०१
विश्वास-प्रस्तुतिः
अ᳘थ स्तो᳘मभागा ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ प्रजा᳘पतेरेतद᳘न्नमि᳘न्द्रो᳘ ऽभ्यध्याय᳘त्सो ऽस्मादु᳘दचिक्रमिषत्त᳘मब्रवीत्कथो᳘त्क्रामसि[[!!]] कथा᳘ मा जहासी᳘ति स वै᳘ मे ऽस्या᳘न्नस्य र᳘सं प्र᳘यच्छे᳘ति ते᳘न वै᳘ मा सह प्र᳘पद्यस्वे᳘ति तथे᳘ति त᳘स्मा ऽएतस्या᳘न्नस्य र᳘सं प्रा᳘यच्छत्ते᳘नैनᳫँ᳭ सह प्रा᳘पद्यत॥
मूलम् - श्रीधरादि
अ᳘थ स्तो᳘मभागा ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ प्रजा᳘पतेरेतद᳘न्नमि᳘न्द्रो᳘ ऽभ्यध्याय᳘त्सो ऽस्मादु᳘दचिक्रमिषत्त᳘मब्रवीत्कथो᳘त्क्रामसि[[!!]] कथा᳘ मा जहासी᳘ति स वै᳘ मे ऽस्या᳘न्नस्य र᳘सं प्र᳘यच्छे᳘ति ते᳘न वै᳘ मा सह प्र᳘पद्यस्वे᳘ति तथे᳘ति त᳘स्मा ऽएतस्या᳘न्नस्य र᳘सं प्रा᳘यच्छत्ते᳘नैनᳫँ᳭ सह प्रा᳘पद्यत॥
मूलम् - Weber
अ᳘थ स्तो᳘मभागा उ᳘पदधाति॥
एतद्वै᳘ प्रजापतेरेतद᳘न्नमि᳘न्द्रो ऽभ्य᳘ध्यायॗत्सो ऽस्मादु᳘दचिक्रमिषत्त᳘मब्रवीत्कथो᳘त्क्रामसि कथा᳘ मा जहासी᳘ति स वै᳘ मे ऽस्या᳘न्नस्य र᳘सम् प्र᳘यछे᳘ति ते᳘न वै᳘ मा सह प्र᳘पद्यस्वे᳘ति तथे᳘ति त᳘स्मा एतस्या᳘न्नस्य र᳘सम् प्रा᳘यछत्ते᳘नैनᳫं सह प्रा᳘पद्यत॥
मूलम् - विस्वरम्
अथैकोनत्रिंशत्स्तोमभागेष्टकोपधानम् ।
अथ स्तोमभागा उपदधाति । एतद्वै प्रजापतेरेतदन्नमिन्द्रो ऽभ्यध्यायत् । सो ऽस्मादुदचिक्रमिषत् । तमब्रवीत्- कथोत्क्रामसि, कथा मा जहासीति । स वै मे ऽस्यान्नस्य रसं प्रयच्छेति । तेन वै मा सह प्रपद्यस्वेति । तथेति । तस्मा ऽएतस्यान्नस्य रसं प्रायच्छत् । तेनैनं सह प्रापद्यत ॥ १ ॥
सायणः
अथ स्तोमभागा इति । स्तोमभागा नामेष्टका उपदधातीति 1 । अतः परेणेतिहासेन तासामधिदैवं निरूपयन्नाह ‘एतद्वै’ तस्मिन्काले प्रजापतेः स्वतवान् । छन्दस्यात्मकत्वमिन्द्रः प्राणो ऽभिध्यातवान् स इन्द्रो ऽस्मात् प्रजापतेरपक्रमितुमैच्छत् ‘तम्’ इन्द्रम् प्रजापतिः ‘अब्रवीत्’ ‘कथा’ “था हेतौ च च्छन्दसि” (पा. सू. ५ । ३ । २३) इति हेतौ थाप्रत्यये रूपम् । ‘कथा’ च केन हेतुना ‘मा’ पितरं ‘जहासीति’ तं प्रजापतिमिन्द्र उवाच अस्यान्नस्य छन्दस्यात्मकस्य ‘रसं प्रयच्छेति’ । प्रजापतिरुवाच तेन तस्य रसेन मा सह रसेनैव त्वं मा प्रपद्यस्व मच्छरीररस एव भव तथा हि त्वं च तेन रसेन वसतिद्वारेण ह चेत्यभिप्रायः । प्रजापतिस्तु तथेत्युक्त्वा तस्मा इन्द्रायैतस्य छन्दस्यात्मकस्याधिदैवाधितया ऽध्यात्मस्यान्नस्य रसं प्रायच्छत् । तथैवानेन रसेन सहैनं प्रजापतिमिन्द्रः प्रपन्नः ॥ १ ॥
Eggeling
- He then lays down the Stomabhāgā (praise-sharing bricks). For at that time Indra set his mind upon that food of Prajāpati, and tried to go from him. He spake, ‘Why dost thou go from me? why dost thou leave me?’–‘Give me the essence of that food: enter me therewith!’–‘So be it!’ so he gave him the essence of that food, and entered him therewith.
०२
विश्वास-प्रस्तुतिः
स यः स᳘ प्रजा᳘पतिः॥
(र) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ यत्तद᳘न्नमेतास्ता᳘श्छन्द᳘स्या ऽअ᳘थ यः सो᳘ ऽन्नस्य र᳘स ऽएतास्ता स्तो᳘मभागा ऽअ᳘थ यः स ऽइ᳘न्द्रो ऽसौ स᳘ ऽआदित्यः स᳘ ऽएष᳘ ऽएव स्तो᳘मो यद्धि किं᳘ च स्तुव᳘त ऽएत᳘मेव ते᳘न स्तुवन्ति त᳘स्मा ऽएत᳘स्मै स्तो᳘मायैतं᳘ भागं प्रा᳘यच्छत्तद्य᳘देत᳘स्मै स्तो᳘मायैतं᳘ भागं प्रा᳘यच्छत्त᳘स्मात्स्तो᳘मभागाः॥
मूलम् - श्रीधरादि
स यः स᳘ प्रजा᳘पतिः॥
(र) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ यत्तद᳘न्नमेतास्ता᳘श्छन्द᳘स्या ऽअ᳘थ यः सो᳘ ऽन्नस्य र᳘स ऽएतास्ता स्तो᳘मभागा ऽअ᳘थ यः स ऽइ᳘न्द्रो ऽसौ स᳘ ऽआदित्यः स᳘ ऽएष᳘ ऽएव स्तो᳘मो यद्धि किं᳘ च स्तुव᳘त ऽएत᳘मेव ते᳘न स्तुवन्ति त᳘स्मा ऽएत᳘स्मै स्तो᳘मायैतं᳘ भागं प्रा᳘यच्छत्तद्य᳘देत᳘स्मै स्तो᳘मायैतं᳘ भागं प्रा᳘यच्छत्त᳘स्मात्स्तो᳘मभागाः॥
मूलम् - Weber
स यः स᳘ प्रजा᳘पतिः॥
अय᳘मेव सॗ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ यत्तद᳘न्नमेतास्ता᳘श्छन्दॗस्या अ᳘थ यः सो᳘ ऽन्नस्य र᳘स एतास्ता स्तो᳘मभागा अ᳘थ यः स इ᳘न्द्रो ऽसौ स᳘ आदित्यः स᳘ एष᳘ एव स्तो᳘मो यद्धि किं᳘ च स्तुव᳘त एत᳘मेव ते᳘न स्तुवन्ति त᳘स्मा एत᳘स्मै स्तो᳘मायैत᳘म् भागम् प्रा᳘यछत्तद्य᳘देत᳘स्मै स्तो᳘मायैत᳘म् भागम् प्रा᳘यछत्त᳘स्मात्स्तो᳘मभागाः॥
मूलम् - विस्वरम्
स यः स प्रजापतिः- अयमेव सः- यो ऽयमग्निश्चीयते । अथ यत्तदन्नम्- एतास्ताश्छन्दस्याः । अथ यः सो ऽन्नस्य रसः- एतास्ताः सोमभागाः । अथ यः स इन्द्रः- असौ स आदित्यः । स एष एव स्तोमः । यद्धि किं च स्तुवते- एतमेव तेन स्तुवन्ति । तस्मा एतस्मै स्तोमायैतं भागं प्रायच्छत् । तद्यदेतस्मै स्तोमायैतं भागं प्रायच्छत्- तस्मात्स्तोमभागाः ॥ २ ॥
सायणः
स यः स प्रजापतिरिति । प्रजापत्यादीनि मन्त्राद्यात्मिकानि शरीराणि दृश्यन्ते । आधिदैवपक्षस्यायमर्थः- ‘यः स इन्द्रो ऽसौ स आदित्यः’ इति यः प्राणस्य तेजसा सहांगे शस्तश्चासावादित्यो ऽवकाशस्तथा चाह (तद्वा एवैनो उच्चौधनगमषद्योयं दक्षिणे ऽक्षन्पुरुषधेनामे योयं दक्षिणेक्षन्पुरुष इत्यादित्ये एवादित्ये भर्तव्यत्वात्स्तोमः । बा देवेहिकं वाचा लोकवेदयोः स्तुवते केचित्तेन सर्वेण द्वारस्ततिनः समवादित्यस्तुवन्त्येतस्यैव सर्वावेशिनः सर्वे स्तूयमानत्वात् प्राणमित्यभिप्रायः । ततः किञ्चिद्यदादित्यः स्तोम इत्येतदादित्यस्तोम इत्यत आह ‘तस्मै एतस्मै’ स्तोमादित्यौ । यतः परमात्मसपत्नकं देवाधिदेवाकारेणावस्थितं ततो भजनीयमित्यत्र भूतं स्थितिहेतुं प्रभवमित्यादिनिर्वचनेन तु चैवं कुर्वतो षष्ठीसमासो ऽयं दर्शितः स्तोमस्य भागः स्तोमभाग इति च । तथासामिति भागवत्त्वाच्च स्त्रीलिङ्गबहुवचनेनोपधेयता) नैष दोषः ॥ २ ॥
Eggeling
- Now he who was that Prajāpati is this very Agni (the fire-altar) that is now being built up; and that food is these Chandasyā (bricks); and that essence of food is these Stomabhāgās; and he who was Indra is yonder Āditya (the sun): he indeed is the Stoma (hymn of praise), for whatsoever praises they sing, it is him they praise thereby,–it is to that same Stoma he gave a share; and inasmuch as
p. 93
he gave a share (bhāga) to that Stoma, these are (called) Stomabhāgās.
०३
विश्वास-प्रस्तुतिः
(०) रश्मि᳘ना सत्या᳘य सत्यं᳘ जिन्वे᳘ति॥
(त्ये) एष वै᳘ रश्मिर᳘न्नᳫँ᳭ रश्मि᳘रेतं᳘ च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते प्रे᳘तिना ध᳘र्मणा ध᳘र्मं जिन्वे᳘त्येष वै प्रे᳘तिर᳘न्नं प्रे᳘तिरेतं᳘ च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते᳘ ऽन्वित्या दिवा दि᳘वं जिन्वे᳘त्येष वा ऽअ᳘न्वितिर᳘न्नम᳘न्वितिरेतं᳘ च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते तद्य᳘द्यदेतदा᳘ह त᳘च्च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते ऽमु᳘ना ऽदो᳘ जिन्वा᳘दो ऽस्यमु᳘ष्मै त्वा᳘ ऽधिपतिनोर्जो᳘र्जं जिन्वे᳘ति त्रेधाविहिता᳘स्त्रेधाविहितᳫँ᳭ ह्य᳘न्नम्॥
मूलम् - श्रीधरादि
(०) रश्मि᳘ना सत्या᳘य सत्यं᳘ जिन्वे᳘ति॥
(त्ये) एष वै᳘ रश्मिर᳘न्नᳫँ᳭ रश्मि᳘रेतं᳘ च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते प्रे᳘तिना ध᳘र्मणा ध᳘र्मं जिन्वे᳘त्येष वै प्रे᳘तिर᳘न्नं प्रे᳘तिरेतं᳘ च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते᳘ ऽन्वित्या दिवा दि᳘वं जिन्वे᳘त्येष वा ऽअ᳘न्वितिर᳘न्नम᳘न्वितिरेतं᳘ च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते तद्य᳘द्यदेतदा᳘ह त᳘च्च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते ऽमु᳘ना ऽदो᳘ जिन्वा᳘दो ऽस्यमु᳘ष्मै त्वा᳘ ऽधिपतिनोर्जो᳘र्जं जिन्वे᳘ति त्रेधाविहिता᳘स्त्रेधाविहितᳫँ᳭ ह्य᳘न्नम्॥
मूलम् - Weber
रश्मि᳘ना सत्या᳘य सत्यं᳘ जिन्वे᳘ति॥
एष वै᳘ रश्मिर᳘न्नं रश्मि᳘रेतं᳘ च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते प्रे᳘तिना ध᳘र्मणा ध᳘र्मं जिन्वे᳘त्येष वै प्रे᳘तिर᳘न्नम् प्रे᳘तिरेतं᳘ च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते᳘ ऽन्वित्या दिवा दि᳘वं जिन्वे᳘त्येष वा अ᳘न्वितिर᳘न्नम᳘न्वितिरेतं᳘ च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते तद्य᳘द्यदेतदा᳘ह त᳘च्च तद्र᳘सं च संधा᳘यात्मन्प्र᳘पादयते ऽमु᳘नादो᳘ जिन्वा᳘दो ऽस्यमु᳘ष्मै त्वा᳘धिपतिनोर्जो᳘र्जं जिन्वे᳘ति त्रेधाविहिता᳘स्त्रेधाविहितᳫं ह्य᳘न्नम्॥
मूलम् - विस्वरम्
“रश्मिना सत्याय सत्यं जिन्व”- इति । एष वै रश्मिः । अन्नं रश्मिः । एतं च तद्रसं च सन्धायात्मन्प्रपादयते । “प्रेतिना धर्मणा धर्मं जिन्व”- इति । एष वै प्रेतिः । अन्नं प्रेतिः । एतं च तद्रसं च सन्धायात्मन्प्रपादयते । “अन्वित्या दिवा दिवं जिन्व”- इति । एष वा ऽअन्वितिः । अन्नमन्वितिः । एतं च तद्रसं च संधायात्मन्प्रपादयते । तद् यद्यदेतदाह- तच्च तद्रसं च संधायात्मन्प्रपादयते । अमुना ऽदो जिन्व, अदो ऽसि, अमुष्मै त्वा, “अधिपतिनोर्जा, ऊर्जं जिन्व"- (वा. सं. १५ । ६-९) इति त्रेधा विहिताः । त्रेधाविहितं ह्यन्नम् ॥ ३ ॥
सायणः
निरूढस्यैव स्त्रीलिङ्गस्य बहुवचनान्तस्य चाव्युत्पत्तिमन्त्रमात्रेणैवारभ्यते- रश्मिना इति । एष वै रश्मिरित्यादिनेतिहासार्थं मन्त्राणामभिधानं दर्शयति- तस्य चेतिहासशेषसंक्षेपेणार्थः । प्रजापतेर्विश्वरूपस्य सत्यधर्मादिभिराकारैरवस्थितस्य यदिदं स्थावरजङ्गमात्मकमन्नं तस्य रश्मिरादाय संचरतीत्यादित्यप्रजापतिनामात्मानं च सर्वाश्च प्रजापतेः प्रत्यङ्गभूतदेवतास्तेन रसेन तर्पयति न केवलमात्मानम् । तथैवायमध्यात्मं प्राणं सर्वान् प्राणान् प्राणिनामात्मानमवान्तररसेन तर्पयत्येतत्तेन प्रजापतिसंवादेनेति निष्पन्नम् । तच्चैतदधियज्ञमन्त्रेणेष्टकासु दर्शयते तत्र प्रथमतो यदिष्टकोच्यते । हे इष्टके ! सत्याय सत्यात्मकाय प्रजापतये यदात्माने (यवत्वीहमु) उपधीयेति शेषः । कुत एतत्त्रिवृतोपदधामीत्यादि चतुर्थ्यत्वात्तत्र चोपदधातीत्यस्य तस्य कल्पनीयत्वादत्रापि त्वामुपदधामीति शब्दो विज्ञायते । तत् सत्यात्मकं प्रजापतिं यजमानत्वमत्राग्नीकोपधीयमानं ‘जिन्व’ तर्पय केन रश्मिना समश्नुत इति । रश्मिश्चादित्येन रसस्थितस्य तस्य रसो रश्मिता रसो ऽपि रश्मिस्थितत्वाद्रश्मिः । अथवा रसत्वसाधनादयस्तेन रश्मिना रसपूर्णनादित्यनेन जित्वा रसः पूर्णः स्यादित्यस्य त्वमधियज्ञिकशरीरभूता इमं चित्यामेकमधियज्ञं प्रजापतिं यजमानं च प्रपद्यस्वेत्यर्थः । एतदाह- एष वै आदित्यो रश्मिभिरुक्तो निर्वचनात् । रसं चान्नरसं रश्मिना स्थानशब्देन योगादेव ता एवं च (तदादित्यरसवसवापि कीर्त्या) तथैकशब्दोपादानेनेष्टकाशरीरोक्तत्वात्सशरीरे अधियज्ञिके प्रजापतेर्यजमानस्य च प्रपादयते । एवमेवोत्तरेष्वपि मन्त्रेषु यंद्वितीयान्तेन धर्मादि तर्पणीय प्रपद्य तत्पूर्वं चतुर्थ्यन्तेन (उपधानप्रयोजनत्वेनोपत्यस्तृतीयनेमश्च) यत्र द्वितीयायुक्तानां प्रातिपदिकानां प्रथमतृतीयानिर्देशास्ते व्यत्ययेन चतुर्थीनिर्देशा द्रष्टव्या इत्येतदङ्गीकृत्य प्रेतिशब्देन च केवलेनादित्यं रसं चोपात्ते सन्ध्यात्मकं प्रपादयत इत्याह- (प्रकृत्यष्वागतिरादित्य भूतानां तस्थावादभ्यरसो पिबति । एवमनयन्ति तमित्यात्विगिस्थत्वाद्वातरसः । एवं रश्मीति स्त्रीच्छन्दत्वात्तुमित्यावद्वचनत्वात्) अव्याख्यानव्याप्त्यर्थं सामान्यव्याख्यां करोति । यत्संविधादित्यतीया अनेन शब्देन जिन्वतिकारणमाह- तच्च संवत्सर स्थितं सन्धायात्मन् प्रपादयत इति । अत्र तस्येति वचनं प्रायः संधाय तत् । संवत्सरमित्यर्थः । ‘अमुना ऽदो जिन्वेति सवननामत्वमग्नेर्नानाविशेषयुक्तानां मन्त्राणामेकप्रकारं दर्शयति । अमुना ऽदो रश्म्यादिना । ‘अदः’ सत्यादीत्येवंरूपस्तावदेका कण्डिकादधोमन्त्राणां राशिः । अत्र च राशावमुष्मै त्वोपदधातीत्येतदनास्तातत्वादर्थतो विद्यमानमपि न कीर्त्तितः । ‘अदः’ त्रिवृदाद्यस्य अमुष्मै त्रिवृदादिकार्यायेत्येवंरूपो ऽपरो तत्र राशिः अधिपतिर्नरस्तेन चोर्जं प्रजापतिं जिन्वोपदधामीत्येष तृतीयो मन्त्रभेदः । यद्यपि च प्रथमस्यैवाद्यमन्त्रस्य राशेरपहरति तेषामपि लक्षणैर्व्यवहितत्वात् पृथगवस्थितापि । एवमेते तावन्मन्त्राः ‘त्रेधा’ त्रिषु स्थानेषु ‘विहिताः’ तेषां त्रेधा विहितत्वात् । आद्युक्ता इष्टकास्त्रेधा विहिता इत्याह- त्रेधा विहितं ह्यन्नम् । जङ्गमं तावत्पिता माता पुत्र इत्येवं स्थावरमपि तापो वृष्टिर्बीजमिति तदनुकारणे सो ऽपि त्रेधाविहितस्तदनुकारा इष्टका इत्यभिप्रायः ॥ ३ ॥
Eggeling
- [He lays them down, with, Vāj. S. XV, 6. 7], ‘By the ray quicken thou the truth for truth!’–the ray, doubtless, is that (sun), and ray is food; having put together that (sun) and the essence thereof, he makes it enter his own self;–‘by the starting, by the law, quicken the law!’–the starting, doubtless, is that (sun), and the starting also means food: having put together that (sun) and the essence thereof, he makes it enter his own self;–‘by the going after, by the sky, quicken the sky!’–the going after, doubtless, is that (sun), and the going after also means food; having put together that (sun) and the essence thereof, he makes it enter his own self. Thus whatever he mentions here, that and the essence thereof he puts together and makes it enter his own self: ‘By such and such quicken thou such and such!’–‘Such and such thou art: for such and such (I deposit) thee!’–‘By the lord, by strength, quicken strength!’ thus they (the bricks) are divided into three kinds, for food is of three kinds.
०४
विश्वास-प्रस्तुतिः
य᳘द्वेव स्तो᳘मभागा ऽउपद᳘धाति॥
(त्ये) एतद्वै᳘ देवा᳘ व्विरा᳘जं चि᳘तिं चित्वा᳘ समा᳘रो᳘हंस्ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना ना᳘कमेव᳘ स्वर्गं᳘ लोक᳘मपश्यंस्तमु᳘पादधत स यः स ना᳘कः स्वर्गो᳘ लोक᳘ ऽएतास्ताः स्तो᳘मभागास्तद्य᳘देता᳘ ऽउपद᳘धाति ना᳘कमे᳘वैत᳘त्स्वर्गं᳘ लोकमु᳘पधत्ते॥
मूलम् - श्रीधरादि
य᳘द्वेव स्तो᳘मभागा ऽउपद᳘धाति॥
(त्ये) एतद्वै᳘ देवा᳘ व्विरा᳘जं चि᳘तिं चित्वा᳘ समा᳘रो᳘हंस्ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना ना᳘कमेव᳘ स्वर्गं᳘ लोक᳘मपश्यंस्तमु᳘पादधत स यः स ना᳘कः स्वर्गो᳘ लोक᳘ ऽएतास्ताः स्तो᳘मभागास्तद्य᳘देता᳘ ऽउपद᳘धाति ना᳘कमे᳘वैत᳘त्स्वर्गं᳘ लोकमु᳘पधत्ते॥
मूलम् - Weber
य᳘द्वेव स्तो᳘मभागा उपद᳘धाति॥
एतद्वै᳘ देवा᳘ विरा᳘जं चि᳘तिं चित्वा᳘ समा᳘रोॗहंस्ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना ना᳘कमेव᳘ स्वर्गं᳘ लोक᳘मपश्यंस्तमु᳘पादधत स यः स ना᳘कः स्वर्गो᳘ लोक᳘ एतास्ता स्तो᳘मभागास्तद्य᳘देता᳘ उपद᳘धाति ना᳘कमेॗवैत᳘त्स्वर्गं᳘ लोकमु᳘पधत्ते॥
मूलम् - विस्वरम्
यद्वेव स्तोमभागा उपदधाति । एतद्वै देवा विराजं चितिं चित्वा समारोहन् । ते ऽब्रुवन्- चेतयध्वमिति- चितिमिच्छतेति वाव तदब्रुवन् । ते चेतयमाना नाकमेव स्वर्गं लोकमपश्यन् । तमुपादधत । स यः स नाकः स्वर्गो लोकः- एतास्ताः स्तोमभागाः । तद्यदेता उपदधाति- नाकमेवैतत्स्वर्गं लोकमुपधत्ते ॥ ४ ॥
सायणः
एवं तावच्छब्दस्याशु यत् प्राजापत्यदर्शनमुक्तं तस्यानन्तरं (सम्बन्धमेवास्तरमेव भागास्विदं) प्राजापत्यदर्शनसम्बद्धं स्तोमभागास्वपि दैवे दर्शनं वक्तुमाह- यद्वेव स्तोमभागा इति । ‘यद्वेव’ विराजम् द्युलोकं ‘चित्वा’ समारूढाः स्तोमभागमवदः । (रवरहितं वा ऽमी) तद्दिवः सारभूतं प्रधानो देवनिवासं ‘स्वर्गम्’ ‘लोकम्’ स्तोमभागात्मकं त्रैलोक्यदिशश्च । दर्शयति- तत्र त्विदं वक्तव्यम् । द्युलोक एवायं विद्वद्भिः कल्पितः । कुतो ऽत्र प्रकृत्य पृथिवी चान्तरिक्षं त्वायातमिति । नैष दोषः । द्युलोक एव ह्येतदुत्तममध्यमाधमस्तोमगतेष्टका त्रैलोक्यं परिकल्पते ॥ ४ ॥
Eggeling
- And as to why he lays down the Stomabhāgās. Now the gods, having laid down the far-shining layer, mounted it. They spake, ‘Meditate ye!’ whereby, doubtless, they meant to say, ‘Seek ye a layer!’ Whilst meditating, they saw even the firmament, the heavenly world, and laid it down. Now that same firmament, the heavenly world, indeed is the same as these Stomabhāgās, and thus in laying down these, he lays down the firmament, the heavenly world.
०५
विश्वास-प्रस्तुतिः
तद्या᳘स्तिस्रः᳘ प्रथमाः᳘॥
(ऽ) अयᳫँ᳭ स᳘ लोको या᳘ द्विती᳘या ऽअन्त᳘रिक्षं तद्या᳘स्तृती᳘या द्यौः सा या᳘श्चतु᳘र्थ्यः[[!!]] प्रा᳘ची सा दिग्याः᳘ पञ्च᳘म्यो द᳘क्षिणा सा याः᳘ ष᳘ष्ठ्यः[[!!]] प्रती᳘ची सा याः᳘ सप्तम्य᳘ ऽउ᳘दीची सा[[!!]]॥
मूलम् - श्रीधरादि
तद्या᳘स्तिस्रः᳘ प्रथमाः᳘॥
(ऽ) अयᳫँ᳭ स᳘ लोको या᳘ द्विती᳘या ऽअन्त᳘रिक्षं तद्या᳘स्तृती᳘या द्यौः सा या᳘श्चतु᳘र्थ्यः[[!!]] प्रा᳘ची सा दिग्याः᳘ पञ्च᳘म्यो द᳘क्षिणा सा याः᳘ ष᳘ष्ठ्यः[[!!]] प्रती᳘ची सा याः᳘ सप्तम्य᳘ ऽउ᳘दीची सा[[!!]]॥
मूलम् - Weber
तद्या᳘स्तिस्रः᳘ प्रथमाः᳟॥
अयᳫं स᳘ लोको या᳘ द्विती᳘या अन्त᳘रिक्षं तद्या᳘स्तृती᳘या द्यौः सा या᳘श्चतुर्थ्यः᳘ प्रा᳘ची सा दिग्याः᳘ पञ्चॗम्यो दक्षिणा सा याः᳘ षष्ठ्यः᳘ प्रती᳘ची सा याः᳘ सप्तम्य᳘ उ᳘दीची सा᳟॥
मूलम् - विस्वरम्
तद् यास्तिस्रः प्रथमाः- अयं स लोकः । या द्वितीयाः- अन्तरिक्षं तत् । यास्तृतीयाः- द्यौः सा । याश्चतुर्थ्यः- प्राची सा दिक् । याः पञ्चम्यो- दक्षिणा सा । याः षष्ठ्यः- प्रतीची सा । याः सप्तम्यः- उदीची सा ॥ ५ ॥
सायणः
तत्र चायं लोक इत्यादयः शब्दाः स्थानसामान्येन वेदितव्याः । एवं प्रथमादयो ऽपि दिश आदित्या एव द्रष्टव्याः । अथ वा ते ऽपि स्वर्गो लोको लवणोदकवत् त्रैलोक्ये ऽप्युक्त एवेत्येतदभिप्रायमेतत्ततश्चामुत्रापि लोके यः सारभूतः सुखोक्तदेशः स स्वर्ग एवेत्येतदेतेन त्रैलोक्यकल्पनेनावसीयते ॥ ५ ॥
Eggeling
- The first three (bricks) are this (terrestrial)
p. 94
world, the second (three) the air, and the third (three) the sky, the fourth the eastern, the fifth the southern, the sixth the western, and the seventh the northern regions.
०६
विश्वास-प्रस्तुतिः
ता वा᳘ ऽएताः᳘॥
(ऽ) ए᳘कविᳫँ᳭शतिरि᳘ष्टका ऽइमे᳘ च लोका दि᳘शश्चेमे᳘ च वै᳘ लोका दि᳘शश्च प्रति᳘ष्ठेमे᳘ च लोका दि᳘शश्चैकविᳫँ᳭शस्त᳘स्मादाहुः प्रति᳘ष्ठैकविᳫँ᳭श ऽइति[[!!]]॥
मूलम् - श्रीधरादि
ता वा᳘ ऽएताः᳘॥
(ऽ) ए᳘कविᳫँ᳭शतिरि᳘ष्टका ऽइमे᳘ च लोका दि᳘शश्चेमे᳘ च वै᳘ लोका दि᳘शश्च प्रति᳘ष्ठेमे᳘ च लोका दि᳘शश्चैकविᳫँ᳭शस्त᳘स्मादाहुः प्रति᳘ष्ठैकविᳫँ᳭श ऽइति[[!!]]॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
ए᳘कविंशतिरि᳘ष्टका इमे᳘ च लोका दि᳘शश्चेमे᳘ च वै᳘ लोका दि᳘शश्च प्रतिॗष्ठेमे᳘ च लोका दि᳘शश्चैकविंशस्त᳘स्मादाहुः प्रतिॗष्ठैकविंश इ᳘ति॥
मूलम् - विस्वरम्
ता वा एता एकविंशतिरिष्टकाः- इमे च लोकाः, दिशश्च । इमे च वै लोका दिशश्च प्रतिष्ठा । इमे च लोका दिशश्चैकविंशः । तस्मादाहुः- प्रतिष्ठैकविंश इति ॥ ६ ॥
सायणः
ता वा एता इति । एकविंशतिपरिमाणसमूह एकविंशः सम्भूतानां प्रतिष्ठास्वधिवास इति प्रसिद्धिः ॥ ६ ॥
Eggeling
- These twenty-one bricks, then, are these worlds and the regions, and these worlds and the regions are a foundation, and these worlds and the regions are twenty-one: whence they say, ’the Ekaviṁśa (twenty-one-fold) is a foundation.’
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ या᳘ ऽअष्टावि᳘ष्टका ऽअतिय᳘न्ति[[!!]]॥
सा ऽष्टा᳘क्षरा गायत्री ब्र᳘ह्म गायत्री तद्यत्तद्ब्र᳘ह्मैतत्तद्य᳘देतन्म᳘ण्डलं त᳘पति त᳘देत᳘स्मिन्नेकविᳫँ᳭शे᳘ प्रतिष्ठायां᳘ प्र᳘तिष्ठितं तपति त᳘स्मान्ना᳘वपद्यते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ या᳘ ऽअष्टावि᳘ष्टका ऽअतिय᳘न्ति[[!!]]॥
सा ऽष्टा᳘क्षरा गायत्री ब्र᳘ह्म गायत्री तद्यत्तद्ब्र᳘ह्मैतत्तद्य᳘देतन्म᳘ण्डलं त᳘पति त᳘देत᳘स्मिन्नेकविᳫँ᳭शे᳘ प्रतिष्ठायां᳘ प्र᳘तिष्ठितं तपति त᳘स्मान्ना᳘वपद्यते॥
मूलम् - Weber
अ᳘थ या᳘ अष्टावि᳘ष्टका अतिय᳘न्ति᳟᳟॥
साष्टा᳘क्षरा गायत्री ब्र᳘ह्म गायत्री तद्यत्तद्ब्र᳘ह्मैतत्तद्य᳘देतन्म᳘ण्डलं त᳘पति त᳘देत᳘स्मिन्नेकविंशे᳘ प्रतिष्ठाया᳘म् प्र᳘तिष्ठितं तपति त᳘स्मान्ना᳘वपद्यते॥
मूलम् - विस्वरम्
अथ या अष्टाविष्टका अतियन्ति- सा ऽष्टाक्षरा गायत्री । ब्रह्म गायत्री । तद्- यत्तद्ब्रह्म- एतत्तद्- यदेतन्मण्डलं तपति । तदेतस्मिन्नेकविंशे प्रतिष्ठायां प्रतिष्ठितं तपति । तस्मान्नावपद्यते ॥ ७ ॥
सायणः
अथ या अष्टाविति । सा ऽष्टाक्षरा गायत्री संख्यासामान्याद् ब्रह्मलक्षणा गायत्री प्रतिपादयति । ऋगादीनां गायत्र्वामेव भूत्वा चतुर्थीलक्षणं ब्रह्मैतत्तद्यत् यस्मात् एतन्मण्डलं एव तपति त्रयीजन्यापूर्वाराध्वायं सत् तदिति नाधिवासास्तनत्रयीकार्यत्वात्त्रयी कल्प्यत इत्येते त्रयीपाप्मत्वेनातिगतामेततत्तेजसा समानार्थपुरुषात्मकं शरीरमित्यन्यत्र एव तु विकारस्तेजसो ऽयं मतान्तरं ब्रह्मणो ऽभिधेयत्वान्मण्डलं ब्राह्मत्पार ( ) यथा वासनं तु सर्वमुपपन्नमिति स्थितिः । तदेतस्मिन्नेकविंशतिरश्मिभिः प्रतिष्ठितमेवैतस्मिन्नेतत् । ‘तस्मान्नावपद्यते’ यस्मादन्नं प्रथमो ऽत्र विवृत्तत्वाद्वा मत्प्रधानात्मिकम् ॥ ७ ॥
Eggeling
- And the eight bricks which remain over are the Gāyatrī consisting of eight syllables; but the Gāyatrī is the Brahman, and as to that Brahman, it is yonder burning disk: it burns, while firmly-established on that twenty-one-fold one, as on a foundation, whence it does not fall down.
०८
विश्वास-प्रस्तुतिः
तद्धै᳘के॥
व्वे᳘षश्रीः क्षत्रा᳘य क्षत्रं᳘ जिन्वे᳘ति त्रᳫँ᳭शत्तमीमु᳘पदधति त्रिᳫँ᳭श᳘दक्षरा व्विरा᳘ड्विरा᳘डेषा चि᳘तिरि᳘ति न त᳘था कुर्याद᳘ति ते᳘ रेचयन्त्येकविᳫँ᳭शसम्प᳘दम᳘थो गायत्रीसम्प᳘दम᳘थो ऽइन्द्रलोको᳘ हैष᳘ यैषा᳘ न्यूना व्विराडि᳘न्द्राय ह त᳘ ऽइन्द्रलोके᳘ द्विष᳘न्तं भ्रा᳘तृव्यं प्रत्युद्यामि᳘नं कुर्व्वन्ती᳘न्द्रमिन्द्रलोका᳘न्नुदन्ते य᳘जमानो वै स्वे᳘ यज्ञ ऽइ᳘न्द्रो य᳘जमानाय ह ते᳘ यजमानलोके᳘ द्विष᳘न्तं भ्रा᳘तृव्यं प्रत्युद्यामि᳘नं कुर्व्वन्ति य᳘जमानं यजमानलोका᳘न्नुदन्ते यं वा᳘ ऽएत᳘मग्नि᳘माह᳘रन्त्येष᳘ ऽएव य᳘जमान ऽआय᳘तनेनैष᳘ उ ऽएवा᳘त्र त्रिᳫँ᳭शत्तमी᳘॥ (अर्धप्रपाठकः॥)
मूलम् - श्रीधरादि
तद्धै᳘के॥
व्वे᳘षश्रीः क्षत्रा᳘य क्षत्रं᳘ जिन्वे᳘ति त्रᳫँ᳭शत्तमीमु᳘पदधति त्रिᳫँ᳭श᳘दक्षरा व्विरा᳘ड्विरा᳘डेषा चि᳘तिरि᳘ति न त᳘था कुर्याद᳘ति ते᳘ रेचयन्त्येकविᳫँ᳭शसम्प᳘दम᳘थो गायत्रीसम्प᳘दम᳘थो ऽइन्द्रलोको᳘ हैष᳘ यैषा᳘ न्यूना व्विराडि᳘न्द्राय ह त᳘ ऽइन्द्रलोके᳘ द्विष᳘न्तं भ्रा᳘तृव्यं प्रत्युद्यामि᳘नं कुर्व्वन्ती᳘न्द्रमिन्द्रलोका᳘न्नुदन्ते य᳘जमानो वै स्वे᳘ यज्ञ ऽइ᳘न्द्रो य᳘जमानाय ह ते᳘ यजमानलोके᳘ द्विष᳘न्तं भ्रा᳘तृव्यं प्रत्युद्यामि᳘नं कुर्व्वन्ति य᳘जमानं यजमानलोका᳘न्नुदन्ते यं वा᳘ ऽएत᳘मग्नि᳘माह᳘रन्त्येष᳘ ऽएव य᳘जमान ऽआय᳘तनेनैष᳘ उ ऽएवा᳘त्र त्रिᳫँ᳭शत्तमी᳘॥ (अर्धप्रपाठकः॥)
मूलम् - Weber
तद्धै᳘के॥
वे᳘षश्रीः क्षत्रा᳘य क्षत्रं᳘ जिन्वे᳘ति त्रिंशत्तमीमु᳘पदधति त्रिंश᳘दक्षरा विरा᳘ड्विरा᳘डेषा चि᳘तिरि᳘ति न त᳘था कुर्याद᳘ति ते᳘ रेचयन्त्येकविंशसम्प᳘दम᳘थो गायत्रीसम्प᳘दम᳘थो इन्द्रलोको᳘ हैषॗ यैषा᳘न्यूना विराडि᳘न्द्राय ह त᳘ इन्द्रलोके᳘ द्विष᳘न्तम् भ्रा᳘तृव्यम् प्रत्युद्यामि᳘नं कुर्वन्ती᳘न्द्रमिन्द्रलोका᳘न्नुदन्ते य᳘जमानो वै स्वे᳘ यज्ञ इ᳘न्द्रो य᳘जमानाय ह ते᳘ यजमानलोके᳘ द्विष᳘न्तम् भ्रा᳘तृव्यम् प्रत्युद्यामि᳘नं कुर्वन्ति य᳘जमानं यजमानलोका᳘न्नुदन्ते यं वा᳘ एत᳘मग्नि᳘माह᳘रन्त्येष᳘ एव य᳘जमान आय᳘तनेनैष᳘ उ एवा᳘त्र त्रिंशत्तमी᳟ 2 ॥
मूलम् - विस्वरम्
तद्धैके- “वेषश्रीः क्षत्राय क्षत्रं जिन्व”- इति त्रिंशत्तमीमुपदधति । त्रिंशदक्षरा विराट् । विराडेषा चितिरिति । न तथा कुर्यात् । अति ते रेचयन्त्येकविंशसम्पदम् । अथो गायत्रीसम्पदम् । अथो इन्द्रलोक हैष- यैषा न्यूना विराट् । इन्द्राय ह त इन्द्रलोके द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्वन्ति । इन्द्रमिन्द्रलोकानुदन्ते । यजमानो वै स्वे यज्ञ इन्द्रः । यजमानाय ह ते यजमानलोके द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्वन्ति । यजमानं यजमानलोकान्नुदन्ते । यं वा एतमाग्निमाहरन्ति- एष एव यजमान आयतनेन । एष उ एवात्र त्रिंशत्तमी ॥ ८ ॥
सायणः
तद्धैके 3 इति । अथ उ इन्द्रलोको हैष इति । यत्तद्विराजः त्रिंशत्तमं शून्यं स्थानं तदिन्द्रस्य स्वराज्यस्य भोक्तुं स्थानं तत्र स्थितः स तां विराजं भुङ्क्ते । यस्तु तत्रापीष्टकामुपदधाति स तस्येन्द्रस्य लोकस्थाने भ्रातृव्यं करोति, इत्यागमिकम् । यदि तु त्रिंशत्तम्याः प्रयोजनं ततो ऽयमेवाग्निः सञ्चिनोति चिते- आहरन्त्येषु पचन्ति । सप्तमीष्टका भविष्यतीति । न तु तत्रापि स दोषः स्थित एव यजमानस्य द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्वन्तीत्यत आह- एष यजमान इति । स एवाग्निः स एव यजमानः कथमानयते न तु प्राधान्यतेत्यर्थः । स्वामी हि यजमानो यज्ञे प्रधानं चित्यो ऽग्निः प्रधानम् । अतः प्राधान्याद्यजमान एवाग्निः । ततश्चाग्नौ त्रिंशत्तम्याम् एवेन्द्रो यजमानश्चायतनवान् भवतीति । अत्रापि च देवे दर्शनमन्त्रास्तथैव योजनीयाः । स हि नाकः स्वर्गो लोको रश्मिशरीरसत्यादिदेवयास्ताव स्तोमेष्टकोच्यते सत्यादयश्च ये स्वर्गावयवभूताः । यत्त्वोपदधाति सा त्वमुपधीयमाना सह रसेन सत्यं जिन्व तर्पयेत्याकारसमर्थं कुर्वित्ययमुत्तरेष्वपि योज्यः ॥ ८ ॥
इति श्रीहरिस्वामिनः कृतौ माध्यन्दिनीयशतपथब्राह्मणभाष्ये ऽष्टमे काण्डे पञ्चमे ऽध्याये तृतीयं ब्राह्मणम् ॥ (८-५-३) ॥
Eggeling
- Now some lay down a thirtieth (Stomabhāgā), with, ‘Beautifully arrayed, quicken thou the kshatra for the kshatra!’ saying, ‘Of thirty syllables is the Virāj (metre) and this layer is virāj (far-shining).’ But let him not do so: they (who do so) exceed (this layer so as not to be) amounting to the twenty-one-fold, and to the Gāyatrī; and that undiminished Virāj, doubtless, is the world of Indra: in the world of Indra they raise a spiteful enemy of equal power (to Indra), and thrust Indra out of the world of Indra. And at his own sacrifice the Sacrificer assuredly is Indra: in the Sacrificer’s realm they raise for the Sacrificer a spiteful enemy of equal power, and thrust the Sacrificer out of the Sacrificer’s own realm. But, surely, that fire which they bring hither is no other than this Sacrificer: by means of his foundation it is he who is the thirtieth (brick) in this (layer).