०१

विश्वास-प्रस्तुतिः

अ᳘थ सृ᳘ष्टीरु᳘पदधाति॥
(त्ये) एतद्वै᳘ प्रजा᳘पतिः स᳘र्व्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘र्मु᳘क्त्वा ऽकामयत प्रजाः᳘ सृजेय प्र᳘जायेये᳘ति॥

मूलम् - श्रीधरादि

अ᳘थ सृ᳘ष्टीरु᳘पदधाति॥
(त्ये) एतद्वै᳘ प्रजा᳘पतिः स᳘र्व्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘र्मु᳘क्त्वा ऽकामयत प्रजाः᳘ सृजेय प्र᳘जायेये᳘ति॥

मूलम् - Weber

अ᳘थ सृ᳘ष्टीरु᳘पदधाति॥
एतद्वै᳘ प्रजा᳘पतिः स᳘र्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘र्मुॗक्त्वाकामयत प्रजाः᳘ सृजेय प्र᳘जायेये᳘ति॥

मूलम् - विस्वरम्

अथ सृष्टीरुपदधाति । एतद्वै प्रजापतिः सर्वाणि भूतानि पाप्मनो मृत्योर्मुक्त्वा ऽकामयत- प्रजाः सृजेय, प्रजायेयेति ॥ १ ॥

सायणः

अथ सृष्टिसंज्ञकाः सप्तदशेष्टका विधाय स्तौति- अथ सृष्टीरुपदधात्येतद्वै प्रजापतिरित्यादिना । कथमासां सृष्टिशब्दवाच्यतेत्याकाङ्क्षायां स्वयमेवोत्तरत्र “तद्यदसृजत तस्मात्सृष्टयः”- (श. प. ८ । ४ । ३ । २०) इति वक्ष्यते । व्याकरणप्रसिद्ध्या “तद्वानसाम्” (पा. सू. ४ । ४ । १२५) इति सृष्टिशब्दोपेतमन्त्रैरुपधेयत्वात् सृष्टयः । यद्यपि “एकया ऽस्तुवत, सप्तविंशत्या ऽस्तुवत”- (श. प. ८ । ४ । ३ । ३ । १६ ।) इत्यादौ सृष्टिशब्दो नास्ति तथापि धातुमात्रं सृष्टसृष्टिसमूहे वर्त्तत इति । सर्वासां सृष्टिशब्दवाच्यत्वं द्रष्टव्यम् । पुरा ‘प्रजापतिः’ पूर्वोक्तप्रकारेण ‘सर्वाणि भूतानि’ ब्रह्मक्षत्रादीनि ‘पाप्मनो मृत्योः’- सकाशात् ‘मुक्त्वा’ सर्वभूतानां स्वव्यक्तिरूपत्वाद्भूतसमष्टिरूपः स्वयं मृत्योः सकाशान्मुक्तः सन्नित्यर्थः । यद्वा भूतानां गर्भरूपावस्थानस्योक्तत्वात्तानि स्वयं ‘मुक्त्वा’ इत्युच्यते । स च ‘अकामयत,’ किमिति ? ‘प्रजाः सृजेय’ सृष्टाभिस्ताभिः स्वयमेव ‘प्रजायय’ इत्यकामयत ॥ १ ॥

Eggeling
  1. He then lays down the Srishṭis 1 (creations). For Prajāpati, having freed all beings from evil,

from death, he now desired, ‘May I produce creatures, may I procreate!’

०२

विश्वास-प्रस्तुतिः

स᳘ प्राणा᳘नब्रवीत्॥
(द्यु) युष्मा᳘भिः स᳘हेमाः᳘ प्रजाः प्र᳘जनयानी᳘ति ते वै के᳘न स्तोष्यामह ऽइ᳘ति म᳘या चैव᳘ युष्मा᳘भिश्चे᳘ति तथे᳘ति ते᳘ प्राणै᳘श्चैव᳘ प्रजा᳘पतिना चास्तुवत य᳘दु ह किं᳘ च देवाः᳘ कुर्व्व᳘ते स्तो᳘मेनैव त᳘त्कुर्व्वते यज्ञो वै स्तो᳘मो यज्ञे᳘नैव त᳘त्कुर्व्वते त᳘स्मादु स᳘र्व्वास्वे᳘वास्तुवतास्तुवतेत्य᳘नुवर्तते॥

मूलम् - श्रीधरादि

स᳘ प्राणा᳘नब्रवीत्॥
(द्यु) युष्मा᳘भिः स᳘हेमाः᳘ प्रजाः प्र᳘जनयानी᳘ति ते वै के᳘न स्तोष्यामह ऽइ᳘ति म᳘या चैव᳘ युष्मा᳘भिश्चे᳘ति तथे᳘ति ते᳘ प्राणै᳘श्चैव᳘ प्रजा᳘पतिना चास्तुवत य᳘दु ह किं᳘ च देवाः᳘ कुर्व्व᳘ते स्तो᳘मेनैव त᳘त्कुर्व्वते यज्ञो वै स्तो᳘मो यज्ञे᳘नैव त᳘त्कुर्व्वते त᳘स्मादु स᳘र्व्वास्वे᳘वास्तुवतास्तुवतेत्य᳘नुवर्तते॥

मूलम् - Weber

स᳘ प्राणा᳘नब्रवीत्॥
युष्मा᳘भिः सॗहेमाः᳘ प्रजाः प्र᳘जनयानी᳘ति ते वै के᳘न स्तोष्यामह इ᳘ति म᳘या चैव᳘ युष्मा᳘भिश्चे᳘ति तथे᳘ति ते᳘ प्राणै᳘श्चैव᳘ प्रजा᳘पतिना चास्तुवत य᳘दु ह किं᳘ च देवाः᳘ कुर्व᳘ते स्तो᳘मेनैव त᳘त्कुर्वते यज्ञो वै स्तो᳘मो यज्ञे᳘नैव त᳘त्कुर्वते त᳘स्मादु स᳘र्वास्वेॗवास्तुवतास्तुवतेत्य᳘नुवर्तते॥

मूलम् - विस्वरम्

स प्राणानब्रवीत्- ‘युष्माभिः सहेमाः प्रजाः प्रजनयानि’ इति । ते वै- केन स्तोष्यामह इति । मया चैव युष्माभिश्चेति । तथेति । ते प्राणैश्चैव प्रजापतिना चास्तुवत । यदु ह किंच देवाः कुर्वते- स्तोमेनैव तत्कुर्वते । तस्मादु सर्वास्वेवास्तुवतास्तुवतेत्यनुवर्तते ॥ २ ॥

सायणः

‘सः’ स्वयमेक एवासक्तः सन् ‘प्राणान्’ ‘युष्माभिः’ सहितः प्रजायेय इति । ‘अब्रवीत्’ प्रजापतेः स्थूलशरीरत्वात्प्राणाभावे केवलस्य शरीरस्य निर्वाहाभावात्सृज्यमानस्य प्राणिजातस्य शरीरप्राणसङ्घातात्मकत्वात्प्राणसाहाय्यमपेक्षितवानित्यभिप्रायः । इत्थं सृष्टिपुरुषसामग्रीमभिधाय सृष्टेः 2 सामर्थ्यसव्यपेक्षत्वात्, तस्याश्च कर्मजन्यत्वात्, तद्रूपां सामग्रीं दर्शयति- ते वै केन स्तोष्यामह इति । अब्रुवन्निति शेषः । स्तुतेरावश्यकत्वं स्वयमेव वक्ष्यति । अतो ऽत्र स्वव्यतिरिक्तस्य कस्याप्यभावादुद्गात्रादिस्थानीयेन केन स्तोष्यामह इति पृष्टवन्त इत्यर्थः । अलमन्यैरस्मद्व्यतिरिक्तैः परं ‘मया च युष्माभिश्च स्तोष्यामहे’ इति प्रजापतिरब्रवीत् । ‘तथेति’ प्राणा अङ्गीकृत्य ‘ते’ प्राणप्रजापतयः ‘प्राणैः’ स्वस्वरूपेण ‘प्रजापतिना चास्तुवत’ स्वात्मानमेव देवत्वादन्यतया ऽभिधानं स्वयमेव कर्तारः स्वैरेव कारणभूतैरस्तुवतेत्यर्थः । स्तोत्रं त्रिवृदादिस्तोमसाध्यम् स च स्तोमः किमर्थमपेक्ष्यत ? इत्यत आह- यदु ह किं च देवाः कुर्वत इति । यज्ञो वै स्तोम- इति । स्तोमप्राधान्यात् ज्योतिष्टोमादियज्ञो नाम स्तोम एवेत्यर्थः अस्तुवतास्तुवतेत्यनुवर्तत इति । तस्मात्सर्वस्या विकृतेः स्तोमसाध्यत्वात्सर्वास्विष्टकासु तत्तत्सृष्ट्यभिधायकेष्टकामन्त्र इति यावत् ॥ २ ॥

Eggeling
  1. He spake unto the vital airs 3, ‘Together with you, I will here bring forth creatures!’–‘Wherewith shall we sing praises 4?’–‘With me and with

yourselves!’–‘So be it!’ So they sang praises both with the vital airs and with Prajāpati; and whatsoever the gods do, that they do with praise, that–praise being sacrifice–they do with sacrifice. Hence (the words) ’they sang praises’ recur with all (these bricks).

०३

विश्वास-प्रस्तुतिः

(त ऽ) ए᳘कया ऽस्तुवते᳘ति॥
व्वाग्वा ऽए᳘का व्वा᳘चैव त᳘दस्तुवत प्रजा᳘ ऽअधीयन्ते᳘ति[[!!]] प्रजा ऽअ᳘त्राधीयन्त प्रजा᳘पतिर᳘धिपतिरासीदि᳘ति प्रजा᳘पतिरत्रा᳘धिपतिरासीत्॥

मूलम् - श्रीधरादि

(त ऽ) ए᳘कया ऽस्तुवते᳘ति॥
व्वाग्वा ऽए᳘का व्वा᳘चैव त᳘दस्तुवत प्रजा᳘ ऽअधीयन्ते᳘ति[[!!]] प्रजा ऽअ᳘त्राधीयन्त प्रजा᳘पतिर᳘धिपतिरासीदि᳘ति प्रजा᳘पतिरत्रा᳘धिपतिरासीत्॥

मूलम् - Weber

ए᳘कयास्तुवते᳘ति॥
वाग्वा ए᳘का वाॗचैव त᳘दस्तुवत प्रजा᳘ अधीयन्ते᳘ति᳘ प्रजा अ᳘त्राधीयन्त प्रजा᳘पतिर᳘धिपतिरासीदि᳘ति प्रजा᳘पतिरत्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(१) “एकया ऽस्तुवत”- इति । वाग्वा ऽएका । वाचैव तदस्तुवत । “प्रजा ऽअधीयन्त”- इति । प्रजा ऽअत्राधीयन्त । “प्रजापतिरधिपतिरासीत्”- इति । प्रजापतिरत्राधिपतिरासीत् ॥ ३ ॥

सायणः

तत्र प्रथमेष्टकामन्त्रं विधाय व्याचष्टे- वाग्वा एकेत्यादिना । यद्यपि परापश्यन्त्यादिभेदेन बहुविधा तथापि वागात्मना एकत्वात् ‘वाग्वा एका’ इत्याह । ‘तत्’ तेन ‘एकया ऽस्तुवत’ इति मन्त्रपाठेन वाच एकत्वात् साक्षाद् ‘वाचैवास्तुवत’ । यद्वा तदा प्रजासृष्टिसमये ‘वाचैवास्तुवत, अतो मन्त्र ‘एकया ऽस्तुवत’ इत्याहेत्यर्थः । एवमुत्तरत्रापि व्याख्येयम् । ‘एकया’ स्तोत्रियया ‘अस्तुवत’ एकेन स्तोमेनास्तुवतेत्यर्थः । सैवैका स्तोत्रिया वागात्मना स्तुता भवति । एवं ‘तिसृभिरस्तुवत’ इत्यादयो व्याख्येयाः । भागान्तरमुपादाय व्याचष्टे- प्रजा अधीयन्तेति प्रजा अत्राधीयन्तेति । ‘अत्र’ सृष्टिप्रस्तावे ‘प्रजाः’ धारिता आसन् । दधातेः (धा. पा. जु. उ. १०) लङ् । बहुवचने कर्मणि रूपम् । अतः ‘प्रजा अधीयन्त’ इति मन्त्र आहेत्यर्थः । भागान्तरमुदाहृत्य व्याचष्टे- प्रजापतिरधिपतिरासीदिति । ‘अत्र’ प्रजासृष्टौ ‘प्रजापतिः’ प्रजास्वाधिपत्यवान् ‘आसीत्’ तस्मान्मन्त्रः ‘प्रजापतिरधिपतिरासीत्’ इत्याहेत्यर्थः । एवमुत्तरेषां षोडशमन्त्राणां तद्ब्राह्मणानां चापि व्याख्यानं द्रष्टव्यम् । ‘अधीयन्त’ इत्यस्य स्थाने ‘असृज्यन्त’ इति विशेषः । स च तत्र तत्र विशेषो ऽभिधास्यते ॥ ३ ॥

Eggeling
  1. [They lay them down, with, Vāj. S. XIV, 2831], ‘With one they sang praises,’–the one, doubtless, is speech: it is with speech they then sang praises;–‘creatures were conceived,’–creatures indeed were now conceived;–‘Prajāpati was the lord!’–Prajāpati indeed was now the lord.

०४

विश्वास-प्रस्तुतिः

(त्ति) तिसृ᳘भिरस्तुवते᳘ति॥
त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्यानस्तै᳘रेव त᳘दस्तुवत ब्र᳘ह्मा ऽसृज्यते᳘ति ब्रह्मा᳘त्रासृज्यत ब्र᳘ह्मणस्प᳘तिर᳘धिपतिरासीदि᳘ति ब्र᳘ह्मणस्प᳘तिरत्रा᳘धिपतिरासीत्॥

मूलम् - श्रीधरादि

(त्ति) तिसृ᳘भिरस्तुवते᳘ति॥
त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ ऽउदानो᳘ व्यानस्तै᳘रेव त᳘दस्तुवत ब्र᳘ह्मा ऽसृज्यते᳘ति ब्रह्मा᳘त्रासृज्यत ब्र᳘ह्मणस्प᳘तिर᳘धिपतिरासीदि᳘ति ब्र᳘ह्मणस्प᳘तिरत्रा᳘धिपतिरासीत्॥

मूलम् - Weber

तिसृ᳘भिरस्तुवते᳘ति॥
त्र᳘यो वै᳘ प्राणाः᳘ प्राण᳘ उदानो᳘ व्यानस्तै᳘रेव त᳘दस्तुवत ब्र᳘ह्मासृज्यते᳘ति ब्रह्मा᳘त्रासृज्यत ब्र᳘ह्मणस्प᳘तिर᳘धिपतिरासीदि᳘ति ब्र᳘ह्मणस्प᳘तिरत्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(२) “तिसृभिरस्तुवत”- इति । त्रयो वै प्राणाः- प्राणः, उदानः, व्यानः । तैरेव तदस्तुवत । “ब्रह्मासृज्यत”- इति । ब्रह्मात्रासृज्यत । “ब्रह्मणस्पतिरधिपतिरासीत्”- इति । ब्रह्मणस्पतिरत्राधिपतिरासीत् ॥ ४ ॥

सायणः

ब्रह्मासृज्यत इत्यत्र सर्वसृष्टिसाधनभूतो वेदराशिः ‘ब्रह्म’ इत्युच्यते । ‘ब्रह्मणस्पतिः’ तत्पालकश्च चतुर्वक्त्रः, यद्वा उत्तरत्र ‘पञ्चदशभिरस्तुवत’ इत्यत्र पञ्चदशेन स्तोमेन क्षत्रसृष्टेरभिधास्यमानत्वादत्र त्रिवृत्स्तोमेन ब्राह्मणजातिर्विवक्षिता । तत्र ब्रह्मणस्पतिरुच्यते “आग्नेयो वै ब्राह्मणः” इति (श. प. ११ । ५ । ४ । १२) श्रुतेः ॥ ४ ॥

Eggeling
  1. ‘With three they sang praises,’–there are three vital airs: the out-breathing, the up-breathing, and the through-breathing: it is with them they then sang praises;–’the Brahman was created,’–the priesthood indeed was now created;–‘Brahmaṇaspati was the lord!’ Brahmaṇaspati indeed was now the lord.

०५

विश्वास-प्रस्तुतिः

(त्प) पञ्च᳘भिरस्तुवते᳘ति॥
य᳘ ऽए᳘वेमे म᳘नःपञ्चमाः प्राणास्तै᳘रेव त᳘दस्तुवत भूता᳘न्यसृज्यन्ते᳘ति भूतान्य᳘त्रासृज्यन्त भूता᳘नां प᳘तिर᳘धिपतिरासीदि᳘ति भूता᳘नां प᳘तिरत्रा᳘धिपतिरासीत्॥

मूलम् - श्रीधरादि

(त्प) पञ्च᳘भिरस्तुवते᳘ति॥
य᳘ ऽए᳘वेमे म᳘नःपञ्चमाः प्राणास्तै᳘रेव त᳘दस्तुवत भूता᳘न्यसृज्यन्ते᳘ति भूतान्य᳘त्रासृज्यन्त भूता᳘नां प᳘तिर᳘धिपतिरासीदि᳘ति भूता᳘नां प᳘तिरत्रा᳘धिपतिरासीत्॥

मूलम् - Weber

पञ्च᳘भिरस्तुवते᳘ति॥
य᳘ एॗवेमे म᳘नःपञ्चमाः प्राणास्तै᳘रेव त᳘दस्तुवत भूता᳘न्यसृज्यन्ते᳘ति भूतान्य᳘त्रासृज्यन्त भूता᳘नाम् प᳘तिर᳘धिपतिरासीदि᳘ति भूता᳘नाम् प᳘तिरत्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(३) “पञ्चभिरस्तुवत”- इति । य ऽएवेमे मनःपञ्चमाः प्राणास्तैरेव तदस्तुवत । “भूतान्यसृज्यन्त”- इति । भूतान्यत्रासृज्यन्त । “भूतानां पतिरधिपतिरासीत्- इति । भूतानां पतिरत्राधिपतिरासीत् ॥ ५ ॥

सायणः

“पञ्चभिरस्तुवत” इत्यत्र ‘य एवैमे मनःपञ्चमाः प्राणाः’ इति श्रूयते; तत्र मन एकम्, इमे पूर्वोक्ताः वाक्प्राणोदानव्यानाश्चत्वार इत्यवगन्तव्यम् । चक्षुःश्रोत्रनासारन्ध्रगताः षट् प्राणाः, वदनस्थ एक इति सप्त शीर्षण्याः प्राणाः । सप्त ऋषय इति । भरद्वाजः कश्यपो ऽत्रिर्गौतमो विश्वामित्रो जमदग्निर्वसिष्ठः सप्तर्षयः । अवाञ्चाविति । मलमूत्रद्वारस्थावित्यर्थः । ‘पितरः’ अग्निष्वात्ताः, बर्हिषदश्च ‘असृज्यन्त’ । ‘अदितिः’ देवमाता अदीनत्वात् सा पितॄणाम् ‘अधिपत्न्यासीत्’ ॥ ५-७ ॥

Eggeling
  1. ‘With five they sang praises,’–what (four) vital airs there are here, with mind as a fifth: it is with them they then sang praises;–’the living beings were created,’–the living beings indeed were now created;–’the lord of beings was the lord!’–the lord of beings indeed was now the lord.

०६

विश्वास-प्रस्तुतिः

(त्स) सप्त᳘भिरस्तुवते᳘ति॥
य᳘ ऽए᳘वेमे᳘ सप्त᳘ शीर्ष᳘न्प्राणास्तै᳘रेव त᳘दस्तुवत सप्त ऽऋष᳘यो ऽसृज्यन्ते᳘ति सप्त ऽर्ष᳘यो ऽत्रासृज्यन्त धाता᳘ ऽधिपतिरासीदि᳘ति धाता ऽत्रा᳘धिपतिरासीत्॥

मूलम् - श्रीधरादि

(त्स) सप्त᳘भिरस्तुवते᳘ति॥
य᳘ ऽए᳘वेमे᳘ सप्त᳘ शीर्ष᳘न्प्राणास्तै᳘रेव त᳘दस्तुवत सप्त ऽऋष᳘यो ऽसृज्यन्ते᳘ति सप्त ऽर्ष᳘यो ऽत्रासृज्यन्त धाता᳘ ऽधिपतिरासीदि᳘ति धाता ऽत्रा᳘धिपतिरासीत्॥

मूलम् - Weber

सप्त᳘भिरस्तुवते᳘ति॥
य᳘ एॗवेमे᳘ सप्त᳘ शीर्ष᳘न्प्राणास्तै᳘रेव त᳘दस्तुवत सप्त ऋष᳘यो ऽसृज्यन्ते᳘ति सप्त ऽर्ष᳘यो ऽत्रासृज्यन्त धाता᳘धिपतिरासीदि᳘ति धातात्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(४) “सप्तभिरस्तुवत”- इति । य ऽएवेमे सप्त शीर्षन्प्राणास्तैरेव तदस्तुवत । “सप्त ऽऋषयो ऽसृज्यन्त”- इति । सप्तर्षयो ऽत्रासृज्यन्त । “धाता ऽधिपतिरासीत्”- (वा. सं. १४ । २८) इति । धाता ऽत्राधिपतिरासीत् ॥ ६ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. ‘With seven they sang praises,’–what seven vital airs there are here in the head: it is with them they then sang praises;–’the seven R̥shis were created,’–the seven R̥shis indeed were now created;–’the creator was the lord!’–the creator indeed was now the lord.

०७

विश्वास-प्रस्तुतिः

(न्न) नव᳘भिरस्तुवते᳘ति॥
न᳘व वै᳘ प्राणाः᳘ सप्त᳘ शीर्षन्न᳘वाञ्चौ द्वौ तै᳘रेव त᳘दस्तुवत पित᳘रो ऽसृज्यन्ते᳘ति पितरो᳘ ऽत्रासृज्यन्ता᳘दितिर᳘धिपत्न्यासीदित्य᳘दितिरत्रा᳘धिपत्न्यासीत्॥ (शतम् ४५००)

मूलम् - श्रीधरादि

(न्न) नव᳘भिरस्तुवते᳘ति॥
न᳘व वै᳘ प्राणाः᳘ सप्त᳘ शीर्षन्न᳘वाञ्चौ द्वौ तै᳘रेव त᳘दस्तुवत पित᳘रो ऽसृज्यन्ते᳘ति पितरो᳘ ऽत्रासृज्यन्ता᳘दितिर᳘धिपत्न्यासीदित्य᳘दितिरत्रा᳘धिपत्न्यासीत्॥ (शतम् ४५००)

मूलम् - Weber

नव᳘भिरस्तुवते᳘ति॥
न᳘व वै᳘ प्राणाः᳘ सप्त᳘ शीर्षन्न᳘वाञ्चौ द्वौ तै᳘रेव त᳘दस्तुवत पित᳘रो ऽसृज्यन्ते᳘ति पितरो᳘ ऽत्रासृज्यन्ता᳘दितिर᳘धिपत्न्यासीदित्य᳘दितिरत्रा᳘धिपत्न्यासीत्॥

मूलम् - विस्वरम्

(५) “नवभिरस्तुवत”- इति । नव वै प्राणाः- सप्त शीर्षन्, अवाञ्चौ द्वौ । तैरेव तदस्तुवत । “पितरो ऽसृज्यन्त”- इति । पितरो ऽत्रासृज्यन्त । “अदितिरधिपत्न्यासीत्”- इति । अदितिरत्राधिपत्न्यासीत् ॥ ७ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. ‘With nine they sang praises,’–there are nine vital airs, seven in the head, and two downward

ones: it is with them they then sang praises;–’the Fathers were created,’–the Fathers indeed were now created;–‘Aditi was the ruler!’–Aditi indeed was now the ruler.

०८

विश्वास-प्रस्तुतिः

(दे) एकादश᳘भिरस्तुवते᳘ति॥
द᳘श प्राणा᳘ ऽआ᳘त्मैकादशस्ते᳘नैव त᳘दस्तुवत ऽऋत᳘वो ऽसृज्यन्ते᳘त्यृतवो᳘ ऽत्रासृज्यन्तार्तवा ऽअ᳘धिपतय ऽआसन्नि᳘त्यार्तवा ऽअत्रा᳘धिपतय ऽआसन्॥

मूलम् - श्रीधरादि

(दे) एकादश᳘भिरस्तुवते᳘ति॥
द᳘श प्राणा᳘ ऽआ᳘त्मैकादशस्ते᳘नैव त᳘दस्तुवत ऽऋत᳘वो ऽसृज्यन्ते᳘त्यृतवो᳘ ऽत्रासृज्यन्तार्तवा ऽअ᳘धिपतय ऽआसन्नि᳘त्यार्तवा ऽअत्रा᳘धिपतय ऽआसन्॥

मूलम् - Weber

एकादश᳘भिरस्तुवते᳘ति॥
द᳘श प्राणा᳘ आॗत्मैकादशस्ते᳘नैव त᳘दस्तुवत ऋत᳘वो ऽसृज्यन्ते᳘त्यृतवो᳘ ऽत्रासृज्यन्तार्तवा अ᳘धिपतय आसन्नि᳘त्यार्तवा अत्रा᳘धिपतय आसन्॥

मूलम् - विस्वरम्

(६) “एकादशभिरस्तुवत”- इति । दश प्राणाः, आत्मैकादशः । तेनैव तदस्तुवत । “ऋतवो ऽसृज्यन्त”- इति । ऋतवो ऽत्रासृज्यन्त । “आर्तवा अधिपतय आसन्”- इति । आर्तवा अत्राधिपतय आसन् ॥ ८ ॥

सायणः

दश प्राणा इति । “नाभिर्दशमी” इति श्रुत्यन्तरात् नाभिसहिताः पूर्वोक्ता दश ‘आत्मा’ देहः स चैकादशः । ‘आर्तवाः’ ऋत्वभिमानिदेवाः । द्वे प्रतिष्ठे इति । द्वौ पादावित्यर्थः । पञ्चदशभिरस्तुवत इति । अत्र हस्तद्वयगता दश अंगुलयः, चत्वारि दोर्बाहवाणि दोर्द्वयम्, बाहुद्वयमिति चत्वारीत्यर्थः । नाभेरुपरिष्टाद्भागः सर्वो ऽपि पञ्चदशः । ‘क्षत्रम्’ क्षत्रियजातिस्तस्याः ‘पतिः’ ‘इन्द्र आसीत्’ ॥ ८-१० ॥

Eggeling
  1. ‘With eleven they sang praises,’–there are ten vital airs, and the trunk is the eleventh: it is therewith they then sang praises;–’the seasons were created,’–the seasons indeed were now created;–’the seasonal periods were the lords!’–the seasonal periods indeed were now the lords.

०९

विश्वास-प्रस्तुतिः

(संस्त्र) त्रयोदश᳘भिरस्तुवते᳘ति॥
द᳘श प्राणा द्वे᳘ प्रतिष्ठे᳘ ऽआत्मा᳘ त्रयोदशस्ते᳘नैव त᳘दस्तुवत मा᳘सा ऽअसृज्यन्ते᳘ति मा᳘सा ऽअ᳘त्रासृज्यन्त संव्वत्सरो᳘ ऽधिपतिरासीदि᳘ति संव्वत्सरो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - श्रीधरादि

(संस्त्र) त्रयोदश᳘भिरस्तुवते᳘ति॥
द᳘श प्राणा द्वे᳘ प्रतिष्ठे᳘ ऽआत्मा᳘ त्रयोदशस्ते᳘नैव त᳘दस्तुवत मा᳘सा ऽअसृज्यन्ते᳘ति मा᳘सा ऽअ᳘त्रासृज्यन्त संव्वत्सरो᳘ ऽधिपतिरासीदि᳘ति संव्वत्सरो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - Weber

त्रयोदश᳘भिरस्तुवते᳘ति॥
द᳘श प्राणा द्वे᳘ प्रतिष्ठे᳘ आत्मा᳘ त्रयोदशस्ते᳘नैव त᳘दस्तुवत मा᳘सा असृज्यन्ते᳘ति मा᳘सा अ᳘त्रासृज्यन्त संवत्सरो᳘ ऽधिपतिरासीदि᳘ति संवत्सरो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(७) “त्रयोदशभिरस्तुवत”- इति । दंश प्राणाः, द्वे प्रतिष्ठे, आत्मा त्रयोदशः । तेनैव तदस्तुवत “मासा असृज्यन्त”- इति । मासा अत्रासृज्यन्त । “संवत्सरो ऽधिपतिरासीत्”- (वा. सं. १४ । २९) इति । संवत्सरो ऽत्राधिपतिरासीत् ॥ ९ ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. ‘With thirteen they sang praises,’–there are ten vital airs, and two feet, and the trunk is the thirteenth: it is therewith they then sang praises;–’the months were created,’–the months indeed were now created;–’the year was the lord!’ the year indeed was now the lord.

१०

विश्वास-प्रस्तुतिः

(त्प) पञ्चदश᳘भिरस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयश्चत्वा᳘रि दोर्बाहवा᳘णि य᳘दूर्ध्वं ना᳘भेस्त᳘त्पञ्चदशं ते᳘नैव त᳘दस्तुवत क्षत्र᳘मसृज्यते᳘ति क्षत्रम᳘त्रासृज्यतेन्द्रो ऽधिपतिरासीदितीन्द्रो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - श्रीधरादि

(त्प) पञ्चदश᳘भिरस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयश्चत्वा᳘रि दोर्बाहवा᳘णि य᳘दूर्ध्वं ना᳘भेस्त᳘त्पञ्चदशं ते᳘नैव त᳘दस्तुवत क्षत्र᳘मसृज्यते᳘ति क्षत्रम᳘त्रासृज्यतेन्द्रो ऽधिपतिरासीदितीन्द्रो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - Weber

पञ्चदश᳘भिरस्तुवते᳘ति॥
द᳘श ह᳘स्त्या अङ्गु᳘लयश्चत्वा᳘रि दोर्बाहवा᳘णि य᳘दूर्ध्वं ना᳘भेस्त᳘त्पञ्चदशं ते᳘नैव त᳘दस्तुवत क्षत्र᳘मसृज्यते᳘ति क्षत्र᳘मसृज्यते᳘ति क्षत्रम᳘त्रासृज्यतेन्द्रो ऽधिपतिरासीदितीन्द्रो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(८) “पञ्चदशभिरस्तुवत”- इति । दश हस्त्या अंगुलयः, चत्वारि दोर्बाहवाणि, यदूर्ध्वं नाभेः तत्पञ्चदशम् । तेनैव तदस्तुवत “क्षत्रमसृज्यत”- (वा. सं. १४ । २९) इति । क्षत्रमत्रासृज्यत । “इन्द्रो ऽधिपतिरासीत्”- इति । इन्द्रो ऽत्राधिपतिरासीत् ॥ १० ॥

सायणः

[व्याख्यानं अष्टमे]

Eggeling
  1. ‘With fifteen they sang praises,’–there are ten fingers, four fore-arms and upper arms, and what is above the navel is the fifteenth: it is therewith they then sang praises the Kshatra was created,’–the nobility indeed was now created;–‘Indra was the lord!’–Indra indeed was now the lord.

११

विश्वास-प्रस्तुतिः

(त्स) सप्तदश᳘भिरस्तुवते᳘ति॥
द᳘श पा᳘द्या ऽअङ्गुलयश्चत्वा᳘र्यूर्व्वष्ठीवा᳘नि द्वे᳘ प्रतिष्ठे यद᳘वाङ्ना᳘भेस्त᳘त्सप्तदशं ते᳘नैव त᳘दस्तुवत ग्राम्याः᳘ पश᳘वो ऽसृज्यन्ते᳘ति ग्राम्याः᳘ पश᳘वो ऽत्रासृज्यन्त बृ᳘हस्प᳘तिर᳘धिपतिरासीदि᳘ति बृ᳘हस्प᳘तिरत्रा᳘धिपतिरासीत्॥

मूलम् - श्रीधरादि

(त्स) सप्तदश᳘भिरस्तुवते᳘ति॥
द᳘श पा᳘द्या ऽअङ्गुलयश्चत्वा᳘र्यूर्व्वष्ठीवा᳘नि द्वे᳘ प्रतिष्ठे यद᳘वाङ्ना᳘भेस्त᳘त्सप्तदशं ते᳘नैव त᳘दस्तुवत ग्राम्याः᳘ पश᳘वो ऽसृज्यन्ते᳘ति ग्राम्याः᳘ पश᳘वो ऽत्रासृज्यन्त बृ᳘हस्प᳘तिर᳘धिपतिरासीदि᳘ति बृ᳘हस्प᳘तिरत्रा᳘धिपतिरासीत्॥

मूलम् - Weber

सप्तदश᳘भिरस्तुवते᳘ति॥
द᳘श पा᳘द्या अङ्गु᳘लयश्चत्वा᳘र्यूर्वष्ठीवा᳘नि द्वे᳘ प्रतिष्ठे यद᳘वाङ्ना᳘भेस्त᳘त्सप्तदशं ते᳘नैव त᳘दस्तुवत ग्राम्याः᳘ पश᳘वो ऽसृज्यन्ते᳘ति ग्राम्याः᳘ पश᳘वो ऽत्रासृज्यन्त बृ᳘हस्प᳘तिर᳘धिपतिरासीदि᳘ति बृ᳘हस्प᳘तिरत्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(९) “सप्तदशभिरस्तुवत”- इति । दश पाद्या अंगुलयः, चत्वार्यूर्वष्ठीवानि, द्वे प्रतिष्ठे, यदवाङ्नाभेस्तत्सप्तदशम् । तेनैव तदस्तुवत । ग्राम्याः पशवो ऽसृज्यन्त”- इति । ग्राम्याः पशवो ऽत्रासृज्यन्त । “बृहस्पतिरधिपतिरासीत्”- (वा. सं. १४ । २९) इति । बृहस्पतिरत्राधिपतिरासीत् ॥ ११ ॥

सायणः

सप्तदशभिरस्तुवतेति । अत्र ‘पाद्याः’ पादयोर्भवाः ‘अंगुलयः दश,’ ‘ऊर्वष्ठीवानि चत्वारि’, ऊरुद्वयम्, अष्ठीवद्द्वयं चेति भावः । अष्ठीवच्छब्देन जानुमण्डलभाग उच्यते । ‘द्वे प्रतिष्ठे’ द्वौ पादौ । ‘नाभेः’ अधोभागः सप्तदशसङ्ख्यापूरणः । ‘ग्राम्याः पशवः’ गोमहिषाजादयः ॥ ११ ॥

Eggeling
  1. ‘With seventeen they sang praises,’–there are ten toes, four thighs and shanks, two feet, and what is below the navel is the seventeenth: it is therewith they then sang praises the tame animals were created,’–the tame animals indeed were now created;–‘Br̥haspati was the lord!’–Br̥haspati indeed was now the lord.

१२

विश्वास-प्रस्तुतिः

(न्न) नवदश᳘भिरस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो न᳘व प्राणास्तै᳘रेव त᳘दस्तुवत शूद्रार्या᳘वसृज्येतामि᳘ति शूद्रार्याव᳘त्रासृज्येतामहोरात्रे ऽअ᳘धिपत्नी ऽआस्तामि᳘त्यहोरात्रे ऽअत्रा᳘धिपत्नी ऽआस्ताम्॥

मूलम् - श्रीधरादि

(न्न) नवदश᳘भिरस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो न᳘व प्राणास्तै᳘रेव त᳘दस्तुवत शूद्रार्या᳘वसृज्येतामि᳘ति शूद्रार्याव᳘त्रासृज्येतामहोरात्रे ऽअ᳘धिपत्नी ऽआस्तामि᳘त्यहोरात्रे ऽअत्रा᳘धिपत्नी ऽआस्ताम्॥

मूलम् - Weber

नवदश᳘भिरस्तुवते᳘ति॥
द᳘श ह᳘स्त्या अङ्गु᳘लयो न᳘व प्राणास्तै᳘रेव त᳘दस्तुवत शूद्रार्या᳘वसृज्येतामि᳘ति शूद्रार्याव᳘त्रासृज्येतामहोरात्रे अ᳘धिपत्नी आस्तामि᳘त्यहोरात्रे अत्रा᳘धिपत्नी आस्ताम्॥

मूलम् - विस्वरम्

(१०) नवदशभिरस्तुवत"- इति । दश हस्त्या अंगुलयो, नव प्राणाः, तैरेव तदस्तुवत । “शूद्रार्यावसृज्येताम्”- इति । शूद्रार्यावत्रासृज्येताम् । “अहोरात्रे अधिपत्नी आस्ताम्"- इति । अहोरात्रे अत्राधिपत्नी आस्ताम् ॥ १२ ॥

सायणः

शूद्रार्यावसृज्येतामिति । शूद्रः प्रसिद्धः, ‘अर्यः’ वैश्यजातिः ॥ १२ ॥

Eggeling
  1. ‘With nineteen they sang praises,’–there are ten fingers, and nine vital airs: it is with these they then sang praises;–’the Śūdra and Ārya were created,’–the Śūdra and Ārya indeed

were now created;–’the day and night were the rulers!’–the day and night indeed were now the rulers.

१३

विश्वास-प्रस्तुतिः

(मे᳘) ए᳘कविᳫँ᳭शत्या ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या ऽआ᳘त्मैकविᳫँ᳭शस्ते᳘नैव त᳘दस्तुवतै᳘कश᳘फाः पश᳘वो ऽसृज्यन्तेत्ये᳘कशफाः पशवो᳘ ऽत्रासृज्यन्त व्व᳘रुणो᳘ ऽधिपतिरासीदि᳘ति व्व᳘रुणो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - श्रीधरादि

(मे᳘) ए᳘कविᳫँ᳭शत्या ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या ऽआ᳘त्मैकविᳫँ᳭शस्ते᳘नैव त᳘दस्तुवतै᳘कश᳘फाः पश᳘वो ऽसृज्यन्तेत्ये᳘कशफाः पशवो᳘ ऽत्रासृज्यन्त व्व᳘रुणो᳘ ऽधिपतिरासीदि᳘ति व्व᳘रुणो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - Weber

ए᳘कविंशत्यास्तुवते᳘ति॥
द᳘श ह᳘स्त्या अङ्गु᳘लयो द᳘श पा᳘द्या आॗत्मैकविंशस्ते᳘नैव त᳘दस्तुवतै᳘कशफाः पश᳘वो ऽसृज्यन्तेत्ये᳘कशफाः पशवो᳘ ऽत्रासृज्यन्त व᳘रुणो᳘ ऽधिपतिरासीदि᳘ति व᳘रुणो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(११) “एकविंशत्या ऽस्तुवत”- इति । दश हस्त्या अंगुलयो, दश पाद्याः, आत्मैक विंशः, तेनैव तदस्तुवत । “एकशफाः पशवो ऽसृज्यन्त”- इति । एकशफाः पशवो ऽत्रासृज्यन्त । “वरुणो ऽधिपतिरासीत्”- इति । वरुणो ऽत्राधिपतिरासीत् ॥ १३ ॥

सायणः

‘एकशफाः पशवः’ गर्दभाश्वादयः । “अप्सुयोनिर्वा अश्वः” इति श्रुतेः अपां च वरुणस्वामिकत्वादेकशफानां ‘वरुणो ऽधिपतिरासीत्’ इत्युक्तम् । एवं सर्वत्र यथासम्भवमूहनीयम् ॥ १३ ॥

Eggeling
  1. ‘With twenty-one they sang praises,’–there are ten fingers, ten toes, and the trunk is the twenty-first: it is therewith that they then sang praises;–’the one-hoofed animals were created,’–the one-hoofed animals indeed were now created;–‘Varuṇa was the lord!’–Varuṇa indeed was now the lord.

१४

विश्वास-प्रस्तुतिः

(त्त्र᳘) त्र᳘योविᳫँ᳭शत्या ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या द्वे᳘ प्रतिष्ठे᳘ ऽआत्मा᳘ त्रयोविᳫँ᳭शस्ते᳘नैव त᳘दस्तुवत क्षुद्राः᳘ पश᳘वो ऽसृज्यन्ते᳘ति क्षुद्राः᳘ पशवो᳘ ऽत्रासृज्यन्त पूषा᳘ ऽधिपतिरासीदि᳘ति पूषा ऽत्रा᳘धिपतिरासीत्[[!!]]॥

मूलम् - श्रीधरादि

(त्त्र᳘) त्र᳘योविᳫँ᳭शत्या ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या द्वे᳘ प्रतिष्ठे᳘ ऽआत्मा᳘ त्रयोविᳫँ᳭शस्ते᳘नैव त᳘दस्तुवत क्षुद्राः᳘ पश᳘वो ऽसृज्यन्ते᳘ति क्षुद्राः᳘ पशवो᳘ ऽत्रासृज्यन्त पूषा᳘ ऽधिपतिरासीदि᳘ति पूषा ऽत्रा᳘धिपतिरासीत्[[!!]]॥

मूलम् - Weber

त्र᳘योविंशत्यास्तुवतेति॥
द᳘श ह᳘स्त्या अङ्गु᳘लयो द᳘श पा᳘द्या द्वे᳘ प्रतिष्ठे᳘ आत्मा᳘ त्रयोविंशस्ते᳘नैव त᳘दस्तुवत क्षुद्राः᳘ पश᳘वो ऽसृज्यन्ते᳘ति क्षुद्राः᳘ पशवो᳘ ऽत्रासृज्यन्त पूषा᳘धिपतिरासीदि᳘ति पूषा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(१२) “त्रयोविंशत्या ऽस्तुवत”- इति । दश हस्त्या अंगुल्यो, दश पाद्याः, द्वे प्रतिष्ठे, आत्मा त्रयोविंशः, तेनैव तदस्तुवत । “क्षुद्राः पशवो ऽसृज्यन्त”- इति । क्षुद्राः पशवो ऽत्रासृज्यन्त । “पूषा ऽधिपतिरासीत्”- इति । पूषा ऽत्राधिपतिरासीत् ॥ १४ ॥

सायणः

‘क्षुद्राः पशवः’ अजाधिप्रभृतयः, तेषां ‘पूषा’ पुष्ट्यभिमानी देवः ‘अधिपतिः’ स्वामी इत्यभिप्रायः ॥ १४ ॥

Eggeling
  1. ‘With twenty-three they sang praises,’–there are ten fingers, ten toes, two feet, and the trunk is the twenty-third: it is therewith they then sang praises;–’the small animals were created,’–the small animals indeed were now created;–‘Pūshan was the lord!’–Pūshan indeed was now the lord.

१५

विश्वास-प्रस्तुतिः

(त्प᳘) प᳘ञ्चविᳫँ᳭शत्या ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्याश्चत्वार्य᳘ङ्गान्यात्मा᳘ पश्चविᳫँ᳭शस्ते᳘नैव त᳘दस्तुवतारण्याः᳘ पश᳘वो ऽसृज्यन्ते᳘त्यारण्याः᳘ पशवो᳘ ऽत्रासृज्यन्त व्वायुर᳘धिपतिरासीदि᳘ति व्वायुरत्रा᳘धिपतिरासीत्॥

मूलम् - श्रीधरादि

(त्प᳘) प᳘ञ्चविᳫँ᳭शत्या ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्याश्चत्वार्य᳘ङ्गान्यात्मा᳘ पश्चविᳫँ᳭शस्ते᳘नैव त᳘दस्तुवतारण्याः᳘ पश᳘वो ऽसृज्यन्ते᳘त्यारण्याः᳘ पशवो᳘ ऽत्रासृज्यन्त व्वायुर᳘धिपतिरासीदि᳘ति व्वायुरत्रा᳘धिपतिरासीत्॥

मूलम् - Weber

प᳘ञ्चविंशत्यास्तुवते᳘ति॥
द᳘श ह᳘स्त्या अङ्गु᳘लयो द᳘श पा᳘द्याश्चत्वार्य᳘ङ्गान्यात्मा᳘ पश्चविंशस्ते᳘नैव त᳘दस्तुवतारण्याः᳘ पश᳘वो ऽसृज्यन्ते᳘त्यारण्याः᳘ पशवो᳘ ऽत्रासृज्यन्त वायुर᳘धिपतिरासीदि᳘ति वायुरत्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(१३) “पञ्चविंशत्या ऽस्तुवत"- इति । दश हस्त्या अंगुलयो, दश पाद्याः, चत्वार्यङ्गानि, आत्मा पञ्चविंशः । तेनैव तदस्तुवत । “आरण्याः पशवो ऽसृज्यन्त”- इति । आरण्याः पशवो ऽत्रासृज्यन्त । “वायुरधिपतिरासीत्”- (वा. सं. १४ । ३०) इति । वायुरत्राधिपतिरासीत् ॥ १५ ॥

सायणः

एवमारण्यानां वायुरधिपतिः ॥ १५ ॥

Eggeling
  1. ‘With twenty-five they sang praises,’–there are ten fingers, ten toes, four limbs, and the trunk is the twenty-fifth: it is therewith they then sang praises;–’the wild animals were created,’–the wild animals indeed were now created;–‘Vāyu was the lord!’–Vāyu indeed was now the lord.

१६

विश्वास-प्रस्तुतिः

(त्स) सप्त᳘विᳫँ᳭शत्या ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्याश्चत्वार्य᳘ङ्गानि द्वे᳘ प्रतिष्ठे᳘ ऽआत्मा᳘ सप्तविᳫँ᳭शस्ते᳘नैव त᳘दस्तुवत द्या᳘वापृथिवी᳘ व्यैतामि᳘ति द्या᳘वापृथिवी ऽअ᳘त्र᳘ व्यैतां व्व᳘सवो रुद्रा᳘ ऽआदित्या᳘ ऽअनु᳘व्यायन्नि᳘ति व्व᳘सवो रुद्रा᳘ ऽआदित्या ऽअ᳘त्रानु᳘व्यायंस्त᳘ ऽएवा᳘धिपतय ऽआसन्नि᳘ति त᳘ ऽउ ऽएवात्रा᳘धिपतय ऽआसन्॥

मूलम् - श्रीधरादि

(त्स) सप्त᳘विᳫँ᳭शत्या ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्याश्चत्वार्य᳘ङ्गानि द्वे᳘ प्रतिष्ठे᳘ ऽआत्मा᳘ सप्तविᳫँ᳭शस्ते᳘नैव त᳘दस्तुवत द्या᳘वापृथिवी᳘ व्यैतामि᳘ति द्या᳘वापृथिवी ऽअ᳘त्र᳘ व्यैतां व्व᳘सवो रुद्रा᳘ ऽआदित्या᳘ ऽअनु᳘व्यायन्नि᳘ति व्व᳘सवो रुद्रा᳘ ऽआदित्या ऽअ᳘त्रानु᳘व्यायंस्त᳘ ऽएवा᳘धिपतय ऽआसन्नि᳘ति त᳘ ऽउ ऽएवात्रा᳘धिपतय ऽआसन्॥

मूलम् - Weber

सप्त᳘विंशत्यास्तुवते᳘ति॥
द᳘श ह᳘स्त्या अङ्गु᳘लयो द᳘श पा᳘द्याश्चत्वार्य᳘ङ्गानि द्वे᳘ प्रतिष्ठे᳘ आत्मा᳘ सप्तविंशस्ते᳘नैव त᳘दस्तुवत द्या᳘वापृथिवीॗ व्यैतामि᳘ति द्या᳘वापृथिवी अ᳘त्रॗ व्यैतां व᳘सवो रुद्रा᳘ आदित्या᳘ अनुॗव्यायन्नि᳘ति व᳘सवो रुद्रा᳘ आदित्या अ᳘त्रानुॗव्यायंस्त᳘ एवा᳘धिपतय आसन्नि᳘ति त᳘ उ एवात्रा᳘धिपतय आसन्॥

मूलम् - विस्वरम्

(१४) “सप्तविंशत्या ऽस्तुवत”- इति । दश हस्त्या अंगुलयो, दश पाद्याः, चत्वार्यङ्गानि, द्वे प्रतिष्ठे, आत्मा सप्तविंशः । तेनैव तदस्तुवत । “द्यावापृथिवी व्यैताम्”- इति । द्यावापृथिवी ऽअत्र व्यैताम् । “वसवो रुद्रा आदित्या अनुव्यायन्”- इति । वसवो रुद्रा आदित्या अत्रानुव्यायन् । “त ऽएवाधिपतय आसन्”- (वा. सं १४ । ३०) इति । त उ एवात्राधिपतय आसन् ॥ १६ ॥

सायणः

चत्वार्य्यङ्गानीति । पादौ द्वौ, पाणी द्वौ इत्यर्थः । द्यावापृथिवी अत्र व्यैतामिति । पूर्वसृष्टे द्यावापृथिव्यौ प्राण्युपकारार्थं विभक्ते अभवताम् । संसर्गस्तु शाखान्तरे उक्तः,- “द्यावापृथिवी संसृष्टे आस्तां ते वियती अब्रूताम्” इति । द्यावापृथिव्योर्ग्रहणेन तदन्तरालवर्तिनो ऽन्तरिक्षस्यापि ग्रहणं बोध्यम् । अत एव तत्तत्स्वामिनो ‘वसवः, रुद्राः, आदित्याः’ च ‘अनुव्यायन्’ इत्युक्तम् ॥ १६ ॥

Eggeling
  1. ‘With twenty-seven they sang praises,’–there are ten fingers, ten toes, four limbs, two feet, and the trunk is the twenty-seventh: it is therewith they then sang praises;–‘Heaven and Earth went asunder,’–heaven and earth indeed now went asunder;–’the Vasus, Rudras and Ādityas separated along with them: they indeed were the lords!’ and they indeed were now the lords.

१७

विश्वास-प्रस्तुतिः

(न्न᳘) न᳘वविᳫँ᳭शत्या ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या न᳘व प्राणास्तै᳘रेव त᳘दस्तुवत व्व᳘नस्प᳘तयो ऽसृज्यन्ते᳘ति व्व᳘नस्य᳘तपो᳘ ऽत्रासृज्यन्त सोमो᳘ ऽधिपतिरासीदि᳘ति सोमो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - श्रीधरादि

(न्न᳘) न᳘वविᳫँ᳭शत्या ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या न᳘व प्राणास्तै᳘रेव त᳘दस्तुवत व्व᳘नस्प᳘तयो ऽसृज्यन्ते᳘ति व्व᳘नस्य᳘तपो᳘ ऽत्रासृज्यन्त सोमो᳘ ऽधिपतिरासीदि᳘ति सोमो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - Weber

न᳘वविंशत्यास्तुवते᳘ति॥
द᳘श ह᳘स्त्या अङ्गु᳘लयो द᳘श पा᳘द्या न᳘व प्राणास्तै᳘रेव त᳘दस्तुवत व᳘नस्प᳘तयो ऽसृज्यन्ते᳘ति व᳘नस्प᳘तयो᳘ ऽत्रासृज्यन्त सोमो᳘ ऽधिपतिरासीदि᳘ति सोमो ऽत्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(१५) “नवविंशत्या ऽस्तुवत"- इति । दश हस्त्या अंगुलयो, दश पाद्याः, नव प्राणाः । तैरेव तदस्तुवत । “वनस्पतयो ऽसृज्यन्त”- इति । वनस्पतयो ऽत्रासृज्यन्त । “सोमो ऽधिपतिरासीत्”- इति । सोमो ऽत्राधिपतिरासीत् ॥ १७ ॥

सायणः

वनस्पतिशब्देनौषध्यादयो ऽपि विवक्षिताः, तासां पृथगनभिधानात् ॥ १७ ॥

Eggeling
  1. ‘With twenty-nine they sang praises;’–

there are ten fingers, ten toes, and nine vital airs: it is with these they then sang praises;–’the trees were created,’–the trees indeed were now created;–‘Soma was the lord,’–Soma indeed was now the lord.

१८

विश्वास-प्रस्तुतिः

(दे᳘) ए᳘कत्रिᳫँ᳭शता ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणा᳘ ऽआ᳘त्मैकत्रिᳫँ᳭शस्ते᳘नैव त᳘दस्तुवत प्रजा᳘ ऽअसृज्यन्ते᳘ति प्रजा᳘ ऽअ᳘त्रासृज्यन्त य᳘वाश्चा᳘यवाश्चा᳘धिपतय ऽआसन्नि᳘ति पूर्वपक्षापरपक्षा᳘ ऽएवात्रा᳘धिपतय ऽआसन्॥

मूलम् - श्रीधरादि

(दे᳘) ए᳘कत्रिᳫँ᳭शता ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणा᳘ ऽआ᳘त्मैकत्रिᳫँ᳭शस्ते᳘नैव त᳘दस्तुवत प्रजा᳘ ऽअसृज्यन्ते᳘ति प्रजा᳘ ऽअ᳘त्रासृज्यन्त य᳘वाश्चा᳘यवाश्चा᳘धिपतय ऽआसन्नि᳘ति पूर्वपक्षापरपक्षा᳘ ऽएवात्रा᳘धिपतय ऽआसन्॥

मूलम् - Weber

ए᳘कत्रिंशतास्तुवते᳘ति॥
द᳘श ह᳘स्त्या अङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणा᳘ आॗत्मैकत्रिंशस्ते᳘नैव त᳘दस्तुवत प्रजा᳘ असृज्यन्ते᳘ति प्रजा अ᳘त्रासृज्यन्त य᳘वाश्चा᳘यवाश्चा᳘धिपतय आसन्नि᳘ति पूर्वपक्षापरपक्षा᳘ एवात्रा᳘धिपतय आसन्॥

मूलम् - विस्वरम्

(१६) “एकत्रिंशता ऽस्तुवत”- इति । दश हस्त्या अङ्गुलयो, दश पाद्याः, दश प्राणाः, आत्मैकत्रिंशः । तेनैव तदस्तुवत । “प्रजा असृज्यन्त”- इति । प्रजा अत्रासृज्यन्त । “यवाश्चायवाश्चाधिपतय आसन्”- इति । पूर्वपक्षापरपक्षा एवात्राधिपतय आसन् ॥ १८ ॥

सायणः

विविच्याभिहितं सङ्ग्रह्याभिधत्ते- प्रजा असृज्यन्तेति । तासां ‘यवाश्चायवाश्चाधिपतय आसन्’ । एतद्व्याचष्टे- पूर्वपक्षापरपक्षा एवात्राधिपतय आसन्निति । उपादानं तु “ते हीदं सर्वं युवते चायुवते च"- इत्यादिना प्राक् उक्तत्वादत्र नोक्तम् । सर्वासां प्रजानामुत्पत्तेः कालसव्यपेक्षत्वान्मासर्त्वादिकालस्य पूर्वपक्षापरपक्षावृत्ति साध्यत्वात्तेषां तदधिपतित्वाभिधानमिति द्रष्टव्यम् ॥ १८ ॥

Eggeling
  1. ‘With thirty-one they sang praises,’–there are ten fingers, ten toes, ten vital airs, and the trunk is the thirty-first: it is therewith they then sang praises;–’the creatures were created,’–the creatures indeed were now created;–’ the Yavas and Ayavas were the lords,’–the bright and dark fortnights indeed were now the lords.

१९

विश्वास-प्रस्तुतिः

(संस्त्र᳘) त्र᳘यस्त्रिᳫँ᳭शता ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणा द्वे᳘ प्रतिष्ठे᳘ ऽआत्मा᳘ त्रयस्त्रिᳫँ᳭शस्ते᳘नैव त᳘दस्तुवत भूता᳘न्यशाम्यन्नि᳘ति स᳘र्व्वाणि भूतान्य᳘त्राशाम्यन्प्रजा᳘पतिः परमेष्ठ्य᳘धिपतिरासीदि᳘ति प्रजा᳘पतिः परमेष्ठ्यत्रा᳘धिपतिरासीत्॥ (काण्डस्यार्धम्)

मूलम् - श्रीधरादि

(संस्त्र᳘) त्र᳘यस्त्रिᳫँ᳭शता ऽस्तुवते᳘ति॥
द᳘श ह᳘स्त्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणा द्वे᳘ प्रतिष्ठे᳘ ऽआत्मा᳘ त्रयस्त्रिᳫँ᳭शस्ते᳘नैव त᳘दस्तुवत भूता᳘न्यशाम्यन्नि᳘ति स᳘र्व्वाणि भूतान्य᳘त्राशाम्यन्प्रजा᳘पतिः परमेष्ठ्य᳘धिपतिरासीदि᳘ति प्रजा᳘पतिः परमेष्ठ्यत्रा᳘धिपतिरासीत्॥ (काण्डस्यार्धम्)

मूलम् - Weber

त्र᳘यस्त्रिंशतास्तुवते᳘ति॥
द᳘श ह᳘स्त्या अङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणा द्वे᳘ प्रतिष्ठे᳘ आत्मा᳘ त्रयस्त्रिंशस्ते᳘नैव त᳘दस्तुवत भूता᳘न्यशाम्यन्नि᳘ति स᳘र्वाणि भूतान्य᳘त्राशाम्यन्प्रजा᳘पतिः परमेष्ठ्य᳘धिपतिरासीदि᳘ति प्रजा᳘पतिः परमेष्ठ्यत्रा᳘धिपतिरासीत्॥

मूलम् - विस्वरम्

(१७) “त्रयस्त्रिंशता ऽस्तुवत”- इति । दश हस्त्या अङ्गुलयो, दश पाद्याः, दश प्राणाः, द्वे प्रतिष्ठे, आत्मा त्रयस्त्रिंशः । तेनैव तदस्तुवत । “भूतान्यशाम्यन्”- इति । सर्वाणि भूतान्यत्राशाम्यन् । “प्रजापतिः परमेष्ठ्यधिपतिरासीत्"- (वा. सं. १४ । ३१) इति । प्रजापतिः परमेष्ठ्यत्राधिपतिरासीत् ॥ १९ ॥

सायणः

त्रयस्त्रिंशेन स्तोमेन स्तुते ‘सर्वाणि भूतान्यशाम्यन्’ शान्तान्यपगतोपद्रवाण्यभूवन् । त्रयस्त्रिंशस्तोमो हि सर्वेषां स्तोमानां श्रेष्ठः । अतः परमे निरतिशये स्थाने तिष्ठतीति ‘परमेष्ठी’ तादृशः ‘प्रजापतिः’ हिरण्यगर्भो ऽत्र ‘अधिपतिः’ इति युक्तम् ॥ १९ ॥

Eggeling
  1. ‘With thirty-three they sang praises,’–there are ten fingers, ten toes, ten vital airs, two feet, and the trunk is the thirty-third: it is therewith they then sang praises;–’the living beings lay quiet,’–all living beings now indeed lay quiet;–‘Prajāpati, the supreme, was the lord!’–Prajāpati, the supreme, indeed was now the lord.

२०

विश्वास-प्रस्तुतिः

(त्ता) ता वा᳘ ऽएताः᳘॥
सप्त᳘दशे᳘ष्टका ऽउ᳘पदधाति सप्तदशो वै᳘ संव्वत्सरः᳘ प्रजा᳘पतिः स᳘ प्रजनयिता त᳘देते᳘न वै᳘ सप्तदशे᳘न संव्वत्सरे᳘ण प्रजा᳘पतिना प्रजनयि᳘त्रैताः᳘ प्रजाः प्रा᳘जनयद्यत्प्रा᳘जनयद᳘सृजत तद्यद᳘सृजत त᳘स्मात्सृ᳘ष्टयस्ताः᳘ सृ᳘ष्ट्वा ऽऽत्मन्प्रा᳘पादयत त᳘थै᳘वैतद्य᳘जमान ऽएते᳘न सप्तदशे᳘न संव्वत्सरे᳘ण प्रजा᳘पतिना प्रजनयि᳘त्रैताः᳘ प्रजाः प्र᳘जनयति ताः᳘ सृ᳘ष्ट्वा ऽऽत्मन्प्र᳘पादयते रेतःसि᳘चोर्व्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ ऽए᳘वास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति॥

मूलम् - श्रीधरादि

(त्ता) ता वा᳘ ऽएताः᳘॥
सप्त᳘दशे᳘ष्टका ऽउ᳘पदधाति सप्तदशो वै᳘ संव्वत्सरः᳘ प्रजा᳘पतिः स᳘ प्रजनयिता त᳘देते᳘न वै᳘ सप्तदशे᳘न संव्वत्सरे᳘ण प्रजा᳘पतिना प्रजनयि᳘त्रैताः᳘ प्रजाः प्रा᳘जनयद्यत्प्रा᳘जनयद᳘सृजत तद्यद᳘सृजत त᳘स्मात्सृ᳘ष्टयस्ताः᳘ सृ᳘ष्ट्वा ऽऽत्मन्प्रा᳘पादयत त᳘थै᳘वैतद्य᳘जमान ऽएते᳘न सप्तदशे᳘न संव्वत्सरे᳘ण प्रजा᳘पतिना प्रजनयि᳘त्रैताः᳘ प्रजाः प्र᳘जनयति ताः᳘ सृ᳘ष्ट्वा ऽऽत्मन्प्र᳘पादयते रेतःसि᳘चोर्व्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ ऽए᳘वास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
सप्त᳘दशे᳘ष्टका उ᳘पदधाति सप्तदशो वै᳘ संवत्सरः᳘ प्रजा᳘पतिः स᳘ प्रजनयिता त᳘देते᳘न वै᳘ सप्तदशे᳘न संवत्सरे᳘ण प्रजा᳘पतिना प्रजनयिॗत्रैताः᳘ प्रजाः प्रा᳘जनयद्यत्प्रा᳘जनयद᳘सृजत 5 तद्यद᳘सृजत त᳘स्मात्सृ᳘ष्टयस्ताः᳘ सृॗष्ट्वात्मन्प्रा᳘पादयत त᳘थैॗवैतद्य᳘जमान एते᳘न सप्तदशे᳘न संवत्सरे᳘ण प्रजा᳘पतिना प्रजनयिॗत्रैताः᳘ प्रजाः प्र᳘जनयति ताः᳘ सृॗष्ट्वात्मन्प्र᳘पादयते रेतःसि᳘चोर्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ एॗवास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति सर्व᳘त उ᳘पदधाति सर्व᳘त एॗवास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति॥

मूलम् - विस्वरम्

ता वा एताः सप्तदशेष्टका उपदधाति । सप्तदशो वै सम्वत्सरः प्रजापतिः । स प्रजनयिता । तदेतेन वै सप्तदशेन सम्वत्सरेण प्रजापतिना प्रजनयित्रैताः प्रजाः प्राजनयत् । यत् प्राजनयत्- असृजत तत् । यदसृजत- तस्मात्सृष्टयः । ताः सृष्ट्वा ऽऽत्मन्प्रापादयत । तथैवैतद्यजमान एतेन सप्तदशेन सम्वत्सरेण प्रजापतिना प्रजनयित्रैताः प्रजाः प्रजनयति । ताः सृष्ट्वा ऽऽत्मन्प्रपादयते । रेतःसिचोर्वेलया । पृष्टयो वै रेतःसिचौ । मध्यमु पृष्टयः । मध्यत एवास्मिन्नेताः प्रजाः प्रपादयति । सर्वत उपदधाति । सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति ॥ २० ॥

सायणः

इष्टकागतां सङ्ख्यां स्तौति- ता वा एता इति । संवत्सरात्मकः ‘प्रजापतिः सप्तदशः’ सप्तदशसमुदायात्मकः; द्वादश मासाः पञ्चर्तव इति सप्तदशता । स एव भूतानां प्रजनयिता ‘तत्’ स्रष्टव्यं जगत्सृष्ट्वा स प्रजापतिः ‘एतेन’ ‘सप्तदशेन’ सप्तदशसङ्ख्यात्मकेन संवत्सरलक्षणेन ‘प्रजापतिना’ स्वकीयकालात्मकशरीरेणेत्यर्थः । ‘प्रजनयित्रा’ सर्वोत्पादकेन ‘एताः प्रजाः’ ब्रह्मक्षत्रादिरूपाः ‘प्राजनयत्’ उदपादयत् । सर्वेषामुत्पत्तिमतां कालत एवोत्पत्तेः प्रजनयितृत्वम् । तस्मात् सप्तदशसङ्ख्या प्रशस्तेत्यर्थः । तदेतदप्रोक्तं तच्छब्दार्थं विशिनष्टि- यत्प्राजनयदसृजतेति । ‘यद्’ भूतजातं ‘प्राजनयत्’ इति ‘असृजत’ इत्यर्थः । तदेतेन वा इति । पूर्वत्रान्वयः । प्रसङ्गात् सृष्टिनामनिरुक्तिं दर्शयति- तद्यदसृजत तस्मात्सृष्टय इति । सर्जनात्सृष्टय इत्युक्तं भवति । ननु सृष्टाः प्रजाः, कथमिष्टकाः सृष्टय इत्युच्यन्त इति चेत्, नैष दोषः । इष्टकासु तासामध्यस्तरूपत्वात् । तथैवैतदित्याद्युक्तप्रायम् । रेचःसिचोर्वेलयेत्याद्यपि-गतम् ॥ २० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमे काण्डे चतुर्थे ऽध्याये तृतीयं ब्राह्मणम् ॥ (८-४-३) ॥

Eggeling
  1. These, then, are seventeen bricks he lays down,–the year, Prajāpati, is seventeenfold, he is the progenitor: it is thus by this seventeenfold year, by Prajāpati, the progenitor, that he caused these creatures to be generated. And what he generated, he created; and inasmuch as he created (sr̥j), therefore they are called creations (sr̥shṭi). Having created them, he made them enter his own self: and in like manner does the Sacrificer now cause these creatures to be generated by that seventeenfold year, by Prajāpati, the progenitor; and having created them, he makes them enter his own self 6. On the

range of the Retaḥsic (he lays down these bricks): the Retaḥsic being the ribs, and the ribs the middle (of the body), it is in the very middle that he causes these creatures to enter him. He lays them on all sides: from all sides he thus makes these creatures to enter him.


  1. 71:1 The seventeen Sr̥shṭis are to be placed round the centre, along the retaḥsic range, in such a way that nine bricks lie south ↩︎

  2. रेतःसिग्वेलायां च सप्तदश सर्व्वतो नव दक्षिणेनानूकँ सृष्टीरेकया ऽस्तुवतेति प्रतिमन्त्रम् । का. श्रौ. सू. । १७ । २२२ । ↩︎

  3. 72:1 That is, to the deities representing the vital airs, viz. the regions, &c. Mahīdh. ↩︎

  4. 72:2 Professor Delbrück, in his Altindische Syntax, pp. 136, 257, 265, takes ‘stoshyāmahe’ in this passage in a passive sense–‘by whom shall we be praised?’ I think, however, that this is a mistake, and Harisvāmin’s commentary certainly takes it in the same sense as I have done; and, indeed, the paragraphs which follow seem to me to make it quite clear that no other interpretation is possible. Prajāpati is about to perform the ‘sr̥shṭis,’ i. e. the creation of living beings by means of sacrifice (his own self). He requires the assistance of the Prāṇas (vital airs) in order to produce creatures endowed with breath, and he also appeals to (the three most prominent of) them in their capacity as R̥shis (VI, 1, 1, 1 seq.) to officiate as his (Udgātr̥) priests. They ask, ‘Wherewith shall we sing praises?’ and he answers, ‘With me and with your own selves.’ The wherewith,’ according to Harisvāmin, refers both to the ‘stotriyā’ verses to be used, and to the deities of the sr̥shṭi-stotras. That the former, at all events, is indeed the case, a glance at the subsequent paragraphs shows, where the stotriyās are identified with the vital airs, and, when their number (ten) becomes exhausted, with parts of the year (Prajāpati), and of his (the Sacrificer’s, or Prajāpati’s) body. As regards the deities whom Harisvāmin considers to be likewise implied, this also is by no means improbable, though I must confess that it did not occur to me, before I looked at the commentary. In the Udgātr̥’s text-books, the chanting of stotras is usually interpreted as symbolising the production of ‘food’ (cf., for instance, Tāṇḍya-Br. I, 3, 6, ‘annaṁ karishyāmy annaṁ pravishyāmy annaṁ janayishyāmi’), whilst here it seems identified with the production of life, or breath itself (cf. ib. 5, ‘br̥haspatis tvā yunaktu devebhyaḥ prāṇāya &c.’); and, accordingly, in Sat. Br. X, 3, 1, 1, 7, the principal vital air, the breath proper, is called ‘prajanana-prāṇa.’ ↩︎

  5. द्यत्प्रा᳘जनयद᳘सृजत AB.! ↩︎

  6. 76:1 That is, he makes them pass into his own power, makes them his own. ↩︎