०१

विश्वास-प्रस्तुतिः

गा᳘र्हपत्यमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवाः प्रा᳘प्य रा᳘द्ध्वेवामन्यन्त᳘ ते ऽब्रुवन्के᳘नेद᳘मरात्स्मे᳘ति गा᳘र्हपत्येनैवे᳘त्यब्रुवन्गा᳘र्हपत्यं वै᳘ चित्वा᳘ समारु᳘ह्य प्रथमां चि᳘तिमपश्याम प्रथमा᳘यै द्विती᳘यां द्विती᳘यायै तृती᳘यां तृती᳘यायै चतुर्थीं᳘ चतुर्थ्यै᳘ पञ्चमीं᳘ पञ्चम्या᳘ ऽइदमि᳘ति᳘[[!!]]॥

मूलम् - श्रीधरादि

गा᳘र्हपत्यमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवाः प्रा᳘प्य रा᳘द्ध्वेवामन्यन्त᳘ ते ऽब्रुवन्के᳘नेद᳘मरात्स्मे᳘ति गा᳘र्हपत्येनैवे᳘त्यब्रुवन्गा᳘र्हपत्यं वै᳘ चित्वा᳘ समारु᳘ह्य प्रथमां चि᳘तिमपश्याम प्रथमा᳘यै द्विती᳘यां द्विती᳘यायै तृती᳘यां तृती᳘यायै चतुर्थीं᳘ चतुर्थ्यै᳘ पञ्चमीं᳘ पञ्चम्या᳘ ऽइदमि᳘ति᳘[[!!]]॥

मूलम् - Weber

गा᳘र्हपत्यमु᳘पदधाति॥
एतद्वै᳘ देवाः प्रा᳘प्य राॗद्ध्वेवामन्यन्त᳘ 1 ते ऽब्रुवन्के᳘नेद᳘मरात्स्मे᳘ति गा᳘र्हपत्येनैवे᳘त्यव्रुवन्गा᳘र्हपत्यं वै᳘ चित्वा᳘ समारु᳘ह्य प्रथमां चि᳘तिमपश्याम प्रथमा᳘यै द्विती᳘यां द्विती᳘यायै तृती᳘यां तृती᳘यायै चतुर्थीं᳘ चतुर्थ्यै᳘ पञ्चमी᳘म् पञ्चम्या᳘ इद᳘मिति॥

मूलम् - विस्वरम्

अथाष्टगार्हपत्येष्टकोपधानम् ।

गार्हपत्यमुपदधाति । एतद्वै देवाः प्राप्य राद्ध्वेवामन्यन्त । ते ऽब्रुवन्- केनेदमरात्स्मेति । गार्हपत्येनैवेत्यब्रुवन् । गार्हपत्यं वै चित्वा समारुह्य प्रथमां चितिमपश्याम, प्रथमायै द्वितीयां, द्वितीयायै तृतीयां, तृतीयायै चतुर्थीं, चतुर्थ्यै पञ्चमीं, पञ्चम्या इदम्- इति ॥ १ ॥

सायणः

गार्हपत्यमुपदधातीति । शालाद्वार्यो ऽग्निस्तदर्था चितिरपि गार्हपत्यस्तस्यां सारभूतो ऽयं यजुष्मतीश्चेत्येकादश सो ऽपि गार्हपत्यस्तस्य प्रतिरूपभूतो ऽन्यत्रान्यस्तदाकारस्तद्धर्मकस्तद्भक्तिश्च गार्हपत्यापृष्ठे तमुपदधातीत्येतदर्थं सप्तभिः कण्डिकाभिः प्रपञ्च्यते । तत्राद्यासु चतसृष्वितिहासेनेदं दर्शयति- यो ऽसौ गार्हपत्यः पूर्वं चितः सो ऽस्याः समृद्धेः कारणं मङ्गल्य इति मत्वा देवैस्तु स्वर्गस्य मध्ये सर्वसाधारणे देशे स्थापितः तद्वृद्धिकारणभूतमात्मन्नदधत इति । एतत्स्थानं स्वर्गाख्यं ‘प्राप्य’ ‘देवाः’ ‘राद्धिः’ “राध साध संसिद्धौ”- (धा. पा. स्वा. प. १६) भावे क्तिप्रत्ययः । राद्धिः समृद्धिः (राधुद्धाः आत्मनो मन्दात्मासुं) वयं समृद्धाः यैरिदं प्राप्ते ते कथं केन मूलभूतेन वयमरात्स्म संसिद्धा इति । ते गार्हपत्येनैवेत्यब्रुवन् । तस्य चितिकर्ममूलभूतत्वात् ‘प्रथमायै’ प्रथमाया ऊर्ध्वं द्वितीयां चितिमपश्याम । ‘पञ्चम्यर्थे सर्वत्र चतुर्थी’ । पञ्चम्या ऊर्ध्वम् ‘इदं’ स्वर्गाख्यं स्थानम् ॥ १ ॥

Eggeling
  1. He lays down the Gārhapatya. For the gods, having obtained this much, thought they had succeeded. They spake, ‘Whereby have we succeeded in this?’–‘By means of the Gārhapatya,’ they said; ‘for, after building the Gārhapatya 2 and mounting thereon, we saw the first layer, from the first (we saw) the second, from the second the third, from the third the fourth, from the fourth the fifth, and from the fifth this one.’

०२

विश्वास-प्रस्तुतिः

ते ऽब्रुवन्॥
(न्नु) उ᳘प त᳘ज्जानीत य᳘थेय᳘मस्मा᳘स्वेव रा᳘द्धिर᳘सदि᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्तदिच्छत य᳘थेय᳘मस्मा᳘स्वेव रा᳘द्धिर᳘सदि᳘ति॥

मूलम् - श्रीधरादि

ते ऽब्रुवन्॥
(न्नु) उ᳘प त᳘ज्जानीत य᳘थेय᳘मस्मा᳘स्वेव रा᳘द्धिर᳘सदि᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्तदिच्छत य᳘थेय᳘मस्मा᳘स्वेव रा᳘द्धिर᳘सदि᳘ति॥

मूलम् - Weber

त ऽब्रुवन्॥
उ᳘प त᳘ज्जानीत य᳘थेय᳘मस्मा᳘स्वेव रा᳘द्धिर᳘सदि᳘तिॗ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्तदिछत य᳘थेय᳘मस्मा᳘स्वेव रा᳘द्धिर᳘सदि᳘ति॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- उप तज्जानीत- यथेयमस्मास्वेव राद्धिरसदिति । ते ऽब्रुवन्- चेतयध्वमिति- चितिमिच्छतेति वाव तदब्रुवन्- तदिच्छत यथेयमस्मास्वेव राद्धिरसदिति ॥ २ ॥

सायणः

ते ऽब्रुवन्निति । समृद्धिकारणं राद्धेः स एव गार्हपत्यः- तत्र नेत्याह तादृशमेवान्यानि (श्वतहेत अअ) इति । मानिनस्तु गार्हपत्यस्य तच्चेतयध्वमिति वचनं कुत एतद्विविनाशप्रसङ्गाद्येन हि तत्र स्थितेन राद्धिरसदनाप्ता सा कथं तस्मादपनीयते । तदपरित्यागेन तु सन्नीयत इति नानुपपन्नम् । तस्मिन् गार्हपत्ये निमित्तभूते विरुद्धमवदन्त देवाः, इहोपदधाम इत्येव का पुनर्दर्शयन्निहेति विरुद्धं दर्शितवन्त इत्यत आह- वसवः पुरस्तादुक्तवन्त इहोपदधाम इत्येवमन्ये ऽपि यथादेशम् ॥ २-४ ॥

Eggeling
  1. They spake, ‘Think ye upon this, how there may be success here for us!’ They spake, ‘Meditate ye (cit)!’ whereby, indeed, they meant to say, ‘Seek ye a layer (citi)! seek ye whereby there may be success here for us!’

०३

विश्वास-प्रस्तुतिः

ते᳘ चेत᳘यमानाः॥
(ऽ) एत᳘दपश्यन्नि᳘हेम᳘माहृत्यो᳘पदधामहा ऽइ᳘ति त᳘मि᳘हाहृत्यो᳘पादधत त᳘स्मि᳘न्व्यवदन्त[[!!]] व्व᳘सवः पुर᳘स्ताद्रुद्रा᳘ दक्षिणत᳘ ऽआदित्याः᳘ पश्चा᳘न्मरु᳘त ऽउत्तरतो व्वि᳘श्वे देवा᳘ ऽउप᳘रिष्टादिहो᳘पदधामेहो᳘पदधामे᳘ति᳘॥

मूलम् - श्रीधरादि

ते᳘ चेत᳘यमानाः॥
(ऽ) एत᳘दपश्यन्नि᳘हेम᳘माहृत्यो᳘पदधामहा ऽइ᳘ति त᳘मि᳘हाहृत्यो᳘पादधत त᳘स्मि᳘न्व्यवदन्त[[!!]] व्व᳘सवः पुर᳘स्ताद्रुद्रा᳘ दक्षिणत᳘ ऽआदित्याः᳘ पश्चा᳘न्मरु᳘त ऽउत्तरतो व्वि᳘श्वे देवा᳘ ऽउप᳘रिष्टादिहो᳘पदधामेहो᳘पदधामे᳘ति᳘॥

मूलम् - Weber

ते᳘ चेत᳘यमानाः॥
एत᳘दपश्यन्निॗहेम᳘माहृत्यो᳘पदधामहा इ᳘ति त᳘मिॗहाहृत्यो᳘पादधत त᳘स्मिन्व्य᳘वदन्त व᳘सवः पुर᳘स्ताद्रुद्रा᳘ दक्षिणत᳘ आदित्याः᳘ पश्चा᳘न्मरु᳘त उत्तरतो वि᳘श्वे देवा᳘ उप᳘रिष्टादिहो᳘पदधामेहो᳘पदधामे᳘ति॥

मूलम् - विस्वरम्

ते चेतयमाना एतदपश्यन्- इहेममाहृत्योपदधामहा इति । तमिहाहृत्योपादधत । तस्मिन्व्यवदन्त- वसवः पुरस्तात् । रुद्रा दक्षिणतः, आदित्याः पश्चात्, मरुत उत्तरतः, विश्वे देवा उपरिष्टात्- इहोपदधाम, इहोपदधामेति ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. Whilst meditating, they said this: ‘Let us bring this one here and put it on (the fire-altar)!’ Having brought this (Gārhapatya) here, they put it

on. They disputed about it:–in the front part (of the fifth layer) the Vasus, on the right side the Rudras, on the hind part the Ādityas, on the left side the Maruts, and above it the Viśve Devās said. ‘Here let us lay it down! here. let us lay it down!’

०४

विश्वास-प्रस्तुतिः

ते ऽब्रुवन्॥
(न्म᳘) म᳘ध्य ऽएवो᳘पदधामहै स᳘ नो म᳘ध्य ऽउ᳘पहितः स᳘र्व्वेषां भविष्यती᳘ति तं म᳘ध्य ऽउ᳘पादधत त᳘देताᳫँ᳭ रा᳘द्धिमात्म᳘न्नदधत मध्यतो᳘ मध्यत᳘ ऽए᳘वैत᳘देताᳫँ᳭ रा᳘द्धिमात्म᳘न्नदधत त᳘थै᳘वैतद्य᳘जमानो यद्गा᳘र्हपत्यमुपद᳘धात्येता᳘मे᳘वैतद्रा᳘द्धिमात्म᳘न्धत्ते मध्यतो᳘ मध्यत᳘ ऽए᳘वैत᳘देताᳫँ᳭ रा᳘द्धिमात्म᳘न्धत्ते॥

मूलम् - श्रीधरादि

ते ऽब्रुवन्॥
(न्म᳘) म᳘ध्य ऽएवो᳘पदधामहै स᳘ नो म᳘ध्य ऽउ᳘पहितः स᳘र्व्वेषां भविष्यती᳘ति तं म᳘ध्य ऽउ᳘पादधत त᳘देताᳫँ᳭ रा᳘द्धिमात्म᳘न्नदधत मध्यतो᳘ मध्यत᳘ ऽए᳘वैत᳘देताᳫँ᳭ रा᳘द्धिमात्म᳘न्नदधत त᳘थै᳘वैतद्य᳘जमानो यद्गा᳘र्हपत्यमुपद᳘धात्येता᳘मे᳘वैतद्रा᳘द्धिमात्म᳘न्धत्ते मध्यतो᳘ मध्यत᳘ ऽए᳘वैत᳘देताᳫँ᳭ रा᳘द्धिमात्म᳘न्धत्ते॥

मूलम् - Weber

ते ऽब्रुवन्॥
म᳘ध्य एवो᳘पदधामहै स᳘ नो म᳘ध्य उ᳘पहितः स᳘र्वेषाम् भविष्यती᳘ति तं म᳘ध्य उ᳘पादधत त᳘देतां रा᳘द्धिमात्म᳘न्नदधत मध्यतो᳘ मध्यत᳘ एॗवैत᳘देतां रा᳘द्धिमात्म᳘न्नदधत त᳘थैॗवैतद्य᳘जमानो यद्गा᳘र्हपत्यमुपद᳘धात्येता᳘मेॗवैतद्रा᳘द्धिमात्म᳘न्धत्ते मध्यतो᳘ मध्यत᳘ एॗवैत᳘देतां रा᳘द्धिमात्म᳘न्धत्ते॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- मध्य 3 एवोपदधामहै । स नो मध्य उपहितः सर्वेषां भविष्यतीति । तं मध्य उपादधत । तदेतां राद्धिमात्मन्नदधत । मध्यतः । मध्यत एवैतदेतां राद्धिमात्मन्नदधत । तथैवैतद्यजमानो यद्गार्हपत्यमुपदधाति- एतामेवैतद्राद्धिमात्मन्धत्ते । मध्यतः । मध्यत एवैतदेतां राद्धिमात्मन्धत्ते ॥ ४ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. They spake, ‘Let us lay it down in the middle: when laid down in our midst, it will belong to all of us.’ They laid it down in the middle (of the fifth layer), and thus they laid that success into the self (or the body of the altar);–in the middle (they laid it): they thus laid that success into the very middle of (Agni’s and their own) self. And in like manner does the Sacrificer, when he lays down the Gārhapatya, lay that success into (his own) self; and (by laying it down) in the middle, he lays that success into the very middle of the self.

०५

विश्वास-प्रस्तुतिः

य᳘द्वेव गा᳘र्हपत्यमुपद᳘धाति॥
(त्य᳘) अ᳘न्नं वै गा᳘र्हपत्यो᳘ ऽत्ता ऽय᳘मग्नि᳘श्चि᳘तो ऽत्त्र᳘ ऽए᳘वैतद᳘न्नम᳘पिदधाति मध्यतो᳘ मध्यत᳘ ऽए᳘वास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव गा᳘र्हपत्यमुपद᳘धाति॥
(त्य᳘) अ᳘न्नं वै गा᳘र्हपत्यो᳘ ऽत्ता ऽय᳘मग्नि᳘श्चि᳘तो ऽत्त्र᳘ ऽए᳘वैतद᳘न्नम᳘पिदधाति मध्यतो᳘ मध्यत᳘ ऽए᳘वास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - Weber

य᳘द्वेव गा᳘र्हपत्यमुपद᳘धाति॥
अ᳘न्नं वै गा᳘र्हपत्योॗ ऽत्ताय᳘मग्नि᳘श्चिॗतो ऽत्त्र᳘ एॗवैतद᳘न्नम᳘पिदधाति मध्यतो᳘ मध्यत᳘ एॗवास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - विस्वरम्

यद्वेव गार्हपत्यमुपदधाति । अन्नं वै गार्हपत्यः, अत्ता ऽयमग्निश्चितः । अत्त्र एवैतदन्नमपिदधाति । मध्यतः । मध्यत एवास्मिन्नेतदन्नं दधाति ॥ ५॥

सायणः

यद्वेव गार्हपत्यमिति । प्रसन्ने द्वे । अन्नं वै गार्हपत्य इति हविःश्रपणप्रधानत्वादन्नं गार्हपत्यः । होमप्रधानत्वादाहवनीयो ऽयमग्निश्चित इति दर्शनान्तरम् ॥ ५ ॥ ६ ॥

Eggeling
  1. And, again, as to why he lays down the Gārhapatya. The Gārhapatya, doubtless, is food, and this built Agni is an eater: it is to the eater he thus offers that food;–in the centre (he lays down the Gārhapatya): in the very middle (of the body) he thus lays food into him.

०६

विश्वास-प्रस्तुतिः

य᳘द्वेव गा᳘र्हपत्यमुपद᳘धाति॥
व्वे᳘दिर्व्वै᳘ देवलोको᳘ ऽथ वा᳘ ऽएष᳘ बहिर्व्वेदि᳘ चितो᳘ भवति तं य᳘दि᳘हाहृ᳘त्योपद᳘धाति त᳘देनं व्वे᳘दौ देवलोके प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

य᳘द्वेव गा᳘र्हपत्यमुपद᳘धाति॥
व्वे᳘दिर्व्वै᳘ देवलोको᳘ ऽथ वा᳘ ऽएष᳘ बहिर्व्वेदि᳘ चितो᳘ भवति तं य᳘दि᳘हाहृ᳘त्योपद᳘धाति त᳘देनं व्वे᳘दौ देवलोके प्र᳘तिष्ठापयति॥

मूलम् - Weber

य᳘द्वेव गा᳘र्हपत्यमुपद᳘धाति॥
वे᳘दिर्वै᳘ देवलोको᳘ ऽथ वा᳘ एष᳘ बहिर्वेदि᳘ चितो᳘ भवति तं य᳘दिॗहाहृ᳘त्योपद᳘धाति त᳘देनं वे᳘दौ देवलोके प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

यद्वेव गार्हपत्यमुपदधाति । वेदिर्वै देवलोकः । अथ वा एष बहिर्वेदि चितो भवति । तं यदिहाहृत्योपदधाति- तदेनं वेदौ देवलोके प्रतिष्ठापयति ॥ ६ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. And, again, as to why he lays down the Gārhapatya. The world of the gods, doubtless, is the Vedi (altar-ground); but that (original Gārhapatya) is built up outside the Vedi: thus, when he brings it here and lays it down (on the fire-altar), he then establishes it (or him, Agni) on the Vedi, in the world of the gods.

०७

विश्वास-प्रस्तुतिः

य᳘द्वेव गा᳘र्हपत्यमुपद᳘धाति॥
यो᳘निर्व्वै᳘ पुष्करपर्णम᳘थ वा᳘ ऽएष᳘ बहिर्योनि᳘ चितो᳘ भवति बहि᳘र्धो वा᳘ ऽएतद्यो᳘नेरग्निकर्म य᳘त्पुरा᳘ पुष्करपर्णात्तं य᳘दि᳘हाहृ᳘त्योपद᳘धाति त᳘देनं यो᳘नौ पुष्करपर्णे प्र᳘तिष्ठापयति त᳘थो हैषो᳘ ऽबहिर्धा भवत्यष्टावि᳘ष्टका ऽउ᳘पदधाति त᳘स्योक्तो ब᳘न्धुस्तं वा᳘ ऽएतै᳘रेव य᳘जुर्भिरेत᳘या ऽऽवृ᳘ता चिनोति यो᳘ ह्ये᳘वासौ स᳘ ऽए᳘वायं त᳘मे᳘वैत᳘दाहृ᳘त्येहो᳘पदधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव गा᳘र्हपत्यमुपद᳘धाति॥
यो᳘निर्व्वै᳘ पुष्करपर्णम᳘थ वा᳘ ऽएष᳘ बहिर्योनि᳘ चितो᳘ भवति बहि᳘र्धो वा᳘ ऽएतद्यो᳘नेरग्निकर्म य᳘त्पुरा᳘ पुष्करपर्णात्तं य᳘दि᳘हाहृ᳘त्योपद᳘धाति त᳘देनं यो᳘नौ पुष्करपर्णे प्र᳘तिष्ठापयति त᳘थो हैषो᳘ ऽबहिर्धा भवत्यष्टावि᳘ष्टका ऽउ᳘पदधाति त᳘स्योक्तो ब᳘न्धुस्तं वा᳘ ऽएतै᳘रेव य᳘जुर्भिरेत᳘या ऽऽवृ᳘ता चिनोति यो᳘ ह्ये᳘वासौ स᳘ ऽए᳘वायं त᳘मे᳘वैत᳘दाहृ᳘त्येहो᳘पदधाति॥

मूलम् - Weber

य᳘द्वेव गा᳘र्हपत्यमुपद᳘धाति॥
यो᳘निर्वै᳘ पुष्करपर्णम᳘थ वा᳘ एष᳘ बहिर्योनि᳘ चितो᳘ भवति बहिॗर्धो वा᳘ एतद्यो᳘नेरग्निकर्म य᳘त्पुरा᳘ पुष्करपर्णात्तं य᳘दिॗहाहृॗत्योपद᳘धाति त᳘देनं यो᳘नौ पुष्करपर्णे प्र᳘तिष्ठापयति त᳘थो हैषो᳘ ऽबहिर्धा भवत्यष्टावि᳘ष्टका उ᳘पदधाति त᳘स्योक्तो ब᳘न्धुस्तं वा᳘ एतै᳘रेव य᳘जुर्भिरेत᳘यावृ᳘ता चिनोति योॗ ह्येॗवासौ स᳘ एॗवायं त᳘मेॗवैत᳘दाहृ᳘त्येहो᳘पदधाति॥

मूलम् - विस्वरम्

यद्वेव गार्हपत्यमुपदधाति । योनिर्वै पुष्करपर्णम् । अथ वा एष बहिर्वेनि चितो भवति । बहिर्धो वा एतद्योनेरग्निकर्म- यत् पुरा पुष्करपर्णात् । तं यदिहाहृत्योपदधाति- तदेनं योनौ पुष्करपर्णे प्रतिष्ठापयति । तथो हैषो ऽबहिर्धा भवति । अष्टाविष्टका उपदधाति । तस्योक्तो बन्धुः । तं वा एतैरेव यजुर्भिरेतया ऽऽवृता चिनोति । यो ह्येवासौ स एवायम् । तमेवैतदाहृत्येहोपदधाति ॥ ७ ॥

सायणः

एतैरेव यजुर्भिरयं सो ऽग्निरिति । ‘एतया ऽऽवृता’ दक्षिणत उपदधाति । उत्तरार्धे प्रथमामुपदधातीत्यादिकया ह्येवासौ स एवायमभिधत्तेत्यभिप्रायः । न चैतद् यदिहाहृत्योपदधाति । पुनस्ता एवेष्टकास्तत (उत्पाथे बावयति) कुतस्तस्यावयवस्याविघातप्रसङ्गादादौ गार्हपत्यादित्यष्टौ पुनश्चितिरिति च पञ्चम्यां चितावुक्तौ पुनर्लोकंपृणं (म्ले) संकल्पमाना स्वाहा तादात्म्यैकविंशतिं गार्हपत्य उपदधाति द्वाभ्यां नास्तीति धिष्ण्येष्विति (न च कथं मनायां क्रियमाणायां अत एवेष्टकाद्विर्गण्येतारं तस्यायसेवै तदाहृत्ये तत्समादाभिप्रास्योत्पाद्य न च नास्ति) प्रायस्तथापि पुनश्चितावपि परिक्ष्यति य एवायमग्निश्चितस्तमेवैतदाहृत्य गार्हपत्यस्योपरिष्टात्पुनश्चिनोतीति । तदपि तद्भक्तित्वादेव युज्यते नोत्पाद्य हरणेन ॥ ७ ॥

Eggeling
  1. And, again, as to why he lays down the Gārhapatya. The lotus-leaf 4, doubtless, is a womb, but

that (Gārhapatya) is built up outside the womb, and outside of the womb indeed takes place that performance regarding the fire-altar which takes place prior to the (laying down of the) lotus-leaf: thus, when they bring it (the Gārhapatya) here and lay it down, he then establishes it in the womb. on the lotus-leaf; and thus indeed it is not outside. Eight bricks he lays down: the significance of this has been explained 5. He builds it up with the same formulas and in the same order, for this one is the same as that (former Gārhapatya Agni) he thus brings it (or him) here and lays it down.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ पुनश्चितिमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा गा᳘र्हपत्यं चित्वा त᳘स्मिन्रा᳘द्धिं᳘ नापश्यन्यो᳘निर्वै गा᳘र्हपत्या चि᳘तिरे᳘षो वै यो᳘ने रा᳘द्धिर्यद्रे᳘तः प्र᳘जातिस्त᳘स्यामेत᳘स्यां[[!!]] यो᳘नौ रेतः प्र᳘जातिं᳘ नापश्य᳘न्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ पुनश्चितिमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा गा᳘र्हपत्यं चित्वा त᳘स्मिन्रा᳘द्धिं᳘ नापश्यन्यो᳘निर्वै गा᳘र्हपत्या चि᳘तिरे᳘षो वै यो᳘ने रा᳘द्धिर्यद्रे᳘तः प्र᳘जातिस्त᳘स्यामेत᳘स्यां[[!!]] यो᳘नौ रेतः प्र᳘जातिं᳘ नापश्य᳘न्॥

मूलम् - Weber

अ᳘थ पुनश्चितिमु᳘पदधाति॥
एतद्वै᳘ देवा गा᳘र्हपत्यं चित्वा त᳘स्मिन्राद्धिंॗ नापश्यन्यो᳘निर्वै गा᳘र्हपत्या चि᳘तिरेॗषो वै यो᳘ने रा᳘द्धिर्यद्रे᳘तः प्र᳘जाति᳘स्त᳘स्यामेत᳘स्यां यो᳘नौ रेतः प्र᳘जातिंॗ नापश्यन्॥

मूलम् - विस्वरम्

अथाष्टपुनश्चितीष्टकोपधानम् ।

अथ पुनश्चितिमुपदधाति । एतद्वै देवा गार्हपत्यं चित्वा तस्मिन्राद्धिं नापश्यन् । योनिर्वै गार्हपत्या चितिः । एषो वै योने राद्धिः- यद्रेतः प्रजातिः । तस्यामेतस्यां योनौ रेतः प्रजातिं नापश्यन् ॥ ८ ॥

सायणः

अथ पुनरिति 6 । यैरिदं गार्हपत्यं चास्मात् पुनश्चितिरिति दर्शनान्तरमनुव्याख्यायोपयोगित्वेन स यः सप्तभिरेताभिः प्रसन्नप्रायाभिरेव मन्त्रव्याख्यानं च । अस्मिन्नेतादृशी ( ) विश्वसृजे दूरस्थान् दर्शयति- सर्वदा हैव स स्वर्गो लोकस्तीर्णो बहिर्यज्ञस्योपकरणात्तत्र नित्यमवस्थानात्तथा वक्ष्यति । (प्रस्तारणपति ज्ञस्यसासंस्य) स्वर्गगमनयाग्निं निदधाति । पुनश्चितिरिति शरीरं निदधे । तं स्वर्गं लोकं पत्न्यादिना सर्वेण अनुगच्छेम तद्देवा इत्युपधीयमानेष्टकाशरीरेणाग्निरेव तस्याश्च प्रजननार्थं बहुवचनम् । अन्ये तु मन्त्रवर्णात् एतदेव एता इष्टका मन्यंते । एतद्वृत्ता पृष्ठं दिवः सर्वान् पृथिव्यन्तरिक्षे पृष्ठापेक्षया तृतीयं दिवः पृष्ठम् एतद्द्वेधा मध्यं चैवेषो ऽग्निरन्यत्रोपधानात् । सहस्रियः सहस्रेण संमितः सहस्रियः (व्युथेव) बृहतीसहस्रस्य मितः संमितः आहवनीयः स एवायमिति कृत्वा सहस्रिय इत्याह । उपप्रयात्विति पुरुषव्यत्ययो द्रष्टव्यः । “सहस्रियो द्योतताम्” इति प्रथमपुरुषेणोपक्रान्तत्वात् । “समेनं प्रध्यवध्वमुप चैनं संप्रयात” इत्यत्राप्येवम् अग्नेरुपधीयमाने इष्टकाशरीरस्यामन्त्रितविभक्त्या ऽप्रत्यक्षीकृतत्वादृषीणां पारोक्ष्यं युज्यते । ततश्चात्र पुरुषसर्वनामव्यत्ययो द्रष्टव्यः । द्योततामप्रयुच्छन् गतायेत्यर्थः । उपसंप्रयातेति वचनात् । एतदृषयः । पथो देवयानान् कृणुध्वं तदुपगमनेन यद्बहिष्ठादयमित्यर्थः । वाक् च वै मनश्च पितरा ते वाङ्मनसी स्वेनोपकारेण जगतः पालयितारौ युवाना नित्यतरुणौ अन्वाताँसीदिति अनुनासिकमिति लोडर्थ एव लुङ्लकारवचने व्यत्ययो द्रष्टव्यः । (किमत्वातनुतो त्वयिके अग्नेवतकंम) ऋषिभिः यो ऽसौ यज्ञे तन्तुः ततः तमेव तनुतामिति प्रार्थ्यते । कथं वाङ्मनसी नाशयति ये तत्र त्वया तनुतामित्यत आह- वाङ्मनश्चैतावग्नी गार्हपत्याहवनीयौ तत्पूर्वकत्वात् । ततश्च तौ पितरौ पुनरेव ताविवात्मानौ गार्हपत्यं पुनश्चितिलक्षणं मत्वा तनुतां त्वयैतं यज्ञे यं तंतुं इदं पदान्त इममेतदग्निमुपधीयमानेष्टकाशरीरमाह- ‘उद्रुध्यस्वाग्ने’ इत्येतेन मन्त्रेण नामात्र पावितं च कुर्वन्ति । एवमिति यजमानं कुत एतत् इष्टापूर्ते संसर्पवचनाद्यजमानश्च सीदतेति च परतो दर्शनात् । एतद्धास्य प्रतिज्ञाततममतिशयेन परिज्ञातेमे मम जन्म शरीरं येन सहस्रं बहु वहसि येन सर्ववेदसं वहसि यजमानाय प्रतिदातुं नः शरीरेण तेन यज्ञं स्वर्गलोकं देवेषु देवानां मध्ये नः पराधास्माक त्वमत्रोपधीयमानो यज्ञमश्वश्च स्वर्गमिष्टकाशरीरो ऽग्निरूपश्च ते गार्हपत्यचितिलक्षणा ऽसौ योनिस्तयोराह इष्टकाशरीरो ऽग्निः निरूप्यते ॥ ८-२४ ॥

इति सर्वविद्यानिधानकवीन्द्राचार्यंसरस्वतीश्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमे काण्डे षष्टे ऽध्याये तृतीयं ब्राह्मणम् ॥ (८-६-३) ॥

इति षष्ठो ऽध्यायः समाप्तः ॥ (८-६)

Eggeling
  1. He then lays down the Punaściti 7. Now at that time the gods, having built the Gārhapatya, did not find success therein; for the Gārhapatya pile is a womb, and success in a womb consists in seed, in generative power; and in this womb they saw no seed, no generative power.

०९

विश्वास-प्रस्तुतिः

(श्यँस्ते) ते ऽब्रुवन्॥
(न्नु᳘) उ᳘प त᳘ज्जानीत य᳘था ऽस्यां यो᳘नौ रे᳘तः प्र᳘जातिं द᳘धामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘था ऽस्यां यो᳘नौ रे᳘तः प्र᳘जातिं द᳘धामे᳘ति॥

मूलम् - श्रीधरादि

(श्यँस्ते) ते ऽब्रुवन्॥
(न्नु᳘) उ᳘प त᳘ज्जानीत य᳘था ऽस्यां यो᳘नौ रे᳘तः प्र᳘जातिं द᳘धामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘था ऽस्यां यो᳘नौ रे᳘तः प्र᳘जातिं द᳘धामे᳘ति॥

मूलम् - Weber

ते ऽब्रुवन्॥
उ᳘प त᳘ज्जानीत य᳘थास्यां यो᳘नौ रे᳘तः प्र᳘जातिं द᳘धामे᳘तिॗ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्त᳘दिछत य᳘थास्यां यो᳘नौ रे᳘तः प्र᳘जातिं दधामे᳘ति॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- उप तज्जानीत- यथा ऽस्यां योनौ रेतः प्रजातिं दधामेति । ते ऽब्रुवन्- चेतयध्वमिति- चितिमिच्छतेति वाव तदब्रुवन्- तदिच्छत- यथा ऽस्यां योनौ रेतः प्रजातिं दधामेति ॥ ९ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. They spake, ‘Think ye upon this, how we may lay seed and generative power into this womb!’ They spake, ‘Meditate ye!’ whereby, indeed, they meant to say, ‘Seek ye a layer! seek ye that we may lay seed and generative power into this womb!’

१०

विश्वास-प्रस्तुतिः

ते᳘ चेत᳘यमानाः॥
(ऽ) एतां᳘ पुनश्चिति᳘मपश्यंस्तामु᳘पादधत त᳘देत᳘स्यां यो᳘नौ रे᳘तः प्र᳘जातिमदधुर्मध्यतो᳘ मध्यत᳘ ऽए᳘वैत᳘देत᳘स्यां यो᳘नौ रे᳘तः प्र᳘जातिमदधुस्त᳘थै᳘वैतद्य᳘जमानो य᳘त्पुनश्चिति᳘मुपद᳘धात्येत᳘स्यामे᳘वैतद्यो᳘नौ रे᳘तः प्र᳘जातिं दधाति मध्यतो᳘ मध्यत᳘ ऽए᳘वैत᳘देत᳘स्यां यो᳘नौ रे᳘तः प्र᳘जातिं दधाति॥

मूलम् - श्रीधरादि

ते᳘ चेत᳘यमानाः॥
(ऽ) एतां᳘ पुनश्चिति᳘मपश्यंस्तामु᳘पादधत त᳘देत᳘स्यां यो᳘नौ रे᳘तः प्र᳘जातिमदधुर्मध्यतो᳘ मध्यत᳘ ऽए᳘वैत᳘देत᳘स्यां यो᳘नौ रे᳘तः प्र᳘जातिमदधुस्त᳘थै᳘वैतद्य᳘जमानो य᳘त्पुनश्चिति᳘मुपद᳘धात्येत᳘स्यामे᳘वैतद्यो᳘नौ रे᳘तः प्र᳘जातिं दधाति मध्यतो᳘ मध्यत᳘ ऽए᳘वैत᳘देत᳘स्यां यो᳘नौ रे᳘तः प्र᳘जातिं दधाति॥

मूलम् - Weber

ते᳘ चेतयमानाः॥
एता᳘म् पुनश्चिति᳘मपश्यंस्तामु᳘पादधत त᳘देत᳘स्यां यो᳘नौ रे᳘तः प्र᳘जातिमदधुर्मध्यतो᳘ मध्यत᳘ एवैत᳘देत᳘स्यां यो᳘नौ रे᳘तः प्र᳘जातिमदधुस्त᳘थैॗवैतद्य᳘जमानो य᳘त्पुनश्चिति᳘मुपद᳘धात्येत᳘स्यामेॗवैतद्यो᳘नौ रे᳘तः प्र᳘जातिं दधाति मध्यतो᳘ मध्यत᳘ एॗवैत᳘देत᳘स्यां यो᳘नौ रे᳘तः प्र᳘जातिं दधाति॥

मूलम् - विस्वरम्

ते चेतयमाना एतां पुनश्चितिमपश्यन् । तामुपादधत । तदेतस्यां योनौ रेतः प्रजातिमदधुः । मध्यतः । मध्यत एवैतदस्यां योनौ रेतः प्रजातिमदधुः । तथैवैतद्यजमानो यत्पुनश्चितिमुपदधाति- एतस्यामेवैतद्योनौ रेतः प्रजातिं दधाति । मध्यतः । मध्यत एवैतदेतस्यां योनौ रेतः प्रजातिं दधाति ॥ १० ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. Whilst meditating, they saw this Punaściti, and put it on (the Gārhapatya), and thereby laid seed and generative power into this womb;–in the centre (they placed it): they thus laid seed and

generative power into the very middle of this womb. And in like manner does the Sacrificer now, when he lays down the Punaściti, lay seed and generative power into this womb;–in the centre (he lays it down): he thus lays seed and generative power into the very middle of this womb.

११

विश्वास-प्रस्तुतिः

ताᳫँ᳭ है᳘के जघनार्ध ऽउ᳘पदधति॥
जघनार्धाद्वै रे᳘तः सिच्यते पुच्छसंधौ पु᳘च्छाद्वै रे᳘तः सिच्यत ऽइ᳘ति न त᳘था कुर्याद्बहिर्धा᳘ ह ते यो᳘ने रे᳘तः प्र᳘जातिं दधति ये त᳘था कुर्व्व᳘न्ति म᳘ध्य ऽएवो᳘पदध्यात्त᳘त्सम्प्रति यो᳘नौ रे᳘तः प्र᳘जातिं दधाति॥

मूलम् - श्रीधरादि

ताᳫँ᳭ है᳘के जघनार्ध ऽउ᳘पदधति॥
जघनार्धाद्वै रे᳘तः सिच्यते पुच्छसंधौ पु᳘च्छाद्वै रे᳘तः सिच्यत ऽइ᳘ति न त᳘था कुर्याद्बहिर्धा᳘ ह ते यो᳘ने रे᳘तः प्र᳘जातिं दधति ये त᳘था कुर्व्व᳘न्ति म᳘ध्य ऽएवो᳘पदध्यात्त᳘त्सम्प्रति यो᳘नौ रे᳘तः प्र᳘जातिं दधाति॥

मूलम् - Weber

ताᳫं है᳘के जघनार्ध उ᳘पदधति॥
जघनार्धाद्वै रे᳘तः सिच्यते पुछसंधौ पु᳘छाद्वै रे᳘तः सिच्यत इ᳘ति न त᳘था कुर्याद्बहिर्धा᳘ ह ते यो᳘ने रे᳘तः प्र᳘जातिं दधति ये त᳘था कुर्व᳘न्ति म᳘ध्य एवो᳘पदध्यात्त᳘त्सम्प्रति यो᳘नौ रे᳘तः प्र᳘जातिं दधाति॥

मूलम् - विस्वरम्

तां हैके जघनार्ध उपदधति । जघनार्धाद्वै रेतः सिच्यते । पुच्छसन्धौ । पुच्छाद्वै रेतः सिच्यते- इति । न तथा कुर्यात् । बहिर्धा ह ते योने रेतः प्रजातिं दधति-ये तथा कुर्वन्ति । मध्य एवोपदध्यात्- तत्सम्प्रति योनौ रेतः प्रजातिं दधाति ॥ ११ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. Now some lay it down on the hind part (of the bird-like altar), because it is from the hind part that seed is introduced,–(to wit) on the juncture of the tail (and the body), for it is from (the part near) the tail that seed is introduced. Let him not do this, for they who do this lay seed and generative power outside the womb; but let him rather place it in the centre: he thus lays seed and generative power right into the womb.

१२

विश्वास-प्रस्तुतिः

(त्य) अष्टावि᳘ष्टका ऽउ᳘पदधाति॥
(त्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति प᳘ञ्चकृ᳘त्वः सादयति प᳘ञ्चचितिको ऽग्निः प᳘ञ्चर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्नि᳘र्यावानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चत्यष्टावि᳘ष्टकाः प᳘ञ्चकृ᳘त्वः सादयति तत्त्र᳘योदश त्र᳘योदश मा᳘साः संव्वत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - श्रीधरादि

(त्य) अष्टावि᳘ष्टका ऽउ᳘पदधाति॥
(त्य) अष्टा᳘क्षरा गायत्री᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति प᳘ञ्चकृ᳘त्वः सादयति प᳘ञ्चचितिको ऽग्निः प᳘ञ्चर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्नि᳘र्यावानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चत्यष्टावि᳘ष्टकाः प᳘ञ्चकृ᳘त्वः सादयति तत्त्र᳘योदश त्र᳘योदश मा᳘साः संव्वत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - Weber

अष्टावि᳘ष्टका उ᳘पदधाति॥
अष्टा᳘क्षरा गायत्री᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चति प᳘ञ्च कृ᳘त्वः सादयति प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निॗर्यावानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चत्यष्टावि᳘ष्टकाः प᳘ञ्च कृ᳘त्वः सादयति तत्त्रयोदश त्र᳘योदश मा᳘साः संवत्सरस्त्र᳘योदशाग्ने᳘श्चितिपुरीषा᳘णि या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥

मूलम् - विस्वरम्

अष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्रेतोभूतं सिञ्चति । पञ्चकृत्वः सादयति । पञ्चचितिको ऽग्निः । पञ्च ऽर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्रेतोभूतं सिञ्चति । अष्टाविष्टकाः पञ्चकृत्वः सादयति- तत्त्रयोदश । त्रयोदश मासाः संवत्सरः । त्रयोदशाग्नेश्चितिपुरीषाणि । यावानग्निर्यावत्यस्य मात्रा- तावत्तद्भवति ॥ १२ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. He lays down eight bricks,–the Gāyatrī (metre) consists of eight syllables, and Agni (the fire-altar) is of Gāyatrī nature: as great as Agni is, as great as is his measure, so great he thus introduces him in the form of seed. Five times he ‘settles’ it,–of five layers consists the fire-altar, five seasons make a year, and Agni is the year: as great as Agni is, as great as is his measure, by so much he thus introduces him in the form of seed. Eight bricks he ‘settles’ five times, that makes thirteen,–thirteen months make a year, and there are thirteen ’layer-fillings’ of the altar: as great as Agni is, as great as is his measure, so great he thus becomes.

१३

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ पुनश्चिति᳘मुपद᳘धाति॥
(त्ये) एतद्वा᳘ ऽएतद᳘यथायथं करो᳘ति य᳘दाहवनी᳘याद्गा᳘र्हपत्यमु᳘त्तरं चिनो᳘ति तद्य᳘त्पुनश्चिति᳘मुपद᳘धाति य᳘ ऽए᳘वाय᳘मग्निश्चितस्त᳘मे᳘वैत᳘दाहृ᳘त्या᳘स्योप᳘रिष्टात्पु᳘नश्चिनोति तद्य᳘च्चितᳫँ᳭ स᳘न्तं पु᳘नश्चिनो᳘ति त᳘स्मात्पुनश्चितिः[[!!]]॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ पुनश्चिति᳘मुपद᳘धाति॥
(त्ये) एतद्वा᳘ ऽएतद᳘यथायथं करो᳘ति य᳘दाहवनी᳘याद्गा᳘र्हपत्यमु᳘त्तरं चिनो᳘ति तद्य᳘त्पुनश्चिति᳘मुपद᳘धाति य᳘ ऽए᳘वाय᳘मग्निश्चितस्त᳘मे᳘वैत᳘दाहृ᳘त्या᳘स्योप᳘रिष्टात्पु᳘नश्चिनोति तद्य᳘च्चितᳫँ᳭ स᳘न्तं पु᳘नश्चिनो᳘ति त᳘स्मात्पुनश्चितिः[[!!]]॥

मूलम् - Weber

य᳘द्वेव᳘ पुनश्चिति᳘मुपद᳘धाति॥
एतद्वा᳘ एतद᳘यथायथं करो᳘ति य᳘दाहवनी᳘याद्गा᳘र्हपत्यमु᳘त्तरं चिनो᳘ति तद्य᳘त्पुनश्चिति᳘मुपद᳘धाति य᳘ एॗवाय᳘मग्निश्चितस्त᳘मेॗवैत᳘दाहृ᳘त्याॗस्योप᳘रिष्टात्पु᳘नश्चिनोति तद्य᳘च्चितᳫं स᳘न्तम् पु᳘नश्चिनो᳘ति त᳘स्मात्पुनश्चितिः᳟॥

मूलम् - विस्वरम्

यद्वेव पुनश्चितिमुपदधाति । एतद्वा एतदयथायथं करोति- यदाहवनीयाद्गार्हपत्यमुत्तरं चिनोति । तत् पुनश्चितिमुपदधाति- य एवायमग्निश्चितः- तमेवैतदाहृत्यास्योपरिष्टात्पुनश्चिनोति । तद्यच्चितं सन्तं पुनश्चिनोति- तस्मात्पुनश्चितिः ॥ १३ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. And as to why he lays down the Punaściti. Now, in laying down the Gārhapatya (hearth) upon the Āhavanīya, he surely does what is improper; but when he lays down the Punaściti he thereby brings this Agni (or altar) that has been built, and builds it up again thereon; and because he again

(punas) builds up (ci) that (Agni) already built, therefore (this is called) Punaściti.

१४

विश्वास-प्रस्तुतिः

(स्त) तद्धै᳘के॥
जघनार्धे गा᳘र्हपत्यमुपद᳘धति पूर्वार्धे᳘ पुनश्चिति᳘माहवनी᳘यश्च वा᳘ ऽएतौ गा᳘र्हपत्यश्चैवं वा᳘ ऽएता᳘वग्नी ऽइ᳘ति न त᳘था कुर्यादयं वै᳘ लोको गा᳘र्हपत्यो द्यौ᳘राहवनी᳘य ऽउ᳘त्तरो वा᳘ ऽअसा᳘वस्यै त᳘स्मादेनामु᳘त्तरामेवो᳘पदध्यात्॥

मूलम् - श्रीधरादि

(स्त) तद्धै᳘के॥
जघनार्धे गा᳘र्हपत्यमुपद᳘धति पूर्वार्धे᳘ पुनश्चिति᳘माहवनी᳘यश्च वा᳘ ऽएतौ गा᳘र्हपत्यश्चैवं वा᳘ ऽएता᳘वग्नी ऽइ᳘ति न त᳘था कुर्यादयं वै᳘ लोको गा᳘र्हपत्यो द्यौ᳘राहवनी᳘य ऽउ᳘त्तरो वा᳘ ऽअसा᳘वस्यै त᳘स्मादेनामु᳘त्तरामेवो᳘पदध्यात्॥

मूलम् - Weber

तद्धै᳘के॥
जघनार्धे गा᳘र्हपत्यमुपद᳘धति पूर्वार्धे᳘ पुनश्चिति᳘माहवनी᳘यश्च वा᳘ एतौ गा᳘र्हपत्यश्चैवं वा᳘ एता᳘वग्नी इ᳘ति न त᳘था कुर्यादयं वै᳘ लोको गा᳘र्हपत्यो द्यौ᳘राहवनी᳘य उ᳘त्तरो वा᳘ असा᳘वस्यै त᳘स्मादेनामु᳘त्तरामेवो᳘पदध्यात्॥

मूलम् - विस्वरम्

तद्धैके जघनार्धे गार्हपत्यमुपदधति, पूर्वार्धे पुनश्चितिम् । आहवनीयश्च वा एतौ गार्हपत्यश्च । एवं वा एतावग्नी इति । न तथा कुर्यात् । अयं वै लोको गार्हपत्यः, द्यौराहवनीयः । उत्तरो वा असावस्यै । तस्मादेनामुत्तरामेवोपदध्यात् ॥ १४ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. Now some lay down the Gārhapatya on the hind part, and the Punaściti on the front part (of the built altar), for these two are the Āhavanīya and the Gārhapatya, and these two fires are (placed) in this way 8. Let him not do this, for the Gārhapatya is this (terrestrial) world, and the Āhavanīya is the sky; and above this (earth) surely is yonder (sky); let him therefore place it (the Punaściti) on the top of that (Gārhapatya).

१५

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘द्वेव गा᳘र्हपत्यं च पुनश्चितिं᳘ चोपद᳘धाति॥
व्वे᳘दिश्च हैते᳘ ऽअग्ने᳘रुत्तरवेदिश्चा᳘थ ये ऽअमू पू᳘र्व्वे निव᳘पत्यध्वर᳘स्य ते ऽअ᳘थ हैते᳘ ऽअग्नेस्तद्य᳘देते᳘ ऽउपधा᳘याग्निं᳘ निद᳘धाति व्वे᳘दौ चै᳘वैनमेतदुत्त᳘रवेदौ᳘ च प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘द्वेव गा᳘र्हपत्यं च पुनश्चितिं᳘ चोपद᳘धाति॥
व्वे᳘दिश्च हैते᳘ ऽअग्ने᳘रुत्तरवेदिश्चा᳘थ ये ऽअमू पू᳘र्व्वे निव᳘पत्यध्वर᳘स्य ते ऽअ᳘थ हैते᳘ ऽअग्नेस्तद्य᳘देते᳘ ऽउपधा᳘याग्निं᳘ निद᳘धाति व्वे᳘दौ चै᳘वैनमेतदुत्त᳘रवेदौ᳘ च प्र᳘तिष्ठापयति॥

मूलम् - Weber

य᳘द्वेव गा᳘र्हपत्यं च पुनश्चितिं᳘ चोपद᳘धाति॥
वे᳘दिश्च हैते᳘ अग्ने᳘रुत्तरवेदिश्चा᳘थ ये अमू पू᳘र्वे निव᳘पत्यध्वर᳘स्य ते अ᳘थ हैते᳘ अग्नेस्तद्य᳘देते᳘ उपधा᳘याग्निं᳘ निद᳘धाति वे᳘दौ चैॗवैनमेत᳘दुत्तरवेदौ᳘ च प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

यद्वेव गार्हपत्यं च पुनश्चितिं चोपदधाति । वेदिश्च हैते अग्नेरुत्तरवेदिश्च । अथ ये अमू पूर्वे निवपति- अध्वरस्य ते । अथ हैते अग्नेः । तद्यदेते उपधायाग्निं निदधाति- वेदौ चैवैनमेतदुत्तरवेदौ च प्रतिष्ठापयति ॥ १५ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. And as to why he lays down both the Gārhapatya and the Punaściti. These two, doubtless, are the Vedi and the Uttaravedi (high-altar) of Agni. Now those two former (altars of this kind) which he throws up 9 belong to the Soma-sacrifice, but these belong to the fire-altar; and when, after laying down these two; he deposits Agni (the fire) thereon, then he establishes him both on the Vedi and the Uttaravedi.

१६

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ पुनश्चिति᳘मुपद᳘धाति॥
पुनर्यज्ञो᳘ हैष ऽउ᳘त्तरा हैषा᳘ देवयज्या᳘ पुनर्यज्ञ᳘मे᳘वैतदु᳘पधत्त ऽउ᳘त्तरामेव᳘ देवयज्यामु᳘प हैनं पुनर्यज्ञो᳘ नमति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ पुनश्चिति᳘मुपद᳘धाति॥
पुनर्यज्ञो᳘ हैष ऽउ᳘त्तरा हैषा᳘ देवयज्या᳘ पुनर्यज्ञ᳘मे᳘वैतदु᳘पधत्त ऽउ᳘त्तरामेव᳘ देवयज्यामु᳘प हैनं पुनर्यज्ञो᳘ नमति॥

मूलम् - Weber

य᳘द्वेव᳘ पुनश्चिति᳘मुपद᳘धाति॥
पुनर्यज्ञो᳘ हैष उ᳘त्तरा हैषा᳘ देवयज्या᳘ पुनर्यज्ञ᳘मेॗवैतदु᳘पधत्त उ᳘त्तरामेव᳘ देवयज्यामु᳘प हैनम् पुनर्यज्ञो᳘ नमति॥

मूलम् - विस्वरम्

यद्वेव पुनश्चितिमुपदधाति । पुनर्यज्ञो हैषः, उत्तरा हैषा देवयज्या । पुनर्यज्ञमेवैतदुपधत्ते- उत्तरामेव देवयज्याम् । उप हैनं पुनर्यज्ञो नमति ॥ १६ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. And, again, as to why he lays down the Punaściti. This, doubtless, is a repeated sacrifice (punaryajña), and higher (than the ordinary sacrifice) is this worship of the gods: he thus sets up a repeated sacrifice, and the higher worship of the gods; and the repeated sacrifice inclines (accrues) to him.

१७

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ पुनश्चिति᳘मुपद᳘धाति॥
यं वै तं᳘ प्राणा ऽऋ᳘षयो᳘ ऽग्रे ऽग्नि᳘ᳫँ᳘ सम᳘स्कुर्व्वन्त्स᳘ ऽएष त᳘मे᳘वैतत्पु᳘नश्चिनोति तद्य᳘च्चितᳫँ᳭ स᳘न्तं पुनश्चिनो᳘ति[[!!]] त᳘स्माद्वेव᳘ पुनश्चितिः[[!!]]॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ पुनश्चिति᳘मुपद᳘धाति॥
यं वै तं᳘ प्राणा ऽऋ᳘षयो᳘ ऽग्रे ऽग्नि᳘ᳫँ᳘ सम᳘स्कुर्व्वन्त्स᳘ ऽएष त᳘मे᳘वैतत्पु᳘नश्चिनोति तद्य᳘च्चितᳫँ᳭ स᳘न्तं पुनश्चिनो᳘ति[[!!]] त᳘स्माद्वेव᳘ पुनश्चितिः[[!!]]॥

मूलम् - Weber

य᳘द्वेव᳘ पुनश्चिति᳘मुपद᳘धाति॥
यं वै त᳘म् प्राणा ऋ᳘षयो᳘ ऽग्रे ऽग्नि᳘ᳫं᳘ सम᳘स्कुर्वन्त्स᳘ एष त᳘मेॗवैतत्पु᳘नश्चिनोति तद्य᳘च्चितᳫं स᳘न्तम् पु᳘नश्चिनो᳘ति त᳘स्माद्वेव᳘ पुनश्चितिः᳟॥

मूलम् - विस्वरम्

यद्वेव पुनश्चितिमुपदधाति । यं वै तं प्राणा ऋषयो ऽग्रे ऽग्निं समस्कुर्वन्- स एषः । तमेवैतत्पुनश्चिनोति । तदयच्चितं सन्तं पुनश्चिनोति तस्माद्वेव पुनश्चितिः ॥ १७ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. And, again, as to why he lays down the

Punaściti. This (altar), doubtless, is that same Agni whom in the beginning the vital airs, the R̥shis, made up 10. He now builds him up again; and inasmuch as he again (punas) builds up (ci) that (Agni) already built, therefore also it is (called) Punaściti.

१८

विश्वास-प्रस्तुतिः

(र्ये᳘) ये᳘न ऽऋ᳘षयस्त᳘पसा सत्रमा᳘यन्नि᳘ति॥
(त्य) अमू᳘नेतदृ᳘षीनाहे᳘न्धाना ऽअग्नि᳘ᳫँ᳘ स्वराभ᳘रन्त ऽइती᳘न्धाना ऽअग्नि᳘ᳫँ᳘[[!!]] स्वर्गं᳘ लोक᳘माह᳘रन्त ऽइ᳘त्येतत्त᳘स्मिन्नहं नि᳘दधे ना᳘के ऽअग्निमि᳘ति स्वर्गो वै᳘ लोको ना᳘को य᳘माहुर्म᳘नव स्तीर्ण᳘बर्हिषमि᳘ति ये᳘ व्विद्वा᳘ᳫँ᳘सस्ते म᳘नव स्तीर्ण᳘बर्हिषमि᳘ति सर्व्वदा᳘ हैव स᳘ स्तीर्ण᳘बर्हिः॥

मूलम् - श्रीधरादि

(र्ये᳘) ये᳘न ऽऋ᳘षयस्त᳘पसा सत्रमा᳘यन्नि᳘ति॥
(त्य) अमू᳘नेतदृ᳘षीनाहे᳘न्धाना ऽअग्नि᳘ᳫँ᳘ स्वराभ᳘रन्त ऽइती᳘न्धाना ऽअग्नि᳘ᳫँ᳘[[!!]] स्वर्गं᳘ लोक᳘माह᳘रन्त ऽइ᳘त्येतत्त᳘स्मिन्नहं नि᳘दधे ना᳘के ऽअग्निमि᳘ति स्वर्गो वै᳘ लोको ना᳘को य᳘माहुर्म᳘नव स्तीर्ण᳘बर्हिषमि᳘ति ये᳘ व्विद्वा᳘ᳫँ᳘सस्ते म᳘नव स्तीर्ण᳘बर्हिषमि᳘ति सर्व्वदा᳘ हैव स᳘ स्तीर्ण᳘बर्हिः॥

मूलम् - Weber

ये᳘न ऋ᳘षयस्त᳘पसा सत्त्रमा᳘यन्नि᳘ति॥
अमू᳘नेतदृ᳘षीनाहे᳘न्धाना अग्निᳫं स्व᳘राभ᳘रन्त इती᳘न्धाना अग्नि᳘ᳫं᳘ स्वर्गं᳘ लोक᳘माह᳘रन्त इ᳘त्येतत्त᳘स्मिन्नहं नि᳘दधे ना᳘के अग्निमि᳘ति स्वर्गो वै᳘ लोको ना᳘को य᳘माहुर्म᳘नव स्तीर्ण᳘बर्हिषमि᳘ति ये᳘ विद्वा᳘ᳫं᳘सस्ते म᳘नव स्तीर्ण᳘बर्हिषमि᳘ति सर्वदा᳘ हैव स᳘ स्तीर्ण᳘बर्हिः॥

मूलम् - विस्वरम्

“येन 11 ऋषयस्तपसा सत्रमायन्”- इति । अमूनेतदृषीनाह । “इन्धाना अग्निं स्वराभरन्तः”- इति । इन्धाना अग्निं स्वर्गं लोकमाहरन्त इत्येतत् । “तस्मिन्नहं निदधे नाके अग्निम्”- इति । स्वर्गो वै लोको नाकः । “यमाहुर्मनवः स्तीर्णबर्हिषम्"- (वा. सं. १५ । ४९) इति । ये विद्वांसस्ते मनवः । स्तीर्णचर्हिषमिति । सर्वदा हैव स स्तीर्णबर्हिः ॥ १८ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. [He lays down the first brick, with, Vāj. S. XV, 49], ‘With what fervour the R̥shis entered upon the sacrificial session,’–he thereby means those R̥shis (the vital airs);–‘kindling the fire and gaining the light,’–that is, ‘kindling the fire, and gaining the heavenly world;’–‘upon that firmament I place the Fire,’–the firmament, doubtless, is the heavenly world;–‘whom thinkers call the straw-spreader,’–the thinkers (or men) are they who are wise; and ‘straw-spreader’ he says, because he (Agni) has ever the (sacrificial) straw spread for him.

१९

विश्वास-प्रस्तुतिः

(स्तं) तं प᳘त्नीभिर᳘नुगच्छेम देवाः॥
पुत्रैर्भ्रा᳘तृभिरुत᳘ वा हि᳘रण्यैरि᳘त्येते᳘नैनᳫँ᳭ स᳘र्व्वेणा᳘नुगच्छेमे᳘त्येतन्ना᳘कं गृभ्णानाः᳘ सुकृत᳘स्य लोक ऽइ᳘ति स्वर्गो वै᳘ लोको ना᳘कः स्वर्गं᳘ लोकं᳘ गृभ्णानाः᳘ सुकृत᳘स्य लोक ऽइ᳘त्येत᳘त्तृती᳘ये पृष्ठे ऽअ᳘धिरोचने᳘ दिव ऽइ᳘त्येत᳘द्ध तृती᳘यं पृष्ठ᳘ᳫँ᳘ रोचनं᳘ दिवो य᳘त्रैष᳘ ऽएतत्त᳘पति॥

मूलम् - श्रीधरादि

(स्तं) तं प᳘त्नीभिर᳘नुगच्छेम देवाः॥
पुत्रैर्भ्रा᳘तृभिरुत᳘ वा हि᳘रण्यैरि᳘त्येते᳘नैनᳫँ᳭ स᳘र्व्वेणा᳘नुगच्छेमे᳘त्येतन्ना᳘कं गृभ्णानाः᳘ सुकृत᳘स्य लोक ऽइ᳘ति स्वर्गो वै᳘ लोको ना᳘कः स्वर्गं᳘ लोकं᳘ गृभ्णानाः᳘ सुकृत᳘स्य लोक ऽइ᳘त्येत᳘त्तृती᳘ये पृष्ठे ऽअ᳘धिरोचने᳘ दिव ऽइ᳘त्येत᳘द्ध तृती᳘यं पृष्ठ᳘ᳫँ᳘ रोचनं᳘ दिवो य᳘त्रैष᳘ ऽएतत्त᳘पति॥

मूलम् - Weber

तम् प᳘त्नीभिर᳘नुगछेम देवाः॥
पुत्रैर्भ्रा᳘तृभिरुत᳘ वा हि᳘रण्यैरि᳘त्येते᳘नैनᳫं स᳘र्वेणा᳘नुगछेमे᳘त्येतन्ना᳘कं गृभ्णानाः᳘ सुकृत᳘स्य लोक इ᳘ति स्वर्गो वै᳘ लोको ना᳘कः स्वर्गं᳘ लोकं᳘ गृह्णानाः᳘ सुकृत᳘स्य लोक इ᳘त्येत᳘त्तृती᳘ये पृष्ठे अ᳘धि रोचने᳘ दिव इ᳘त्येत᳘द्ध तृती᳘यम् पृष्ठं᳘ रोचनं᳘ दिवो य᳘त्रैष᳘ एतत्त᳘पति॥

मूलम् - विस्वरम्

“तं पत्नीभिरनुगच्छेम देवाः पुत्रैर्भ्रातृभिरुत वा हिरण्यैः”- इति । एतेनैनं सर्वेणानुगच्छेमेत्येतत् । “नाकं गृभ्णानाः सुकृतस्य लोके”- इति । स्वर्गो वै लोको नाकः । स्वर्गं लोकं गृभ्णानाः सुकृतस्य लोक इत्येतत् । “तृतीये पृष्ठे अधिरोचने दिवः”- (वा. सं. १५ । ५०) इति । एतद्ध तृतीयं पृष्ठं रोचनं दिवः- यत्रैष एतत्तपति ॥ १९ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. [The second brick, with, Vāj. S. XV, 50], ‘With our wives let us follow him, O gods! with our sons and brothers, or our golden treasures;’–that is, ’let us follow him with our all;’–‘gaining the firmament in the world of righteousness;’–the firmament, doubtless, is the heavenly world: thus, ‘gaining the heavenly world in the world of righteousness;’–‘above the third luminous back of the sky,’–for this, indeed, is the third luminous back of the sky where this (Agni) now burns 12.

२०

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘ वाचो म᳘ध्यमरुहद्भुरण्युरि᳘ति॥
(त्ये) एत᳘द्ध व्वाचो म᳘ध्यं य᳘त्रैष᳘ ऽएत᳘च्चीय᳘ते भुरण्युरि᳘ति भर्ते᳘त्येत᳘दय᳘मग्निः स᳘त्पतिश्चे᳘कितान ऽइ᳘त्यय᳘मग्निः᳘ सतां प᳘तिश्चेत᳘यमान ऽइ᳘त्येत᳘त्पृष्ठे᳘ पृथिव्या नि᳘हितो द᳘विद्युतदि᳘ति पृष्ठे᳘ पृथिव्या नि᳘हितो दी᳘प्यमान ऽइ᳘त्येत᳘दधस्पदं᳘ कृणुतां ये᳘ पृतन्य᳘व ऽइ᳘त्यधस्पदं᳘ कुरुताᳫँ᳭ स᳘र्व्वान्पाप्म᳘न ऽइ᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘ वाचो म᳘ध्यमरुहद्भुरण्युरि᳘ति॥
(त्ये) एत᳘द्ध व्वाचो म᳘ध्यं य᳘त्रैष᳘ ऽएत᳘च्चीय᳘ते भुरण्युरि᳘ति भर्ते᳘त्येत᳘दय᳘मग्निः स᳘त्पतिश्चे᳘कितान ऽइ᳘त्यय᳘मग्निः᳘ सतां प᳘तिश्चेत᳘यमान ऽइ᳘त्येत᳘त्पृष्ठे᳘ पृथिव्या नि᳘हितो द᳘विद्युतदि᳘ति पृष्ठे᳘ पृथिव्या नि᳘हितो दी᳘प्यमान ऽइ᳘त्येत᳘दधस्पदं᳘ कृणुतां ये᳘ पृतन्य᳘व ऽइ᳘त्यधस्पदं᳘ कुरुताᳫँ᳭ स᳘र्व्वान्पाप्म᳘न ऽइ᳘त्येत᳘त्॥

मूलम् - Weber

आ᳘ वाचो म᳘ध्यमरुहद्भुरण्युरि᳘ति॥
एत᳘द्ध वाचो मध्यं य᳘त्रैष᳘ एत᳘च्चीय᳘ते भुरण्युरि᳘ति भर्तै᳘त्येत᳘दय᳘मग्निः स᳘त्पतिश्चे᳘कितान इ᳘त्यय᳘मग्निः᳘ सताम् प्र᳘तिश्चेत᳘यमान इ᳘त्येत᳘त्पृष्ठे᳘ पृथिव्या नि᳘हितो द᳘विद्युतदि᳘ति पृष्ठे᳘ पृथिव्या नि᳘हितो दी᳘प्यमान इ᳘त्येत᳘दधस्पदं᳘ कृणुतां ये᳘ पृतन्य᳘व इ᳘त्यधस्पदं᳘ कुरुताᳫं स᳘र्वान्पाप्म᳘न इ᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“आ वाचो मध्यमरुहद्भुरण्युः”- इति । एतद्ध वाचो मध्यम्- यत्रैष एतच्चीयते । भुरण्युरिति- भर्तेत्येतत् । “अयमग्निः सत्पतिश्चेकितानः”- इति । अयमग्निः सतां पतिश्चेतयमान इत्येतत् । “पृष्ठे पृथिव्या निहितो दविद्युतत्”- इति । पृष्ठे पृथिव्या निहितो दीप्यमानः- इत्येतत् । “अधस्पदं कृणुतां ये पृतन्यवः”- (वा० सं० १५ । ५१) इति । अधस्पदं कुरुतां सर्वान् पाप्मन इत्येतत् ॥ २० ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. [The third brick, with, Vāj. S. XV, 51], ‘Unto the centre of speech did he mount, the nimble,’–for this, indeed, is the centre of speech where he now is built up; and ’the nimble (bhuraṇyu),’ that is, ’the sustainer 13 (bhartar);’–’this Agni, the good lord, the heedful,’–that is, ’this Agni, the lord of the good, the heeding one;’–’established upon the back of the earth, he the brilliant,’–that is, ’established on the back of the earth, the shining one;’–’let him tread under foot any hostile!’–that is, ’let him tread under foot all evildoers.’

२१

विश्वास-प्रस्तुतिः

(द) अय᳘मग्नि᳘र्व्वीर᳘तमो व्वयोधा ऽइ᳘ति॥
(त्य) अय᳘मग्नि᳘वीर्यवत्तमो[[!!]] व्वयोधा ऽइ᳘त्येत᳘त्सहस्रि᳘यो द्योतताम᳘प्रयुच्छन्नि᳘ति सहस्रि᳘यो दीप्यताम᳘प्रमत्त ऽइ᳘त्येत᳘द्विभ्रा᳘जमानः सरिर᳘स्य म᳘ध्य ऽइ᳘तीमे वै᳘ लोकाः᳘ सरिरं दी᳘प्यमान ऽएषु᳘ लोकेष्वि᳘त्येतदुप[[!!]] प्र᳘त्याहि दिव्या᳘नि धामेत्यु᳘प प्र᳘याहि स्वर्गं[[!!]] लोकमि᳘त्येत᳘त्॥

मूलम् - श्रीधरादि

(द) अय᳘मग्नि᳘र्व्वीर᳘तमो व्वयोधा ऽइ᳘ति॥
(त्य) अय᳘मग्नि᳘वीर्यवत्तमो[[!!]] व्वयोधा ऽइ᳘त्येत᳘त्सहस्रि᳘यो द्योतताम᳘प्रयुच्छन्नि᳘ति सहस्रि᳘यो दीप्यताम᳘प्रमत्त ऽइ᳘त्येत᳘द्विभ्रा᳘जमानः सरिर᳘स्य म᳘ध्य ऽइ᳘तीमे वै᳘ लोकाः᳘ सरिरं दी᳘प्यमान ऽएषु᳘ लोकेष्वि᳘त्येतदुप[[!!]] प्र᳘त्याहि दिव्या᳘नि धामेत्यु᳘प प्र᳘याहि स्वर्गं[[!!]] लोकमि᳘त्येत᳘त्॥

मूलम् - Weber

अय᳘मग्नि᳘र्वीर᳘तमो वयोधा इ᳘ति॥
अय᳘मग्नि᳘र्वीर्य᳘वत्तमो वयोधा इ᳘त्येत᳘त्सहस्रि᳘यो द्योतताम᳘प्रयुछन्नि᳘ति सहस्रि᳘यो दीप्यताम᳘प्रमत्त इ᳘त्येत᳘द्विभ्रा᳘जमानः सरिर᳘स्य म᳘ध्य इ᳘तीमे वै᳘ लोकाः᳘ सरिरं दी᳘प्यमान एषु᳘ लोकेष्वि᳘त्येतदु᳘प प्र᳘त्याहि दिव्या᳘नि धामेत्यु᳘प प्र᳘याहि स्वर्गं᳘ लोकमि᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“अयमग्निर्वीरतमो वयोधाः”- इति । अयमग्निर्वीर्यवत्तमो वयोधा- इत्येतत् । सहस्रियो द्योततामप्रयुच्छन्"- इति । सहस्रियो दीप्यतामप्रमत्तः- इत्येतत् । “विभ्राजमानः सरिरस्य मध्ये”- इति । इमे वै लोकाः सरिरम् । दीप्यमान एषु लोकेष्वित्येतत् । “उप प्रयाहि दिव्यानि धाम”- (वा. सं. १५ । ५२) इति । उप प्रयाहि स्वर्गं लोकमित्येतत् ॥ २१ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. [The fourth brick, with, Vāj. S. XV, 52], ‘This Agni, the most mettlesome bestower of strength,’–that is, ’the most vigorous bestower of strength; may he glow a thousandfold, unremitting,’–that is, ‘may he shine a thousandfold, not unheedful;’–‘blazing in the middle of the sea,’–the sea, doubtless, means these worlds: thus, ‘shining in these worlds;’–‘go forth to the divine abodes!’–that is, ‘go forth to the heavenly world!

२२

विश्वास-प्रस्तुतिः

(त्स) सम्प्र᳘च्यवध्वमु᳘पसम्प्र᳘याते᳘ति॥
(त्य) अमू᳘नेतदृ᳘षीनाह स᳘मेनं प्र᳘च्यवध्वमु᳘प चैनᳫँ᳭ सम्प्र᳘यातेत्य᳘ग्ने पथो᳘ देवया᳘नान्कृणुध्वमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः पु᳘नः कृण्वाना᳘ पित᳘रा यु᳘वाने᳘ति व्वा᳘क् च वै म᳘नश्च पित᳘रा यु᳘वाना व्वा᳘क् च म᳘नश्चैता᳘वग्नी᳘ ऽअन्वा᳘ताᳫँ᳭सीत्त्व᳘यि त᳘न्तुमेतमि᳘ति᳘ यो ऽसावृ᳘षिभिस्त᳘न्तुस्ततस्त᳘मेत᳘दाह॥

मूलम् - श्रीधरादि

(त्स) सम्प्र᳘च्यवध्वमु᳘पसम्प्र᳘याते᳘ति॥
(त्य) अमू᳘नेतदृ᳘षीनाह स᳘मेनं प्र᳘च्यवध्वमु᳘प चैनᳫँ᳭ सम्प्र᳘यातेत्य᳘ग्ने पथो᳘ देवया᳘नान्कृणुध्वमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः पु᳘नः कृण्वाना᳘ पित᳘रा यु᳘वाने᳘ति व्वा᳘क् च वै म᳘नश्च पित᳘रा यु᳘वाना व्वा᳘क् च म᳘नश्चैता᳘वग्नी᳘ ऽअन्वा᳘ताᳫँ᳭सीत्त्व᳘यि त᳘न्तुमेतमि᳘ति᳘ यो ऽसावृ᳘षिभिस्त᳘न्तुस्ततस्त᳘मेत᳘दाह॥

मूलम् - Weber

सम्प्र᳘च्यवध्वमु᳘प सम्प्र᳘याते᳘ति॥
अमू᳘नेतदृ᳘षीनाह स᳘मेनम् प्र᳘च्यवध्वमु᳘प चैनᳫं सम्प्र᳘यातेत्य᳘ग्ने पथो᳘ देवया᳘नान्कृणुध्वमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः पु᳘नः कृण्वाना᳘ पित᳘रा यु᳘वाने᳘ति वा᳘क्च वै म᳘नश्च पित᳘रा यु᳘वाना वा᳘क्च म᳘नश्चैता᳘वग्नी᳘ अन्वा᳘तांसीत्त्व᳘यि त᳘न्तुमेतमि᳘तिॗ यो ऽसावृ᳘षिभिस्त᳘न्तुस्ततस्त᳘मेत᳘दाह॥

मूलम् - विस्वरम्

“सम्प्रच्यवध्वमुपसम्प्रयात”- इति । अमूनेतदृषीनाह- समेनं प्रच्यवध्वम्, उप चैनं सम्प्रयातेति । “अग्ने पथो देवयानान्कृणुध्वम्”- इति । यथैव यजुस्तथा बन्धुः । “पुनः कृण्वाना पितरा युवाना”- इति । वाक् च वै मनश्च पितरा । युवाना वाक् च मनश्चैतावग्नी । “अन्वातांसीत्त्वयि तन्तुमेतम्”- (वा. सं. १५ । ५३) इति । यो ऽसावृषिभिस्तन्तुः, ततस्तमेतदाह ॥ २२ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. [The fifth brick, with, Vāj. S. XV, 53], ‘Gather ye together! draw ye nigh together!’–he thereby says to those R̥shis, ‘Gather ye him together! draw ye nigh to him together!’–‘Make ye Agni’s 14 paths to lead to the gods!’–as the text so the meaning;–‘making the parents

young again,’–the young parents, doubtless, are speech and mind, and these two fires also are speech and mind;–‘in thee hath he spun out this thread,’–he thereby means that thread (of the sacrifice) which has been spun out by the R̥shis.

२३

विश्वास-प्रस्तुतिः

(हो) उ᳘द्बुध्यस्वाग्ने प्र᳘तिजागृहि त्वमि᳘ति॥
(ती) इम᳘मेत᳘दग्नि᳘माहो᳘च्चैनं बु᳘ध्यस्व प्र᳘ति चैनं जागृही᳘तीष्टापूर्ते स᳘ᳫँ᳘सृजेथामयं चे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरस्मि᳘न्त्सध᳘स्थे ऽअध्यु᳘त्तरस्मिन्नि᳘ति द्यौर्वा ऽउ᳘त्तरᳫँ᳭सध᳘स्थं व्वि᳘श्वे देवा य᳘जमानश्च सीदते᳘ति तद्वि᳘श्वैर्देवैः᳘ सह य᳘जमानᳫँ᳭ सादयति॥

मूलम् - श्रीधरादि

(हो) उ᳘द्बुध्यस्वाग्ने प्र᳘तिजागृहि त्वमि᳘ति॥
(ती) इम᳘मेत᳘दग्नि᳘माहो᳘च्चैनं बु᳘ध्यस्व प्र᳘ति चैनं जागृही᳘तीष्टापूर्ते स᳘ᳫँ᳘सृजेथामयं चे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरस्मि᳘न्त्सध᳘स्थे ऽअध्यु᳘त्तरस्मिन्नि᳘ति द्यौर्वा ऽउ᳘त्तरᳫँ᳭सध᳘स्थं व्वि᳘श्वे देवा य᳘जमानश्च सीदते᳘ति तद्वि᳘श्वैर्देवैः᳘ सह य᳘जमानᳫँ᳭ सादयति॥

मूलम् - Weber

उ᳘द्बुध्यस्वाग्ने प्र᳘तिजागृहि त्वमि᳘ति॥
इ᳘ममेत᳘दग्नि᳘माहो᳘च्चैनम् बु᳘ध्यस्व प्र᳘ति चैनं जागृही᳘तीष्टापूर्ते स᳘ᳫं᳘सृजेथामयं चे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुरस्मि᳘न्त्सध᳘स्थे अध्यु᳘त्तरस्मिन्नि᳘ति द्यौर्वा उ᳘त्तरᳫं सध᳘स्थं वि᳘श्वे देवा य᳘जमानश्च सीदते᳘ति तद्वि᳘श्वैर्देवैः᳘ सह य᳘जमानᳫं सादयति॥

मूलम् - विस्वरम्

उद्रुध्यस्वाग्ने प्रतिजागृहि त्वम्"- इति । इममेतदग्निमाह- उच्चैनं बुध्यस्व, प्रति चैनं जागृहीति । “इष्टापूर्ते संसृजेथामयं च”- इति । यथैव यजुस्तथा बन्धुः । “अस्मिन्त्सधस्थे अध्युत्तरस्मिन्”- इति । द्यौर्वा उत्तरं सधस्थम् । “विश्वे देवा यजमानश्च सीदत"- (वा. सं. १५ । ५४) इति । तद्विश्वैर्देवैः सह यजमानं सादयति ॥ २३ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. [The sixth brick, with, Vāj. S. XV, 54], ‘Awake, O Agni, and be watchful!’–he thereby says to this Agni, ‘Wake thou over this one 15, and watch thou over him! Wish and fulfilment, meet ye and he together 16!’–as the text, so the meaning;–‘Upon this, the higher seat,’–the higher seat, doubtless, is the sky;–‘sit ye down, O All-gods, and the Sacrificer!’–he thereby makes the Sacrificer sit down together with the Viśve Devās.

२४

विश्वास-प्रस्तुतिः

ये᳘न व्व᳘हसि सह᳘स्रम्॥
ये᳘नाग्ने सर्व्ववेदसमि᳘त्येत᳘द्धास्य प्र᳘तिज्ञाततमं धा᳘म ये᳘न सह᳘स्रं व्व᳘हति ये᳘न सर्व्ववेदसं ते᳘नेमं᳘ यज्ञं᳘ नो नय᳘ स्वर्देवे᳘षु[[!!]] ग᳘न्तव ऽइ᳘ति ते᳘न न ऽइमं᳘ यज्ञं᳘ नय स्वर्गं᳘ लोकं᳘ देवे᳘षु गन्तव ऽइ᳘त्येत᳘दयं᳘[[!!]] ते यो᳘निर्ऋत्वि᳘य ऽइ᳘ति त᳘स्योक्तो ब᳘न्धुरष्टावि᳘ष्टका ऽउ᳘पदधाति त᳘स्यो ऽए᳘वोक्तः᳘॥

मूलम् - श्रीधरादि

ये᳘न व्व᳘हसि सह᳘स्रम्॥
ये᳘नाग्ने सर्व्ववेदसमि᳘त्येत᳘द्धास्य प्र᳘तिज्ञाततमं धा᳘म ये᳘न सह᳘स्रं व्व᳘हति ये᳘न सर्व्ववेदसं ते᳘नेमं᳘ यज्ञं᳘ नो नय᳘ स्वर्देवे᳘षु[[!!]] ग᳘न्तव ऽइ᳘ति ते᳘न न ऽइमं᳘ यज्ञं᳘ नय स्वर्गं᳘ लोकं᳘ देवे᳘षु गन्तव ऽइ᳘त्येत᳘दयं᳘[[!!]] ते यो᳘निर्ऋत्वि᳘य ऽइ᳘ति त᳘स्योक्तो ब᳘न्धुरष्टावि᳘ष्टका ऽउ᳘पदधाति त᳘स्यो ऽए᳘वोक्तः᳘॥

मूलम् - Weber

ये᳘न व᳘हसि सह᳘स्रम्॥
ये᳘नाग्ने सर्ववेदसमि᳘त्येत᳘द्धास्य प्र᳘तिज्ञाततमं धा᳘म ये᳘न सह᳘स्रं व᳘हति ये᳘न सर्ववेदसं ते᳘नेमं᳘ यज्ञं᳘ नो नय स्व᳘र्देवे᳘षु ग᳘न्तव इ᳘ति ते᳘न न इमं᳘ यज्ञं᳘ नय स्वर्गं᳘ लोकं᳘ देवे᳘षु ग᳘न्तव इ᳘त्येत᳘दयं᳘ ते यो᳘निरृत्वि᳘य इ᳘ति त᳘स्योक्तो ब᳘न्धुरष्टावि᳘ष्टका उ᳘पदधाति त᳘स्यो एॗवोक्तः᳟॥

मूलम् - विस्वरम्

“येन वहसि सहस्रम्, येनाग्ने सर्ववेदसम्”- इति । एतद्धा ऽस्य प्रतिज्ञाततमं धाम- येन सहस्रं वहति, येन सर्ववेदसम् । “तेनेमं यज्ञं नो नय स्वर्देवेषु गन्तवे”- (वा. सं. १५ । ५५) इति । तेन न इमं यज्ञं नय स्वर्गं लोकं देवेषु गन्तव इत्येतत् । “अयं ते योनिर्ऋत्वियः”- (वा. सं. १५ । ५६) इति । तस्योक्तो बन्धुः । अष्टाविष्टका उपदधाति । तस्यो एवोक्तः ॥ २४ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. [The seventh brick, with, Vāj. S. XV, 55], ‘Whereby thou carriest a thousand, whereby, O Agni, all wealth,’–for that, indeed, is his most acceptable power whereby he carries a thousand, and all wealth;–’thereby lead thou this sacrifice of ours unto the light to go to the gods!’–that is, ’thereby lead thou this our sacrifice to the heavenly world to go to the gods.’–[The eighth brick, with, Vāj. S. XV, 56], ‘This is thy natural womb . . .;’–the meaning of this has been

explained 17. Eight bricks he lays down: the meaning of this also has been explained 18.


  1. रा᳘ध्वेवा AB. ↩︎

  2. 117:1 For the building of the separate Gārhapatya hearth, on which the sacred fire was transferred from the Ukhā (fire-pan), see part iii, p. 298 seq.; its sketch, p. 302. A similar hearth is now built on the fifth layer of the Āhavanīya fire-altar. ↩︎

  3. मध्ये ऽष्टेष्टकं गाहपत्यम् । का. श्रौ. सू. १७ । २५३ । ↩︎

  4. 118:1 For the lotus-leaf, which is the first thing laid down in the centre of the altar-site on which the (Āhavanīya) altar is to be raised, see VII, 4, 1, 7 seqq. The Gārhapatya had been built previous to that (VII, 1, 1, 1 seqq.). ↩︎

  5. 119:1 See VII, 1, 1, 19 seqq. ↩︎

  6. पुनश्चितिं चोपरि तद्वद्येन ऋषय इति प्रत्यृचं पुच्छसंघावेके । पूर्व्वार्द्धे वा । गार्हपत्यं पुच्छसंघौ कृत्वा । का. श्रौ. सू. १७ । २५४-२५७ ॥ ↩︎

  7. 119:2 The Punaściti (re-piling) is a second pile or layer of eight bricks corresponding exactly to the first, and placed thereon. ↩︎

  8. 121:1 In the ordinary sacrifices the Gārhapatya hearth is placed behind (west of), and the Āhavanīya on the front (or east) end of, the Vedi. ↩︎

  9. 121:2 That is, at the performance of an ordinary Soma-sacrifice. For the vedi and uttaravedi on that occasion, see III, 5, 1, 1 seq.; 12 seqq. (part ii, p. 111 seqq.) ↩︎

  10. 122:1 See part iii, p. 143. ↩︎

  11. इह “अग्निर्मूर्द्धा दिवः”- (वा. सं. १५ । २०) इत्यारभ्य- “अग्ने त्वं नो अन्तमः”- (वा. सं. १५ । ४९) इत्येतत्पर्यन्तं ये मन्त्रास्ते नावलम्बिताः । ↩︎

  12. 122:2 That is, on this altar where the fire will soon be burning. It seems also to refer to the sun burning over the third heaven–as the counterpart of the Agni of the fire-altar. ↩︎

  13. 123:1 That is, the sustainer of the world (jagad-bhartar), according to Mahīdhara; an etymological play on the word ‘bhuraṇyu.’ ↩︎

  14. 123:2 The texts have ‘agne,’ O Agni! the verbal form ‘kr̥ṇudhvam’ being explained by Mahīdhara as an irregular singular form for ‘kr̥ṇu,’ (make thou). The verse seems, however, corrupt. ↩︎

  15. 124:1 The author (not Mahīdhara) seems rather to take ‘udbudhyasva’ in a transitive sense (‘wake thou him’), as Mahīdhara certainly does the second imperative ‘pratijāgr̥hi,’ ‘make him (the Sacrificer) careful!’ ↩︎

  16. 124:2 The text has the 2nd person dual, which Mahīdhara explains by the 3rd dual (yajamānena saha saṁsr̥shṭe bhavatām–‘May the two become united with the Sacrificer’), because of the nominative ‘ishṭāpūrve,’ instead of the vocative. ↩︎

  17. 125:1 Viz. VII, 1, 1, 28. ↩︎

  18. 125:2 Viz. VII, 1, 1, 32. ↩︎