०१

विश्वास-प्रस्तुतिः

नाकस᳘द ऽउ᳘पदधाति॥
देवा वै᳘ नाकसदो᳘ ऽत्रैष सर्व्वो ऽग्निः[[!!]] सं᳘स्कृतः स᳘ ऽऽएषो᳘ ऽत्र ना᳘कः स्वर्गो᳘ लोकस्त᳘स्मिन्देवा᳘ ऽअसीदंस्तद्य᳘देत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ देवा ऽअ᳘सीदंस्त᳘स्माद्देवा᳘ नाकस᳘दस्त᳘थै᳘वैतद्य᳘जमानो य᳘देता᳘ ऽउपद᳘धात्येत᳘स्मिन्ने᳘वैतन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥

मूलम् - श्रीधरादि

नाकस᳘द ऽउ᳘पदधाति॥
देवा वै᳘ नाकसदो᳘ ऽत्रैष सर्व्वो ऽग्निः[[!!]] सं᳘स्कृतः स᳘ ऽऽएषो᳘ ऽत्र ना᳘कः स्वर्गो᳘ लोकस्त᳘स्मिन्देवा᳘ ऽअसीदंस्तद्य᳘देत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ देवा ऽअ᳘सीदंस्त᳘स्माद्देवा᳘ नाकस᳘दस्त᳘थै᳘वैतद्य᳘जमानो य᳘देता᳘ ऽउपद᳘धात्येत᳘स्मिन्ने᳘वैतन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥

मूलम् - Weber

नाकस᳘द उ᳘पदधाति॥
देवा वै᳘ नाकसदो᳘ ऽत्रैष स᳘र्वो ऽग्निः स᳘ᳫं᳘स्कृतः स᳘ एषो᳘ ऽत्र ना᳘कः स्वर्गो᳘ लोकस्त᳘स्मिन्देवा᳘ असीदंस्तद्य᳘देत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ देवा अ᳘सीदंस्त᳘स्माद्देवा᳘ नाकस᳘दस्त᳘थैॗवैतद्य᳘जमानो य᳘देता᳘ उपद᳘धात्येत᳘स्मिन्नेॗवैतन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥

मूलम् - विस्वरम्

अथ पञ्चनाकसदिष्टकोपधानम् ।

नाकसद उपदधाति । देवा वै नाकसदः । अत्रैष सर्वो ऽग्निः संस्कृतः । स एषो ऽत्र नाकः स्वर्गो लोकः । तस्मिन्देवा असीदन् । तद्यदेतस्मिन्नाके स्वर्गे लोके देवा असीदन्- तस्माद्देवा नाकसदः । तथैवैतद्यजमानो यदेता उपदधाति- एतस्मिन्नेवैतन्नाके स्वर्गे लोके सीदति ॥ १ ॥

सायणः

नाकसद इति । नाकसदो नाम पञ्चेष्टकास्तासामुपधानमेतासु दशसु कण्डिका प्रपञ्च्यते 1देवा वै नाकसदो नाके असीदन्निति । तेषां चाधियाज्ञिकानि शरीराणि इष्टका अपि तदात्मिका एवेति । नाकसदो यजमानो ऽपि आत्मरूपा एवमपश्यत् तमुपदधुः उपदधाति इत्येतत् प्रथमायां कण्डिकायां भेददर्शनम् ॥ १ ॥

Eggeling
  1. He lays down the Nākasads (firmament-seated bricks): the firmament-seated ones, assuredly, are the gods. In this (layer) that whole fire-altar becomes completed, and therein these (bricks are) the firmament (nāka), the world of heaven: it is therein that the gods seated themselves; and inasmuch as the gods seated themselves on that firmament, in the world of heaven, the gods are the firmament-seated. And in like manner does the Sacrificer, when he lays down these (bricks), now seat himself on that firmament, in the world of heaven.

०२

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ नाकस᳘द ऽउपद᳘धाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽएतं ना᳘कᳫँ᳭ स्वर्गं᳘ लोक᳘मपश्यन्नेताः स्तो᳘मभागा᳘स्ते ऽब्रुवन्नु᳘प त᳘ज्जानीत य᳘था ऽस्मिन्ना᳘के स्वर्गे᳘ लोके सी᳘दामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘था ऽस्मिन्ना᳘के स्वर्गे᳘ लोके सी᳘दामे᳘ति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ नाकस᳘द ऽउपद᳘धाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽएतं ना᳘कᳫँ᳭ स्वर्गं᳘ लोक᳘मपश्यन्नेताः स्तो᳘मभागा᳘स्ते ऽब्रुवन्नु᳘प त᳘ज्जानीत य᳘था ऽस्मिन्ना᳘के स्वर्गे᳘ लोके सी᳘दामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘था ऽस्मिन्ना᳘के स्वर्गे᳘ लोके सी᳘दामे᳘ति॥

मूलम् - Weber

य᳘द्वेव᳘ नाकस᳘द उपद᳘धाति॥
एतद्वै᳘ देवा᳘ एतं ना᳘कᳫं स्वर्गं᳘ लोक᳘मपश्यन्नेता स्तो᳘मभागाॗस्ते ऽब्रुवन्नु᳘प त᳘ज्जानीत य᳘थास्मिन्ना᳘के स्वर्गे᳘ लोके सी᳘दामे᳘तिॗ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्त᳘दिछत य᳘थास्मिन्ना᳘के स्वर्गे᳘ लोके सी᳘दामे᳘ति॥

मूलम् - विस्वरम्

यद्वेव नाकसद उपदधाति । एतद्वै देवा एतं नाकं स्वर्गं लोकमपश्यन्- एताः स्तोमभागाः । ते ऽब्रुवन्- उप तज्जानीत यथा ऽस्मिन्नाके स्वर्गे लोके सीदामेति । ते ऽब्रुवन्- चेतयध्वमिति- चितिमिच्छतेति वाव तदब्रुवन्- तदिच्छत- यथा ऽस्मिन्नाके स्वर्गे लोके सीदामेति ॥ २ ॥

सायणः

यद्वेव नाकसद इति । एताभ्यां कण्डिकाभ्यां भेददर्शनं मदशक्तीन्युच्यन्ते । ताभिरुपायभूताभिर्भिन्नादिति नार्थवदेवासीदिति यजमानो ऽप्यात्मने ता एवोपायभूताः पश्यंस्ताभिर्नाके सीदतीति नाकसदः न करणसाधनः घञ् । किन्तु क्विप्प्रत्ययो दर्शितः ॥ २ ॥ ३ ॥

Eggeling
  1. And, again, why he lays down the Nākasads. Now at that time the gods saw that firmament, the world of heaven, these Stomabhāgās 2. They spake,

‘Think ye upon this, how we may seat ourselves on that firmament, in the world of heaven!’ They spake,

‘Meditate ye! seek ye a layer!’ whereby, indeed, they said, ‘Seek ye this, how we may seat ourselves on this firmament, in the world of heaven!’

०३

विश्वास-प्रस्तुतिः

ते᳘ चेत᳘यमानाः॥
(ऽ) एता ऽइ᳘ष्टका ऽअपश्यन्नाकस᳘दस्ता ऽउ᳘पादधत ता᳘भिरेत᳘स्मिन्ना᳘के स्वर्गे᳘ लो᳘के ऽसीदंस्तद्य᳘देता᳘भिरेत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ ऽसीदंस्त᳘स्मादेता᳘ नाकस᳘दस्त᳘थै᳘वैतद्य᳘जमानो य᳘देता᳘ ऽउपद᳘धात्येत᳘स्मिन्ने᳘वैतन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥

मूलम् - श्रीधरादि

ते᳘ चेत᳘यमानाः॥
(ऽ) एता ऽइ᳘ष्टका ऽअपश्यन्नाकस᳘दस्ता ऽउ᳘पादधत ता᳘भिरेत᳘स्मिन्ना᳘के स्वर्गे᳘ लो᳘के ऽसीदंस्तद्य᳘देता᳘भिरेत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ ऽसीदंस्त᳘स्मादेता᳘ नाकस᳘दस्त᳘थै᳘वैतद्य᳘जमानो य᳘देता᳘ ऽउपद᳘धात्येत᳘स्मिन्ने᳘वैतन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥

मूलम् - Weber

ते᳘ चेत᳘यमानाः॥
एता इ᳘ष्टका अपश्यन्नाकस᳘दस्ता उ᳘पादधत ता᳘भिरेत᳘स्मिन्ना᳘के स्वर्गे᳘ लोॗके ऽसीदंस्तद्य᳘देता᳘भिरेत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ ऽसीदंस्त᳘स्मादेता᳘ नाकस᳘दस्त᳘थैॗवैकद्य᳘जमानो य᳘देता᳘ उपद᳘धात्येत᳘स्मिन्नेॗवैतन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥

मूलम् - विस्वरम्

ते चेतयमाना एता इष्टका अपश्यन्नाकसदः । ता उपादधत । ताभिरेतस्मिन्नाके स्वर्गे लोके ऽसीदन् । तद्यदेताभिरेतस्मिन्नाके स्वर्गे लोके ऽसीदन्- तस्मादेता नाकसदः । तथैवैतद्यजमानो यदेता उपदधाति- एतस्मिन्नेवैतन्नाके स्वर्गे लोके सीदति ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. Whilst meditating, they saw these bricks, the Nākasads, and placed them on (the altar): by means of them they seated themselves on that firmament, in the world of heaven; and inasmuch as through them they seated themselves (sad) on that firmament (nāka), in the world of heaven, these are the Nāka-sad (bricks); and in like manner does the Sacrificer, when he lays down these (bricks), now seat himself on that firmament, in the world of heaven.

०४

विश्वास-प्रस्तुतिः

दिक्षू᳘पदधाति॥
दि᳘शो वै स ना᳘कः स्वर्गो᳘ लोकः᳘ स्वर्ग᳘ ऽए᳘वैना ऽएत᳘ल्लोके᳘ सादयत्यृ᳘तव्यानां[[!!]] व्वे᳘लया संव्वत्सरो वा᳘ ऽऋत᳘व्याः संव्वत्सरः᳘ स्वर्गो᳘ लोकः᳘ स्वर्ग᳘ ऽए᳘वैना ऽएत᳘ल्लोके᳘ सादयत्यन्तस्तोमभाग᳘मेष वै स ना᳘कः स्वर्गो᳘ लोकस्त᳘स्मिन्ने᳘वैना ऽएतत्प्र᳘तिष्ठापयति[[!!]]॥

मूलम् - श्रीधरादि

दिक्षू᳘पदधाति॥
दि᳘शो वै स ना᳘कः स्वर्गो᳘ लोकः᳘ स्वर्ग᳘ ऽए᳘वैना ऽएत᳘ल्लोके᳘ सादयत्यृ᳘तव्यानां[[!!]] व्वे᳘लया संव्वत्सरो वा᳘ ऽऋत᳘व्याः संव्वत्सरः᳘ स्वर्गो᳘ लोकः᳘ स्वर्ग᳘ ऽए᳘वैना ऽएत᳘ल्लोके᳘ सादयत्यन्तस्तोमभाग᳘मेष वै स ना᳘कः स्वर्गो᳘ लोकस्त᳘स्मिन्ने᳘वैना ऽएतत्प्र᳘तिष्ठापयति[[!!]]॥

मूलम् - Weber

दिक्षू᳘पदधाति॥
दि᳘शो वै स ना᳘कः स्वर्गो᳘ लोकः᳘ स्वर्ग᳘ एॗवैना एत᳘ल्लोके᳘ सादयत्यृतॗव्यानां वे᳘लया संवत्सरो वा᳘ ऋतॗव्याः संवत्सरः᳘ स्वर्गो᳘ लोकः᳘ स्वर्ग᳘ एॗवैना एत᳘ल्लोके᳘ सादयत्यन्तस्तोमभाग᳘मेष 3 वै स ना᳘कः स्वर्गो᳘ लोकस्त᳘स्मिन्ने᳘वैना एतत्प्र᳘तिष्ठा᳘पयति॥

मूलम् - विस्वरम्

दिक्षूपदधाति । दिशो वै स नाकः स्वर्गो लोकः । स्वर्ग एवैना एतल्लोके सादयति । ऋतव्यानां वेलया । सम्वत्सरो वा ऋतव्याः । सम्वत्सरः स्वर्गो लोकः । स्वर्ग एवैना एतल्लोके सादयति । अन्तस्तोमभागम् । एष वै स नाकः स्वर्गो लोकः । तस्मिन्नेवैना एतत्प्रतिष्ठापयति ॥ ४ ॥

सायणः

दिक्षूपदधातीति । दिक्षूपदधाति ता वै दिक्ष्वित्येतत् यमेव (ततश्चास्यात्तुचतोवै दिशो वै भवति भुक्त इत्यभिप्रायः) । अन्ये स्तोमभागानां ऋतव्या वदन्तीत्यनुवाद एवायम् ॥ ४ ॥

Eggeling
  1. He places them in the (four) quarters; for that firmament, the world of heaven, is the quarters: he thus establishes them in the world of heaven. On the range of the R̥tavyās (he places them); for the R̥tavyās (seasonal bricks) are the year, and the world of heaven is the year: it is in the world of heaven he thus establishes them. Within the Stomabhāgās (he places them); for this is the firmament, the world of heaven: it is therein he thus establishes them.

०५

विश्वास-प्रस्तुतिः

स᳘ पुर᳘स्तादु᳘पदधाति॥
रा᳘ज्ञ्यति प्रा᳘ची दिगि᳘ति रा᳘ज्ञी ह ना᳘मैषा प्रा᳘ची दिग्व᳘सवस्ते देवा ऽअ᳘धिपतय ऽइ᳘ति व्व᳘सवो हैत᳘स्यै दिशो᳘ देवा ऽअ᳘धिपतयो ऽग्नि᳘र्हेतीनां᳘ प्रतिधर्ते᳘त्यग्नि᳘र्हैवा᳘त्र हैतीनां᳘ प्रतिधर्ता᳘ त्रिवृ᳘त्त्वा स्तो᳘मः पृथिव्या᳘ᳫँ᳘ श्रयत्वि᳘ति त्रिवृ᳘ता हैषा स्तो᳘मेन पृथिव्या᳘ᳫँ᳘ श्रिता᳘ ऽऽज्यमुक्थम᳘व्यथायै स्तभ्नात्वित्या᳘ज्येन है᳘षोक्थेना᳘व्यथायै पृथिव्या᳘ᳫँ᳘ स्तब्धा᳘ रथन्तरᳫँ᳭ सा᳘म प्र᳘तिष्ठित्या ऽअन्त᳘रिक्ष ऽइ᳘ति रथन्तरे᳘ण हैषा सा᳘म्ना प्र᳘तिष्ठिता ऽन्त᳘रि᳘क्ष ऽऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति प्राणा वा ऽऋ᳘षयः प्रथमजा᳘स्तद्धि ब्र᳘ह्म प्रथमजं᳘ दिवो मा᳘त्रया व्वरिम्णा᳘ प्रथन्त्वि᳘ति या᳘वती द्यौस्ता᳘वतीं व्वरिम्णा᳘ प्रथन्त्वि᳘त्येत᳘द्विधर्ता᳘ चायम᳘धिपतिश्चे᳘ति वा᳘क्च तौ म᳘नश्च तौ᳘ हीदᳫँ᳭ स᳘र्व्वं व्विधार᳘यतस्ते᳘ त्वा स᳘र्व्वे संव्विदाना ना᳘कस्य पृष्ठे᳘ स्वर्गे᳘ लोके य᳘जमानं च सादयन्त्वि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

स᳘ पुर᳘स्तादु᳘पदधाति॥
रा᳘ज्ञ्यति प्रा᳘ची दिगि᳘ति रा᳘ज्ञी ह ना᳘मैषा प्रा᳘ची दिग्व᳘सवस्ते देवा ऽअ᳘धिपतय ऽइ᳘ति व्व᳘सवो हैत᳘स्यै दिशो᳘ देवा ऽअ᳘धिपतयो ऽग्नि᳘र्हेतीनां᳘ प्रतिधर्ते᳘त्यग्नि᳘र्हैवा᳘त्र हैतीनां᳘ प्रतिधर्ता᳘ त्रिवृ᳘त्त्वा स्तो᳘मः पृथिव्या᳘ᳫँ᳘ श्रयत्वि᳘ति त्रिवृ᳘ता हैषा स्तो᳘मेन पृथिव्या᳘ᳫँ᳘ श्रिता᳘ ऽऽज्यमुक्थम᳘व्यथायै स्तभ्नात्वित्या᳘ज्येन है᳘षोक्थेना᳘व्यथायै पृथिव्या᳘ᳫँ᳘ स्तब्धा᳘ रथन्तरᳫँ᳭ सा᳘म प्र᳘तिष्ठित्या ऽअन्त᳘रिक्ष ऽइ᳘ति रथन्तरे᳘ण हैषा सा᳘म्ना प्र᳘तिष्ठिता ऽन्त᳘रि᳘क्ष ऽऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति प्राणा वा ऽऋ᳘षयः प्रथमजा᳘स्तद्धि ब्र᳘ह्म प्रथमजं᳘ दिवो मा᳘त्रया व्वरिम्णा᳘ प्रथन्त्वि᳘ति या᳘वती द्यौस्ता᳘वतीं व्वरिम्णा᳘ प्रथन्त्वि᳘त्येत᳘द्विधर्ता᳘ चायम᳘धिपतिश्चे᳘ति वा᳘क्च तौ म᳘नश्च तौ᳘ हीदᳫँ᳭ स᳘र्व्वं व्विधार᳘यतस्ते᳘ त्वा स᳘र्व्वे संव्विदाना ना᳘कस्य पृष्ठे᳘ स्वर्गे᳘ लोके य᳘जमानं च सादयन्त्वि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

स᳘ पुर᳘स्तादु᳘पदधाति॥
रा᳘ज्ञ्यति प्रा᳘ची दिगि᳘ति रा᳘ज्ञी ह ना᳘मैषा प्रा᳘ची दिग्व᳘सवस्ते देवा अ᳘धिपतय इ᳘ति व᳘सवो हैत᳘स्य दिशो᳘ देवा अ᳘धिपतयो ऽग्नि᳘र्हेतीना᳘म् प्रतिधर्ते᳘त्यग्नि᳘र्हैवा᳘त्र 4 हैतीना᳘म् प्रतिधर्ता᳘ त्रिवृ᳘त्त्वा स्तो᳘मः पृथिव्यां᳘ श्रयत्वि᳘ति त्रिवृ᳘ता हैषा स्तो᳘मेन पृथिव्यां᳘ श्रिता᳘ज्यमुक्थम᳘व्यथायै स्तभ्नात्वित्या᳘ज्येन हैॗषोक्थेना᳘व्यथायै पृथिव्या᳘ᳫं᳘ स्तब्धा᳘ रथन्तरᳫं सा᳘म प्र᳘तिष्ठित्या अन्त᳘रिक्ष इ᳘ति रथन्तरे᳘ण हैषा सा᳘म्ना प्र᳘तिष्ठितान्त᳘रिक्ष ऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति प्राणा वा ऋ᳘षयः प्रथमजास्तद्धि ब्र᳘ह्म प्रथमजं᳘ दिवो मा᳘त्रया वरिम्णा᳘ प्रथन्त्वि᳘ति या᳘वती द्यौस्ता᳘वतीं वरिम्णा᳘ प्रथन्त्वि᳘त्येत᳘द्विधर्ता᳘ चायम᳘धिपतिश्चे᳘ति वा᳘क्च तौ म᳘नश्च तौॗ हीदᳫं स᳘र्वं विधार᳘यतस्ते᳘ त्वा स᳘र्वे संविदाना ना᳘कस्य पृष्ठे᳘ स्वर्गे᳘ लोके य᳘जमानं च सादयन्त्वि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

(१) स पुरस्तादुपदधाति । “राज्ञ्यसि प्राची दिक्”- इति । राज्ञी ह नामैषा प्राची दिक् । “वसवस्ते देवा अधिपतयः”- इति । वसवो हैतस्यै दिशो देवा अधिपतयः । “अग्निर्हेतीनां प्रतिधर्ता”- इति । अग्निर्हैवात्र हेतीनां प्रतिधर्ता । “त्रिवृत्त्वा स्तोमः पृथिव्यां श्रयतु”- इति । त्रिवृता हैषा स्तोमेन पृथिव्यां श्रिता । “आज्यमुक्थमव्यथायै स्तभ्नातु”- इति । आज्येन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा । “रथन्तरं साम प्रतिष्ठित्या अन्तरिक्षे”- इति । रथन्तरेण हैषा साम्ना प्रतिष्ठिता ऽन्तरिक्षे । “ऋषयस्त्वा प्रथमजा देवेषु”- इति । प्राणा वा ऋषयः प्रथमजाः, तद्धि ब्रह्म प्रथमजम् । “दिवो मात्रया वरिम्णा प्रथन्तु"- इति । यावती द्यौस्तावतीं वरिम्णा प्रथन्त्वित्येतद् । “विधर्ता चायमधिपतिश्च"- इति । वाक्च तौ मनश्च तौ हीदं सर्वं विधारयतः । “ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु”- (वा. सं. १५ । १०) इति । यथैव यजुस्तथा बन्धुः ॥ ५ ॥

सायणः

स पुरस्तादिति । पञ्चभिरेताभिः प्रसन्नम् । एवमन्या व्याख्यायंते । ते च संक्षेपेणात्र इष्टका उच्यते । देवता यूयं भरतवस्वादयश्च देवा अधिपतयो ऽभवन्नग्न्यादयश्च रक्षितारस्त्रिवृदाद्याः पृथिव्यां वा भूतानि प्रतिष्ठापयन्त आज्यादीनि शस्त्राणि तत्रैव ददीत रनुन्तरादीनि सामान्यन्तरिक्षस्तत्र तत्तु प्रतिष्ठार्थम् । ऋषयश्च सहदेवलोकादिभिर्यवपराक्षत्रमर्य एवावस्था नाके स्वर्गे दिवः सारं तेयुग्मा यजमानं च सादयंत्विति प्राणा वा ऋषय इतीन्द्रियग्राहिणः (सुसीरक्रियातद्यावाय) एवाभिः प्रतानेन्द्रियाणि कुतः विधर्ता चायमधिपतिश्च ते त्वा नरःसद्य उत्तरत्रोपादानात् । ऋषिशब्देनेन्द्रियाण्युपात्तानि स्युः । ततो ऽस्य रसस्तयोस्तदन्तर्भूतयोः पृथगुपादानमनर्थकमेव स्यात् कथं पुनः प्राणाः प्रथमजा इत्येतदाह- तद्धि प्राणात्मकं ब्राह्मविकाराणां भर्तृप्रथमजं सर्वाङ्गमेव गीयते । ता आपः सत्यमसृजन्त । सत्यं ब्रह्मेत्यादिष्वेतदुक्तं भवति । एवम् ऋषयः सन् मूच्छितरूपा ब्रह्मेत्युच्यते । ततश्च नैव सशयितव्यं तद्ब्रह्म प्रथमजमुक्तमिति । तत्तु प्राणास्तेन विरुद्धावेतावाभाति । किं तर्हि समानार्थावेताविति वा वाङ्मनः साहचर्याद्वागिन्द्रियं विज्ञायते तौ हीदं सर्वं जगद्विधारयत इति । मनश्च सर्वव्यवहारांशत्वात् । (तास्वपि न सविवस्त्रादयः) ॥ ५-९॥

Eggeling
  1. In front he lays down one, with (Vāj. S. XV, 10), ‘Queen thou art, the Eastern region,’ for a queen indeed the eastern region is;–‘The divine Vasus are thine overlords 5,’ for the divine Vasus are indeed the overlords of that region;–‘Agni is the repeller of shafts,’ for Agni, indeed, is here the repeller of shafts;–‘The Trivr̥t-Stoma may uphold thee on earth!’ for by the threefold hymn(-form) this one is indeed upheld on earth;–‘The Ājya-śastra may support thee for steadiness’ sake 6!’ for by the Ājya-śastra it is indeed supported on earth for steadiness’ sake;–’the Rathantara-sāman for stability in the air!’ for by the Rathantara-sāman it is indeed established in the air;–‘May the R̥shis, the first-born, magnify 7 thee among the gods!’–the R̥shis, the first-born, doubtless, are the vital airs 8, for they are the first-born Brahman 9;–‘with the measure, the width of the sky!’–that is, ‘as great as the sky is, so much in width may they broaden thee!’–

‘And he, the upholder, and the overlord,’–these two are speech and mind, for these two uphold everything here;–‘may they all, of one mind, settle thee, and the Sacrificer, on the back of the firmament, in the world of heaven!’ as the text, so its import.

०६

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ दक्षिणतः᳘॥
(तो᳘) व्विरा᳘डसि द᳘क्षिणा दिगि᳘ति व्विरा᳘ड्ढ ना᳘मैषा द᳘क्षिणा दि᳘ग्रुद्रा᳘स्ते देवा ऽअ᳘धिपतय ऽइ᳘ति रुद्रा᳘ हैत᳘स्यै दिशो᳘ देवा ऽअ᳘धिपतय ऽइ᳘न्द्रो हेतीनां᳘ प्रतिधर्तेती᳘न्द्रो हैवा᳘त्र हेतीनां᳘ प्रतिधर्ता᳘ पञ्चदश᳘स्त्वा स्तो᳘मः पृथिव्या᳘ᳫँ᳘ श्रयत्वि᳘ति पञ्चदशे᳘न हैषा स्तो᳘मेन पृथिव्या᳘ᳫँ᳘ श्रिता प्र᳘उगमुक्थम᳘व्यथायै स्तभ्नात्वि᳘ति प्र᳘उगेण है᳘षोक्थेना᳘व्यथायै पृथिव्या᳘ᳫँ᳘ स्तब्धा᳘ बृहत्सा᳘म प्र᳘तिष्ठित्या ऽअन्त᳘रिक्ष ऽइ᳘ति बृहता᳘ हैषा सा᳘म्ना प्र᳘तिष्ठिता ऽन्त᳘रिक्ष ऽऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्विति[[!!]] त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ दक्षिणतः᳘॥
(तो᳘) व्विरा᳘डसि द᳘क्षिणा दिगि᳘ति व्विरा᳘ड्ढ ना᳘मैषा द᳘क्षिणा दि᳘ग्रुद्रा᳘स्ते देवा ऽअ᳘धिपतय ऽइ᳘ति रुद्रा᳘ हैत᳘स्यै दिशो᳘ देवा ऽअ᳘धिपतय ऽइ᳘न्द्रो हेतीनां᳘ प्रतिधर्तेती᳘न्द्रो हैवा᳘त्र हेतीनां᳘ प्रतिधर्ता᳘ पञ्चदश᳘स्त्वा स्तो᳘मः पृथिव्या᳘ᳫँ᳘ श्रयत्वि᳘ति पञ्चदशे᳘न हैषा स्तो᳘मेन पृथिव्या᳘ᳫँ᳘ श्रिता प्र᳘उगमुक्थम᳘व्यथायै स्तभ्नात्वि᳘ति प्र᳘उगेण है᳘षोक्थेना᳘व्यथायै पृथिव्या᳘ᳫँ᳘ स्तब्धा᳘ बृहत्सा᳘म प्र᳘तिष्ठित्या ऽअन्त᳘रिक्ष ऽइ᳘ति बृहता᳘ हैषा सा᳘म्ना प्र᳘तिष्ठिता ऽन्त᳘रिक्ष ऽऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्विति[[!!]] 10 त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ दक्षिणतः᳟॥
विरा᳘डसि द᳘क्षिणा दिगि᳘ति विरा᳘ड्ढ 11 ना᳘मैषा द᳘क्षिणा दि᳘ग्रुद्रा᳘स्ते देवा अ᳘धिपतय इ᳘ति रुद्रा᳘ हैत᳘स्य दिशो᳘ देवा अ᳘धिपतय इ᳘न्द्रो हेतीना᳘म् प्रतिधर्तेती᳘न्द्रो हैवा᳘त्र हेतीना᳘म् प्रतिधर्ता᳘ पञ्चदश᳘स्त्वा स्तो᳘मः पृथिव्यां᳘ श्रयत्वि᳘ति पञ्चदशे᳘न हैषा स्तो᳘मेन पृथिव्यां᳘ श्रिता प्र᳘उगमुक्थम᳘व्यथायै स्तभ्नात्वि᳘ति प्र᳘उगेण हैॗषोक्थेना᳘व्यथायै पृथिव्या᳘ᳫं᳘ स्तब्धा᳘ बृहत्सा᳘म प्र᳘तिष्ठित्या अन्त᳘रिक्ष इ᳘ति बृहता᳘ हैषा सा᳘म्ना प्र᳘तिष्ठितान्त᳘रिक्ष ऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

(२) अथ दक्षिणतः । “विराडसि दक्षिणा दिक्"- इति। विराड्ढ नामैषा दक्षिणा दिक् । “रुद्रास्ते देवा अधिपतयः”- इति । रुद्रा हैतस्यै दिशो देवा अधिपतयः । “इन्द्रो हेतीनां प्रतिधर्ता”- इति । इन्द्रो हैवात्र हेतीनां प्रतिधर्ता । “पञ्चदशस्त्वा स्तोमः पृथिव्यां श्रयतु"- इति । पञ्चदशेन हैषा स्तोमेन पृथिव्यां श्रिता । “प्रउगमुक्थमव्यथायै स्तभ्नातु”- इति । प्रउगेण हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा । “बृहत्साम प्रतिष्ठित्याअन्तरिक्षे”- इति । बृहता हैषा साम्ना प्रतिष्ठिता ऽन्तरिक्षे । “ऋषयस्त्वा प्रथमजा देवेषु”- (वा. सं. १५ । ११) इति । तस्योक्तो बन्धुः ॥ ६ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Then on the right (south) side (he lays down one 12), with (Vāj. S. XV, 11), ‘Wide-ruling thou art, the southern region,’ for wide-ruling indeed is that southern region;–‘The divine Rudras are thine overlords,’ for the divine Rudras are indeed the overlords of that region;–‘Indra is the repeller of shafts,’ for Indra, indeed, is here the repeller of shafts;–‘The Pañcadaśa-stoma may uphold thee on earth!’ for by the fifteenfold hymn it is indeed upheld on earth;–‘The Praüga-śastra may support thee for steadiness’ sake!’ for by the Praüga-śastra it is indeed supported on earth for steadiness’ sake;–’the Br̥hat-sāman for stability in the air!’ for by the Br̥hat-sāman it is indeed established in the air;–‘May the R̥shis, the first-born, magnify thee among gods . . .!’ the import of this (and the rest) has been explained.

०७

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ पश्चा᳘त्॥
(त्स) सम्रा᳘डसि प्रती᳘ची दिगि᳘ति सम्रा᳘ड्ढ ना᳘मैषा᳘ प्रती᳘चि दि᳘गादित्या᳘स्ते देवा ऽअ᳘धिपतय ऽइ᳘त्यादित्या᳘ हैत᳘स्यै दिशो᳘ देवा ऽअ᳘धिपतयो व्व᳘रुणो हेतीनां᳘ प्रतिधर्ते᳘ति व्व᳘रुणो हैवा᳘त्र हेतीनां᳘ प्रतिधर्ता᳘ सप्तदश᳘स्त्वा स्तो᳘मः पृथिव्या᳘ᳫँ᳘ श्रयत्वि᳘ति सप्तदशे᳘न हैषा स्तो᳘मेन पृथिव्या᳘ᳫँ᳘ श्रिता᳘ मरुत्वती᳘यमुक्थम᳘व्यथायै स्तभ्नात्वि᳘ति मरुत्वती᳘येन है᳘षोक्थेनाव्यथायै पृथिव्या᳘ᳫँ᳘ स्तब्धा᳘ व्वैरूपᳫँ᳭ साम᳘ प्र᳘तिष्ठित्या ऽअन्त᳘रिक्ष ऽइ᳘ति व्वैरूपे᳘ण हैषा सा᳘म्ना प्र᳘तिष्ठिता ऽन्त᳘रिक्ष ऽऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ पश्चा᳘त्॥
(त्स) सम्रा᳘डसि प्रती᳘ची दिगि᳘ति सम्रा᳘ड्ढ ना᳘मैषा᳘ प्रती᳘चि दि᳘गादित्या᳘स्ते देवा ऽअ᳘धिपतय ऽइ᳘त्यादित्या᳘ हैत᳘स्यै दिशो᳘ देवा ऽअ᳘धिपतयो व्व᳘रुणो हेतीनां᳘ प्रतिधर्ते᳘ति व्व᳘रुणो हैवा᳘त्र हेतीनां᳘ प्रतिधर्ता᳘ सप्तदश᳘स्त्वा स्तो᳘मः पृथिव्या᳘ᳫँ᳘ श्रयत्वि᳘ति सप्तदशे᳘न हैषा स्तो᳘मेन पृथिव्या᳘ᳫँ᳘ श्रिता᳘ मरुत्वती᳘यमुक्थम᳘व्यथायै स्तभ्नात्वि᳘ति मरुत्वती᳘येन है᳘षोक्थेनाव्यथायै पृथिव्या᳘ᳫँ᳘ स्तब्धा᳘ व्वैरूपᳫँ᳭ साम᳘ प्र᳘तिष्ठित्या ऽअन्त᳘रिक्ष ऽइ᳘ति व्वैरूपे᳘ण हैषा सा᳘म्ना प्र᳘तिष्ठिता ऽन्त᳘रिक्ष ऽऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ पश्चा᳘त्॥
सम्रा᳘डसि प्रती᳘ची दिगि᳘ति सम्रा᳘ड्ढ ना᳘मैषा᳘ प्रती᳘चि दि᳘गादित्या᳘स्ते देवा अ᳘धिपतय इ᳘त्यादित्या᳘ हैत᳘स्यै दिशो᳘ देवा अ᳘धिपतयो व᳘रुणो हेतीना᳘म् प्रतिधर्ते᳘ति व᳘रुणो हैवा᳘त्र हेतीना᳘म् प्रतिधर्ता᳘ सप्तदश᳘स्त्वा स्तो᳘मः पृथिव्यां᳘ श्रयत्वि᳘ति सप्तदशे᳘न हैषा स्तो᳘मेन पृथिव्यां᳘ श्रिता᳘ मरुत्वती᳘यमुक्थम᳘व्यथायै स्तभ्नात्वि᳘ति मरुत्वतीयेन है᳘षोक्थेनाव्यथायै पृथिव्या᳘ᳫं᳘ स्तब्धा᳘ वैरूपᳫं साम᳘ प्र᳘तिष्ठित्या अन्त᳘रिक्ष इ᳘ति वैरूपे᳘ण हैषा सा᳘म्ना प्र᳘तिष्ठितान्त᳘रिक्ष ऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

(३) अथ पश्चात् । “सम्राडसि प्रतीची दिक्”- इति । सम्राड्ढ नामैषा प्रतीची दिक् । “आदित्यास्ते देवा अधिपतयः”- इति । आदित्या हैतस्यै दिशो देवा अधिपतयः । “वरुणां हेतीनां प्रतिधर्ता”- इति । वरुणो हैवात्र हेतीनां प्रतिधर्ता । “सप्तदशस्त्वा स्तोमः पृथिव्यां श्रयतु”- इति । सप्तदशेन हैषा स्तोमेन पृथिव्यां श्रिता । “मरुत्वतीयमुक्थमव्यथायै स्तभ्नातु”- इति । मरुत्वतीयेन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा । “वैरूपं साम प्रतिष्ठित्या अन्तरिक्षे”- इति । वैरूपेण हैषा साम्ना प्रतिष्ठिता ऽन्तरिक्षे । ऋषयस्त्वा प्रथमजा देवेषु"- (वा. सं. १५ । १२) इति । तस्योक्तो बन्धुः ॥ ७ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Then behind (he lays down one), with (Vāj. S. XV, 12), ‘All-ruling thou art, the western region,’ for all-ruling indeed is that western region;–‘The divine Ādityas are thine overlords,’ for the divine Ādityas are indeed the overlords of that region;–‘Varuṇa is the repeller of shafts,’ for Varuṇa, indeed, is here the repeller of shafts;–‘The Saptadaśa-stoma may uphold thee on

earth!’ for by the seventeenfold hymn it is indeed upheld on earth;–‘The Marutvatīya-śastra may support thee for steadiness’ sake!’ for by the Marutvatīya-śastra it is indeed supported on earth for steadiness’ sake;–’the Vairūpa-sāman for stability in the air!’ for by the Vairūpa-sāman it is indeed established in the air;–‘May the R̥shis, the first-born, magnify thee among the gods . . .!’ the import of this has been explained.

०८

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थोत्तरतः᳘॥ स्वरा᳘डस्यु᳘दीची दिगि᳘ति स्वरा᳘ड्ढ ना᳘मैषो᳘दीची दि᳘ङ्मरु᳘तस्ते देवा ऽअ᳘धिपतय ऽइ᳘ति मरु᳘तो हैत᳘स्यै दिशो᳘ देवा ऽअ᳘धिपतयः सो᳘मो हेतीनां᳘ प्रतिधर्ते᳘ति सो᳘मो हैवा᳘त्र हेतीनां᳘ प्रतिध᳘र्तैकविᳫँ᳭श᳘स्त्वा स्तो᳘मः पृथिव्या᳘ᳫँ᳘ श्रयत्वि᳘त्येकविᳫँ᳭शे᳘न हैषा स्तो᳘मेन पृथिव्या᳘ᳫँ᳘ श्रिता नि᳘ष्केवल्यमुक्थम᳘व्यथायै स्तभ्नात्वि᳘ति नि᳘ष्केवल्येन है᳘षोक्थेना᳘व्यथायै पृथिव्या᳘ᳫँ᳘ स्तब्धा᳘ व्वैराजᳫँ᳭ सा᳘म प्र᳘तिष्ठित्या ऽअन्त᳘रिक्ष ऽइ᳘ति व्वैराजे᳘न हैषा सा᳘म्ना प्र᳘तिष्ठिता ऽन्त᳘रिक्ष ऽऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थोत्तरतः᳘॥ स्वरा᳘डस्यु᳘दीची दिगि᳘ति स्वरा᳘ड्ढ ना᳘मैषो᳘दीची दि᳘ङ्मरु᳘तस्ते देवा ऽअ᳘धिपतय ऽइ᳘ति मरु᳘तो हैत᳘स्यै दिशो᳘ देवा ऽअ᳘धिपतयः सो᳘मो हेतीनां᳘ प्रतिधर्ते᳘ति सो᳘मो हैवा᳘त्र हेतीनां᳘ प्रतिध᳘र्तैकविᳫँ᳭श᳘स्त्वा स्तो᳘मः पृथिव्या᳘ᳫँ᳘ श्रयत्वि᳘त्येकविᳫँ᳭शे᳘न हैषा स्तो᳘मेन पृथिव्या᳘ᳫँ᳘ श्रिता नि᳘ष्केवल्यमुक्थम᳘व्यथायै स्तभ्नात्वि᳘ति नि᳘ष्केवल्येन है᳘षोक्थेना᳘व्यथायै पृथिव्या᳘ᳫँ᳘ स्तब्धा᳘ व्वैराजᳫँ᳭ सा᳘म प्र᳘तिष्ठित्या ऽअन्त᳘रिक्ष ऽइ᳘ति व्वैराजे᳘न हैषा सा᳘म्ना प्र᳘तिष्ठिता ऽन्त᳘रिक्ष ऽऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थोत्तरतः᳘ स्वरा᳘डस्यु᳘दीची दिगि᳘ति स्वरा᳘ड्ढ 13 ना᳘मैषो᳘दीची दि᳘ङ्मरु᳘तस्ते देवा अ᳘धिपतय इ᳘ति मरु᳘तो हैत᳘स्यै दिशो᳘ देवा अ᳘धिपतयः सो᳘मो हेतीना᳘म् प्रतिधर्ते᳘ति सो᳘मो हैवा᳘त्र हेतीना᳘म् प्रतिधॗर्तैकविंश᳘स्त्वा स्तो᳘मः पृथिव्यां᳘ श्रयत्वि᳘त्येकविंशे᳘न हैषा स्तो᳘मेन पृथिव्यां᳘ श्रिता नि᳘ष्केवल्यमुक्थम᳘व्यथायै स्तभ्नात्वि᳘ति नि᳘ष्केवल्येन हैॗषोक्थेना᳘व्यथायै पृथिव्या᳘ᳫं᳘ स्तब्धा᳘ वै राजᳫं सा᳘म प्र᳘तिष्ठित्या अन्त᳘रिक्ष इ᳘ति वैराजे᳘न हैषा सा᳘म्ना प्र᳘तिष्ठितान्त᳘रिक्ष ऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

(४) अथोत्तरतः । “स्वराडस्युदीची दिक्”- इति । स्वराड्ढ नामैषोदीची दिक् । “मरुतस्ते देवा ऽअधिपतयः"- इति । मरुतो हैतस्यै दिशो देवा अधिपतयः । “सोमो हेतीनां प्रतिधर्ता”- इति । सोमो हैवात्र हेतीनां प्रतिधर्ता । “एकविंशस्त्वा स्तोमः पृथिव्यां श्रयतु”- इति । एकविंशेन हैषा स्तोमेन पृथिव्यां श्रिता । निष्केवल्यमुक्थमव्यथायै स्तभ्नातु"- इति । निष्केवल्येन हैषोक्थेनाव्यथायै पृथिव्यां स्तब्धा । “वैराजं साम प्रतिष्ठित्या ऽअन्तरिक्षे”- इति । वैराजेन हैषा साम्ना प्रतिष्ठिता ऽन्तरिक्षे । “ऋषयस्त्वा प्रथमजा देवेषु"- (वा० सं० १५ । १३) इति । तस्योक्तो बन्धुः ॥ ८ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Then on the left (north) side (he lays down one), with (Vāj. S. XV, 13), ‘Self-ruling thou art, the northern region,’ for self-ruling that northern region indeed is; ‘The divine Maruts are thine overlords,’ for the divine Maruts are indeed the overlords of that region;–‘Soma is the repeller of shafts,’ for Soma, indeed, is here the repeller of shafts;–‘The Ekaviṁśa-stoma may uphold thee on earth!’ for by the twenty-one-fold hymn this one is indeed upheld on earth;–‘The Nishkevalya-śastra may support thee for steadiness’ sake!’ for by the Nishkevalya-śastra it is indeed supported on earth for steadiness’ sake;–’the Vairāja-sāman for stability in the air!’ for by the Vairāja-sāman it is indeed established in the air;–‘May the R̥shis, the first-born, magnify thee among the gods . . .!’ the import of this has been explained.

०९

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ मध्ये[[!!]]॥
(ध्ये᳘ ऽधि) अ᳘धिपत्न्यसि बृहती दिगित्य᳘धिपत्नी ह ना᳘मैषा᳘ बृहती दिग्वि᳘ श्वे ते देवा ऽअ᳘धिपतय ऽइ᳘ति व्वि᳘श्वे हैत᳘स्यै दिशो᳘ देवा ऽअ᳘धिपतयो बृ᳘हस्प᳘तिर्हेतीनां᳘ प्रतिधर्ते᳘ति बृ᳘हस्प᳘तिर्हैवा᳘त्र हेतीनां᳘ प्रतिधर्ता᳘ त्रिणवत्रयस्त्रिᳫँ᳭शौ᳘ त्वा स्तो᳘मौ पृथिव्या᳘ᳫँ᳘ श्रयतामि᳘ति त्रिणवत्रयस्त्रिᳫँ᳭शा᳘भ्याᳫँ᳭ हैषा स्तो᳘माभ्यां पृथिव्या᳘ᳫँ᳘ श्रिता᳘ व्वैश्वदेवाग्निमारुते᳘ ऽउक्थे ऽअ᳘व्यथायै स्तभ्नीतामि᳘ति व्वैश्वदेवाग्निमारुता᳘भ्ताᳫँ᳭ है᳘षोक्था᳘भ्याम᳘व्यथायै पृथिव्या᳘ᳫँ᳘ स्तब्धा᳘ शाक्वररैवते सा᳘मनी प्र᳘तिष्ठित्या ऽअन्त᳘रिक्ष ऽइ᳘ति शाक्वररैवता᳘भ्याᳫँ᳭ हैषा सा᳘मभ्यां प्र᳘तिष्ठिता ऽन्त᳘रिक्ष ऽऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ मध्ये[[!!]]॥
(ध्ये᳘ ऽधि) अ᳘धिपत्न्यसि बृहती दिगित्य᳘धिपत्नी ह ना᳘मैषा᳘ बृहती दिग्वि᳘ श्वे ते देवा ऽअ᳘धिपतय ऽइ᳘ति व्वि᳘श्वे हैत᳘स्यै दिशो᳘ देवा ऽअ᳘धिपतयो बृ᳘हस्प᳘तिर्हेतीनां᳘ प्रतिधर्ते᳘ति बृ᳘हस्प᳘तिर्हैवा᳘त्र हेतीनां᳘ प्रतिधर्ता᳘ त्रिणवत्रयस्त्रिᳫँ᳭शौ᳘ त्वा स्तो᳘मौ पृथिव्या᳘ᳫँ᳘ श्रयतामि᳘ति त्रिणवत्रयस्त्रिᳫँ᳭शा᳘भ्याᳫँ᳭ हैषा स्तो᳘माभ्यां पृथिव्या᳘ᳫँ᳘ श्रिता᳘ व्वैश्वदेवाग्निमारुते᳘ ऽउक्थे ऽअ᳘व्यथायै स्तभ्नीतामि᳘ति व्वैश्वदेवाग्निमारुता᳘भ्ताᳫँ᳭ है᳘षोक्था᳘भ्याम᳘व्यथायै पृथिव्या᳘ᳫँ᳘ स्तब्धा᳘ शाक्वररैवते सा᳘मनी प्र᳘तिष्ठित्या ऽअन्त᳘रिक्ष ऽइ᳘ति शाक्वररैवता᳘भ्याᳫँ᳭ हैषा सा᳘मभ्यां प्र᳘तिष्ठिता ऽन्त᳘रिक्ष ऽऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ म᳘ध्ये॥
अ᳘धिपत्न्यसि बृहती दिगित्य᳘धिपत्नी ह ना᳘मैषा᳘ बृहती दिग्वि᳘श्वे ते देवा अ᳘धिपतय इ᳘ति वि᳘श्वे हैत᳘स्यै दिशो᳘ देवा अ᳘धिपतयो बृ᳘हस्प᳘तिर्हेतीना᳘ प्रतिधर्ते᳘ति बृ᳘हस्प᳘तिर्हैवा᳘त्र हेतीना᳘म् प्रतिधर्ता᳘ त्रिणवत्रयस्त्रिंशौ᳘ त्वा स्तो᳘मौ पृथिव्यां᳘ श्रयतामि᳘ति त्रिणवत्रयस्त्रिंशा᳘भ्याᳫं हैषा स्तो᳘माभ्याम् पृथिव्यां᳘ श्रिता᳘ वैश्वदेवाग्निमारुते᳘ उक्थे अ᳘व्यथायै स्तभ्नीतामि᳘ति वैश्वदेवाग्निमारुता᳘भ्याᳫं हैॗषोक्था᳘भ्याम᳘व्यथायै पृथिव्या᳘ᳫं᳘ स्तब्धा᳘ शाक्वररैवते सा᳘मनी प्र᳘तिष्ठित्या अन्त᳘रिक्ष इ᳘ति शाक्वररैवता᳘भ्याᳫं हैषा सा᳘मभ्याम् प्र᳘तिष्ठितान्त᳘रिक्ष ऋ᳘षयस्त्वा प्रथमजा᳘ देवेष्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

(५) अथ मध्ये । “अधिपत्न्यसि बृहती दिक्”- इति । अधिपत्नी ह नामैषा बृहती दिक् । “विश्वे ते देवा अधिपतयः”- इति । विश्वे हैतस्यै दिशो देवा अधिपतयः । “बृहस्पतिर्हेतीनां प्रतिधर्ता”-इति । बृहस्पतिर्हैवात्र हेतीनां प्रतिधर्ता । “त्रिणवत्रयस्त्रिंशो त्वा स्तोमौ पृथिव्यां श्रयताम्”- इति । त्रिणवत्रयस्त्रिंशाभ्यां हैषा स्तोमाभ्यां पृथिव्यां श्रिता । “वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नीताम्”- इति । वैश्वदेवाग्निमारुताभ्यां हैषोक्थाभ्यामव्यथायै पृथिव्यां स्तब्धा । “शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्षे”- इति । शाक्वररैवताभ्यां हैषा सामभ्यां प्रतिष्ठिता ऽन्तरिक्षे । “ऋषयस्त्वा प्रथमजा देवेषु”- (वा. सं. १५ । १४) इति । तस्योक्तो बन्धुः ॥ ९ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. Then in the middle (he lays down one 14), with (Vāj. S. XV, 14), ‘The sovereign mistress thou art, the Great region!’ for the sovereign mistress that great region indeed is;–’the All-gods are

thine overlords,’ for the All-gods are indeed the overlords of that region;–‘Br̥haspati is the repeller of shafts,’ for Br̥haspati, indeed, is here the repeller of shafts;–‘The Triṇava- and Trayastriṁśa-stomas may uphold thee on earth;’–for by the twenty-nine-fold and thirty-three-fold hymns this one is indeed upheld on earth;–‘The Vaiśvadeva- and Āgnimāruta-śastras may support thee for steadiness’ sake!’ for by the Vaiśvadeva- and Āgnimāruta-śastras it is indeed supported on earth for steadiness’ sake;–‘May the R̥shis, the first-born, magnify thee among the gods . . .!’ the import of this has been explained.

१०

विश्वास-प्रस्तुतिः

(रे) एता᳘वान्वै स᳘र्व्वो यज्ञः᳘॥
(ज्ञो᳘) यज्ञ᳘ ळ्उ देवा᳘नामात्मा᳘ यज्ञ᳘मेव त᳘द्देवा᳘ ळ्आत्मा᳘नं कृ᳘त्वैत᳘स्मिन्ना᳘के स्वर्गे᳘ लो᳘के ऽसीदंस्त᳘थै᳘वैतद्य᳘जमानो यज्ञ᳘मे᳘वात्मा᳘नं कृ᳘त्वैत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥

मूलम् - श्रीधरादि

(रे) एता᳘वान्वै स᳘र्व्वो यज्ञः᳘॥
(ज्ञो᳘) यज्ञ᳘ ळ्उ देवा᳘नामात्मा᳘ यज्ञ᳘मेव त᳘द्देवा᳘ ळ्आत्मा᳘नं कृ᳘त्वैत᳘स्मिन्ना᳘के स्वर्गे᳘ लो᳘के ऽसीदंस्त᳘थै᳘वैतद्य᳘जमानो यज्ञ᳘मे᳘वात्मा᳘नं कृ᳘त्वैत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥

मूलम् - Weber

एता᳘वान्वै स᳘र्वो यज्ञः᳟॥
यज्ञ᳘ उ देवा᳘नामात्मा᳘ यज्ञ᳘मेव त᳘द्देवा᳘ आत्मा᳘नं कृॗत्वैत᳘स्मिन्ना᳘के स्वर्गे᳘ लोॗके ऽसीदंस्त᳘थैॗवैतद्य᳘जमानो यज्ञ᳘मेॗवात्मा᳘नं कृॗत्वैतस्मिन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥

मूलम् - विस्वरम्

एतावान्वै सर्वो यज्ञः । यज्ञ उ देवानामात्मा । यज्ञमेव तद्देवा आत्मानं कृत्वैतस्मिन्नाके स्वर्गे लोके ऽसीदन् । तथैवैतद्यजमानो यज्ञमेवात्मानं कृत्वैतस्मिन्नाके स्वर्गे लोके सीदति ॥ १० ॥

सायणः

एतावान्वै सर्वो यज्ञ इति । न च देवा नाकसदो ऽत्र कीर्त्तनीयाः । त्रिवृदादीनां यज्ञोपकरणानामेव कः प्रसङ्गः । सति चाज्ञे यावत एता दिगादयो यज्ञोपकरणनीव यद्युक्ताः स एतावानेव प्राधान्येन एतेष्वेवोपकरणान्तराणामन्तर्भावात् । कथं दिक्षु तावद्दिक्कान्युपकरणान्यन्तर्गतानि वस्वग्न्यादिषु च देवताः स्तोमेषु सामसु च स्तोत्राणि सामानि च उक्थेषु ना शस्त्राणि च प्राणेषु प्राणिनः सर्व इत्येव । ननु चात्र यजुरेव यज्ञोपकरणं नास्ति किमुच्यते- वाग्वै सर्वो यज्ञ इति । नैष दोषः । अन्यानि तु यज्ञोपकरणानि यजुषा निधेयत्वात् इत्युपादीयते यज्ञं साक्षादेवेदं प्रगृह्यते । तस्य किमभिधानेन प्रयोजनं यावत्तदेतदत्रैव यज्ञश्चित्तमिति नित्यस्यच तुष्ट्वामेधदर्शयति । ततश्चोपपन्नमेतदेतावानेव यज्ञ इति । ततः किमित्यत आह- यज्ञ इति । तद्देवानामात्मानं हितमात्मत्वेनाभिगीता आत्मयाजित्वात् ततश्चाधियज्ञं हि याजिताभ्यां ते देवा अधिदेवमपि यज्ञमेवात्मानं कृत्वा एतस्मिन् नाके स्वर्गे लोके ऽसीदन्, यज्ञरूपेणैव देवत्वस्य प्रतिलब्धत्वात् । यज्ञमात्मानं कृत्वा ऽसीदन्निति । चक्रवते तद्दर्शयति । यथैव प्राच्यादयो दिश इष्टकाशरीरा इन्द्रादी ( ) ते एव ( ) पूर्व हित्वास इष्टकात्मकत्वादतिरिक्तमधुना तेषामेव यज्ञात्मकत्वमुच्यते । तेनेष्टकानां ( ) यज्ञोपकरणात्मकत्वमस्तीति गम्यते ॥ १० ॥

Eggeling
  1. Thus much, indeed, is the whole sacrifice, and the sacrifice is the self of the gods: it was after making the sacrifice their own self that the gods seated themselves on that firmament, in the world of heaven; and in like manner does the Sacrificer now, after making the sacrifice his own self, seat himself on that firmament, in the world of heaven.

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प᳘ञ्चचूडा ऽउ᳘पदधाति॥
यज्ञो वै᳘ नाकस᳘दो यज्ञ᳘ ऽउ ऽएव प᳘ञ्चचूडास्तद्य᳘ ऽइमे᳘ चत्वा᳘र ऽऋत्वि᳘जो गृह᳘पतिपञ्चमास्ते᳘ नाकस᳘दो हो᳘त्राः प᳘ञ्चचूडा ऽअ᳘तिरिक्तं वै तद्यद्धो᳘त्रा य᳘दु वा ऽअ᳘तिरिक्तं चू᳘डः स तद्यत्पञ्चा᳘तिरिक्तास्त᳘स्मात्प᳘ञ्चचूडाः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प᳘ञ्चचूडा ऽउ᳘पदधाति॥
यज्ञो वै᳘ नाकस᳘दो यज्ञ᳘ ऽउ ऽएव प᳘ञ्चचूडास्तद्य᳘ ऽइमे᳘ चत्वा᳘र ऽऋत्वि᳘जो गृह᳘पतिपञ्चमास्ते᳘ नाकस᳘दो हो᳘त्राः प᳘ञ्चचूडा ऽअ᳘तिरिक्तं वै तद्यद्धो᳘त्रा य᳘दु वा ऽअ᳘तिरिक्तं चू᳘डः स तद्यत्पञ्चा᳘तिरिक्तास्त᳘स्मात्प᳘ञ्चचूडाः॥

मूलम् - Weber

अ᳘थ प᳘ञ्चचूडा उ᳘पदधाति॥
यज्ञो वै᳘ नाकस᳘दो यज्ञ᳘ उ एव प᳘ञ्चचूडास्तद्य᳘ इमे᳘ चत्वा᳘र ऋत्वि᳘जो गृहपतिपञ्चमास्ते᳘ नाकस᳘दो हो᳘त्राः प᳘ञ्चचूडा अ᳘तिरिक्तं वै तद्यद्धो᳘त्रा य᳘दु वा अ᳘तिरिक्तं चू᳘डः स तद्यत्पञ्चा᳘तिरिक्ता त᳘स्मात्प᳘ञ्चचूडाः॥

मूलम् - विस्वरम्

अथ पञ्चचूडेष्टकोपधानम् ।

अथ पञ्चचूडा उपदधाति । यज्ञो वै नाकसदः, यज्ञ उ पञ्चचूडाः । तद् य इमे चत्वार ऋत्विजो गृहपतिपञ्चमाः- ते नाकसदः । होत्राः पञ्चचूडाः । अतिरिक्तं वै तद्- यद्धोत्राः । यदु वा अतिरिक्तं- चूडः सः । तद्यत्पञ्चातिरिक्ताः- तस्मात्पञ्चचूडाः ॥ ११ ॥

सायणः

अथ पञ्चचूडा इति । अथ पञ्चचूडा नामेष्टका उपदधाति 15 । इत्येतदत एव उपधत्ते न तत्र आद्याभिश्चतसृभिः कण्डिकाभिरन्त्याभ्यां च द्वाभ्यां नाकसदामपि किञ्चिदुच्यते । ‘यज्ञो वै नाकसद’ इति । संख्यासामान्यमुपपादयितुमुपन्यासः । गृहपतिरिति यजमान एवात्राभिप्रेतः स हि यज्ञ गृहीणा ( ) दिक्षुः एतदक्षिसाहचर्यात् ( ) तावते च यजमान इति वा उपहाराद्धोत्राः प्रशास्त्रादयः पञ्चमे पुनरपत्ये शब्दानुग्रहेषु सबलं कुर्वन्ति ततो ऽभिप्रेताः कुतस्तद्यत्पञ्चातिरिक्ता इति वचनादितरे ऋत्विजस्तत्रैवान्तर्गता इत्यभिप्रायः । अतो ऽतिरिक्तं वै तद्यद्धोत्रा इति पूर्वेभ्यः पुरुषेभ्यो बहिरङ्गत्वादतिरिक्ता यदृत्विजस्तत्रैवान्तर्गताः अतिरिक्तं कायस्य वै (ताततवर्जितं) स चूडः केशपुञ्जस्ततश्चातिरिक्तसामान्याद्धोत्रा यज्ञस्य चूडा अभूत्, ‘तद्यत्पञ्चातिरिक्ता’ इति समानाधिकरणं समासं दर्शयति- तस्मात् पञ्चचूडा इति । चूडशब्दस्योभयलिङ्गनिर्देशः । अथ च इष्टकासु पञ्चचूडाशब्दस्य निरूढस्यैव व्युत्पत्तिमात्रमेतदिति द्रष्टव्यम् ॥ ११ ॥ १२ ॥

Eggeling
  1. He then lays down the Pañcacūḍā (‘five-knobbed’) bricks; for the Nākasads are (parts of) the sacrifice, and so indeed are the Pañcacūḍās the sacrifice: the Nākasads are these four sacrificial priests together with the Sacrificer as the fifth; and the Pañcacūḍās are the Hotrās 16. Now the Hotrās are additional (to the officiating staff, or to the Hotr̥) and whatever is additional is an excrescence (cūḍa); and hence, as they are five additional (bricks), they are (called) Pañcacūḍās 17.

१२

विश्वास-प्रस्तुतिः

(०) य᳘द्वेव᳘ नाकसत्पञ्चचूडा᳘ ऽउपद᳘धाति॥
(त्या) आत्मा वै᳘ नाकस᳘दो मिथुनं प᳘ञ्चचूडा ऽअर्ध᳘मु हैत᳘दात्म᳘नो य᳘न्मिथुनं᳘ यदा वै᳘ सह᳘ मिथुनेना᳘थ सर्व्वो᳘ ऽथ कृत्स्नः᳘ कृत्स्न᳘तायै॥

मूलम् - श्रीधरादि

(०) य᳘द्वेव᳘ नाकसत्पञ्चचूडा᳘ ऽउपद᳘धाति॥
(त्या) आत्मा वै᳘ नाकस᳘दो मिथुनं प᳘ञ्चचूडा ऽअर्ध᳘मु हैत᳘दात्म᳘नो य᳘न्मिथुनं᳘ यदा वै᳘ सह᳘ मिथुनेना᳘थ सर्व्वो᳘ ऽथ कृत्स्नः᳘ कृत्स्न᳘तायै॥

मूलम् - Weber

य᳘द्वेव᳘ नाकसत्पञ्चचूडा᳘ उपद᳘धाति॥
आत्मा वै᳘ नाकस᳘दो मिथुनम् प᳘ञ्चचूडा अर्ध᳘मु हैत᳘दात्म᳘नो य᳘न्मिथुनं यदा वै सह᳘ मिथुनेना᳘थ सर्वो᳘ ऽथ कृत्स्नः᳘ कृत्स्न᳘तायै॥

मूलम् - विस्वरम्

यद्वेव नाकसत्पञ्चचूडा उपदधाति । आत्मा वै नाकसदो, मिथुनं पञ्चचूडाः । अर्धमु हैतदात्मनो- यन्मिथुनम् । यदा वै सह मिथुनेन । अथ सर्वः । अथ कृत्स्नः । कृत्स्नतायै ॥ १२ ॥

सायणः

[व्याख्यानं एकादशे]

Eggeling
  1. And, again, as to why he lays down the Nākasad-Pañcacūḍās;–it is for the sake of completeness; for the Nākasads are the self, and the Pañcacūḍās the mate, and this, the mate, doubtless, is one half of the self; for when one is with his mate 18, then he is whole and complete.

१३

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ नाकसत्पञ्चचूडा᳘ ऽउपद᳘धाति॥
(त्या) आत्मा वै᳘ नाकस᳘दः प्रजा प᳘ञ्चचूडा ऽअ᳘तिरिक्तं वै त᳘दात्म᳘नो य᳘त्प्रजा य᳘दु वा ऽअ᳘तिरिक्तं चू᳘डः स तद्यत्पञ्चा᳘तिरिक्तास्त᳘स्मात्प᳘ञ्चचूडाः॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ नाकसत्पञ्चचूडा᳘ ऽउपद᳘धाति॥
(त्या) आत्मा वै᳘ नाकस᳘दः प्रजा प᳘ञ्चचूडा ऽअ᳘तिरिक्तं वै त᳘दात्म᳘नो य᳘त्प्रजा य᳘दु वा ऽअ᳘तिरिक्तं चू᳘डः स तद्यत्पञ्चा᳘तिरिक्तास्त᳘स्मात्प᳘ञ्चचूडाः॥

मूलम् - Weber

य᳘द्वेव᳘ नाकसत्पञ्चचूडा उपद᳘धाति॥
आत्मा वै᳘ नाकस᳘दः प्रजा प᳘ञ्चचूडा अ᳘तिरिक्तं वै त᳘दात्म᳘नो य᳘त्प्रजा य᳘दु वा अ᳘तिरिक्तं चू᳘डः स तद्यत्पञ्चा᳘तिरिक्तास्त᳘स्मात्प᳘ञ्चचूडाः॥

मूलम् - विस्वरम्

यद्वेव नाकसत्पञ्चचूडा उपदधाति । आत्मा वै नाकसदः, प्रजा पञ्चचूडाः । अतिरिक्तं वै तदामनो- यत्प्रजा । यदुवा अतिरिक्तं चूडः सः । तद्यत्पञ्चातिरिक्ताः- तस्मात्पञ्चचूडाः ॥ १३ ॥

सायणः

यद्वेव नाकसत्पञ्चचूडा इति । आत्मा यजमानस्य शरीरं पुनः आत्मा स चात्माधिदैवादग्निमेव पञ्चमाध्यायस्थितमिति पञ्चनाकसदो मिथुनमस्याधिदेविकमासर्त्वादिकसंग्रहेण पञ्चैवावस्थिता इति । तदात्मिकाः पञ्चचूडा अपि वै नाकसदः प्रजापतिनैवायं पञ्च इत्यभिप्रायः ॥ १३ ॥ १४ ॥

Eggeling
  1. And, again, as to why he lays down the Nākasad-Pañcacūḍās;–the Nākasads are the self, and the Pañcacūḍās are offspring (or subjects) 19. Now progeny is something additional to the self, and whatever is additional is an excrescence; and hence, as they are five additional ones, they are (called) Pañcacūḍās.

१४

विश्वास-प्रस्तुतिः

(०) य᳘द्वेव᳘ नाकसत्पञ्चचूडा᳘ ऽउपद᳘धाति॥
दि᳘शो वै᳘ नाकस᳘दो दि᳘श ऽउ ऽएव प᳘ञ्चचूडास्तद्या᳘ ऽअमुष्मादादित्या᳘दर्व्वा᳘च्यः[[!!]] प᳘ञ्च दि᳘शस्ता᳘ नाकस᳘दो याः प᳘राच्यस्ताः प᳘ञ्चचूडा ऽअ᳘तिरिक्ता वै ता दि᳘शो या᳘ ऽअमु᳘ष्मादादित्यात्प᳘राच्यो य᳘दु वा ऽअ᳘तिरिक्तं चू᳘डः स तद्यत्पञ्चा᳘तिरिक्तास्त᳘स्मात्प᳘ञ्चचूडाः॥

मूलम् - श्रीधरादि

(०) य᳘द्वेव᳘ नाकसत्पञ्चचूडा᳘ ऽउपद᳘धाति॥
दि᳘शो वै᳘ नाकस᳘दो दि᳘श ऽउ ऽएव प᳘ञ्चचूडास्तद्या᳘ ऽअमुष्मादादित्या᳘दर्व्वा᳘च्यः[[!!]] प᳘ञ्च दि᳘शस्ता᳘ नाकस᳘दो याः प᳘राच्यस्ताः प᳘ञ्चचूडा ऽअ᳘तिरिक्ता वै ता दि᳘शो या᳘ ऽअमु᳘ष्मादादित्यात्प᳘राच्यो य᳘दु वा ऽअ᳘तिरिक्तं चू᳘डः स तद्यत्पञ्चा᳘तिरिक्तास्त᳘स्मात्प᳘ञ्चचूडाः॥

मूलम् - Weber

य᳘द्वेव᳘ नाकसत्पञ्चचूडा᳘ उपद᳘धाति॥
दि᳘शो वै᳘ नाकस᳘दो दि᳘श उ एव प᳘ञ्चचूडास्तद्या᳘ अमु᳘ष्मादादित्या᳘दर्वा᳘च्यः प᳘ञ्च दि᳘शस्ता᳘ नाकस᳘दो याः प᳘राच्यस्ताः प᳘ञ्चचूडा अ᳘तिरिक्ता वै ता दि᳘शो या᳘ अमु᳘ष्मादादित्यात्प᳘राच्यो य᳘दु वा अ᳘तिरिक्तं चू᳘डः स तद्यत्पञ्चा᳘तिरिक्तास्त᳘स्मात्प᳘ञ्चचूडाः॥

मूलम् - विस्वरम्

यद्वेव नाकसत्पञ्चचूडा उपदधाति । दिशो वै नाकसदः, दिश उ एव पञ्चचूडाः । तद्या अमुष्मादादित्यादर्वाच्यः पञ्च दिशः-ता नाकसदः । याः पराच्यः- ताः पञ्चचूडाः । अतिरिक्ता वै ता दिशः- या अमुष्मादादित्यात्पराच्यः । यदु वा अतिरिक्तं- चूडः सः । तद्यत्पञ्चातिरिक्ताः- तस्मात्पञ्चचूडाः ॥ १४ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. And, again, as to why he lays down the Nākasad-Pañcacūḍās;–the Nākasads are the regions, and the Pañcacūḍās, too, are the regions: what five regions there are on this side of yonder sun, they are the Nākasads, and those which are on the other side are the Pañcacūḍās. Now those regions which are on the other side of yonder sun are additional, and what is additional is an excrescence (cūḍa): and hence, as they are five additional ones, they are called Pañcacūḍās.

१५

विश्वास-प्रस्तुतिः

(०) य᳘द्वेव प᳘ञ्चचूडा ऽउपद᳘धाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइमाल्ँ᳘लोका᳘नुप᳘रिष्टाद्र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएता᳘नेषां लोका᳘नामुप᳘रिष्टाद्गोप्तॄ᳘नकुर्व्वत य᳘ ऽएते᳘ हेत᳘यश्च प्र᳘हेतयश्च त᳘थै᳘वैतद्य᳘जमान ऽएता᳘नेषां᳘ लोका᳘नामुप᳘रिष्टाद्गोप्तॄ᳘न्कुरुते य᳘ ऽएते᳘ हेत᳘यश्च प्र᳘हेतयश्च॥

मूलम् - श्रीधरादि

(०) य᳘द्वेव प᳘ञ्चचूडा ऽउपद᳘धाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइमाल्ँ᳘लोका᳘नुप᳘रिष्टाद्र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएता᳘नेषां लोका᳘नामुप᳘रिष्टाद्गोप्तॄ᳘नकुर्व्वत य᳘ ऽएते᳘ हेत᳘यश्च प्र᳘हेतयश्च त᳘थै᳘वैतद्य᳘जमान ऽएता᳘नेषां᳘ लोका᳘नामुप᳘रिष्टाद्गोप्तॄ᳘न्कुरुते य᳘ ऽएते᳘ हेत᳘यश्च प्र᳘हेतयश्च॥

मूलम् - Weber

य᳘द्वेव प᳘ञ्चचूडा उपद᳘धाति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इमां᳘लोका᳘नुप᳘रिष्टाद्र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ एता᳘नेषां लोका᳘नामुप᳘रिष्टाद्गोप्तॄ᳘नकुर्वत य᳘ एते᳘ हेत᳘यश्च प्र᳘हेतयश्च त᳘थैॗवैतद्य᳘जमान एता᳘नेषां लोका᳘नामुप᳘रिष्टाद्गोप्तॄ᳘न्कुरुते 20 य᳘ एते᳘ हेत᳘यश्च प्र᳘हेतयश्च॥

मूलम् - विस्वरम्

यद्वेव पञ्चचूडा उपदधाति । एतद्वै देवा अबिभयुः- यद्वै न इमाल्ँ लोकानुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरिति । त एतानेषां लोकानामुपरिष्टाद्गोप्तॄनकुर्वत- य एते हेतयश्च प्रहेतयश्च । तथैवैतद्यजमान एतानेषां लोकानामुपरिष्टाद्गोप्तॄन्कुरुते- य एते हेतयश्च प्रहेतयश्च ॥ १५ ॥

सायणः

यद्वेव पञ्चचूडा इति । ननु च यदि य एते हेतयश्च प्रहेतयश्च दङ्क्ष्णवः पशव इत्यादयस्ताः पञ्चचूडात्मका एषां लोकानामुपरिष्टाद् गोप्तॄनकुर्वत । ततः हरिकेशादीनां किमर्थमुपादानम् । नैष दोषः । स्वामिभिरधिष्ठिता एव (मेनाडां आभणाभिस्यते) गोपायितुं सामर्थ्यं नान्यथेति । याः स्वामिका एवोपधीयंते न केवलाः पूज्यतमत्वात् स्वामिनं एव गोप्तार इत्युक्तम् । (स सेरस्ता) यद्वै सेनायां समितौ चेति लिङ्गवचनप्रत्युपस्थिता । समितौ च स्थल मेलके सन्तो दङ्क्ष्णवः पशवो दङ्क्ष्णवन्तीति दङ्क्ष्णवः पशवो जन्मनः (स्पर्द्धाद्यद्वै सेनायां चेन्मंत्रेण सेनायां चेति लिङ्गवचनात्पौरुषेयो । वधः पुरुषेभ्यो हितः चूडाः पशवो दयान्मोन्यावबन्धनः पश्यन्ति) तदा पुरुषेभ्यो हितः पशवो यदा पुरुषाणां क्षेमो भवति । पशून् पुरुषा उपयुञ्जते । नैयायिकास्तु “पुरुषेभ्यो हितत्वञ्च पुरुषाणामयं वध” इत्यस्मिन्नर्थे पौरुषेयशब्दं व्युत्पादयन्ति तेषां तत्र विरोधः प्राप्नोति तस्मात् पुरुषेभ्यो हित इत्ययमेवार्थो युक्तः । एवं तु वर्ण्यमाने वधक्रिया ऽऽयुधं हेतिरित्युक्तं स्यात् । उत्तरत्र रक्षांसि प्रहेतिरिति प्राणिः प्रहेतयश्च वक्ष्यन्ते भवनसादृश्यं स्यात् तस्माद्वचनादर्थत एवान्यो ऽन्यं हन्तारो लक्ष्यन्त इति वक्तव्यम् । ततो ऽस्मिन् ततः (अमखदिरधर्माणां) एषां रक्षःप्रभृतीनां जम्भे दधामीति इत्येतस्माद्वचनादुत्तरकाले तद्द्वेष्टा तस्मिन् देशे नास्ति न भवति तदेव प्रवचनार्थः ॥ १५ ॥ १६ ॥

Eggeling
  1. And, again, as to why he lays down the Pañcacūḍās. Now, at that time the gods were afraid lest the fiends, the Rakshas, should destroy

these worlds of theirs from above. They put those protectors over these worlds, to wit, those shafts and missiles; and in like manner does the Sacrificer now put those protectors over these worlds, to wit, those shafts and missiles.

१६

विश्वास-प्रस्तुतिः

स᳘ पुर᳘स्तादु᳘पदधाति॥
(त्य) अयं᳘ पुरो ह᳘रिकेश ऽइ᳘त्यग्निर्व्वै᳘ पुरस्तद्यत्तमा᳘ह पुर ऽइ᳘ति प्रा᳘ञ्च᳘ᳫँ᳘ ह्यग्नि᳘मुद्ध᳘रन्ति[[!!]] प्रा᳘ञ्चमुपच᳘रन्त्य᳘थ यद्ध᳘रिकेश ऽइत्या᳘ह ह᳘रिरिव᳘ ह्य᳘ग्निः सू᳘र्यरश्मिरि᳘ति सू᳘र्यस्येव᳘ ह्यग्ने᳘[[!!]] रश्म᳘यस्त᳘स्य रथगृत्स᳘श्च र᳘थौजाश्च सेनानीग्राम᳘ण्यावि᳘ति व्वा᳘सन्तिकौ ता᳘वृतू᳘ पुञ्जिकस्थला᳘ च क्रतुस्थला᳘ चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिः से᳘ना च तु ते स᳘मितिश्च दङ्क्ष्ण᳘वः पश᳘वो हेतिः पौ᳘रुषेयो व्वधः प्र᳘हेतिरि᳘ति यद्वै से᳘नायां च स᳘मितौ च ऽर्तीय᳘न्ते दङ्क्ष्ण᳘वः पश᳘वो हेतिः पौ᳘रुषेयो व्वधः प्र᳘हेतिरि᳘ति य᳘द᳘न्यो ऽन्यं घ्न᳘न्ति स पौ᳘रुषेयो व्वधः प्र᳘हेतिस्ते᳘भ्यो न᳘मो ऽअस्त्वि᳘ति ते᳘भ्य ऽएव न᳘मस्करोति ते᳘ नो मृडयन्त्वि᳘ति त᳘ ऽए᳘वास्मै मृडयन्ति ते यं᳘ द्विष्मो य᳘श्च नो द्वे᳘ष्टि त᳘मेषां ज᳘म्भे दध्म ऽइ᳘ति य᳘मेव द्वे᳘ष्टि य᳘श्चैनं द्वे᳘ष्टि त᳘मेषां ज᳘म्भे दधात्यमु᳘मेषां ज᳘म्भे दधामी᳘ति ह ब्रूयाद्यं᳘ द्विष्यात्ततो᳘ ऽह त᳘स्मिन्न पु᳘नरस्त्य᳘पि तन्ना᳘द्रियेत स्वयं निर्दिष्टो᳘ ह्येव स य᳘मेवंविद् द्वेष्टि॥

मूलम् - श्रीधरादि

स᳘ पुर᳘स्तादु᳘पदधाति॥
(त्य) अयं᳘ पुरो ह᳘रिकेश ऽइ᳘त्यग्निर्व्वै᳘ पुरस्तद्यत्तमा᳘ह पुर ऽइ᳘ति प्रा᳘ञ्च᳘ᳫँ᳘ ह्यग्नि᳘मुद्ध᳘रन्ति[[!!]] प्रा᳘ञ्चमुपच᳘रन्त्य᳘थ यद्ध᳘रिकेश ऽइत्या᳘ह ह᳘रिरिव᳘ ह्य᳘ग्निः सू᳘र्यरश्मिरि᳘ति सू᳘र्यस्येव᳘ ह्यग्ने᳘[[!!]] रश्म᳘यस्त᳘स्य रथगृत्स᳘श्च र᳘थौजाश्च सेनानीग्राम᳘ण्यावि᳘ति व्वा᳘सन्तिकौ ता᳘वृतू᳘ पुञ्जिकस्थला᳘ च क्रतुस्थला᳘ चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिः से᳘ना च तु ते स᳘मितिश्च दङ्क्ष्ण᳘वः पश᳘वो हेतिः पौ᳘रुषेयो व्वधः प्र᳘हेतिरि᳘ति यद्वै से᳘नायां च स᳘मितौ च ऽर्तीय᳘न्ते दङ्क्ष्ण᳘वः पश᳘वो हेतिः पौ᳘रुषेयो व्वधः प्र᳘हेतिरि᳘ति य᳘द᳘न्यो ऽन्यं घ्न᳘न्ति स पौ᳘रुषेयो व्वधः प्र᳘हेतिस्ते᳘भ्यो न᳘मो ऽअस्त्वि᳘ति ते᳘भ्य ऽएव न᳘मस्करोति ते᳘ नो मृडयन्त्वि᳘ति त᳘ ऽए᳘वास्मै मृडयन्ति ते यं᳘ द्विष्मो य᳘श्च नो द्वे᳘ष्टि त᳘मेषां ज᳘म्भे दध्म ऽइ᳘ति य᳘मेव द्वे᳘ष्टि य᳘श्चैनं द्वे᳘ष्टि त᳘मेषां ज᳘म्भे दधात्यमु᳘मेषां ज᳘म्भे दधामी᳘ति ह ब्रूयाद्यं᳘ द्विष्यात्ततो᳘ ऽह त᳘स्मिन्न पु᳘नरस्त्य᳘पि तन्ना᳘द्रियेत स्वयं निर्दिष्टो᳘ ह्येव स य᳘मेवंविद् द्वेष्टि॥

मूलम् - Weber

स᳘ पुर᳘स्तादु᳘पदधाति॥
अय᳘म् पुरो ह᳘रिकेश इ᳘त्यग्निर्वै᳘ पुरस्तद्यत्तमा᳘ह पुर इ᳘ति प्रा᳘ञ्चᳫं ह्य᳘ग्नि᳘मुद्ध᳘रन्ति प्रा᳘ञ्चमुपच᳘रन्त्य᳘थ यद्ध᳘रिकेश इत्या᳘ह ह᳘रिरिव ह्य᳘ग्निः सू᳘र्यरश्मिरि᳘ति सू᳘र्यस्येव ह्य᳘ग्ने᳘ रश्म᳘यस्त᳘स्य रथगृत्स᳘श्च र᳘थौजाश्च सेनानीग्रामॗण्यावि᳘ति वा᳘सन्तिकौ ता᳘वृतू᳘ पुञ्जिकस्थला᳘ च क्रतुस्थला᳘ चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिः से᳘ना च तु ते स᳘मितिश्च दङ्क्ष्ण᳘वः पश᳘वो हेतिः पौ᳘रुषेयो वधः प्र᳘हेतिरि᳘ति यद्वै से᳘नायां च स᳘मितौ चऽर्तीय᳘न्ते दङ्क्ष्ण᳘वः पश᳘वो हेतिः पौ᳘रुषेयो वधः प्र᳘हेतिरि᳘ति य᳘दॗन्यो ऽन्यं घ्न᳘न्ति स पौ᳘रुषेयो वधः प्रहेतिस्ते᳘भ्यो न᳘मो अस्त्वि᳘ति 21 ते᳘भ्य एव न᳘मस्करोति ते᳘नो मृडयन्त्वि᳘ति त᳘ एॗवास्मै मृडयन्ति ते यं᳘ द्विष्मो य᳘श्च नो द्वे᳘ष्टि त᳘मेषां ज᳘म्भे दध्म इ᳘ति य᳘मेव द्वे᳘ष्टि य᳘श्चैनं द्वे᳘ष्टि त᳘मेषां ज᳘म्भे दधात्यमु᳘मेषां ज᳘म्भे दधामी᳘ति ह ब्रूयाद्यं᳘ द्विष्यात्ततो᳘ ऽह त᳘स्मिन्न पु᳘नरस्त्य᳘पि तन्ना᳘द्रियेत स्वयंनिर्दिष्टोॗ ह्येव स य᳘मेवंविद्द्वे᳘ष्टि॥

मूलम् - विस्वरम्

(१) स पुरस्तादुपदधाति । “अयं पुरो हरिकेशः”- इति । अग्निर्वै पुरः । तद् यत्तमाह- पुर इति । प्राञ्चं ह्यग्निमुद्धरन्ति, प्राञ्चमुपचरन्ति । अथ यद्धरिकेश इत्याह- हरिरिव ह्यग्निः । “सूर्यरश्मिः”- इति । सूर्यस्येव ह्यग्ने रश्मयः । “तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्यौ”- इति । वासन्तिकौ तावृतू । “पुञ्जिकस्थला च क्रतुस्थला चाप्सरसौ”- इति । दिक् चोपदिशा चेति ह स्माह- माहित्थिः । सेना च तु ते समितिश्च । “दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिः”- इति । यद्वै सेनायां च समितौ च ऽर्तीयन्ते- ते दङ्क्ष्णवः पशवः । हेतिः पौरुषेयो, वधः प्रहेतिरिति । यदन्यो ऽन्यं घ्नन्ति- स पौरुषेयो वधः प्रहेतिः । “तेभ्यो नमो अस्तु”- इति । तेभ्य एव नमस्करोति । “ते नो मृडयन्तु”- इति । त एवास्मै मृडयन्ति । “ते यं द्रिष्मो यश्च नो द्वेष्टि तमेषां जम्भे दध्मः”- (वा. सं. १५ । १५) इति । यमेव द्वेष्टि, यश्चैनं द्वेष्टि- तमेषां जम्भे दधाति । अमुमेषां जम्भे दधामीति ह ब्रूयात्- यं द्विष्यात् । तस्मिन्न पुनरस्ति । अपि तन्नाद्रियेत । स्वयं निर्दिष्टो ह्येव सः- यमेवंविद् द्वेष्टि ॥ १६ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. He places one in front, with (Vāj. S. XV, 15), ‘This one in front, the yellow-haired one,’–Agni, no doubt, is in front; and as ’to his saying of him as (being) ‘in front,’ it is because they take him out (of the Gārhapatya hearth) towards the front 22, and attend upon him towards the front; and as to why he calls him yellow-haired, it is because Agni is, as it were, yellow;–’the sun-rayed one,’ for Agni’s rays are like those of the sun;–‘and Rathagr̥tsa and Rathaujas 23, his commander and his chieftain,’ the two spring-months are these two;–‘and the nymphs Puñjikasthalā and Kratusthalā 24,’–‘quarter and intermediate quarter,’ said Māhitthi; but army and battle these two are;–‘mordacious beasts the shaft, manslaughter the missile,’–inasmuch as they fight in army and battle, those mordacious beasts are the shaft; ‘manslaughter the missile,’–inasmuch as they slay one another, manslaughter is the missile;–’to them be homage!’ it is to them he pays homage;–‘be they gracious unto us!’ they are indeed gracious to him;–‘he whom we hate, and he who hates us,

him we put into their jaws!’ whomsoever he hates, and whoever hates him, him he puts into their jaws. ‘N. N. I put into their jaws,’ thus he may name him whom he hates, and thereafter he will not be there any more. Let him disregard this also, for indeed marked out of himself is he whom he who knows this hates.

१७

विश्वास-प्रस्तुतिः

(ष्ट्य᳘) अ᳘थ दक्षिणतः᳘॥
(तो ऽयं᳘) अयं᳘ दक्षिणा᳘ व्विश्व᳘कर्मे᳘त्ययं वै᳘ व्वायु᳘र्व्विश्व᳘कर्मा᳘ यो ऽयं प᳘वत ऽएष᳘ हीदᳫँ᳭ स᳘र्व्वं करो᳘ति तद्यत्तमा᳘ह दक्षिणे᳘ति त᳘स्मादेष᳘ दक्षि᳘णैव भू᳘यिष्ठं व्वाति त᳘स्य रथस्वन᳘श्च र᳘थेचित्रश्च सेनानीग्राम᳘ण्यावि᳘ति ग्रै᳘ष्मौ ता᳘वृतू᳘ मेनका᳘ च सहजन्या᳘ चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिरिमे तु ते द्या᳘वापृथिवी᳘ यातुधा᳘ना हेती र᳘क्षाᳫँ᳭सि प्र᳘हेतिरि᳘ति यातुधा᳘ना हैवा᳘त्र हेती र᳘क्षाᳫँ᳭सि प्र᳘हेतिस्ते᳘भ्यो᳘ न᳘मो ऽअस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(ष्ट्य᳘) अ᳘थ दक्षिणतः᳘॥
(तो ऽयं᳘) अयं᳘ दक्षिणा᳘ व्विश्व᳘कर्मे᳘त्ययं वै᳘ व्वायु᳘र्व्विश्व᳘कर्मा᳘ यो ऽयं प᳘वत ऽएष᳘ हीदᳫँ᳭ स᳘र्व्वं करो᳘ति तद्यत्तमा᳘ह दक्षिणे᳘ति त᳘स्मादेष᳘ दक्षि᳘णैव भू᳘यिष्ठं व्वाति त᳘स्य रथस्वन᳘श्च र᳘थेचित्रश्च सेनानीग्राम᳘ण्यावि᳘ति ग्रै᳘ष्मौ ता᳘वृतू᳘ मेनका᳘ च सहजन्या᳘ चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिरिमे तु ते द्या᳘वापृथिवी᳘ यातुधा᳘ना हेती र᳘क्षाᳫँ᳭सि प्र᳘हेतिरि᳘ति यातुधा᳘ना हैवा᳘त्र हेती र᳘क्षाᳫँ᳭सि प्र᳘हेतिस्ते᳘भ्यो᳘ न᳘मो ऽअस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ दक्षिणतः᳟॥
अयं᳘ दक्षिणा᳘ विश्व᳘कर्मे᳘त्ययं वै᳘ वायु᳘र्विश्व᳘कर्माॗ यो ऽयम् प᳘वत एषॗ हीदᳫं स᳘र्वं करो᳘ति तद्यत्तमा᳘ह दक्षिणे᳘ति त᳘स्मादेष᳘ दक्षिॗणैव भू᳘यिष्ठं वाति त᳘स्य रथस्वन᳘श्च र᳘थेचित्रश्च सेनानीग्रामॗण्यावि᳘ति ग्रै᳘ष्मौ ता᳘वृतू᳘ मेनका᳘ च सहजन्या᳘ चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिरिमे तु ते द्या᳘वापृथिवी᳘ यातुधा᳘ना हेती र᳘क्षांसि प्र᳘हेतिरि᳘ति यातुधा᳘ना हैवा᳘त्र हेति: र᳘क्षांसि प्र᳘हेतिस्ते᳘भ्यो न᳘मो अस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

(२) अथ दक्षिणतः । “अयं दक्षिणा विश्वकर्मा”- इति । अयं वै वायुर्विश्वकर्मायो ऽयं पवते । एष हीदं सर्वं करोति । तद् यत्तमाह- दक्षिणेति । तस्मादेष दक्षिणैव भूयिष्ठं वाति । “तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्यौ”- इति । ग्रैष्मौ तावृतू । “मेनका च सहजन्या चाप्सरसौ”- इति । दिक्चोपदिशा चेति ह स्माह माहित्थिः । इमे तु ते द्यावापृथिवी । “यातुधाना हेती रक्षांसि प्रहेतिः”- इति । यातुधाना हैवात्र हेती रक्षांसि प्रहेतिः । “तेभ्यो नमो अस्तु”- (वा. सं. १५ । १६) इति । तस्योक्तो बन्धुः ॥ १७ ॥

सायणः

अथ दक्षिणत इति । प्रसन्नप्रायाः । ततः प्रभृति यज्ञं हिंसन्ति जन्म दक्षिणं वक्ष्यमाणं मन्यमानाः कथमसपत्न इति । एतमवस्थितं नाम रे ? वस्त्र ते तुभ्यं पशुहिरण्यादि दर्शयतीदं धनं तुभ्यं हे दीक्षितेत्येव युक्तिर्धानै संयतिः ततः किं धनवत्संयुक्तधनानां नाति संयतितश्च सम्यक् यन्ति वसुने धनाय तत्र तस्मिन् स संयद्वसुर्यज्ञः । आपो हैवात्रोत्तरस्यां दिशि हेतिः प्रहेतिः कथमापो हैवात्र अस्यामेव ह्युत्तरस्यां दिश्युत्तरायामनुष्णो वायुर्वाति ग्रीष्मर्तौः । अत्रैवोपदर्शितः शीतकाले न तथा ऽन्येषु शीतोष्णाभ्यां च प्राणिनो हन्यन्ते । पर्जन्यः अर्वाग्वसुः तौ हि पर्जन्यादर्वाग्वा पृथिव्यां वसु प्रजाभ्यः पशुभ्यः प्रदीयते कथं पुनर्वृष्टिरन्नमित्येतदाह- अन्नहेतुत्वाद्वृष्टिरन्नं (ततश्चावधिसुत्यतो) ह्यर्वाग्वसुः पर्जन्य इत्युपपत्तिः । अवस्फूर्जन् ज्ञातव्यपिपशु तदित्यर्थः ॥ १७-२० ॥

Eggeling
  1. Then on the right (south) side (he places one), with (Vāj. S. XV, 16), ‘This one on the right, the all-worker,’ the all-worker is this Vāyu (the wind) who blows here, for he makes everything here; and because he speaks of him as (being) ‘on the right,’ therefore it is in the south that he blows most;–‘and Rathasvana (chariot-noise) and Rathecitra (glorious on the chariot), his commander and chieftain;’ these are the two summer-months;–‘and the two nymphs, Menakā and Sahajanyā,’–‘quarter and intermediate quarter,’ said Māhitthi; but these two are heaven and earth;–‘Goblins the shaft, demons the missile;’ for goblins indeed are here the shaft (weapon), and demons the missile;–’to them be homage . . .!’ the import of this has been explained.

१८

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ पश्चा᳘त्॥
(द) अयं᳘ पश्चा᳘द्विश्व᳘व्यचा ऽइ᳘त्यसौ वा᳘ ऽआदित्यो व्विश्व᳘व्यचा यदा᳘ ह्ये᳘वैष᳘ ऽउदेत्य᳘थेदᳫँ᳭ स᳘र्व्वं व्य᳘चो भवति तद्यत्तमा᳘ह पश्चादि᳘ति त᳘स्मादेतं᳘ प्रत्य᳘ञ्चमेव य᳘न्तं पश्यन्ति त᳘स्य र᳘थप्रोतश्चा᳘समरथश्च सेनानीग्राम᳘ण्यावि᳘ति व्वा᳘र्षिकौ ता᳘वृतू᳘ प्रम्लो᳘चन्ती चानुम्लो᳘चन्ती चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिरहोरात्रे तु ते ते हि प्र᳘ च म्लो᳘चतो᳘ ऽनु च म्लोचतो व्याघ्रा᳘ हेतिः᳘ सर्पाः प्र᳘हेतिरि᳘ति व्याघ्रा᳘ हैवा᳘त्र हेतिः᳘ सर्पाः प्र᳘हेतिस्ते᳘भ्यो न᳘मो ऽअस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ पश्चा᳘त्॥
(द) अयं᳘ पश्चा᳘द्विश्व᳘व्यचा ऽइ᳘त्यसौ वा᳘ ऽआदित्यो व्विश्व᳘व्यचा यदा᳘ ह्ये᳘वैष᳘ ऽउदेत्य᳘थेदᳫँ᳭ स᳘र्व्वं व्य᳘चो भवति तद्यत्तमा᳘ह पश्चादि᳘ति त᳘स्मादेतं᳘ प्रत्य᳘ञ्चमेव य᳘न्तं पश्यन्ति त᳘स्य र᳘थप्रोतश्चा᳘समरथश्च सेनानीग्राम᳘ण्यावि᳘ति व्वा᳘र्षिकौ ता᳘वृतू᳘ प्रम्लो᳘चन्ती चानुम्लो᳘चन्ती चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिरहोरात्रे तु ते ते हि प्र᳘ च म्लो᳘चतो᳘ ऽनु च म्लोचतो व्याघ्रा᳘ हेतिः᳘ सर्पाः प्र᳘हेतिरि᳘ति व्याघ्रा᳘ हैवा᳘त्र हेतिः᳘ सर्पाः प्र᳘हेतिस्ते᳘भ्यो न᳘मो ऽअस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ पश्चा᳘त्॥
अय᳘म् पश्चा᳘द्विश्व᳘व्यचा इ᳘त्यसौ वा᳘ आदित्यो विश्व᳘व्यचा यदाॗ ह्येॗवैष᳘ उदेत्य᳘थेदᳫं सर्वं᳘ व्य᳘चो भवति तद्यत्तमा᳘ह पश्चादि᳘ति त᳘स्मादेत᳘म् प्रत्य᳘ञ्चमेव य᳘न्तम् पश्यन्ति त᳘स्य र᳘थप्रोतश्चा᳘समरथश्च सेनानीग्रामॗण्यावि᳘ति वा᳘र्षिकौ ता᳘वृतू᳘ प्रम्लो᳘चन्ती चानुम्लो᳘चन्ती चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिरहोरात्रे तु ते ते हि प्र᳘ च म्लो᳘चतो᳘ ऽनु च म्लोचतो व्याघ्रा᳘ हेतिः᳘ सर्पाः प्र᳘हेतिरि᳘ति व्याघ्रा᳘ हैवा᳘त्र हेतिः᳘ सर्पाः प्र᳘हेतिस्ते᳘भ्यो न᳘मो अस्त्वि᳘तित᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

(३) अथ पश्चात् । “अयं पश्चाद्विश्वव्यचाः”- इति । असौ वा ऽआदित्यो विश्वव्यचाः । यदा ह्येवैष उदेति- अथेदं सर्वं व्यचो भवति । तद् यत्तमाह-पश्चादिति । तस्मादेतं प्रत्यञ्चमेव यन्तं पश्यन्ति । “तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्यौ”- इति । वार्षिकौ तावृतू । “प्रम्लोचन्ती चानुम्लोचन्ती चाप्सरसौ”- इति । दिक्चोपदिशा चेति ह स्माह माहित्थिः । अहोरात्रे तु ते । ते हि प्र च म्लोचतो ऽनु च म्लोचतः । “व्याघ्रा हेतिः सर्पाः प्रहेतिः”- इति । व्याघ्रा हैवात्र हेतिः, सर्पाः प्रहेतिः । “तेभ्यो नमो अस्तु”- (वा. सं. १५ । १७) इति । तस्योक्तो बन्धुः ॥ १८ ॥

सायणः

[व्याख्यानं सप्तदशे]

Eggeling
  1. Then behind (in the west, he lays down a brick), with (Vāj. S. XV, 17), ‘This one behind, the all-embracer,’–the all-embracer, doubtless, is yonder sun; for as soon as he rises all this embracing space comes into existence; and because he speaks of him as (being) ‘behind,’ therefore one sees him only when he goes towards the back (west);–‘and Rathaprota (fixed on the chariot) and Asamaratha (of matchless chariot), his commander and chieftain;’ these are the two rainy months;–‘and the nymphs Pramlocantī (the setting one) and

Anumlocantī (the rising one),’–‘quarter and intermediate quarter,’ said Māhitthi, but they are day and night, for these two set and rise; ’tigers the shaft, snakes the missile,’ for indeed tigers are here the shaft, and snakes the missile;–’to them be homage . . .!’ the import of this has been explained.

१९

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थोत्तर᳘तः[[!!]]॥
(तो ऽयं᳘) अय᳘मुत्तरा᳘त्संय᳘द्वसुरि᳘ति यज्ञो वा᳘ ऽउत्तरात्तद्यत्तमा᳘होत्तरादि᳘त्युत्तरत᳘ ऽउपचारो हि यज्ञो᳘ ऽथ य᳘त्संय᳘द्वसुरित्या᳘ह यज्ञᳫँ᳭ हि᳘ संयन्ती᳘तीदं व्वस्वि᳘ति त᳘स्य ता᳘र्क्ष्यश्चा᳘रिष्टनेमिश्च सेनानीग्राम᳘ण्यावि᳘ति शारदौ ता᳘वृतू᳘ व्विश्वा᳘ची च घृता᳘ची चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिर्व्वेदिश्च तु ते स्रु᳘क्च व्वे᳘दिरेव᳘ व्विश्वा᳘ची स्रु᳘ग्घृताच्या᳘पो हेतिर्व्वा᳘तः प्र᳘हेतिरित्या᳘पो हैवा᳘त्र हेतिर्व्वा᳘तः प्र᳘हेतिर᳘तो᳘ ह्ये᳘वोष्णो व्वात्य᳘तः शीतस्ते᳘भ्यो न᳘मो ऽअस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थोत्तर᳘तः[[!!]]॥
(तो ऽयं᳘) अय᳘मुत्तरा᳘त्संय᳘द्वसुरि᳘ति यज्ञो वा᳘ ऽउत्तरात्तद्यत्तमा᳘होत्तरादि᳘त्युत्तरत᳘ ऽउपचारो हि यज्ञो᳘ ऽथ य᳘त्संय᳘द्वसुरित्या᳘ह यज्ञᳫँ᳭ हि᳘ संयन्ती᳘तीदं व्वस्वि᳘ति त᳘स्य ता᳘र्क्ष्यश्चा᳘रिष्टनेमिश्च सेनानीग्राम᳘ण्यावि᳘ति शारदौ ता᳘वृतू᳘ व्विश्वा᳘ची च घृता᳘ची चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिर्व्वेदिश्च तु ते स्रु᳘क्च व्वे᳘दिरेव᳘ व्विश्वा᳘ची स्रु᳘ग्घृताच्या᳘पो हेतिर्व्वा᳘तः प्र᳘हेतिरित्या᳘पो हैवा᳘त्र हेतिर्व्वा᳘तः प्र᳘हेतिर᳘तो᳘ ह्ये᳘वोष्णो व्वात्य᳘तः शीतस्ते᳘भ्यो न᳘मो ऽअस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थोत्तरतः᳟॥
अय᳘मुत्तरा᳘त्संय᳘द्वसुरि᳘ति यज्ञो वा᳘ उत्तरात्तद्यत्तमा᳘होत्तरादि᳘त्युत्तरत᳘उपचारो हि यज्ञो᳘ ऽथ य᳘त्संय᳘द्वसुरित्या᳘ह यज्ञᳫं हि᳘ संयन्ती᳘तीदं वस्वि᳘ति त᳘स्य ता᳘र्क्ष्यश्चा᳘रिष्टनेमिश्च सेनानीग्रामॗण्यावि᳘ति शारदौ ता᳘वृतू᳘विश्वा᳘ची च घृता᳘ची चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स् माह मा᳘हित्थिर्वे᳘दिश्च तु ते स्रु᳘क्च वे᳘दिरेव᳘ विश्वा᳘ची स्रु᳘ग्घृताच्या᳘पो हेतिर्वा᳘तः प्र᳘हेतिरित्या᳘पो हैवा᳘त्र हेतिर्वा᳘तः प्र᳘हेतिरतोॗ ह्येॗवोष्णो वात्य᳘तः शीतस्ते᳘भ्यो न᳘मो अस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

(४) अथोत्तरतः । “अयमुत्तरात्संयद्वसुः”- इति । यज्ञो वा उत्तरात् । तद् यत्तमाहोत्तरादिति । उत्तरतउपचारो हि यज्ञः । अथ यत्संयद्वसुरित्याह । यज्ञं हि संयन्ति- इतीदं वस्विति । “तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानीग्रामण्यौ”- इति । शारदौ तावृतू । “विश्वाची च घृताची चाप्सरसौ”- इति । दिक्चोपदिशा चेति ह स्माह- माहित्थिः । वेदिश्च तु ते स्रुक्च । वेदिरेव विश्वाची, स्रुग्घृताची । “आपो हेतिर्वातः प्रहेतिः”- इति । आपो हैवात्र हेतिः, वातः प्रहेतिः । अतो ह्येवोष्णो वात्यतः शीतः । “तेभ्यो नमो अस्तु”- (वा. सं. १५ । १८) इति । तस्योक्तो बन्धुः ॥ १९ ॥

सायणः

[व्याख्यानं सप्तदशे]

Eggeling
  1. Then on the left (north) side (he places one), with (Vāj. S. XV, 17), ‘This one on the left, of ever flowing blessings;’ on the left is the sacrifice; and as to why he speaks of it as ‘on the left,’ it is because the sacrifice is performed from the left (north) side; and as to why he speaks of it as ‘of ever-flowing blessings (saṁyadvasu),’ they do indeed flow together (saṁyanti) to the sacrifice, thinking, ’this is a blessing;’–‘and Tārkshya and Arishṭanemi, his commander and chieftain,’ these are the two autumn-months; ‘and the nymphs Viśvācī (the all-inclined) and Ghr̥tācī (the ghee-inclined),’–‘quarter and intermediate quarter,’ said Māhitthi, but they are the vedi (altar) and the offering-spoon, for the altar is all-inclined 25, and the offering-spoon is ghee-inclined;–‘water the shaft, wind the missile,’–water indeed is here the shaft, and wind the missile, for from this side it blows hot, and from that side cold;–’to them be homage . . .!’ the import of this has been explained.

२०

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ म᳘ध्ये॥
(ध्ये᳘ ऽय) अय᳘मुप᳘र्यर्वा᳘ग्वसुरि᳘ति पर्जन्यो वा᳘ ऽउप᳘रि तद्यत्तमा᳘होपरी᳘त्युप᳘रि हि पर्जन्यो᳘ ऽथ य᳘दर्व्वा᳘ग्वसुरित्याहा᳘तो᳘ ह्यर्व्वाग्व᳘सु[[!!]] व्वृ᳘ष्टिर᳘न्नं प्रजा᳘भ्यः प्रदीय᳘ते त᳘स्य सेनजि᳘च्च सुषे᳘णश्च सेनानीग्राम᳘ण्यावि᳘ति है᳘मन्तिकौ ता᳘वृतू᳘ ऽउर्व्व᳘शी च पूर्व्व᳘चित्तिश्चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिरा᳘हुतिश्च तु ते द᳘क्षिणा चावस्फू᳘र्जन्हेति᳘र्व्विद्युत्प्र᳘हेतिरि᳘त्यवस्फू᳘र्जन्हैवा᳘त्र हेति᳘र्व्विद्युत्प्र᳘हेतिस्ते᳘भ्यो न᳘मो ऽअस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ म᳘ध्ये॥
(ध्ये᳘ ऽय) अय᳘मुप᳘र्यर्वा᳘ग्वसुरि᳘ति पर्जन्यो वा᳘ ऽउप᳘रि तद्यत्तमा᳘होपरी᳘त्युप᳘रि हि पर्जन्यो᳘ ऽथ य᳘दर्व्वा᳘ग्वसुरित्याहा᳘तो᳘ ह्यर्व्वाग्व᳘सु[[!!]] व्वृ᳘ष्टिर᳘न्नं प्रजा᳘भ्यः प्रदीय᳘ते त᳘स्य सेनजि᳘च्च सुषे᳘णश्च सेनानीग्राम᳘ण्यावि᳘ति है᳘मन्तिकौ ता᳘वृतू᳘ ऽउर्व्व᳘शी च पूर्व्व᳘चित्तिश्चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिरा᳘हुतिश्च तु ते द᳘क्षिणा चावस्फू᳘र्जन्हेति᳘र्व्विद्युत्प्र᳘हेतिरि᳘त्यवस्फू᳘र्जन्हैवा᳘त्र हेति᳘र्व्विद्युत्प्र᳘हेतिस्ते᳘भ्यो न᳘मो ऽअस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ म᳘ध्ये॥
अय᳘मुप᳘र्यर्वा᳘ग्वसुरि᳘ति पर्जन्यो वा᳘ उप᳘रि तद्यत्तमा᳘होपरी᳘त्युप᳘रि हि पर्जन्यो᳘ ऽथ य᳘दर्वा᳘ग्वसुरित्याहा᳘तो ह्य᳘र्वाग्व᳘सु वृ᳘ष्टिर᳘न्नम् प्रजा᳘भ्यः प्रदीय᳘ते त᳘स्य सेनजि᳘च्च सुषे᳘णश्च सेनानीग्रामॗण्यावि᳘ति है᳘मन्तिकौ ता᳘वृतू᳘ उर्व᳘शी च पूर्व᳘चित्तिश्चाप्सर᳘सावि᳘ति दि᳘क्चोपदिशा चे᳘ति ह स्माह मा᳘हित्थिरा᳘हुतिश्च तु ते द᳘क्षिणा चावस्फू᳘र्जन्हेति᳘र्विद्युत्प्र᳘हेतिरि᳘त्यवस्फू᳘र्जन्हैवा᳘त्र हेति᳘र्विद्युत्प्र᳘हेतिस्ते᳘भ्यो न᳘मो अस्त्वि᳘ति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

(५) अथ मध्ये । “अयमुपर्यर्वाग्वसुः”- इति । पर्जन्यो वा ऽउपरि । तद्यत्तमाह उपरीति । उपरि हि पर्जन्यः । अथ यदर्वाग्वसुरित्याह- अतो ह्यर्वाग्वसु-वृष्टिरन्नं प्रजाभ्यः प्रदीयते । “तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्यौ”- इति । हैमन्तिकौ तावृतू ॥ “उर्वशी च पूर्वचित्तिश्चाप्सरसौ”- इति । दिक्चोपदिशा चेति ह स्माह माहित्थिः । आहुतिश्च तु ते दक्षिणा च । “अवस्फूर्जन्हेतिर्विद्युत्प्रहेतिः”- इति । अवस्फूर्जन्हैवात्र हेतिः, विद्युत्प्रहेतिः । “तेभ्यो नमो अस्तु”- (वा० सं० १५ । १९) इति । तस्योक्तो बन्धुः ॥ २० ॥

सायणः

[व्याख्यानं सप्तदशे]

Eggeling
  1. Then in the middle (he lays down one), with (Vāj. S. XV, 19), ‘This one above, the boon-bestower 26,’ the one above, doubtless, is Parjanya (the rain-god); and when he speaks of him as (being)

‘above,’ it is because Parjanya is indeed above; and when he calls him the boon-bestower, it is because from there the boon, rain, food for creatures, is bestowed hitherwards;–‘and Senajit (the conqueror of armies) and Sushena (leader of a fine army), his commander and chieftain,’ these are the two winter-months;–‘and the nymphs, Urvaśī and Pūrvaścitti,’–‘quarter and intermediate quarter,’ said Māhitthi, but they are oblation and dakshiṇā (priest’s sacrificial fee);–’thunder the shaft, lightning the missile,’ for indeed thunder is here the shaft, and lightning the missile;–’to them be homage . . .!’ the import of this has been explained.

२१

विश्वास-प्रस्तुतिः

(रे) एते वै ते᳘ हेत᳘यश्च प्र᳘हेतयश्च॥
यांस्त᳘द्देवा᳘ ऽएषां᳘ लोका᳘नामुप᳘रिष्टाद्गोप्तॄन᳘कुर्व्वता᳘थ यास्ताः᳘ प्रजा᳘ ऽएते ते[[!!]] सेनानीग्रामण्यो᳘ ऽथ यत्त᳘न्मिथुन᳘मेतास्ता᳘ ऽअप्सर᳘सः स᳘र्व्व ऽएव त᳘द्देवाः᳘ कृत्स्ना᳘ भूत्वा᳘ सह᳘ प्रज᳘या सह᳘ मिथुने᳘नैत᳘स्मिन्ना᳘के स्वर्गे᳘ लो᳘के ऽसीदंस्त᳘थै᳘वैतद्य᳘जमानः स᳘र्व्व ऽएव᳘ कृत्स्नो᳘ भूत्वा᳘ सह᳘ प्रज᳘या सह᳘ मिथुने᳘नैत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥ (शतम् ४६००)

मूलम् - श्रीधरादि

(रे) एते वै ते᳘ हेत᳘यश्च प्र᳘हेतयश्च॥
यांस्त᳘द्देवा᳘ ऽएषां᳘ लोका᳘नामुप᳘रिष्टाद्गोप्तॄन᳘कुर्व्वता᳘थ यास्ताः᳘ प्रजा᳘ ऽएते ते[[!!]] सेनानीग्रामण्यो᳘ ऽथ यत्त᳘न्मिथुन᳘मेतास्ता᳘ ऽअप्सर᳘सः स᳘र्व्व ऽएव त᳘द्देवाः᳘ कृत्स्ना᳘ भूत्वा᳘ सह᳘ प्रज᳘या सह᳘ मिथुने᳘नैत᳘स्मिन्ना᳘के स्वर्गे᳘ लो᳘के ऽसीदंस्त᳘थै᳘वैतद्य᳘जमानः स᳘र्व्व ऽएव᳘ कृत्स्नो᳘ भूत्वा᳘ सह᳘ प्रज᳘या सह᳘ मिथुने᳘नैत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥ (शतम् ४६००)

मूलम् - Weber

एते वै ते᳘ हेत᳘यश्च प्र᳘हेतश्च॥
यांस्त᳘द्देवा᳘ एषां᳘ लोका᳘नामुप᳘रिष्टाद्गोप्तॄन᳘कुर्वता᳘थ 27 यास्ताः᳘ प्रजा᳘ एते ते᳘ सेनानीग्रामण्यो᳘ ऽथ यत्त᳘न्मिथुन᳘मेतास्ता᳘ अप्सर᳘सः स᳘र्व एव त᳘द्देवाः᳘ कृत्स्ना᳘ भूत्वा᳘ सह᳘ प्रज᳘या सह᳘ मिथुने᳘नैत᳘स्मिन्ना᳘के स्वर्गे᳘ लोॗके ऽसीदंस्त᳘थैॗवैतद्य᳘जमानः सर्व᳘ एव᳘ कृत्स्नो᳘ भूत्वा᳘ सह᳘ प्रज᳘या सह᳘ मिथुने᳘नैत᳘स्मिन्ना᳘के स्वर्गे᳘ लोके᳘ सीदति॥

मूलम् - विस्वरम्

एते वै ते हेतयश्च प्रहेतयश्च- यांस्तद्देवा एषां लोकानामुपरिष्टाद्गोप्तॄनकुर्वत । अथ यास्ताः प्रजाः- एते ते सेनानीग्रामण्यः । अथ यत्तन्मिथुनम्- एतास्ता अप्सरसः । सर्व एव तद्देवाः कृत्स्ना भूत्वा सह प्रजया सह मिथुनेनैतस्मिन्नाके स्वर्गे लोके ऽसीदन् । तथैवैतद्यजमानः सर्व एव कृत्स्नो भूत्वा सह प्रजया सह मिथुनेनैतस्मिन्नाके स्वर्गे लोके सीदति ॥ २१ ॥

सायणः

एते वै ते हेतयश्च प्रहेतयश्च यद्वा प्रभृतयः । अथ यास्ताः पञ्चचूडा इत्येके । नामाप्ये अथ यत्तन्मिथुनं सर्वासु अथ चूडासु इति तदेता अप्सरसश्चेत्युपकरणानि । अत्रोपधीयत इतिवत् तत्सर्वान्येतानीष्टकाशरीराप्युपधीयन्त इति दर्शयति । ता उ वै पञ्चैवेति । कथं द्वे द्वे ह्युपदधात्येकैकस्मिन् लोक इत्यभिप्रायः । सहोजो धीयते न वा पार्श्वत उपधीयमानान्यपाङ्गप्रदेशो लभते । एकस्मिन् लोके पूर्वस्या उपरि उपहिताभेदे व्यपदेशं जहात्यपि पूर्वस्याः सादृश्यत्वाल्लोकान्तरानवधारणात्तस्मादभाववचनात् । नाकसदामुपरि स्थाने ये उपधेया इति । अतो अग्रे सारमुपरि स्थाने ये उपधेया इति । अतो अग्रे सारमुपादयितुं व्यावर्त्तेत नाममायमित्येतेन मन्त्रेणोपधानात् पञ्च भवन्त्युत्तराः पञ्च भवन्ति । अन्तराद्योरेकादशत्वादन्यत्वमेवेत्यभिप्रायः । ‘पञ्च हि यज्ञे आशिषः’ सूक्तवाके दर्शिताः जीवितं प्रजाः पशवः सञ्जातवनस्पत्यादिबन्धभित्यैत्यता । (अथैनं द्वन्द्वं उपदधाति त एनं तपसुरात्री अन्यं न हि साररुतः । गाधातोराशङ्कायां लभत एवाश्चत्वारो मन्त्राग्नीष्टकाभ्यां तु यत्तदुक्तवतः ।) परन्तु आवृतं क्रियामुपधानम् (उपपन्नम्) तदवतिष्ठत इति शेषः । अधस्तात् प्रपदनमाक्रमणम् उन्मादस्थानीयं यस्य साध्यावस्था प्रपदनः क्षमारोहणमित्यर्थः । द्वे एते इमाल्ँ लोकान्नर्हतः । उत्तरायां भूमिकायामपिधाय ततो (अधस्ताद् ( ) मुष्कोक्षणान्तर्गतेन आरोहन् स्वर्गं लोकं स्वापदांतेनैति) ॥ २१-२३ ॥

इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये ऽष्टमे काण्डे षष्ठे ऽध्याये प्रथमं ब्राह्मणम् ॥ (८-६-१) ॥

Eggeling
  1. These, then, are the shafts and missiles which the gods then put as protectors over these worlds, and as to offspring (or subjects 28), they are the commander and chieftain; and as to the mates, they are those nymphs,–having thus become complete with offspring and with mates, the gods seated themselves on that firmament, in the world of heaven; and in like manner does the Sacrificer, having become complete with offspring and a mate, now seat himself on that firmament, in the world of heaven.

२२

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएताः᳘॥
(०) दशे᳘ष्टका ऽउ᳘पदधाति द᳘शाक्षरा व्विरा᳘ड्विरा᳘डेषा चि᳘तिस्ता᳘ ऽउ वै प᳘ञ्चैव द्वे᳘ द्वे᳘ ह्युपद᳘धाति ता᳘ हैता᳘ ऽअग्ने᳘राशिषस्ता᳘ ऽउत्तमायां चि᳘ता ऽउ᳘पदधात्य᳘न्त ऽए᳘षो ऽग्नेर्य᳘दुत्तमा चि᳘तिरन्ततस्त᳘दग्ने᳘राशि᳘षो नि᳘राह प᳘ञ्च भवन्ति प᳘ञ्च हि᳘ यज्ञ᳘ ऽआशिषो᳘ ऽथैने ऽअन्तरा पु᳘रीषं नि᳘वपत्यग्नी᳘ हैतौ य᳘देते ऽइ᳘ष्टके ने᳘दिमा᳘वग्नी᳘ सᳫँ᳭शो᳘चात ऽइत्य᳘थो ऽअ᳘न्नं वै पुरीषम᳘न्नेनै᳘वाभ्यामेत᳘त्संज्ञां᳘[[!!]] करोति॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः᳘॥
(०) दशे᳘ष्टका ऽउ᳘पदधाति द᳘शाक्षरा व्विरा᳘ड्विरा᳘डेषा चि᳘तिस्ता᳘ ऽउ वै प᳘ञ्चैव द्वे᳘ द्वे᳘ ह्युपद᳘धाति ता᳘ हैता᳘ ऽअग्ने᳘राशिषस्ता᳘ ऽउत्तमायां चि᳘ता ऽउ᳘पदधात्य᳘न्त ऽए᳘षो ऽग्नेर्य᳘दुत्तमा चि᳘तिरन्ततस्त᳘दग्ने᳘राशि᳘षो नि᳘राह प᳘ञ्च भवन्ति प᳘ञ्च हि᳘ यज्ञ᳘ ऽआशिषो᳘ ऽथैने ऽअन्तरा पु᳘रीषं नि᳘वपत्यग्नी᳘ हैतौ य᳘देते ऽइ᳘ष्टके ने᳘दिमा᳘वग्नी᳘ सᳫँ᳭शो᳘चात ऽइत्य᳘थो ऽअ᳘न्नं वै पुरीषम᳘न्नेनै᳘वाभ्यामेत᳘त्संज्ञां᳘[[!!]] करोति॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
दशे᳘ष्टका उ᳘पदधाति द᳘शाक्षरा विरा᳘ड्विरा᳘डेषा चि᳘तिस्ता᳘ उ वै प᳘ञ्चैव द्वे᳘-द्वेॗ ह्युपद᳘धाति ता᳘ हैता᳘ अग्ने᳘राशिषस्ता᳘ उत्तमायां चि᳘ता उ᳘पदधात्यन्त एॗषो ऽग्नेर्य᳘दुत्तमा चि᳘तिरन्ततस्त᳘दग्ने᳘राशि᳘षो नि᳘राह प᳘ञ्च भवन्ति प᳘ञ्च हि᳘ यज्ञ᳘ आशिषो᳘ ऽथैने अन्तरा पु᳘रीषं नि᳘वपत्यग्नी᳘ हैतौ य᳘देते इ᳘ष्टके ने᳘दिमा᳘वग्नी᳘ संशो᳘चात इत्य᳘थो अ᳘न्नं वै पु᳘रीषम᳘न्नेनैॗवाभ्यामेत᳘त्संज्ञां᳘ करोति॥

मूलम् - विस्वरम्

ता वा एता दशेष्टका उपदधाति । दशाक्षरा विराट् । विराडेषा चितिः । ता उ वै पञ्चैव । द्वे द्वे ह्युपदधाति । ता हैता अग्नेराशिषः । ता उत्तमायां चिता उपदधाति । अन्त एषो ऽग्नेः- यदुत्तमा चितिः । अन्ततस्तदग्नेराशिषो निराह । पञ्च भवन्ति । पञ्च हि यज्ञ आशिषः । अथैने अन्तरा पुरीषं निवपति । अग्नी हैतौ- यदेते इष्टके । नेदिमावग्नी संशोचात इति । अथो अन्नं वै पुरीषम् । अन्नेनैवाभ्यामेतत्संज्ञां करोति ॥ २२ ॥

सायणः

[व्याख्यानं एकविंशतितमे]

Eggeling
  1. Now, these are ten (Nākasad-Pañcacūḍā) bricks he lays down;–of ten, syllables the Virāj consists, and this layer is virāj (far-shining). There are, however, only five of them, for he lays them down by two and two. And, verily, they are prayers for prosperity to Agni (the fire-altar). He places them in the last layer, for this, the last, layer is the end of Agni: it is thus at the end that he

pronounces the prayers for prosperity to Agni. There are five of them, for at the sacrifice there are five prayers for prosperity 29. Between (each) two he throws loose soil, for these two bricks being fires, he does so fearing lest these two fires should blaze up together. And, moreover, loose soil means food: it is thus by means of food that he brings about concord between them.

२३

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तो ऽन्वावृत᳘म्॥
(म्पु) पुर᳘स्तादुपधा᳘य दक्षिणतः᳘ पश्चा᳘दुत्तरतो म᳘ध्य ऽउ᳘पदधात्यथो᳘त्तराः पुर᳘स्तादेवा᳘ग्र ऽउपधा᳘य दक्षिणत᳘ ऽउत्तरतो म᳘ध्ये पश्चादु᳘पदधात्यव᳘स्तात्प्रपदनो ह स्वर्गो[[!!]] लोक᳘ ऽएतद्वै᳘ देवा᳘ ऽइमाल्ँ᳘लोका᳘न्त्सर्व्व᳘तः समपिधा᳘याव᳘स्तात्स्वर्गं᳘ लोकं प्रा᳘पद्यन्त त᳘थै᳘वैतद्य᳘जमान ऽइमाल्ँ᳘लोकान्त्सर्व्व᳘तः समपिधा᳘याव᳘स्तात्स्वर्गं᳘ लोकं प्र᳘पद्यते॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तो ऽन्वावृत᳘म्॥
(म्पु) पुर᳘स्तादुपधा᳘य दक्षिणतः᳘ पश्चा᳘दुत्तरतो म᳘ध्य ऽउ᳘पदधात्यथो᳘त्तराः पुर᳘स्तादेवा᳘ग्र ऽउपधा᳘य दक्षिणत᳘ ऽउत्तरतो म᳘ध्ये पश्चादु᳘पदधात्यव᳘स्तात्प्रपदनो ह स्वर्गो[[!!]] लोक᳘ ऽएतद्वै᳘ देवा᳘ ऽइमाल्ँ᳘लोका᳘न्त्सर्व्व᳘तः समपिधा᳘याव᳘स्तात्स्वर्गं᳘ लोकं प्रा᳘पद्यन्त त᳘थै᳘वैतद्य᳘जमान ऽइमाल्ँ᳘लोकान्त्सर्व्व᳘तः समपिधा᳘याव᳘स्तात्स्वर्गं᳘ लोकं प्र᳘पद्यते॥

मूलम् - Weber

अथा᳘तो ऽन्वावृत᳘म्॥
पुर᳘स्तादुपधा᳘य दक्षिणतः᳘ पश्चा᳘दुत्तरतो म᳘ध्य उ᳘पदधात्यथो᳘त्तराः पुर᳘स्तादेवा᳘ग्र उपधा᳘य दक्षिणत᳘ उत्तरतो म᳘ध्ये पश्चादु᳘पदधात्यव᳘स्तात्प्रपदनो ह स्वर्गो᳘ लोक᳘ एतद्वै᳘ देवा᳘ इमां᳘लोका᳘न्त्सर्व᳘तः समपिधा᳘याव᳘स्तात्स्वर्गं᳘ लोकम् प्रा᳘पद्यन्त त᳘थैॗवैतद्य᳘जमान इमां᳘लोकान्त्सर्व᳘तः समपिधा᳘याव᳘स्तात्स्वर्गं᳘ लोकम् प्र᳘पद्यते॥

मूलम् - विस्वरम्

अथातो ऽन्वावृतम् । पुरस्तादुपधाय दक्षिणतः, पश्चाद्- उत्तरतः, मध्य उपदधाति । अथोत्तराः । पुरस्तादेवाग्र उपधाय दक्षिणतः, उत्तरतो मध्ये पश्चादुपदधाति । अवस्तात्प्रपदनो ह स्वर्गो लोकः । एतद्वै देवा इमांल्लोकान्त्सर्वतः समपिधायावस्तात्स्वर्गं लोकं प्रापद्यन्त । तथैवैतद्यजमान इमांल्लोकान्त्सर्वतः समपिधायावस्तात्स्वर्गं लोकं प्रपद्यते ॥ २३ ॥

सायणः

[व्याख्यानं एकविंशतितमे]

Eggeling
  1. Now; then, as to the order of proceeding. Having laid down (a brick) in front, he lays down those on the right, behind, on the left, and in the middle. Then the upper ones: having first laid down one in front, he lays down those on the right, on the left, in the middle, and behind. And, indeed, the world of heaven is entered from below, for the gods, having at that time, closed up these worlds on all sides, entered the world of heaven from below; and in like manner does the Sacrificer now, having closed up these worlds on all sides, enter the world of heaven from below.

  1. नाकसदो ऽनूकेषु पूर्व्ववर्जमृतव्यावेलायामाश्विनीवद्राज्ञ्यसीति प्रतिमंत्रम् । का. श्रौ. सू. १७ । २३६ । ↩︎

  2. 97:1 The central portion of the fifth layer is here characterised as symbolically representing the firmament, the blue canopy of heaven, and the region of bliss beyond it. The outer rim of this central structure is formed by a continuous ring of twenty-nine Stomabhāgā (st) bricks representing, it would seem, the horizon on which the vault of heaven rests. There is some doubt as to the exact manner in which this ring of bricks is to be arranged. According to Kāty. Śrautas. XVII, 11, 10, fifteen bricks are to he placed south (and fourteen north) of the anūka, or spine (running through the centre from west to east). As regards the southern semicircle, the fifteen bricks are to be distributed in such a way that eight fall within the south-easterly, and seven into the south-westerly, quadrant. Some such arrangement as that adopted in the diagram below would seem to be what is intended. It will be seen that this arrangement includes two half-size bricks in the south-easterly ↩︎

  3. i.e. अन्तःस्तोमभागम् ↩︎

  4. प्रतिहर्ते᳘त्य A. ↩︎

  5. 100:1 Or, perhaps, ’the Vasus are thy divine overlords;’ but see paragraph 9. ↩︎

  6. 100:2 Lit. for unwaveringness (so as not to totter). ↩︎

  7. 100:3 Lit. broaden, widen. ↩︎

  8. 100:4 See VI, 1, 1, 1; VII, 2, 3, 5. ↩︎

  9. 100:5 See VI, 1, 1, 8. ↩︎

  10. “दिवो मात्रया वरिम्णा प्रथन्तु व्विधर्ता चायमधिपतिश्च ते त्वा सर्वे संव्विदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु”- इत्येतावान् मन्त्रभागः प्रतीष्टकोपधानमन्त्रे योज्यः । ↩︎

  11. राढ्ढ AB. ↩︎

  12. 101:1 That is, the southern of the two half-sized ones to be placed in this quarter. ↩︎

  13. राढ्ढ AB. ↩︎

  14. 102:1 That is, he lays down a half-sized brick immediately north of the southern one, and thus in the direction of the centre from that brick. ↩︎

  15. पुरीषमोप्योपर्ययं पुर इति पंचचूडाः प्रतिमंत्रम् । प्रतिदिशं यथालिंगं पश्चिमोत्तमा । का. श्रौ. सू. १७ । २३७ । ↩︎

  16. 103:1 That is, the offices of Hotrakas, or assistants to the Hotr̥. ↩︎

  17. 103:2 These bricks would seem to have had some kind of protuberances or bulgings (cūḍa), or perhaps tufts, resembling a man’s crest-lock or top-knot (cūḍā). Possibly, however, these five bricks, being placed on the top of the Nākasads, are themselves here represented as something additional. Such, at any rate, seems to be the definition of the term given in the text above and in parag. 13. The MS. of the commentary reads, ‘kāyasya vai tat pāvarjitaṁ (!) sa cūḍaḥ keśapuñjaḥ.’ ↩︎

  18. 104:1 This, doubtless, is here the meaning of mithunam; and similarly in I, 7, 2, 11, we ought to translate, ‘The vashaṭkāra is the mate of those two (anuvākyā and yājyā).’ ↩︎

  19. 104:2 See paragraph 21. ↩︎

  20. ष्टाद्गोप्त्रे᳘नकुर्वत and प्त्रे᳘न्कुरुते AB. ↩︎

  21. Vâj. S. १५.१५ adds ते नोऽवन्तु after नमोऽअस्तु ↩︎

  22. 105:1 See p. 3, note 2. ↩︎

  23. 105:2 That is, ‘skilled in chariot (-fight),’ and ‘mighty in chariot (-fight).’ ↩︎

  24. 105:3 The meaning of these names is rather obscure: the symbolical explanations ‘army and battle’ might seem to point to some such meanings as ‘grounded on heaps’ and ‘grounded on intelligence (or plan).’ ↩︎

  25. 107:1 That is, extending in every direction, or open (common) to all. ↩︎

  26. 107:2 Lit. ‘he whose boons are (bestowed) hitherwards.’ ↩︎

  27. ष्टाद्गोप्त्रेन᳘कुर्वत A. प्रैज᳘कुर्वत B. ↩︎

  28. 108:1 See paragraph 13. ↩︎

  29. 109:1 Viz. for long life, offspring, cattle, social distinction, and a seat in heaven;–see the Sūktavāka I, 9, 1, 12 seqq. ↩︎