०१

विश्वास-प्रस्तुतिः

अ᳘थ स्पृ᳘त ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ प्रजा᳘पतिरेत᳘स्मिन्नात्म᳘नः प्र᳘तिहिते स᳘र्व्वाणि भूता᳘नि ग᳘र्भ्यभवत्ता᳘न्यस्य[[!!]] ग᳘र्भ ऽएव स᳘न्ति पाप्मा᳘ मृत्यु᳘रगृह्णात्॥

मूलम् - श्रीधरादि

अ᳘थ स्पृ᳘त ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ प्रजा᳘पतिरेत᳘स्मिन्नात्म᳘नः प्र᳘तिहिते स᳘र्व्वाणि भूता᳘नि ग᳘र्भ्यभवत्ता᳘न्यस्य[[!!]] ग᳘र्भ ऽएव स᳘न्ति पाप्मा᳘ मृत्यु᳘रगृह्णात्॥

मूलम् - Weber

अ᳘थ स्पृ᳘त उ᳘पदधाति॥
एतद्वै᳘ प्रजा᳘पतिरेत᳘स्मिन्नात्म᳘नः प्र᳘तिहिते स᳘र्वाणि भूता᳘नि गर्भ्य᳘भवत्ता᳘न्यस्य ग᳘र्भ एव स᳘न्ति पाप्मा᳘ मृत्यु᳘रगृह्णात्॥

मूलम् - विस्वरम्

अथ स्पृदिष्टकोपधानम् ।

अथ स्पृत उपदधाति । एतद्वै प्रजापतिः, एतस्मिन्नात्मनः प्रतिहिते सर्वाणि भूतानि गर्भ्यभवत् । तान्यस्य गर्भ ऽएव सन्ति पाप्मा मृत्युरगृह्णात् ॥ १ ॥

सायणः

अथ स्पृत्संज्ञकेष्टका विधाय स्तौति- अथ स्पृत उपदधात्येतद्वा इत्यादिना । पुरा ‘प्रजापतिः’ ‘आत्मनः’ स्वशरीरस्य सम्बन्धिनि ‘एतस्मिन्’ अन्तरिक्षस्वर्गयोरन्तराललक्षणे ऽङ्गे पूर्वोक्तेष्टकोपधानेन ‘प्रतिहिते’ सति ‘सर्वाणि भूतानि’ अपेक्ष्य ‘गर्भ्यभवत्’ भूतज्ञानलक्षणेन गर्भेण तद्वानासीदित्यर्थः । ‘तानि’ ‘अस्य’ प्रजापतेः ‘गर्भ एव सन्ति’ अवस्थितान्युदरस्थान्येव ‘पाप्मा’ पापरूपः ‘मृत्युः’ ‘अगृह्णात्’ जग्राह ॥ १ ॥

Eggeling
  1. He then lays down the Spr̥taḥ 1 (freeing

bricks). For when that (part) of his body had been restored, Prajāpati became pregnant with all beings: whilst they were in his womb, evil, death, seized them.

०२

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘ देवा᳘नब्रवीत्॥
(द्यु) युष्मा᳘भिः स᳘हेमा᳘नि स᳘र्व्वाणि भूता᳘नि पाप्म᳘नो मृ᳘त्यो᳘ स्पृणवानी᳘ति किं᳘ नस्त᳘तो भविष्यती᳘ति व्वृणीध्वमि᳘त्यब्रवीत्तं᳘ भागो᳘ नो ऽस्त्वित्येके᳘ ऽब्रुवन्ना᳘धिपत्यं नो ऽस्त्वित्ये᳘के स᳘ भागमे᳘केभ्यः कृत्वा ऽऽधिपत्यमे᳘केभ्यः स᳘र्व्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘रस्पृणोद्यदस्पृणोत्त᳘स्मात्स्पृ᳘तस्त᳘थै᳘वैतद्य᳘जमानो[[!!]] भागमे᳘केभ्यः कृत्वा᳘ ऽऽधिपत्यमे᳘केभ्यः स᳘र्व्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘ स्पृणोति त᳘स्मादु स᳘र्व्वास्वेव᳘ स्पृत᳘ᳫँ᳘ स्पृतमित्य᳘नुवर्तते॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘ देवा᳘नब्रवीत्॥
(द्यु) युष्मा᳘भिः स᳘हेमा᳘नि स᳘र्व्वाणि भूता᳘नि पाप्म᳘नो मृ᳘त्यो᳘ स्पृणवानी᳘ति किं᳘ नस्त᳘तो भविष्यती᳘ति व्वृणीध्वमि᳘त्यब्रवीत्तं᳘ भागो᳘ नो ऽस्त्वित्येके᳘ ऽब्रुवन्ना᳘धिपत्यं नो ऽस्त्वित्ये᳘के स᳘ भागमे᳘केभ्यः कृत्वा ऽऽधिपत्यमे᳘केभ्यः स᳘र्व्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘रस्पृणोद्यदस्पृणोत्त᳘स्मात्स्पृ᳘तस्त᳘थै᳘वैतद्य᳘जमानो[[!!]] भागमे᳘केभ्यः कृत्वा᳘ ऽऽधिपत्यमे᳘केभ्यः स᳘र्व्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘ स्पृणोति त᳘स्मादु स᳘र्व्वास्वेव᳘ स्पृत᳘ᳫँ᳘ स्पृतमित्य᳘नुवर्तते॥

मूलम् - Weber

स᳘ देवा᳘नब्रवीत्॥
युष्मा᳘भिः सॗहेमा᳘नि स᳘र्वाणि भूता᳘नि पाप्म᳘नो मृ᳘त्यो᳘ स्पृणवानी᳘ति किं᳘ नस्त᳘तो भविष्यती᳘ति वृणीध्वमि᳘त्यब्रवीत्त᳘म् भागो᳘ नो ऽस्त्वित्येके᳘ ऽब्रुवन्ना᳘धिपत्यं नो ऽस्त्वित्ये᳘के स᳘ भागमे᳘केभ्यः कृत्वाधिपत्यमे᳘केभ्यः स᳘र्वाण् इ भूता᳘नि पाप्म᳘नो मृत्यो᳘रस्पृणोद्यद᳘स्पृणोत्त᳘स्मात्स्पृ᳘तस्त᳘थैॗवैतद्य᳘जमानो भागमे᳘केभ्यः कृत्वा᳘धिपत्यमेकेभ्यः स᳘र्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘ स्पृणोति त᳘स्मादु स᳘र्वास्वेव᳘ स्पृतं᳘-स्पृतमित्य᳘नुवर्तते॥

मूलम् - विस्वरम्

स देवानब्रवीत्- युष्माभिः सहेमानि सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणवानीति । किं नस्ततो भविष्यतीति । वृणीध्वमित्यब्रवीत् । तं ‘भागो नो ऽस्तु’ इत्येके ऽब्रुवन्, ‘आधिपत्यं नो ऽस्तु’ इत्येके । स भागमेकेभ्यः कृत्वा ऽऽधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योरस्पृणोत् । यदस्पृणोत्तस्मात्स्पृतः । तथैवैतद्यजमानो भागमेकेभ्यः कृत्वा ऽऽधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणोति । तस्मादु सर्वास्वेव स्पृतं स्पृतमित्यनुवर्तते ॥ २ ॥

सायणः

अथ ‘सः’ प्रजापतिः ‘देवानब्रवीत्’ हे देवाः ! युष्मत्सहायो भूत्वा ऽहं गर्भस्थानि ‘इमानि’ ‘भूतानि’ ‘मृत्योः’ सकाशात् ‘स्पुणवानि’ स्पृतानि चलितानि करवाणीति । अथ देवैः ‘किं नस्ततः’ इति पृष्टः ‘वृणीध्वम्’ इत्युक्तैर्वृतश्च केषांचिद्देवानामिष्टकास्वध्यस्तरूपाणां ब्रह्मक्षत्रादिरूपाणां भूतानां ‘भागम्’, केषाञ्चित् ‘आधिपत्यं’ च तत्तदभिलाषा ऽनुसारेण प्रदाय पश्चाद्देवसहायः सन् ‘सर्वाणि भूतानि पाप्मनो मृत्योरस्पृणोत्’ “स्पृ स्थितिबलनयोः (धा. पा. स्वा. प. १३) “बलवन्ति कृतवान् । यद्वा “स्पृ स्थिति चलनयोः” इति केषाञ्चित्पाठः । प्रविचालितवानित्यर्थः । प्रसङ्गात् तन्नाम निर्वक्ति- यद् अस्पृणोत् तस्मात् स्पृत इति । स्परणात्स्पृत इत्युक्तं भवति । ‘तथैवैतत्’ इत्यादि स्पष्टम् । तस्मात् सर्वास्विष्टकासु स्पृतं स्पृतमित्यनुवर्तते ॥ २ ॥

Eggeling
  1. He spake to the gods, ‘With you I will free all these beings from evil, from death 2!’–‘What will accrue unto us therefrom?’–‘Choose ye!’ said he.–‘Let there be a share for us!’ said some to him. ‘Let lordship be unto us!’ said others. Having bestowed a share on some, and lordship on others, he freed all beings from evil, from death; and inasmuch as he freed (spr̥) them, therefore (those bricks are called) ‘Spr̥taḥ.’ And in like manner does this Sacrificer, by bestowing a share on some, and lordship on others, now free all beings from evil, from death; and hence (the word) ‘spr̥tam (freed)’ recurs with all of them.

०३

विश्वास-प्रस्तुतिः

(ते ऽग्ने᳘) अग्नि᳘र्भा᳘गो ऽसि॥
दीक्षा᳘या ऽआ᳘धिपत्यमि᳘ति व्वाग्वै᳘ दी᳘क्षा ऽग्न᳘ये भागं᳘ कृत्वा᳘ व्वाच ऽआ᳘धिपत्यमकरो᳘द्ब्र᳘ह्म स्पृतं᳘ त्रिवृत्स्तो᳘म ऽइ᳘ति ब्र᳘ह्म प्रजा᳘नां त्रिवृ᳘ता स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - श्रीधरादि

(ते ऽग्ने᳘) अग्नि᳘र्भा᳘गो ऽसि॥
दीक्षा᳘या ऽआ᳘धिपत्यमि᳘ति व्वाग्वै᳘ दी᳘क्षा ऽग्न᳘ये भागं᳘ कृत्वा᳘ व्वाच ऽआ᳘धिपत्यमकरो᳘द्ब्र᳘ह्म स्पृतं᳘ त्रिवृत्स्तो᳘म ऽइ᳘ति ब्र᳘ह्म प्रजा᳘नां त्रिवृ᳘ता स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - Weber

अग्नि᳘र्भाॗगो ऽसि॥
दीक्षा᳘या आ᳘धिपत्यमि᳘ति वाग्वै᳘ दीॗक्षाग्न᳘ये भागं᳘ कृत्वा᳘ वाच आ᳘धिपत्यमकरो᳘द्ब्र᳘ह्म स्पृतं᳘ त्रिवृत्स्तो᳘म इ᳘ति ब्र᳘ह्म प्रजा᳘नां त्रिवृ᳘ता स्तो᳘मेन पाप्म᳘ना मृत्यो᳘रस्पृणोत्॥

मूलम् - विस्वरम्

(१) “अग्नेर्भागो ऽसि दीक्षाया आधिपत्यम्”- इति । वाग्वै दीक्षा । अग्नये भागं कृत्वा वाच ऽआधिपत्यमकरोत् । “ब्रह्म स्पृतं त्रिवृत्स्तोमः”- इति । ब्रह्म प्रजानां त्रिवृता स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ३ ॥

सायणः

तत्र प्रथमेष्टकामन्त्रं विधाय व्याचष्टे- अग्नेर्भागो ऽसीत्यादिना 3 । हे इष्टके ! त्वं ‘अग्नेः’ देवस्य ‘भागो ऽसि’ तथा दीक्षायाः वाग्देव्याः ‘आधिपत्यम्’ अधिपतित्वं तव, त्वं दीक्षास्वामिकेत्यर्थः । ब्रह्म स्पृतं त्रिवृत्स्तोम इति भागान्तरम् । अत्राध्यासाश्रयाणामिष्टकानामध्यस्यमानानां ब्रह्मक्षत्रादिभूतानां चाभेदस्य विवक्षितत्वात्तत्स्थं रूपमभिधीयते । प्रजानां भूतानां मध्ये ‘ब्रह्म’ ब्राह्मणजाति ‘स्पृतं’ पाप्मनो मृत्योः सकाशादपसारितम् । केन साधनेनेति तदुच्यते- त्रिवृत् स्तोम इति । ब्राह्मणानुसारेण विभक्तिर्विपरिणमयितव्या । तव स्वभूतेन त्रिवृता स्तोमेन । एवमुत्तरेष्टकामन्त्रा अपि योज्याः, तत्र दीक्षाशब्दस्योक्तार्थपरतामाह- वाग्वै दीक्षेति । वाग्देवताया दीक्षाभिमानिदेवतात्वाद्वा नियन्तव्यतया वाक्सम्बन्धाद्वा दीक्षा वागित्युच्यते । तामिष्टकाम् ‘अग्नये भागं कृत्वा’ ‘दीक्षायै’ तस्या इष्टकाया ‘आधिपत्यमकरोत्’ प्रजापतिः । भागान्तरं व्याख्यातुं “ब्रह्म स्पृतं त्रिवृत्स्तोमः” इत्यस्य विभक्तिविपरिणामः कृतः । “ब्रह्म प्रजानां त्रिवृता स्तोमेन पाप्मनो मृत्योरस्पृणोत्” इति । उक्तमिदम् । अत्र ब्रह्मणः त्रिवृत्स्तोमसंबन्धे प्राथम्यं बीजम् । प्रजापतिमुखात् सहोत्पत्तिर्वा कारणं त्रिवृद्ब्रह्मणोः सम्बन्धे । एवमुत्तरेषां मन्त्राणां ब्राह्मणान्यपि व्याख्यातव्यानि ॥ ३ ॥

Eggeling
  1. [He lays them down 4, with, Vāj. S. XIV, 24-26], Agni’s share thou art, Dīkshā’s lordship!’–Dīkshā, doubtless, is Speech: having bestowed a share on Agni, he bestows lordship on Speech;–’the Brahman is freed; the Trivr̥t-stoma!’–by means of the thrice-threefold hymn-form he freed

the Brahman (priesthood) for living beings from evil, from death.

०४

विश्वास-प्रस्तुतिः

(दि᳘) इ᳘न्द्रस्य भा᳘गो ऽसि॥
व्वि᳘ष्णोरा᳘धिपत्यमिती᳘न्द्राय भागं᳘ कृत्वा व्वि᳘ष्णव ऽआ᳘धिपत्यमकरोत्क्षत्रं᳘ᳫँ᳘ स्पृतं᳘ पञ्चदश स्तो᳘म ऽइ᳘ति क्षत्रं᳘ प्रजा᳘नां पञ्चदशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - श्रीधरादि

(दि᳘) इ᳘न्द्रस्य भा᳘गो ऽसि॥
व्वि᳘ष्णोरा᳘धिपत्यमिती᳘न्द्राय भागं᳘ कृत्वा व्वि᳘ष्णव ऽआ᳘धिपत्यमकरोत्क्षत्रं᳘ᳫँ᳘ स्पृतं᳘ पञ्चदश स्तो᳘म ऽइ᳘ति क्षत्रं᳘ प्रजा᳘नां पञ्चदशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - Weber

इ᳘न्द्रस्य भाॗगो ऽसि॥
वि᳘ष्णोरा᳘धिपत्यमिती᳘न्द्राय भागं᳘ कृत्वा वि᳘ष्णव आ᳘धिपत्यमकरोत्क्षत्र᳘ᳫं᳘ स्पृत᳘म् पञ्चदश स्तो᳘म इ᳘ति क्षत्र᳘म् प्रजा᳘नाम् पञ्चदशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - विस्वरम्

(२) “इन्द्रस्य भागो ऽसि विष्णोराधिपत्यम्”- इति । इन्द्राय भागं कृत्वा विष्णव आधिपत्यमकरोत् । “क्षत्रं स्पृतं, पञ्चदशः स्तोमः”- इति । क्षत्रं प्रजानां पञ्चदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ४ ॥

सायणः

तत्र किञ्चित् किञ्चिदभिधीयते- क्षत्रं स्पृतमिति 5 । ‘क्षत्रम्’ क्षत्रियजातिः ॥ ४ ॥

Eggeling
  1. ‘Indra’s share thou art, Vishṇu’s lordship!’–Having bestowed a share on Indra, he bestowed lordship on Vishṇu;–’the Kshatra is freed; the Pañcadaśa-stoma!’–by means of the fifteenfold hymn-form he freed the Kshatra (nobility) for living beings from evil, from death.

०५

विश्वास-प्रस्तुतिः

(न्नृ) नृच᳘क्षसां भा᳘गो ऽसि॥
धातुरा᳘धिपत्यमि᳘ति देवा वै᳘ नृच᳘क्षसो देवे᳘भ्यो भागं᳘ कृत्वा᳘ धात्र ऽआ᳘धिपत्यमकरोज्जनि᳘त्रᳫँ᳭ स्पृत᳘ᳫँ᳘ सप्तदश स्तो᳘म ऽइ᳘ति व्विड्वै᳘ जनि᳘त्रं व्वि᳘शं प्रजा᳘नाᳫँ᳭ सप्तदशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - श्रीधरादि

(न्नृ) नृच᳘क्षसां भा᳘गो ऽसि॥
धातुरा᳘धिपत्यमि᳘ति देवा वै᳘ नृच᳘क्षसो देवे᳘भ्यो भागं᳘ कृत्वा᳘ धात्र ऽआ᳘धिपत्यमकरोज्जनि᳘त्रᳫँ᳭ स्पृत᳘ᳫँ᳘ सप्तदश स्तो᳘म ऽइ᳘ति व्विड्वै᳘ जनि᳘त्रं व्वि᳘शं प्रजा᳘नाᳫँ᳭ सप्तदशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - Weber

नृच᳘क्षसाम् भाॗगो ऽसि॥
धातुरा᳘धिपत्यमि᳘ति देवा वै᳘ नृच᳘क्षसो देवे᳘भ्यो भागं᳘ कृत्वा᳘ धात्र आ᳘धिपत्यमकरोज्जनि᳘त्रᳫं स्पृत᳘ᳫं᳘ सप्तदश स्तो᳘म इ᳘ति विड्वै᳘ जनि᳘त्रं वि᳘शम् प्रजा᳘नाᳫं सप्तदशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - विस्वरम्

(३) “नृचक्षसां भागो ऽसि धातुराधिपत्यम्”- इति । देवा वै नृचक्षसः । देवेभ्यो भागं कृत्वा धात्र आधिपत्यमकरोत् । “जनित्रं स्पृतं, सप्तदशः स्तोमः”- इति विड्वै जनित्रम् । विशं प्रजानां सप्तदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ५ ॥

सायणः

नृचक्षसां भागो ऽसीति 5 । तृतीयमन्त्रे- ‘देवा वै नृचक्षसः’ इति स्तूयते, तत्र नॄन् पुण्यपापकृतो मनुष्यान् साक्षितया चक्षते पश्यन्तीति नृचक्षसो देवा इत्यर्थः । विड् वै जनित्रमिति । जायत इति ‘जनित्रम्’ ‘विट्’ वैश्यजातिः; एतच्छूद्रस्याप्युपलक्षणम् । यद्वा सामान्येन विट्शब्दः प्रजामभिधत्ते ॥ ५ ॥

Eggeling
  1. ‘The man-viewers’ share thou art, the creator’s lordship!’–the man-viewers, doubtless, are the gods: having bestowed a share on the gods, he bestowed lordship on the creator;–’the birthplace is freed, the Saptadaśa-stoma!’–the birthplace, doubtless, is the peasantry: by means of the seventeenfold hymn-form he frees the peasantry for living beings from evil, from death.

०६

विश्वास-प्रस्तुतिः

(न्मि) मित्र᳘स्य भा᳘गो ऽसि॥
व्व᳘रुणस्या᳘धिपत्यमि᳘ति प्राणो वै᳘ मि᳘त्रो ऽपानो व्व᳘रुणः प्राणा᳘य भागं᳘ कृ᳘त्वा ऽपानाया᳘धिपत्यमकरोद्दिवो व्वृ᳘ष्टिर्व्वा᳘त स्पृत᳘ ऽएकविᳫँ᳭श स्तो᳘म ऽइ᳘ति व्वृ᳘ष्टिं च व्वा᳘तं च प्रजा᳘नामेकविᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - श्रीधरादि

(न्मि) मित्र᳘स्य भा᳘गो ऽसि॥
व्व᳘रुणस्या᳘धिपत्यमि᳘ति प्राणो वै᳘ मि᳘त्रो ऽपानो व्व᳘रुणः प्राणा᳘य भागं᳘ कृ᳘त्वा ऽपानाया᳘धिपत्यमकरोद्दिवो व्वृ᳘ष्टिर्व्वा᳘त स्पृत᳘ ऽएकविᳫँ᳭श स्तो᳘म ऽइ᳘ति व्वृ᳘ष्टिं च व्वा᳘तं च प्रजा᳘नामेकविᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - Weber

मित्र᳘स्य भाॗगो ऽसि॥
व᳘रुणस्या᳘धिपत्यमि᳘ति प्राणो वै᳘ मिॗत्रो ऽपानो व᳘रुणः प्राणा᳘य भागं᳘ कृॗत्वापानाया᳘धिपत्यमकरोद्दिवो वृ᳘ष्टिर्वा᳘त स्पृत᳘ एकविंश स्तो᳘म इ᳘ति वृ᳘ष्टिं च वा᳘तं च प्रजा᳘नामेकविंशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - विस्वरम्

(४) “मित्रस्य भागो ऽसि वरुणस्याधिपत्यम्”- इति । प्राणो वै मित्रः, अपानो वरुणः । प्राणाय भागं कृत्वा ऽपानायाधिपत्यमकरोत् । “दिवो वृष्टिर्वातः । स्पृतः, एकविंशः स्तोमः”- (वा. सं. १४ । २४) इति । वृष्टिं च वातं च प्रजानामेकविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ६ ॥

सायणः

मित्रस्य भागो ऽसि वरुणस्याधिपत्यमिति 6 । अत्र ‘प्राणो वै मित्रः,’ ‘अपानो वरुणः,’ इति । मित् नाशब्दः; ? ततस्त्रायत इति मित्रः प्राणः । ऊर्ध्वं निर्गच्छन्तं प्राणमावृणोति, इति वरुणो ऽपानः । दिवो वृष्टिर्वातः स्पृत इति । चतुर्थमन्त्रभागः । वाताभिप्रायेण स्पृत इति पुल्ँलिङ्गता । अत्र वृष्टेर्वातस्य चोभयोः स्परणमिति व्याचष्टे- वृष्टिं च वातं चेति ॥ ६ ॥

Eggeling
  1. ‘Mitra’s share thou art, Varuṇa s lordship!’–Mitra, doubtless, is the out-breathing, and Varuṇa the down-breathing: having bestowed a share on the out-breathing, he bestowed lordship on the down-breathing;–‘heaven’s rain, the wind is freed; the Ekaviṁśa-stoma!’–by means of the twenty-one-fold hymn-form he frees both rain and wind for living beings from evil, from death.

०७

विश्वास-प्रस्तुतिः

(द्व᳘) व्व᳘सूनां भा᳘गो ऽसि॥
रुद्रा᳘णामा᳘धिपत्यमि᳘ति व्व᳘सुभ्यो भागं᳘ कृत्वा᳘[[!!]] रुद्रे᳘भ्य ऽआ᳘धिपत्यमकरोच्च᳘तुष्पात्स्पृतं᳘ चतुर्विᳫँ᳭श स्तो᳘म ऽइ᳘ति च᳘तुष्पात्प्रजा᳘नां चतुर्विᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - श्रीधरादि

(द्व᳘) व्व᳘सूनां भा᳘गो ऽसि॥
रुद्रा᳘णामा᳘धिपत्यमि᳘ति व्व᳘सुभ्यो भागं᳘ कृत्वा᳘[[!!]] रुद्रे᳘भ्य ऽआ᳘धिपत्यमकरोच्च᳘तुष्पात्स्पृतं᳘ चतुर्विᳫँ᳭श स्तो᳘म ऽइ᳘ति च᳘तुष्पात्प्रजा᳘नां चतुर्विᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - Weber

व᳘सूनाम् भाॗगो ऽसि॥
रुद्रा᳘णामा᳘धिपत्यमि᳘ति प्राणो वै᳘ मिॗत्रो ऽपानो व᳘रुणः प्राणा᳘य भागं᳘ कृॗत्वापानाया᳘धिपत्यमकरोद्दिवो वृ᳘ष्टिर्वा᳘त स्पृत᳘ एकविंश स्तो᳘म इ᳘ति वृ᳘ष्टिं च वा᳘तं च प्रजा᳘नामेकविंशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - विस्वरम्

(५) “वसूनां भागो ऽसि रुद्राणामाधिपत्यम्”- इति । वसुभ्यो भागं कृत्वा रुद्रेभ्य आधिपत्यमकरोत् । “चतुष्पात्स्पृतं, चतुर्विंशः स्तोमः”- इति । चतुष्पात्प्रजानां चतुर्विंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ७ ॥

सायणः

चतुष्पात्स्पृतामिति 6 । अत्र चतुष्पादोपेतं पशुजातं ‘स्पृतम्’ इति सामान्याभिप्रायेण नपुंसकता ॥ ७-८ ॥

Eggeling
  1. ‘The Vasus’ share thou art, the Rudras’ lordship!’–having bestowed a share on the Vasus, he bestowed lordship on the Rudras;–’the four-footed is freed, the Caturviṁśa-stoma!’–by means of the twenty-five-fold hymn-form he freed the four-footed for living beings from evil, from death.

०८

विश्वास-प्रस्तुतिः

(दा) आदित्या᳘नां भा᳘गो ऽसि॥
मरु᳘तामा᳘धिपत्यमि᳘त्यादित्ये᳘भ्यो भागं᳘ कृत्वा᳘ मरु᳘द्भ्य ऽआ᳘धिपत्यमकरोद्ग᳘र्भाः स्पृताः᳘ पञ्चविᳫँ᳭श स्तो᳘म ऽइ᳘ति ग᳘र्भान्प्रजा᳘नां पञ्चविᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - श्रीधरादि

(दा) आदित्या᳘नां भा᳘गो ऽसि॥
मरु᳘तामा᳘धिपत्यमि᳘त्यादित्ये᳘भ्यो भागं᳘ कृत्वा᳘ मरु᳘द्भ्य ऽआ᳘धिपत्यमकरोद्ग᳘र्भाः स्पृताः᳘ पञ्चविᳫँ᳭श स्तो᳘म ऽइ᳘ति ग᳘र्भान्प्रजा᳘नां पञ्चविᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - Weber

आदित्या᳘नाम् भाॗगो ऽसि॥
मरु᳘तामा᳘धिपत्यमि᳘त्यादित्ये᳘भ्यो भागं᳘ कृत्वा᳘ मरु᳘द्भ्य आ᳘धिपत्यमकरोद्ग᳘र्भा स्पृताः᳘ पञ्चविंश स्तो᳘म इ᳘ति ग᳘र्भान्प्रजा᳘नाम् पञ्चविंशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - विस्वरम्

(६) “आदित्यानां भागो ऽसि मरुतामाधिपत्यम्”- इति । आदित्येभ्यो भागं कृत्वा मरुद्भ्य आधिपत्यमकरोत् । “गर्भाः स्पृताः, पञ्चविंशः स्तोम”- इति । गर्भान्प्रजानां पञ्चविंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ८ ॥

सायणः

[व्याख्यानं सप्तमे]

Eggeling
  1. ‘The Ādityas’ share thou art, the Maruts’ lordship!’–having bestowed a share on the Ādityas, he bestowed lordship on the Maruts;–’the

embryos are freed, the Pañcaviṁśa-stoma!’–by means of the twenty-five-fold hymn-form he freed the embryos for living beings from evil, from death.

०९

विश्वास-प्रस्तुतिः

(द᳘) अ᳘दित्यै भा᳘गो ऽसि॥
पूष्ण ऽआ᳘धिपत्यमि᳘तीयं वा ऽअ᳘दितिरस्यै᳘ भागं᳘ कृत्वा᳘ पूष्ण ऽआ᳘धिपत्यमकरोदो᳘ज स्पृतं᳘ त्रिणव स्तो᳘म ऽइत्यो᳘जः प्रजा᳘नां त्रिणवे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - श्रीधरादि

(द᳘) अ᳘दित्यै भा᳘गो ऽसि॥
पूष्ण ऽआ᳘धिपत्यमि᳘तीयं वा ऽअ᳘दितिरस्यै᳘ भागं᳘ कृत्वा᳘ पूष्ण ऽआ᳘धिपत्यमकरोदो᳘ज स्पृतं᳘ त्रिणव स्तो᳘म ऽइत्यो᳘जः प्रजा᳘नां त्रिणवे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - Weber

अ᳘दित्यै भाॗगो ऽसि॥
पूष्णं आ᳘धिपत्यमि᳘तीयं वा अ᳘दितिरस्यै᳘ भागं᳘ कृत्वा᳘ पूष्ण आ᳘धिपत्यमकरोदो᳘ज स्पृतं᳘ त्रिणव स्तो᳘म इत्यो᳘जः प्रजा᳘नां त्रिणवे᳘न स्तो᳘मेन पप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - विस्वरम्

(७) “अदित्यै भागो ऽसि पूष्ण आधिपत्यम्”- इति । इयं वा ऽअदितिः । अस्यै भागं कृत्वा पूष्ण आधिपत्यमकरोत् । “ओजः स्पृतं, त्रिणवः स्तोमः”- इति । ओजः प्रजानां त्रिणवेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ९ ॥

सायणः

ओजः स्पृतमिति । ओजो बलं तत्कारणमष्टमो धातुर्वा । “ओजो नामाष्टमो धातुः” इत्याचार्यस्मरणात् ॥ ९ ॥

Eggeling
  1. ‘Aditi’s share thou art, Pūshan’s lordship!’–Aditi, doubtless, is this (earth): having bestowed a share on her, he bestowed lordship on Pūshan,–‘vigour is freed; the Triṇava-stoma!’ by means of the thrice-ninefold hymn-form he freed vigour for living beings from evil, from death.

१०

विश्वास-प्रस्तुतिः

(द्दे) देव᳘स्य सवितु᳘र्भा᳘गो ऽसि॥
बृ᳘हस्प᳘तेरा᳘धिपत्यमि᳘ति देवा᳘य सवित्रे᳘ भागं᳘ कृत्वा बृ᳘हस्प᳘तय ऽआ᳘धिपत्यमकरोत्समी᳘चीर्दि᳘शः स्पृता᳘श्चतुष्टोम स्तो᳘म ऽइ᳘ति स᳘र्व्वा दि᳘शः प्रजा᳘नां चतुष्टोमे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - श्रीधरादि

(द्दे) देव᳘स्य सवितु᳘र्भा᳘गो ऽसि॥
बृ᳘हस्प᳘तेरा᳘धिपत्यमि᳘ति देवा᳘य सवित्रे᳘ भागं᳘ कृत्वा बृ᳘हस्प᳘तय ऽआ᳘धिपत्यमकरोत्समी᳘चीर्दि᳘शः स्पृता᳘श्चतुष्टोम स्तो᳘म ऽइ᳘ति स᳘र्व्वा दि᳘शः प्रजा᳘नां चतुष्टोमे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - Weber

देव᳘स्य सवितु᳘र्भाॗगो ऽसि॥
बृ᳘हस्प᳘तेरा᳘धिपत्यमि᳘ति देवा᳘य सवित्रे᳘ भागं᳘ कृत्वा बृ᳘हस्प᳘तय आ᳘धिपत्यमकरोत्समी᳘चीर्दि᳘श स्पृता᳘श्चतुष्टोम स्तो᳘म इ᳘ति स᳘र्वा दि᳘शः प्रजा᳘नां चतुष्टोमे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - विस्वरम्

(८) “देवस्य सवितुर्भागो ऽसि बृहस्पतेराधिपत्यम्”- इति । देवाय सवित्रे भागं कृत्वा बृहस्पतय आधिपत्यमकरोत् । “समीचीर्दिशः स्पृताः, चतुष्टोमः स्तोमः”- (वा. सं. १४ । २५)- इति । सर्वा दिशः प्रजानां चतुष्टोमेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ १० ॥

सायणः

समीचीर्दिशः स्पृता इति । सामान्येन तिर्यक्त्वेन चावर्तमाना इत्यर्थः । उक्तं चतुष्टोमलक्षणं चतुस्तोत्रीयावृध्येति ॥ १० ॥

Eggeling
  1. ‘God Savitr̥’s share thou art, Br̥haspati’s lordship!’–having bestowed a share on the god Savitr̥, he bestows lordship on Br̥haspati;–’the facing quarters are freed, the Catushṭoma!’–by means of the chant of praise consisting of four stomas he freed all the (four) quarters for living beings from evil, from death.

११

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘वानां भा᳘गो ऽसि॥
(स्य᳘) अ᳘यवानामा᳘धिपत्यमि᳘ति पूर्वपक्षा वै य᳘वा ऽअपरपक्षा ऽअ᳘यवास्ते᳘ हीदᳫँ᳭ स᳘र्व्वं युव᳘ते चायुव᳘ते च पूर्वपक्षे᳘भ्यो भागं᳘ कृ᳘त्वा ऽपरपक्षे᳘भ्य ऽआ᳘धिपत्यमकरोत्प्रजा᳘ स्पृता᳘श्चतुश्चत्वारिᳫँ᳭श स्तो᳘म ऽइ᳘ति स᳘र्व्वाः प्रजा᳘श्चतुश्चत्वारिᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘वानां भा᳘गो ऽसि॥
(स्य᳘) अ᳘यवानामा᳘धिपत्यमि᳘ति पूर्वपक्षा वै य᳘वा ऽअपरपक्षा ऽअ᳘यवास्ते᳘ हीदᳫँ᳭ स᳘र्व्वं युव᳘ते चायुव᳘ते च पूर्वपक्षे᳘भ्यो भागं᳘ कृ᳘त्वा ऽपरपक्षे᳘भ्य ऽआ᳘धिपत्यमकरोत्प्रजा᳘ स्पृता᳘श्चतुश्चत्वारिᳫँ᳭श स्तो᳘म ऽइ᳘ति स᳘र्व्वाः प्रजा᳘श्चतुश्चत्वारिᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - Weber

य᳘वानाम् भाॗगो ऽसि॥
अ᳘यवानामा᳘धिपत्यमि᳘ति पूर्वपक्षा वै य᳘वा अपरपक्षा अ᳘यवास्तेॗ हीदᳫं स᳘र्वं युव᳘ते चायुव᳘ते 7 च पूर्वपक्षे᳘भ्यो भागं᳘ कृॗत्वापरपक्षे᳘भ्य आ᳘धिपत्यमकरोत्प्रजा᳘ स्पृता᳘श्चतुश्चत्वारिंश स्तो᳘म इ᳘ति स᳘र्वाः प्रजा᳘श्चतुश्चत्वारिंशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्॥

मूलम् - विस्वरम्

(९) “यवानां भागो ऽस्ययवानामाधिपत्यम्”- इति । पूर्वपक्षा वै यवाः; अपरपक्षा अयवाः । ते हीदं सर्वं युवते चायुवते च । पूर्वपक्षेभ्यो भागं कृत्वा ऽपरपक्षेभ्य आधिपत्यमकरोत् । “प्रजाः स्पृताः, चतुश्चत्वारिंशः स्तोमः”- इति । सर्वाः प्रजाश्चतुश्चत्वारिंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ॥ ११ ॥

सायणः

यवायवशब्दयोः पूर्वपक्षापरपक्षवाचकत्वमुपपादयति- ते हीदं सर्वं युवते चायुवते चेति । ‘ते’ पूर्वपक्षा अपरपक्षाश्च क्रमेण ‘इदं सर्वम्’ जगत् ‘युवते चायुवते च’ यथाक्रमं मिश्रणामिश्रणं कुर्वन्ति । अयुवत इत्यत्र “अमानोनाः प्रतिषेधे” 8- इति स्मरणात् ‘अ’ इति प्रतिषेधवाचि भिन्नं पदम् । पूर्वपक्षेषु चन्द्रस्य कलावृद्धिसद्भावात्, सर्वजगदाप्यायनस्य च तदधीनत्वाद्, ‘युवते’ इत्युक्तम् । उक्तवैपरीत्यात् चायुवत इति । यद्वा मासर्तुसंवत्सरादिरूपस्य कालस्य पूर्वापरपक्षावृत्तिरूपत्वात् ‘ते’ पूर्वापरपक्षरूपाः कालविशेषाः इदं सर्वमुत्पत्त्यवस्थापन्नं युवते, विनाशावस्थापन्नं वियुवते चेत्यर्थः ॥ ११ ॥

Eggeling
  1. ‘The Yavas’ share thou art, the Ayavas’ lordship!’–the Yavas, doubtless, are the first (light) fortnights, and the Ayavas the latter (dark) fortnights, for these gain (yu) and obtain (ā-yu) everything here 9: having bestowed a share on the first fortnights, he bestowed lordship on the latter fortnights;–’the creatures are freed, the Catuscatvāriṁśa-stoma!’–by means of the forty-four-fold hymn-form he freed all creatures from evil, from death.

१२

विश्वास-प्रस्तुतिः

(दृ) ऋभूणां᳘ भा᳘गो ऽसि॥
व्वि᳘श्वेषां देवा᳘नामा᳘धिपत्यमि᳘त्यृभु᳘भ्यो भागं᳘ कृत्वा व्वि᳘श्वेभ्यो देवे᳘भ्य ऽआ᳘धिपत्यमकरोद्भूत᳘ᳫँ᳘ स्पृतं᳘ त्रयस्त्रिᳫँ᳭श स्तो᳘म ऽइ᳘ति स᳘र्व्वाणि भूता᳘नि त्रयस्त्रिᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्त᳘थै᳘वैतद्य᳘जमानः स᳘र्व्वाणि भूता᳘नि त्रयस्त्रिᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘ स्पृणोति॥

मूलम् - श्रीधरादि

(दृ) ऋभूणां᳘ भा᳘गो ऽसि॥
व्वि᳘श्वेषां देवा᳘नामा᳘धिपत्यमि᳘त्यृभु᳘भ्यो भागं᳘ कृत्वा व्वि᳘श्वेभ्यो देवे᳘भ्य ऽआ᳘धिपत्यमकरोद्भूत᳘ᳫँ᳘ स्पृतं᳘ त्रयस्त्रिᳫँ᳭श स्तो᳘म ऽइ᳘ति स᳘र्व्वाणि भूता᳘नि त्रयस्त्रिᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्त᳘थै᳘वैतद्य᳘जमानः स᳘र्व्वाणि भूता᳘नि त्रयस्त्रिᳫँ᳭शे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘ स्पृणोति॥

मूलम् - Weber

ऋभूणा᳘म् भाॗगो ऽसि॥
वि᳘ष्वेषां देवा᳘नामा᳘धिपत्यमि᳘त्यृभु᳘भ्यो भागं᳘ कृत्वा वि᳘श्वेभ्यो देवे᳘भ्य आ᳘धिपत्यमकरोद्भूत᳘ᳫं᳘ स्पृतं᳘ त्रयस्त्रिंश स्तो᳘म इ᳘ति स᳘र्वाणि भूता᳘नि त्रयस्त्रिंशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘रस्पृणोत्त᳘थैॗवैतद्य᳘जमानः स᳘र्वाणि भूता᳘नि त्रयस्त्रिंशे᳘न स्तो᳘मेन पाप्म᳘नो मृत्यो᳘ स्पृणोति॥

मूलम् - विस्वरम्

(१०) “ऋभूणां भागो ऽसि विश्वेषां देवानामाधिपत्यम्”- इति । ऋभुभ्यो भागं कृत्वा विश्वेभ्यो देवेभ्य आधिपत्यमकरोत् । “भूतं स्पृतं, त्रयस्त्रिंशः स्तोमः”- (वा. सं. १४ । २६) इति । सर्वाणि भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् । तथैवैतद्यजमानः सर्वाणि भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्योः स्पृणोति ॥ १२ ॥

सायणः

इत्थं भूतानां मध्ये ब्रह्मक्षत्रादिभूतैकैकदेशमभिधाय, अन्ते सर्वं भूतजातं सङ्गृह्याभिधत्ते- भूतं स्पृतं त्रयस्त्रिंशःस्तोम इति । भूतशब्दस्य भविष्यदादिप्रतियोगिकाले प्रसिद्धेरत्राभिमतमर्थमाह- सर्वाणि भूतानीति । एतदेवाभिप्रेत्य ‘विश्वेभ्यो देवेभ्य आधिपत्यमकरोत्’ इत्यन्ते विश्वे ऽपि देवा उपात्ताः “ये देवासो दिव्येकादशस्थ”- (वा. सं. ७ । १९) इत्यादिमन्त्रेषु त्रयस्त्रिंशत्सङ्ख्याकानां देवानामभिधानात् “त्रयस्त्रिंशद्वै सर्वा देवताः” इति श्रुतेश्च सर्वेषां देवानामेष्वन्तर्भावादुचितस्त्रयस्त्रिंशस्तोमो ऽन्ते निर्दिष्ट इति वेदितव्यम् । इत्थं प्रजापत्यनुष्ठितमर्थं दृष्टान्तत्वेन प्रदर्श्य दार्ष्टान्तिकतया यजमाने ऽपि योजयति- तथैवैतद्यजमानः सर्वाणि भूतानि त्रयस्त्रिंशेन स्तोमेन पाप्मनो मृत्योः स्पृणोतीति । अन्तिमवाक्ये ‘तथैवैतत्’ इत्यभिधानम्, इतरवाक्येष्वप्येवं द्रष्टव्यमित्यवगमयितुम् । यद्वा ऽस्य सर्वोक्तार्थपरत्वादस्मिन्नेवाभिधानं कृतमिति ॥ १२ ॥

Eggeling
  1. ‘The Ribhus’ share thou art, the All-gods’ lordship!’–having bestowed a share on the Ribhus, he bestowed lordship on the Viśve-Devāḥ;–

’the living being is freed, the Trayastriṁśa-stoma!’–by means of the thirty-three-fold hymn-form he freed all living beings from evil, from death; and in like manner does the Sacrificer, by means of the thirty-three-fold hymn-form, now free all living beings from evil, from death.

१३

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएता दशे᳘ष्टका ऽउ᳘पदधाति॥
द᳘शाक्षरा व्विरा᳘ड् विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘देता᳘नि स᳘र्व्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘ स्पृणोति॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएता दशे᳘ष्टका ऽउ᳘पदधाति॥
द᳘शाक्षरा व्विरा᳘ड् विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ ऽअग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘देता᳘नि स᳘र्व्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘ स्पृणोति॥

मूलम् - Weber

ता वा᳘ एता दशे᳘ष्टका उ᳘पदधाति॥
द᳘शाक्षरा विरा᳘ड्विरा᳘डग्निर्द᳘श दि᳘शो दि᳘शो ऽग्निर्द᳘श प्राणाः᳘ प्राणा᳘ अग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैव त᳘देता᳘नि स᳘र्वाणि भूता᳘नि पाप्म᳘नो मृत्यो᳘ स्पृणोति॥

मूलम् - विस्वरम्

ता वा एता दशेष्टका उपदधाति । दशाक्षरा विराट् विराडग्निः । दश दिशः । दिशो ऽग्निः । दश प्राणाः । प्राणा अग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैव तदेतानि सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणोति ॥ १३ ॥

सायणः

अथ सङ्ख्यां स्तौति- ता वा एता दशेष्टका उपदधाति दशाक्षरा विराडित्यादिना । कृत्स्नस्य चितिरूपस्याग्नेर्विराडात्मकत्वादग्न्येकदेशस्याप्यग्नित्वादनन्तरोक्तस्पृत्संज्ञकेष्टकादशकसाध्यत्वाद्वा ‘विराडग्निः,’ ‘दिशो ऽग्निः’ इति सर्वासु दिक्षु चीयमानत्वात् । “अग्निर्देवेभ्यो न्यलीयत स दिशो ऽनुप्राविशत्” इति श्रुतिप्रसिद्धदिगन्तप्रवेशाद्वा दशसंख्येष्टकासाध्यत्वाद्वा ‘दिशो ऽग्निः’ । पूर्वत्र “स्तोमानुपदधाति प्राणा वै स्तोमाः” इति प्रकृत्य “ये वै ते प्राणा ऋषय एतां चतुर्थीं चितिमपश्यंस्तानेवैतदुपदधाति” इति च स्तोमेष्टकानां प्राणत्वेनाभिधानात्तदिष्टकासाध्यस्याग्नित्वात् ‘प्राणा अग्निः’ इत्युक्तम् । ‘यावानग्निः’- इति विराट् दिक्प्राणैरभिन्नत्वाद् यावान् विराडादिप्रमाणक इत्यर्थः । ‘यावत्यस्य मात्रा’- इति विराड्-दिक्प्राणत्वेन स्तुतस्याग्नेर्या चितिमात्रा विराडादिद्वारिका दशसङ्ख्यात्मिकेत्यर्थः । स्पष्टमन्यत् ॥ १३ ॥

Eggeling
  1. These, then, are ten bricks he lays down,–the Virāj consists of ten syllables, and Agni is Virāj (wide-shining); there are ten regions, and Agni is the regions; there are ten vital airs, and Agni is the vital airs: as great as Agni is, as great as is his measure, by so much he thus frees all these creatures from evil, from death.

१४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ ऽर्त᳘व्ये ऽउ᳘पदधाति॥
(त्यृ) ऋत᳘व ऽएते य᳘दृत᳘व्ये ऽऋतू᳘ने᳘वैतदु᳘पदधाति स᳘हश्च सह᳘स्यश्च[[!!]] है᳘मन्तिकावृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदुपदधाति[[!!]] द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ ऽर्त᳘व्ये ऽउ᳘पदधाति॥
(त्यृ) ऋत᳘व ऽएते य᳘दृत᳘व्ये ऽऋतू᳘ने᳘वैतदु᳘पदधाति स᳘हश्च सह᳘स्यश्च[[!!]] है᳘मन्तिकावृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदुपदधाति[[!!]] द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥

मूलम् - Weber

अ᳘थ ऽर्तॗव्ये उ᳘पदधाति॥
ऋत᳘व एते य᳘दृतॗव्ये ऋतू᳘नेॗवैतदु᳘पदधाति स᳘हश्च सहस्य᳘श्च है᳘मन्तिकावृतू इ᳘ति ना᳘मनी एनयोरेते ना᳘मभ्यामेॗवैने एतदु᳘पदधाति द्वे इ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥

मूलम् - विस्वरम्

अथ ऋतव्येष्टकोपधानम् (२) ।

अथ ऽर्तव्ये उपदधाति । ऋतव एते- यदृतव्ये । ऋतूनेवैतदुपदधाति । “सहश्च सहस्यश्च हैमन्तिकावृतू”- (वा. सं. १४-२७) इति । नामनी एनयोरेते । नामभ्यामेवैने एतदुपदधाति । द्वे इष्टके भवतः । द्वौ हि मासावृतुः । सकृत्सादयति । एकं तदृतुं करोति ॥ १४ ॥

सायणः

अथर्तव्ये ऽउपदधातीत्यादिकम् ऋतव्येष्टकाब्राह्मणं पूर्वचितिवद्व्याख्येयम् । सहश्च सहस्यश्च हैमन्तिकावृतू इति 10 । एतावानेव भेदः, ‘सहो’ मार्गशीर्षः, ‘सहस्यः’ पौषमासः ॥ १४ ॥

Eggeling
  1. He then lays down two R̥tavyās 11 (seasonal bricks);–the seasonal ones being the same as the seasons, it is the seasons he thus lays down;–with (Vāj. S. XIV, 27), ‘Saha and Sahasya, the two winter-seasons!’ These are the names of those two, it is with their names he thus lays them down. There are two such bricks, for a season consists of two months. Only once he settles them: he thus makes (the two months) one season.

१५

विश्वास-प्रस्तुतिः

तद्य᳘देते ऽअ᳘त्रोपद᳘धाति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘रिम᳘ ऽउ लोकाः᳘ संव्वत्सरस्त᳘स्य य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्व्वाची᳘नं दिवस्त᳘दस्यैषा᳘ चतुर्थी चि᳘तिस्त᳘द्वस्य हेमन्त᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादे᳘ते ऽअत्रो᳘पदधाति॥

मूलम् - श्रीधरादि

तद्य᳘देते ऽअ᳘त्रोपद᳘धाति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘रिम᳘ ऽउ लोकाः᳘ संव्वत्सरस्त᳘स्य य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्व्वाची᳘नं दिवस्त᳘दस्यैषा᳘ चतुर्थी चि᳘तिस्त᳘द्वस्य हेमन्त᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादे᳘ते ऽअत्रो᳘पदधाति॥

मूलम् - Weber

तद्य᳘देते अ᳘त्रोपद᳘धाति॥
संवत्सर᳘ एॗषो ऽग्नि᳘रिम᳘ उ लोकाः᳘ संवत्सरस्त᳘स्य य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्वाची᳘नं दिवस्त᳘दस्यैषा᳘ चतुर्थी चि᳘तिस्त᳘द्वस्य हेमन्त᳘ ऋतुस्तद्य᳘देते अ᳘त्रोपद᳘धाति य᳘देॗवास्यैते᳘ आत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते अत्रो᳘पदधाति॥

मूलम् - विस्वरम्

तद्यदेते अत्रोपदधाति । संवत्सर एषो ऽग्निः । इम उ लोकाः संवत्सरः । तस्य यदूर्ध्वमन्तरिक्षाद्, अर्वाचीनं दिवः- तदस्यैषा चतुर्थी चितिः । तदस्य हेमन्त ऋतुः । तद्यदेते अत्रोपदधाति- यदेवास्यैते आत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेते अत्रोपदधाति ॥ १५ ॥

सायणः

तद्यदेते अत्रोपदधाति संवत्सर एषो ऽग्निरिम उ लोकाः संवत्सर इति, यद्वेवैते अत्रोपदधाति प्रजापतिरेषो ऽग्निः संवत्सर उ प्रजापतिः इति चार्थवादद्वयेन प्रजापतेर्लोकत्रयात्मकं संवत्सरात्मकं चेति रूपद्वयं यत्, यच्च तस्य विश्लिष्टमङ्गं तत्प्रतिसन्धानस्थानीयमिति ऋतव्ययोः स्तुतिः कृतेति तात्पर्यार्थः॥ १५ ॥ १६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमे काण्डे चतुर्थे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (८-४-२) ॥

Eggeling
  1. And as to why he places these two (bricks) in this (layer),–this Agni (fire-altar) is the year, and the year is these worlds: what part thereof is above the air, and below the sky, that is this fourth layer, and that is the winter-season thereof; and when he places these two in this (layer), he thereby restores to him (Prajāpati-Agni, the year and fire-altar) what part of his body these two (constitute). This is why he places these two in this (layer).

१६

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैते ऽअ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरे᳘षो ऽग्निः᳘ संव्वत्सर᳘ ऽउ प्रजा᳘पतिस्त᳘स्य य᳘दूर्ध्वं म᳘ध्यादवाची᳘नᳫँ᳭ शीर्ष्णस्त᳘दस्यैषा᳘ चतुर्थी चि᳘तिस्त᳘द्वस्य हेमन्त᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मि᳘न्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैते ऽअ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरे᳘षो ऽग्निः᳘ संव्वत्सर᳘ ऽउ प्रजा᳘पतिस्त᳘स्य य᳘दूर्ध्वं म᳘ध्यादवाची᳘नᳫँ᳭ शीर्ष्णस्त᳘दस्यैषा᳘ चतुर्थी चि᳘तिस्त᳘द्वस्य हेमन्त᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मि᳘न्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति॥

मूलम् - Weber

य᳘द्वेॗवैते अ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरेॗषो ऽग्निः᳘ संवत्सर᳘ उ प्रजा᳘पतिस्त᳘स्य य᳘दूर्ध्वम् म᳘ध्यादवाची᳘नं शीर्ष्णस्त᳘दस्यैषा᳘ चतुर्थी चि᳘तिस्त᳘द्वस्य हेमन्त᳘ ऋतुस्तद्य᳘देते अ᳘त्रोपद᳘धाति य᳘देॗवास्यैते᳘ आत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते अत्रो᳘पदधाति॥

मूलम् - विस्वरम्

यद्वेवैते अत्रोपदधाति । प्रजापतिरेषो ऽग्निः । संवत्सर उ प्रजापतिः । तस्य यदूर्ध्वं मध्याद्, अवाचीनं शीर्ष्णः,- तदस्यैषा चतुर्थी चितिः । तद्वस्य हेमन्त ऋतुः । तद्यदेते अत्रोपदधाति- यदेवास्यैते आत्मनः । तदस्मिन्नेतत्प्रतिदधाति । तस्मादेते अत्रोपदधाति ॥ १६ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. And, again, as to why he places these two in this (layer),–this Agni is Prajāpati, and Prajāpati is the year: what (part) of him there is above the waist, and below the head, that is this fourth layer, and that is the winter-season of him (or, of it, the year). And when he places these two in this (layer), he thereby restores to him what part of his body these two (constitute). This is why he places these two in this (layer).

  1. 66:2 The ten Spr̥taḥ are placed in close connection with the preceding set;–viz. at the front and back ends of the spine, two bricks, exactly corresponding in size to those already lying there, are placed south and north of these respectively. Similarly two bricks, a foot square, are placed on the ‘cross-spine’ immediately north of the two stoma-bricks lying there. The remaining six bricks are then placed behind the row of fourteen ‘stomas’ in the front part of the altar, three on each side of the spine. ↩︎

  2. 67:1 Or, from that evil, death. ↩︎

  3. दक्षिणां पूर्व्वयोरग्नेर्भाग इति । का. श्रौ. सू. १७ । २१६ । ↩︎

  4. 67:2 In the case of the first four Spr̥taḥ, as in that of the corresponding Stomas (see p. 6r, note r), while the bricks themselves are laid down in the order E. W. N. S., the order in which the formulas are given in paragraphs 3-6, is that of E. N. S.W.–Cp. Kāty. Śrautas. XVII, 10, 11-14. For a symbolical explanation of this change of order, see VIII, 4, 4, 1 seq. ↩︎

  5. उत्तरामुत्तरयोरिद्रस्य भाग इति । का. श्रौ. सू. १७ । २१९ । ↩︎ ↩︎

  6. उत्तरामपरयोर्मित्रस्य भाग इति । का. श्रौ. सू. । १७ । २१७ । ↩︎ ↩︎

  7. युवा᳘त चायुवा᳘त च A. युवा᳘न वायुव᳘ते च B. ↩︎

  8. ‘अ’ इति “संबोधने ऽधिक्षेपे निषेधे च” इति तत्त्वबोधिनी । “अभावे नह्यनोनापि” इत्यमरः । ↩︎

  9. 69:1 This is clearly a fanciful etymology. If ‘yava’ and ‘ayava,’ in the sense of the bright and dark fortnights, are really genuine terms, it is more likely that they are derived from yu, ’to keep off,’–the bright half of the moon being looked upon as capable of averting evil spirits, and the dark half as the reverse of this. ↩︎

  10. ऋतव्ये सहश्च सहस्यश्चेति । का० श्रौ० सू० १७ । २२१ । ↩︎

  11. 70:1 These are placed over the R̥tavyās of the preceding layers, viz. in the fifth place to the east of the centre, south and north of the spine. ↩︎