०१
विश्वास-प्रस्तुतिः
ऋत᳘व्या ऽउ᳘पदधाति॥
(त्यृ) ऋत᳘व ऽएते य᳘दृत᳘व्या ऽऋतू᳘ने᳘वैतदु᳘पदधाति त᳘देतत्स᳘र्व्वं य᳘दृत᳘व्याः संव्वत्स᳘रो वा᳘ ऽऋत᳘व्याः संव्वत्सर᳘ ऽइदᳫँ᳭ स᳘र्व्वमिद᳘मे᳘वैतत्स᳘र्व्वमु᳘पदधात्य᳘थो प्रज᳘ननमेत᳘त्संव्वत्सरो वा᳘ ऽऋत᳘व्याः संव्वत्सरः᳘ प्रज᳘ननं प्रज᳘ननमे᳘वैतदुपदधाति[[!!]]॥
मूलम् - श्रीधरादि
ऋत᳘व्या ऽउ᳘पदधाति॥
(त्यृ) ऋत᳘व ऽएते य᳘दृत᳘व्या ऽऋतू᳘ने᳘वैतदु᳘पदधाति त᳘देतत्स᳘र्व्वं य᳘दृत᳘व्याः संव्वत्स᳘रो वा᳘ ऽऋत᳘व्याः संव्वत्सर᳘ ऽइदᳫँ᳭ स᳘र्व्वमिद᳘मे᳘वैतत्स᳘र्व्वमु᳘पदधात्य᳘थो प्रज᳘ननमेत᳘त्संव्वत्सरो वा᳘ ऽऋत᳘व्याः संव्वत्सरः᳘ प्रज᳘ननं प्रज᳘ननमे᳘वैतदुपदधाति[[!!]]॥
मूलम् - Weber
ऋतॗव्या उ᳘पदधाति॥
ऋत᳘व एते य᳘दृतॗव्या ऋतू᳘नेॗवैतदु᳘पदधाति त᳘देतत्स᳘र्वं य᳘दृतॗव्याः संवत्सरो वा᳘ ऋतॗव्याः संवत्सर᳘ इदᳫं स᳘र्वमिद᳘मेॗवैतत्स᳘र्वमु᳘पदधात्य᳘थो प्रज᳘ननमेत᳘त्संवत्सरो वा᳘ ऋतॗव्याः संवत्सरः᳘ प्रज᳘ननम् प्रज᳘ननमेॗवैतदु᳘पदधाति॥
मूलम् - विस्वरम्
अथ द्वयोर्ऋतव्येष्टकयोरुपधानम् ।
ऋतव्या उपदधाति- ऋतव एते- यदृतव्याः; ऋतूनेवैतदुपदधाति । तदेतत्सर्वं- यदृतव्याः । संवत्सरो वा ऋतव्याः । संवत्सर इदं सर्वम् । इदमेवैतत्सर्वमुपदधाति । अथो प्रजननमेतत् । संवत्सरो वा ऋतव्याः । संवत्सरः प्रजननम् । प्रजननमेवैतदुपदधाति ॥ १ ॥
सायणः
ऋतव्या उपदधातीति 1 । प्रसन्ना एवैताश्चतुर्दश कण्डिका ज्ञातव्याः अत्र ब्राह्मणे ॥ तत्राद्याश्चतस्रो ऽन्त्याश्च सर्वर्त्तव्यानामेव । प्रसन्नप्रायाः साचारण्यमध्ये तु षोडश तयोरुत्तमयोरिति च दर्शितमित्युक्तमेवोत्तरार्थं पुनरुपन्यस्यते । विश इमा इतरा यजुष्मत्य एवायमधिकारात् ‘ताः वै’ ऋतव्याः ‘नानाप्रभृतयो’ नानारम्भाः ‘समानोदर्काः’ समाना इति धर्मेणेष्टकानामुपदेशः । कस्मात्ताः समानावयवा भवन्तीत्यत आह- ऋतवो वा असृज्यन्त इति ॥ १-५ ॥
Eggeling
- He lays down two Ritavyā (seasonal bricks). The seasonal (bricks) are the same as these seasons: it is the seasons he thereby lays down. And, indeed, the seasonal ones are everything here, for the seasonal ones are the year, and the year is everything here: he thus lays down everything here. And generative power they also are,–for the seasonal ones are the year, and the year means generative power: it is generative power he thus lays down (or bestows on Agni and the Sacrificer).
०२
विश्वास-प्रस्तुतिः
य᳘द्वे᳘व ऽर्त᳘व्या ऽउपद᳘धाति[[!!]]॥
क्षत्रं वा᳘ ऽऋत᳘व्या व्वि᳘श ऽइमा ऽइ᳘तरा ऽइ᳘ष्टकाः क्षत्रं त᳘द्वि᳘श्यत्ता᳘रं[[!!]] दधाति ताः स᳘र्व्वासु चि᳘तिषू᳘पदधाति स᳘र्व्वस्यां त᳘द्विशि᳘ क्षत्र᳘मत्ता᳘रं दधाति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘व ऽर्त᳘व्या ऽउपद᳘धाति[[!!]]॥
क्षत्रं वा᳘ ऽऋत᳘व्या व्वि᳘श ऽइमा ऽइ᳘तरा ऽइ᳘ष्टकाः क्षत्रं त᳘द्वि᳘श्यत्ता᳘रं[[!!]] दधाति ताः स᳘र्व्वासु चि᳘तिषू᳘पदधाति स᳘र्व्वस्यां त᳘द्विशि᳘ क्षत्र᳘मत्ता᳘रं दधाति॥
मूलम् - Weber
य᳘द्वेव᳘ ऽर्तॗव्या उपद᳘धाति॥
क्षत्र वा᳘ ऋतॗव्या वि᳘श इमा इ᳘तरा इ᳘ष्टकाः क्षत्रं त᳘द्विश्य᳘त्ता᳘रं दधाति ताः स᳘र्वासु चि᳘तिषू᳘पदधाति स᳘र्वस्यां त᳘द्विशि᳘ क्षत्र᳘मत्ता᳘रं दधाति॥
मूलम् - विस्वरम्
यद्वेवर्तव्या उपदधाति । क्षत्रं वा ऋतव्याः, विश इमा इतरा इष्टकाः । क्षत्त्रं तद्विश्यत्तारं दधाति । ताः सर्वासु चितिषूपदधाति । सर्वस्यां तद्विशि क्षत्रमत्तारं दधाति ॥ २ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- And, again, as to why he lays down seasonal (bricks),–the seasonal (ones) are the nobility and these other bricks are the peasantry: he thus places the nobility as the eater among the peasantry. He lays down (some of) them in all the layers: he thus places the nobility as the eater among the whole people 2.
०३
विश्वास-प्रस्तुतिः
य᳘द्वे᳘व ऽर्त᳘व्या ऽउपद᳘धाति[[!!]]॥
संव्वत्सर᳘ ऽए᳘षो ऽग्निः स᳘ ऽऋत᳘व्याभिः स᳘ᳫँ᳘हितः संव्वत्सर᳘मे᳘वैत᳘दृतुभिः[[!!]] सं᳘तनोति सं᳘दधाति ता वै ना᳘नाप्रभृतयः समानो᳘दर्का ऽऋत᳘वो वा᳘ ऽअसृज्यन्त ते᳘ सृष्टा ना᳘नै᳘वास᳘न्[[!!]]॥
मूलम् - श्रीधरादि
य᳘द्वे᳘व ऽर्त᳘व्या ऽउपद᳘धाति[[!!]]॥
संव्वत्सर᳘ ऽए᳘षो ऽग्निः स᳘ ऽऋत᳘व्याभिः स᳘ᳫँ᳘हितः संव्वत्सर᳘मे᳘वैत᳘दृतुभिः[[!!]] सं᳘तनोति सं᳘दधाति ता वै ना᳘नाप्रभृतयः समानो᳘दर्का ऽऋत᳘वो वा᳘ ऽअसृज्यन्त ते᳘ सृष्टा ना᳘नै᳘वास᳘न्[[!!]]॥
मूलम् - Weber
य᳘द्वेव᳘ ऽर्तॗव्या उपद᳘धाति॥
संवत्सर᳘ एॗषो ऽग्निः स᳘ ऋतॗव्याभिः स᳘ᳫं᳘हितः संवत्सर᳘मेॗवैत᳘दृतु᳘भिः सं᳘तनोति सं᳘दधाति ता वै ना᳘नाप्रभृतयः समानो᳘दर्का ऋत᳘वो वा᳘ असृज्यन्त ते᳘ सृष्टा ना᳘नैॗवासन्᳟᳟॥
मूलम् - विस्वरम्
यद्वेवर्तव्या उपदधाति । संवत्सर एषो ऽग्निः । स ऋतव्याभिः संहितः । संवत्सरमेवैतदृतुभिः संतनोति सन्दधाति । ता वै नानाप्रभृतयः समानोदर्काः । ऋतवो वा असृज्यन्त । ते सृष्टा नानैवासन् ॥ ३ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- And, again, as to why he lays down seasonal (bricks),–this fire-altar is the year, and it is joined together by means of the seasonal (bricks): he thus makes the year continuous, and joins it together, by means of the seasons. These (formulas of the seasonal bricks) begin in a different way, but end in the same way; for the seasons were created, and, when created, they were different.
०४
विश्वास-प्रस्तुतिः
(सं᳘स्ते) ते ऽब्रुवन्॥
(न्न) न वा᳘ ऽइत्थᳫँ᳭ स᳘न्तः शक्ष्यामः प्र᳘जनयितुᳫँ᳭ रूपैः᳘ समा᳘यामे᳘ति त ऽए᳘कैकमृतु᳘ᳫँ᳘ रूपैः᳘ समा᳘यंस्त᳘स्मादे᳘कैकस्मिन्नृतौ स᳘र्व्वेषामृतूना᳘ᳫँ᳘ रूपं᳘ ता यन्ना᳘नाप्रभृतयो ना᳘ना ह्य᳘सृज्यन्ता᳘थ य᳘त्समानो᳘दर्का रूपै᳘र्हि[[!!]] समा᳘यन्॥
मूलम् - श्रीधरादि
(सं᳘स्ते) ते ऽब्रुवन्॥
(न्न) न वा᳘ ऽइत्थᳫँ᳭ स᳘न्तः शक्ष्यामः प्र᳘जनयितुᳫँ᳭ रूपैः᳘ समा᳘यामे᳘ति त ऽए᳘कैकमृतु᳘ᳫँ᳘ रूपैः᳘ समा᳘यंस्त᳘स्मादे᳘कैकस्मिन्नृतौ स᳘र्व्वेषामृतूना᳘ᳫँ᳘ रूपं᳘ ता यन्ना᳘नाप्रभृतयो ना᳘ना ह्य᳘सृज्यन्ता᳘थ य᳘त्समानो᳘दर्का रूपै᳘र्हि[[!!]] समा᳘यन्॥
मूलम् - Weber
ते ऽब्रुवन्॥
न वा᳘ इत्थᳫं स᳘न्तः शक्ष्यामः प्र᳘जनयितुं रूपैः᳘ समा᳘यामे᳘ति त ए᳘कैकमृतुं᳘ रूपैः᳘ समा᳘यंस्त᳘स्मादे᳘कैकस्मिन्नृतौ स᳘र्वेषामृतू᳘नां रूपं ता यन्ना᳘नाप्रभृतयो ना᳘ना ह्य᳘सृज्यन्ता᳘थ य᳘त्समानो᳘दर्का रूपैर्हि᳘ समा᳘यन्॥
मूलम् - विस्वरम्
ते ऽब्रुवन्- न वा इत्थं सन्तः शक्ष्यामः प्रजनयितुम्, रूपैः समायामेति । त एकैकम् ऋतुं रूपैः समायन् । तस्मादेकैकस्मिन्नृतौ सर्वेषामृतूनां रूपम् । ता यन्नानाप्रभृतयो- नाना ह्यसृज्यन्त । अथ यत्समानोदर्काः- रूपैर्हि समायन् ॥ ४ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- They spake, ‘While being thus, we shall not be
able to procreate: let us unite with our forms!’ They united in each single season with their forms, whence there is in each single season the form of all the seasons. As to their (formulas) beginning in a different way, it is because they were created different (or separately); and as to their ending in the same way, it is because they united with their forms.
०५
विश्वास-प्रस्तुतिः
(न्त्स) स ऽउ᳘पदधाति॥
त᳘पश्च तप᳘स्यश्च[[!!]] शैशिरा᳘वृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदु᳘पदधात्यसौ वा᳘ ऽआदित्यस्त᳘पस्त᳘स्मादेता᳘वृतू ऽअ᳘नन्तर्हितौ तद्य᳘देत᳘स्मादेता᳘वृतू ऽअ᳘नन्तर्हितौ त᳘स्मादेतौ त᳘पश्च तप᳘स्यश्च[[!!]]॥
मूलम् - श्रीधरादि
(न्त्स) स ऽउ᳘पदधाति॥
त᳘पश्च तप᳘स्यश्च[[!!]] शैशिरा᳘वृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदु᳘पदधात्यसौ वा᳘ ऽआदित्यस्त᳘पस्त᳘स्मादेता᳘वृतू ऽअ᳘नन्तर्हितौ तद्य᳘देत᳘स्मादेता᳘वृतू ऽअ᳘नन्तर्हितौ त᳘स्मादेतौ त᳘पश्च तप᳘स्यश्च[[!!]]॥
मूलम् - Weber
स उ᳘पदधाति॥
त᳘पश्च तपस्य᳘श्च शैशिरा᳘वृतू इ᳘ति ना᳘मनी एनयोरेते ना᳘मभ्यामेॗवैने एतदु᳘पदधात्यसौ वा᳘ आदित्यस्त᳘पस्त᳘स्मादेता᳘वृतू अ᳘नन्तर्हितौ तद्य᳘देत᳘स्मादेता᳘वृतू अ᳘नन्तर्हितौ त᳘स्मादेतौ त᳘पश्च तपस्य᳘श्च॥
मूलम् - विस्वरम्
स उपदधाति । “तपश्च तपस्यश्च शैशिरावृतू”- इति । नामनी एनयोरेते । नामभ्यामेवैने एतदुपदधाति । असौ वा आदित्यस्तपः । तस्मादेतावृतू अनन्तर्हितौ । तत्; यदेतस्मादेतावृतू अनन्तर्हितौ । तस्मादेतौ तपश्च तपस्यश्च ॥ ५ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- He lays them down, with (Vāj. S. XV, 57), ‘Tapa and Tapasya, the two dewy seasons,’–these are the names of these two: it is thus by their names that he lays them down. Tapa (the burner), doubtless, is yonder sun: from him these two seasons are not separated; and inasmuch as these two seasons are not separated from him, they are called Tapa and Tapasya.
०६
विश्वास-प्रस्तुतिः
(श्चा) अग्नेरन्तःश्ले᳘षो ऽसी᳘ति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्निः स᳘ ऽऋत᳘व्याभिः स᳘ᳫँ᳘हितः संव्वत्सर᳘मे᳘वैत᳘दृतु᳘भिः सं᳘तनोति सं᳘दधाति क᳘ल्पेतां द्या᳘वापृथिवी[[!!]] कल्पन्तामा᳘प ऽओ᳘षधय ऽइ᳘तीद᳘मे᳘वैतत्स᳘र्व्वमृतु᳘भिः कल्पयति क᳘ल्पन्तामग्न᳘यः पृ᳘थङ् मम ज्यै᳘ष्ठ्याय स᳘व्रता ऽइ᳘त्यग्न᳘यो हैते पृ᳘थग्य᳘देता ऽइ᳘ष्टकास्ते य᳘था ऽन᳘योर्ऋत्वोर्ज्यै᳘ष्ठ्याय क᳘ल्पेरन्नेव᳘मेत᳘दाह ये᳘ ऽअग्न᳘यः स᳘मनसो ऽन्तरा द्या᳘वापृथिवी᳘ ऽइमे ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः शैशिरा᳘वृतू᳘ ऽअभिक᳘ल्पमाना ऽइ᳘न्द्रमिव देवा᳘ ऽअभिसं᳘विशन्त्वि᳘ति य᳘थे᳘न्द्रं देवा᳘ ऽअभिसं᳘विष्टा ऽएव᳘मिमा᳘वृतू ज्यै᳘ष्ठ्यायाभिसं᳘विशन्त्वि᳘त्येतद्द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः[[!!]] सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥
मूलम् - श्रीधरादि
(श्चा) अग्नेरन्तःश्ले᳘षो ऽसी᳘ति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्निः स᳘ ऽऋत᳘व्याभिः स᳘ᳫँ᳘हितः संव्वत्सर᳘मे᳘वैत᳘दृतु᳘भिः सं᳘तनोति सं᳘दधाति क᳘ल्पेतां द्या᳘वापृथिवी[[!!]] कल्पन्तामा᳘प ऽओ᳘षधय ऽइ᳘तीद᳘मे᳘वैतत्स᳘र्व्वमृतु᳘भिः कल्पयति क᳘ल्पन्तामग्न᳘यः पृ᳘थङ् मम ज्यै᳘ष्ठ्याय स᳘व्रता ऽइ᳘त्यग्न᳘यो हैते पृ᳘थग्य᳘देता ऽइ᳘ष्टकास्ते य᳘था ऽन᳘योर्ऋत्वोर्ज्यै᳘ष्ठ्याय क᳘ल्पेरन्नेव᳘मेत᳘दाह ये᳘ ऽअग्न᳘यः स᳘मनसो ऽन्तरा द्या᳘वापृथिवी᳘ ऽइमे ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः शैशिरा᳘वृतू᳘ ऽअभिक᳘ल्पमाना ऽइ᳘न्द्रमिव देवा᳘ ऽअभिसं᳘विशन्त्वि᳘ति य᳘थे᳘न्द्रं देवा᳘ ऽअभिसं᳘विष्टा ऽएव᳘मिमा᳘वृतू ज्यै᳘ष्ठ्यायाभिसं᳘विशन्त्वि᳘त्येतद्द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः[[!!]] सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥
मूलम् - Weber
अग्नेरन्तःश्लेॗषो ऽसी᳘ति॥
संवत्सर᳘ एॗषो ऽग्निः स᳘ ऋतॗव्याभिः स᳘ᳫं᳘हितः संवत्सरमेवैतदृतु᳘भिः सं᳘तनोति सं᳘दधाति क᳘ल्पेतां द्या᳘वापृथिवी᳘ कल्पन्तामा᳘प ओ᳘षधय इ᳘तीद᳘मेॗवैतत्स᳘र्वमृतु᳘भिः कल्पयति क᳘ल्पन्तामग्न᳘यः पृ᳘थङ्न᳘म ज्यै᳘ष्ठ्याय स᳘व्रता इ᳘त्यग्न᳘यो हैते पृ᳘थग्य᳘देता इ᳘ष्टकास्ते य᳘थान᳘योरृत्वोर्ज्यै᳘ष्ठ्याय क᳘ल्पेरन्नेव᳘मेत᳘दाह ये᳘ अग्न᳘यः स᳘मनसो ऽन्तरा द्या᳘वापृथिवी᳘ इमे इ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः शैशिरा᳘वृतू᳘ अभिक᳘ल्पमाना इ᳘न्द्रमिव देवा᳘ अभिसं᳘विशन्त्वि᳘ति यथे᳘न्द्रं देवा᳘ अभिसं᳘विष्टा एव᳘मिमा᳘वृतू ज्यै᳘ष्ठ्यायाभिसं᳘विशन्त्वि᳘त्येतद्द्वे इ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥
मूलम् - विस्वरम्
“अग्नेरन्तःश्लेषो ऽसि”- इति । संवत्सर एषो ऽग्निः । स ऋतव्याभिः संहितः । संवत्सरमेवैतदृतुभिः संतनोति, सन्दधाति । “कल्पेतां द्यावापृथिवी, कल्पन्तामाप ओषधयः”- इति । इदमेवैतत्सर्वमृतुभिः कल्पयति । “कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रताः”- इति । अग्नयो हैते पृथग्- यदेता इष्टका; ते यथा ऽनयोर्ऋत्वोज्यैष्ठ्याय कल्पेरन्- एवमेतदाह । “ये अग्नयः समनसो ऽन्तरा द्यावापृथिवी इमे"- इति । यथैव यजुस्तथा बन्धुः । “शैशिरावृतूअभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तु”- (वा. सं. १५ । ५७) इति । यथेन्द्रं देवा अभिसंविष्टाः; एवमिमावृतू ज्यैष्ठ्यायाभिसंविशन्त्वित्येतत् । द्वे इष्टके भवतः । द्वौ हि मासावृतुः । सकृत्सादयति । एकं तदृतुं करोति ॥ ६ ॥
सायणः
अग्नेरन्तःश्लेषो ऽसीत्यृतुरुच्यते तमेवैतदृतुभिः सन्तनोति संदधातीति वचनात् इति दर्शयति । ते यथा ऽनयोर्ऋत्वोः ज्यैष्ठ्याय कल्पेरन्नेवमेतदाहेत्यत्र चोद्यते “कल्पन्तामग्नयः पृथङ् मम ज्यैष्ठ्याय” इति (मा त्वेपच्यन्त) तस्य कथमयमर्थो भवत्येतयोर्ऋत्वोः ज्येष्ठयाय कल्पेरन्निति । नैष दोषः । यद्यत्र यजमानस्य (याज्येष्ठोरूपांसोयज्ञानुकारणत्वाणावाजा) ज्यैष्ठ्ये सत्युपपद्यते । नान्यथेत्यादि दैविकयोग्यं ( ) ज्यैष्ठ्याय कल्पेरन् इति ब्राह्मणे दर्शितम् । सर्वाधीनमेवातो दिव अर्वाचीना ( ) तावत्येव तु विशेषः । अथो प्रजननं तत्प्रजायते दिवि प्रजननं तस्मादर्वाचीनानामेवातिदिव आदित्याच्च प्रजायते स्थावरं जङ्गमं च न वत्सरादिकम् । ननु च परतो ऽपि देवाः सन्ति कथं ते प्रजननादृतेतवः इत्युपपद्यते (नादित्यरित्यत) अत-आह- स्थितमेवातः परं प्रजायते यावत् यमग्रे सृष्ट्वा ऽयं वक्ष्यमाणप्रकार इति । यत्रैव देशे सर्वा ऋतव्या उपदधाति ते वा ऽन्यया यजुष्मत्येष्टकयोपरिष्टाद्वक्ष्यमाणः प्रकार इति । लोके वृद्ध्या ऽन्युपधानं दर्शयति । इतरथा हि ततो ऽन्यथा इष्टकाया उपरिष्टादभ्युपदधाति इत्येवावक्ष्यत ॥ ६-१४ ॥
Eggeling
- ‘Agni’s coupling-link thou art,’–this fire-altar is the year, and it is joined together by means of the seasonal (bricks): he thus makes the year continuous, and joins it together by means of the seasons;–‘May Heaven and earth fit into one another! may the waters and plants fit into each other!’–he thereby makes everything here 3 to fit in by means of the seasons:–‘May the fires fit into one another, each singly, working harmoniously together for my supremacy!’–for these single bricks are the same as those fires: he thus says this so that they may fit in with each other for the supremacy of those two seasons:–‘whatever fires there are, at one with each other, within these two, Heaven and Earth;’–as the text is, so is its meaning;–’let them draw
together, fitting in with the two dewy seasons, even as the gods draw together unto Indra;’–that is, ’even as the gods are drawing together round Indra, so may they draw together for supremacy round these two seasons.’ Two bricks there are, because the season consists of two months. Only once he ‘settles’ them: he thereby makes the season to be one.
०७
विश्वास-प्रस्तुतिः
तद्य᳘देते ऽअ᳘त्रोपद᳘धाति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘रिम᳘ ऽउ लोकाः᳘ संव्वत्सरस्त᳘स्य द्यौ᳘रेव᳘ पञ्चमी चि᳘तिर्द्यौ᳘रस्य शि᳘शिर ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्तदस्मिन्नेतत्प्र᳘तिदधाति[[!!]] त᳘स्मादेते ऽअत्रो᳘पदधाति[[!!]]॥
मूलम् - श्रीधरादि
तद्य᳘देते ऽअ᳘त्रोपद᳘धाति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘रिम᳘ ऽउ लोकाः᳘ संव्वत्सरस्त᳘स्य द्यौ᳘रेव᳘ पञ्चमी चि᳘तिर्द्यौ᳘रस्य शि᳘शिर ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्तदस्मिन्नेतत्प्र᳘तिदधाति[[!!]] त᳘स्मादेते ऽअत्रो᳘पदधाति[[!!]]॥
मूलम् - Weber
तद्य᳘देते अ᳘त्रोपद᳘धाति॥
संवत्सर᳘ एॗषो ऽग्नि᳘रिम᳘ उ लोकाः᳘ संवत्सरस्त᳘स्य द्यौ᳘रेव᳘ पञ्चमी चि᳘तिर्द्यौ᳘रस्य शि᳘शिर ऋतुस्तद्य᳘देते अ᳘त्रोपद᳘धाति य᳘देॗवास्यैते᳘ आत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते᳘ अत्रो᳘पदधाति॥
मूलम् - विस्वरम्
तद्यदेते अत्रोपदधाति- संवत्सर एषो ऽग्निः । इम उ लोकाः संवत्सरः । तस्य द्यौरेव पञ्चमी चितिः । द्यौरस्य शिशिर ऋतुः । तद्यदेते अत्रोपदधाति- यदेवास्यैते आत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेते अत्रोपदधाति ॥ ७ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- And as to why he now lays down these two;–this fire-altar is the year, and the year is these worlds: the fifth layer of this (altar) is the sky, and the dewy season of this (year) is the sky; and when he now lays down these two (bricks), he thereby restores to his (Agni’s) body what these two are thereto: this is why he now lays down these two (bricks).
०८
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैते ऽअ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरे᳘षो ऽग्निः᳘ संव्वत्सर᳘ ऽउ प्रजा᳘पतिस्त᳘स्य शि᳘र ऽएव᳘ पञ्चमी चि᳘तिः शि᳘रो ऽस्य शि᳘शिर ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैते ऽअ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरे᳘षो ऽग्निः᳘ संव्वत्सर᳘ ऽउ प्रजा᳘पतिस्त᳘स्य शि᳘र ऽएव᳘ पञ्चमी चि᳘तिः शि᳘रो ऽस्य शि᳘शिर ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति॥
मूलम् - Weber
य᳘द्वेॗवैते अ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरेॗषो ऽग्निः᳘ संवत्सर᳘ उ प्रजा᳘पतिस्त᳘स्य शि᳘र एव᳘ पञ्चमी चि᳘तिः शि᳘रो ऽस्य शि᳘शिर ऋतुस्तद्य᳘देते अ᳘त्रोपद᳘धाति य᳘देॗवास्यैते आत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते अत्रो᳘पदधाति॥
मूलम् - विस्वरम्
यद्वेवैते अत्रोपदधाति । प्रजापतिरेषो ऽग्निः । संवत्सर उ प्रजापतिः । तस्य शिर एव पञ्चमी चितिः । शिरो ऽस्य शिशिर ऋतुः । तद्यदेते अत्रोपदधाति;- यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति । तस्मादेते अत्रोपदधाति ॥ ८ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- And, again, as to why he now lays down these two;–this Agni (the fire-altar) is Prajāpati (the lord of generation), and Prajāpati is the year: the fifth layer is his (Agni’s) head, and the dewy season is its (the year’s) head; and when he now lays down these two (bricks), he thereby restores to his (or its) body what these two are thereto: this is why he now lays down these two (bricks).
०९
विश्वास-प्रस्तुतिः
स᳘ पुर᳘स्तात्स्वयमातृण्णा᳘यै च व्विश्व᳘ज्योतिषश्च ऽर्त᳘व्ये ऽउ᳘पदधाति॥
द्यौर्वा᳘ ऽउत्तमा᳘ स्वयमातृ᳘ण्णा ऽऽदित्य᳘ ऽउत्तमा᳘ व्विश्व᳘ज्योतिरर्व्वाची᳘नं त᳘द्दिव᳘श्चादित्या᳘च्च ऽर्तू᳘न्दधाति त᳘स्मादर्व्वाची᳘नमेवा᳘त ऽऋतवो᳘ ऽथो प्रज᳘ननमेत᳘दर्व्वाची᳘नं त᳘द्दिव᳘श्चादित्या᳘श्च प्रज᳘ननं दधाति त᳘स्मादर्व्वाची᳘नमेवा᳘तः प्र᳘जायते स्थित᳘ᳫँ᳘ हैवा᳘तः प᳘राक्प्रज᳘ननं या᳘वन्तो᳘ ह्येव सना᳘ग्रे देवास्ता᳘वन्तो देवाः[[!!]]॥
मूलम् - श्रीधरादि
स᳘ पुर᳘स्तात्स्वयमातृण्णा᳘यै च व्विश्व᳘ज्योतिषश्च ऽर्त᳘व्ये ऽउ᳘पदधाति॥
द्यौर्वा᳘ ऽउत्तमा᳘ स्वयमातृ᳘ण्णा ऽऽदित्य᳘ ऽउत्तमा᳘ व्विश्व᳘ज्योतिरर्व्वाची᳘नं त᳘द्दिव᳘श्चादित्या᳘च्च ऽर्तू᳘न्दधाति त᳘स्मादर्व्वाची᳘नमेवा᳘त ऽऋतवो᳘ ऽथो प्रज᳘ननमेत᳘दर्व्वाची᳘नं त᳘द्दिव᳘श्चादित्या᳘श्च प्रज᳘ननं दधाति त᳘स्मादर्व्वाची᳘नमेवा᳘तः प्र᳘जायते स्थित᳘ᳫँ᳘ हैवा᳘तः प᳘राक्प्रज᳘ननं या᳘वन्तो᳘ ह्येव सना᳘ग्रे देवास्ता᳘वन्तो देवाः[[!!]]॥
मूलम् - Weber
स᳘ पुर᳘स्तात्स्वयमातृणा᳘यै च विश्व᳘ज्योतिषश्च ऽर्तॗव्ये उ᳘पदधाति॥
द्यौर्वा᳘ उत्तमा᳘ स्वयमातृॗणादित्य᳘ उत्तमा᳘ विश्व᳘ज्योतिरर्वाची᳘नं त᳘द्दिव᳘श्चादित्या᳘च्च ऽर्तू᳘न्दधाति त᳘स्मादर्वाची᳘नमेवा᳘त ऋतवो᳘ ऽथो प्रज᳘ननमेत᳘दर्वाची᳘नं त᳘द्दिव᳘श्चादित्या᳘श्च प्रज᳘ननं दधाति त᳘स्मादर्वाची᳘नमेवा᳘तः प्र᳘जायते स्थित᳘ᳫं᳘ हैवा᳘तः प᳘राक्प्रज᳘ननं या᳘वन्तोॗ ह्येव सना᳘ग्रे देवास्ता᳘वन्तो देवाः᳟॥
मूलम् - विस्वरम्
स पुरस्तात्स्वयमातृण्णायै च विश्वज्योतिषश्च ऽर्तव्ये ऽउपदधाति । द्यौर्वा उत्तमा स्वयमातृण्णा । आदित्य उत्तमा विश्वज्योतिः । अर्वाचीनं तद्दिवश्चादित्याच्चर्तून्दधाति । तस्मादर्वाचीनमेवातः ऋतवः । अथो प्रजननमेतत् । अर्वाचीनं तद् दिवश्चादित्याच्च प्रजननं दधाति । तस्मादर्वाचीनमेवातः प्रजायते । स्थितं हैवातः पराक्प्रजननम् । यावन्तो ह्येव सनाग्रे देवाः- तावन्तो देवाः ॥ ९ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- He lays down the two seasonal ones prior to the naturally-perforated one and to the Viśvajyotis; for the last naturally-perforated one is the sky 4, and the last Viśvajyotis 5 (all-light brick) is
the sun: he thus places the seasons on this side of the sky and the sun; whence the seasons are on this side thereof. But generative power there also is (in these seasonal bricks) 6: he thus places generative power on this side of the sky and the sun; whence procreation takes place only on this side of them, but stationary, indeed, is procreation beyond them, for just as many gods as there were of old, so many there are now.
१०
विश्वास-प्रस्तुतिः
(ऽ) अ᳘थ प्रथमा᳘यै स्वयमातृण्णा᳘यै प्रथमा᳘यै च व्विश्व᳘ज्योतिष ऽउप᳘रिष्टादृत᳘व्ये ऽउ᳘पदधाति॥
(ती) इयं वै᳘ प्रथमा᳘ स्वयमातृ᳘ण्णा ऽग्निः᳘ प्रथमा᳘ व्विश्व᳘ज्योतिस्त᳘दूर्ध्वा᳘नृतून्दधाति[[!!]] त᳘स्मादित᳘ ऽऊर्ध्वा᳘ ऽऋतवो᳘ ऽथो प्रज᳘ननमेत᳘दितस्त᳘दूर्ध्वं᳘ प्रज᳘ननं दधाति त᳘स्मादित᳘ ऽऊर्ध्व᳘मेव प्र᳘जायते॥
मूलम् - श्रीधरादि
(ऽ) अ᳘थ प्रथमा᳘यै स्वयमातृण्णा᳘यै प्रथमा᳘यै च व्विश्व᳘ज्योतिष ऽउप᳘रिष्टादृत᳘व्ये ऽउ᳘पदधाति॥
(ती) इयं वै᳘ प्रथमा᳘ स्वयमातृ᳘ण्णा ऽग्निः᳘ प्रथमा᳘ व्विश्व᳘ज्योतिस्त᳘दूर्ध्वा᳘नृतून्दधाति[[!!]] त᳘स्मादित᳘ ऽऊर्ध्वा᳘ ऽऋतवो᳘ ऽथो प्रज᳘ननमेत᳘दितस्त᳘दूर्ध्वं᳘ प्रज᳘ननं दधाति त᳘स्मादित᳘ ऽऊर्ध्व᳘मेव प्र᳘जायते॥
मूलम् - Weber
अ᳘थ प्रथमा᳘यै स्वयमातृणा᳘यै प्रथमा᳘यै च विश्व᳘ज्योतिष उप᳘रिष्टादृतॗव्ये उ᳘पदधाति॥
इयं वै᳘ प्रथमा᳘ स्वयमातृॗणाग्निः᳘ प्रथमा᳘ विश्व᳘ज्योतिस्त᳘दूर्ध्वा᳘नृतू᳘न्दधाति त᳘स्मादित᳘ ऊर्ध्वा᳘ ऋतवो᳘ ऽथो प्रज᳘ननमेत᳘दितस्त᳘दूर्ध्व᳘म् प्रज᳘ननं दधाति त᳘स्मादित᳘ ऊर्ध्व᳘मेव प्र᳘जायते॥
मूलम् - विस्वरम्
अथ प्रथमायै स्वयमातृण्णायै प्रथमायै च विश्वज्योतिष उपरिष्टादृतव्ये उपदधाति । इयं वै प्रथमा स्वयमातृण्णा । अग्निः प्रथमा विश्वज्योतिः । तदूर्ध्वानृतून्दधाति । तस्मादित ऊर्ध्वा ऋतवः । अथो प्रजननमेतत् । इतस्तदूर्ध्वं प्रजननं दधाति । तस्मादित ऊर्ध्वमेव प्रजायते ॥ १० ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- Now, the (first) two seasonal (bricks) he lays down subsequently to the first naturally-perforated one, and to the first Viśvajyotis; for the first naturally-perforated one is this (earth), and the first Viśvajyotis is Agni: thereupon he places the seasons, whence the seasons are upwards from this (earth). But generative power there also is therein: he thus places generative power above this (earth); whence procreation only takes place above (upon, not under) this (earth).
११
विश्वास-प्रस्तुतिः
ता न᳘ व्यूहेत्॥
(न्ने᳘) ने᳘दृतून्व्यू᳘हानी᳘ति यो वै᳘ म्रिय᳘त ऽऋत᳘वो ह त᳘स्मै[[!!]] व्युह्यन्ते त᳘स्माद्य᳘त्रैव[[!!]] प्रथमे᳘ ऽउपद᳘धाति तत्स᳘र्व्वा ऽउ᳘पदध्यात्॥
मूलम् - श्रीधरादि
ता न᳘ व्यूहेत्॥
(न्ने᳘) ने᳘दृतून्व्यू᳘हानी᳘ति यो वै᳘ म्रिय᳘त ऽऋत᳘वो ह त᳘स्मै[[!!]] व्युह्यन्ते त᳘स्माद्य᳘त्रैव[[!!]] प्रथमे᳘ ऽउपद᳘धाति तत्स᳘र्व्वा ऽउ᳘पदध्यात्॥
मूलम् - Weber
ता नॗ व्यूहेत्॥
ने᳘दृतून्व्यू᳘हानी᳘ति यो वै᳘ म्रिय᳘त ऋत᳘वो ह त᳘स्मैॗ व्युह्यन्ते त᳘स्माद्य᳘त्रैव᳘ प्रथमे᳘ उपद᳘धाति तत्स᳘र्वा उ᳘पदध्यात्॥
मूलम् - विस्वरम्
ता न व्यूहेत् । नेदृतून्व्यूहानीति । यो वै म्रियते- ऋतवो ह तस्मै व्युह्यन्ते । तस्माद्यत्रैव प्रथमे उपदधाति- तत्सर्वा उपदध्यात् ॥ ११ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- Let him not derange these (seasonal bricks) 7 lest he should derange the seasons, for deranged are
the seasons for him who dies: hence, in whatever place he lays down the first two, there let him lay down all.
१२
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थो ऽइमे वै᳘ लोका᳘ ऽऋत᳘व्याः॥
(ऽ) इमांस्त᳘ल्लोका᳘नूर्ध्वांश्चितिभिश्चिनोत्य᳘थो[[!!]] क्षत्रं वा᳘ ऽऋत᳘व्याः क्षत्रं त᳘दूर्ध्वं चि᳘तिभिश्चिनोत्य᳘थो संव्वत्सरो वा᳘ ऽऋतव्याः[[!!]] संव्वत्सरं त᳘दूर्ध्वं चि᳘तिभिश्चिनोति ता᳘ नान्य᳘या य᳘जुष्मत्ये᳘ष्टकयोप᳘रिष्टादभ्युपदध्यान्ने᳘त्क्षत्रं᳘[[!!]] व्वि᳘शा ऽभ्युपद᳘धानी᳘ति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थो ऽइमे वै᳘ लोका᳘ ऽऋत᳘व्याः॥
(ऽ) इमांस्त᳘ल्लोका᳘नूर्ध्वांश्चितिभिश्चिनोत्य᳘थो[[!!]] क्षत्रं वा᳘ ऽऋत᳘व्याः क्षत्रं त᳘दूर्ध्वं चि᳘तिभिश्चिनोत्य᳘थो संव्वत्सरो वा᳘ ऽऋतव्याः[[!!]] संव्वत्सरं त᳘दूर्ध्वं चि᳘तिभिश्चिनोति ता᳘ नान्य᳘या य᳘जुष्मत्ये᳘ष्टकयोप᳘रिष्टादभ्युपदध्यान्ने᳘त्क्षत्रं᳘[[!!]] व्वि᳘शा ऽभ्युपद᳘धानी᳘ति॥
मूलम् - Weber
अ᳘थो इमे वै᳘ लोका᳘ ऋतॗव्याः॥
इमांस्त᳘ल्लोका᳘नूर्ध्वांश्चि᳘तिभिश्चिनोत्य᳘थो क्षत्रं वा᳘ ऋतॗव्याः क्षत्रं त᳘दूर्ध्वं चि᳘तिभिश्चिनोत्य᳘थो संवत्सरो वा᳘ ऋतॗव्याः संवत्सरं त᳘दूर्ध्वं चि᳘तिभिश्चिनोति ताॗ नान्य᳘या य᳘जुष्मत्ये᳘ष्टकयोप᳘रिष्टादभ्यु᳘पदध्यान्ने᳘त्क्षत्रं᳘ विॗशाभ्युपद᳘धानी᳘ति॥
मूलम् - विस्वरम्
अथो इमे वै लोका ऋतव्याः । इमांस्तल्लोकानूर्ध्वांश्चितिभिश्चिनोति । अथो क्षत्रं वा ऋतव्याः । क्षत्त्रं तदूर्ध्वं चितिभिश्चिनोति । अथो संवत्सरो वा ऋतव्याः । संवत्सरं तदूर्ध्वं चितिभिश्चिनोति । ता नान्यया यजुष्मत्येष्टकयोपरिष्टादभ्युपदध्यात् । नेत्क्षत्रं विशा ऽभ्युपदधानीति ॥ १२ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- But the seasonal (bricks), indeed, are also these (three) worlds: by the (different) layers he thus builds up these worlds one above the other. And the seasonal (bricks), indeed, are also the nobility: by the (different) layers he thus builds up the nobility above (the peasantry). And the seasonal ones, indeed, are also the year: by the (different) layers he thus builds up the year. Let him not thereafter place over them any other brick with a sacrificial formula, lest he should place the peasantry above the nobility.
१३
विश्वास-प्रस्तुतिः
ता᳘ हैता᳘ ऽएव᳘ संया᳘न्यः॥
(ऽ) एतद्वै᳘ देवा᳘ ऽऋत᳘व्याभिरे᳘वेमाल्ँ᳘लोकान्त्स᳘मयुरित᳘श्चोर्ध्वा᳘नमुतश्चार्व्वा᳘चस्त᳘थै᳘वैतद्य᳘जमान ऽऋत᳘व्याभिरे᳘वेमाल्ँ᳘लोकान्त्सं᳘यातीत᳘श्चोर्ध्वा᳘नमु᳘तश्चार्व्वा᳘चः॥
मूलम् - श्रीधरादि
ता᳘ हैता᳘ ऽएव᳘ संया᳘न्यः॥
(ऽ) एतद्वै᳘ देवा᳘ ऽऋत᳘व्याभिरे᳘वेमाल्ँ᳘लोकान्त्स᳘मयुरित᳘श्चोर्ध्वा᳘नमुतश्चार्व्वा᳘चस्त᳘थै᳘वैतद्य᳘जमान ऽऋत᳘व्याभिरे᳘वेमाल्ँ᳘लोकान्त्सं᳘यातीत᳘श्चोर्ध्वा᳘नमु᳘तश्चार्व्वा᳘चः॥
मूलम् - Weber
ता᳘ हैता᳘ एव᳘ संया᳘न्यः॥
एतद्वै᳘ देवा᳘ ऋतॗव्याभिरेॗवेमां᳘लोकान्त्स᳘मयुरित᳘श्चोर्ध्वा᳘नमु᳘तश्चार्वा᳘चस्त᳘थैॗवैतद्य᳘जमान ऋतॗव्याभिरेॗवेमां᳘लोकान्त्सं᳘यातीत᳘श्चोर्ध्वा᳘नमु᳘तश्चार्वा᳘चः॥
मूलम् - विस्वरम्
ता हैता एव संयान्यः । एतद्वै देवा ऋतव्याभिरेवेमांल्लोकान्त्समयुः । इतश्चोर्ध्वान्,- अमुतश्चार्वाचः । तथैवैतद्यजमान ऋतव्याभिरेवेमांल्लोकान्त्संयाति- इतश्चोर्ध्वान्, अमुतश्चार्वाचः ॥ १३ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- Now these same (bricks) are indeed steppingstones, for by means of the seasonal (bricks) the gods then stepped over these worlds, hath from hence upwards and from above downwards: and in like manner does the Sacrificer now, by means of the seasonal (bricks), step over these worlds, both from hence upwards and from above downwards.
१४
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दु ह च᳘रकाध्वर्यवः॥
(वो ऽन्या᳘) अन्या᳘ ऽएव᳘ संया᳘नीरित्यु᳘पदधति न त᳘था कुर्यादत्य᳘हैव᳘ रेच᳘यन्त्येता᳘ ऽउ ऽएव᳘ संया᳘न्यः॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दु ह च᳘रकाध्वर्यवः॥
(वो ऽन्या᳘) अन्या᳘ ऽएव᳘ संया᳘नीरित्यु᳘पदधति न त᳘था कुर्यादत्य᳘हैव᳘ रेच᳘यन्त्येता᳘ ऽउ ऽएव᳘ संया᳘न्यः॥
मूलम् - Weber
त᳘दु ह च᳘रकाध्वर्यवः॥
अन्या᳘ एव᳘ संया᳘नीरित्यु᳘पदधति न त᳘था कुर्यादत्यहैव᳘ रेचयन्त्येता᳘ उ एव᳘ संया᳘न्यः॥
मूलम् - विस्वरम्
तदु ह चरकाध्वर्यवो ऽन्या एव संयानीरित्युपदधति । न तथा कुर्यात् । अत्यहैव रेचयन्ति- एता उ एव संयान्यः ॥ १४ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- Now, the Carakādhvaryus lay down here yet other ‘stepping-stones’; but let him not do so, for they do what is redundant, and these are indeed (all) the stepping-stones.
१५
विश्वास-प्रस्तुतिः
(न्यो᳘ ऽथ) अ᳘थ व्विश्व᳘ज्योतिषमु᳘पदधाति॥
(त्या) आदित्यो᳘ वा᳘ ऽउत्तमा᳘ व्विश्व᳘ज्योतिरादित्यो᳘ ह्ये᳘वामुष्मिल्ँ लोके[[!!]] व्वि᳘श्वं ज्यो᳘तिरादित्य᳘मे᳘वैतदु᳘पदधाति॥
मूलम् - श्रीधरादि
(न्यो᳘ ऽथ) अ᳘थ व्विश्व᳘ज्योतिषमु᳘पदधाति॥
(त्या) आदित्यो᳘ वा᳘ ऽउत्तमा᳘ व्विश्व᳘ज्योतिरादित्यो᳘ ह्ये᳘वामुष्मिल्ँ लोके[[!!]] व्वि᳘श्वं ज्यो᳘तिरादित्य᳘मे᳘वैतदु᳘पदधाति॥
मूलम् - Weber
अ᳘थ विश्व᳘ज्योतिषमु᳘पदधाति॥
आदित्यो वा᳘ उत्तमा᳘ विश्व᳘ज्योतिरादित्योॗ ह्येॗवामु᳘ष्मिंलोके᳘ विश्व᳘ज्योतिरादित्य᳘मेॗवैतदु᳘पदधाति॥
मूलम् - विस्वरम्
अथ विश्वज्योतिषमुपदधाति । आदित्यो वा उत्तमा विश्वज्योतिः । आदित्यो ह्येवामुष्मिंल्लोके विश्वं ज्योतिः । आदित्यमेवैतदुपदधाति ॥ १५ ॥
सायणः
अथ विश्वज्योतिषमुपदधातीति । अतः परं प्रसन्नमेव ब्राह्मणम् ॥ १५-१७ ॥
Eggeling
- He then lays down a Viśvajyotis (all-light brick);–the last Viśvajyotis, doubtless, is the sun, for in yonder (celestial) world the sun, indeed, is ‘all the light’: it is the sun he thereby sets up.
१६
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ व्विश्व᳘ज्योतिषमुपद᳘धाति॥
प्रजा वै᳘ व्विश्व᳘ज्योतिः प्रजा᳘ ह्येव व्वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमे᳘वैतदु᳘पदधाति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ व्विश्व᳘ज्योतिषमुपद᳘धाति॥
प्रजा वै᳘ व्विश्व᳘ज्योतिः प्रजा᳘ ह्येव व्वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमे᳘वैतदु᳘पदधाति॥
मूलम् - Weber
य᳘द्वेव᳘ विश्व᳘ज्योतिषमुपद᳘धाति॥
प्रजा वै᳘ विश्व᳘ज्योतिः प्रजाॗ ह्येव वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमेॗवैतदु᳘पदधाति॥
मूलम् - विस्वरम्
यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः । प्रजा ह्येव विश्वं ज्योतिः । प्रजननमेवैतदुपदधाति ॥ १६ ॥
सायणः
[व्याख्यानं पञ्चदशे]
Eggeling
- And, again, as to why he lays down a Viśvajyotis:–the Viśvajyotis, doubtless, means progeny, for progeny indeed is all the light:–he thus lays generative power into it (or into him, Agni and the Sacrificer).
१७
विश्वास-प्रस्तुतिः
स᳘ पुर᳘स्तात्स्वयमातृण्णा᳘यै व्विश्व᳘ज्योतिषमु᳘पदधाति॥
द्यौर्वा᳘ ऽउत्तमा᳘ स्वयमातृ᳘ण्णादित्य᳘ ऽउत्तमा᳘[[!!]] व्विश्व᳘ज्योतिरर्व्वाची᳘नं त᳘द्दिव᳘ ऽआदित्यं᳘ दधाति त᳘स्मादे᳘षो ऽर्व्वाची᳘नमेवा᳘तस्तपत्य᳘थो प्रज᳘ननमेत᳘दर्व्वाची᳘नं त᳘द्दिवः᳘ प्रज᳘ननं दधाति त᳘स्मादर्व्वाची᳘नमेवा᳘तः प्र᳘जायते॥
मूलम् - श्रीधरादि
स᳘ पुर᳘स्तात्स्वयमातृण्णा᳘यै व्विश्व᳘ज्योतिषमु᳘पदधाति॥
द्यौर्वा᳘ ऽउत्तमा᳘ स्वयमातृ᳘ण्णादित्य᳘ ऽउत्तमा᳘[[!!]] व्विश्व᳘ज्योतिरर्व्वाची᳘नं त᳘द्दिव᳘ ऽआदित्यं᳘ दधाति त᳘स्मादे᳘षो ऽर्व्वाची᳘नमेवा᳘तस्तपत्य᳘थो प्रज᳘ननमेत᳘दर्व्वाची᳘नं त᳘द्दिवः᳘ प्रज᳘ननं दधाति त᳘स्मादर्व्वाची᳘नमेवा᳘तः प्र᳘जायते॥
मूलम् - Weber
स᳘ पुर᳘स्तात्स्वयमातृणा᳘यै विश्व᳘ज्योतिषमु᳘पदधाति॥
द्यौर्वा᳘ उत्तमा᳘ स्वयमातृॗणादि᳘त्य᳘ उत्तमा᳘ विश्व᳘ज्योतिरर्वाची᳘नं त᳘द्दिव᳘ आदित्यं᳘ दधाति त᳘स्मादेॗषो ऽर्वाची᳘नमेवा᳘तस्तप त्य᳘थो प्रज᳘ननमेत᳘दर्वाची᳘नं त᳘द्दिवः᳘ प्रज᳘ननं दधाति त᳘स्मादर्वाची᳘नमेवा᳘तः प्र᳘जायते॥
मूलम् - विस्वरम्
स पुरस्तात्स्वयमातृण्णायै विश्वज्योतिषमुपदधाति । द्यौर्वा ऽउत्तमा स्वयमातृण्णा । आदित्य उत्तमा विश्वज्योतिः । अर्वाचीनं तद्दिव आदित्यं दधाति । तस्मादेषो ऽर्वाचीनमेवातस्तपति । अथो प्रजननमेतत् । अर्वाचीनं तद्दिवः प्रजननं दधाति । तस्मादर्वाचीनमेवातः प्रजायते ॥ १७ ॥
सायणः
[व्याख्यानं पञ्चदशे]
Eggeling
- He lays down the Viśvajyotis prior to the naturally-perforated one;–for the last naturally-perforated one is the sky, and the last Viśvajyotis is the sun: he thus places the sun on this side (below) the sky, whence he burns only on this side thereof. But there also is generative power therein: he thus places generative power on this side of the sky, whence procreation takes place only on this side thereof.
१८
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ प्रथमा᳘यै स्वयमातृण्णा᳘यै॥
(या ऽउ) उप᳘रिष्टाद्विश्व᳘ज्योतिषमु᳘पदधातीयं वै᳘ प्रथमा᳘ स्वयमातृ᳘ण्णा ऽग्निः᳘ प्रथमा᳘ व्विश्व᳘ज्योतिरितस्त᳘दूर्ध्व᳘मग्निं᳘ दधाति तस्मादित᳘ ऽऽऊ᳘र्ध्वो ऽग्नि᳘र्दीप्यते᳘ ऽथो प्रज᳘ननमेत᳘दितस्तदूर्ध्वं᳘[[!!]] प्र᳘जननं दधाति त᳘स्मादित᳘ ऽऊर्ध्व᳘मेव प्र᳘जायते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ प्रथमा᳘यै स्वयमातृण्णा᳘यै॥
(या ऽउ) उप᳘रिष्टाद्विश्व᳘ज्योतिषमु᳘पदधातीयं वै᳘ प्रथमा᳘ स्वयमातृ᳘ण्णा ऽग्निः᳘ प्रथमा᳘ व्विश्व᳘ज्योतिरितस्त᳘दूर्ध्व᳘मग्निं᳘ दधाति तस्मादित᳘ ऽऽऊ᳘र्ध्वो ऽग्नि᳘र्दीप्यते᳘ ऽथो प्रज᳘ननमेत᳘दितस्तदूर्ध्वं᳘[[!!]] प्र᳘जननं दधाति त᳘स्मादित᳘ ऽऊर्ध्व᳘मेव प्र᳘जायते॥
मूलम् - Weber
अ᳘थ प्रथमा᳘यै स्वयमातृणा᳘यै॥
उप᳘रिष्टाद्विश्व᳘ज्योतिषमु᳘पदधातीयं वै᳘ प्रथमा᳘ स्वयमातृॗणाग्निः᳘ प्रथमा᳘ विश्व᳘ज्योतिरितस्त᳘दूर्ध्व᳘मग्निं᳘ दधाति तस्मादित᳘ ऊॗर्ध्वो ऽग्नि᳘र्दीप्यते᳘ ऽथो प्रज᳘ननमेत᳘दितस्त᳘दूर्ध्व᳘म् प्र᳘जननं दधाति त᳘स्मादित᳘ ऊर्ध्व᳘मेव प्र᳘जायते॥
मूलम् - विस्वरम्
अथ प्रथमायै स्वयमातृण्णाया उपरिष्टाद्विश्वज्योतिषमुपदधाति । इयं वै प्रथमा स्वयमातृण्णा । अग्निः प्रथमा विश्वज्योतिः । इतस्तदूर्ध्वमग्निं दधाति । तस्मादित ऊर्ध्वो ऽग्निर्दीप्यते । अथो प्रजननमेतत् । इतस्तदूर्ध्वं प्रजननं दधाति । तस्मादित ऊर्ध्वमेव प्रजायते ॥ १८ ॥
सायणः
प्रथमाया मध्यमायाश्च प्रासङ्गिकं दर्शनमत्रोक्तम् ॥ १८-२४ ॥
इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये ऽष्टमे काण्डे सप्तमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (८-७-१) ॥
Eggeling
- Now the (first) Viśvajyotis he lays down subsequent to the first naturally-perforated one; for the first naturally-perforated one is this (earth), and the first Viśvajyotis is Agni: he thus sets up Agni upwards from this (earth), whence the fire blazes upwards from here. But there also is generative power therein: he thus places generative power above this (earth), whence procreation only takes place above this (earth).
१९
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ मध्यमा᳘यै स्वयमातृण्णा᳘यै॥
(या ऽउ) उप᳘रिष्टाद्विश्व᳘ज्योतिषमु᳘पदधात्यन्त᳘रिक्षं वै᳘ मध्यमा᳘ स्वयमातृण्णा᳘ व्वायु᳘र्मध्यमा᳘ व्विश्व᳘ज्योतिरन्त᳘रिक्षे त᳘द्वायुं᳘ दधाति त᳘स्मादय᳘मन्त᳘रिक्षे व्वायुः[[!!]]॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ मध्यमा᳘यै स्वयमातृण्णा᳘यै॥
(या ऽउ) उप᳘रिष्टाद्विश्व᳘ज्योतिषमु᳘पदधात्यन्त᳘रिक्षं वै᳘ मध्यमा᳘ स्वयमातृण्णा᳘ व्वायु᳘र्मध्यमा᳘ व्विश्व᳘ज्योतिरन्त᳘रिक्षे त᳘द्वायुं᳘ दधाति त᳘स्मादय᳘मन्त᳘रिक्षे व्वायुः[[!!]]॥
मूलम् - Weber
अ᳘थ मध्यमा᳘यै स्वयमातृणा᳘यै॥
उप᳘रिष्टाद्विश्व᳘ज्योतिषमु᳘पदधात्यन्त᳘रिक्षं वै᳘ मध्यमा᳘ स्वयमातृणा᳘ वायु᳘र्मध्यमा᳘ विश्व᳘ज्योतिरन्त᳘रिक्षे त᳘द्वायुं᳘ दधाति त᳘स्मादय᳘मन्त᳘रिक्षे वायुः᳟॥
मूलम् - विस्वरम्
अथ मध्यमायै स्वयमातृण्णाया उपरिष्टाद् विश्वज्योतिषमुपदधाति । अन्तरिक्षं वै मध्यमा स्वयमातृण्णा । वायुर्मध्यमा विश्वज्योतिः । अन्तरिक्षे तद्वायुं दधाति । तस्मादयमन्तरिक्षे वायुः ॥ १९ ॥
सायणः
[व्याख्यानं अष्टादशे]
Eggeling
- And the (second) Viśvajyotis he lays down subsequent to the second naturally-perforated one (in the third, or central) layer; for the second naturally-perforated one is the air, and the second Viśvajyotis is Vāyu (the wind): he thus places the wind in the air, whence that wind (has his abode) in the air.
२०
विश्वास-प्रस्तुतिः
(स्ता᳘) ता᳘न्येता᳘नि ज्यो᳘तीᳫँ᳭षि॥
तद्य᳘देता᳘ ऽएव᳘मुपद᳘धात्येता᳘न्ये᳘वैतज्ज्यो᳘तीᳫँ᳭षि सम्य᳘ञ्चि दधाति त᳘स्मादित᳘ ऽऊ᳘र्ध्वो ऽग्निर्दी᳘प्यते ऽर्व्वा᳘ङ्सा᳘वादित्य᳘स्तपत्यन्त᳘रिक्षे ऽयं᳘ तिर्य᳘ङ् व्वायुः᳘ पवते॥
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘न्येता᳘नि ज्यो᳘तीᳫँ᳭षि॥
तद्य᳘देता᳘ ऽएव᳘मुपद᳘धात्येता᳘न्ये᳘वैतज्ज्यो᳘तीᳫँ᳭षि सम्य᳘ञ्चि दधाति त᳘स्मादित᳘ ऽऊ᳘र्ध्वो ऽग्निर्दी᳘प्यते ऽर्व्वा᳘ङ्सा᳘वादित्य᳘स्तपत्यन्त᳘रिक्षे ऽयं᳘ तिर्य᳘ङ् व्वायुः᳘ पवते॥
मूलम् - Weber
ता᳘न्येता᳘नि ज्यो᳘तींषि॥
तद्य᳘देता᳘ एव᳘मुपद᳘धात्येता᳘न्येॗवैतज्ज्यो᳘तींषि सम्य᳘ञ्चि दधाति त᳘स्मादित᳘ ऊॗर्ध्वो ऽग्निर्दी᳘प्यते ऽर्वा᳘ङ्सा᳘वादित्य᳘स्तपत्यन्त᳘रिक्षे ऽयं᳘ तिर्य᳘ङ् वायुः᳘ पवते॥
मूलम् - विस्वरम्
तान्येतानि ज्योतींषि । तद् यदेता एवमुपदधाति- एतान्येवैतज्ज्योतींषि सम्यञ्चि दधाति । तस्मादित ऊर्ध्वो ऽग्निर्दीप्यते । अर्वाङ् असावादित्यस्तपति । अन्तरिक्षे ऽयं तिर्यङ् वायुः पवते ॥ २० ॥
सायणः
[व्याख्यानं अष्टादशे]
Eggeling
- These (three) then are the lights;–and when he lays down these (three Viśvajyotis bricks) in this way, he thereby sets up those same lights so as to face each other; and hence the fire blazes upwards from this (earth), and yonder sun shines downwards, and that wind blows sideways in the air.
२१
विश्वास-प्रस्तुतिः
परमेष्ठी᳘ त्वा सादयत्वि᳘ति॥
परमेष्ठी᳘ ह्येतां᳘ पञ्चमीं चि᳘तिम᳘पश्यद्दिव᳘स्पृष्ठे ज्यो᳘तिष्मतीमि᳘ति दिवो᳘ ह्यसौ᳘[[!!]] पृष्ठे ज्यो᳘तिष्मानादित्यः[[!!]]॥
मूलम् - श्रीधरादि
परमेष्ठी᳘ त्वा सादयत्वि᳘ति॥
परमेष्ठी᳘ ह्येतां᳘ पञ्चमीं चि᳘तिम᳘पश्यद्दिव᳘स्पृष्ठे ज्यो᳘तिष्मतीमि᳘ति दिवो᳘ ह्यसौ᳘[[!!]] पृष्ठे ज्यो᳘तिष्मानादित्यः[[!!]]॥
मूलम् - Weber
परमेष्ठी᳘ त्वा सादयत्वि᳘ति॥
परमेष्ठीॗ ह्येता᳘म् पञ्चमीं चि᳘तिम᳘पश्यद्दिव᳘स्पृष्ठे ज्यो᳘तिष्मतीमि᳘ति दिवो ह्य᳘सौ᳘ पृष्ठे ज्यो᳘तिष्मानादित्यः᳟॥
मूलम् - विस्वरम्
“परमेष्ठी 8 त्वा सादयतु”- इति । परमेष्ठी ह्येतां पञ्चमीं चितिमपश्यत् । “दिवस्पृष्ठे ज्योतिष्मतीम्”- इति । दिवो ह्यसौ पृष्ठे ज्योतिष्मानादित्यः ॥ २१ ॥
सायणः
[व्याख्यानं अष्टादशे]
Eggeling
- [He ‘settles’ the Viśvajyotis, with, Vāj. S. XV, 58], ‘May Parameshṭḥin settle thee’–for Parameshṭḥin saw this fifth layer;–‘on the back
of the sky, thee, the luminous one!’–for on the back of the sky is yonder luminous sun.
२२
विश्वास-प्रस्तुतिः
(त्यो) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्यानाये᳘ति प्राणो वै᳘ व्विश्व᳘ज्योतिः स᳘र्व्वस्मा ऽउ वा᳘ ऽएत᳘स्मै प्राणो व्वि᳘श्वं ज्यो᳘तिर्यच्छे᳘ति स᳘र्व्वं ज्यो᳘तिर्यच्छे᳘त्येतत्सू᳘र्यस्ते᳘ ऽधिपतिरि᳘ति सू᳘र्यमे᳘वास्या ऽअ᳘धिपतिं करोति सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(त्यो) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्यानाये᳘ति प्राणो वै᳘ व्विश्व᳘ज्योतिः स᳘र्व्वस्मा ऽउ वा᳘ ऽएत᳘स्मै प्राणो व्वि᳘श्वं ज्यो᳘तिर्यच्छे᳘ति स᳘र्व्वं ज्यो᳘तिर्यच्छे᳘त्येतत्सू᳘र्यस्ते᳘ ऽधिपतिरि᳘ति सू᳘र्यमे᳘वास्या ऽअ᳘धिपतिं करोति सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्यानाये᳘ति प्राणो वै᳘ विश्व᳘ज्योतिः स᳘र्वस्मा उ वा᳘ एत᳘स्मै प्राणो वि᳘श्वं ज्यो᳘तिर्यछे᳘ति स᳘र्वं ज्यो᳘तिर्यछे᳘त्येतत्सू᳘र्यस्ते᳘ ऽधिपतिरि᳘ति सू᳘र्यमेॗवास्या अ᳘धिपतिं करोति सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“विश्वस्मै प्राणायापानाय व्यानाय”- इति । प्राणो वै विश्वज्योतिः । सर्वस्मा उ वा एतस्मै प्राणः । “विश्वं ज्योतिर्यच्छ”- इति । सर्वं ज्योतिर्यच्छेत्येतत् । “सूर्यस्ते ऽधिपतिः”- (वा. सं. १५ । ५८) इति । सूर्यमेवास्या अधिपतिं करोति । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ २२ ॥
सायणः
[व्याख्यानं अष्टादशे]
Eggeling
- ‘For all out-breathing, and off-breathing, and through-breathing,’–for the Viśvajyotis is the breath, and breath, indeed, is (necessary) for everything here;–‘bestow thou all the light!’–that is, ‘bestow thou the whole (or every) light;’–‘Sūrya is thine overlord,’–he thereby makes Sūrya (the sun) its overlord. Having ‘settled’ it, he pronounces the Sūdadohas on it: its (symbolical) meaning has been told 9.
२३
विश्वास-प्रस्तुतिः
(स्ता᳘) ता᳘ हैता᳘ ऽएव᳘ संया᳘न्यः॥
(ऽ) एतद्वै᳘ देवा᳘ व्विश्व᳘ज्योतिर्भिरे᳘वेमाल्ँ᳘लोकान्त्स᳘मयुरित᳘श्चोर्ध्वा᳘नमु᳘तश्चार्व्वा᳘चस्त᳘थै᳘वैतद्य᳘जमानो व्विश्व᳘ज्योतिर्भिरे᳘वेमाल्ँ᳘लोकान्त्सं᳘यातीत᳘श्चोर्ध्वा᳘नमु᳘तश्चार्वा᳘चः॥
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘ हैता᳘ ऽएव᳘ संया᳘न्यः॥
(ऽ) एतद्वै᳘ देवा᳘ व्विश्व᳘ज्योतिर्भिरे᳘वेमाल्ँ᳘लोकान्त्स᳘मयुरित᳘श्चोर्ध्वा᳘नमु᳘तश्चार्व्वा᳘चस्त᳘थै᳘वैतद्य᳘जमानो व्विश्व᳘ज्योतिर्भिरे᳘वेमाल्ँ᳘लोकान्त्सं᳘यातीत᳘श्चोर्ध्वा᳘नमु᳘तश्चार्वा᳘चः॥
मूलम् - Weber
ता᳘ हैता᳘ एव᳘ संया᳘न्यः॥
एतद्वै᳘ देवा᳘ विश्व᳘ज्योतिर्भिरेॗवेमांलोकान्त्स᳘मयुरित᳘श्चोर्ध्वा᳘नमु᳘तश्चार्वा᳘चस्त᳘थैॗवैतद्य᳘जमानो विश्व᳘ज्योतिर्भिरेॗवेमां᳘लोकान्त्सं᳘यातीत᳘श्चोर्ध्वा᳘नमु᳘तुश्चार्वा᳘चः॥
मूलम् - विस्वरम्
ता हैता एव संयान्यः । एतद्वै देवा विश्वज्योतिर्भिरेवेमांल्लोकान्त्समयुः । इतश्चोर्ध्वान्, अमुतश्चार्वाचः । तथैवैतद्यजमानो विश्वज्योतिर्भिरेवेमांल्लोकान्त्संयाति- इतश्चोर्ध्वान्, अमुतश्चार्वाचः ॥ २३ ॥
सायणः
[व्याख्यानं अष्टादशे]
Eggeling
- Now, these (bricks) are indeed stepping-stones, for by means of the Viśvajyotis (bricks) the gods then stepped over these worlds, both from hence upwards, and from above downwards: and in like manner does the Sacrificer now, by means of the Viśvajyotis, step over these worlds, both from hence upwards, and from above downwards.
२४
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दु ह च᳘रकाध्वर्यवः॥
(वो ऽन्या᳘) अन्या᳘ ऽएव᳘ संया᳘नीरित्यु᳘पदधति न त᳘था कुर्यादत्य᳘हैव रेच᳘यन्त्येता᳘ ऽउ ऽएव᳘ संया᳘न्यः॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दु ह च᳘रकाध्वर्यवः॥
(वो ऽन्या᳘) अन्या᳘ ऽएव᳘ संया᳘नीरित्यु᳘पदधति न त᳘था कुर्यादत्य᳘हैव रेच᳘यन्त्येता᳘ ऽउ ऽएव᳘ संया᳘न्यः॥
मूलम् - Weber
त᳘दु ह च᳘रकाध्वर्यवो॥
ऽन्या᳘ एव᳘ संया᳘नीरित्यु᳘पदधति न त᳘था कुर्यादत्य᳘हैव᳘ रेचयन्त्येता᳘ उ एव᳘ संया᳘न्यः॥
मूलम् - विस्वरम्
तदु ह चरकाध्वर्यवो ऽन्या एव संयानीरित्युपदधति । न तथा कुर्यात् । अत्यहैव रेचयन्ति । एता उ एव संयान्यः ॥ २४ ॥
सायणः
[व्याख्यानं अष्टादशे]
इत्याहवनीयचित्यां पञ्चचितिकायां पञ्चमी चितिः ।
(यजुष्मतीष्टकोपधानं सम्पूर्णम् ।)
Eggeling
- Now, the Carakādhvaryus lay down here yet other ‘stepping-stones’; but let him not do so, for they do what is redundant, and these are indeed the stepping-stones.
-
ऋतव्ये तपश्च तपस्यश्चेति । का. श्रौ. सू. १७ । २५८ ↩︎
-
125:3 Or, he places the chieftaincy in every clan. ↩︎
-
126:1 Or, all this universe. ↩︎
-
127:1 For the symbolic meaning of the three svayam-ātr̥ṇṇās, as the central bricks of the first and third layers, and the one lying on the centre of the fifth layer, see part iii, p. 155, note 8. ↩︎
-
127:2 On the three Viśvajyotis bricks, placed in the same layers, as representing the gods Agni, Vāyu and Āditya respectively, see VI, 3, 3, 16; 5, 3, 3. ↩︎
-
128:1 Or, But these (bricks) also are (or mean) generative power, cf. paragraph 1. ↩︎
-
128:2 That is, he is not to shift them from their proper place, but place each subsequent pair exactly on those laid down before. As a matter of fact, however, these two bricks (if we determine their site by mere calculation) would seem, in the fifth layer, to lie by half a foot further away from the central point, than the R̥tavyās of the other layers do. This is owing to the fact that whilst, in the layers in which a Svayamātr̥ṇṇā lies in the middle, only one half of these central bricks lie on the east side of the central point, in the present layer the eastern -portion of the Gārhapatya (occupying the central part of the layer) consists of full-sized bricks. This discrepancy of half a foot was probably made good by some space being left, which was afterwards filled up with earth; unless, indeed, the Svayamātr̥ṇṇās, as apparently natural stones, were allowed to somewhat exceed the ordinary size of bricks. ↩︎
-
व्विश्वज्योतिषं परमेष्ठी त्वेति । का. श्रौ. सू. १७ । २५९ । ↩︎
-
131:1 For this verse see part iii, p. 307, note 2; for its symbolic meaning (as the breath, or vital air) VII, 1, 1, 15; 26. See also VIII, 7, 3, 21, where the verse itself is explained. ↩︎