possessed of (special) sacrificial formulas, he covers (the altar) with the Lokampr̥ṇā; for the bricks possessed of formulas mean food, and the Lokampr̥ṇā means the body: he thus encloses the food in the body, whence food enclosed in the body is the body itself.
०९
विश्वास-प्रस्तुतिः
स वा᳘ ऽआत्म᳘न्नेव[[!!]]॥
य᳘जुष्मतीरुपद᳘धाति न᳘ पक्षपुच्छे᳘ष्वात्मंस्तद᳘न्नं दधाति य᳘दु वा᳘ ऽआत्मन्न᳘न्नं धीय᳘ते त᳘दात्मा᳘नम᳘वति त᳘त्पक्षपुच्छान्य᳘थ य᳘त्पक्षपुच्छे᳘षु᳘ नैव त᳘दात्मा᳘नम᳘वति न᳘ पक्षपुच्छा᳘नि॥
मूलम् - श्रीधरादि
स वा᳘ ऽआत्म᳘न्नेव[[!!]]॥
य᳘जुष्मतीरुपद᳘धाति न᳘ पक्षपुच्छे᳘ष्वात्मंस्तद᳘न्नं दधाति य᳘दु वा᳘ ऽआत्मन्न᳘न्नं धीय᳘ते त᳘दात्मा᳘नम᳘वति त᳘त्पक्षपुच्छान्य᳘थ य᳘त्पक्षपुच्छे᳘षु᳘ नैव त᳘दात्मा᳘नम᳘वति न᳘ पक्षपुच्छा᳘नि॥
मूलम् - Weber
स वा᳘ आत्म᳘न्नेव᳟॥
य᳘जुष्मतीरुपद᳘धाति न᳘ पक्षपुछे᳘ष्वात्मंस्तद᳘न्नं दधाति य᳘दु वा᳘ आत्मन्न᳘न्नं धीय᳘ते त᳘दात्मा᳘नम᳘वति त᳘त्पक्षपुछान्य᳘थ य᳘त्पक्षपुछे᳘षुॗ नैव त᳘दात्मा᳘नम᳘वति न᳘ पक्षपुछा᳘नि॥
मूलम् - विस्वरम्
स वा आत्मन्नेव यजुष्मतीरुपदधाति, न पक्षपुच्छेषु । आत्मंस्तदन्नं दधाति । यदु वा आत्मन्नन्नं धीयते- तदात्मानमवति, तत्पक्षपुच्छानि । अथ यत्पक्षपुच्छेषु- नैव तदात्मानमवति, न पक्षपुच्छानि ॥ ९ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- Those (bricks) possessed of formulas he places on the body (of the altar) itself, not on the wings and tail: he thus puts food into the body; and whatever food is put into the body that benefits both the body and the wings and tail; but that which he puts on the wings and tail benefits neither the body, nor the wings and tail.
१०
विश्वास-प्रस्तुतिः
(न्यु) उभ᳘यीर्य᳘जुष्मतीश्च लोकम्पृणा᳘श्चात्मन्नु᳘पदधाति॥
त᳘स्मादय᳘मात्मा द्वि᳘गुणो बहुल᳘तर-इव लोकम्पृणा᳘ ऽएव᳘ पक्षपुच्छे᳘षु त᳘स्मात्पक्षपुच्छा᳘नि त᳘नीयाᳫँ᳭सीवानू᳘चीश्च तिर᳘श्चीश्चात्मन्नु᳘पदधात्यस्थीनि[[!!]] वा ऽइ᳘ष्टकास्त᳘स्मादिमा᳘न्यन्व᳘ञ्चि च तिर्य᳘ञ्चि चात्मन्न᳘स्थीनि प᳘राचीरेव᳘ पक्षपुच्छे᳘षु न हि किं᳘चन᳘ पक्षपुच्छे᳘षु तिर्यगस्थ्य᳘स्ति त᳘द्धैत᳘देव᳘ चित᳘स्य चा᳘चितस्य च व्विज्ञा᳘नमेव᳘मेव᳘ चित᳘ ऽइतरथा᳘ ऽचितः॥
मूलम् - श्रीधरादि
(न्यु) उभ᳘यीर्य᳘जुष्मतीश्च लोकम्पृणा᳘श्चात्मन्नु᳘पदधाति॥
त᳘स्मादय᳘मात्मा द्वि᳘गुणो बहुल᳘तर-इव लोकम्पृणा᳘ ऽएव᳘ पक्षपुच्छे᳘षु त᳘स्मात्पक्षपुच्छा᳘नि त᳘नीयाᳫँ᳭सीवानू᳘चीश्च तिर᳘श्चीश्चात्मन्नु᳘पदधात्यस्थीनि[[!!]] वा ऽइ᳘ष्टकास्त᳘स्मादिमा᳘न्यन्व᳘ञ्चि च तिर्य᳘ञ्चि चात्मन्न᳘स्थीनि प᳘राचीरेव᳘ पक्षपुच्छे᳘षु न हि किं᳘चन᳘ पक्षपुच्छे᳘षु तिर्यगस्थ्य᳘स्ति त᳘द्धैत᳘देव᳘ चित᳘स्य चा᳘चितस्य च व्विज्ञा᳘नमेव᳘मेव᳘ चित᳘ ऽइतरथा᳘ ऽचितः॥
मूलम् - Weber
उभ᳘यीर्य᳘जुष्मतीश्च लोकम्पृणा᳘श्चात्मन्नु᳘पदधाति॥
त᳘स्मादय᳘मात्मा द्वि᳘गुणो बहुल᳘तर इव लोकम्पृणा᳘ एव᳘ पक्षपुछे᳘षु त᳘स्मात्पक्षपुछा᳘नि त᳘नीयांसीवानू᳘चीश्च तिर᳘श्चीत्मन्नु᳘पदधात्य᳘स्थीनि वा इ᳘ष्टकास्त᳘स्मादिमा᳘न्यन्व᳘ञ्चि च तिर्य᳘ञ्चि चात्मन्न᳘स्थीनि प᳘राचीरेव᳘ पक्षपुछे᳘षु न हि किं᳘ चन᳘ पक्षपुछे᳘षु तिर्यगस्थ्य᳘स्ति त᳘द्धैत᳘देव᳘ चित᳘स्य चा᳘चितस्य च विज्ञा᳘नमेव᳘मेव᳘ चित᳘ इतरथा᳘चितः॥
मूलम् - विस्वरम्
उभयीर्यजुष्मतीश्च लोकंपृणाश्चात्मनुपदधाति । तस्मादयमात्मा द्विगुणो बहुलतर इव लोकंपृणा एव पक्षपुच्छेषु । तस्मात्पक्षपुच्छानि तनीयांसीव । अनूचीश्च तिरश्चीश्चात्मन्नुपदधाति । अस्थीनि वा इष्टकाः । तस्मादिमान्यन्वञ्चि च तिर्यञ्चि चात्मन्नस्थीनि । पराचीरेव पक्षपुच्छेषु । न हि किंचन पक्षपुच्छेषु तिर्यगस्थ्यस्ति । तद्धैतदेव चितस्य चाचितस्य च विज्ञानम् । एवमेव चितः, इतरथा ऽचितः ॥ १० ॥
सायणः
उभयीर्यजुष्मतीश्चेति । उभयीरित्यनुवाद एव लोकंपृणा एवेत्ययं पञ्च । एतदेव यजुष्मतीरुपधाय लोकंपृणया प्रच्छादयतीति । पराचीः पक्षपुच्छानीत्येव मतं वित्तस्यादेव विपरीतं तद्यद्विज्ञानलिङ्गं तदाह- एवमेव यजुष्मतीरुपधाय लोकंपृणया प्रच्छादयतीत्यनेनैव स्वयमातृण्णाया अनुवादप्रदर्शनार्थं पुनरुच्यते । तदादित्येन समिन्धे प्राणस्य समिन्धनं विधीयते तैरेषैतत्प्राणवायुधारिणं वायुना इत्येतत्कायाग्निरूपेण सदा स्थापयति । तथा लोकंपृणया सर्वमग्नेरायातं सर्वं कार्यं यजुष्मत्येष्टकया ऽव्यतिरिक्तमपि प्रच्छादयति स पक्षपुच्छमित्यभिप्रायः । तस्मादयं सर्व एवात्मोष्ण इति पक्षपुच्छानामप्युष्णत्वात् ॥ १० ॥ ११ ॥
Eggeling
- On the body (of the altar) he places both (bricks) possessed of formulas and Lokampr̥ṇās; whence that body (of a bird) is, as it were, twice as thick. On the wings and tail (he places) only Lokampr̥ṇās, whence the wings and tail are, as it were, thinner. On the body (of the altar) he places them both lengthwise and crosswise, for the bricks are bones: hence these bones in the body run both lengthwise and crosswise. On the wings and tail (he places them so as to be) turned away (from the body), for in the wings and tail there is not a single transverse bone. And this, indeed, is the difference between a built and an unbuilt (altar): suchlike is the built one, different therefrom the unbuilt one 8.
११
विश्वास-प्रस्तुतिः
स वै᳘ स्वयमातृण्णां᳘ लोकम्पृण᳘या प्र᳘च्छादयति॥
प्राणो वै᳘ स्वयमातृ᳘ण्णा ऽऽदित्यो᳘ लोकम्पृणा᳘ प्राणं त᳘दादित्ये᳘न स᳘मिन्द्धे त᳘स्मादय᳘मुष्णः[[!!]] प्राणस्त᳘या स᳘र्व्वमात्मा᳘नं प्र᳘च्छादयति स᳘र्व्वं त᳘दात्मा᳘नमादित्ये᳘न स᳘मिन्द्धे त᳘स्मादयᳫँ᳭ स᳘र्व्व ऽए᳘वा᳘त्मोष्णस्त᳘द्वै त᳘देव᳘ जीविष्यत᳘श्च मरिष्यतश्च[[!!]] व्वि᳘ज्ञानमुष्ण ऽएव᳘[[!!]] जीविष्यञ्छीतो᳘[[!!]] मरिष्य᳘न्॥
मूलम् - श्रीधरादि
स वै᳘ स्वयमातृण्णां᳘ लोकम्पृण᳘या प्र᳘च्छादयति॥
प्राणो वै᳘ स्वयमातृ᳘ण्णा ऽऽदित्यो᳘ लोकम्पृणा᳘ प्राणं त᳘दादित्ये᳘न स᳘मिन्द्धे त᳘स्मादय᳘मुष्णः[[!!]] प्राणस्त᳘या स᳘र्व्वमात्मा᳘नं प्र᳘च्छादयति स᳘र्व्वं त᳘दात्मा᳘नमादित्ये᳘न स᳘मिन्द्धे त᳘स्मादयᳫँ᳭ स᳘र्व्व ऽए᳘वा᳘त्मोष्णस्त᳘द्वै त᳘देव᳘ जीविष्यत᳘श्च मरिष्यतश्च[[!!]] व्वि᳘ज्ञानमुष्ण ऽएव᳘[[!!]] जीविष्यञ्छीतो᳘[[!!]] मरिष्य᳘न्॥
मूलम् - Weber
स वै᳘ स्वयमातृणां᳘ लोकम्पृण᳘या प्र᳘छादयति॥
प्राणो वै᳘ स्वयमातृॗणादित्यो᳘ लोकम्पृणा᳘ प्राणं त᳘दादित्ये᳘न स᳘मिन्द्धे त᳘स्मादय᳘मुष्णः᳘ प्राणस्त᳘या स᳘र्वमात्मा᳘नम् प्र᳘छादयति स᳘र्वं त᳘दात्मा᳘नमादित्ये᳘न स᳘मिन्द्धे त᳘स्मादयᳫं स᳘र्व एॗवाॗत्मोष्णस्त᳘द्धैत᳘देव᳘ जीविष्यत᳘श्च मरिष्यत᳘श्च विज्ञा᳘नमुष्ण᳘ एव᳘ जीविष्य᳘ञ्छीतो᳘ मरिष्य᳘न्॥
मूलम् - विस्वरम्
स वै स्वयमातृण्णां लोकम्पृणया प्रच्छादयति । प्राणो वै स्वयमातृण्णा, आदित्यो लोकंपृणा । प्राणं तदादित्येन समिन्द्धे । तस्मादयमुष्णः प्राणः । तया सर्वमात्मानं प्रच्छादयति । सर्वं तदात्मानमादित्येन समिन्द्धे । तस्मादयं सर्व एवात्मोष्णः । तद्धैतदेव जीविष्यतश्च मरिष्यतश्च विज्ञानम् । उष्ण एव जीविष्यन्, शीतो मरिष्यन् ॥ ११ ॥
सायणः
[व्याख्यानं दशे]
Eggeling
- The Svayamātr̥ṇṇā (naturally-perforated brick) he encloses with Lokampr̥ṇā (bricks); for the naturally-perforated one is the breath, and the ‘space-filler’ is the sun: he thus kindles the breath by means of the sun, whence this breath (of ours) is warm. With that (kind of brick) he fills up the whole body: he thereby kindles the whole body by means of the sun, whence this whole body (of ours) is warm. And this, indeed, is the difference between one that will live and one that will die:
he that will live is warm, and he that will die is cold.
१२
विश्वास-प्रस्तुतिः
(न्त्स) स य᳘स्याᳫँ᳭ स्रक्त्यां[[!!]] प्रथमे᳘ ऽउपद᳘धाति॥
त᳘तो दश᳘भिर्दशभिः संच्छाद᳘यन्नेत्या᳘ स्वयमातृण्णा᳘यै स तेनैव᳘[[!!]] दक्षिणावृ᳘ज्जघ᳘नेन स्वयमातृण्णां᳘ संच्छाद᳘यन्ने᳘त्या ऽऽनूक्याया ऽअ᳘थ[[!!]] पु᳘नरे᳘त्य त᳘मवधिᳫँ᳭ सं᳘च्छादयति॥
मूलम् - श्रीधरादि
(न्त्स) स य᳘स्याᳫँ᳭ स्रक्त्यां[[!!]] प्रथमे᳘ ऽउपद᳘धाति॥
त᳘तो दश᳘भिर्दशभिः संच्छाद᳘यन्नेत्या᳘ स्वयमातृण्णा᳘यै स तेनैव᳘[[!!]] दक्षिणावृ᳘ज्जघ᳘नेन स्वयमातृण्णां᳘ संच्छाद᳘यन्ने᳘त्या ऽऽनूक्याया ऽअ᳘थ[[!!]] पु᳘नरे᳘त्य त᳘मवधिᳫँ᳭ सं᳘च्छादयति॥
मूलम् - Weber
स य᳘स्याᳫं स्रक्त्या᳘म् प्रथमे᳘ उपद᳘धाति॥
त᳘तो दश᳘भिर्दशभिः संछाद᳘यन्नेत्या᳘ स्वयमातृणा᳘यै स ते᳘नैव᳘ दक्षिणावृ᳘ज्जघ᳘नेन स्वयमातृणा᳘ᳫं᳘ संछाद᳘यन्नेॗत्यानूॗक्याया अ᳘थ पु᳘नरे᳘त्य त᳘मवधिᳫं सं᳘छादयति॥
मूलम् - विस्वरम्
स यस्यां स्रक्त्यां प्रथमे उपदधाति- ततो दशभिर्दशभिः संछादयन्नेति- आ स्वयमातृण्णायै स तेनैव दक्षिणावृज्जघनेन स्वयमातृण्णां संछादयन्नेत्य- आनूक्यायै । अथ पुनरेत्य तमवधिं संछादयति ॥ १२ ॥
सायणः
स यस्यां स्रक्त्यामिति । यस्यां स्रक्त्यां अंसे श्रोण्यां प्रथमे लोकंपृणे उपदधाति । तत्स्रक्तेरारभ्य दशभिर्दशभिर्लोकंपृणाभिः सकृत्प्रयुक्तमंत्राभिः संछादयन्नेत्यायत्या स्वयमातृण्णायै एवमनन्तरापंक्तीर्यस्य स तेनेव मार्गेण प्रदक्षिणं जघनेन स्वयमातृण्णां संछादयन्नागच्छति यावत्पूर्वम् आनूक्याया अनूके भवायाः । अथ पुनर्जघनेन स्वयमातृण्णायामेत्य संछादयन्नवधिं संछादयन्ननूक्याया एवारभ्य तथाहि प्रदक्षिणं भवति । आत्मानं अग्रे संछादयति इति क्रमवचनम् ॥ १२ ॥ १३ ॥
Eggeling
- From the corner in which he lays down the first two (Lokampr̥ṇās) he goes on filling up (the altar) by tens up to the Svayamātr̥ṇṇā. In the same way he goes on filling it up from left to right behind the naturally-perforated one up to (the brick on) the cross-spine 9. He then fills it up whilst returning to that limit 10.
१३
विश्वास-प्रस्तुतिः
(त्या) आत्मा᳘नम᳘ग्रे सं᳘छादयति॥
(त्या) आत्मा᳘ ह्येवा᳘ग्रे सम्भवतः सम्भ᳘वत्यथ[[!!]] द᳘क्षिणं पक्षम᳘थ पु᳘च्छमथो᳘त्तरं त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳘ ऽथो ऽएवं वा᳘ ऽअसा᳘वादित्य᳘ ऽइमाल्ँ᳘लोका᳘न्दक्षिणावृ᳘दनुपर्यै᳘ति॥
मूलम् - श्रीधरादि
(त्या) आत्मा᳘नम᳘ग्रे सं᳘छादयति॥
(त्या) आत्मा᳘ ह्येवा᳘ग्रे सम्भवतः सम्भ᳘वत्यथ[[!!]] द᳘क्षिणं पक्षम᳘थ पु᳘च्छमथो᳘त्तरं त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳘ ऽथो ऽएवं वा᳘ ऽअसा᳘वादित्य᳘ ऽइमाल्ँ᳘लोका᳘न्दक्षिणावृ᳘दनुपर्यै᳘ति॥
मूलम् - Weber
आत्मा᳘नम᳘ग्रे सं᳘छादयति॥
आत्माॗ ह्येवा᳘ग्रे सम्भवतः सम्भ᳘वत्य᳘थ द᳘क्षिणम् पक्षम᳘थ पु᳘छमथो᳘त्तरं त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳘थो एवं वा᳘ असा᳘वादित्य᳘ इमां᳘लोका᳘न्दक्षिणावृ᳘दनुपर्यै᳘ति॥
मूलम् - विस्वरम्
आत्मानमग्रे संछादयति । आत्मा ह्येवाग्रे सम्भवतः सम्भवति । अथ दक्षिणं पक्षम् । अथ पुच्छम् । अथोत्तरम् । तद् दक्षिणावृत् । तद्धि देवत्रा । अथो एवं वा असावादित्य इमाँलोकान्दक्षिणावृदनुपर्यैति ॥ १३ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- The body (of the altar) he fills up first, for of (a bird) that is produced, the body is produced first, then the right wing, then the tail, then the left (wing): that is in the rightward (sunwise) way, for this is (the way) with the gods, and thus, indeed, yonder sun moves along these worlds from left to right.
१४
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ प्राण᳘ ऽएव य᳘ल्लोकम्पृणा[[!!]]॥
त᳘या स᳘र्व्वमात्मा᳘नं प्र᳘च्छादयति स᳘र्व्वस्मिंस्त᳘दात्म᳘न्प्राणं᳘ दधाति तद्य᳘द्धास्यैषा᳘ ऽङ्ग᳘ नाभिप्राप्नुया᳘त्प्राणो᳘ हास्य तद᳘ङ्गं᳘[[!!]] नाभिप्रा᳘प्नुयाद्य᳘दु वै᳘ प्राणो᳘ ऽङ्गं᳘ नाभिप्राप्नो᳘ति शु᳘ष्यति वावैतन्म्ला᳘यति वा त᳘स्मादेनᳫँ᳭ स᳘र्व्वमे᳘वैत᳘या प्र᳘च्छादयेत्॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ प्राण᳘ ऽएव य᳘ल्लोकम्पृणा[[!!]]॥
त᳘या स᳘र्व्वमात्मा᳘नं प्र᳘च्छादयति स᳘र्व्वस्मिंस्त᳘दात्म᳘न्प्राणं᳘ दधाति तद्य᳘द्धास्यैषा᳘ ऽङ्ग᳘ नाभिप्राप्नुया᳘त्प्राणो᳘ हास्य तद᳘ङ्गं᳘[[!!]] नाभिप्रा᳘प्नुयाद्य᳘दु वै᳘ प्राणो᳘ ऽङ्गं᳘ नाभिप्राप्नो᳘ति शु᳘ष्यति वावैतन्म्ला᳘यति वा त᳘स्मादेनᳫँ᳭ स᳘र्व्वमे᳘वैत᳘या प्र᳘च्छादयेत्॥
मूलम् - Weber
स᳘ एष᳘ प्राण᳘ एव य᳘ल्लोकम्पृणा᳟॥
त᳘या स᳘र्वमात्मा᳘नम् प्र᳘छादयति स᳘र्वस्मिस्त᳘दात्म᳘न्प्राणं᳘ दधाति तद्य᳘द्धास्यैषाॗङ्गं नाभिप्राप्नुया᳘त्प्राणो᳘ हास्य तॗद᳘ङ्गं नाभिप्रा᳘प्नुयाद्य᳘दु वै᳘ प्राणोॗ ऽङ्गं नाभिप्राप्नो᳘ति शु᳘ष्यति वा वै तन्म्ला᳘यति वा त᳘स्मादेनᳫं स᳘र्वमेॗवैत᳘या प्र᳘छादयेत्॥
मूलम् - विस्वरम्
स एष प्राण एव- यल्लोकम्पृणा । तथा सर्वमात्मानं प्रच्छादयति । सर्वस्मिंस्तदात्मन्प्राणं दधाति । तद्यद्धास्यैषा ऽङ्गं नाभिप्राप्नुयात्- प्राणो हास्य तदङ्गं नाभिप्राप्नुयात् । यदु वै प्राणो ऽङ्गं नाभिप्राप्नोति- शुष्यति वावैतत्, म्लायति वा । तस्मादेनं सर्वमेवैतया प्रच्छादयेत् ॥ १४ ॥
सायणः
स एष प्राण इति । ‘प्राणः’ कायाग्निः ॥ १४ ॥
Eggeling
- The Lokampr̥ṇā, doubtless, is the same as the vital air; he therewith fills up the whole body (of the altar): he thus puts vital air into the whole body. If he were not to reach any member thereof, then the vital air would not reach that member of him (Agni); and whatever member the vital air does not reach, that, assuredly, either dries up or withers away: let him therefore fill up therewith the whole of it.
१५
विश्वास-प्रस्तुतिः
(त्स) स वा᳘ ऽआत्म᳘न ऽएवा᳘धि पक्षपुच्छा᳘नि चि᳘नोति॥
(त्या) आत्म᳘नो᳘ ह्येवाध्य᳘ङ्गानि प्ररो᳘हन्त्य᳘थ य᳘त्पुर᳘स्तादर्व्वा᳘चीरुपदध्याद्य᳘था ऽन्य᳘त ऽआहृत्या᳘ङ्गं प्रतिदध्या᳘त्तादृक्तत्[[!!]]॥
मूलम् - श्रीधरादि
(त्स) स वा᳘ ऽआत्म᳘न ऽएवा᳘धि पक्षपुच्छा᳘नि चि᳘नोति॥
(त्या) आत्म᳘नो᳘ ह्येवाध्य᳘ङ्गानि प्ररो᳘हन्त्य᳘थ य᳘त्पुर᳘स्तादर्व्वा᳘चीरुपदध्याद्य᳘था ऽन्य᳘त ऽआहृत्या᳘ङ्गं प्रतिदध्या᳘त्तादृक्तत्[[!!]]॥
मूलम् - Weber
स वा᳘ आत्म᳘न एवा᳘धि पक्षपुछा᳘नि चिनोति॥
आत्म᳘नोॗ ह्येवाध्य᳘ङ्गानि प्ररो᳘हन्त्य᳘थ य᳘त्पुर᳘स्तादर्वा᳘चीरुपदध्याद्य᳘थान्य᳘त आहृत्या᳘ङ्गम् प्रतिदध्या᳘त्तादृक्त᳘त्॥
मूलम् - विस्वरम्
स वा आत्मन एवाधि पक्षपुच्छानि चिनोति । आत्मनो ह्येवाध्यङ्गानि प्ररोहन्ति । अथ यत्पुरस्तादर्वाचीरुपदध्यात्- यथा ऽन्यत आहृत्याङ्गं प्रतिदध्यात्- तादृक् तत् ॥ १५ ॥
सायणः
स वा आत्मान इति । ‘आत्मन एवा ऽधि पक्षपुच्छानि चिनोति’ इत्येतदत्रोच्यते । आहृत्याङ्गंमिष्टका उपदध्यादित्यर्थः ॥ १५ ॥
Eggeling
- The wings and tail he builds on to the body, for the wings and tail grow on to the body; but were he first to lay down those (bricks) turned away (from the body), it would be as if he were to take a limb from elsewhere and put it on again.
१६
विश्वास-प्रस्तुतिः
(न्न᳘) न᳘ भिन्नां न᳘ कृष्णामु᳘पदध्यात्॥
(दा᳘) आ᳘र्च्छति वा᳘ ऽएषा या᳘ भिद्य᳘त ऽआ᳘र्तम्वेत᳘द्रूपं य᳘त्कृष्णं नेदा᳘र्तमात्मा᳘नमभिसंस्कर᳘वा ऽइ᳘ति ना᳘भिन्नां प᳘रास्येन्नेद᳘नार्तमात्म᳘नो बहिर्धा᳘ कर᳘वाणी᳘ति धि᳘ष्ण्येभ्यः प्रतिसंख्या᳘य या᳘ व्विरा᳘जमतिरिच्ये᳘रन्नो᳘त्तरामुद्भ᳘वेयुस्तद्वै ख᳘लु ता ऽआ᳘र्च्छन्ति ता᳘ भि᳘त्त्वोत्कर ऽउ᳘त्किरेदुत्करो वा ऽअ᳘तिरिक्तस्य प्रतिष्ठा तद्यत्रा᳘तिरिक्तस्य प्रतिष्ठा त᳘दे᳘वैना ऽएतत्प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
(न्न᳘) न᳘ भिन्नां न᳘ कृष्णामु᳘पदध्यात्॥
(दा᳘) आ᳘र्च्छति वा᳘ ऽएषा या᳘ भिद्य᳘त ऽआ᳘र्तम्वेत᳘द्रूपं य᳘त्कृष्णं नेदा᳘र्तमात्मा᳘नमभिसंस्कर᳘वा ऽइ᳘ति ना᳘भिन्नां प᳘रास्येन्नेद᳘नार्तमात्म᳘नो बहिर्धा᳘ कर᳘वाणी᳘ति धि᳘ष्ण्येभ्यः प्रतिसंख्या᳘य या᳘ व्विरा᳘जमतिरिच्ये᳘रन्नो᳘त्तरामुद्भ᳘वेयुस्तद्वै ख᳘लु ता ऽआ᳘र्च्छन्ति ता᳘ भि᳘त्त्वोत्कर ऽउ᳘त्किरेदुत्करो वा ऽअ᳘तिरिक्तस्य प्रतिष्ठा तद्यत्रा᳘तिरिक्तस्य प्रतिष्ठा त᳘दे᳘वैना ऽएतत्प्र᳘तिष्ठापयति॥
मूलम् - Weber
न᳘ भिन्नां न᳘ कृष्णामु᳘पदध्यात्॥
आ᳘र्छति वा᳘ एषा या᳘ भिद्य᳘त आ᳘र्तम्वेत᳘द्रूपं य᳘त्कृष्णं नेदा᳘र्तमात्मा᳘नमभिसंस्कर᳘वा इ᳘ति ना᳘भिन्नाम् प᳘रास्येन्नेद᳘नार्तमात्म᳘नो बहिर्धा᳘ कर᳘वाणी᳘ति धि᳘ष्ण्येभ्यः प्रतिसंख्या᳘य या᳘ विरा᳘जमतिरिच्ये᳘रन्नो᳘त्तरामुद्भ᳘वेयुस्तद्वै ख᳘लु ता आ᳘र्छन्ति ता᳘ भिॗत्त्वोत्कर उ᳘त्किरेदुत्करो वा अ᳘तिरिक्तस्य प्रतिष्ठा तद्यत्रा᳘तिरिक्तस्य प्रतिष्ठा त᳘देॗवैना एतत्प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
न भिन्नां न कृष्णामुपदध्यात् । आर्च्छति वा एषा- या भिद्यते । आर्तम्वेतद्रूपं- यत्कृष्णम् । नेदार्तमात्मानमभिसंस्करवा इति । नाभिन्नां परास्येत् । नेदनार्तमात्मनो बहिर्धा करवाणीति । धिष्ण्येभ्यः प्रतिसङ्ख्याय या विराजमतिरिच्येरन्, नोत्तरामुद्भवेयुः । तद्वै खलु ता आर्च्छन्ति । ता भित्त्वोत्कर उत्किरेत् । उत्करो वा अतिरिक्तस्य प्रतिष्ठा । तद् यत्रातिरिक्तस्य प्रतिष्ठा- तदेवैना एतत्प्रतिष्ठापयति ॥ १६ ॥
सायणः
‘आर्च्छति’ ऋ गतौ धातुः आङ्पूर्वः ऋच्छतिर्नाशे वर्त्तते न विनश्यतीति चैषा या वेष्टका भिद्यते आर्तं च विनष्टं ‘उ एतद् रूपम्’ तत एवमात्मानमभिसंस्कारवै इति न वा परो ऽक्षे ऽपि तदेतन्मार्गे (मम) मासानामभ्यर्द्धं करवाणीति । कथं तर्ह्यतिरिक्ता इष्टकाः कुर्यादित्येतदाह- आत्मनि अन्नं धीयते आत्मार्थं प्रतिसंख्याय गणयित्वा द्वाभ्यां नासीदिति इष्टकादशको विराडिति (संकालायदोश्च न) कामयेत् न संकल्प्यमानास्त्रय इष्टका विराजं (दशकर्मारंभे तवतूत्तरवेदिविराजं चोद्भवेयुर्ये) पुरस्तात् भित्त्वा उत्किरेत् । ननु चैवं सत्यनार्तमेवायमात्मनो बहिर्धा कुर्यादित्यत आह । तद्वै खलु आर्च्छति तेनैव ते विनश्यन्ति येन विराजं नासुवतीत्येष वृथा हि सा विराडित्यभिप्रायः ॥ १६ ॥
Eggeling
- Let him not lay down either a broken (brick) or a black one; for one that is broken causes failure, and sickly is that form which is black: ‘Lest I should make up a sickly body,’ he thinks 11. Let him not throw aside an unbroken (brick), lest he should put what is not sickly outside the body. Whatever (bricks), in counting from the dhishṇya hearths, should exceed a Virāj 12, and not make up another, such (bricks) indeed cause failure: let him break them and throw them 13 (ut-kir) on the heap of rubbish (utkara), for the heap of rubbish is the seat of what is redundant: thus he thereby settles them where there is. the seat of that which is redundant.
१७
विश्वास-प्रस्तुतिः
(त्य) अथा᳘त ऽइष्टकामात्रा᳘णामेव᳘॥
पादमात्रीः᳘ प्रथमा᳘यां चोत्तमा᳘यां च चि᳘त्योरु᳘पदध्यात्प्रतिष्ठा वै पा᳘दो यो वै पा᳘दः स ह᳘स्त ऽऊर्वस्थमा᳘त्र्यो व्व᳘र्षिष्ठाः स्युर्न᳘ ह्यूर्व्वस्थात्किं᳘चन व्व᳘र्षीयो ऽस्थ्य᳘स्ति त्र्यालिखित᳘वत्यस्तिस्रश्चि᳘तयः स्युस्त्रिवृ᳘तो᳘ हीमे᳘ लोका ऽअ᳘परिमिता ऽऽलिखिते द्वे र᳘सो हैते चि᳘ती ऽअ᳘परिमित ऽउ वै र᳘सः स᳘र्व्वा᳘स्त्वेव᳘ त्र्यालिखित᳘वत्यः स्युः स᳘र्व्वे᳘ ह्ये᳘वेमे᳘ लोका᳘स्त्रिवृतः[[!!]]॥
मूलम् - श्रीधरादि
(त्य) अथा᳘त ऽइष्टकामात्रा᳘णामेव᳘॥
पादमात्रीः᳘ प्रथमा᳘यां चोत्तमा᳘यां च चि᳘त्योरु᳘पदध्यात्प्रतिष्ठा वै पा᳘दो यो वै पा᳘दः स ह᳘स्त ऽऊर्वस्थमा᳘त्र्यो व्व᳘र्षिष्ठाः स्युर्न᳘ ह्यूर्व्वस्थात्किं᳘चन व्व᳘र्षीयो ऽस्थ्य᳘स्ति त्र्यालिखित᳘वत्यस्तिस्रश्चि᳘तयः स्युस्त्रिवृ᳘तो᳘ हीमे᳘ लोका ऽअ᳘परिमिता ऽऽलिखिते द्वे र᳘सो हैते चि᳘ती ऽअ᳘परिमित ऽउ वै र᳘सः स᳘र्व्वा᳘स्त्वेव᳘ त्र्यालिखित᳘वत्यः स्युः स᳘र्व्वे᳘ ह्ये᳘वेमे᳘ लोका᳘स्त्रिवृतः[[!!]]॥
मूलम् - Weber
अथा᳘त इष्टकामात्रा᳘णामेव᳟॥
पादमात्रीः᳘ प्रथमा᳘यां चोत्तमा᳘यां च चि᳘त्योरु᳘पदध्यात्प्रतिष्ठा वै पा᳘दो यो वै पा᳘दः स ह᳘स्त ऊर्वस्थमाॗत्र्यो व᳘र्षिष्ठाः स्युर्नॗ ह्यूर्वस्थात्किं᳘ चन व᳘र्षीयो ऽस्थ्य᳘स्ति त्र्यालिखित᳘वत्यस्तिस्रश्चि᳘तयः स्युस्त्रिवृ᳘तोॗ हीमे᳘ लोका अ᳘परिमितालिखिते द्वे र᳘सो हैते चि᳘ती अ᳘परिमित उ वै र᳘सः स᳘र्वाॗस्त्वेव᳘ त्र्यालिखित᳘वत्यः स्युः स᳘र्वेॗ ह्येॗवेमे᳘ लोका᳘स्त्रिवृ᳘तः॥
मूलम् - विस्वरम्
अथात इष्टकामात्राणामेव । पादमात्रीः प्रथमायां चोत्तमायां च चित्योरुपदध्यात् । प्रतिष्ठा वै पादः । यो वै पादः । स हस्तः । ऊर्वस्थमात्र्यो वर्षिष्ठाः स्युः । न ह्यूर्वस्थात्किञ्चन वर्षीयो ऽस्थ्यस्ति । त्र्यालिखितवत्यस्तिस्रश्चितयः स्युः । त्रिवृतो हीमे लोकाः । अपरिमिता ऽऽलिखिते द्वे । रसो हैते चिती । अपरिमित उ वै रसः । सर्वास्त्वेव त्र्यालिखितवत्यः स्युः । सर्वे ह्येवेमे लोकास्त्रिवृतः ॥ १७ ॥
सायणः
अथात इष्टकामात्राणामेव पादमात्रीः प्रथमायां चोत्तमायां च चित्योरुपदध्यादिति । विशेषेण यजुष्मतीः लोकंपृणाश्च ताश्च समन्ततः पादमात्रीः समचतुरस्राः पादमात्रीः । अशिरो ऽपिहि पादमात्रमेव प्रादेशमात्रत्वादित्येषो ऽत्राभिप्रायः । ऊर्जस्थमात्र्यो वृद्धतमाः स्युरन्यास्त्वर्थादतो ऽर्वाङ्नैवेत्यभिप्रायः । समचतुरस्रा इत्येषामविशेषात् प्राप्ते क्षेत्रस्याल्पत्वान्नैतानि सङ्ख्यानियतपरिमाणाश्च तत्र पादमात्रीरिति सामर्थ्याद्युचितत्वात्पादमात्रता च हीयते सा तु केन वा पूरणकारेण चतुरस्रपादभागावतीयापादभागार्द्धपादभागचतुर्भागेषु ( ) सर्व चैवेत्युक्तेर्द्वार्ष ( ) पद्यास्वे तस्य चान्ततः स्वगृहीतासु तद्यतः संगृहीता अपि नैवास्तु पादभागोद्दिष्टाप्येकतः परित्यक्तं तच्चापि हि पादमात्रीत्वं प्रतिहतम् । यथा समिति अवधि प्रादेशमात्रीत्वमेककर्त्त एव निविष्टमिति मन्यमाने । (इदमेव अवोस्रपक्तं प्रसंगेन प्रतिष्ठा वै पादः ततः किं प्रथमाववितिः प्रतिष्ठाते मगस्यां विप्रकृष्टा ऽनुरूपाः पादमात्रीरूपवित्यभिप्रायः यद्येवं ततः प्रतिष्ठोमेकायां प्रथमायामेव पादमात्र्यो नैवं तु पंचमी तु शिरः संस्तुता तस्यां किमिति पादमात्र इत्यत आह यो वैषादसहरिस्तुल्यपरिमाणत्वायोत्तरताघततः कियद्येवं एतदैवो भवति तदस्थिरः प्रादेशमात्रं प्रादेशहासस्तोहश्वपश्वापादस्तेन शिरोभूतान्यामपि पंचम्यां चितौ युक्त्या एव यामेव लिंगोत्युमेकैकस्य भेते नस्यां विप्रक्तितिष्टानुरूपाः पादमात्रीरूपत्वादित्यभिप्रायः । लोकप्रत्यापुरीषं व्यपधीयते तेन यजुष्मत्यां अपि तदस्तीति व्यपदेक्ष्यते) ॥ १७ ॥
Eggeling
- Now, then, of the measures of the bricks. In the first and last layers let him lay down (bricks) of a foot (square), for the foot is a support; and the hand is the same as the foot. The largest (bricks) should be of the measure of the thigh-bone, for there is no bone larger than the thigh-bone. Three layers should have (their bricks) marked with three lines, for threefold are these worlds; and two (layers
may consist) of (bricks) marked with an indefinite number of lines, for these two layers are the flavour, and the flavour is indefinite; but all (the layers) should rather have (bricks) marked with three lines, for threefold are all these worlds.
१८
विश्वास-प्रस्तुतिः
(तो ऽथा᳘) अथा᳘त इ᳘ष्टकानामे᳘वाव᳘पनस्य॥
यां कां᳘ च य᳘जुष्मतीमि᳘ष्टकां विद्यात्तां᳘ मध्यमा᳘यां चि᳘ता ऽउ᳘पदध्यादन्त᳘रिक्षं वै᳘ मध्यमा चि᳘तिरन्त᳘रिक्षमु वै स᳘र्व्वेषां भूता᳘नामाव᳘पनम᳘थो ऽअ᳘न्नं वै य᳘जुष्मत्य ऽइ᳘ष्टका ऽउद᳘रं मध्यमा चि᳘तिरुद᳘रे तद᳘न्नं[[!!]] दधाति॥
मूलम् - श्रीधरादि
(तो ऽथा᳘) अथा᳘त इ᳘ष्टकानामे᳘वाव᳘पनस्य॥
यां कां᳘ च य᳘जुष्मतीमि᳘ष्टकां विद्यात्तां᳘ मध्यमा᳘यां चि᳘ता ऽउ᳘पदध्यादन्त᳘रिक्षं वै᳘ मध्यमा चि᳘तिरन्त᳘रिक्षमु वै स᳘र्व्वेषां भूता᳘नामाव᳘पनम᳘थो ऽअ᳘न्नं वै य᳘जुष्मत्य ऽइ᳘ष्टका ऽउद᳘रं मध्यमा चि᳘तिरुद᳘रे तद᳘न्नं[[!!]] दधाति॥
मूलम् - Weber
अथा᳘त इ᳘ष्टकानामेॗवाव᳘पनस्य॥
यां कां᳘ च य᳘जुष्मतीमि᳘ष्टकां विद्यात्ता᳘म् मध्यमा᳘यां चि᳘ता उ᳘पदध्यादन्त᳘रिक्षं वै᳘ मध्यमा चि᳘तिरन्त᳘रिक्षमु वै स᳘र्वेषाम् भूता᳘नामाव᳘पनम᳘थो अ᳘न्नं वै य᳘जुष्मत्य इ᳘ष्टका उद᳘रम् मध्यमा चि᳘तिरुद᳘रे तदन्नं᳘ दधाति॥
मूलम् - विस्वरम्
अथात इष्टकानामेवावपनस्य । यां कां च यजुष्मतीमिष्टकां विद्यात्- तां मध्यमायां चिता उपदध्यात् । अन्तरिक्षं वै मध्यमा चितिः । अन्तरिक्षमु वै सर्वेषां भूतानामावपनम् । अथो अन्नं वै यजुष्मत्य इष्टकाः, उदरं मध्यमा चितिः । उदरे तदन्नं दधाति ॥ १८ ॥
सायणः
अथात इति । प्रसन्ने द्वे ॥ १८ ॥ १९ ॥
इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये ऽष्टमे काण्डे सप्तमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (८-७-२) ॥
Eggeling
- Now, then, of the location 14 of (special) bricks. Any (special) brick he knows, provided with a formula, let him place in the middle (third) layer; for the middle layer is the air, and the air, doubtless, is the location of all beings. Moreover, bricks with (special) formulas are food, and the middle layer is the belly: he thus puts food into the belly.
१९
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्नो᳘) नो᳘पदध्यान्ने᳘दतिरेच᳘यानी᳘ति स वा ऽउ᳘पैव᳘ दध्यात्का᳘मेभ्यो वा᳘ ऽएता ऽइ᳘ष्टका ऽउ᳘पधीयन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति स वै᳘ नैवो᳘पदध्यादेता᳘वद्वा᳘ ऽएत᳘द्देवा᳘ ऽअकुर्व्वन्॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्नो᳘) नो᳘पदध्यान्ने᳘दतिरेच᳘यानी᳘ति स वा ऽउ᳘पैव᳘ दध्यात्का᳘मेभ्यो वा᳘ ऽएता ऽइ᳘ष्टका ऽउ᳘पधीयन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति स वै᳘ नैवो᳘पदध्यादेता᳘वद्वा᳘ ऽएत᳘द्देवा᳘ ऽअकुर्व्वन्॥
मूलम् - Weber
त᳘दाहुः॥
नो᳘पदध्यान्ने᳘दतिरेच᳘यानी᳘ति स वा उ᳘पैव᳘ दध्यात्का᳘मेभ्यो वा᳘ एता इ᳘ष्टका उ᳘पधीयन्ते न वै का᳘मानाम᳘तिरिक्तमस्ति स वैॗ नैवो᳘पदध्यादेता᳘वद्वा᳘ एत᳘द्देवा᳘ अकुर्वन्॥
मूलम् - विस्वरम्
तदाहुः- नोपदध्यात्, नेदतिरेचयानीति । स वा उपैव दध्यात् । कामेभ्यो वा एता इष्टका उपधीयन्ते । न वै कामानामतिरिक्तमस्ति । स वै नैवोपदध्यात् । एतावद्वा एतद्देवा अकुर्वन् ॥ १९ ॥
सायणः
[व्याख्यानं अष्टादशे]
Eggeling
- Here, now, they say, ‘Let him not lay down (such special bricks) lest he should do what is excessive.’ But he may, nevertheless, lay them down; for such bricks are laid down for (the fulfilment of special) wishes, and in wishes there is nothing excessive. But let him rather not lay them down, for just that much the gods then did.
-
दक्षिणा ँसात्प्रत्यगरत्निमात्रादधिलोकंपृणाः पूर्व्ववत् । का. श्रौ. सू. १७ । २६० । ↩︎
-
131:2 In laying down the Lokampr̥ṇās of the fifth layer, he begins, as in the first layer, from the right shoulder, or the south-east corner, of the altar, but so that in this case the first ‘space-filler’ is laid down, not at the corner, but a cubit to the west of it. Starting from that spot, he fills up the available spaces, in two turns, moving in the sunwise fashion. ↩︎
-
132:1 Rather, the first, second, and third layers are the three worlds. ↩︎
-
132:2 At VI, 1, 2, 25 Tāṇḍya was made to maintain that the Yajushmatīs, or bricks laid down with special formulas, were the nobility, and that the Lokampr̥ṇās, laid down with one and the same formula, were the peasants, and as the noble (or chieftain) required a numerous clan for his subsistence, there should be fewer of the former kind of bricks, than the established practice was. This view was however rejected by the author of the Brāhmaṇa, and here, in opposition to that view, the Lokampr̥ṇā is identified with the nobility, and the Yajushmatīs with the clan. ↩︎
-
132:3 The common formula used with these bricks, and from which they derive their name–beginning as it does ‘Lokam pr̥ṇa,’ ‘Fill the space!’ see parag. 6–is pronounced once only after every ten such bricks, and after any odd ones at the end. ↩︎
-
133:1 In the translation of VII, 5, 2, 14 (part iii, p. 404), the passage ‘having taken possession of the man by strength,’ which was based on a wrong reading (see Weber, Berl. Cat. II, p. 69), should read thus: ‘having pre-eminently endowed man with power’ (or, perhaps, ‘having placed him above (others) in respect of power,’ St. Petersb. Dict.) ↩︎
-
133:2 I do not know whether ‘atas’ might be taken here in the sense of ’thither,’ or whether it goes along with ’tasmāt,’ merely strengthening it. The meaning in either case would seem to be this. In the first turn of filling up the empty spaces he first moves along from the south-east corner (the point where the sun rises) to the back or west end of the spine (the place where the sun sets) and the central brick; and having thus, as it were, touched the earth again, he proceeds from there in the same sunwise fashion, filling up the north part of the altar until he reaches the east end of the spine, and there, as it were, touches the earth once more. In the second turn he again begins (with the second brick) in the south-east, and repeats the same process, in filling up the south part of the altar, and completing at the southeast corner. The laying down of the Lokampr̥ṇās would thus be supposed to occupy the full space of two days and two nights. ↩︎
-
135:1 That is, one not properly built. ↩︎
-
136:1 This would seem to be the Vikarṇī (see VIII, 7, 3, 9 seqq.) which, however, like the central Svayamātr̥ṇṇā, is only to be laid down after the layer has been levelled up. ↩︎
-
136:2 Viz. to the east end of the ‘spine.’ ↩︎
-
137:1 Here, as so often before, the effect to be avoided is expressed by a clause in oraṭio ḍirecṭa with ’ned’; the inserted clause with ‘vai’ indicating the reason why that effect is to be dreaded. To adapt the passage to our own mode of diction, we should have to translate:–Let him not lay down either a broken brick or a black one, lest he should form a sickly body; for a brick which is broken comes to grief, and what is black is of sickly appearance.–In the next sentence of the translation, the direct form of speech has been discarded. ↩︎
-
137:2 The pāda of the Virāj consists of ten, and a whole Virāj stanza of thirty (or forty), syllables. Hence the number of the bricks is to be divisible by ten. ↩︎
-
137:3 Or, perhaps, dig them in. ↩︎
-
138:1 Āvapana has also the meaning of ’throwing in, insertion,’ which is likewise understood here, whilst further on in this paragraph (’the air is the āvapanam of all beings’) it can scarcely have this meaning (? something injected). Cf. IX, 4, 2, 27. ↩︎