०१
विश्वास-प्रस्तुतिः
अथा᳘तो ऽन्वावृत᳘म्॥
(न्त्रि) त्रिवृ᳘द्वतीं पुर᳘स्तादुपद᳘धात्येकविᳫँ᳭श᳘वतीं पश्चा᳘त्पञ्चदश᳘वतीं दक्षिणतः᳘ सप्तदश᳘वतीमुत्तरतः᳘॥
मूलम् - श्रीधरादि
अथा᳘तो ऽन्वावृत᳘म्॥
(न्त्रि) त्रिवृ᳘द्वतीं पुर᳘स्तादुपद᳘धात्येकविᳫँ᳭श᳘वतीं पश्चा᳘त्पञ्चदश᳘वतीं दक्षिणतः᳘ सप्तदश᳘वतीमुत्तरतः᳘॥
मूलम् - Weber
अथा᳘तो ऽन्वावृत᳘म्॥
त्रिवृ᳘द्वतीम् पुर᳘स्तादुपद᳘धात्येकविंश᳘वतीम् पश्चा᳘त्पञ्चदश᳘वतीं दक्षिणतः᳘ सप्तदश᳘वतीमुत्तरतः᳟॥
मूलम् - विस्वरम्
अथातो ऽन्वावृतम् । त्रिवृद्वतीं पुरस्तादुपदधाति, एकविंशवतीं पश्चात्, पञ्चदशवतीं दक्षिणतः । सप्तदशवतीमुत्तरतः ॥ १ ॥
सायणः
अथातो ऽन्वावृतमिति । अत्र ब्राह्मणे स्तोमानां स्पृतां च क्रमदेशावुच्येते । किन्त्वप्रासङ्गिकं तत् प्रतिजानीते- ‘अथातः’ परम् ‘अन्वावृतम्’ वक्ष्यत इति शेषः । आवृत एवानुकुर्यात् किंचित् क्रमादिना वक्ष्यत इति । (नतु किञ्चित् क्रमायां) किं चितिमाशुस्त्रिवृदिति मंत्रोपधेयां ‘पुरस्तात्’ पूर्वस्यां दिशि ‘एनामुपदधाति’ इति । अनूकान्ते तूक्तम् । उत्तरेण कुत एतत् पुरस्तादित्यवशेषितत्वात् परं पूर्वार्द्धो गम्यते । तत्रापि ‘त्रिवृद्वत्यामेव त्रिवृद्वतीमनूपदधाती’ ति वचनादनूकमुत्तरेणेति गम्यते । एवं हि सा अन्या त्रिवृद्वती दक्षिणेनानूकमुपधीयमाना गम्यते (मन्तर्धाय) तेनान्यथा एकविंशस्तोमवतीं धरुण एकविंश इत्येतन्मन्त्रोपधेयां पश्चात्तथैव (अनुकाक्ष्यन्तीनुदग्) दक्षिणे ऽनूकमुपदधाति । येनोत्तरेणैकविंशवतीं तां मन्त्रान्तरेण तामुपधीयते पश्चात् । पञ्चदशवतीं भांतः पञ्चदश इत्येतां दक्षिणतो ऽनूकान्ते सप्तदशवतीमिमां सप्तदश इत्येतामुत्तरत एव । सो ऽत्रैव लोके । तथा हि तस्यामुत्तरतो वायूनां पञ्चदशवतीमिति । एतत् क्रमवाक्यमेव द्रष्टव्यम् । देशस्तु पूर्वार्द्ध उपदधातीत्यत्रैव विधास्यत इति । इह तस्मिन् विधीयमाने गुणवाक्यमनेकार्थं भिद्येत ॥
‘एतद्वा’ इति । इतिहासेनास्य क्रमस्य ‘प्रजापतिम्’ ऋषिं मृत्युः उपासीदत्, इत्युपपूवः सदिर्द्रष्टव्यः । तथापि सकर्मकः प्रजापतिमित्यनेन सम्बध्यते नान्यथति ॥ १ ॥ २॥
Eggeling
- Now, then, as to the order of proceeding. That (brick) which contains the Trivr̥t (thrice-threefold stoma) he places in front, that containing the twenty-one-fold (stoma) at the back, that containing the fifteenfold (stoma) on the right (south) side, that containing the seventeenfold (stoma) on the left (north) side.
०२
विश्वास-प्रस्तुतिः
(ऽ) एतद्वै᳘ प्रजा᳘पतिम्॥
(न्त्रि) त्रिवृ᳘द्वत्यामु᳘पहितायां पञ्चदश᳘वत्यां मृत्यु᳘रसीददिमाम᳘त ऽउ᳘पधास्यते तम᳘त्र ग्रहीष्यामी᳘ति तं प्रा᳘पश्यत्तं᳘ प्रख्या᳘य परिक्र᳘म्यैकविᳫँ᳭श᳘वतीमु᳘पाधत्तैकविᳫँ᳭श᳘वतीं मृत्युरा᳘गच्छत्पञ्चदश᳘वतीमु᳘पाधत्त पञ्चदश᳘वतीं मृत्युरा᳘गच्छत्सप्तदश᳘वतीमु᳘पाधत्त सो᳘ ऽत्रैव᳘ मृत्युं न्य᳘करोद᳘त्रामोहयत्त᳘थै᳘वैतद्य᳘जमानो᳘ ऽत्रैव स᳘र्व्वान्पाप्म᳘नो निकरोत्य᳘त्र[[!!]] मोहयति॥
मूलम् - श्रीधरादि
(ऽ) एतद्वै᳘ प्रजा᳘पतिम्॥
(न्त्रि) त्रिवृ᳘द्वत्यामु᳘पहितायां पञ्चदश᳘वत्यां मृत्यु᳘रसीददिमाम᳘त ऽउ᳘पधास्यते तम᳘त्र ग्रहीष्यामी᳘ति तं प्रा᳘पश्यत्तं᳘ प्रख्या᳘य परिक्र᳘म्यैकविᳫँ᳭श᳘वतीमु᳘पाधत्तैकविᳫँ᳭श᳘वतीं मृत्युरा᳘गच्छत्पञ्चदश᳘वतीमु᳘पाधत्त पञ्चदश᳘वतीं मृत्युरा᳘गच्छत्सप्तदश᳘वतीमु᳘पाधत्त सो᳘ ऽत्रैव᳘ मृत्युं न्य᳘करोद᳘त्रामोहयत्त᳘थै᳘वैतद्य᳘जमानो᳘ ऽत्रैव स᳘र्व्वान्पाप्म᳘नो निकरोत्य᳘त्र[[!!]] मोहयति॥
मूलम् - Weber
एतद्वै᳘ प्रजा᳘पतिम्॥
त्रिवृ᳘द्वत्यामु᳘पहितायाम् पञ्चदश᳘वत्याम् मृत्यु᳘रसीददिमाम᳘त उ᳘पधास्यते तम᳘त्र ग्रहीष्यामी᳘ति तम् प्रा᳘पश्यत्त᳘म् प्रख्या᳘य परिक्र᳘म्यैकविंश᳘वतीमु᳘पाधत्तैकविंश᳘वतीम् मृत्युरा᳘गछत्पञ्चदश᳘वतीमु᳘पाधत्त पञ्चदश᳘वतीम् मृत्युरा᳘गछत्सप्तदश᳘वतीमु᳘पाधत्त सो᳘ ऽत्रैव᳘ मृत्युं न्य᳘करोद᳘त्रामोहयत्त᳘थैॗवैतद्य᳘जमानो᳘ ऽत्रैव स᳘र्वान्पाप्म᳘नो नि᳘करोत्य᳘त्र मोहयति॥
मूलम् - विस्वरम्
एतद्वै प्रजापतिं त्रिवृद्वत्यामुपहितायां पञ्चदशवत्यां मृत्युरसीदत्- इमामत उपधास्यते, तमत्र ग्रहीष्यामीति । तं प्रापश्यत् । तं प्रख्याय परिक्रम्यैकविंशवतीमुपाधत्त । एकविंशवतीं मृत्युरागच्छत् । पञ्चदशवतीमुपाधत्त । पञ्चदशवतीं मृत्युरागच्छत् । सप्तदशवतीमुपाधत्त । सो ऽत्रैव मृत्युं न्यकरोत्, अत्रामोहयत् । तथैवैतद्यजमानो ऽत्रैव सर्वान्पाप्मनो निकरोति, अत्र मोहयति ॥ २ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- Now when the one containing the Trivr̥t had been laid down, Death lay in wait for Prajāpati in the one (on the south side) containing the fifteenfold (stoma), thinking, ‘After that he will lay down this one: I will here seize upon him!’ He (Prajāpati) was aware of him, and having seen him, he walked round and laid down (at the back) the (brick) containing the twenty-one-fold (stoma). Death came thither, and he (Prajāpati) laid down the one (on the south side) containing the fifteenfold (stoma). Death came to the fifteenfold one, and he (Prajāpati) laid down the one (on the north side) containing the seventeenfold (stoma). It was here 1 that he put down and confounded Death; and in like manner does the Sacrificer now put down and confound all evils
०३
विश्वास-प्रस्तुतिः
(त्य) अथो᳘त्तराः॥
(स्त्रि) त्रिवृ᳘द्वत्यामेव᳘ त्रिवृ᳘द्वतीमनूपद᳘धात्येकविᳫँ᳭श᳘वत्यामेकविᳫँ᳭श᳘वतीं पञ्चदश᳘वत्याᳫँ᳭ सप्तदश᳘वतीᳫँ᳭ सप्तदश᳘वत्यां पञ्चदश᳘वतीं ता य᳘देवं᳘ व्यतिहा᳘रमुपद᳘धाति त᳘स्मादक्ष्णयास्तोमी᳘या ऽअ᳘थो य᳘देते स्तो᳘मा ऽअ᳘तो ऽन्य᳘था ऽनुपूर्वं त᳘स्माद्वे᳘वाक्ष्णयास्तोमी᳘या ऽअ᳘थो ऽएवं᳘ देवा᳘ ऽउपा᳘दधतेतरथा᳘ ऽसुरास्त᳘तो देवा ऽअ᳘भवन्परा᳘सुरा भ᳘वत्यात्म᳘ना प᳘रा ऽस्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ ऽएवं व्वे᳘द॥
मूलम् - श्रीधरादि
(त्य) अथो᳘त्तराः॥
(स्त्रि) त्रिवृ᳘द्वत्यामेव᳘ त्रिवृ᳘द्वतीमनूपद᳘धात्येकविᳫँ᳭श᳘वत्यामेकविᳫँ᳭श᳘वतीं पञ्चदश᳘वत्याᳫँ᳭ सप्तदश᳘वतीᳫँ᳭ सप्तदश᳘वत्यां पञ्चदश᳘वतीं ता य᳘देवं᳘ व्यतिहा᳘रमुपद᳘धाति त᳘स्मादक्ष्णयास्तोमी᳘या ऽअ᳘थो य᳘देते स्तो᳘मा ऽअ᳘तो ऽन्य᳘था ऽनुपूर्वं त᳘स्माद्वे᳘वाक्ष्णयास्तोमी᳘या ऽअ᳘थो ऽएवं᳘ देवा᳘ ऽउपा᳘दधतेतरथा᳘ ऽसुरास्त᳘तो देवा ऽअ᳘भवन्परा᳘सुरा भ᳘वत्यात्म᳘ना प᳘रा ऽस्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ ऽएवं व्वे᳘द॥
मूलम् - Weber
अथो᳘त्तराः॥
त्रिवृ᳘द्वत्यामेव᳘ त्रिवृ᳘द्वतीमनूपद᳘धात्येकविंश᳘वत्यामेकविंश᳘वतीम् पञ्चदश᳘वत्याᳫं सप्तदश᳘वतीᳫं सप्तदश᳘वत्याम् पञ्चदश᳘वतीं ता य᳘देवं᳘ व्यतिहा᳘रमुपद᳘धाति त᳘स्मादक्ष्णयास्तोमी᳘या अ᳘थो य᳘देते स्तो᳘मा अ᳘तो ऽन्य᳘थानुपूर्वं त᳘स्माद्वेॗवाक्ष्णयास्तोमी᳘या अ᳘थो एवं᳘ देवा᳘ उपा᳘दधतेतरथा᳘सुरास्त᳘तो देवा अ᳘भवन्परा᳘सुरा भ᳘वत्यात्म᳘ना प᳘रास्य द्विषन्भ्रा᳘तृव्यो भवति य᳘ एवं वे᳘द॥
मूलम् - विस्वरम्
अथोत्तराः- त्रिवृद्वत्यामेव त्रिवृद्वतीमनूपदधाति; एकविंशवत्यामेकविंशवतीम्; पञ्चदशवत्यां सप्तदशवतीम्; सप्तदशवत्यां पञ्चदशवतीम् । ता यदेवं व्यतिहारमुपदधाति- तस्मादक्ष्णयास्तोमीयाः । अथो यदेते स्तोमाः- अतो ऽन्यथा ऽनुपूर्वम् । तस्माद्वेवाक्ष्णयास्तोमीयाः । अथो ऽएवं देवा उपादधत, इतरथा ऽसुराः । ततो देवा अभवन्, परा ऽसुराः । भवत्यात्मना, परा ऽस्य द्विषन्भ्रातृव्यो भवति- य एवं वेद ॥ ३ ॥
सायणः
अथोत्तरा इति । ‘त्रिवृद्वत्यामेव’ त्रिवृद्वतीसमीपे एव, एकविंशवत्यादिसमीप इति द्रष्टव्यं लक्षणया, कुत एतत् ते अनन्तर्हिते उपदधातीति वचनाद्बाह्ये पंचदशवत्यौ भवतो ऽन्तरे सप्तदशवत्याविति च पार्श्वे उपधानदर्शनम् । ‘त्रिवृद्वतीम्’ अग्नेर्भागो ऽसीत्येतामनुलग्नामुपदधाति । पूर्वार्द्ध अनूकं दक्षिणा एकविंशवती (समीपगुणग्राममेवान्तकमुतद्रेधाणैकविंशतीमि) इन्द्रस्य भाग इति तां पूर्वश्चोत्तरश्च यस्मादेवं व्यतिहाराय दधातीत्यस्मात्ता इष्टका अक्ष्णयास्तोमीया अधो ऽधोवर्तिनः स्तोमा आसामित्यक्ष्णयास्तोमीयाः मत्वर्थीयः छप्रत्ययो द्रष्टव्यः । कुत एतत् । त्रिवृद्वतीमित्यादिषु मतुपो दर्शनादन्यस्य च तद्धितार्थस्यासम्भवात् इष्टकानां व्यतिहारमुपधाने सति तदनुरूपो ऽयं स्तोमानामपि व्यतिहारो युक्तः । (तैस्तु वध्येति हिपमनिषु तद्वेष्टत्का ।) अक्ष्णयास्तोमीया भवन्तीत्यभिप्रायः । (अतोद्यदेते स्तोमा अतो उपदन्यथा स्थिताः । कं) ये अनुपूर्वं त्रिवृत्पञ्चदश सप्तदश एकविंश इत्येवंरूपादेवान्यत्र (वस्था) तस्मादप्येता अक्ष्णया एवमुक्ता इत्येको ऽभिप्रायः । एतदुक्तं त्रिवृद्वत्यामुपहिपहितायां पञ्चदशवत्यां मृत्युरसीददिति तच्चैवं द्रष्टव्यम् । पूर्वस्यामिष्टकायामुपहितायां दक्षिणस्याः स्थाने मृत्युरुपासीदत् (इमोमेतत्स्थानां) अत्र स्थाने ग्रहीष्यामीति तं च मृत्युं तत्र दक्षिणपार्श्व उपासीदत्तं प्रख्याय दृष्ट्वा परिक्रम्य (तुतिर्द्यतद्दक्षिणं स्थानं वोपस्थादुपहितवानित्यादि ततश्च एवैव गाशिकस मृत्युं दृष्ट्वा नन्तरास्त्रमातीदन्देवस्तोमेष्वपि ततश्व वृषतिस्तो उपहिते पञ्चदशे स्तोमे मृत्युरासीदेति तमसीदेति तमीत्येकविंशमुपासीत्ततः पञ्चदशंमसदशमित्येवमक्ष्णयोपहितवान) मृत्युं मोहयितुमत्र पूर्वेण त्रिवृत्पञ्चदशसप्तदशैकविंशानीति । आद्या एवमक्ष्णयास्तोमीया देवा उपहितवन्तः ॥ ३ ॥
Eggeling
- Then as to the subsequent (bricks). Alongside of the one (in front) containing the Trivr̥t he lays down one containing the Trivr̥t; alongside of that (at the back) containing the Ekaviṁśa (he lays down) one containing the Ekaviṁśa; alongside of that (on the south, or right, side) containing the Pañcadaśa (he lays down) one containing the Saptadaśa; alongside of that (on the north, or left, side) containing the Saptadaśa (he lays down) one containing the Pañcadaśa. And because he thus changes in laying them down 2, therefore they (the bricks) are of diverse stomas; and because these stomas are then otherwise with regard to the former ones 3, therefore also they (the bricks) are of diverse stomas. And in this way the gods laid them down, and otherwise the Asuras; whereupon the gods succeeded, and the Asuras came to naught: he who knows this, succeeds of himself, and his hateful enemy comes to naught.
०४
विश्वास-प्रस्तुतिः
स᳘ ऽएष᳘ पशुर्य᳘दग्निः[[!!]]॥
सो᳘ ऽत्रैव स᳘र्व्वः कृत्स्नः सं᳘स्कृतस्त᳘स्य त्रिवृ᳘द्वत्यावेव शि᳘रस्ते य᳘त्त्रिवृ᳘द्वत्यौ भ᳘वतस्त्रिवृद्धि शि᳘रो द्वे᳘ भवतो द्वि᳘कपालᳫँ᳭ हि शि᳘रः पूर्वार्ध ऽउ᳘पदधाति पुर᳘स्ता᳘द्धीदᳫँ᳭ शि᳘रः॥
मूलम् - श्रीधरादि
स᳘ ऽएष᳘ पशुर्य᳘दग्निः[[!!]]॥
सो᳘ ऽत्रैव स᳘र्व्वः कृत्स्नः सं᳘स्कृतस्त᳘स्य त्रिवृ᳘द्वत्यावेव शि᳘रस्ते य᳘त्त्रिवृ᳘द्वत्यौ भ᳘वतस्त्रिवृद्धि शि᳘रो द्वे᳘ भवतो द्वि᳘कपालᳫँ᳭ हि शि᳘रः पूर्वार्ध ऽउ᳘पदधाति पुर᳘स्ता᳘द्धीदᳫँ᳭ शि᳘रः॥
मूलम् - Weber
स᳘ एष᳘ पशुर्य᳘दग्निः᳟॥
सो᳘ ऽत्रैव स᳘र्वः कृत्स्नः स᳘ᳫं᳘स्कृतस्त᳘स्य त्रिवृ᳘द्वत्यावेव शि᳘रस्ते य᳘त्त्रिवृ᳘द्वत्यौ भ᳘वतस्त्रिवृद्धि शि᳘रो द्वे᳘ भवतो द्वि᳘कपालᳫं हि शि᳘रः पूर्वार्ध उ᳘पदधाति पुर᳘स्ताॗद्धीदं शि᳘रः॥
मूलम् - विस्वरम्
स एष पशुः- यदग्निः । सो ऽत्रैव सर्वः कृत्स्नः संस्कृतः । तस्य त्रिवृद्वत्यावेव शिरः । ते यत्त्रिवृद्वत्यौ भवतः- त्रिवृद्धि शिरः । द्वे भवतः- द्विकपालं हि शिरः । पूर्वार्द्ध उपदधाति- पुरस्ताद्धीदं शिरः ॥ ४ ॥
सायणः
स एष पशुः (विततसप्तथुना) अतः परं प्रागुत्तमायाः काण्डिकायाः पूर्वोक्तानामेव यजुष्मतीनां देशो विधीयते ‘त्रिवृद्धि शिरः’ (स्वर्गछिमछिमस्तिष्क) इति त्रिगुणं त्रिवृदपि स्तोमः । त्रिगुण एव गुणा अपि तु तस्य (त्रिगुणयेवनातु) ‘द्विकपालं हि शिरः’ इति (दक्षिणोत्तरे सः कया जेनिष्ट्यत इति- द्वोपादावन्यतः) सहचारिणौ सहाभिव्याय्यते इति द्वन्द्वः ॥ ४-५ ॥
Eggeling
- Now, this Agni (fire-altar) is an animal, and he is made up (restored) here whole and entire. His head is the two (bricks) containing the Trivr̥t; and as to why these two are such as contain the Trivr̥t,–the head is threefold (trivr̥t). There are two of them, because the head consists of two bones (kapāla). He lays them down in front, for this head is in the front (of the animal).
०५
विश्वास-प्रस्तुतिः
प्रति᳘ष्ठैकविᳫँ᳭श᳘वत्यौ॥
ते य᳘देकविᳫँ᳭श᳘वत्यौ भवतः प्रतिष्ठा᳘ ह्येकविᳫँ᳭शो द्वे᳘ भवतो द्वन्द्वᳫँ᳭ हि᳘ प्रतिष्ठा᳘ पश्चादु᳘पदधाति पश्चा᳘द्धीयं᳘ प्रतिष्ठा᳘॥
मूलम् - श्रीधरादि
प्रति᳘ष्ठैकविᳫँ᳭श᳘वत्यौ॥
ते य᳘देकविᳫँ᳭श᳘वत्यौ भवतः प्रतिष्ठा᳘ ह्येकविᳫँ᳭शो द्वे᳘ भवतो द्वन्द्वᳫँ᳭ हि᳘ प्रतिष्ठा᳘ पश्चादु᳘पदधाति पश्चा᳘द्धीयं᳘ प्रतिष्ठा᳘॥
मूलम् - Weber
प्रतिॗष्ठैकविंश᳘वत्यौ॥
ते य᳘देकविंश᳘वत्यौ भवतः प्रतिष्ठाॗ ह्येकविंशो द्वे᳘ भवतो द्वन्द्वᳫं हि᳘ प्रतिष्ठा पश्चादु᳘पदधाति पश्चाॗद्धीय᳘म् प्रतिष्ठा᳟॥
मूलम् - विस्वरम्
प्रतिष्ठैकविंशत्यौ । ते यदेकविंशवत्यौ भवतः- प्रतिष्ठा ह्येकविंशः । द्वे भवतो- द्वन्द्वं हि प्रतिष्ठा । पश्चादुपदधाति- पश्चाद्धीयं प्रतिष्ठा ॥ ५ ॥
सायणः
[व्याख्यानं चतुर्थे]
Eggeling
- The two (behind) containing the Ekaviṁśa are the foundation (the feet). And as to why these are such as contain the Ekaviṁśa,–the Ekaviṁśa is
a foundation. There are two of them,–because the foundation is a pair (of feet). He places them behind, because this foundation (the hind-feet) is behind.
०६
विश्वास-प्रस्तुतिः
बाहू᳘ पञ्चदश᳘वत्यौ॥
ते य᳘त्पञ्चदश᳘वत्यौ᳘ भ᳘वतः पञ्चदशौ हि᳘ बाहू द्वे᳘ भवतो द्वौ᳘ हीमौ᳘ बाहू᳘ पार्श्वत ऽउ᳘पदधाति पार्श्वतो᳘ हीमौ᳘ बाहू[[!!]]॥
मूलम् - श्रीधरादि
बाहू᳘ पञ्चदश᳘वत्यौ॥
ते य᳘त्पञ्चदश᳘वत्यौ᳘ भ᳘वतः पञ्चदशौ हि᳘ बाहू द्वे᳘ भवतो द्वौ᳘ हीमौ᳘ बाहू᳘ पार्श्वत ऽउ᳘पदधाति पार्श्वतो᳘ हीमौ᳘ बाहू[[!!]]॥
मूलम् - Weber
बाहू᳘ पञ्चदश᳘वत्यौ॥
ते य᳘त्पञ्चदश᳘वत्यौ भ᳘वतः पञ्चदशौ हि᳘ बाहू द्वे᳘ भवतो द्वौॗ हीमौ᳘ बाहू᳘ पार्श्वत उ᳘पदधाति पार्श्वतोॗ हीमौ᳘ बाहू᳟॥
मूलम् - विस्वरम्
बाहू पञ्चदशवत्यौ । ते यत्पञ्चदशवत्यौ भवतः- पञ्चदशौ हि बाहू । द्वे भवतो- द्वौ हीमौ बाहू । पार्श्वत उपदधाति- पार्श्वतो हीमौ बाहू ॥ ६ ॥
सायणः
‘पञ्चदशौ हि बाहू’ इति प्रत्येकं (सयुलीना त्रीणिर्वरामति प्रत्यपञ्चदशादिशब्दाश्च) बाह्वादिषु पश्चदशपरिमाणमस्य सवज्रस्येव वज्रस्य वै स्तोमेन सिद्धिः पञ्चदशाद्यर्थे इत्येतदङ्गीकृत्य द्रष्टव्य इति स्रष्टव्य इति सृष्टयस्तु रेतःसिचोरित्यनुवाद एव (याविधसंदेशः ।) ‘अथ यदतो’ अनुकान्ताः स्युश्चतुर्द्दश षड्वेष्टका अतिरिक्तता । (तत्पशुत्वादग्नेवतीनिरितराष्वाष्टासु सप्तदशसु चक्षुत्स्रस्य) पशुविषस्य संस्कृतत्वादित्यभिप्रायः । यत् ‘देवानामतिरिक्तं’ किञ्चित्तत् ‘छन्दांसि’ तेषामपरिमितत्वात् तत्तेषां देवानां ‘यानि तानि’ अतिरिक्तानि च्छन्दांसि ‘ते पशवः’ पशवो ऽतिरिक्तानि हविर्वहनाद् छन्दोभिमानिन्यो देवता इति । तेषां च ते छन्दआत्मकाः पशवः ‘ताः पुण्या लक्ष्म्यः’ “पुण कर्मणि शुभे” पुण्येति शुभं कर्म तत्कुर्वन्तीति पुण्याः । किं पुण्याः पशवस्ता लक्ष्म अलंकारेण लक्ष्म तैश्विक्ष्यते ताभिरिति लक्ष्यते पशुर्हि तद्वा लक्ष्यते ऽसौ नामेश्वरो बहुपशुरिति लक्षणत्वपुण्यमपि भवत्यसौ (नामा श्वागानिगो वेति तन्निवृत्त्यर्थं) ‘पुण्या लक्ष्म्यः’ इत्याह देवानामेव हिते कार्यसिद्धये संसारा अत इत्यभिप्रायः । ‘तद्यास्ताः’ तेषां यास्ताः ‘पुण्या लक्ष्म्यः असौ स आदित्यः’ “सैषा त्रयी विद्या तपति”- (श. प. १० । ५ । २ । २) इति वक्ष्यते । तथा चोक्तम्- अवद्यास्ता देवा यजुष्मत्यस्तन्नः प्रियाणि धामानि सार्द्धसमवदति रेत आदित्ये सन्नीयते हितवन्त इति ‘स आसामेष दक्षिणत’ इति च्छन्दोमय आदित्य आसां मध्यो न हि (तत्सित्मकानां) प्रजानामेष इति स्थितिः । आदित्यमभिनन्द्यैनं दर्शयति दक्षिणत इति आर्यावर्तनिवासिनीनां प्रजानां दक्षिणतः यदेतीत्येतदभिप्रायमेतदध्यात्मकमभिसत्यासां प्रजानामेतद्दक्षिणतो दक्षिणे ऽक्षिणि व्यवस्थितस्तथा च वक्ष्यति “स एष या पुरुषं एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुषः” (श. प. १० । ५ । २ । २३) इति ॥ ६-८ ॥
Eggeling
- The two containing the Pañcadaśa 4 are the arms (or fore-feet). And as to why these are such as contain the Pañcadaśa,–the arms are fifteenfold. There are two of them, because these arms are two. He places them on the sides, because these two arms are at the sides.
०७
विश्वास-प्रस्तुतिः
(ऽ) अ᳘न्नᳫँ᳭ सप्तदश᳘वत्यौ॥
ते य᳘त्सप्तदश᳘वत्यौ भ᳘वतः सप्तदशᳫँ᳭ ह्य᳘न्नं द्वे᳘ भवतो᳘ द्व्यक्षरᳫँ᳭[[!!]] ह्य᳘न्नं ते ऽअ᳘नन्तर्हिते पञ्चदश᳘वतीभ्यामु᳘पदधात्य᳘नन्तर्हितं त᳘द्बाहु᳘भ्याम᳘न्नं दधाति बा᳘ह्ये पञ्चदश᳘वत्यौ भ᳘वतो᳘ ऽन्तरे सप्तदश᳘वत्यौ बाहु᳘भ्यां त᳘दुभयतो᳘ ऽन्नं प᳘रिगृह्णाति॥
मूलम् - श्रीधरादि
(ऽ) अ᳘न्नᳫँ᳭ सप्तदश᳘वत्यौ॥
ते य᳘त्सप्तदश᳘वत्यौ भ᳘वतः सप्तदशᳫँ᳭ ह्य᳘न्नं द्वे᳘ भवतो᳘ द्व्यक्षरᳫँ᳭[[!!]] ह्य᳘न्नं ते ऽअ᳘नन्तर्हिते पञ्चदश᳘वतीभ्यामु᳘पदधात्य᳘नन्तर्हितं त᳘द्बाहु᳘भ्याम᳘न्नं दधाति बा᳘ह्ये पञ्चदश᳘वत्यौ भ᳘वतो᳘ ऽन्तरे सप्तदश᳘वत्यौ बाहु᳘भ्यां त᳘दुभयतो᳘ ऽन्नं प᳘रिगृह्णाति॥
मूलम् - Weber
अ᳘न्नᳫं सप्तदश᳘वत्यौ॥
ते य᳘त्सप्तदश᳘वत्यौ भ᳘वतः सप्तदशᳫं ह्य᳘न्नं द्वे᳘ भवतो द्व्य᳘क्षरᳫं ह्य᳘न्नं ते अ᳘नन्तर्हिते पञ्चदश᳘वतीभ्यामु᳘पदधात्य᳘नन्तर्हितं त᳘द्बाहु᳘भ्याम᳘न्नं दधाति बा᳘ह्ये पञ्चदश᳘वत्यौ भ᳘वतो᳘ ऽन्तरे सप्तदश᳘वत्यौ बाहु᳘भ्यां त᳘दुभयतो᳘ ऽन्नम् प᳘रिगृह्णाति॥
मूलम् - विस्वरम्
अन्नं सप्तदशवत्यौ । ते यत्सप्तदशवत्यौ भवतः- सप्तदशं ह्यन्नम् । द्वे भवतः- द्व्यक्षरं ह्यन्नम् । ते अनन्तर्हिते पञ्चदशवतीभ्यामुपदधाति । अनन्तर्हितं तद्बाहुभ्यामन्नं दधाति । बाह्ये पञ्चदशवत्यौ भवतः- अन्तरे सप्तदशवत्यौ । बाहुभ्यां तदुभयतो ऽन्नं परिगृह्णाति ॥ ७ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- The two containing the Saptadaśa are food. And as to why they are such as contain the Saptadaśa,–food is seventeenfold. There are two of them, because ‘anna’ (food) has two syllables. He lays them down close to those containing the Pañcadaśa he thus puts the food close to the arms. Those containing the Pañcadaśa are on the outside, and those containing the Saptadaśa on the inside: he thus encloses the food on both sides by the arms.
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ या म᳘ध्य ऽउपद᳘धाति॥
स᳘ ऽआत्मा ता᳘ रेतःसि᳘चोर्व्वे᳘लयो᳘पदधाति पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यतो᳘ ह्य᳘य᳘मात्मा᳘ सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तो᳘[[!!]] ह्यय᳘मात्मा᳘ ऽथ[[!!]] यद᳘तो ऽन्यद᳘तिरिक्तं तद्यद्वै᳘ देवा᳘नाम᳘तिरिक्तं छ᳘न्दाᳫँ᳭सि ता᳘नि तद्या᳘नि ता᳘नि च्छ᳘न्दाᳫँ᳭सि पश᳘वस्ते तद्ये ते᳘ पश᳘वः पु᳘ण्यास्ता᳘ ल᳘क्ष्म्यस्तद्यास्ताः[[!!]] पु᳘ण्या ल᳘क्ष्म्यो ऽसौ स᳘ ऽआदित्यः स᳘ ऽआसामेष᳘ दक्षिणतः[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ या म᳘ध्य ऽउपद᳘धाति॥
स᳘ ऽआत्मा ता᳘ रेतःसि᳘चोर्व्वे᳘लयो᳘पदधाति पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यतो᳘ ह्य᳘य᳘मात्मा᳘ सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तो᳘[[!!]] ह्यय᳘मात्मा᳘ ऽथ[[!!]] यद᳘तो ऽन्यद᳘तिरिक्तं तद्यद्वै᳘ देवा᳘नाम᳘तिरिक्तं छ᳘न्दाᳫँ᳭सि ता᳘नि तद्या᳘नि ता᳘नि च्छ᳘न्दाᳫँ᳭सि पश᳘वस्ते तद्ये ते᳘ पश᳘वः पु᳘ण्यास्ता᳘ ल᳘क्ष्म्यस्तद्यास्ताः[[!!]] पु᳘ण्या ल᳘क्ष्म्यो ऽसौ स᳘ ऽआदित्यः स᳘ ऽआसामेष᳘ दक्षिणतः[[!!]]॥
मूलम् - Weber
अ᳘थ या म᳘ध्य उपद᳘धाति॥
स᳘ आत्मा ता᳘ रेतःसि᳘चोर्वे᳘लयो᳘पदधाति पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यतो ह्य᳘य᳘मात्मा᳘ सर्व᳘त उ᳘पदधाति स᳘र्वतो ह्य᳘य᳘मात्मा᳘थ यद᳘तो ऽन्यद᳘तिरिक्तं तद्यद्वै᳘ देवा᳘नाम᳘तिरिक्तं छ᳘न्दांसि ता᳘नि तद्या᳘नि ता᳘नि छ᳘न्दांसि पश᳘वस्ते तद्ये ते᳘ पश᳘वः पु᳘ण्यास्ता᳘ लक्ष्म्य᳘स्तद्यास्ताः पु᳘ण्या लॗक्ष्म्यो ऽसौ स᳘ आदित्यः स᳘ आसामेष᳘ दक्षिणतः᳟॥
मूलम् - विस्वरम्
अथ या मध्य उपदधाति- स आत्मा । ता रेतःसिचोर्वेलयोपदधाति । पृष्टयो वै रेतःसिचौ । मध्यमु पृष्टयः । मध्यतो ह्ययमात्मा । सर्वत उपदधाति । सर्वतो ह्ययमात्मा । अथ यदतो ऽन्यद्- अतिरिक्तं तत् । यद्वै देवानामतिरिक्तम्- छन्दांसि तानि । तद्यानि तानि च्छन्दांसि- पशवस्ते । तद्ये ते पशवः- पुण्यास्ता लक्ष्म्यः । तद्यास्ताः पुण्या लक्ष्म्यः- असौ स आदित्यः । स आसामेष दक्षिणतः ॥ ८ ॥
सायणः
[व्याख्यानं षष्ठे]
Eggeling
- And those he places in the middle are the body (trunk). He places them on the range of the Retaḥsic (bricks), for–the Retaḥsic being the ribs, and the ribs being the middle (of the body)–this body is in the middle (of the limbs) 5. He places them in every direction, for this body (extends) in every direction. And as to what other (space) there is besides this, that is left over;–and what is left over for the gods, that is these metres;–and as to these
metres, they are cattle;–and as to cattle, they are (objects of) good fortune;–and as to these (objects of) good fortune, they are yonder sun: he is that one to the south of them.
०९
विश्वास-प्रस्तुतिः
(स्ता) ता हैके᳘ ऽनन्तर्हितास्त्रिवृ᳘द्वतीभ्यामु᳘पदधति॥
जिह्वा ह᳘नू ऽइ᳘ति व्व᳘दन्तो याश्च᳘तुर्दश ते ह᳘नू याः षट् सा᳘ जिह्वे᳘ति न त᳘था कुर्याद᳘ति ते᳘ रेचयन्ति य᳘था पू᳘र्व्वयोर्ह᳘न्वोर᳘परे ह᳘नू ऽअनूपदध्याद्य᳘था पू᳘र्व्वस्यां जिह्वा᳘याम᳘परां जिह्वा᳘मनूपदध्या᳘त्तादृक्तद्यत्रा᳘हैव शि᳘रस्त᳘देव ह᳘नू त᳘ज्जि᳘ह्वा॥
मूलम् - श्रीधरादि
(स्ता) ता हैके᳘ ऽनन्तर्हितास्त्रिवृ᳘द्वतीभ्यामु᳘पदधति॥
जिह्वा ह᳘नू ऽइ᳘ति व्व᳘दन्तो याश्च᳘तुर्दश ते ह᳘नू याः षट् सा᳘ जिह्वे᳘ति न त᳘था कुर्याद᳘ति ते᳘ रेचयन्ति य᳘था पू᳘र्व्वयोर्ह᳘न्वोर᳘परे ह᳘नू ऽअनूपदध्याद्य᳘था पू᳘र्व्वस्यां जिह्वा᳘याम᳘परां जिह्वा᳘मनूपदध्या᳘त्तादृक्तद्यत्रा᳘हैव शि᳘रस्त᳘देव ह᳘नू त᳘ज्जि᳘ह्वा॥
मूलम् - Weber
ता हैके᳘ ऽनन्तर्हितास्त्रिवृ᳘द्वतीभ्यामु᳘पदधति॥
जिह्वाह᳘नू इ᳘ति व᳘दन्तो याश्च᳘तुर्दश ते ह᳘नू याः षट् सा᳘ जिह्वे᳘ति न त᳘था कुर्याद᳘ति ते᳘ रेचयन्ति य᳘था पू᳘र्वयोर्ह᳘न्वोर᳘परे ह᳘नू अनूपदध्याद्य᳘था पू᳘र्वस्यां जिह्वा᳘याम᳘परां जिह्वा᳘मनूपदध्या᳘त्तादृक्तद्यत्रा᳘हैव शि᳘रस्त᳘देव ह᳘नू त᳘ज्जिॗह्वा॥
मूलम् - विस्वरम्
ता हैके ऽनन्तर्हितास्त्रिवृद्वतीभ्यामुपदधति । जिह्वा हनू इति वदन्तः । याश्चतुर्दश ते हनू । याः षट्- सा जिह्वेति । न तथा कुर्यात् । अति ते रेचयन्ति । यथा पूर्वयोर्हन्वोरपरे हनू अनूपदध्याद्, यथा पूर्वस्यां जिह्वायामपरां जिह्वामनुपदध्यात् । तादृक्तत् । यत्राहैव शिरः- तदेव हनू, तज्जिह्वा ॥ ९ ॥
सायणः
‘ता हैके ऽनन्तर्हिताः’ स्तोस्नापैश्रुत्येतदभिप्रायमेतदध्यात्मकमपि स आसां प्रजानामेष यद्दक्षिणतो दक्षिणोदक्षिणे ऽक्षणि व्यवस्थितः । तथा च वक्ष्यति- स एव एष एतस्मिन् हि या अतिरिक्ताः ‘चतुर्द्दश’ षड्वेष्टका स्तौन्य शाखिनः ‘शिरः’ संस्तुताभ्यां ‘त्रिवृद्वतीभ्याम्’ अनुलग्नां पश्चात् ‘उपदधति’ ‘जिह्वा’ च पशुस्थाने चैत्य इष्टकानि द्वाहनूनां च शिरसामन्तरोद्देशेन वदन्तस्तत्राप्येतां व्यवस्थामाहुर्यां व्यवस्थामाहुः (‘याश्चतुर्दश तदहत्तव शिरसोत्तारत्रिवृद्वतीभ्यामपराभ्यामुत्तराभ्यामन्तरा एवं चतुर्दशोपधेया इत्यभिप्रायः ।) (योपरसाजिह्वावन्तर्हितो भवतीति चतुर्दशायांप्यपराः यदुपधेपा इत्यभिप्रायः) ॥ ९ ॥
Eggeling
- Now some lay down these (rows of bricks 6) immediately after the two containing the Trivr̥t, saying, ‘They are the tongue and the jaws: those fourteen are the jaws, and those six are the tongue.’ Let him not do so: they cause a redundancy,–it would be just as if one were to put two other jaws to the already existing jaws, as if one were to put another tongue to the already existing tongue. That (brick) wherein the head is indeed (includes) the jaws and the tongue.
१०
विश्वास-प्रस्तुतिः
(ह्वा ऽस्मि᳘) अस्मि᳘न्नु है᳘के ऽवान्तरदेश ऽउ᳘पदधति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएता᳘ ऽअमुं त᳘दादित्य᳘मेत᳘स्यां दिशि᳘ दध्म ऽइ᳘ति न त᳘था कुर्यादन्या᳘नि वाव ता᳘नि क᳘र्माणि यै᳘रेतम᳘त्र द᳘धाति॥
मूलम् - श्रीधरादि
(ह्वा ऽस्मि᳘) अस्मि᳘न्नु है᳘के ऽवान्तरदेश ऽउ᳘पदधति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएता᳘ ऽअमुं त᳘दादित्य᳘मेत᳘स्यां दिशि᳘ दध्म ऽइ᳘ति न त᳘था कुर्यादन्या᳘नि वाव ता᳘नि क᳘र्माणि यै᳘रेतम᳘त्र द᳘धाति॥
मूलम् - Weber
अस्मि᳘न्नु है᳘के ऽवान्तरदेश उ᳘पदधति॥
असौ वा᳘ आदित्य᳘ एता᳘ अमुं त᳘दादित्य᳘मेत᳘स्यां दिशि᳘ दध्म इ᳘ति न त᳘था कुर्यादन्या᳘नि वाव ता᳘नि क᳘र्माणि यै᳘रेतम᳘त्र द᳘धाति॥
मूलम् - विस्वरम्
अस्मिन्नु हैके ऽवान्तरदेश उपदधति । असौ वा आदित्य एताः । अमुं तदादित्यमेतस्यां दिशि दध्म इति । न तथा कुर्यात् । अन्यानि वाव तानि कर्माणि- यैरेतमत्र दधाति ॥ १० ॥
सायणः
अस्मिन्नुहैक इति । अस्मिन्निति दक्षिणमाशांसमभिनयेन दर्शयति । कुत एतत् ‘अमुं तदादित्यमेतस्यां दिशि दध्म इति’ वचनात् पूर्वां दक्षिणेति आदित्या एते व्यत्ययेन हि सनित्यमुदितो गच्छति । तथा चोक्तम् “स आसामेष दक्षिणतः” इति । तथा चादित्यसंस्तुते क्रमे उक्तं ‘दक्षिणतो ऽषाढाया’ इति तथा युक्ते ग्रहर्क्षं दक्षिणार्द्धं सादयत्येतां ह्येष दिशः संत्विति अन्यानि वाव तानि कर्माणीति । अथैनमित ऊर्ध्वं प्राचं प्रमृहीति । अथैनमतऊर्ध्वं प्रांचं (विनोत्ये-पञ्चमी दिव्यात्स्या मुपदधाति स वायुनस्त्वां) सक्त्यां प्रथमे उपदधाति । इत्येतैरेवमुपादैव्यमेतस्यां दिशि दधाति । दक्षिणतो यस्माद्यस्य- दक्षिणतः पुण्या लक्ष्म्य उपधीयन्ते । तस्मात्तदनुकारेणाथात्म-स्य दक्षिणपार्श्वे लक्षणं । किं यस्य वाकरमते सा किं तरात्मकं भवति तं पुरुषं पुण्यलक्ष्मीकमित्याचक्षते । उत्तरतः स्त्रिया यस्या लक्ष्म भवति तां पुण्यलक्ष्मीकेत्याचक्षते । इत्यपि प्रासङ्गिकमुक्तं उत्तरत आयतनं स्थानं तस्या इत्युत्तरतआयतना स्त्री सा हि प्राक्शिरसं शयानं उत्तरत उपशेते तेन उत्तरतआयतना’ ततश्च यत्र यस्यां उत्तरतो लक्ष्म तत्सामानि- तस्याः (प्रवीत्यभिप्रायः ।) तत्र तत्रैव क्रमोपधानादौ कृतमेवादित्यात्मिकानां पुण्यानां लक्ष्मणां कूर्मादिरूपैर्दक्षिणत उपहितत्वात् किं पुनस्ततश्च पुरस्तादेवैता उपदध्यात्तदनु च तत्रातिरिक्तदोष एवोक्त एव इत्यत आह- सत्यं यत्रैव जिह्वा च वक्तृत्वं किन्तु पुण्यलक्ष्मीरेतस्य मुखे धत्ते न हतजिह्वा इत्यनतिरेकः । यस्माच्च यज्ञे मुखतो लक्ष्मी पुण्या धत्ते तस्मात्तदनुकारेणाध्यात्ममपि यस्य मुखलक्षणदक्षिणदंष्ट्राभिरेकादि भवति ‘तं पुण्यलक्ष्मीक इति’ विशेषत ‘आचक्षते’ ॥ १०-११ ॥
Eggeling
११
विश्वास-प्रस्तुतिः
दक्षिणत᳘ ऽउ है᳘क ऽउ᳘पदधति॥
त᳘देताः पु᳘ण्या लक्ष्मी᳘र्दक्षिणतो᳘ दध्मह ऽइ᳘ति त᳘स्माद्य᳘स्य दक्षिणतो ल᳘क्ष्म भ᳘वति तं पु᳘ण्यलक्ष्मीक ऽइत्या᳘चक्षत ऽउत्तरत᳘ स्त्रिया᳘ ऽउत्तरत᳘ ऽआय᳘तना हि स्त्री तत्त᳘त्कृत᳘मेव᳘ पुर᳘स्ता᳘त्त्वे᳘वैना ऽउ᳘पदध्याद्यत्रा᳘हैव शि᳘रस्त᳘देव ह᳘नू त᳘ज्जिह्वा᳘ ऽथैताः पुण्या[[!!]] लक्ष्मी᳘र्मुखतो धत्ते त᳘स्माद्य᳘स्य मु᳘खे ल᳘क्ष्म भ᳘वति तं पु᳘ण्यलक्ष्मीक ऽइत्या᳘चक्षते[[!!]]॥
मूलम् - श्रीधरादि
दक्षिणत᳘ ऽउ है᳘क ऽउ᳘पदधति॥
त᳘देताः पु᳘ण्या लक्ष्मी᳘र्दक्षिणतो᳘ दध्मह ऽइ᳘ति त᳘स्माद्य᳘स्य दक्षिणतो ल᳘क्ष्म भ᳘वति तं पु᳘ण्यलक्ष्मीक ऽइत्या᳘चक्षत ऽउत्तरत᳘ स्त्रिया᳘ ऽउत्तरत᳘ ऽआय᳘तना हि स्त्री तत्त᳘त्कृत᳘मेव᳘ पुर᳘स्ता᳘त्त्वे᳘वैना ऽउ᳘पदध्याद्यत्रा᳘हैव शि᳘रस्त᳘देव ह᳘नू त᳘ज्जिह्वा᳘ ऽथैताः पुण्या[[!!]] लक्ष्मी᳘र्मुखतो धत्ते त᳘स्माद्य᳘स्य मु᳘खे ल᳘क्ष्म भ᳘वति तं पु᳘ण्यलक्ष्मीक ऽइत्या᳘चक्षते[[!!]]॥
मूलम् - Weber
दक्षिणत᳘ उ है᳘क उ᳘पदधति॥
त᳘देताः पु᳘ण्या लक्ष्मी᳘र्दक्षिणतो᳘ दध्मह इ᳘ति त᳘स्माद्य᳘स्य दक्षिणतो ल᳘क्ष्म भ᳘वति तम् पु᳘ण्यलक्ष्मीक इत्या᳘चक्षत उत्तरत᳘ स्त्रिया᳘ उत्तरत᳘आयतना हि स्त्री तत्त᳘त्कृत᳘मेव पुर᳘स्तात्त्वेॗवैना उ᳘पदध्याद्यत्रा᳘हैव शि᳘रस्त᳘देव ह᳘नू त᳘ज्जिह्वा᳘थैताः पु᳘ण्या लक्ष्मी᳘र्मुखतो धत्ते त᳘स्माद्य᳘स्य मु᳘खे ल᳘क्ष्म भ᳘वति तम् पु᳘ण्यलक्ष्मीक इत्या᳘चक्षॗते॥
मूलम् - विस्वरम्
दक्षिणत उ हैक उपदधति- तदेताः पुण्या लक्ष्मीर्दक्षिणतो दध्मह इति । तस्माद्यस्य दक्षिणतो लक्ष्म भवति- तं पुण्यलक्ष्मीक इत्याचक्षते । उत्तरतः स्त्रियाः । उत्तरतआयतना हि स्त्री । तत् तत्कृतमेव । पुरस्तात्त्वेवैना ऽउपदध्यात् । यत्राहैव शिरः- तदेव हनू, तज्जिह्वा । अथैताः पुण्या लक्ष्मीर्मुखतो धत्ते । तस्माद्यस्य मुखे लक्ष्म भवति- तं पुण्यलक्ष्मीक इत्याचक्षते ॥ ११ ॥
सायणः
[व्याख्यानं दशमे]
Eggeling
- Some, again, lay them down on the right
(south 9) side, saying, ‘We thus place these signs of good fortune (puṇyā lakshmī) on the right side:’ whence he who has a mark 10 (lakshman) on his right side is said to have good luck (puṇya-lakshmīka), and on the left side in the case of a woman 11; for the woman has her position on the left side (of the man): therefore it is done thus. But let him place them in front; for where the head is there are also the jaws and the tongue: and thus he places the signs of good fortune at the head (or, in the mouth, mukhataḥ), whence they say that he who has a (peculiar) mark in his mouth 12 has good luck.
१२
विश्वास-प्रस्तुतिः
सैषा᳘ ब्रह्मचितिः[[!!]]॥
(र्य) यद्ब्र᳘ह्मोपा᳘दधत त᳘स्माद्ब्रह्मचितिः सा᳘ प्रजापतिचिति᳘र्य᳘त्प्रजा᳘पतिमुपा᳘दधत त᳘स्मात्प्रजापतिचितिः᳘ स᳘ ऽर्षिचितिर्यदृ᳘षीनुपा᳘दधत[[!!]] त᳘स्मादृषिचितिः सा᳘ व्वायुचितिर्य᳘द्वायु᳘मुपा᳘दधत त᳘स्माद्वायुचितिः सा᳘ स्तोमचितिर्यत्स्तो᳘मानुपा᳘दधत त᳘स्मात्स्तोमचितिः सा᳘ प्राणचितिर्य᳘त्प्राणा᳘नुपा᳘दधत त᳘स्मात्प्राणचितिर᳘तो यतम᳘देव᳘ कतम᳘च्च व्विद्यात्ते᳘न है᳘वास्यै᳘षा ऽऽर्षेय᳘वती ब᳘न्धुमती चितिर्भवत्य᳘थ लोकम्पृणे ऽउ᳘पदधात्यस्या᳘ᳫँ᳘ स्रक्त्यां त᳘योरुप᳘रि ब᳘न्धुः पुरीषं[[!!]] नि᳘वपति त᳘स्योप᳘रि ब᳘न्धुः॥
मूलम् - श्रीधरादि
सैषा᳘ ब्रह्मचितिः[[!!]]॥
(र्य) यद्ब्र᳘ह्मोपा᳘दधत त᳘स्माद्ब्रह्मचितिः सा᳘ प्रजापतिचिति᳘र्य᳘त्प्रजा᳘पतिमुपा᳘दधत त᳘स्मात्प्रजापतिचितिः᳘ स᳘ ऽर्षिचितिर्यदृ᳘षीनुपा᳘दधत[[!!]] त᳘स्मादृषिचितिः सा᳘ व्वायुचितिर्य᳘द्वायु᳘मुपा᳘दधत त᳘स्माद्वायुचितिः सा᳘ स्तोमचितिर्यत्स्तो᳘मानुपा᳘दधत त᳘स्मात्स्तोमचितिः सा᳘ प्राणचितिर्य᳘त्प्राणा᳘नुपा᳘दधत त᳘स्मात्प्राणचितिर᳘तो यतम᳘देव᳘ कतम᳘च्च व्विद्यात्ते᳘न है᳘वास्यै᳘षा ऽऽर्षेय᳘वती ब᳘न्धुमती चितिर्भवत्य᳘थ लोकम्पृणे ऽउ᳘पदधात्यस्या᳘ᳫँ᳘ स्रक्त्यां त᳘योरुप᳘रि ब᳘न्धुः पुरीषं[[!!]] नि᳘वपति त᳘स्योप᳘रि ब᳘न्धुः॥
मूलम् - Weber
सैषा᳘ ब्रह्मचितिः᳟॥
यद्ब्र᳘ह्मोपा᳘दधत त᳘स्माद्ब्रह्मचितिः सा᳘ प्रजापतिचिति᳘र्य᳘त्प्रजा᳘पतिमुपा᳘दधत त᳘स्मात्प्रजापतिचितिः स᳘ ऽर्षिचितिर्य᳘दृषी᳘नुपा᳘दधत त᳘स्मादृषिचितिः सा᳘ वायुचितिर्य᳘द्वायु᳘मुपा᳘दधत त᳘स्माद्वायुचितिः सा᳘ स्तोमचितिर्यत्स्तो᳘मानुपा᳘दधत त᳘स्मात्स्तोमचितिः सा᳘ प्राणचितिर्य᳘त्प्राणा᳘नुपा᳘दधत त᳘स्मात्प्राणचितिर᳘तो यतम᳘देव᳘ कतम᳘च्च विद्यात्ते᳘न हैॗवास्यैॗषार्षेय᳘वती ब᳘न्धुमती चितिर्भवत्य᳘थ लोकम्पृणे उ᳘पदधात्यस्या᳘ᳫं᳘ स्रक्त्यां त᳘योरुप᳘रि ब᳘न्धुः पु᳘रीषं नि᳘वपति त᳘स्योप᳘रि ब᳘न्धुः॥
मूलम् - विस्वरम्
सैषा ब्रह्मचितिः । यद्ब्रह्मोपादधत- तस्माद्ब्रह्मचितिः । सा प्रजापतिचितिः । यत्प्रजापतिमुपादधत- तस्मात्प्रजापतिचितिः । स ऽर्पिचितिः । यदृषीनुपादधत- तस्मादृषिचितिः । सा वायुचितिः । यद्वायुमुपादधत-तस्माद्वायुचितिः । सा स्तोमचितिः । यत्स्तोमानुपादधत- तस्मात्स्तोमचितिः । सा प्राणचितिः । यत्प्राणानुपादधत- तस्मात्प्राणचितिः । अतो यतमदेव कतमच्च विद्यात्- तेन हैवास्यैषा ऽऽर्षेयवती बन्धुमती चितिर्भवति । अथ लोकम्पृणे ऽउपदधात्यस्यां स्रक्त्याम् । तयोरुपरि बन्धुः । पुरीषं निवपति । तस्योपरि चन्धुः ॥ १२ ॥
इत्याहवनीयचित्यां पञ्चचितिकायां चतुर्थी चितिः ।
सायणः
सैषा ब्रह्मोपादधत । सैषेत्यष्टादशात्मिकवोपादधत । इतरासु तस्या एवोपकरणमित्यभिप्रायः । ब्रह्मैव चितिः ‘ब्रह्मचितिः’ । समानाधिकरणसमासः । कुत एतत् । ‘यद्ब्रह्मोपादधत’ । ब्रह्मण उपधानकर्मत्वात् एवमुत्तरत्रापि त एषां ब्रह्मादीनां “किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् ।” (पा. सू. ५ । ३ । ९२) इति डतरच् प्रत्ययो द्रष्टव्यः । यदेवैषा माद्याविद्या उपासीत तेनैषा चतुर्थी चितिरस्य यजमानस्य ‘आर्षेयवती’ भवतीति आर्षेयवतीमेव कर्म क्रियमाणमभ्युदयाय भवतीति दर्शयति- ननु च ‘विद्यात्’ इति ज्ञानमात्रमिह श्रूयते- नोपासना नैष दोषः । (विद्याग्रहणेनात्रोदसेन लक्षणो वानलक्षणे वानलक्षणो वा न स्मृतं गृह्यते) । कुत एतत् । ‘अतो यतमदेव’ इति विकल्पादिवचनात् । यदि हि विज्ञानमात्रेणार्षेयवती स्यात् तत एव तस्माद्ग्रन्थात् सर्वाण्येव ब्रह्मादीनि विज्ञायन्त इति । साधोरार्षेयवती स्यात् । नैकेनचित् उपासनं तु न नियोगतः सर्वविषयं भवतीत्युपपन्नस्तत्र विकल्प एवमन्यत्रापि प्रायेणायं विदितरूपोपासनाभिप्राय एव द्रष्टव्यः । उत नु वा ऽत्र ब्रह्मादय इष्टकाशरीरा उपधेयाः उक्ताः ततश्च तैस्तदेवं भवति नार्षेय आर्षेयत्वं स्यादेवार्षेयत्वाद्रष्ट्रवात्तस्या हि ते चेतयमाना एतां चतुर्थीं चितिमपश्यन् तं देवा द्रष्टार उक्ताश्चितिमालिकायां चर्षयश्चतुर्थीमित्यृषयः । एवं तर्हि कथमद्य ग्रन्थो योजनीयः । अस्य ब्रह्मादिदवैर्ऋषिभिश्च द्रष्टार उक्तास्तथार्षेयस्य यदेव किञ्चिद्देवैर्ऋषिभिर्वै पिहितमित्येवं विद्यात् तेनैव येन विदितार्षेयवती भवति ‘बन्धुमती’ इति ब्रह्मादिना ऽऽधिदैवेनेति । ‘अस्यां स्रक्त्याम्’ इत्युत्तरांसे 13 ॥ १२॥
इति श्रीसर्वविद्यानिधानकवीन्द्राचार्यसरस्वतिश्रीहरिस्वामिनः कृतौ माध्यंन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे चतुर्थे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (८-४-४) ॥
इत्यष्टमे काण्डे चतुर्थो ऽध्यायः समाप्तः ॥ (८ । ४)॥
Eggeling
- This, indeed, is Brahman’s layer: inasmuch as they (the gods) laid down the Brahman 14, therefore it is Brahman’s layer. It is Prajāpati’s layer: inasmuch as they laid down Prajāpati 15, it is Prajāpati’s layer. It is the R̥shis’ layer: inasmuch as they laid down the R̥shis 16, it is the R̥shis’ layer. It is Vāyu’s layer: inasmuch as they laid down Vāyu 17, it is Vāyu’s layer. It is the Stomas’ layer: inasmuch as they laid down the hymn-forms 18, it is the Stomas’
layer. It is the layer of the vital airs: inasmuch as they laid down the vital airs 19, it is the layer of the vital airs. Hence, whatsoever one may know, that comes to be included in the ancestry, in the kinship 20 of this layer.–He then lays down two Lokampr̥ṇās (space-filling bricks) in that corner 21: the significance of these (will be explained) farther on 22. He throws loose soil thereon: the significance of this (will be explained) farther on 23.
-
77:1 That is, in the laying down of these bricks. For the order followed in laying down the bricks, see also p. 67, note 2. ↩︎
-
78:1 The Sanskrit text, as usual, makes our gerundial clause the principal clause: ‘because he lays them down in changing them.’ ↩︎
-
78:2 On the south side a Spr̥t representing the Saptadaśa is placed immediately north of a stoma (brick) representing the Pañcadaśa; and vice versa on the north (left) side. ↩︎
-
79:1 Viz. the southern one of the two on the south (right) side, and the northern one of the two on the north (left) side. ↩︎
-
79:2 Atha yā madhya npadadhāti sa ātmā, tā retaḥsicor velayopadadhāti–pr̥shṭayo vai retaḥsicau, madhyam u pr̥shtayo–madhyato hy ayam ātmā.–Here the two clauses with ‘vai’ are inserted to substantiate the reason introduced by ‘hi.’ ↩︎
-
80:1 Viz. the row of fourteen bricks lying behind the two front bricks, and the row of six bricks again placed behind these. It will he remembered that only the northern one of the two front bricks was laid down at first, and that then three others were placed in the different directions, after which the row of fourteen was laid down behind the front one; and similarly the laying down of the second front brick was separated from that of the second row by the laying down of three other bricks in the different quarters. ↩︎
-
80:2 In that case, the two shank-sized bricks are laid down in the south-east corner, and the rows of smaller bricks are placed to the north of them. See Kāty. Śrautas. XIV, I0, 4. ↩︎
-
80:3 See, for instance, VI, 7, 3, 9 where the Ukhya Agni, representing the sun, is held up by the Agnicit (sacrificer) in the south-easterly direction. The south-east corner is sacred to Agni. ↩︎
-
81:1 In that case, they are laid down north of the two bricks lying on the southern end of the cross-spine, first the row of fourteen, and then, north of these, the row of six. ↩︎
-
81:2 Yasya dakshiṇapārśve lakshaṇaṁ kāyasya vā varṇe vā kiṁtarātmakaṁ (?) bhavati; comm. ↩︎
-
81:3 This clause is rather abrupt, and is, moreover, hardly logical. It is not clear whether it is the two southern bricks that are compared with the woman, or the bricks to be placed alongside of them on the north (left) side. ↩︎
-
81:4 Viz. such as an excess of sharp teeth (incisors)–yasya mukhalakshaṇaṁ dakshiṇadaṁshṭrātirekādi bhavati; comm. ↩︎
-
उत्तराँ सादधि लोकंपृणाः पूर्ववत् । का. श्रौ. सू. १७ । २२३ । ↩︎
-
81:5 See VIII, 4, 1, 3. ↩︎
-
81:6 See VIII, 4, 1, 4. ↩︎
-
81:7 See VIII, 4, 1, 5. ↩︎
-
81:8 See VIII, 4, 1, 8. ↩︎
-
81:9 See VIII, 4, 1, 4 seq. ↩︎
-
82:1 See VIII, 4, 1, 5. ↩︎
-
82:2 Or, in the (symbolic) meaning. The literal reading of the clause is,–‘Thereby this layer of his becomes possessed of an ancestry and kinship (or mystic sense).’ ↩︎
-
82:3 Viz. in the north-east corner, or on the left shoulder, whence, in two turns, the available spaces of the altar are filled up. In laying down the Lokampr̥ṇās of the first three layers he started from the south-east, the south-west, and the north-west corners respectively. Cf. p. 22, note 1; p. 41, note 1; p. 58, note 1. ↩︎
-
82:4 See VIII, 7, 2, 4 seq. ↩︎
-
82:5 See VIII, 7, 3, 1 seq. ↩︎