०१

विश्वास-प्रस्तुतिः

छन्द᳘स्या ऽउ᳘पदधाति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतः स᳘ ऽएषो᳘ ऽत्र श्रि᳘यमैच्छ᳘न्नो हैषो᳘ ऽतः पुरा त᳘स्मा ऽअ᳘लमास यच्छ्रि᳘यम᳘धारयिष्यत्त᳘स्मादिदम᳘प्येत᳘र्ह्याहुर्न वा᳘ ऽएषो᳘ ऽलᳫँ᳭ श्रियै धा᳘रणाय राज्या᳘य वा ग्रा᳘मणीष्ठ्याय वे᳘ति त᳘स्मै देवा᳘ ऽएताᳫँ᳭ श्रि᳘यं प्रा᳘यच्छन्नेता᳘श्छन्द᳘स्याः पश᳘वो च्छ᳘न्दाᳫँ᳭स्य᳘न्नं पशवो᳘ ऽन्नमु श्रीः᳘॥

मूलम् - श्रीधरादि

छन्द᳘स्या ऽउ᳘पदधाति॥
(त्य᳘) अ᳘त्रैष स᳘र्व्वो ऽग्निः सं᳘स्कृतः स᳘ ऽएषो᳘ ऽत्र श्रि᳘यमैच्छ᳘न्नो हैषो᳘ ऽतः पुरा त᳘स्मा ऽअ᳘लमास यच्छ्रि᳘यम᳘धारयिष्यत्त᳘स्मादिदम᳘प्येत᳘र्ह्याहुर्न वा᳘ ऽएषो᳘ ऽलᳫँ᳭ श्रियै धा᳘रणाय राज्या᳘य वा ग्रा᳘मणीष्ठ्याय वे᳘ति त᳘स्मै देवा᳘ ऽएताᳫँ᳭ श्रि᳘यं प्रा᳘यच्छन्नेता᳘श्छन्द᳘स्याः पश᳘वो च्छ᳘न्दाᳫँ᳭स्य᳘न्नं पशवो᳘ ऽन्नमु श्रीः᳘॥

मूलम् - Weber

छन्दॗस्या उ᳘पदधाति॥
अ᳘त्रैष स᳘र्वो ऽग्निः स᳘ᳫं᳘स्कृतः स᳘ एषो᳘ ऽत्र श्रि᳘यमैछॗन्नो हैषो᳘ ऽतः पुरा त᳘स्मा अ᳘लमास यछ्रि᳘यम᳘धारयिष्यत्त᳘स्मादिदम᳘प्येत᳘र्ह्याहुर्न वा᳘ एषो᳘ ऽलं श्रियै धा᳘रणाय राज्या᳘य वा ग्रा᳘मणीथ्याय वे᳘ति त᳘स्मै देवा᳘ एतां श्रि᳘यम् प्रा᳘यछन्नेता᳘श्छन्दॗस्याः पश᳘वो छ᳘न्दांस्य᳘न्नम् पशवो᳘ ऽन्नमु श्रीः᳟॥

मूलम् - विस्वरम्

अथ एकत्रिंशच्छन्दस्येष्टकोपधानम् ।

छन्दस्या उपदधाति । अत्रैष सर्वो ऽग्निः संस्कृतः । स एषो ऽत्र श्रियमैच्छत् । नो हैषो ऽतः पुरा तस्मा अलमास- यच्छ्रियमधारयिष्यत् । तस्मादिदमप्येतर्ह्याहुः- न वा एषो ऽलं श्रियै धारणाय, राज्याय वा, ग्रामणीष्ठ्याय वेति । तस्मै देवा एतां श्रियं प्रायच्छन्- एताश्छन्दस्याः । पशवो वै छन्दांसि । अन्नं पशवः । अन्नमु श्रीः ॥ १ ॥

सायणः

छन्दस्या उपदधातीति 1 । छन्दोभ्यो निर्मिताः छन्दस्या इष्टकास्ता उपदधातीत्येतदत्र ब्राह्मणे । कथं पुरस्तादयमग्निरित्यादिना वक्ष्यते । तच्छन्दसां (सुभद्र) तस्यापि सारभूता एकत्रिंशदृचः सारभूता निष्क्रामिताः स पृथगुपलभ्यत इति प्रसिद्धं । तेनैतास्तावच्छन्दोनिर्मिता एतासां च ब्राह्मणशरीरा छन्दस्या इत्युच्यन्ते । अत्र पाद्याभिश्चतसृभिश्चैताः छन्दस्या एतदुक्थमित्येतत्प्रदर्शयति प्रसिद्धार्थं परेण तु ब्राह्मणशेषेण प्रजापतिरपि च्छन्दस्या शिष्टा इत्येतद्दर्श्यते । अस्यामवस्थायां वेषश्रीर्यस्यातीत्यग्निः स्थावरं जंगमं (प्रत्यंगौमन्नामिव) द्रुमाः पुष्पं फलश्रियं श्रपणीयमुपजीव्यं सारं बलमैच्छत् । अथ पूर्वं कस्मान्नैच्छदित्यत आह- नो हैषो ऽतः पुरा तस्मा अलं बभूव । ये देवश्रियं सागरवाधिष्यं न ह्यङ्कुरावस्था स एवारभ्य वृक्षः पुष्यति फलति वा तस्मादेतावानशक्त्यानुभावाद्द्रुमाः । एवं जानातीति । श्रियै एष धारणाय नालमित्यत आह- ‘राज्याय वा’ राज्यकर्मणि ‘ग्रामणीष्ठ्याय वा’ ग्रामणीष्ठस्य कर्म ग्रामणीष्ठ्यं कर्मेणि प्रत्ययो द्रष्टव्यः (श्रुतस्त्रीरिति सर्वतत्रैव गधदः नुमुपजीव्यं) संसारः श्रीरिति प्रोच्यत इत्यभिप्रायः ॥ १ ॥

Eggeling
  1. He lays down Chandasyās 2 (bricks pertaining to the metres). Completed now was the entire

Agni (fire-altar). He now wished for distinction 3; for, indeed, heretofore he was not equal thereto, that he should sustain distinction; whence people here say even to this day, ‘This one is not equal to sustain distinction, either in regard to kingship or to headmanship.’ The gods bestowed on him this distinction, these Chandasyās; for the metres (Chandas) are cattle, and cattle are food, and (a position of) distinction is food.

०२

विश्वास-प्रस्तुतिः

(स्त्रि) त्रिचान्यु᳘पदधाति॥
त्रिवृद्वै᳘ पशुः᳘ पिता᳘ माता᳘ पुत्रो᳘ ऽथो ग᳘र्भ ऽउ᳘ल्बं जराय्व᳘थो त्रिवृद्वा ऽअ᳘न्नं कृषिर्व्वृ᳘ष्टिर्बीजमे᳘कैवा᳘तिच्छन्दा भवत्ये᳘का᳘ ह्येव सा स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭स्य᳘ति सा या सा श्री᳘र्महत्त᳘दुक्थं तद्यत्त᳘न्महदुक्थ᳘मेतास्ता᳘श्छन्द᳘स्याः॥

मूलम् - श्रीधरादि

(स्त्रि) त्रिचान्यु᳘पदधाति॥
त्रिवृद्वै᳘ पशुः᳘ पिता᳘ माता᳘ पुत्रो᳘ ऽथो ग᳘र्भ ऽउ᳘ल्बं जराय्व᳘थो त्रिवृद्वा ऽअ᳘न्नं कृषिर्व्वृ᳘ष्टिर्बीजमे᳘कैवा᳘तिच्छन्दा भवत्ये᳘का᳘ ह्येव सा स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭स्य᳘ति सा या सा श्री᳘र्महत्त᳘दुक्थं तद्यत्त᳘न्महदुक्थ᳘मेतास्ता᳘श्छन्द᳘स्याः॥

मूलम् - Weber

त्रिचान्युपदधाति॥
त्रिवृद्वै᳘ पशुः᳘ पिता᳘ माता᳘ पुत्रो᳘ ऽथो ग᳘र्भ उ᳘ल्बं जरायुअ᳘थो त्रिवृद्वा अ᳘न्नं कृषिर्वृ᳘ष्टिर्वी᳘जमे᳘कैवा᳘तिछन्दा 4 भवत्ये᳘काॗ ह्येव सा स᳘र्वाणि छ᳘न्दांस्य᳘ति सा या सा श्री᳘र्महत्त᳘दुक्थं तद्यत्त᳘न्महदुक्थ᳘मेतास्ता᳘श्छन्दॗस्याः॥

मूलम् - विस्वरम्

त्रिचान्युपदधाति । त्रिवृद्वै पशुः- पिता, माता, पुत्रः । अथो गर्भमुल्बं जरायु । अथो त्रिवृद्वा अन्नम्- कृषिर्वृष्टिर्बीजम् । एकैवातिच्छन्दा भवति । एका ह्येव सा सर्वाणि च्छन्दांस्यति । सा- या सा श्रीः । महत्तदुक्थम् । तद्यत्तन्महदुक्थम्- एतास्ताश्छन्दस्याः ॥ २ ॥

सायणः

त्रिचान्युपदधातीति । तिसृणामिदं नैष तृच इति पुलिङ्गो ऽपि तृचशब्दः प्रयुज्यते तास्तिस्रो दिश्या उपदधाति छन्दः महास्रिकं भवति । यस्मादेकैव सा सर्वाणि च्छन्दांस्यतिवर्तते । तस्मादेकैकरसा भवति सा प्रजापतये देवैः सन्ना । तन्महदुक्थं महाव्रतं सहचारि होतव्यं तु पृषदाज्यवद्धि सर्वमच्छिन्नं सारभूतं व्रतपतिं यदुक्थमिति (जीव गच्छन्मतायेमं) महदुक्थाय सर्वा हि एतास्तृचो हृदयस्थानयोः सारभूताश्च इत्यभिप्रायः । तस्य शिरः प्रतिष्ठा द्विपदा इत्येवमपि च्छन्दस्यासु महदुक्थमिममनुप्रविष्टमिति दर्शयति तस्य महदुक्थस्य पटु इदं सुषिरो बृहदिति क्रमेण मंत्राः मिता (मृदत्राग्नेस्तत्येतत्रिधोपधेय) इत्येवमुपासनीयम् । आत्मा त्रिष्टुभो यस्तु नामेति । न होता ऽपमृष्टाः सम्पत्तेः एष महत्तदुक्थस्य तन्माऋ ‘भुवो यज्ञस्य’ एतेनात्र त्रिष्टुभो द्रष्टव्याः । ननु च महदुक्थे आहारानन्तरं तूष्णीं सत्रिवंशस्थानान्तरमेवायमात्मा शस्यते । तत्रात्मन्येवास्त्रिसम्भवतः सम्भवति सम्भवक्रमेणात्मा प्रथमस्य तु शिरो हि प्रथमं जायमानस्य जायत इति ।

(सीति छन्दांसि ण्यतेन्यासिक्यादुनो द्वारेण) त एव ककुभोगायत्रीमेवोपपादयत्यर्थे वा संवादयत्यथैतासां ककुभामिति ततश्चायनककुभां द्वादशाक्षराः पादास्तेषां यानियानि चत्वार्यक्षराणि तानि वचनान्यतिच्छन्दांसि प्रपाद्यानि ककुप्सु या बृहत्यो ऽत्र सा तत्र चाहते ( ) सीति । इन्द्रभुजां आकार इत्यादि । अत्राद्या उष्णिहो ऽग्ने वाजस्येति स तत्र औष्णिही राज्ञ्यसीति । इन्द्रसुतेषु सोमो ऽन्वित्यादि अथ यद्वशः यदङ्गं महदुक्थः परमपुरुषा इति त्रयस्त्रिंशगतानां द्वादश उदरं यदयच्छत ‘तदिदासभुवनेषु ज्येष्ठ’ मिति । (स समाने तृतीयोरुत्तरोद्वर्त्तो न सूत एतस्याश्चोत्तर एतस्योत्तर एवार्थद्वाःस्थैव वृषणो दशस्यानन्तरं स स्यात् । एता) द्विपदा विंशतिः । शस्ता इन्द्राग्नी परं सुतं दमो विना ऽपि तस्य वृत्तिरित्युत्तरपदे द्रष्टव्यः । तपश्च तपस्यश्च तु गङ्गा इन्द्रस्य नु वीर्याणि प्रवोचमित्यस्यान्त्यस्य विभ्रंशे तस्य पहावशिष्टा स्यानुष्टुभे ऋचे योप्यतीरंफण इत्यस्य कर्माणं । एभिः स्तोमा अभिस्वरेव्यानुष्टुभः समाम्नाताः पञ्चमी ऋचः तत्सर्वमत्रानुष्टुभो द्रष्टव्याः । एष चानुष्टुभः समाम्नातस्तत्रावपनादनन्तरं वागात्मकः शस्यते ॥ २ ॥ ३ ॥

Eggeling
  1. He lays down triplets, for the beast is threefold–father, mother, son; and, embryo, amnion, chorion; and food also is threefold–ploughing, rain, seed. One of them is an Atichandas 5 (excessive metre); for even whilst being one, that one is beyond all the metres. And as to that distinction, it is this great hymn of praise 6; and as to this great hymn of praise, it is these Chandasyās.

०३

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्य शि᳘रो गाय᳘त्र्यः[[!!]]॥
(ऽ) आत्मा᳘ त्रिष्टुभो᳘ ऽनूकं ज᳘गत्यः पक्षौ᳘ पङ्क्तयो᳘ ऽथैता᳘सां ककु᳘भां चत्वा᳘रि चत्वार्यक्ष᳘राण्यादाया᳘तिच्छन्दस्यु᳘पदधाति सा सा᳘ ऽतिच्छन्दा ऽएव भ᳘वति गाय᳘त्र्य ऽइ᳘तराः[[!!]] स᳘म्पद्यन्ते᳘ सैव᳘ गायत्र्यशीतिर्या᳘ बृह᳘त्यः[[!!]] सा बा᳘र्हती या᳘ ऽउष्णि᳘हः सौ᳘ष्णिह्य᳘थ यद्व᳘शो य᳘दर्धर्चौ य᳘दैन्द्राग्नं य᳘दाव᳘पनं तद᳘तिच्छन्दा ऽअ᳘थ य᳘न्नदो यत्सूददोहा[[!!]] य᳘त्पदनुषङ्गा यत्किंचा᳘त्रानुष्टुप्कर्मा᳘णं त᳘दनुष्टु᳘भः॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्य शि᳘रो गाय᳘त्र्यः[[!!]]॥
(ऽ) आत्मा᳘ त्रिष्टुभो᳘ ऽनूकं ज᳘गत्यः पक्षौ᳘ पङ्क्तयो᳘ ऽथैता᳘सां ककु᳘भां चत्वा᳘रि चत्वार्यक्ष᳘राण्यादाया᳘तिच्छन्दस्यु᳘पदधाति सा सा᳘ ऽतिच्छन्दा ऽएव भ᳘वति गाय᳘त्र्य ऽइ᳘तराः[[!!]] स᳘म्पद्यन्ते᳘ सैव᳘ गायत्र्यशीतिर्या᳘ बृह᳘त्यः[[!!]] सा बा᳘र्हती या᳘ ऽउष्णि᳘हः सौ᳘ष्णिह्य᳘थ यद्व᳘शो य᳘दर्धर्चौ य᳘दैन्द्राग्नं य᳘दाव᳘पनं तद᳘तिच्छन्दा ऽअ᳘थ य᳘न्नदो यत्सूददोहा[[!!]] य᳘त्पदनुषङ्गा यत्किंचा᳘त्रानुष्टुप्कर्मा᳘णं त᳘दनुष्टु᳘भः॥

मूलम् - Weber

त᳘स्य शि᳘रो गायत्र्यः᳟॥
आत्मा᳘ त्रिष्टुभो᳘ ऽनूकं ज᳘गत्यः पक्षौ᳘ पङ्क्तयो᳘ ऽथैता᳘सां ककु᳘भां चत्वा᳘रि चत्वार्यक्ष᳘राण्यादायातिछन्दस्यु᳘पदधाति सा सा᳘तिछन्दा एव भ᳘वति गायत्र्य᳘ इ᳘तराः स᳘म्पद्यन्तेॗ सैव᳘ गायत्र्यशीतिर्या᳘ बृहत्यः᳘ सा बा᳘र्हती या᳘ उष्णि᳘हः सौ᳘ष्णिह्य᳘थ यद्व᳘शो य᳘दर्धर्चौ य᳘दैन्द्राग्नं य᳘दाव᳘पनं तद᳘तिछन्दा अ᳘थ य᳘न्नदो यत्सू᳘ददोहा य᳘त्पदनुषङ्गा यत्किंचा᳘त्रानुष्टुप्कर्मी᳘णं 7 त᳘दनुष्टु᳘भः॥

मूलम् - विस्वरम्

तस्य शिरो गायत्र्यः । आत्मा त्रिष्टुभः । अनूकं जगत्यः । पक्षौ पङ्क्तयः । अथैतासां ककुभां चत्वारि चत्वार्यक्षराण्यादायातिच्छन्दस्युपदधाति । सा सा ऽतिच्छन्दा एव भवति । गायत्र्य इतराः सम्पद्यन्ते । सैव गायत्र्यशीतिः । या बृहत्यः- सा बार्हती । या उष्णिहः- सौष्णिही । अथ यद्वशो, यदर्धर्चौ, यदैन्द्राग्नम्; यदावपनम्, तदतिच्छन्दाः । अथ यन्नदो, यत्सूददोहाः, यत्पदनुषङ्गा, यत्किंचात्रानुष्टुप् कर्माणं- तदनुष्टुभः ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. Gāyatrī verses are the head thereof, Trishṭubh verses the body, Jagatī verses the spine, and Paṅkti verses the wings; and of each of those Kakubh verses he takes four syllables 8, and adds them to

the Atichandas: that is just (what makes) that Atichandas (excessive metre). The others result in Gāyatrīs: this is just that fourscore of Gāyatrīs 9, the Br̥hatīs (make up) the Bārhata one, and the Ushṇihs the Aushṇiha one. And as to the Vaśa hymn 10, the two half-verses, the Aindrāgna (hymn), and the insertion, they are Atikḥandas; and as to

the Nada-verse 11, the Sūdadohas, the pāda-appendages, and whatever Anushṭubh matter there is, they make up the Anushṭubhs.

०४

विश्वास-प्रस्तुतिः

प्रतिष्ठा द्वि᳘पदाः॥
(ऽ) एता᳘वद्वै᳘ मह᳘दुक्थं᳘ मह᳘दुक्थᳫँ᳭ श्रीः स᳘र्व्वामे᳘वास्मा ऽएतां᳘ देवाः श्रि᳘यं प्रा᳘यच्छंस्त᳘थै᳘वास्मा ऽअय᳘मेताᳫँ᳭ स᳘र्व्वाᳫँ᳭ श्रि᳘यं प्र᳘यच्छति॥

मूलम् - श्रीधरादि

प्रतिष्ठा द्वि᳘पदाः॥
(ऽ) एता᳘वद्वै᳘ मह᳘दुक्थं᳘ मह᳘दुक्थᳫँ᳭ श्रीः स᳘र्व्वामे᳘वास्मा ऽएतां᳘ देवाः श्रि᳘यं प्रा᳘यच्छंस्त᳘थै᳘वास्मा ऽअय᳘मेताᳫँ᳭ स᳘र्व्वाᳫँ᳭ श्रि᳘यं प्र᳘यच्छति॥

मूलम् - Weber

प्रतिष्ठा द्वि᳘पदाः॥
एता᳘वद्वै᳘ मह᳘दुक्थ᳘म् मह᳘दुक्थं श्रीः स᳘र्वामेॗवास्मा एतां᳘ देवाः प्रा᳘यछंस्त᳘थैॗवास्मा अय᳘मेताᳫं स᳘र्वां श्रि᳘यम् प्र᳘यछति॥

मूलम् - विस्वरम्

प्रतिष्ठा द्विपदाः । एतावद्वै महदुक्थम् । महदुक्थं श्रीः । सर्वामेवास्मा एतां देवाः श्रियं प्रायच्छन् । तथैवास्मा अयमेतां सर्वां श्रियं प्रयच्छति ॥ ४ ॥

सायणः

प्रतिष्ठा द्विपदा इति । तत्र द्विपदादिचर्त्व प्रसिद्ध इह तु द्विपदा एव प्रसिद्धा सा दृष्टव्या । एतावद्वै महदुक्थम् इत्युक्तस्याप्युपकृतं भवतीत्यभिप्रायः इति ।

जन्मक्रमेण शिरः प्रथममुपधीयत इति द्रष्टव्यम् । (तथा तत्र महदुक्थं शिरसो ऽनन्तरं औष्णिहस्तृचः शस्यते तस्य द्वे गायत्र्या नकारेभ्यः ज्ञाषुतेन च गायत्री यनात्रगतो ऽत्र द्रष्टव्यः । ग्रीवानन्तरं च तत्र स्त ( ) गोदक्षिणः शस्यते तस्य च मध्ये ततः पक्षस्ततोक्तं इहानुक्रममनुक्तत्वाद्बहूदकं जगत्याः यत्तस्योक्तस्य इन्द्राय यह्वाइव युतमित्यादीनि जागतपर्यन्ताग्निऋचाभ्य ( ) आजगतीषु सर्वेषां छन्दसामन्तर्भावात्तस्य च सर्वच्छन्दो ? पार्श्वात्तदित्यभिप्रायः ।) पङ्क्तयः । यो तव भक्षादि कासौ ( ) पक्षौ तावत्तत्र पंक्तयो दक्षयज्ञया दक्षिणाश्च तत्राग्निरसुत्य “अग्निं तं मन्ये” इत्यादयः । अथैतासां ककुभामिति या तस्य महदुक्थस्थ गायत्र्यः तृचो ऽस्तीति दर्शित अवशङ्कुभिरित्यर्थः । सकुप्यं गायत्र्य- ( ) ॥ ४ ॥

Eggeling
  1. Dvipadā verses are the feet. Thus much is the great hymn of praise, and the great hymn of praise means distinction: the gods bestowed upon him (Agni) all that distinction, and so does this (Sacrificer) bestow upon him all that distinction.

०५

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ च्छन्द᳘स्या ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽएतं ना᳘कᳫँ᳭ स्वर्गं᳘ लोक᳘मपश्यन्नेताः स्तो᳘मभागास्त᳘स्मिन्नविशंस्ते᳘षां व्विशतां᳘ प्रजा᳘पतिरुत्त᳘मो ऽविशत्स यः स᳘ प्रजा᳘पतिरेतास्ता᳘श्छन्द᳘स्याः॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ च्छन्द᳘स्या ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽएतं ना᳘कᳫँ᳭ स्वर्गं᳘ लोक᳘मपश्यन्नेताः स्तो᳘मभागास्त᳘स्मिन्नविशंस्ते᳘षां व्विशतां᳘ प्रजा᳘पतिरुत्त᳘मो ऽविशत्स यः स᳘ प्रजा᳘पतिरेतास्ता᳘श्छन्द᳘स्याः॥

मूलम् - Weber

य᳘द्वेव᳘ छन्दॗस्या उ᳘पदधाति॥
एतद्वै᳘ देवा᳘ एतं ना᳘कᳫं स्वर्गं᳘ लोक᳘मपश्यन्नेता स्तो᳘मभागास्त᳘स्मिन्नविशंस्ते᳘षां विशताम् प्रजा᳘पतिरुत्तॗमो ऽविशत्स यः स᳘ प्रजा᳘पतिरेतास्ता᳘श्छन्दॗस्याः॥

मूलम् - विस्वरम्

यद्वेव च्छन्दस्या उपदधाति । एतद्वै देवा एतं नाकं स्वर्गं लोकमपश्यन् । एताः स्तोमभागाः । तस्मिन्नविशन् । तेषां विशतां प्रजापतिरुत्तमो ऽविशत् । स यः स प्रजापतिः- एतास्ताश्छन्दस्याः ॥ ५ ॥

सायणः

यद्वेव च्छन्दस्या उपदधातीति । छन्दस्यासु च दर्शनान्तरमेतद्ब्राह्मणशेषेणान्यतमे स्थाने विशाखाश्च निरूप्यन्ते यावत्यध्वनि स्वयमातृण्णायाः पुरस्तात्त्रिष्टुभ उपदधाति तावत्येव पश्चात् स्वयमातृण्णायाः जगतीरुपदधाति रेतःसिचोर्वेलायामित्यर्थः । यो वा अयं मध्ये प्राण इति स्वयमातृण्णाः इत्यत्र कटिशीर्षकेशस्थानानि अत्रोच्यन्ते । अनन्तर्हिते तत्तच्छ्रोणीभ्यां सक्थ्यौ दधातीति वचनात् । सर्वस्य दोष्णो दक्षिणायाश्च श्रोणिरित्यत्र तु पत्यासत्त्योरू एव श्रोणिशब्देनोक्तः । पर्शवो बृहत्यस्ता बृहत्यः ककुभो ग्रीवाणमधस्तात्पृष्ठतः रतोभवन्ति ततः ककुभः स्ववशीयात्मकानामुष्णिहः पश्चादुपवया इति गम्यत एवेत्युक्तम् । सोत्तरेण त्रिष्टुभश्च ककुभश्च बृहतीरूपे तस्मादिमाः पर्शव उभयत्र बद्धाः क्षोभयते इत्यत आह- कीकसासु च कीकसा ऽतिरात्रं लक्ष्यते सम्बद्धत्वात् कीकसासम्बन्धे पृष्टवंशे सर्वे बद्धास्तत्र एव तासामुत्त्थानात् । जत्रुषु च पर्शवो बद्धा जत्रुषु च पर्शवो बद्धा जत्रवः कंबलशलाकारताभिरप्यत्र उरो लक्ष्यते । प्रत्यासत्तेरेव (तत्वर्श्वर्यमद्यः) त्रिष्टुप्ककुभोः को ( ) जत्रुवसम्बन्ध उरसि च प्रतिपद्य अर्धत पर्शवः पश्चाच्च कीकसासम्बद्धेष्टका दश इति । यद्यपि सो ऽन्तरेण त्रिष्टुभश्च ककुभश्चैतावत्तावदुच्यते । तथा ऽषाढावेलायां पुरस्ताद्बृहत्य उपधेयाः कुतः अषाढावेलायां तावत्स्तोमभागो ( दुर द्वा प्रविश्वाव्यारिति) ऋतव्यावेलायाश्च स्वयमेव विश्वज्योतिरिति ताभिरेव गम्यमानत्वात् । पञ्चभिः पूर्वार्धे गायत्र्यस्तासां अर्धपद्याः (चोस्मेसिः) विश्वादनन्तर्हिता उष्णिहस्ततः ककुभः । ततो बृहत्य इत्यषाढावेलायां विराजां- मध्ये गायत्र्यो यत्र उपधेयाः सहेति गम्यते ॥ ५-१२ ॥

Eggeling
  1. And, again, as to why he lays down the Chandasyās. The gods at that time saw that firmament, the world of heaven, to wit, those Stomabhāgās, and entered it. Of those entering, Prajāpati entered

last; and thus Prajāpati is the same as these Chandasyās.

०६

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्य शि᳘रो गाय᳘त्र्यः[[!!]]॥
(स्ता) ता य᳘द्गाय᳘त्र्यो भ᳘वन्ति गायत्रᳫँ᳭ हि शि᳘रस्तिस्रो᳘ भवन्ति त्रिवृद्धि शि᳘रः पूर्व्वार्ध ऽउ᳘पदधाति पुर᳘स्ता᳘द्धीदᳫँ᳭ शि᳘रः॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्य शि᳘रो गाय᳘त्र्यः[[!!]]॥
(स्ता) ता य᳘द्गाय᳘त्र्यो भ᳘वन्ति गायत्रᳫँ᳭ हि शि᳘रस्तिस्रो᳘ भवन्ति त्रिवृद्धि शि᳘रः पूर्व्वार्ध ऽउ᳘पदधाति पुर᳘स्ता᳘द्धीदᳫँ᳭ शि᳘रः॥

मूलम् - Weber

त᳘स्य शि᳘रो गायत्र्यः᳟॥
ता य᳘द्गायॗत्र्यो भ᳘वन्ति गायत्रᳫं हिशि᳘रस्तिस्रो᳘ भवन्ति त्रिवृद्धि शि᳘रः पूर्वार्ध उ᳘पदधाति पुर᳘स्ताॗद्धीदं शि᳘रः॥

मूलम् - विस्वरम्

तस्य शिरो गायत्र्यः । ता यद्गायत्र्यो भवन्ति- गायत्रं हि शिरः । तिस्रो भवन्ति । त्रिवृद्धि शिरः । पूर्वार्ध उपदधाति- पुरस्ताद्धीदं शिरः ॥ ६ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Gāyatrīs are his head; and as to its being Gāyatrīs, it is because the head is of Gāyatrī nature 12. There are three, for the head is threefold. He places them on the forepart (of the altar), for the head (of the animal or bird) is in front.

०७

विश्वास-प्रस्तुतिः

(ऽ) उ᳘रस्त्रिष्टु᳘भः॥
(स्ता᳘) ता᳘ रेतःसि᳘चोर्व्वे᳘लयो᳘पदधाति पृष्ट᳘यो वै᳘ रेतःसि᳘चा ऽउ᳘रो वै प्र᳘ति पृष्ट᳘यः॥

मूलम् - श्रीधरादि

(ऽ) उ᳘रस्त्रिष्टु᳘भः॥
(स्ता᳘) ता᳘ रेतःसि᳘चोर्व्वे᳘लयो᳘पदधाति पृष्ट᳘यो वै᳘ रेतःसि᳘चा ऽउ᳘रो वै प्र᳘ति पृष्ट᳘यः॥

मूलम् - Weber

उ᳘रस्त्रिष्टु᳘भः॥
ता᳘ रेतःसि᳘चोर्वे᳘लयो᳘पदधाति पृष्ट᳘यो वै᳘ रेतःसि᳘चा उ᳘रो वै प्र᳘ति पृष्ट᳘यः॥

मूलम् - विस्वरम्

उरस्त्रिष्टुभः । ता रेतःसिचोर्वेलयोपदधाति । पृष्टयो वै रेतःसिचौ । उरो वै प्रति पृष्टयः ॥ ७ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Trishṭubhs are the chest: he places them on the range of the two Retaḥsic; for the Retaḥsic are the ribs, and the ribs lie against the chest.

०८

विश्वास-प्रस्तुतिः

श्रो᳘णी ज᳘गत्यः॥
स या᳘वति पुर᳘स्तात्स्वयमातृण्णा᳘यै त्रिष्टु᳘भ ऽउपद᳘धाति ता᳘वति पश्चाज्ज᳘गतीर्यो वा᳘ ऽअयं म᳘ध्ये प्राणस्त᳘देषा᳘ स्वयमातृण्णा या᳘वत्यु वा᳘ ऽएत᳘स्मात्प्राणा᳘त्पुर᳘स्तादु᳘रस्ता᳘वति पश्चाच्छ्रो᳘णी॥

मूलम् - श्रीधरादि

श्रो᳘णी ज᳘गत्यः॥
स या᳘वति पुर᳘स्तात्स्वयमातृण्णा᳘यै त्रिष्टु᳘भ ऽउपद᳘धाति ता᳘वति पश्चाज्ज᳘गतीर्यो वा᳘ ऽअयं म᳘ध्ये प्राणस्त᳘देषा᳘ स्वयमातृण्णा या᳘वत्यु वा᳘ ऽएत᳘स्मात्प्राणा᳘त्पुर᳘स्तादु᳘रस्ता᳘वति पश्चाच्छ्रो᳘णी॥

मूलम् - Weber

श्रो᳘णी ज᳘गत्यः॥
स या᳘वति पुर᳘स्तात्स्वयमातृणा᳘यै त्रिष्टु᳘भ उपद᳘धाति ता᳘वति पश्चाज्ज᳘गतीर्यो वा᳘ अयम् म᳘ध्ये प्राणस्त᳘देषा᳘ स्वयमातृणा या᳘वत्यु वा᳘ एत᳘स्मात्प्राणा᳘त्पुर᳘स्तादु᳘रस्ता᳘वति पश्चाछ्रो᳘णी॥

मूलम् - विस्वरम्

श्रोणी जगत्यः । स यावति पुरस्तात्स्वयमातृण्णायै त्रिष्टुभ उपदधाति;- तावति पश्चाज्जगतीः । यो वा अयं मध्ये प्राणः- तदेषा स्वयमातृण्णा । यावत्यु वा एतस्मात्प्राणात्पुरस्तादुरः- तावति पश्चाच्छ्रोणी ॥ ८ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Jagatīs are the hips; at whatever distance from the naturally-perforated (central) brick he places the Trishṭubhs in front, at the same distance from it he places the Jagatīs behind; for that naturally-perforated brick is this vital air in the middle (of the body), and as far from that vital air as the chest is in front, so far are the hips behind.

०९

विश्वास-प्रस्तुतिः

स᳘क्थ्यावनुष्टु᳘भः॥
(स्ता) ता ऽअ᳘नन्तर्हिता ज᳘गतीभ्य ऽउ᳘पदधात्य᳘नन्तर्हिते तच्छ्रो᳘णिभ्याᳫँ᳭ स᳘क्थ्यौ दधाति॥

मूलम् - श्रीधरादि

स᳘क्थ्यावनुष्टु᳘भः॥
(स्ता) ता ऽअ᳘नन्तर्हिता ज᳘गतीभ्य ऽउ᳘पदधात्य᳘नन्तर्हिते तच्छ्रो᳘णिभ्याᳫँ᳭ स᳘क्थ्यौ दधाति॥

मूलम् - Weber

सॗक्थ्यावनुष्टु᳘भः॥
ता अ᳘नन्तर्हिता ज᳘गतीभ्य उ᳘पदधात्य᳘नन्तर्हिते तछ्रो᳘णिभ्यᳫं सॗक्थ्यो दधाति॥

मूलम् - विस्वरम्

सक्थ्यावनुष्टुभः । ता अनन्तर्हिता जगतीभ्य उपदधाति । अनन्तर्हिते तच्छ्रोणिभ्यां सक्थ्यौ दधाति ॥ ९ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Anushṭubhs are the thighs: he places them close to the Jagatīs, and thereby places the thighs close to the hips.

१०

विश्वास-प्रस्तुतिः

प᳘र्शवो बृह᳘त्यः[[!!]]॥
की᳘कसाः ककु᳘भः सो᳘ ऽन्तरेण त्रिष्टु᳘भश्च ककु᳘भश्च बृहतीरु᳘पदधाति त᳘स्मादिमा᳘ ऽउभय᳘त्र प᳘र्शवो बद्धाः की᳘कसासु च जत्रु᳘षु च॥

मूलम् - श्रीधरादि

प᳘र्शवो बृह᳘त्यः[[!!]]॥
की᳘कसाः ककु᳘भः सो᳘ ऽन्तरेण त्रिष्टु᳘भश्च ककु᳘भश्च बृहतीरु᳘पदधाति त᳘स्मादिमा᳘ ऽउभय᳘त्र प᳘र्शवो बद्धाः की᳘कसासु च जत्रु᳘षु च॥

मूलम् - Weber

प᳘र्शवो बृहत्यः᳟॥
की᳘कसाः ककु᳘भः सो᳘ ऽन्तरेण त्रिष्टु᳘भश्च ककु᳘भश्च बृहतीरु᳘पदधाति त᳘स्मादिमा᳘ उभय᳘त्र प᳘र्शवो बद्धाः की᳘कसासु च जत्रु᳘षु च॥

मूलम् - विस्वरम्

पर्शवो बृहत्यः । कीकसाः ककुभः । सो ऽन्तरेण त्रिष्टुभश्च ककुभश्च बृहतीरुपदधाति । तस्मादिमा उभयत्र पर्शवो बद्धा- कीकसासु च जत्रुषु च ॥ १० ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Br̥hatīs are the ribs, Kakubhs the breast-bone. The Br̥hatīs he places between the Trishṭubhs and Kakubhs, whence these ribs are fastened on both sides, on the breast-bone and the costal cartilages 13.

११

विश्वास-प्रस्तुतिः

ग्रीवा᳘ ऽउष्णि᳘हः॥
(स्ता) ता ऽअ᳘नन्तर्हिता गायत्री᳘भ्य ऽउ᳘पदधात्य᳘नन्तर्हितास्त᳘च्छीर्ष्णो᳘ ग्रीवा᳘ दधाति॥

मूलम् - श्रीधरादि

ग्रीवा᳘ ऽउष्णि᳘हः॥
(स्ता) ता ऽअ᳘नन्तर्हिता गायत्री᳘भ्य ऽउ᳘पदधात्य᳘नन्तर्हितास्त᳘च्छीर्ष्णो᳘ ग्रीवा᳘ दधाति॥

मूलम् - Weber

ग्रीवा᳘ उष्णि᳘हः॥
ता अ᳘नन्तर्हिता गायत्री᳘भ्य उ᳘पदधात्य᳘नन्तर्हितास्त᳘छीर्ष्णो᳘ ग्रीवा᳘ दधाति॥

मूलम् - विस्वरम्

ग्रीवा उष्णिहः । ता अनन्तर्हिता गायत्रीभ्य उपदधाति । अनन्तर्हितास्तच्छीर्ष्णो ग्रीवादधाति ॥ ११ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Ushṇihs are the neck: he places them close to the Gāyatrīs, and thereby places the neck close to the head.

१२

विश्वास-प्रस्तुतिः

पक्षौ᳘ पङ्क्त᳘यः॥
(स्ता) ता य᳘त्पङ्क्त᳘यो भ᳘वन्ति पा᳘ङ्क्तौ हि᳘ पक्षौ᳘ पार्श्वत ऽउ᳘पदधाति पार्श्वतो᳘ हीमौ᳘ पक्षौ यद्व᳘र्षीयश्छ᳘न्दस्त᳘द्दक्षिणत ऽउ᳘पदधाति द᳘क्षिणं तद᳘र्धं पशो᳘र्व्वी᳘र्यवत्तरं[[!!]] करोति त᳘स्माद्द᳘क्षिणो᳘ ऽर्धः पशो᳘र्व्वी᳘र्यवत्तरः[[!!]]॥

मूलम् - श्रीधरादि

पक्षौ᳘ पङ्क्त᳘यः॥
(स्ता) ता य᳘त्पङ्क्त᳘यो भ᳘वन्ति पा᳘ङ्क्तौ हि᳘ पक्षौ᳘ पार्श्वत ऽउ᳘पदधाति पार्श्वतो᳘ हीमौ᳘ पक्षौ यद्व᳘र्षीयश्छ᳘न्दस्त᳘द्दक्षिणत ऽउ᳘पदधाति द᳘क्षिणं तद᳘र्धं पशो᳘र्व्वी᳘र्यवत्तरं[[!!]] करोति त᳘स्माद्द᳘क्षिणो᳘ ऽर्धः पशो᳘र्व्वी᳘र्यवत्तरः[[!!]]॥

मूलम् - Weber

पक्षौ᳘ पङ्क्त᳘यः॥
ता य᳘त्पङ्क्त᳘यो भ᳘वन्ति पा᳘ङ्क्तौ हि᳘ पक्षौ᳘ पार्श्वत उ᳘पदधाति पार्श्वतोॗ हीमौ᳘ पक्षौ यद्व᳘र्षीयश्छ᳘न्दस्त᳘द्दक्षिणत उ᳘पदधाति द᳘क्षिणं तद᳘र्धम् पशो᳘र्वीर्य᳘वत्तरं करोति त᳘स्माद्द᳘क्षिणो᳘ ऽर्धः पशो᳘वीर्य᳘वत्तरः॥

मूलम् - विस्वरम्

पक्षौ पङ्क्तयः । ता यत्पङ्क्तयो भवन्ति- पाङ्क्तौ हि पक्षौ । पार्श्वत उपदधाति । पार्श्वतो हीमौ पक्षौ । यद्वर्षीयश्छन्दः- तद्दक्षिणत उपदधाति । दक्षिणं तदर्थं पशोर्वीर्यवत्तरं करोति । तस्माद्दक्षिणो ऽर्धः पशोर्वीर्यवत्तरः ॥ १२ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Paṅktis are the wings: and as to their being

Paṅktis, it is because the wings are of Paṅkti (fivefold) nature. He places them sideways, for these wings are sideways. Whatever metre is larger that he places on the right side: he thus makes the right half of the animal the stronger, and hence the right side of an animal is the stronger.

१३

विश्वास-प्रस्तुतिः

(ऽ) उद᳘रम᳘तिच्छन्दाः॥
पश᳘वो वै च्छ᳘न्दाᳫँ᳭स्य᳘न्नं पश᳘व ऽउद᳘रं वा ऽअ᳘न्नमत्त्युद᳘रᳫँ᳭ हि वा ऽअ᳘न्नम᳘त्ति त᳘स्माद्य᳘दोद᳘रम᳘न्नं प्राप्नोत्य᳘थ त᳘ज्जग्धं᳘ यात᳘यामरूपं भवति तद्य᳘देषा᳘ पशूंश्छ᳘न्दाᳫँ᳭स्य᳘त्ति त᳘स्माद᳘त्तिच्छन्दा ऽअ᳘त्तिच्छन्दा ह वै ताम᳘तिच्छन्दा ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवाः[[!!]]॥

मूलम् - श्रीधरादि

(ऽ) उद᳘रम᳘तिच्छन्दाः॥
पश᳘वो वै च्छ᳘न्दाᳫँ᳭स्य᳘न्नं पश᳘व ऽउद᳘रं वा ऽअ᳘न्नमत्त्युद᳘रᳫँ᳭ हि वा ऽअ᳘न्नम᳘त्ति त᳘स्माद्य᳘दोद᳘रम᳘न्नं प्राप्नोत्य᳘थ त᳘ज्जग्धं᳘ यात᳘यामरूपं भवति तद्य᳘देषा᳘ पशूंश्छ᳘न्दाᳫँ᳭स्य᳘त्ति त᳘स्माद᳘त्तिच्छन्दा ऽअ᳘त्तिच्छन्दा ह वै ताम᳘तिच्छन्दा ऽइत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवाः[[!!]]॥

मूलम् - Weber

उद᳘रम᳘तिछन्दाः॥
पश᳘वो वै छ᳘न्दांस्य᳘न्नम् पश᳘व उद᳘रं वा अ᳘न्नमत्त्युदर᳘ᳫं᳘ हि वा अ᳘न्नम᳘त्ति त᳘स्माद्यॗदोद᳘रम᳘न्नम् प्राप्नोत्य᳘थ त᳘ज्जग्धं᳘ यातयामरूपम् भवति तद्य᳘देषा᳘ पशूंश्छ᳘न्दांस्य᳘त्ति त᳘स्माद᳘त्तिछन्दा अ᳘त्तिछन्दा ह वै ताम᳘तिछन्दा इत्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि देवाः᳟॥

मूलम् - विस्वरम्

उदरमतिच्छन्दाः । पशवो वै च्छन्दांसि । अन्नं पशवः । उदरं वा ऽअन्नमत्ति । उदरं हि वा ऽअन्नमत्ति । तस्माद्यदोदरमन्नं प्राप्नोति- अथ तज्जग्धं यातयामरूपं भवति । तद्यदेषा पशूंश्छन्दांस्यत्ति- तस्मादत्तिच्छन्दाः । अत्तिच्छन्दा ह वै तामतिच्छन्दा इत्याचक्षते परो ऽक्षम् । परोक्षकामा हि देवाः ॥ १३ ॥

सायणः

उदरमतिच्छन्दा इति । उदरमत्र अतिच्छन्दाः तत्प्राप्तं स्यात् तस्य विनाशात् । एवं च सति पूर्वार्द्धे गायत्र्यस्तासां विराडनन्तर्हिता उपन्यस्यतिभिलानाच्छन्दः अतिच्छन्दांस्यतिच्छन्दो ऽन्तराणां तस्यामन्तर्भावात् । छन्दांसि च पश्चान्नादत्ते ततश्चैषां छन्दोलक्षणमन्नमतीत्युदरमित्युपपन्नम् । यस्माच्चैषा छन्दांस्यत्ति तस्मादत्तिच्छन्दसं (स ह वैतां) सतीं अतिच्छन्दा इत्याचक्षते । द्वितीयास्थाने प्रथमा प्रयुक्ता । अत्तिच्छन्दा इत्यत्र ( ) तिङन्तस्यात्ति-शब्दस्य समासो दर्शितः ॥ १३ ॥

Eggeling
  1. An Atichandas is the belly; for the metres are cattle, and cattle are food, and food is (what fills) the belly, because it is the belly that eats the food: hence when the belly gets the food, it becomes eaten and used up. And inasmuch as this (brick) eats (atti) the metres (chandas), the cattle, it is called Attichandas, for Attichandas is really what is mystically called Atichandas; for the gods love the mystic.

१४

विश्वास-प्रस्तुतिः

(०) यो᳘निः पु᳘रीषवती॥
ते स᳘ᳫँ᳘स्पृष्टे ऽउ᳘पदधाति स᳘ᳫँ᳘स्पृष्टे᳘ ह्युद᳘रं च यो᳘निश्च पु᳘रीषसᳫँ᳭हिते भवतो माᳫँ᳭सं वै पु᳘रीषं माᳫँ᳭से᳘न वा᳘ ऽउद᳘रं च यो᳘निश्च स᳘ᳫँ᳘हिते पूर्वा᳘ ऽतिच्छन्दा भ᳘वत्य᳘परा पु᳘रीषवत्यु᳘त्तर᳘ᳫँ᳘[[!!]] ह्युद᳘रम᳘धरा यो᳘निः॥

मूलम् - श्रीधरादि

(०) यो᳘निः पु᳘रीषवती॥
ते स᳘ᳫँ᳘स्पृष्टे ऽउ᳘पदधाति स᳘ᳫँ᳘स्पृष्टे᳘ ह्युद᳘रं च यो᳘निश्च पु᳘रीषसᳫँ᳭हिते भवतो माᳫँ᳭सं वै पु᳘रीषं माᳫँ᳭से᳘न वा᳘ ऽउद᳘रं च यो᳘निश्च स᳘ᳫँ᳘हिते पूर्वा᳘ ऽतिच्छन्दा भ᳘वत्य᳘परा पु᳘रीषवत्यु᳘त्तर᳘ᳫँ᳘[[!!]] ह्युद᳘रम᳘धरा यो᳘निः॥

मूलम् - Weber

यो᳘निः पु᳘रीषवती॥
ते स᳘ᳫं᳘सोऋष्टे उ᳘पदधाति स᳘ᳫं᳘स्पृष्टेॗ ह्युद᳘रं च यो᳘निश्च पु᳘रीशसंहिते भवतो मांसं वै पु᳘रीषम् मांसे᳘न वा᳘ उद᳘रं च यो᳘निश्च स᳘ᳫं᳘हिते पूर्वा᳘तिछन्दा भ᳘वत्य᳘परा पु᳘रीषवत्यु᳘त्तॗरᳫं ह्युद᳘रम᳘धरा यो᳘निः॥

मूलम् - विस्वरम्

योनिः पुरीषवती । ते संस्पृष्टे ऽउपदधाति । संस्पृष्टे ह्युदरं च योनिश्च । पुरीषसंहिते भवतः । मांसं वै पुरीषम् । मांसेन वा ऽउदरं च योनिश्च संहिते । पूर्वा ऽतिच्छन्दा भवति, अपरा पुरीषवती । उत्तरं ह्युदरम्, अधरा योनिः ॥ १४ ॥

सायणः

योनिः पुरीषवती (पञ्चम्या सम्पन्नो ऽग्नेपुरीषमित्येतस्यागात्) ॥ १४ ॥

Eggeling
  1. A (brick) covered with loose soil is the womb. These two he lays close to each other, for the belly and the womb are close to each other. They are connected with loose soil, for loose soil means flesh, and both the belly and the womb are connected with flesh. The former is an Atichandas, the latter a soil-bedded one (purīshavatī), for the belly is higher, and the womb lower.

१५

विश्वास-प्रस्तुतिः

(स्ते) ते प्रा᳘च्या ऽउ᳘पदधाति॥
प्रा᳘ङ् ह्ये᳘षो ऽग्नि᳘श्चीयते᳘ ऽथो प्रा᳘ग्वै प्राच ऽउद᳘रं[[!!]] प्रा᳘ची यो᳘निर्बहिस्तोमभागᳫँ᳭ हृ᳘दयं वै स्तो᳘मभागा हृ᳘दयमु वा᳘ ऽउत्तमम᳘थोद᳘रम᳘थ यो᳘निः॥

मूलम् - श्रीधरादि

(स्ते) ते प्रा᳘च्या ऽउ᳘पदधाति॥
प्रा᳘ङ् ह्ये᳘षो ऽग्नि᳘श्चीयते᳘ ऽथो प्रा᳘ग्वै प्राच ऽउद᳘रं[[!!]] प्रा᳘ची यो᳘निर्बहिस्तोमभागᳫँ᳭ हृ᳘दयं वै स्तो᳘मभागा हृ᳘दयमु वा᳘ ऽउत्तमम᳘थोद᳘रम᳘थ यो᳘निः॥

मूलम् - Weber

ते प्रा᳘च्या उ᳘पदधाति॥
प्राॗङ् ह्येॗषो ऽग्नि᳘श्चीयते᳘ ऽथो प्राग्वै प्रा᳘च उद᳘रम् प्रा᳘ची यो᳘निर्बहिस्तोमभागᳫं 14 हृ᳘दयं वै स्तो᳘मभागा हृ᳘दयमु वा᳘ उत्तम᳘थोद᳘रम᳘थ यो᳘निः॥

मूलम् - विस्वरम्

ते प्राच्या उपदधाति । प्राङ् ह्येषो ऽग्निश्चीयते । अथो प्राग्वै प्राच ऽउदरम्, प्राची योनिः । बहिस्तोमभागम् । हृदयं वै स्तोमभागाः । हृदयमु वा ऽउत्तमम् । अथोदरम्, अथ योनिः ॥ १५ ॥

सायणः

ते प्राच्यौ प्राग्लक्षणे उपदधाति । ‘प्राङ् ह्येषो ऽग्निश्चीयते’ (सुच्छन्दस्यपश्चाद्वचनादथो) प्राचः प्राङ्मुखस्य प्रागेवोर्ध्वं भवति (प्राचीनयोन्यावरात्मकेतो) प्राच्यामुपदधाति । बहिः स्तोमभागेभ्यो बहिस्तोमभागम् । “अपपरिबहिरञ्चवः पञ्चम्या”- (पा. सू. २ । १ । १२ ।) इत्यव्ययीभावसमासः । हृदयं हि स्तोमभागा हृदयमणिः कोष्ठमुत्तमं भवत्यधस्तादुदरमथ तस्याप्यधस्ताद्योनिरेव स्वभावादनुकारेणात्राप्युदरं स्तोमभागास्ततो हि मध्ये ऽग्निः शिरो भविष्यति । शिरश्च प्रत्यासन्नं हृदयमित्यभिप्रायः । ते दक्षिणत इति दर्शनार्थो ऽनुवादः । ‘प्रथमायां चितौ’ उत्तरत इत्युखायोनि ससृवलमित्येतौ स्वावेव पादौ प्रतिष्ठे इत्यर्थः । त्रिवृद्धि प्रतिष्ठा ऊरू जंघे पादावित्येवं त्रिविभागा प्रतिष्ठेत्यर्थः । सो ऽस्य यजमानस्येष छन्दस्योभयं ‘सुकृतः’ शोभनः ‘आत्मा’ शरीरं भवति ततश्च यस्य यजमानस्यैतमवश्यं यथोक्तमात्मानं कुर्वन्त्यृत्विजः स सुकृतमेवैतं प्रजापतिमात्मानमभिसम्भवति । ( ) ‘यस्य हैनमतो ऽन्यथा’ चरकाध्वर्यवमार्गेणेत्यभिप्रायः ॥ १५-१८ ॥

Eggeling
  1. He places them so as to extend eastwards, for in an easterly direction 15 this Agni (fire-altar) is built; and, moreover, in one moving forward, both the belly and the womb are moving forward. Outside the Stomabhāgās (he places them), for the Stomabhāgās are the heart, and the heart is highest, then (comes) the belly, then the womb.

१६

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ दक्षिणतः᳘ स्वयमातृण्णा᳘या ऽउ᳘पदधाति॥
(त्य᳘) अ᳘थ प्रथमा᳘यां चि᳘ता ऽउत्तरतः᳘ स्वयमातृण्णा᳘या ऽउद᳘रं च यो᳘निं चो᳘पदधाति यो वा᳘ ऽअयं म᳘ध्ये प्राणस्त᳘देषा᳘ स्वयमातृ᳘ण्णैत᳘स्य त᳘त्प्राण᳘स्योभय᳘त ऽउद᳘रं च यो᳘निं च दधाति त᳘स्मादेत᳘स्य प्राण᳘स्योभय᳘त ऽउद᳘रं च यो᳘निश्च॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ दक्षिणतः᳘ स्वयमातृण्णा᳘या ऽउ᳘पदधाति॥
(त्य᳘) अ᳘थ प्रथमा᳘यां चि᳘ता ऽउत्तरतः᳘ स्वयमातृण्णा᳘या ऽउद᳘रं च यो᳘निं चो᳘पदधाति यो वा᳘ ऽअयं म᳘ध्ये प्राणस्त᳘देषा᳘ स्वयमातृ᳘ण्णैत᳘स्य त᳘त्प्राण᳘स्योभय᳘त ऽउद᳘रं च यो᳘निं च दधाति त᳘स्मादेत᳘स्य प्राण᳘स्योभय᳘त ऽउद᳘रं च यो᳘निश्च॥

मूलम् - Weber

ते᳘ दक्षिणतः᳘ स्वयमातृणा᳘या उ᳘पदधाति॥
अ᳘थ प्रथमा᳘यां चि᳘ता उत्तररः᳘ स्वयमातृणा᳘या उद᳘रं च यो᳘निं चो᳘पदधाति यो वा᳘ अयम् म᳘ध्ये प्राणस्त᳘देषा᳘ स्वयमातृॗणैत᳘स्य त᳘त्प्राण᳘स्योभय᳘त उद᳘रं च यो᳘निं च दधाति त᳘स्मादेत᳘स्य प्राण᳘स्योभय᳘त उद᳘रं च यो᳘निश्च॥

मूलम् - विस्वरम्

ते दक्षिणतः स्वयमातृण्णाया ऽउपदधाति । अथ प्रथमायां चिता उत्तरतः स्वयमातृण्णाया उदरं च योनिं चोपदधाति । यो वा ऽअयं मध्ये प्राणः- तदेषा स्वयमातृण्णा । एतस्य तत्प्राणस्योभयत उदरं च योनिं च दधाति । तस्मादेतस्य प्राणस्योभयत उदरं च योनिश्च ॥ १६ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. He places them south of the naturally-perforated (brick). Now, in the first layer, he places

both the belly and the womb north of the naturally-perforated one 16; for that naturally-perforated one, indeed, is what this vital air in the middle (of the body) is: he thus places the belly and the womb on both sides of that (central) vital air, and hence the belly and the womb are on both sides of that central vital air.

१७

विश्वास-प्रस्तुतिः

प्रतिष्ठा द्वि᳘पदाः॥
(स्ता) ता यद्द्वि᳘पदा भ᳘वन्ति द्वन्द्वᳫँ᳭ हि᳘ प्रतिष्ठा᳘ तिस्रो᳘ भवन्ति त्रिवृद्धि᳘ प्रतिष्ठा᳘ पश्चादु᳘पदधाति पश्चा᳘द्धीयं᳘ प्रतिष्ठा[[!!]]॥

मूलम् - श्रीधरादि

प्रतिष्ठा द्वि᳘पदाः॥
(स्ता) ता यद्द्वि᳘पदा भ᳘वन्ति द्वन्द्वᳫँ᳭ हि᳘ प्रतिष्ठा᳘ तिस्रो᳘ भवन्ति त्रिवृद्धि᳘ प्रतिष्ठा᳘ पश्चादु᳘पदधाति पश्चा᳘द्धीयं᳘ प्रतिष्ठा[[!!]]॥

मूलम् - Weber

प्रतिष्ठा द्वि᳘पदाः॥
ता यद्द्वि᳘पदा भ᳘वन्ति द्वन्द्वᳫं हि᳘ प्रतिष्ठा᳘ तिस्रो᳘ भवन्ति त्रिवृद्धि᳘ प्रतिष्ठा᳘ पश्चादु᳘पदधाति पश्चाॗधीय᳘म् प्रतिष्ठा᳟᳟॥

मूलम् - विस्वरम्

प्रतिष्ठा द्विपदाः । ता यद्द्विपदा भवन्ति । द्वन्द्वं हि प्रतिष्ठा । तिस्रो भवन्ति । त्रिवृद्धि प्रतिष्ठा । पश्चादुपदधाति । पश्चाद्धीयं प्रतिष्ठा ॥ १७ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. The Dvipadās are the feet (the stand);–and as to its being Dvipadās (verses of two feet), it is because the feet are a pair. There are three (such verses), for a stand 17 (tripod) is threefold. He lays them down at the back, for the feet are at the back (of the body).

१८

विश्वास-प्रस्तुतिः

सो ऽस्यैष सु᳘कृत ऽआत्मा[[!!]]॥
तद्य᳘स्य हैत᳘मेवᳫँ᳭ सु᳘कृतमात्मा᳘नं कुर्व्व᳘न्त्येत᳘ᳫँ᳘ ह स सु᳘कृतमात्मा᳘नमभिस᳘म्भवत्य᳘थ य᳘स्य हैतम᳘तो ऽन्य᳘था कुर्व्व᳘न्ति दु᳘ष्कृतᳫँ᳭ ह त᳘स्यात्मा᳘नं कुर्व्व᳘न्ति स᳘ ह स दु᳘ष्कृतमे᳘वात्मा᳘नमभिस᳘म्भवति॥

मूलम् - श्रीधरादि

सो ऽस्यैष सु᳘कृत ऽआत्मा[[!!]]॥
तद्य᳘स्य हैत᳘मेवᳫँ᳭ सु᳘कृतमात्मा᳘नं कुर्व्व᳘न्त्येत᳘ᳫँ᳘ ह स सु᳘कृतमात्मा᳘नमभिस᳘म्भवत्य᳘थ य᳘स्य हैतम᳘तो ऽन्य᳘था कुर्व्व᳘न्ति दु᳘ष्कृतᳫँ᳭ ह त᳘स्यात्मा᳘नं कुर्व्व᳘न्ति स᳘ ह स दु᳘ष्कृतमे᳘वात्मा᳘नमभिस᳘म्भवति॥

मूलम् - Weber

सो ऽस्यैष सु᳘कृत आत्मा᳟॥
तद्य᳘स्य हैत᳘मेवᳫं सु᳘कृतमात्मा᳘नं कुर्व᳘न्त्येतᳫं ह स सु᳘कृतमात्मा᳘नमभिस᳘म्भवत्य᳘थ य᳘स्य हैतम᳘तो ऽन्य᳘था कुर्व᳘न्ति दु᳘ष्कृतᳫं ह त᳘स्यात्मा᳘नं कुर्वन्ति स᳘ ह स दु᳘ष्कृतमेॗवात्मा᳘नमभिस᳘म्भवति॥

मूलम् - विस्वरम्

सो ऽस्यैष सुकृत आत्मा । तद्यस्य हैतमेवं सुकृतमात्मानं कुर्वन्ति- एतं ह स सुकृतमात्मानमभिसम्भवति । अथ यस्य हैतमतो ऽन्यथा कुर्वन्ति- दुष्कृतं ह तस्यात्मानं कुर्वन्ति । स ह स दुष्कृतमेवात्मानमभिसम्भवति ॥ १८ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. That body of his (Agni) is well-made;–and, indeed, for whomsoever they thus make that body of his so as to be well-made, he becomes possessed of that body of his as a well-made one; but for whomsoever they make it otherwise than that, for him they make that body of his so as to be ill-made, and he becomes possessed of an ill-made body.

१९

विश्वास-प्रस्तुतिः

त᳘देते᳘ सामनिधने᳘ ऽअ᳘भ्युक्ते॥
(क्ते ऽअ) अर्को᳘ देवा᳘नां परमे᳘ व्योमन्नर्क᳘स्य देवाः᳘ परमे᳘ व्योमन्नि᳘त्येतद्वै᳘ देवा᳘नां व्विशतां᳘ प्रजा᳘पतिरुत्त᳘मो ऽविशत्त᳘स्मादाहार्को᳘ देवा᳘नां परमे᳘ व्योमन्नित्य᳘थ यदा᳘हार्क᳘स्य देवाः᳘ परमे᳘ व्योमन्नि᳘त्ययं वा᳘ ऽअग्नि᳘रर्कस्त᳘स्यैत᳘दुत्तमा᳘यां चि᳘तौ स᳘र्व्वे देवा᳘ व्विष्टास्त᳘स्मादाहार्क᳘स्य देवाः᳘ परमे᳘ व्योमन्नि᳘ति॥

मूलम् - श्रीधरादि

त᳘देते᳘ सामनिधने᳘ ऽअ᳘भ्युक्ते॥
(क्ते ऽअ) अर्को᳘ देवा᳘नां परमे᳘ व्योमन्नर्क᳘स्य देवाः᳘ परमे᳘ व्योमन्नि᳘त्येतद्वै᳘ देवा᳘नां व्विशतां᳘ प्रजा᳘पतिरुत्त᳘मो ऽविशत्त᳘स्मादाहार्को᳘ देवा᳘नां परमे᳘ व्योमन्नित्य᳘थ यदा᳘हार्क᳘स्य देवाः᳘ परमे᳘ व्योमन्नि᳘त्ययं वा᳘ ऽअग्नि᳘रर्कस्त᳘स्यैत᳘दुत्तमा᳘यां चि᳘तौ स᳘र्व्वे देवा᳘ व्विष्टास्त᳘स्मादाहार्क᳘स्य देवाः᳘ परमे᳘ व्योमन्नि᳘ति॥

मूलम् - Weber

त᳘देते᳘ सामनिधने᳘ अॗभ्युक्ते॥
अर्को᳘ देवा᳘नाम् परमेॗ व्योमन्नर्क᳘स्य देवाः᳘ परमेॗ व्योमन्नि᳘त्येतद्वै᳘ देवा᳘नां विशता᳘म् प्रजा᳘पतिरुत्तॗमो ऽविशत्त᳘स्मादाहार्को᳘ देवा᳘नाम् परमेॗ व्योमन्नित्य᳘थ यदा᳘हार्क᳘स्य देवाः᳘ परमेॗ व्योमन्नि᳘त्ययं वा᳘ अग्नि᳘रर्कस्त᳘स्यैत᳘दुत्तमा᳘यां चि᳘तौ स᳘र्वे देवा᳘ विष्टास्त᳘स्मादाहार्क᳘स्य देवाः᳘ परमेॗ व्योमन्नि᳘ति॥

मूलम् - विस्वरम्

तदेते सामनिधने अभ्युक्ते । “अर्को देवाना परमे व्योमन्, अर्कस्य देवाः परमे व्योमन्”- इति । एतद्वै देवानां विशतां प्रजापतिरुत्तमो ऽविशत् । तस्मादाह- अर्को देवानां परमे व्योमन्- इति । अथ यदाह- अर्कस्य देवाः परमे व्योमन्- इति । अयं वा अग्निरर्कः- तस्यै- तदुत्तमायां चितौ सर्वे देवा विष्टाः । तस्मादाह- अर्कस्य देवाः परमे व्योमन्- इति ॥ १९ ॥

सायणः

तदेते इति । तेजसा देवानां विशतां प्रजापतिरुत्तमो ऽविशदित्येतद्वस्तुभिर्यतनं वक्ष्यमाणश्चायं पुष्पाख्ययोः साम्नोर्निधने उक्ते । अर्कः प्रजापतिर्देवानां ‘परमे’ स्थाने अविशदिति शेषः । अर्कस्य प्रजापतेश्चित्यस्य परमे सवस्थाने ‘उत्तमायां चितौ देवाः’ विष्टा इति शेषः । ननु चार्को देवानामित्यनेनैव प्रकृतं च स्तूयते न द्वितीयं ममेतदेवं केवलेन द्व्येकेन तत्र दिवि क्वचिद्देवान परमेष्ठी परमे प्रजापतिर्निविष्ट इति गम्यते । यत् स विशिष्टेनेति ( ) अग्नेरुत्तमायां चितौ देवानां प्रजापतिरुत्तमो विष्ट इत्येष एकस्मिन्निधना ( ) गम्यते इत्युभयोपन्यासः । ननु चायमागमः स्वयमेव प्रमाणं किमित्यागमान्तरमनुसंवादिस्ववचनस्योपोद्बलकमुपन्यस्यति । उच्यते- नैवागमान्तरमुपोद्बलनार्थमुपन्यस्यते । किं तर्हि प्रसङ्गाद् व्याख्यातः । सामवेदे हि कालो ऽयं वृत्तान्त एव (पोव्याख्यानापनरतद्रवणीयस्य) नात्रैव प्रसङ्गाद् व्याख्यायते । एवमन्ये ऽप्यागमान्तराभ्यासात्तदेतदृचा ऽभ्युक्तमित्यादयो व्याख्यानार्था एवेति वक्तव्यम् ॥ १९ ॥

इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये ऽष्टमे काण्डे षष्ठे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (८-६-२) ॥

Eggeling
  1. It is with reference to this that these two sāma-nidhanas (finales of sāman-hymns) are uttered,–‘The light (is) in the highest heaven of the gods,’ and, ‘The gods (are) in the highest heaven of the

light;’–for when on that occasion the gods were entering (heaven), Prajāpati was the last to enter: that is why he says, ‘The light (is) in the highest heaven of the gods.’ And as to why he says, ‘The gods (are) in the highest heaven of light,’–the light, doubtless, is this Agni (the fire-altar), and it is on his highest layer that all the gods have thus entered: this is why he says, ‘The gods are in the highest heaven of light.’


  1. छदस्यास्तिस्रस्तिस्रो ऽनूकांतेषु पुरस्तात् गायत्रीरग्निर्मूर्द्धेति प्रत्यृचम् । उत्तराश्च । चशब्दात् प्रत्यृचम् । पुरस्तात्त्रिष्टुभो रेतःसिग्वेलायां भुवो यज्ञस्येति । एभिर्मंत्रैः प्रतिमंत्रम् । जगतीश्च पश्चादयमिहेति । चशब्दात् रेतःसिग्वेलायामेव । अपरास्ताभ्यो ऽनुष्टुभः सखायः संव्व इति । एभिर्मंत्रैर्जगतीभ्यो ऽपरा अनुष्टुभः । अषाढावेलायाः पुरस्तात् बृहतीरेना व इति । भद्रो न इति ककुभस्ताभ्यो बृहत्यंतरे श्रुतेर्मंत्रक्रमेण । उद्धृतान्यपकृष्येच्छन् । अपरा गायत्रीभ्य उष्णिहो ऽग्ने व्वाजस्येति । अनूकांते दक्षिणे पंक्तीरग्निं तमिति । उत्तरे पदपंक्तीरग्ने तमद्येति । पुरीषवत्याः पूर्व्वामति च्छंदसं प्राच्यौ पुरीषसहिते भद्रा रातिर्व्वृत्रतूर्ये ऽवस्थिरा ऽग्निँ होतारमिति । अग्ने त्वमित्यनूकांते ऽपरे द्विपदाः । का. श्रौ. सू. १७ । २४०-२५२ ॥ ↩︎

  2. 109:2 The Chandasyās represent the principal metres, the formulas used in laying down the bricks being composed in the respective metres. They consist of ten sets of three bricks each, representing the ten metres, and an additional (thirty-first) brick representing the Atichandas, or redundant metre. Each of the ten sets consists of a central brick of full size (a foot square) placed on one of the two spines, and flanked on the two sides not in contact with the spines by two half-size bricks, viz.:–1. gāyatrī at the east end of the ‘spine’; 2. trishṭubh on the Retaḥsic range (joining the Gārhapatya on the front, or east, side); 3. jagatī, on the Retaḥsic range (joining the Gārhapatya on the west side); 4. anushṭubh, immediately behind (west) of the preceding set; 5. br̥hatī, immediately in front (east) of the Ashāḍḥā range (on which the ring of Stomabhāgās lies); 6. ushṇih, immediately behind (west of) the Gāyatrīs; 7. kakubh, immediately in front of the br̥hatī bricks; 8. paṅkti, at the right (south) end of the ‘cross-spine’; 9. padapaṅkti, at the left (north) end of the ‘cross-spine’; 10. the single atichandas, immediately in front (east) of the fifth Asapatnā (see p. 84, note 1); 11. (three) dvipadā at the back, or west, end of the ‘spine.’ ↩︎

  3. 110:1 That is, a position of honour, or dignity (śrī). ↩︎

  4. ष्टिर्बीज AB. ↩︎

  5. 110:2 By the metres, here and in the sequel, we have to understand bricks laid down with verses of the respective metres (Vāj. S. XV, 20 seq.). ↩︎

  6. 110:3 That is, the so-called Great Litany (mahad uktham) recited, by the Hotr̥, in response to the Mahāvrata-sāman, or Chant of the Great Rite, at the midday service of the last but one day–the so-called Mahāvrata day–of the sacrificial session called ‘Gavām ayanam,’ or ‘cows’ walk.’ The Great Litany consists of numerous hymns, and some detached verses and prose formulas; the whole matter recited being stated to amount to as many syllables as would make up a thousand Br̥hatī verses (of thirty-six syllables each)–or 36,000 syllables in all. From an analysis I have made of the Mahad uktham (or Br̥had uktham, as it is also called) as contained in MS. Ind. Off. 1729 D, I find it very difficult to check the accuracy of this statement; my own calculation yielding somewhere about 37,200 syllables. By leaving out of account the prose formulas, as well as certain repetitions, this gross amount might, however, be reduced to something approximating the stated number of syllables; and, indeed, the calculation was probably not meant to be a strictly accurate one. Cf. II, 3, 3, 19, 20 (where read Litany, instead of Chant), part ii, p. 430. See also IX, I, 1, 44; 3, 3, 19; 5, 2, 12. ↩︎

  7. ष्टु᳘प्कर्मी᳘णं A. ↩︎

  8. 111:1 The three Kakubh verses (Vāj. S. XV, 38-40) consist each of three pādas, of eight, twelve, and eight syllables respectively, making together twenty-eight syllables. In muttering these verses, whilst laying down the Kakubh bricks, he is to omit four syllables from the middle pāda of each verse (so as to make it equal to the other two pādas), and mutter the words thus omitted at the beginning of the verse (XV, 47) used in laying down the Atichandas brick. The syllables omitted make up complete words in each case, viz. ‘bhadrā rātiḥ’ at the beginning of the middle pāda of the first verse, ‘vr̥tratūrye’ at the end of the middle pāda of the second verse, and ‘ava sthirā’ at the beginning of the second pāda of the third verse. The remaining portions of the Kakubh verses consist each of twenty-four syllables, or a Gāyatrī verse. The references here made to the different parts of the Mahad uktham are not quite clear, and seem to point to a somewhat different arrangement of that śastra from that known from the Aitareyāraṇyaka and the Śāṅkhāyana-sūtra. The head, indeed, consists of Gāyatrī verses, viz. R̥g-veda I, 7., either the whole, or, according to some, only certain verses of it; the first three, or nine, verses also forming the opening triplet, or triplets, of the Mahāvrata-sāman, the chanting of which precedes the recitation of the Great Litany.–For the trunk (ātman) consisting of trishṭubh verses, see p. 113, note 1. The Paṅkti verses, on the other hand, said to form the wings, would seem to be R̥g-veda VIII, 40 (consisting of mahāpaṅktis), which in the Aitareya arrangement forms the thighs, whilst Sāṅkhāyana makes it part of the tail; and the Jagatīs here referred to as constituting the spine would seem to be X, 50, which immediately follows the hymn just referred to, and is not otherwise identified with any special part of the body. The MSS. of Harisvāmin’s commentary are unfortunately hopelessly corrupt in this place. ↩︎

  9. 112:1 The Great Litany begins with seven sets of hymns and verses, meant symbolically to represent certain parts of Agni-Prajāpati’s bird-shaped body which the ceremony is intended to reconstruct, viz. the trunk, neck, head, the roots (sinews) of the wings, the right and left wings, and the tail, between each two of which the so-called Sūdadohas verse (R̥g-veda VIII, 69, 3), meant to represent the vital air pervading the body, is inserted, as it also is between (and before) the succeeding parts. In the first place there follow three eighties of triplets (or, 3 sets of 240 verses each) in the Gāyatrī, Br̥hatī and Ushṇih metres respectively. Then comes the Vaśa hymn representing the belly, and finally a course of recitations (beginning with hymn VIII, 40) forming the thighs. For the part which the number eighty plays in the Agnicayana ceremony, see Weber, Ind. Stud. XIII, p. 167. The term for ’eighty,’ viz. ‘aśīti,’ gives rise to a constant etymological play. Sāyaṇa, on Aitareyāraṇyaka I, 4, 3, 1, takes it in the sense of ‘food’ (cf. above, VIII, 5, 2, 17); whilst the Āraṇyaka itself takes it in that of ‘obtainment’:–yad evāsmin loke yaśo, yan maho, yan mithunaṁ, yad annādyaṁ, yā ’pacitis tad aśnavai, tad āpnavāni, tad avaruṇadhai, tan me ’sad iti. ↩︎

  10. 112:2 This is the hymn R̥g-veda VIII, 46, ascribed to Vaśa Aśvya, and remarkable for the variety of metres in which the different verses are composed. In the Aitareya recension of the Mahad uktham (which is followed in the MS. of this śastra referred to in the preceding notes) only the first twenty verses are recited, but verse 15 being divided into two verses, a dvipadā and an ekapadā, they are thus made to consist of twenty-one verses. ↩︎

  11. 113:1 The Nada-verse, R̥g-veda VIII, 69, 2 (in the ushṇih metre) deriving its name from its first word ’nadam,’ plays a peculiar part in the recitation of the Great Litany. The opening set of recitations, representing the trunk, consists of twenty-two trishṭubh verses; these are recited in such a way that after each pāda (or quarter of a verse) one of the four pādas of the Nada-verse is inserted. The chief object of this insertion seems to be a metrical one, viz. that of making each two pādas (trishṭubh = eleven, and ushṇih = seven syllables) to form half a br̥hatī verse (eighteen syllables), the whole Litany being computed by br̥hatī verses. Moreover, of v. 3 of the first Trishṭubh hymn of this set (R̥g-veda X, 120) only the first two pādas are recited at this stage (whilst the remaining two are recited in different places later on), and this half-verse is followed by a br̥hatī and a satobr̥hatī pāda (VII, 32, 23 c, and VI, 46, 2 c), after which the recitation proceeds with verse 4 of the first hymn. This seems to account for one of the two half-verses here referred to, whilst the other would seem to be VII, 20, 1 a, b, recited later on in the śastra. Cf. Prof. F. Max Müller’s translation of Aitareyār., Sacred Books of the East, vol. i, p. 181 seqq.–The Aindrāgna hymn is VIII, 40, 1-9; 11; 12, being the first hymn of the portion representing the thighs. It consists of ten mahāpaṅkti verses (6 × 8 syllables)–each of which is split up into two Gāyatrī verses (3 × 8 syllables)–and one trishṭubh verse.–The chief anushṭubh verses are those of R̥g-veda I, 11, 1-8, which are recited in a peculiar way (towards the end of the śastra), the last pāda of each verse interchanging with the first pāda of the next verse. ↩︎

  12. 114:1 Either because the Gāyatrī is the foremost and noblest of metres (whence its symbolical connection with the priestly office and caste), and the one used for the first stoma at the Soma-sacrifice; or on account of its being best adapted for singing. For the threefold nature of the head, as consisting of skin, bone, and brain, see XII, 2, 4, 9. ↩︎

  13. 114:2 That is, on both sides of the chest; see XII, 2, 4, 11, with note. ↩︎

  14. i.e. बहिःस्तोमभागम्. ↩︎

  15. 115:1 Or, as one tending (flying) eastwards. ↩︎

  16. 116:1 According to VII, 5, I, 38, the fire-pan is supposed to represent the belly, and the mortar the yoni; and these two were, in the first layer, placed north of the svayam-ātr̥ṇṇā, or naturally-perforated brick, so as to leave the space of a full brick between them and that central brick of the layer; cf. VII, 5, I, 13. In the sketch of the central part of the first layer (p. 17), the two northernmost bricks, marked p, represent the fire-pan and mortar. ↩︎

  17. 116:2 That is, the feet and back part of the body, or the tail, the latter, in a sitting bird forming, as it were, a third foot or support to the body. ↩︎