०१
विश्वास-प्रस्तुतिः
ता ऽअ᳘षाढायै व्वे᳘लयो᳘पदधाति॥
व्वाग्वा ऽअ᳘षाढा र᳘स ऽएष᳘ व्वाचि तद्र᳘सं दधाति त᳘स्मात्स᳘र्व्वेषाम᳘ङ्गानां व्वा᳘चैवा᳘न्नस्य र᳘सं वि᳘जानाति॥
मूलम् - श्रीधरादि
ता ऽअ᳘षाढायै व्वे᳘लयो᳘पदधाति॥
व्वाग्वा ऽअ᳘षाढा र᳘स ऽएष᳘ व्वाचि तद्र᳘सं दधाति त᳘स्मात्स᳘र्व्वेषाम᳘ङ्गानां व्वा᳘चैवा᳘न्नस्य र᳘सं वि᳘जानाति॥
मूलम् - Weber
ता अ᳘षाढायै वे᳘लयो᳘पदधाति॥
वाग्वा अ᳘षाढा र᳘स एष᳘ वाचि तद्र᳘सं दधाति त᳘स्मात्स᳘र्वेषाम᳘ङ्गानां वाॗचैवा᳘न्नस्य र᳘सं वि᳘जानाति॥
मूलम् - विस्वरम्
ता अषाढायै वेलयोपदधाति । वाग्वा ऽअषाढा । रस एषः । वाचि तद्रसं दधाति । तस्मात्सर्वेषामङ्गानां वाचैवान्नस्य रसं विजानाति ॥ १ ॥
सायणः
ता अषाढाया इति । ताः स्तोमभागा अषाढाया वेलायां मध्ये षष्ठे पादलोके उपदधातीत्येतत् त्रिभिः कण्डिकाभिर्विधीयते 1- वाग्वा अषाढेति । वाचा तु जिह्वा लक्ष्यते । सर्वेषां अङ्गादीनां मध्येच विधानात्तस्य रसं विजानातीति वचनात् ॥ १ ॥
Eggeling
- He lays them down on the range of the Ashāḍḥā; for the Ashāḍḥā is speech, and this (set of bricks 2) is the essence (of food): he thus lays into speech the essence of food; whence it is through (the channel of) speech that one distinguishes the essence of food for all the limbs.
०२
विश्वास-प्रस्तुतिः
य᳘द्वेवा᳘षाढायै॥
(या ऽ) इयं वा ऽअ᳘षाढा ऽसा᳘वादित्यः स्तो᳘मभागा ऽअमुं त᳘दादित्य᳘मस्यां᳘ प्रतिष्ठा᳘यां प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
य᳘द्वेवा᳘षाढायै॥
(या ऽ) इयं वा ऽअ᳘षाढा ऽसा᳘वादित्यः स्तो᳘मभागा ऽअमुं त᳘दादित्य᳘मस्यां᳘ प्रतिष्ठा᳘यां प्र᳘तिष्ठापयति॥
मूलम् - Weber
य᳘द्वेवा᳘षाढायै॥
इयं वा अ᳘षाढासा᳘वादित्य स्तो᳘मभागा अमुं त᳘दादित्य᳘मस्या᳘म् प्रतिष्ठा᳘याम् प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
यद्वेवाषाढायै । इयं वा ऽअषाढा; असावादित्यः स्तोमभागाः । अमुं तदादित्यमस्यां प्रतिष्ठायां प्रतिष्ठापयति ॥ २ ॥
सायणः
यद्वेवाषाढाया इति । प्रसन्ना ॥ २ ॥
Eggeling
- And, again, as to why (on the range) of the Ashāḍḥā;–the Ashāḍḥā, doubtless, is this (earth), and the Stomabhāgās are yonder sun: he thus establishes yonder sun upon this earth as a firm foundation.
०३
विश्वास-प्रस्तुतिः
य᳘द्वेवा᳘षाढायै॥
(या ऽ) इयं वा ऽअ᳘षाढा हृ᳘दयᳫँ᳭ स्तो᳘मभागा ऽअस्यां तद्धृ᳘दयं म᳘नो दधाति त᳘स्मादस्याᳫँ᳭ हृ᳘दयेन म᳘नसा चेतयते सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्तद्धृ᳘दयं म᳘नो दधाति त᳘स्मादस्या᳘ᳫँ᳘ सर्व्व᳘तो हृ᳘दयेन म᳘नसा चेतयते᳘ ऽथो पु᳘ण्या हैता᳘ ल᳘क्ष्म्यस्ता᳘ ऽएत᳘त्सर्व्व᳘तो[[!!]] धत्ते त᳘स्माद्य᳘स्य सर्व्व᳘तो ल᳘क्ष्म भ᳘वति तं पु᳘ण्यलक्ष्मीक ऽइत्या᳘चक्षते॥
मूलम् - श्रीधरादि
य᳘द्वेवा᳘षाढायै॥
(या ऽ) इयं वा ऽअ᳘षाढा हृ᳘दयᳫँ᳭ स्तो᳘मभागा ऽअस्यां तद्धृ᳘दयं म᳘नो दधाति त᳘स्मादस्याᳫँ᳭ हृ᳘दयेन म᳘नसा चेतयते सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्तद्धृ᳘दयं म᳘नो दधाति त᳘स्मादस्या᳘ᳫँ᳘ सर्व्व᳘तो हृ᳘दयेन म᳘नसा चेतयते᳘ ऽथो पु᳘ण्या हैता᳘ ल᳘क्ष्म्यस्ता᳘ ऽएत᳘त्सर्व्व᳘तो[[!!]] धत्ते त᳘स्माद्य᳘स्य सर्व्व᳘तो ल᳘क्ष्म भ᳘वति तं पु᳘ण्यलक्ष्मीक ऽइत्या᳘चक्षते॥
मूलम् - Weber
य᳘द्वेवा᳘षाढायै॥
इयं वा अ᳘षाढा हृ᳘दयᳫं स्तो᳘मभागा अस्यां तद्धृ᳘दयम् म᳘नो दधाति त᳘स्मादस्याᳫं हृ᳘दयेन म᳘नसा चेतयते सर्व᳘त उ᳘पदधाति सर्व᳘तस्तद्धृ᳘दयम् म᳘नो दधाति त᳘स्मादस्या᳘ᳫं᳘ सर्व᳘तो हृ᳘दयेन म᳘नसा चेतयते᳘ ऽथो पु᳘ण्या हैता᳘ लक्ष्म्य᳘स्ता᳘ एत᳘त्सर्व᳘तो धत्ते त᳘स्माद्य᳘स्य सर्व᳘तो ल᳘क्ष्म भ᳘वति तम् पु᳘ण्यलक्ष्मीक इत्या᳘चक्षते॥
मूलम् - विस्वरम्
यद्वेवाषाढायै । इयं वा अषाढा, हृदयं स्तोमभागाः । अस्यां तद्धृदयं मनो दधाति । तस्मादस्यां हृदयेन मनसा चेतयते । सर्वत उपदधाति । सर्वतस्तद्धृदयं मनो दधाति । तस्मादस्यां सर्वतो हृदयेन मनसा चेतयते । अथो पुण्या हैता लक्ष्म्यः । ता एतत्सर्वतो धत्ते । तस्माद्यस्य सर्वतो लक्ष्म भवति- तं पुण्यलक्ष्मीक इत्याचक्षते ॥ ३ ॥
सायणः
यद्वेवाषाढाया इति । इयं वै पृथिवी शरीराकारेण व्यवस्थिता ऽषाढा ‘हृदयं’ हृदयस्थम् । मनः स्तोमभागो रसत्वात् । रसो हि सारः शरीरे च मनःसार इति । तस्य यदषाढा वेलायां स्तोमभागा उपदधाति तस्यां पृथिव्यां हृदयादिशरीरभावे भावस्थितायां हृदयं चास्यां मनो दधाति तस्मादेव च यज्ञानुकारात् ‘अस्यामेव चेतयते’ शरीरस्यान्यतरं वा वस्तुनाहि बतस्माः अस्यां शरीरलक्षणायां पृथिव्यां सर्वतः सरसं चेतयते इत्यर्थः । अग्रतः पार्श्वतः पृष्ठतश्च (नवज्ञ रोषतयाग्रत) इत्यर्थः । अथो पुण्याः प्रशंस्या एता लक्ष्म्यस्ताः स्तोमभागाः देवैः दर्शनेनावयवार्थाभिमानिन्य एता देवताः ताश्च पुण्यलक्ष्मीकाः ॥ ३ ॥
Eggeling
- And, again, why (on that) of the Ashāḍḥā;–the Ashāḍḥā, doubtless, is this (earth), and the Stomabhāgās are the heart: he thus lays into this (earth) the heart, the mind: whence on this (earth) one thinks with the heart, with the mind. He lays them down on every side: he thus places the heart, the mind everywhere; whence everywhere on this (earth) one thinks with the heart, with the mind. And, moreover, these (bricks) are lucky signs: he places them on all sides; whence they say of him who has a (lucky) sign (lakshman) on every (or any) side that he has good luck (puṇyalakshmīka).
०४
विश्वास-प्रस्तुतिः
(ते᳘ ऽथै) अ᳘थैनाः पु᳘रीषेण प्र᳘च्छादयति॥
(त्य᳘) अ᳘न्नं वै पु᳘रीषᳫँ᳭ र᳘स ऽएष त᳘मेत᳘त्तिरः᳘ करोति त᳘स्मात्तिर᳘ ऽइवा᳘न्नस्य र᳘सः॥
मूलम् - श्रीधरादि
(ते᳘ ऽथै) अ᳘थैनाः पु᳘रीषेण प्र᳘च्छादयति॥
(त्य᳘) अ᳘न्नं वै पु᳘रीषᳫँ᳭ र᳘स ऽएष त᳘मेत᳘त्तिरः᳘ करोति त᳘स्मात्तिर᳘ ऽइवा᳘न्नस्य र᳘सः॥
मूलम् - Weber
अ᳘थैनाः पु᳘रीषेण प्र᳘छादयति॥
अ᳘न्नं वै पु᳘रीषं र᳘स एष त᳘मेत᳘त्तिरः᳘ करोति त᳘स्मात्तिर᳘ इवा᳘न्नस्य र᳘सः॥
मूलम् - विस्वरम्
अथैनाः पुरीषेण प्रच्छादयति । अन्नं वै पुरीषम् । रस एषः । तमेतत्तिरः करोति । तस्मात्तिर इवान्नस्य रसः ॥ ४ ॥
सायणः
अथैना इति । ‘एनाः’ स्तोमभागाः शरीरेण तूर्णं प्रच्छादयति 3 इत्येतदन्नं पुरीषग्रन्थिना विधीयते । अन्नं वै पुरीषमन्नकारणत्वाददो ह्यन्नं प्रभवति स तं एष स्तोमभागात्मके पथि (मरिनाप्य) दैवाभिप्रायेण तत्तिरः समेतत्पुरीषेण व्यवहितं प्रच्छन्नं करोति तस्मात्तिर इत्यन्नत्वाच्च तस्य रसः सारो अन्नात् पृथगुपलभ्यत इति ॥ ४ ॥
Eggeling
- He then covers them with loose soil; for loose soil (purīsha) means food, and this (set of bricks) is the essence (of food): he thus makes it invisible, for invisible, as it were, is the essence of food.
०५
विश्वास-प्रस्तुतिः
(सो) य᳘द्वेव पु᳘रीषेण॥
(णा᳘) अ᳘न्नं वै पु᳘रीषᳫँ᳭ र᳘स ऽएषो᳘ ऽन्नं च तद्र᳘सं च सं᳘तनोति सं᳘दधाति॥
मूलम् - श्रीधरादि
(सो) य᳘द्वेव पु᳘रीषेण॥
(णा᳘) अ᳘न्नं वै पु᳘रीषᳫँ᳭ र᳘स ऽएषो᳘ ऽन्नं च तद्र᳘सं च सं᳘तनोति सं᳘दधाति॥
मूलम् - Weber
य᳘द्वेव पु᳘रीषेण॥
अ᳘न्नं वै पु᳘रीषं र᳘स एषो᳘ ऽन्नं च तद्र᳘सं च सं᳘तनोति सं᳘दधाति॥
मूलम् - विस्वरम्
यद्वेव पुरीषेण । अन्नं वै पुरीषम् । रस एषः । अन्नं च तद्रसं च सन्तनोति, सन्दधाति ॥ ५ ॥
सायणः
यद्वेवेति प्रायः प्रसन्ने । पुरीतत्पुरीषं पुरि हृदये तायते इति पुरीतत् हृदयवेष्टनं । यद्वेव वपुः संवत्सर एषो ऽग्निस्तमेतं चित्वा चितिभिः पुरीषैश्च व्यावर्त्तयति । व्यावृत्त्या संवर्त्तयति सर्वेषामेव भूतानामेकैकानां सञ्चित्या चयनेनेत्येकैकपुरीषेणेत्यर्थः ।
तास्त्रयः स्तोमवच्चतस्रश्चितयः । प्रथमास्तोमाश्चत्वारः प्रसिद्ध्या ऽन्तर्वर्त्तन्त एव ता अपि पुरीषाः स्तोमभागाः पंचमी चितिः । पंचमश्चंद्रः संपत्स्यते इत्येवमर्थं येन पुरीषेण प्रच्छादयति ॥ ५-७ ॥
Eggeling
- And, again, as to why (he covers it) with loose
soil;–loose soil, doubtless, means food, and this (set of bricks) is the essence: he thus joins and unites the food and its essence.
०६
विश्वास-प्रस्तुतिः
य᳘द्वेव पु᳘रीषेण॥
हृ᳘दयं वै स्तो᳘मभागाः पुरीतत्पु᳘रीषᳫँ᳭ हृ᳘दयं त᳘त्पुरीत᳘ता प्र᳘च्छादयति॥
मूलम् - श्रीधरादि
य᳘द्वेव पु᳘रीषेण॥
हृ᳘दयं वै स्तो᳘मभागाः पुरीतत्पु᳘रीषᳫँ᳭ हृ᳘दयं त᳘त्पुरीत᳘ता प्र᳘च्छादयति॥
मूलम् - Weber
य᳘द्वेव पु᳘रीषेण॥
हृदयं वै स्तो᳘मभागाः पुरीतत्पु᳘रीषᳫं हृ᳘दयं त᳘त्पुरीत᳘ता प्र᳘छादयति॥
मूलम् - विस्वरम्
यद्वेव पुरीषेण । हृदयं वै स्तोमभागाः, पुरीतत्पुरीषम् । हृदयं तत्पुरीतता प्रच्छादयति ॥ ६ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- And, again, as to why with loose soil;–the Stomabhāgās are the heart, and the loose soil is the pericardium: he thus encloses the heart in the pericardium.
०७
विश्वास-प्रस्तुतिः
य᳘द्वेव पु᳘रीषेण॥
संव्वत्सर᳘ ऽए᳘षो ऽग्निस्त᳘मेत᳘च्चितिपुरीषैर्व्या᳘वर्तयति तद्याश्च᳘तस्रः प्रथमाश्चि᳘तयस्ते᳘ चत्वा᳘र ऽऋतवो᳘ ऽथ स्तो᳘मभागा ऽउपधा᳘य पु᳘रीषं नि᳘वपति सा᳘ पञ्चमी चि᳘तिः स᳘ पञ्चम᳘ ऽऋतुः[[!!]]॥
मूलम् - श्रीधरादि
य᳘द्वेव पु᳘रीषेण॥
संव्वत्सर᳘ ऽए᳘षो ऽग्निस्त᳘मेत᳘च्चितिपुरीषैर्व्या᳘वर्तयति तद्याश्च᳘तस्रः प्रथमाश्चि᳘तयस्ते᳘ चत्वा᳘र ऽऋतवो᳘ ऽथ स्तो᳘मभागा ऽउपधा᳘य पु᳘रीषं नि᳘वपति सा᳘ पञ्चमी चि᳘तिः स᳘ पञ्चम᳘ ऽऋतुः[[!!]]॥
मूलम् - Weber
य᳘द्वेव पु᳘रीषेण॥
संवत्सर᳘ एॗषो ऽग्निस्त᳘मेत᳘च्चितिपुरीषैर्व्या᳘वर्तयति तद्याश्च᳘तस्रः प्रथमाश्चि᳘तयस्ते᳘ चत्वा᳘र ऋतवो᳘ ऽथ स्तो᳘मभागा उपधा᳘य पु᳘रीषं निवपति सा᳘ पञ्चमी चि᳘तिः स᳘ पञ्चम᳘ ऋतुः᳟॥
मूलम् - विस्वरम्
यद्वेव पुरीषेण । संवत्सर एषो ऽग्निः । तमेतच्चितिपुरीषैर्व्यावर्तयति । तद्-याश्चतस्रः प्रथमाश्चितयः- ते चत्वार ऋतवः । अथ स्तोमभागा उपधाय पुरीषं निवपति । सा पञ्चमी चितिः । स पञ्चम ऋतुः ॥ ७ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- And, again, as to why with loose soil;–this fire-altar is the year, and by means of the soil-coverings of the layers he divides it: those first four layers are four seasons. And having laid down the Stomabhāgās, he throws loose soil thereon: that is the fifth layer, that is the fifth season.
०८
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
(र्य᳘) य᳘ल्लोकम्पृणा᳘न्ता ऽअन्याश्चि᳘तयो भ᳘वन्ति ना᳘त्र लोकम्पृणा᳘मुपद᳘धाति का᳘ ऽत्र लोकम्पृणे᳘त्यसौ वा᳘ ऽआदित्यो᳘ लोकम्पृ᳘णैष᳘ उ ऽएषा चि᳘तिः᳘ सैषा᳘ स्वयं᳘ लोकम्पृणा चि᳘तिर᳘थ यद᳘त ऽऊर्ध्वमा पु᳘रीषात्सा᳘ षष्ठी चि᳘तिः स᳘ षष्ठ᳘ ऽऋतुः[[!!]]॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
(र्य᳘) य᳘ल्लोकम्पृणा᳘न्ता ऽअन्याश्चि᳘तयो भ᳘वन्ति ना᳘त्र लोकम्पृणा᳘मुपद᳘धाति का᳘ ऽत्र लोकम्पृणे᳘त्यसौ वा᳘ ऽआदित्यो᳘ लोकम्पृ᳘णैष᳘ उ ऽएषा चि᳘तिः᳘ सैषा᳘ स्वयं᳘ लोकम्पृणा चि᳘तिर᳘थ यद᳘त ऽऊर्ध्वमा पु᳘रीषात्सा᳘ षष्ठी चि᳘तिः स᳘ षष्ठ᳘ ऽऋतुः[[!!]]॥
मूलम् - Weber
त᳘दाहुः॥
य᳘ल्लोकम्पृणा᳘न्ता अन्याश्चि᳘तयो भ᳘वन्ति ना᳘त्र लोकम्पृणा᳘मुपद᳘धाति का᳘त्र लोकम्पृणे᳘त्यसौ वा᳘ आदित्यो᳘ लोकम्पृॗणैष᳘ उ एषा चि᳘तिःॗ सैषा᳘ स्वयं᳘ लोकम्पृणा चि᳘तिर᳘थ यद᳘त ऊर्ध्वमा पु᳘रीषात्सा᳘ षष्ठी चि᳘तिः स᳘ षष्ठ᳘ ऋतुः᳟॥
मूलम् - विस्वरम्
तदाहुः- यल्लोकम्पृणान्ता अन्याश्चितयो भवन्ति, नात्र लोकंपृणामुपदधाति, का ऽत्र लोकम्पृणेति । असौ वा आदित्यो लोकम्पृणा । एष उ एषा चितिः । सैषा स्वयं लोकम्पृणा चितिः । अथ यदत ऊर्ध्वम्- आ पुरीषात्- सा षष्ठी चितिः, स षष्ठ ऋतुः ॥ ८ ॥
सायणः
तदाहुरिति । नात्र स्तोमात्मिकायां चितौ लोकंपृणां तां अग्निमित्यतस्तूपरिवर्त्तित्वात्पुरीषमित्याशय एवमेतत् संवत्सरमग्निचितिं पुरीषे व्यावर्त्तयति ॥ ८ ॥ ९ ॥
Eggeling
- Here now they say, ‘Since the other layers conclude with Lokampr̥ṇās (space-filling bricks), and no space-filler is laid down in this (layer): what, then, is the space-filler therein?’ The space-filler, surely, is yonder sun, and this layer is he; and this is of itself 4 a space-filling layer. And what there is above this (layer) up to the covering of soil that is the sixth layer, that is the sixth season.
०९
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ पु᳘रीषं नि᳘वपति॥
त᳘त्र व्विकर्णीं᳘ च स्वयमातृण्णां चो᳘पदधाति हिरण्यशकलैः प्रो᳘क्षत्यग्नि᳘मभ्या᳘दधाति सा᳘ सप्तमी चि᳘तिः स᳘ सप्तम᳘ ऽऋतुः[[!!]]॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ पु᳘रीषं नि᳘वपति॥
त᳘त्र व्विकर्णीं᳘ च स्वयमातृण्णां चो᳘पदधाति हिरण्यशकलैः प्रो᳘क्षत्यग्नि᳘मभ्या᳘दधाति सा᳘ सप्तमी चि᳘तिः स᳘ सप्तम᳘ ऽऋतुः[[!!]]॥
मूलम् - Weber
अ᳘थ पु᳘रीषं नि᳘वपति॥
त᳘त्र विकर्णीं चो᳘पदधाति हिरण्यशकलैः प्रो᳘क्षत्यग्नि᳘मभ्या᳘दधाति सा᳘ सप्तमी चि᳘तिः स᳘ सप्तम᳘ ऋतुः᳟॥
मूलम् - विस्वरम्
अथ पुरीषं निवपति । तत्र विकर्णीं च स्वयमातृण्णां चोपदधाति । हिरण्यशकलैः प्रोक्षति । अग्निमभ्यादधाति । सा सप्तमी चितिः, स सप्तम ऋतुः ॥ ९ ॥
सायणः
[व्याख्यानं अष्टमे]
Eggeling
- He then throws down the loose soil. Thereon he lays down the Vikarṇī and the naturally-perforated (brick); he bestrews them with chips of gold, and places the fire thereon: that is the seventh layer, that is the seventh season.
१०
विश्वास-प्रस्तुतिः
(स्ता᳘) ता᳘ ऽउ वै ष᳘डेव[[!!]]॥
यद्धि᳘ व्विकर्णी᳘ च स्वयमातृण्णा᳘ च षष्ठ्या᳘ एव तच्चि᳘तेः॥
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘ ऽउ वै ष᳘डेव[[!!]]॥
यद्धि᳘ व्विकर्णी᳘ च स्वयमातृण्णा᳘ च षष्ठ्या᳘ एव तच्चि᳘तेः॥
मूलम् - Weber
ता᳘ उ वै ष᳘डेव᳟॥
यद्धि᳘ विकर्णी᳘ च स्वयमातृणा᳘ च षष्ठ्या᳘ एव तच्चि᳘तेः॥
मूलम् - विस्वरम्
ता उ वै षडेव । यद्धि विकर्णी च स्वयमातृण्णा च- षष्ठ्या एव तच्चितेः ॥ १० ॥
सायणः
ता उ वै षडेवेति । प्रसन्ना एवैतास्तिस्रः । चितिषु षडेव दर्शनं प्रासङ्गिकं कुर्वन्ति ॥ १०-१२॥
इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये ऽष्टमे काण्डे पञ्चमे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (८-५-४) ॥
इति पञ्चमो ऽध्यायश्च समाप्तः ॥ (८-५) ॥
Eggeling
- But, indeed, there are only six of them; for as to the Vikarṇī and the Svayam-ātr̥ṇṇā, they belong to the sixth layer.
११
विश्वास-प्रस्तुतिः
(स्ता) ता᳘ ऽउ वै प᳘ञ्चैव[[!!]]॥
य᳘जुषा ऽन्या᳘सु पु᳘रीषं निव᳘पति तूष्णीम᳘त्र ते᳘नैषा न चि᳘तिर᳘थो लोकम्पृणा᳘न्ता ऽअन्याश्चि᳘तयो भवन्ति ना᳘त्र लोकम्पृणामु᳘पधाति ते᳘नो ऽए᳘वैषा न चि᳘तिः॥
मूलम् - श्रीधरादि
(स्ता) ता᳘ ऽउ वै प᳘ञ्चैव[[!!]]॥
य᳘जुषा ऽन्या᳘सु पु᳘रीषं निव᳘पति तूष्णीम᳘त्र ते᳘नैषा न चि᳘तिर᳘थो लोकम्पृणा᳘न्ता ऽअन्याश्चि᳘तयो भवन्ति ना᳘त्र लोकम्पृणामु᳘पधाति ते᳘नो ऽए᳘वैषा न चि᳘तिः॥
मूलम् - Weber
ता᳘ उ वै प᳘ञ्चैव᳟॥
य᳘जुषान्या᳘सु पु᳘रीषं निव᳘पति तूष्णीम᳘त्र ते᳘नैषा न चि᳘तिर᳘थो लोकम्पृणा᳘न्ता अन्याश्चि᳘तयो भवन्ति ना᳘त्र लोकन्पृणामु᳘पधाति ते᳘नो एॗवैषा न चि᳘तिः॥
मूलम् - विस्वरम्
ता उ वै पञ्चैव । यजुषा ऽन्यासु पुरीषं निवपति । तूष्णीमत्र । तेनैषा न चितिः । अथो लोकम्पृणान्ता अन्याश्चितयो भवन्ति, नात्र लोकम्पृणामुपदधाति । तेनो एवैषा न चितिः ॥ ११ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- And, indeed, there are only five of them,–on the other (layers) he throws down the loose soil with a prayer, and here (he does so) silently: in that
respect this is not a layer. And the other layers end with space-fillers, but here he lays down no space-filler: in that respect also this is not a layer.
१२
विश्वास-प्रस्तुतिः
(स्ता᳘) ता᳘ ऽउ वै᳘ तिस्र᳘ ऽए᳘व[[!!]]॥
(वा) अय᳘मेव᳘ लोकः᳘ प्रथमा चि᳘तिर्द्यौ᳘रुत्तमा᳘ ऽथ या᳘ ऽएता᳘स्तिस्रस्त᳘दन्त᳘रिक्षं तद्वा᳘ ऽइदमे᳘कमिवै᳘वान्त᳘रिक्षं ता᳘ ऽएवं᳘ तिस्र᳘ ऽएवं प᳘ञ्चैवᳫँ᳭ ष᳘डेव᳘ᳫँ᳘ सप्त᳘॥
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘ ऽउ वै᳘ तिस्र᳘ ऽए᳘व[[!!]]॥
(वा) अय᳘मेव᳘ लोकः᳘ प्रथमा चि᳘तिर्द्यौ᳘रुत्तमा᳘ ऽथ या᳘ ऽएता᳘स्तिस्रस्त᳘दन्त᳘रिक्षं तद्वा᳘ ऽइदमे᳘कमिवै᳘वान्त᳘रिक्षं ता᳘ ऽएवं᳘ तिस्र᳘ ऽएवं प᳘ञ्चैवᳫँ᳭ ष᳘डेव᳘ᳫँ᳘ सप्त᳘॥
मूलम् - Weber
ता᳘ उ वै᳘ तिस्र᳘ एव᳟॥
अय᳘मेव᳘ लोकः᳘ प्रथमा चि᳘तिर्द्यौ᳘रुत्तमा᳘थ या᳘ एता᳘स्तिस्रस्त᳘दन्त᳘रिक्षं तद्वा᳘ इदमे᳘कमिवैॗवान्त᳘रिक्षं ता᳘ एवं᳘ तिस्र᳘ एवम् प᳘ञ्चैवं ष᳘डेव᳘ᳫं᳘ सप्त᳟॥
मूलम् - विस्वरम्
ता उ वै तिल एव । अयमेव लोकः प्रथमा चितिः, द्यौरुत्तमा, अथ या एतास्तिस्रः- तदन्तरिक्षम् । तद्वा इदमेकमिवैवान्तरिक्षम् । ता एवं तिस्रः, एवं पञ्च, एवं षट्, एवं सप्त ॥ १२ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- And, indeed, there are only three of them,–the first layer is this very (terrestrial) world; and the uppermost (layer) is the sky; and those three (intermediate layers) are the air, for there is, as it were, only one air here: thus (there are) three, or five, or six, or seven of them.