०१

विश्वास-प्रस्तुतिः

चतुर्थीं चि᳘तिमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘स्तृती᳘यां चि᳘तिं चित्वा᳘ समा᳘रोहन्नन्त᳘रिक्षं वै᳘ तृती᳘या चि᳘तिरन्त᳘रिक्षमेव त᳘त्संस्कृ᳘त्य समा᳘रोह᳘न्॥

मूलम् - श्रीधरादि

चतुर्थीं चि᳘तिमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘स्तृती᳘यां चि᳘तिं चित्वा᳘ समा᳘रोहन्नन्त᳘रिक्षं वै᳘ तृती᳘या चि᳘तिरन्त᳘रिक्षमेव त᳘त्संस्कृ᳘त्य समा᳘रोह᳘न्॥

मूलम् - Weber

चतुर्थीं चि᳘तिमु᳘पदधाति॥
एतद्वै᳘ देवास्तृती᳘यां चि᳘तिं चित्वा᳘ समा᳘रोहन्नन्त᳘रिक्षं वै᳘ तृती᳘या चि᳘तिरन्त᳘रिक्षमेव त᳘त्संस्कृ᳘त्य समा᳘रोहन्॥

मूलम् - विस्वरम्

अष्टादशस्तोमेष्टकोपधानम् ।

चतुर्थीं चितिमुपदधाति । एतद्वै देवास्तृतीयां चितिं चित्वा समारोहन् । अन्तरिक्षं वै तृतीया चितिः । अन्तरिक्षमेव तत्संस्कृत्य समारोहन् ॥ १ ॥

सायणः

अथ चतुर्थे चतुर्थचित्या उपधानं विधाय स्तौति- चतुर्थीं चितिमुपदधात्येतद्वै देवा इत्यादिना । अन्तरिक्षादूर्ध्वं दिवो ऽर्वाचीनं यत्स्थानं तच्चतुर्थी चितिः । अस्यां ब्रह्मण उपधानं विधातुमाह- तेषामेष लोक इति । ‘तेषां मनसि’ ‘अध्रुवः’ अत एव ‘अप्रतिष्ठित इव’ स ‘लोकः’ आसीत् ॥ १-२ ॥

Eggeling
  1. He lays down the fourth layer. For the gods having laid down the third layer, now ascended; but, the third layer being the air; it was the air which, having completed it, they ascended.

०२

विश्वास-प्रस्तुतिः

(हं᳘स्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्नित᳘ ऽऊर्ध्व᳘मिच्छते᳘ति ते᳘ चेत᳘यमाना ऽएतां᳘ चतुर्थीं चि᳘तिमपश्यन्य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्व्वाची᳘नं दिवस्ते᳘षामेष᳘ लोको᳘ ऽध्रुव ऽइवा᳘प्रतिष्ठित ऽइवम᳘नस्यासीत्॥

मूलम् - श्रीधरादि

(हं᳘स्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्नित᳘ ऽऊर्ध्व᳘मिच्छते᳘ति ते᳘ चेत᳘यमाना ऽएतां᳘ चतुर्थीं चि᳘तिमपश्यन्य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्व्वाची᳘नं दिवस्ते᳘षामेष᳘ लोको᳘ ऽध्रुव ऽइवा᳘प्रतिष्ठित ऽइवम᳘नस्यासीत्॥

मूलम् - Weber

ते ऽब्रुवन्॥
चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवन्नित ऊर्ध्व᳘मिछते᳘ति ते᳘ चेत᳘यमाना एतां᳘ चतुर्थीं चि᳘तिमपश्यन्य᳘दूर्ध्व᳘मन्त᳘रिक्षादर्वाची᳘नं दिवस्ते᳘षामेषा᳘ लोको᳘ ऽध्रुव इवा᳘प्रतिष्ठित इवम᳘नस्यासीत्॥

मूलम् - विस्वरम्

ते ऽब्रुवन्- चेतयध्वमिति- चितिमिच्छतेति वाव तदब्रुवन्- इत ऊर्ध्वमिच्छतेति । ते चेतयमाना एतां चतुर्थीं चितिमपश्यन्- यदूर्ध्वमन्तरिक्षाद् अर्वाचीनं दिवः । तेषामेष लोको ऽध्रुव ऽइवाप्रतिष्ठित इव मनस्यासीत् ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. They spake, ‘Meditate ye!’ whereby, indeed,

they meant to say, ‘Seek ye a layer! Seek ye (to build) from hence upwards!’ Whilst meditating, they saw that fourth layer, (to wit) what is above the air and below the heavens; that world was to their minds, as it were, unstable and unsettled.

०३

विश्वास-प्रस्तुतिः

(त्ते) ते ब्र᳘ह्माब्रुवन्॥
(वँस्त्वा᳘) त्वा᳘मिहो᳘पदधामहा ऽइ᳘ति किं᳘ मे त᳘तो भविष्यती᳘ति त्व᳘मेव᳘ नः श्रे᳘ष्ठं भविष्यसी᳘ति तथे᳘ति ते᳘ ऽत्र ब्रह्मो᳘पादधत त᳘स्मादाहुर्ब्र᳘ह्मैव᳘ देवा᳘नाᳫँ᳭ श्रे᳘ष्ठमि᳘ति त᳘देत᳘या वै᳘ चतुर्थ्या चि᳘त्येमे द्या᳘वापृथिवी व्वि᳘ष्टब्धे ब्र᳘ह्म वै च᳘तुर्थी चि᳘तिस्त᳘स्मादाहुर्ब्र᳘ह्मणा द्या᳘वापृथिवी व्वि᳘ष्टब्धे ऽइ᳘ति स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ ऽउ वै ब्र᳘ह्म ब्र᳘ह्मै᳘वैतदु᳘पदधाति॥

मूलम् - श्रीधरादि

(त्ते) ते ब्र᳘ह्माब्रुवन्॥
(वँस्त्वा᳘) त्वा᳘मिहो᳘पदधामहा ऽइ᳘ति किं᳘ मे त᳘तो भविष्यती᳘ति त्व᳘मेव᳘ नः श्रे᳘ष्ठं भविष्यसी᳘ति तथे᳘ति ते᳘ ऽत्र ब्रह्मो᳘पादधत त᳘स्मादाहुर्ब्र᳘ह्मैव᳘ देवा᳘नाᳫँ᳭ श्रे᳘ष्ठमि᳘ति त᳘देत᳘या वै᳘ चतुर्थ्या चि᳘त्येमे द्या᳘वापृथिवी व्वि᳘ष्टब्धे ब्र᳘ह्म वै च᳘तुर्थी चि᳘तिस्त᳘स्मादाहुर्ब्र᳘ह्मणा द्या᳘वापृथिवी व्वि᳘ष्टब्धे ऽइ᳘ति स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ ऽउ वै ब्र᳘ह्म ब्र᳘ह्मै᳘वैतदु᳘पदधाति॥

मूलम् - Weber

ते ब्र᳘ह्माब्रुवन्॥
त्वा᳘मिहो᳘पदधामहा इ᳘ति कि᳘म् मे त᳘तो भविष्यती᳘ति त्व᳘मेव᳘ नः श्रे᳘ष्ठम् भविष्यसी᳘ति तथे᳘ति ते᳘ ऽत्र ब्रह्मो᳘पादधत त᳘स्मादाहुर्ब्र᳘ह्मैव᳘ देवा᳘नां श्रे᳘ष्ठमि᳘ति त᳘देत᳘या वै᳘ चतुर्थ्या चि᳘त्येमे द्या᳘वापृथिवी वि᳘ष्टब्धे ब्र᳘ह्म वै च᳘तुर्थी चि᳘तिस्त᳘स्मादाहुर्ब्र᳘ह्मणा द्या᳘वापृथिवी वि᳘ष्टब्धे इ᳘ति स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ उ वै ब्र᳘ह्म ब्र᳘ह्मैॗवैतदु᳘पदधाति॥

मूलम् - विस्वरम्

ते ब्रह्माब्रुवन्- त्वामिहोपदधामहा ऽइति । किं मे ततो भविष्यतीति । त्वमेव नः श्रेष्ठं भविष्यसीति । तथेति । ते ऽत्र ब्रह्मोपादधत । तस्मादाहुः- ब्रह्मैव देवानां श्रेष्ठमिति । तदेतया वै चतुर्थ्या चित्येमे द्यावापृथिवी विष्टब्धे । ब्रह्म वै चतुर्थी चितिः । तस्मादाहुः- ब्रह्मणा द्यावापृथिवी विष्टब्धे इति । स्तोमानुपदधाति । प्राणा वै स्तोमाः । प्राणा उ वै ब्रह्म । ब्रह्मैवैतदुपदधाति ॥ ३ ॥

सायणः

‘ते’ देवाः ब्रह्माख्यां देवताम् ‘अब्रुवन्’ किमिति ? ‘त्वामिहोपदधामहा इति’ ब्रह्म; तेन ‘मे किम्’ स्यादित्यब्रवीत् । ते देवाः ‘त्वमेव’ ‘नः’ अस्माकं मध्ये ‘श्रेष्ठं भविष्यसि’ ‘इति’- अब्रुवन् । ‘तथेति’ चेत्युक्ताः ‘ते’ ब्रह्मैवात्र ‘उपादधत’ ‘तस्मात्’ वेदविदो वदन्ति- ‘ब्रह्मैव देवानां श्रेष्ठमिति’ ‘तत्’ तस्मात् परिवृढस्य ब्रह्मण उपहितत्वात् ‘एतया चतुर्थ्या चित्या’ ‘इमे द्यावापृथिवी’ ‘विष्टब्धे’ विशेषेण धृते । चतुर्थ्याः चित्या विष्टम्भकारणत्वमाह- ब्रह्म वै चतुर्थी चितिरिति । स्पष्टमेतत् । स्तोमसंज्ञका इष्टका विधाय ब्रह्मात्मना स्तौति- स्तोमानुपदधाति प्राणा वै स्तोमा इति । त्रिवृत्स्तोमस्य वायुत्वेन स्तूयमानत्वाद् वायोश्च प्राणत्वात्तत्प्राधान्ये ऽपि सर्वे ऽपि ‘स्तोमाः प्राणाः’ इत्युच्यन्ते । ते च प्राणा ब्रह्मैव तदधिष्ठितत्वात् । अतस्तेन स्तोमोपधानेन साक्षाद्ब्रह्मैवोपदधाति ॥ ३ ॥

Eggeling
  1. They said to the Brahman, ‘We will lay thee down (or, set thee up) here!’–‘What will therefrom accrue to me?’–‘Thou shalt be the highest of us!’–‘So be it!’ They accordingly laid the Brahman down here, whence people say that the Brahman is the highest of gods. Now, by this fourth layer these two, heaven and earth, are upheld, and the fourth layer is the Brahman, whence people say that heaven and earth are upheld by the Brahman. He lays down the Stomas (hymn-forms) 1: the stomas being the vital airs, and the Brahman also being the vital airs, it is the Brahman he thereby lays down.

०४

विश्वास-प्रस्तुतिः

य᳘द्वेव स्तो᳘मानुपद᳘धाति॥
(त्ये) एतद्वै᳘ देवाः᳘ प्रजा᳘पतिमब्रुवंस्त्वा᳘मिहो᳘पदधामहा ऽइ᳘ति तथे᳘ति स वै᳘ नाब्रवीत्किं᳘ मे त᳘तो भविष्यती᳘ति य᳘दु ह किं᳘ च प्रजा᳘पतिर्देवे᳘ष्वीषे कि᳘मस्मा᳘कं त᳘तो भविष्यती᳘त्ये᳘वोचुस्त᳘स्मादु हैतद्य᳘त्पिता पुत्रे᳘ष्विच्छ᳘ते कि᳘मस्मा᳘कं त᳘तो भविष्यती᳘त्ये᳘वाहुर᳘थ य᳘त्पुत्राः᳘ पित᳘रि तथे᳘त्ये᳘वाहैवᳫँ᳭ हि तद᳘ग्रे प्रजा᳘पतिश्च देवा᳘श्च सम᳘वदन्त स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ ऽउ वै᳘ प्रजा᳘पतिः प्रजा᳘पतिमे᳘वैतदु᳘पदधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव स्तो᳘मानुपद᳘धाति॥
(त्ये) एतद्वै᳘ देवाः᳘ प्रजा᳘पतिमब्रुवंस्त्वा᳘मिहो᳘पदधामहा ऽइ᳘ति तथे᳘ति स वै᳘ नाब्रवीत्किं᳘ मे त᳘तो भविष्यती᳘ति य᳘दु ह किं᳘ च प्रजा᳘पतिर्देवे᳘ष्वीषे कि᳘मस्मा᳘कं त᳘तो भविष्यती᳘त्ये᳘वोचुस्त᳘स्मादु हैतद्य᳘त्पिता पुत्रे᳘ष्विच्छ᳘ते कि᳘मस्मा᳘कं त᳘तो भविष्यती᳘त्ये᳘वाहुर᳘थ य᳘त्पुत्राः᳘ पित᳘रि तथे᳘त्ये᳘वाहैवᳫँ᳭ हि तद᳘ग्रे प्रजा᳘पतिश्च देवा᳘श्च सम᳘वदन्त स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ ऽउ वै᳘ प्रजा᳘पतिः प्रजा᳘पतिमे᳘वैतदु᳘पदधाति॥

मूलम् - Weber

य᳘द्वेव स्तो᳘मानुपद᳘धाति॥
एतद्वै᳘ देवाः᳘ प्रजा᳘पतिमब्रुवंस्त्वा᳘मिहो᳘पदधामहा इ᳘ति तथे᳘ति स वैॗ नाब्रवीत्कि᳘म् मे त᳘तो भविष्यती᳘ति य᳘दु ह किं᳘ च प्रजा᳘पतिर्देवे᳘ष्वीषे कि᳘मस्मा᳘कं त᳘तो भविष्यती᳘त्येॗवोचुस्त᳘स्मादु हैतद्य᳘त्पिता पुत्रे᳘ष्विछ᳘ते कि᳘मस्मा᳘कं त᳘तो भविष्यती᳘त्येॗवाहुर᳘थ य᳘त्पुत्राः᳘ पित᳘रि तथे᳘त्येॗवाहैवᳫं हि तद᳘ग्रे प्रजा᳘पतिश्च देवा᳘श्च सम᳘वदन्त स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ उ वै᳘ प्रजा᳘पतिः प्रजा᳘पतिमेॗवैतदु᳘पदधाति॥

मूलम् - विस्वरम्

यद्वेद स्तोमानुपधाति । एतद्वै देवाः प्रजापतिमब्रुवन्- त्वामिहोपदधामहा ऽइति । तथेति । स वै नाब्रवीत्- किं मे ततो भविष्यतीति । यदु ह किं च प्रजापतिर्देवेष्वीषे- किमस्माकं ततो भविष्यसीत्येवोचुः । तस्मादु हैतद्-यत्पिता पुत्रेष्विच्छते- किमस्माकं ततो भविष्यतीत्येवाहुः । अथ यत्पुत्राः पितरि ‘तथा’ इत्येवाह, - एवं हि तदग्रे प्रजापतिश्च देवाश्च समवदन्त । स्तोमानुपदधाति । प्राणा वै स्तोमाः । प्राणा उ वै प्रजापतिः । प्रजापतिमेवैतदुपदधाति ॥ ४ ॥

सायणः

पुनः प्रजापत्यात्मना स्तौति- यद्वेद स्तोमानुपदधातीत्यादिना । पुरा देवा लक्ष्यं ‘प्रजापति’ चतुर्थचितौ ‘त्वामुपदधामहा इत्यब्रुवन्’ । ‘सः’ तु तथेत्येवाङ्गीचकार । एवं यथा पुरा ब्रह्म किं मे ततः स्यादित्यब्रवीत्; तथा प्रजापतिर्नोवाचेत्यमुमर्थं लौकिकपितृपुत्रव्यवहारप्रदर्शनपुरःसरमुपपादयति- स वै नाब्रवीत्किं मे तत इत्यादिना । ‘सः’ प्रजापतिः ‘किं मे ततः’ स्यादिति ? ‘नाब्रवीत्’ । ‘यदु ह’ यदेव किंचित्फलं ‘प्रजापतिः’ ‘देवेषु’ देवानधिकृत्य ‘ईषे’ ऐच्छत् । तदा देवाः ‘किमस्माकं ततो भविष्यतीत्येव ऊचुः’ । ‘तस्माद्’- एव कारणादिदानीमपि ‘पिता पुत्रेषु’ कार्यमिच्छते, यदि किञ्चित् फलमिच्छति तदा स्वकर्तव्यप्रतिनिधित्वे ‘किमस्माकं ततो भविष्यति’ इति ब्रूयुः । ‘अथ यत् पुत्राः पितरि’ इच्छेयुस्तर्हि तथैवेत्याह; पिता हि पुत्रार्थं कस्मिन्फले साध्ये सति तथैवेत्यङ्गीकुर्यात्, किं ततः स्यादिति न श्रूयादित्यर्थः । ‘एवं हि’ उक्तेन प्रकारेण खलु ‘तत्’ तदा ‘अग्रे’ देवकर्तृकप्रजापतिप्रार्थनासमये ‘प्रजापतिश्च देवाश्च समवदन्त’ संवादमकुर्वन् । “व्यक्तवाचां समुच्चारणे” (पा. सू. १ । ३ । ४८) इत्यात्मनेपदम् । प्रयोगान्तरेण व्यवधानात् पुनरनुवदति- स्तोमानुपदधातीति । स्तोमानां प्राणत्वमुक्तं प्राक् (अनुपदमेव तृतीयकण्डिकायाम्) । अङ्गाङ्गिनोरभेदात् प्राण एव प्रजापतिः । अतः स्तोमोपधाने प्रजापतिमेवोपदधाति ॥ ४ ॥

Eggeling
  1. And, again, as to why he lays down the Stomas. The gods, at that time, said to Prajāpati, ‘We will lay thee down here! So be it!’ He did not say, ‘What will therefrom accrue unto me?’ but whenever Prajāpati wished to obtain anything from the gods, they said, ‘What will therefrom accrue to us?’ And hence even now if a father wishes to obtain anything from his sons, they say, ‘What will therefrom

accrue unto us?’ and when the sons (wish to obtain anything) from the father, he says, ‘So be it!’ for in this way Prajāpati and the gods used of old to converse together. He lays down the Stomas: the stomas being the vital airs, and Prajāpati also being the vital airs, it is Prajāpati he thus lays down.

०५

विश्वास-प्रस्तुतिः

य᳘द्वेव स्तो᳘मानुपद᳘धाति॥
ये वै ते᳘ प्राणा ऽऋ᳘षय ऽएतां᳘ चतुर्थीं चि᳘तिम᳘पश्यन्ये त᳘ ऽएते᳘न र᳘सेनोपा᳘यंस्त᳘ ऽएते ता᳘ने᳘वैतदु᳘पदधाति स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ ऽउ वा ऽऋ᳘षय ऽऋ᳘षीने᳘वैतदु᳘पदधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव स्तो᳘मानुपद᳘धाति॥
ये वै ते᳘ प्राणा ऽऋ᳘षय ऽएतां᳘ चतुर्थीं चि᳘तिम᳘पश्यन्ये त᳘ ऽएते᳘न र᳘सेनोपा᳘यंस्त᳘ ऽएते ता᳘ने᳘वैतदु᳘पदधाति स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ ऽउ वा ऽऋ᳘षय ऽऋ᳘षीने᳘वैतदु᳘पदधाति॥

मूलम् - Weber

य᳘द्वेव स्तो᳘मानुपद᳘धाति॥
ये वै ते᳘ प्राणा ऋ᳘षय एतां᳘ चतुर्थीं चि᳘तिम᳘पश्यन्ये त᳘ एते᳘न र᳘सेनोपा᳘यंस्त᳘ एते ता᳘नेॗवैतदु᳘पदधाति स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ उ वा ऋ᳘षय ऋ᳘षीनेॗवैतदु᳘पदधाति॥

मूलम् - विस्वरम्

यद्वेव स्तोमानुपदधाति । ये वै ते प्राणा ऋषय एतां चतुर्थीं चितिमपश्यन्, ये त ऽएतेन रसेनोपायन्- त ऽएते । तानेवैतदुपदधाति । प्राणा वै स्तोमाः । प्राणा उ वा ऋषयः । ऋषीनेवैतदुपदधाति ॥ ५ ॥

सायणः

पूर्वं प्राणद्वारा प्रजापतिरूपत्वेन स्तुत्वेदानीं चितिप्रयुक्तमृषित्वं प्राणेषु सम्पाद्य तदात्मना स्तौति- यद्वेव स्तोमानित्यादिना । ‘ये’ प्राणाख्याः ‘ऋषयः’ ‘एतां चतुर्थीं चितिमपश्यन्’; एते चितिद्रष्टारः ऋषयः प्राणाः, ‘एतेन रसेन’ चतुर्थचित्यात्मना दृष्टेन सारेण ‘उपायन्’ । ‘ते’ प्रजापत्यात्मकतां प्राप्ता एव ‘एते’ प्रसिद्धाः प्राणा इत्यर्थः । ‘तानेव’ चितिरसाभिज्ञान्प्राणानेव ‘उपदधाति’ । उक्तमृषित्वमुपजीव्य पुनः स्तौति- प्राणा उ वा ऋषय इति । स्तोमदर्शनात् ‘ऋषयः प्राणाः’ ॥ ५ ॥

Eggeling
  1. And, again, as to why he lays down the Stomas. Those vital airs, the R̥shis 2, that saw this fourth layer 3, and who stepped nigh with that essential element (of the altar), are these (vital airs): it is them he now lays down. He lays down the Stomas:–the stomas being the vital airs, and the R̥shis also being the vital airs, it is the R̥shis he thus lays down.

०६

विश्वास-प्रस्तुतिः

य᳘द्वेव स्तो᳘मानुपद᳘धाति॥
प्रजा᳘पतिं व्वि᳘स्रस्तं देव᳘ता ऽआदा᳘य व्व्यु᳘दक्रामंस्त᳘स्य यु᳘दूर्ध्वं म᳘ध्यादवाची᳘नᳫँ᳭ शीर्ष्णस्त᳘दस्य व्वायु᳘रादा᳘योत्क्र᳘म्यातिष्ठद्देव᳘ताश्च भूत्वा᳘ संव्वत्सररूपा᳘णि च॥

मूलम् - श्रीधरादि

य᳘द्वेव स्तो᳘मानुपद᳘धाति॥
प्रजा᳘पतिं व्वि᳘स्रस्तं देव᳘ता ऽआदा᳘य व्व्यु᳘दक्रामंस्त᳘स्य यु᳘दूर्ध्वं म᳘ध्यादवाची᳘नᳫँ᳭ शीर्ष्णस्त᳘दस्य व्वायु᳘रादा᳘योत्क्र᳘म्यातिष्ठद्देव᳘ताश्च भूत्वा᳘ संव्वत्सररूपा᳘णि च॥

मूलम् - Weber

य᳘द्वेव स्तो᳘मानुपद᳘धाति॥
प्रजा᳘पतिं वि᳘स्रस्तं देव᳘ता आदा᳘य व्यु᳘दक्रामंस्त᳘स्य यु᳘दूर्ध्वम् म᳘ध्यादवाची᳘नं शीर्ष्णस्त᳘दस्य वायु᳘रादा᳘योत्क्र᳘म्यातिष्ठद्देव᳘ताश्च भूत्वा᳘ संवत्सररूदा᳘णि च॥

मूलम् - विस्वरम्

यद्वेव स्तोमानुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामन् । तस्य यदूर्ध्वं मध्यात्, अवाचीनं शीर्ष्णः- तदस्य वायुरादायोत्क्रम्यातिष्ठत्- देवताश्च भूत्वा संवत्सररूपाणि च ॥ ६ ॥

सायणः

अथ पुनर्विस्रस्तप्रजापत्यवयवप्रतिसन्धानरूपतया प्रशंसति- यद्वेव स्तोमानुपदधाति प्रजापतिमित्यादिना । पितुः प्रजापतेः सर्वपुत्रसाधारणद्रव्यत्वादितरदेवतावद् ‘वायुः’ अपि प्रजापतेर्मध्यभागशिरोभागयोर्मध्यदेशम् ‘आदाय देवताश्च संवत्सररूपाणि च भूत्वोत्क्रम्यातिष्ठत्’ ॥ ६ ॥

Eggeling
  1. And, again, as to why he lays down the Stomas. When Prajāpati had become relaxed (disjointed), the gods took him and went away. Vāyu, taking that (part) of him which was above the waist and below the head, kept going away from him, having become the deities and the forms of the year.

०७

विश्वास-प्रस्तुतिः

त᳘मब्रवीत्॥
(दु᳘) उ᳘प मे᳘हि प्र᳘ति म ऽएत᳘द्धेहि ये᳘न मे त्व᳘मुद᳘क्रमीरि᳘ति किं᳘ मे त᳘तो भविष्यती᳘ति त्वद्देव᳘त्यमेव᳘ म ऽएत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘द्वायुः प्र᳘त्यदधात्॥

मूलम् - श्रीधरादि

त᳘मब्रवीत्॥
(दु᳘) उ᳘प मे᳘हि प्र᳘ति म ऽएत᳘द्धेहि ये᳘न मे त्व᳘मुद᳘क्रमीरि᳘ति किं᳘ मे त᳘तो भविष्यती᳘ति त्वद्देव᳘त्यमेव᳘ म ऽएत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘द्वायुः प्र᳘त्यदधात्॥

मूलम् - Weber

त᳘मब्रवीत्॥
उ᳘प मे᳘हि प्र᳘ति म एत᳘द्धेहि ये᳘न मे त्व᳘मुद᳘क्रमीरि᳘ति कि᳘म् मे त᳘तो भविष्यती᳘ति त्वद्देव᳘त्यमेव᳘ म एत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘द्वायुः प्र᳘त्यपधात्॥

मूलम् - विस्वरम्

तमब्रवीत्- उप मेहि, प्रति म ऽएतद्धेहि- येन मे त्वमुदक्रमीरिति । किं मे ततो भविष्यतीति । त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति । तथेति । तदस्मिन्नेतद्वायुः प्रत्यदधात् ॥ ७ ॥

सायणः

अथ ‘तम्’ वायुं प्रजापतिः ‘अब्रवीत्’ ‘मा’ मां ‘उपेहि’ ‘मे’ मदीयम् ‘एतत्’ त्वया ऽपहृतमङ्गं ‘प्रतिधेहि’ प्रतिधानं कुरु । ‘येन’ ‘मे’ अङ्गेन सह ‘त्वमुदक्रमीः’ गतवानसि । ‘किं मे ततो भविष्यति’ इति पृष्टः प्रजापतिः ‘मे आत्मनः’ शरीरस्य ‘सम्बन्धि एतद्’ अङ्गं ‘त्वद्देवत्यमेव भविष्यति’ इति- अब्रवीत् । अथासौ वायुः ‘तथेति’ उक्त्वा तदङ्गं ‘प्रत्यदधात्’ ॥ ७ ॥

Eggeling
  1. He spake to him, ‘Come to me and restore to me that wherewith thou hast gone from me!’–‘What will therefrom accrue unto me?’–‘That part of my self shall be sacred unto thee!’–‘So be it!’ thus Vāyu restored that unto him.

०८

विश्वास-प्रस्तुतिः

(त्त) तद्या᳘ ऽएता᳘ ऽअष्टा᳘दश प्रथमाः᳘॥
(ऽ) एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देता ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैता᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता ऽअत्रो᳘पदधाति स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ ऽउ वै᳘ व्वायु᳘र्व्वायु᳘मे᳘वैतदु᳘पदधाति॥

मूलम् - श्रीधरादि

(त्त) तद्या᳘ ऽएता᳘ ऽअष्टा᳘दश प्रथमाः᳘॥
(ऽ) एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देता ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैता᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता ऽअत्रो᳘पदधाति स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘ ऽउ वै᳘ व्वायु᳘र्व्वायु᳘मे᳘वैतदु᳘पदधाति॥

मूलम् - Weber

तद्या᳘ एता᳘ अष्टा᳘दश प्रथमाः᳟॥
एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देता अ᳘त्रोपद᳘धाति य᳘देॗवास्यैता᳘ आत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता अत्रो᳘पदधाति स्तो᳘मानु᳘पदधाति प्राणा वै स्तो᳘माः प्राणा᳘उ वै᳘ वायु᳘र्वायु᳘मेॗवैतदु᳘पदधाति॥

मूलम् - विस्वरम्

तद् या एता अष्टादश प्रथमाः- एतदस्य तदात्मनः । तद्यदेता अत्रोपदधाति- यदेवास्यैता आत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेता अत्रोपदधाति । स्तोमानुपदधाति । प्राणा वै स्तोमाः । प्राणा उ वै वायुः । वायुमेवैतदुपदधाति ॥ ८ ॥

सायणः

प्रतिहितो भागः क इति तं दर्शयति- तद्या एता अष्टादश प्रथमा एतदस्य तदात्मन इति । प्रथममुपधेया ‘अष्टादश’- सङ्ख्याकाः ‘याः’ स्तोमेष्टकाः “आशुस्त्रिवृत्" इत्यादिमन्त्रोपधेयाः सन्ति एतदेव तदङ्गमित्यर्थः । ‘तस्मादेताः’ इत्यादि स्पष्टम् । स्तोमानुपदधाति प्राणा वा इत्यादिना- वायुत्वेनैकैका स्तूयते ॥ ८ ॥

Eggeling
  1. Those eighteen (bricks 4) which there are at

first, are that very (part) of his (Prajāpati’s) body; and when he places them in this (layer), he thereby restores to him that (part) of his body which these (form): therefore he places them in this (layer). He lays down the Stomas: the stomas being the vital airs, and Vāyu (the wind) also being the vital airs, it is Vāyu he thus lays down.

०९

विश्वास-प्रस्तुतिः

स᳘ पुर᳘स्तादु᳘पदधाति॥
(त्या) आशु᳘स्त्रिवृदि᳘ति य᳘ ऽएव᳘ त्रिवृत्स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘हाशुरि᳘त्येष हि स्तो᳘मानामा᳘शिष्ठो᳘ ऽथो व्वायुर्व्वा᳘ ऽआशु᳘स्त्रिवृत्स᳘ ऽएषु᳘ त्रिषु᳘ लोके᳘षु व्वर्तते तद्यत्तमा᳘हाशुरि᳘त्येष हि स᳘र्व्वेषां भूता᳘नामा᳘शिष्ठो व्वायु᳘र्ह भूत्वा᳘ पुर᳘स्तात्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

स᳘ पुर᳘स्तादु᳘पदधाति॥
(त्या) आशु᳘स्त्रिवृदि᳘ति य᳘ ऽएव᳘ त्रिवृत्स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘हाशुरि᳘त्येष हि स्तो᳘मानामा᳘शिष्ठो᳘ ऽथो व्वायुर्व्वा᳘ ऽआशु᳘स्त्रिवृत्स᳘ ऽएषु᳘ त्रिषु᳘ लोके᳘षु व्वर्तते तद्यत्तमा᳘हाशुरि᳘त्येष हि स᳘र्व्वेषां भूता᳘नामा᳘शिष्ठो व्वायु᳘र्ह भूत्वा᳘ पुर᳘स्तात्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

स᳘ पुर᳘स्तादु᳘पदधाति॥
आशु᳘स्त्रिवृदि᳘ति य᳘ एव᳘ त्रिवृत्स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘हाशुरि᳘त्येष हि स्तो᳘मानामा᳘शिष्ठो᳘ ऽथो वायुर्वा᳘ आशु᳘स्त्रिवृत्स᳘ एषु᳘ त्रिषु᳘ लोके᳘षु वर्तते तद्यत्तमा᳘हाशुरि᳘त्येष हि स᳘र्वेषाम् भूता᳘नामा᳘शिष्ठो वायु᳘र्ह भूत्वा पुर᳘स्तात्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

स पुरस्तादुपदधाति । (१) “आशुस्त्रिवृत्”- इति । य एव त्रिवृत्स्तोमस्तं तदुपदधाति । तद्यत्तमाह- आशुरिति । एष हि स्तोमानामाशिष्ठः । अथो वायुर्वा आशुस्त्रिवृत् । स एषु त्रिषु लोकेषु वर्तते । तद्यत्तमाह- आशुरिति- एष हि सर्वेषां भूतानामाशिष्ठः । वायुर्ह भूत्वा पुरस्तात्तस्थौ । तदेव तद्रूपमुपदधाति ॥ ९ ॥

सायणः

उपधानमनूद्य मन्त्रान्विधाय व्याचष्टे- स पुरस्तादुपदधात्याशुस्त्रिवृदित्यादिना 5 । ‘आशुस्त्रिवृत्’- ‘इति’- मन्त्रसाध्येष्टकोपधानेन ‘य एव’ त्रिवृदाख्यः “तिसृभ्यो हिङ्करोति" इत्याद्युक्तलक्षणस्तोमो ऽस्ति तमेव तत्रोपदधाति । एवं पञ्चदशादिष्वपि व्याख्येयम् । त्रिवृतो यद्विशेषणमाशुरिति तद्व्याचष्टे- तद्यत्तमाहेति । ‘तत्’ तत्र ‘यत्’ येनाभिप्रायेण ‘तम्’ त्रिवृत्स्तोमम् ‘आशुरिति’ ‘आह’ मन्त्रः, सो ऽभिप्रायो ऽभिधीयत इत्यर्थः । ‘एष हि’ त्रिवृत्स्तोमः खलु ‘स्तोमानाम्’ पञ्चदशादीनां मध्ये ‘आशिष्ठः’ अतिशयेनाशुः ऋचां नवकरूपत्वेन शीघ्रं समाप्तेः । प्रकारान्तरेण मन्त्रं व्याचष्टे- अथो वायुर्वा आशुस्त्रिवृदिति । स च त्रिषु लोकेषु वर्तमानस्त्रिवृत् । अस्तु त्रिवृद्वायुस्तस्याशुत्वविशेषणं कथमिति तदुपपादयति- तद्यत्तमाहेत्यादिना । अस्तु व्युत्पत्त्या वायुराशुस्त्रिवृत्, तथापि तस्य चितिसम्बन्धः कथमिति तत्राह- वायुर्ह भूत्वा पुरस्तात्तस्थाविति । पुरा त्रिवृत्स्तोमो ‘वायुर्भूत्वा’ पूर्वस्यां दिशि देवानां चयनानुष्ठानसमये ‘तस्थौ’ स्थितवान् । ‘तदेव’ वायुरूपं पुरस्ताद्देशे ‘उपदधाति’ यजमानः ॥ ९ ॥

Eggeling
  1. In front he lays down one, with (Vāj. S. XIV, 23), ‘The swift one, the Trivr̥t!’ he therewith lays down that hymn-form which is trivr̥t (threefold, or thrice-three-versed). And as to why he calls it ’the swift one,’ it is because this, indeed, is the swiftest of stomas. But the swift threefold one, doubtless, is Vāyu: he exists in these three worlds. And as to why he calls him ’the swift one,’ it is because he is the swiftest of all beings: being (or, in the form of) Vāyu it remained in front,–it is that form he now lays down,

१०

विश्वास-प्रस्तुतिः

भान्तः᳘ पञ्चदश ऽइ᳘ति॥
य᳘ ऽएव᳘ पञ्चदश स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह भान्त ऽइ᳘ति व्व᳘ज्रो वै᳘ भान्तो व्व᳘ज्रः पञ्चदशो᳘ ऽथो चन्द्र᳘मा वै᳘ भान्तः᳘ पञ्चदशः स᳘ च प᳘ञ्चदशा᳘हान्यापूर्य᳘ते प᳘ञ्चदशा᳘पक्षीयते तद्यत्तमा᳘ह भान्त ऽइ᳘ति भा᳘ति हि᳘ चन्द्र᳘माश्चन्द्र᳘मा ह भूत्वा᳘ दक्षिणत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

भान्तः᳘ पञ्चदश ऽइ᳘ति॥
य᳘ ऽएव᳘ पञ्चदश स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह भान्त ऽइ᳘ति व्व᳘ज्रो वै᳘ भान्तो व्व᳘ज्रः पञ्चदशो᳘ ऽथो चन्द्र᳘मा वै᳘ भान्तः᳘ पञ्चदशः स᳘ च प᳘ञ्चदशा᳘हान्यापूर्य᳘ते प᳘ञ्चदशा᳘पक्षीयते तद्यत्तमा᳘ह भान्त ऽइ᳘ति भा᳘ति हि᳘ चन्द्र᳘माश्चन्द्र᳘मा ह भूत्वा᳘ दक्षिणत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

भान्तः᳘ पञ्चदश इ᳘ति॥
य᳘ एव᳘ पञ्चदश स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह भान्त इ᳘ति व᳘ज्रो वै᳘ भान्तो व᳘ज्रः पञ्चदशो᳘ ऽथो चन्द्र᳘मा वै᳘ भान्तः᳘ पञ्चदशः स᳘ च प᳘ञ्चदशा᳘हान्यापूर्य᳘ते प᳘ञ्चदशापक्षीयते तद्यत्तमा᳘ह भान्त इ᳘ति भा᳘ति हि᳘ चन्द्र᳘माश्चन्द्र᳘मा ह भूत्वा᳘ दक्षिणत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(२) “भान्तः पञ्चदशः”- इति । य एव पञ्चदश स्तोमः- तं तदुपदधाति । तद्यत्तमाह- भान्त इति- वज्रो वै भान्तः । वज्रः पञ्चदशः । अथो चन्द्रमा वै भान्तः पञ्चदशः । स च पञ्चदशाहान्यापूर्यते, पञ्चदशापक्षीयते । तद्यत्तमाह-भान्त इति । भाति हि चन्द्रमाः । चन्द्रमा ह भूत्वा दक्षिणतस्तस्थौ । तदेव तद्रूपमुपदधाति ॥ १० ॥

सायणः

दक्षिणत उपधेयद्वितीयेष्टकामन्त्रं व्याचष्टे- भान्तः पञ्चदशः इति 6 । द्वितीयामिष्टकामुपदध्यादित्यर्थः । त्रिवृत्पञ्चदशादयो वक्ष्यमाणाः । सप्तदशादिस्तोमाश्च सामब्राह्मणे, तत्सूत्रे च द्रष्टव्याः । पञ्चदशरतोमोपधानेन साक्षात्तं स्तोममेवोपदधाति । तद्यत्तमाहेति । एतत्पूर्ववद्व्याख्येयम् । ‘भान्तः’ इति पञ्चदशस्तोमविशेषणम् । विशेषणविशेष्ययोः सामानाधिकरण्यायैकार्थपरतामाह- वज्रो वै भान्तो वज्रः पञ्चदश इति । मन्त्रस्यार्थान्तरमाह- अथो चन्द्रमा वै भान्तः पञ्चदश इति । पञ्चदशस्तोमस्य यथा स्तोत्रीयागतपञ्चदशसंख्यासम्बन्धः । एवं पञ्चदशशब्दाभिधेयस्य चन्द्रमसो ऽपि पञ्चदशसंख्यायोगमाह- स च पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते इति । अयमर्थः सर्वजनदृश्यः उपचयापचयकालावच्छेदकत्वेन पञ्चदशानामह्नां सम्बन्धाच्चन्द्रः पञ्चदश इति । तथा पञ्चदशशब्दस्य चन्द्रे प्रवृत्तौ निमित्तं दर्शितं भवति । एवं भान्तशब्दस्यापि चन्द्रे प्रवृत्तिनिमित्तं दर्शयति- भाति हि चन्द्रमा इति । भाति दीप्यत इति भान्तश्चन्द्रः शिष्टं वायुवाक्यवत् । ‘दक्षिणतस्तस्थौ’ इति लिङ्गादनेन मन्त्रेण दक्षिणत उपदध्यादित्यर्थः । एवमुत्तरतः पश्चात् इत्यनयोरपि वाक्ययोर्द्रष्टव्यम् ॥ १० ॥

Eggeling
  1. [The back one 7, with], ‘The bright one 8, the Pañcadaśa!’ he therewith lays down that

hymn-form which is fifteenfold (fifteen-versed). And when he calls it ’the bright one,’ it is that the bright one is the thunderbolt, and the thunderbolt is fifteenfold. But the bright, fifteenfold one, doubtless, also is the Moon: he waxes during fifteen days, and wanes during fifteen days. And as to his calling him ’the bright one,’ the Moon indeed shines: being the Moon it remained on the right side,–it is that form he now lays down.

११

विश्वास-प्रस्तुतिः

व्योमा सप्तदश ऽइ᳘ति॥
य᳘ ऽएव᳘ सप्तदश स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह व्योमे᳘ति प्रजा᳘पतिर्व्वै᳘ व्योमा प्रजा᳘पतिः सप्तदशो᳘ ऽथो संव्वत्सरो वाव᳘ व्योमा सप्तदशस्त᳘स्य द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्तद्यत्तमा᳘ह᳘ व्योमे᳘ति᳘ व्योमा हि᳘ संव्वत्सरः᳘ संव्वत्सरो᳘ ह भू᳘त्वोत्तरत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

व्योमा सप्तदश ऽइ᳘ति॥
य᳘ ऽएव᳘ सप्तदश स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह व्योमे᳘ति प्रजा᳘पतिर्व्वै᳘ व्योमा प्रजा᳘पतिः सप्तदशो᳘ ऽथो संव्वत्सरो वाव᳘ व्योमा सप्तदशस्त᳘स्य द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्तद्यत्तमा᳘ह᳘ व्योमे᳘ति᳘ व्योमा हि᳘ संव्वत्सरः᳘ संव्वत्सरो᳘ ह भू᳘त्वोत्तरत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

व्योमा सप्तदश इ᳘ति॥
य᳘ एव᳘ सप्तदश स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह 9 व्योमे᳘ति प्रजा᳘पतिर्वैॗ व्योमा प्रजा᳘पतिः सप्तदशो᳘ ऽथो संवत्सरो वावॗ व्योमा सप्तदशस्त᳘स्य द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्तद्यत्तमा᳘हॗ व्योमे᳘तिॗ व्योमा हि᳘ संवत्सरः᳘ संवत्सरो᳘ ह भूॗत्वोत्तरत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(३) “व्योमा सप्तदशः” इति । य एव सप्तदश स्तोमः- तं तदुपदधाति । तद् यत्तमाह- व्योमेति । प्रजापतिर्वै व्योमा । प्रजापतिः सप्तदशः । अथो संवत्सरो वाव व्योमा सप्तदशः । तस्य द्वादश मासाः पञ्चर्तवः । तद् यत्तमाह- व्योमेति । व्योमा हि संवत्सरः । संवत्सरो ह भूत्वोत्तरततस्तस्थौ । तदेव तद्रूपमुपधाति ॥ ११ ॥

सायणः

उत्तरत्रोपधेयेष्टकामन्त्रः- व्योमा सप्तदश इति 6 । तत्र विशेषणविशेष्ये उभे अपि प्रजापतिमेवैकार्थवृत्तित्वप्रदर्शनाय ब्रूत इत्याह- प्रजापतिर्वै व्योमेति । विशेषेणावति सर्वमिति व्योमा 10प्रजापतिः सप्तदश इति । प्रजापतेः सप्तदशत्वं दर्शयति- द्वादश मासाः पञ्चर्तव इति ॥ ११ ॥

Eggeling
  1. [The left (north) one, with], ‘The (aerial) space, the Saptadaśa!’ he therewith lays down that hymn-form which is seventeenfold. And as to his calling it ’the space,’–the (aerial) space is Prajāpati, and the seventeenfold one is Prajāpati. But indeed the seventeenfold space also is the year: in it there are twelve months and five seasons. And as to his calling it space, the year indeed is space: being space, it remained on the left side,–it is that form he now lays down.

१२

विश्वास-प्रस्तुतिः

धरु᳘ण ऽएकविᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽए᳘वैकविᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह धरु᳘ण ऽइ᳘ति प्रतिष्ठा वै᳘ धरु᳘णः प्रति᳘ष्ठैकविᳫँ᳭शो᳘ ऽथो ऽअसौ वा᳘ ऽआदित्यो᳘ धरु᳘ण ऽएकविᳫँ᳭शस्त᳘स्य द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वे᳘वादित्यो᳘ धरु᳘ण ऽएकविᳫँ᳭शस्तद्यत्तमा᳘ह धरु᳘ण ऽइ᳘ति यदा᳘ ह्ये᳘वै᳘षो ऽस्तमेत्य᳘थेदᳫँ᳭ स᳘र्वं ध्रियत ऽआदित्यो᳘ ह भूत्वा᳘ पश्चा᳘त्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधात्य᳘थ संव्वत्सररूपाण्युपदधाति[[!!]]॥(अर्धप्रपाठकः)॥

मूलम् - श्रीधरादि

धरु᳘ण ऽएकविᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽए᳘वैकविᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह धरु᳘ण ऽइ᳘ति प्रतिष्ठा वै᳘ धरु᳘णः प्रति᳘ष्ठैकविᳫँ᳭शो᳘ ऽथो ऽअसौ वा᳘ ऽआदित्यो᳘ धरु᳘ण ऽएकविᳫँ᳭शस्त᳘स्य द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य ऽइमे᳘ लोका᳘ ऽअसा᳘वे᳘वादित्यो᳘ धरु᳘ण ऽएकविᳫँ᳭शस्तद्यत्तमा᳘ह धरु᳘ण ऽइ᳘ति यदा᳘ ह्ये᳘वै᳘षो ऽस्तमेत्य᳘थेदᳫँ᳭ स᳘र्वं ध्रियत ऽआदित्यो᳘ ह भूत्वा᳘ पश्चा᳘त्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधात्य᳘थ संव्वत्सररूपाण्युपदधाति[[!!]]॥(अर्धप्रपाठकः)॥

मूलम् - Weber

धरु᳘ण एकविंश इ᳘ति॥
य᳘ एॗवैकविंश स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह धरु᳘ण इ᳘ति प्रतिष्ठा वै᳘ धरु᳘णः प्रतिॗष्ठैकविंशो᳘ ऽथो असौ वा᳘ आदित्यो᳘ धरु᳘ण एकविंशस्त᳘स्य द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वस्त्र᳘य इमे᳘ लोका᳘ असा᳘वेॗवादित्यो᳘ धरु᳘ण एकविंशस्तद्यत्तमा᳘ह धरु᳘ण इ᳘ति यदाॗ ह्येॗवैॗषो ऽस्तमेत्य᳘थेदᳫं स᳘र्वं ध्रियत आदित्यो᳘ ह भूत्वा᳘ पश्चा᳘त्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधात्य᳘थ संवत्सररूपाण्यु᳘पदधाति॥

मूलम् - विस्वरम्

(४) “धरुण एकविंशः”- इति । य एवैकविंशः स्तोमः- तं तदुपदधाति । तद् यत्तमाह- धरुण इति । प्रतिष्ठा वै धरुणः । प्रतिष्ठैकविंशः । अथो असौ वा आदित्यो धरुण एकविंशः । तस्य द्वादश मासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावेवादित्यो धरुण एकविंशः । तद् यत्तमाह धरुण- इति । यदा ह्येवैषो ऽस्तमेति- अथेदं सर्वं ध्रियते । आदित्यो ह भूत्वा पश्चात्तस्थौ । तदेव तद्रूपमुपदधाति । अथ संवत्सररूपाण्युपदधाति ॥ १२ ॥

सायणः

पश्चादुपधेयेष्टकामन्त्रमुदाहृत्य व्याचष्टे- धरुण एकविंश इति 11 । आदित्यस्यैकविंशत्वं द्वादशमासपञ्चर्तुलोकत्रयात्मकान्पदार्थानपेक्ष्यास्यैकविंशतिसङ्ख्यापूरकत्वादित्याह- द्वादशेत्यादिना । आदित्यस्य धरुणत्वमुपपादयति-यदा ह्येवैषो ऽस्तमेत्यथेदं सर्वं ध्रियत इति । अस्तमयानन्तरं स्वस्वव्यापारस्य दृष्टिप्रसवाभावात्सर्वं निभृतं धृतमिव भवति; अतः ‘असावेवादित्यो धरुणः’ शिष्टं पूर्ववत् ॥

इत्थं चतुर्दिक्षु वाय्वादिदेवतारूपाणां चतसृणामिष्टकानामुपधानमभिधायोत्तरत्रोपधेयानां चतुर्दशानां संवत्सररूपतां प्रतिजानीते- अथ संवत्सररूपाण्युपदधातीति ॥ १२ ॥

Eggeling
  1. [The right (south) one, with], ‘The upholder, the Ekaviṁśa!’ he therewith lays down that hymn-form which is twenty-one-fold. And as to his calling it ’the upholder,’–the upholder means a foothold, and the Ekaviṁśa is a foothold. But indeed the twenty-one-fold upholder also is yonder sun: to him belong the twelve months, the five seasons, these three worlds, and yonder sun himself is the upholder, the twenty-one-fold. And as to his calling him ’the upholder,’–when he sets everything here holds its peace: being the sun, it remained at the back,–it is that form he now lays down; and the forms of the year he lays down.

१३

विश्वास-प्रस्तुतिः

प्र᳘तूर्तिरष्टादश ऽइ᳘ति॥
य᳘ ऽए᳘वाष्टादश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो सं᳘व्वत्सरो वाव प्र᳘तूर्तिरष्टादशस्त᳘स्य द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वः संव्वत्सर᳘ ऽएव प्र᳘तूर्तिरष्टादशस्तद्यत्तमा᳘ह प्र᳘तूर्तिरि᳘ति संव्वत्सरो हि स᳘र्व्वाणि भूता᳘नि प्रतिर᳘ति त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

प्र᳘तूर्तिरष्टादश ऽइ᳘ति॥
य᳘ ऽए᳘वाष्टादश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो सं᳘व्वत्सरो वाव प्र᳘तूर्तिरष्टादशस्त᳘स्य द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वः संव्वत्सर᳘ ऽएव प्र᳘तूर्तिरष्टादशस्तद्यत्तमा᳘ह प्र᳘तूर्तिरि᳘ति संव्वत्सरो हि स᳘र्व्वाणि भूता᳘नि प्रतिर᳘ति त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

प्र᳘तूर्तिरष्टादश इ᳘ति॥
य᳘ एॗवाष्टादश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो सं᳘वत्सरो वाव प्र᳘तूर्तिरष्टादशस्त᳘स्य द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वः संवत्सर᳘ एव प्र᳘तूर्तिरष्टादशस्तद्यत्तमा᳘ह प्र᳘तूर्तिरि᳘ति संवत्सरो हि स᳘र्वाणि भूता᳘नि प्रतिर᳘ति त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(५) “प्रतूर्तिरष्टादशः”- इति । य एवाष्टादशः स्तोमः- तं तदुपदधाति । अथो संवत्सरो वाव प्रतूर्तिरष्टादशः । तस्य द्वादश मासाः, पञ्चर्तवः, संवत्सर एवं प्रतूर्तिरष्टादशः । तद्यत्तमाह- प्रतूर्तिरिति । संवत्सरो हि सर्वाणि भूतानि प्रतिरति । तदेव तद्रूपमुपदधाति ॥ १३ ॥

सायणः

तानि क्रमेण दर्शयति- प्रतूर्तिरष्टादश इत्यादिना 11 । प्रजापतेः प्रतूर्तित्वमुपपादयति- संवत्सरो हि सर्वाणि भूतानि प्रतिरतीति । ‘सर्वाणि भूतानि’ उद्दिश्य तत्तदुत्पत्त्यादिनिमित्तं स्वयं ‘प्रतिरति’ प्रपूर्वस्तिरतिर्वर्धनार्थः; कलाकाष्ठादिक्रमेण वर्धत इत्यर्थः । शिष्टं पूर्ववत् ॥ १३ ॥

Eggeling
  1. ‘Speed, the Ashṭādaśa!’ he therewith lays down that hymn-form which is eighteenfold. Now,

speed, the eighteenfold one, doubtless, is the year: in it there are twelve months, five seasons, and the year itself is speed, the eighteenfold. And as to his calling it ‘speed,’ the year indeed speeds all beings: it is that form he now lays down.

१४

विश्वास-प्रस्तुतिः

त᳘पो नवदश ऽइ᳘ति॥
य᳘ ऽएव᳘ नवदश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो त᳘पो नवदशस्त᳘स्य द्वा᳘दश मा᳘साः ष᳘डृत᳘वः संव्वत्सर᳘ ऽएव त᳘पो नवदशस्तद्यत्तमा᳘ह त᳘प ऽइ᳘ति संव्वत्सरो हि स᳘र्व्वाणि भूता᳘नि त᳘पति त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

त᳘पो नवदश ऽइ᳘ति॥
य᳘ ऽएव᳘ नवदश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो त᳘पो नवदशस्त᳘स्य द्वा᳘दश मा᳘साः ष᳘डृत᳘वः संव्वत्सर᳘ ऽएव त᳘पो नवदशस्तद्यत्तमा᳘ह त᳘प ऽइ᳘ति संव्वत्सरो हि स᳘र्व्वाणि भूता᳘नि त᳘पति त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

त᳘पो नवदश इ᳘ति॥
य᳘ एव᳘ नवदश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संवत्सरो त᳘पो नवदशस्त᳘स्य द्वा᳘दश मा᳘साः ष᳘डृत᳘वः संवत्सर᳘ एव त᳘पो नवदशस्तद्यत्तमा᳘ह त᳘प इ᳘ति संवत्सरो हि स᳘र्वाणि भूता᳘नि त᳘पति त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(६) “तपो नवदशः”- इति । य एव नवदशः स्तोमः- तं तदुपदधाति । अथो संवत्सरो वाव तपो नवदशः । तस्य द्वादश मासाः, षडृतवः, संवत्सर एव तपो नवदशः । तद्यत्तमाह- तप इति । संवत्सरो हि सर्वाणि भूतानि तपति । तदेव तद्रूपमुपदधाति ॥ १४ ॥

सायणः

एवमुत्तरत्रापि त्रयोदशस्तोमेष्टकोपधानमन्त्रब्राह्मणानि व्याख्येयानि, तत्र तपो ऽभीवर्त-वर्चः-सम्भरण-योनि-गर्भ-ओजः-क्रतु-प्रतिष्ठा-ब्रघ्नस्यविष्टप-नाक-विवर्त-धर्त्रैस्त्रयोदशभिर्विशेषणैर्विशेष्याः-नवदश-सविंश-द्वाविंश-त्रयोविंश-चतुर्विंश-पञ्चविंश-त्रिणव-एकत्रिंश-त्रयस्त्रिंश-चतुस्त्रिंश-षट्त्रिंश- अष्टाचत्वारिंश-चतुष्टोमाख्यास्त्रयोदश स्तोमा एव । तत्र पूर्वपूर्वस्तोत्रेभ्यश्चतुःस्तोत्रियाधिकस्तोमश्चतुष्टोमस्तस्य क्लृप्तिप्रकारो वाय्वायने सामसूत्रे प्रदर्शितः । शिष्टास्तत्तत्संख्याकाभिः स्तोत्रियाभिर्निष्पाद्यास्तत्रैव द्रष्टव्याः । एतैः सर्वैः सविशेषणैः स्तोमैः प्रजापतिरेवाभिधीयते । तस्य तावत्सङ्ख्यापूरकत्वं मासार्धमासपञ्चषट्सप्तलोकत्रयाहोरात्राद्यपेक्षया तत्र तत्रोक्तप्रकारेण द्रष्टव्यम् । तपआदिविशेषणानां संवत्सराभिधायकत्वं योजयित्वा प्रदर्श्यते तथा हि- तपतीति ‘तप’ संवत्सरः । कथम् ? संवत्सरो हि सर्वाणि भूतानि, तेषामर्थाय ‘तपति’ सकलभौतिकपदार्थपरिपाकस्य संवत्सरकालाधीनत्वात्तत्तद्भूततपनस्य भूतार्थता । ‘संवत्सरः सर्वाणि भूतान्यभिवर्तते’ तदर्थं पुनरावर्तते इति ‘अभीवर्तः’ । अभिवर्तनस्य भूतार्थत्वं पूर्ववद्द्रष्टव्यम् । अतो भूतार्थमभिवर्तनाद् अभीवर्तः । “उपसर्गस्य घञ्यमनुष्ये बहुलम्”- (पा. सू. ६ । ३ । १२२) इति दीर्घः । यस्मात् ‘संवत्सरः सर्वेषां भूतानां’ मध्ये ‘वर्चस्वितमः’ वर्चो बलम् अतिशयेन तद्वानित्यर्थः । तत्तद्वतोरभेदाद्वर्चः संवत्सरः । यस्मात्सर्वाणि भूतानि सम्भ्रियन्ते स्वाङ्गैः सम्पूर्णैः, अतः सम्भरतीति ‘सम्भरणः’ संवत्सरः । “कालः सृजति भूतानि कालः संहरते प्रजाः” (हारीतस्मृ. ४ अ.) इति स्मरणात्सर्वभूतोत्पत्त्याश्रयत्वाद् ‘योनिः’ उच्यते । संवत्सरः कदाचित्त्रयोदशेनाधिकमासेन गर्भः, अतः ‘संवत्सरो ह त्रयोदशो मासो गर्भो भूत्वर्तून्प्रविशति’ इत्युक्तम् । यथा गर्भो जननीजठरे प्रविष्ट एवमृत्वन्तःप्रवेशाद्गर्भत्वम् । तथा ऽयमेव मासो ऽधिको भवतीति नियमाभावात् कदाचित्कस्मिंश्चिदृतावनुप्रवेशादृतून् प्रविशतीति बहुवचननिर्देशः । संवत्सरस्यौजोरूपत्वं वर्चो वद्व्याख्येयम् । ‘सर्वाणि भूतानि करोति’ इति ‘क्रतुः’ । सर्वत्र भूतशब्देन भूतविकाराः पदार्था उच्यन्ते ॥ १४-२१ ॥

Eggeling
  1. ‘Heat, the Navadaśa!’ he therewith lays down that hymn-form which is nineteenfold. But heat, the nineteenfold one, doubtless, is the year: in it there are twelve months, six seasons, and the year itself is heat, the nineteenfold. And as to his calling it ‘heat,’ the year indeed burns all beings: it is that form he now lays down.

१५

विश्वास-प्रस्तुतिः

(त्य) अभीवर्तः᳘ सविᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ सविᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वा᳘ ऽअभीवर्तः᳘ सविᳫँ᳭शस्त᳘स्य द्वा᳘दश मा᳘साः सप्त᳘ ऽर्त᳘वः संव्वत्सर᳘ ऽए᳘वाभीवर्तः᳘ सविᳫँ᳭शस्तद्यत्तमा᳘हाभीवर्त ऽइ᳘ति संव्वत्सरो हि स᳘र्व्वाणि भूता᳘न्यभिव᳘र्तते त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

(त्य) अभीवर्तः᳘ सविᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ सविᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वा᳘ ऽअभीवर्तः᳘ सविᳫँ᳭शस्त᳘स्य द्वा᳘दश मा᳘साः सप्त᳘ ऽर्त᳘वः संव्वत्सर᳘ ऽए᳘वाभीवर्तः᳘ सविᳫँ᳭शस्तद्यत्तमा᳘हाभीवर्त ऽइ᳘ति संव्वत्सरो हि स᳘र्व्वाणि भूता᳘न्यभिव᳘र्तते त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

अभीवर्तः᳘ सविंश इ᳘ति॥
य᳘ एव᳘ सविंश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संवत्सरो वा᳘ अभीवर्तः᳘ सविंशस्त᳘स्य द्वा᳘दश मा᳘साः सप्त᳘ ऽर्त᳘वः संवत्सर᳘ एॗवाभीवर्तः᳘ सविंशस्तद्यत्तमा᳘हाभीवर्त इ᳘ति संवत्सरो हि स᳘र्वाणि भूता᳘न्यभिव᳘र्तते त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(७) “अभीवर्तः सविंशः”- इति । य एव सविंशः स्तोमः- तं तदुपदधाति । अथो संवत्सरो वा अभीवर्तः सविंशः । तस्य द्वादश मासाः, सप्त ऽर्तवः, संवत्सर एवाभीवर्तः सविंशः । तद्यत्तमाह- अभीवर्त इति । संवत्सरो हि सर्वाणि भूतान्यभिवर्तते । तदेव तदूपमुपदधाति ॥ १५ ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. ‘Victorious assault, the Saviṁśa!’ he therewith lays down that hymn-form which is twentyfold. But victorious assault, the twentyfold one, doubtless, is the year: in it there are twelve months, seven seasons, and the year itself is victorious assault, the twentyfold. And as to why he calls it ‘victorious assault,’ the year indeed assails all beings: it is that form he now lays down.

१६

विश्वास-प्रस्तुतिः

व्व᳘र्चो द्वाविᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ द्वाविᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव व्व᳘र्चो द्वाविᳫँ᳭शस्त᳘स्य द्वा᳘दश मा᳘साः सप्त᳘ ऽर्त᳘वो द्वे᳘ ऽअहोरात्रे᳘ संव्वत्सर᳘ ऽएव व्व᳘र्चो द्वाविᳫँ᳭शस्तद्यत्तमा᳘ह व्व᳘र्च ऽइ᳘ति संव्वत्सरो हि स᳘र्वेषां भूता᳘नां व्वर्चस्वि᳘तमस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

व्व᳘र्चो द्वाविᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ द्वाविᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव व्व᳘र्चो द्वाविᳫँ᳭शस्त᳘स्य द्वा᳘दश मा᳘साः सप्त᳘ ऽर्त᳘वो द्वे᳘ ऽअहोरात्रे᳘ संव्वत्सर᳘ ऽएव व्व᳘र्चो द्वाविᳫँ᳭शस्तद्यत्तमा᳘ह व्व᳘र्च ऽइ᳘ति संव्वत्सरो हि स᳘र्वेषां भूता᳘नां व्वर्चस्वि᳘तमस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

व᳘र्चो द्वाविंश इ᳘ति॥
य᳘ एव᳘ द्वाविंश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संवत्सरो वाव व᳘र्चो द्वाविंशस्त᳘स्य द्वा᳘दश मा᳘साः सप्त᳘ ऽर्त᳘वो द्वे᳘ अहोरात्रे᳘ संवत्सर᳘ एव व᳘र्चो द्वाविंशस्तद्यत्तमा᳘ह व᳘र्च इ᳘ति संवत्सरो हि स᳘र्वेषाम् भूता᳘नां वर्चस्वि᳘तमस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(८) “वर्चो द्वाविंशः”- इति । य एव द्वाविंशः स्तोमः- तं तदुपदधाति । अथो संवत्सरो वाव वर्चो द्वाविंशः । तस्य द्वादश मासाः, सप्त ऽर्तवः, द्वे ऽअहोरात्रे, संवत्सर एव वर्चो द्वाविंशः । तद्यत्तमाह- वर्च इति । संवत्सरो हि सर्वेषां भूतानां वर्चस्वितमः । तदेव तद्रूपमुपदधाति ॥ १६ ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. ‘Vigour, the Dvāviṁśa!’ he therewith lays down that hymn-form which is twenty-two-fold. But vigour, the twenty-two-fold one, doubtless is the year: in it there are twelve months, seven seasons, the two, day and night, and the year itself is vigour, the twenty-two-fold. And as to why he calls it ‘vigour,’ the year is indeed the most vigorous of all existing things: it is that form he now lays down.

१७

विश्वास-प्रस्तुतिः

सम्भ᳘रणस्त्रयोविᳫँ᳭श ऽइ᳘ति॥ य᳘ ऽएव᳘ त्रयोविᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव᳘ सम्भ᳘रणस्त्रयोविᳫँ᳭सस्त᳘स्य त्र᳘योदश मा᳘साः स᳘प्त ऽर्त᳘वो[[!!]] द्वे᳘ ऽअहोरात्रे᳘ संव्वत्सर᳘ ऽएव᳘ सम्भ᳘रणस्त्रयोविᳫँ᳭शस्तद्यत्तमा᳘ह सम्भ᳘रण ऽइ᳘ति संव्वत्सरो हि स᳘र्व्वाणि भूता᳘नि स᳘म्भृतस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

सम्भ᳘रणस्त्रयोविᳫँ᳭श ऽइ᳘ति॥ य᳘ ऽएव᳘ त्रयोविᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव᳘ सम्भ᳘रणस्त्रयोविᳫँ᳭सस्त᳘स्य त्र᳘योदश मा᳘साः स᳘प्त ऽर्त᳘वो[[!!]] द्वे᳘ ऽअहोरात्रे᳘ संव्वत्सर᳘ ऽएव᳘ सम्भ᳘रणस्त्रयोविᳫँ᳭शस्तद्यत्तमा᳘ह सम्भ᳘रण ऽइ᳘ति संव्वत्सरो हि स᳘र्व्वाणि भूता᳘नि स᳘म्भृतस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

सम्भ᳘रणस्त्रयोविंश इ᳘ति य᳘ एव᳘ त्रयोविंश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संवत्सरो वाव᳘ सम्भ᳘रणस्त्रयोविंसस्त᳘स्य त्र᳘योदश मा᳘सा सप्त᳘ ऽर्त᳘वो द्वे᳘ अहोरात्रे᳘ संवत्सर᳘ एव᳘ सम्भ᳘रणस्त्रयोविंशस्तद्यत्तमा᳘ह सम्भ᳘रण इ᳘ति संवत्सरो हि स᳘र्वाणि भूता᳘नि स᳘म्भृतस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(९) “सम्भरणस्त्रयोविंशः”- इति । य एव त्रयोविंशः स्तोमः- तं तदुपदधाति । अथो संवत्सरो वाव सम्भरणस्त्रयोविंशः । तस्य त्रयोदश मासाः, सप्त ऽर्तवः, द्वे ऽअहोरात्रे, संवत्सर एव सम्भरणस्त्रयोविंशः । तद्यत्तमाह- सम्भरण इति । संवत्सरो हि सर्वाणि भूतानि सम्भृतः । तदेव तद्रूपमुपदधाति ॥ १७ ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. ‘The array, the Trayoviṁśa!’ he therewith lays down that hymn-form which is twenty-three-fold. But array, the twenty-three-fold one, doubtless, means the year: in it there are thirteen months, seven seasons, the two, day and night, and the year itself is the array, the twenty-three-fold.

And as to his calling it ‘array,’ the year is indeed arrayed over all beings: it is that form he now lays down.

१८

विश्वास-प्रस्तुतिः

यो᳘निश्चतुर्विᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ चतुर्विᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव यो᳘निश्चतुर्विᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासास्तद्यत्तमा᳘ह यो᳘निरि᳘ति संव्वत्सरो हि स᳘र्व्वेषां भूता᳘नां यो᳘निस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

यो᳘निश्चतुर्विᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ चतुर्विᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव यो᳘निश्चतुर्विᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासास्तद्यत्तमा᳘ह यो᳘निरि᳘ति संव्वत्सरो हि स᳘र्व्वेषां भूता᳘नां यो᳘निस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

यो᳘निश्चतुर्विंश इ᳘ति॥
य᳘ एव᳘ चतुर्विंश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संवत्सरो वाव यो᳘निश्चतुर्विंशस्त᳘स्य च᳘तुर्विंशतिरर्धमासास्तद्यत्तमा᳘ह यो᳘निरि᳘ति संवत्सरो हि स᳘र्वेषाम् भूता᳘नां यो᳘निस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(१०) “योनिश्चतुर्विंशः”- इति । य एव चतुर्विंशः स्तोमः- तं तदुपदधाति । अथो संवत्सरो वाव योनिश्चतुर्विंशः । तस्य चतुर्विंशतिरर्धमासाः । तद्यत्तमाह-योनिरिति । संवत्सरो हि सर्वेषां भूतानां योनिः । तदेव तद्रूपमुपदधाति ॥ १८ ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. ‘The womb, the Caturviṁśa!’ he therewith lays down that hymn-form which is twenty-four-fold. But the womb, the twenty-four-fold one, doubtless, is the year: in it there are twenty-four half-months. And as to his calling it ’the womb,’ the year is indeed the womb of all beings: it is that form he now lays down.

१९

विश्वास-प्रस्तुतिः

ग᳘र्भाः पञ्चविᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ पञ्चविᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव ग᳘र्भाः पञ्चविᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासाः᳘ संव्वत्सर᳘ ऽएव ग᳘र्भाः पञ्चविᳫँ᳭शस्तद्यत्तमाह ग᳘र्भा ऽइ᳘ति संव्वत्सरो᳘ ह त्रयोदशो मा᳘सो ग᳘र्भो भूत्व ऽर्तून्प्र᳘विशति[[!!]] त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

ग᳘र्भाः पञ्चविᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ पञ्चविᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव ग᳘र्भाः पञ्चविᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासाः᳘ संव्वत्सर᳘ ऽएव ग᳘र्भाः पञ्चविᳫँ᳭शस्तद्यत्तमाह ग᳘र्भा ऽइ᳘ति संव्वत्सरो᳘ ह त्रयोदशो मा᳘सो ग᳘र्भो भूत्व ऽर्तून्प्र᳘विशति[[!!]] त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

ग᳘र्भाः पञ्चविंश इ᳘ति॥
य᳘ एव᳘ पञ्चविंश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संवत्सरो वाव ग᳘र्भाः पञ्चविंशस्त᳘स्य च᳘तुर्विंशतिरर्धमासाः᳘ संवत्सर᳘ एव ग᳘र्भाः पञ्चविंशस्तद्यत्तमाह ग᳘र्भा इ᳘ति संवत्सरो᳘ ह त्रयोदशो मा᳘सो ग᳘र्भो भूत्व᳘ ऽर्तून्प्र᳘विशति त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(११) “गर्भाः पञ्चविंशः"- इति । य एव पञ्चविंशः स्तोमः- तं तदुपदधाति । अथो संवत्सरो वाव गर्भाः पञ्चविंशः । तस्य चतुर्विंशतिरर्धमासाः । संवत्सर एव गर्भाः पञ्चविंशः । तद्यत्तमाह- गर्भा इति । संवत्सरो ह त्रयोदशो मासो गर्भो भूत्व ऽर्तून्प्रविशति । तदेव तद्रूपमुपदधाति ॥ १९ ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. ‘The embryos, the Pañcaviṁśa!’ he therewith lays down that hymn-form which is twenty-five-fold. But the embryos, the twenty-five-fold one, doubtless; is the year: in it there are twenty-four half-months, and the year itself is the embryos, the twenty-five-fold. And as to his calling it ’the embryos,’–the year, as an embryo, in the shape of the thirteenth month, enters the seasons: it is that form he now lays down.

२०

विश्वास-प्रस्तुतिः

(त्यो᳘) ओ᳘जस्त्रिणव ऽइ᳘ति॥
य᳘ ऽएव᳘ त्रिणव स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमाहौ᳘ज ऽइ᳘ति व्व᳘ज्रो वा ऽओ᳘जो व्व᳘ज्रस्त्रिणवो᳘ ऽथो संव्वत्सरो वा ऽओ᳘जस्त्रिणवस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासा द्वे᳘ ऽअहोरात्रे᳘ संव्वत्सर᳘ ऽएवौ᳘जस्त्रिणवस्तद्यत्तमाहौ᳘ज ऽइ᳘ति संव्वत्सरो हि स᳘र्व्वेषां भूता᳘नामोजस्वि᳘तमस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

(त्यो᳘) ओ᳘जस्त्रिणव ऽइ᳘ति॥
य᳘ ऽएव᳘ त्रिणव स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमाहौ᳘ज ऽइ᳘ति व्व᳘ज्रो वा ऽओ᳘जो व्व᳘ज्रस्त्रिणवो᳘ ऽथो संव्वत्सरो वा ऽओ᳘जस्त्रिणवस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासा द्वे᳘ ऽअहोरात्रे᳘ संव्वत्सर᳘ ऽएवौ᳘जस्त्रिणवस्तद्यत्तमाहौ᳘ज ऽइ᳘ति संव्वत्सरो हि स᳘र्व्वेषां भूता᳘नामोजस्वि᳘तमस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

ओ᳘जस्त्रिणव इ᳘ति॥
य᳘ एव᳘ त्रिणव स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमाहौ᳘ज इ᳘ति व्!ज्रो वा ओ᳘जो व᳘ज्रस्त्रिणवो᳘ ऽथो संवत्सरो वा ओ᳘जस्त्रिणवस्त᳘स्य च᳘तुर्विंशतिरर्धमासा द्वे᳘ अहोरात्रे᳘ संवत्सर᳘ एवौ᳘जस्त्रिणवस्तद्यत्तमाहौ᳘ज इ᳘ति संवत्सरो हि स᳘र्वेषाम् भूता᳘नामोजस्वि᳘तमस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(१२) “ओजस्त्रिणवः”- इति । य एव त्रिणवः स्तोमः- तं तदुपदधाति । तद्यत्तमाह- ओज इति । वज्रो वा ऽओजः । वज्रस्त्रिणवः । अथो संवत्सरो वा ऽओजस्त्रिणवः । तस्य चतुर्विंशतिरर्धमासाः, दे ऽअहोरात्रे, संवत्सर एवौजस्त्रिणवः । तद्यत्तमाह- ओज इति । संवत्सरो हि सर्वेषां भूतानामोजस्वितमः । तदेव तद्रूपमुपदधाति ॥ २० ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. ‘Strength, the Triṇava!’ he therewith lays down that hymn-form which is thrice ninefold. And as to his calling it ‘strength,’–strength (ojas) means the thunderbolt (vajra), and the Triṇava is a thunderbolt. But strength also means the year: in it there are twenty-four half-months, the two, day and night, and the year itself is strength, the thrice-ninefold. And as to his calling it ‘strength,’ the year indeed is the strength of all beings: it is that form he now lays down.

२१

विश्वास-प्रस्तुतिः

क्र᳘तुरेकत्रिᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽए᳘वैकत्रिᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव क्र᳘तुरेकत्रिᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासाः ष᳘दृत᳘वः संव्वत्सर᳘ ऽएव क्र᳘तुरेकत्रिᳫँ᳭शस्तद्यत्तमा᳘ह क्र᳘तुरि᳘ति संव्वत्सरो हि स᳘र्व्वाणि भूता᳘नि करो᳘ति त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

क्र᳘तुरेकत्रिᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽए᳘वैकत्रिᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव क्र᳘तुरेकत्रिᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासाः ष᳘दृत᳘वः संव्वत्सर᳘ ऽएव क्र᳘तुरेकत्रिᳫँ᳭शस्तद्यत्तमा᳘ह क्र᳘तुरि᳘ति संव्वत्सरो हि स᳘र्व्वाणि भूता᳘नि करो᳘ति त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

क्र᳘तुरेकत्रिंश इ᳘ति॥
य᳘ एॗवैकत्रिंश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संवत्सरो वाव क्र᳘तुरेकत्रिंशस्त᳘स्य च᳘तुर्विंशतिरर्धमासाः ष᳘दृत᳘वः संवत्सर᳘ एव क्र᳘तुरेकत्रिंशस्तद्यत्तमा᳘ह क्र᳘तुरि᳘ति संवत्सरो हि स᳘र्वाणि भूता᳘नि करो᳘ति त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(१३) “क्रतुरेकत्रिंशः"- इति । य एवैकत्रिंशः स्तोमः- तं तदुपदधाति । अथो संवत्सरो वाव क्रतुरेकत्रिंशः । तस्य चतुर्विंशतिरर्धमासाः, षडृतवः, संवत्सर एव क्रतुरेकत्रिंशः । तद्यत्तमाह- क्रतुरिति । संवत्सरो हि सर्वाणि भूतानि करोति । तदेव तद्रूपमुपदधाति ॥ २१ ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. ‘Design, the Ekatriṁśa!’ he therewith lays down that hymn-form which is thirty-one-fold. But design, the thirty-one-fold, doubtless, means the year: in it there are twenty-four half-months, six seasons, and the year itself is design, the thirty-one-fold. And

as to his calling it ‘design,’ the year indeed designs (makes, forms) all beings: it is that form he now lays down.

२२

विश्वास-प्रस्तुतिः

प्रतिष्ठा᳘ त्रयस्त्रिᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ त्रयस्त्रिᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह प्रतिष्ठे᳘ति प्रतिष्ठा हि᳘ त्रयस्त्रिᳫँ᳭शो᳘ ऽथो संव्वत्सरो वाव᳘ प्रतिष्ठा᳘ त्रयस्त्रिᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासाः ष᳘दृत᳘वो द्वे᳘ ऽअहोरात्रे᳘ संव्वत्सर᳘ ऽएव᳘ प्रतिष्ठा᳘ त्रयस्त्रिᳫँ᳭शस्तद्यत्तमा᳘ह प्रतिष्ठे᳘ति संव्वत्सरो हि स᳘र्व्वेषां भूता᳘नां प्रतिष्ठा त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

प्रतिष्ठा᳘ त्रयस्त्रिᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ त्रयस्त्रिᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह प्रतिष्ठे᳘ति प्रतिष्ठा हि᳘ त्रयस्त्रिᳫँ᳭शो᳘ ऽथो संव्वत्सरो वाव᳘ प्रतिष्ठा᳘ त्रयस्त्रिᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासाः ष᳘दृत᳘वो द्वे᳘ ऽअहोरात्रे᳘ संव्वत्सर᳘ ऽएव᳘ प्रतिष्ठा᳘ त्रयस्त्रिᳫँ᳭शस्तद्यत्तमा᳘ह प्रतिष्ठे᳘ति संव्वत्सरो हि स᳘र्व्वेषां भूता᳘नां प्रतिष्ठा त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

प्रतिष्ठा᳘ त्रयस्त्रिंश इ᳘ति॥
य᳘ एव᳘ त्रयस्त्रिंश स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह प्रतिष्ठे᳘ति प्रतिष्ठा हि᳘ त्रयस्त्रिंशो᳘ ऽथो संवत्सरो वाव᳘ प्रतिष्ठा᳘ त्रयस्त्रिंशस्त᳘स्य च᳘तुर्विंशतिरर्धमासाः ष᳘दृत᳘वो द्वे᳘ अहोरात्रे᳘ संवत्सर᳘ एव᳘ प्रतिष्ठा᳘ त्रयस्त्रिंशस्तद्यत्तमा᳘ह प्रतिष्ठे᳘ति संवत्सरो हि स᳘र्वेषाम् भूता᳘नाम् प्रतिष्ठा त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(१४) “प्रतिष्ठा त्रयस्त्रिंशः”- इति । य एव त्रयस्त्रिंशः स्तोमः- तं तदुपदधाति । तद्यत्तमाह- प्रतिष्ठेति । प्रतिष्ठा हि त्रयस्त्रिंशः । अथो सम्वत्सरो वाव प्रतिष्ठा त्रयस्त्रिंशः । तस्य चतुर्विंशतिरर्धमासाः, षड्ऋतवः, द्वे अहोरात्रे, संवत्सर एव प्रतिष्ठा त्रयस्त्रिंशः । तद्यत्तमाह- प्रतिष्ठेति । सम्वत्सरो हि सर्वेषां भूतानां प्रतिष्ठा । तदेव तद्रूपमुपदधाति ॥ २२ ॥

सायणः

सर्वभूतानां प्रतिष्ठास्पदत्वात् ‘संवत्सरः प्रतिष्ठा’ ॥ २२ ॥

Eggeling
  1. ‘The foundation, the Trayastriṁśa!’ he therewith lays down that hymn-form which is thirty-three-fold. And as to why he calls it ’the foundation,’ the thirty-three-fold is indeed a foundation. But indeed the foundation, the thirty-three-fold, also is the year: in it there are twenty-four half-months, six seasons, the two, day and night, and the year itself is the foundation, the thirty-three-fold. And as to his calling it ’the foundation,’ the year is indeed the foundation of all beings: it is that form he now lays down.

२३

विश्वास-प्रस्तुतिः

ब्रध्न᳘स्य व्विष्ट᳘पं चतुस्त्रिᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ चतुस्त्रिᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव᳘ ब्रध्न᳘स्य व्विष्ट᳘पं चतुस्त्रिᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासाः[[!!]] सप्त᳘ ऽर्त᳘वो द्वे᳘ ऽअहोरात्रे᳘ संव्वत्सर᳘ ऽएव᳘ ब्रध्न᳘स्य व्विष्ट᳘पं चतुस्त्रिᳫँ᳭शस्तद्यत्तमा᳘ह ब्रध्न᳘स्य व्विष्ट᳘पमि᳘ति स्वा᳘राज्यं वै᳘ ब्रध्न᳘स्य व्विष्ट᳘पᳫँ᳭ स्वा᳘राज्यं चतुस्त्रिᳫँ᳭शस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

ब्रध्न᳘स्य व्विष्ट᳘पं चतुस्त्रिᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ चतुस्त्रिᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव᳘ ब्रध्न᳘स्य व्विष्ट᳘पं चतुस्त्रिᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासाः[[!!]] सप्त᳘ ऽर्त᳘वो द्वे᳘ ऽअहोरात्रे᳘ संव्वत्सर᳘ ऽएव᳘ ब्रध्न᳘स्य व्विष्ट᳘पं चतुस्त्रिᳫँ᳭शस्तद्यत्तमा᳘ह ब्रध्न᳘स्य व्विष्ट᳘पमि᳘ति स्वा᳘राज्यं वै᳘ ब्रध्न᳘स्य व्विष्ट᳘पᳫँ᳭ स्वा᳘राज्यं चतुस्त्रिᳫँ᳭शस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

ब्रध्न᳘स्य विष्ट᳘पं चतुस्त्रिंश इ᳘ति॥
य᳘ एत᳘ चतुस्त्रिंश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संवत्सरो वाव᳘ ब्रध्न᳘स्य विष्ट᳘पं चतुस्त्रिंशस्त᳘स्य च᳘तुर्विंशतिरर्धमासाः᳘ [^wbr_2] सप्त᳘ ऽर्त᳘वो द्वे᳘ अहोरात्रे᳘ संवत्सर᳘ एव᳘ ब्रध्न᳘स्य विष्ट᳘पं चतुस्त्रिंशस्तद्यत्तमा᳘ह ब्रध्न᳘स्य विष्ट᳘पमि᳘ति स्वा᳘राज्यं वै᳘ ब्रध्न᳘स्य विष्ट᳘पᳫं स्वा᳘राज्य चतुस्त्रिंशस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(१५) “ब्रध्नस्य, विष्टपं चतुस्त्रिंशः”- इति । य एव चतुस्त्रिंशः स्तोमः- तं तदुपदधाति । अथो सम्वत्सरो वाव ब्रध्नस्य विष्टपं चतुस्त्रिंशः । तस्य चतुर्विंशतिरर्धमासाः, सप्त ऽर्तवः, द्वे अहोरात्रे, सम्वत्सर एव ब्रध्नस्य विष्टपं चतुस्त्रिंशः । तद्यत्तमाह- ब्रध्नस्य विष्टपमिति । स्वाराज्यं वै ब्रध्नस्य विष्टपम् । स्वाराज्यं चतुस्त्रिंशः । तदेव तद्रूपमुपदधाति ॥ २३ ॥

सायणः

चतुस्त्रिंशस्तोमात्मकस्य संवत्सरस्य ब्रध्नस्य विष्टपत्वं प्रतिपादयति- स्वाराज्यं वै ब्रध्नस्य विष्टपं स्वाराज्यं चतुस्त्रिंश इति । ‘ब्रध्न’ आदित्यस्तस्य विष्टपं स्थानं ‘ब्रध्नस्य विष्टपम्’ तत् ‘स्वाराज्यम्’ स्वयमेव राजते अनन्यपरतन्त्रतयेति स्वराट् तस्य भावः स्वाराज्यम् । सूर्यलोके हि तथाविधस्वाराज्योपपत्तेरत्र लोक एव स्वाराज्यमिति व्यपदिश्यते ॥ २३ ॥

Eggeling
  1. ‘The range of the ruddy one, the Catustriṁśa!’ he therewith lays down that hymn-form which is thirty-four-fold. But the range of the ruddy one (the sun), the thirty-four-fold one, doubtless, is the year: in it there are twenty-four half-months, seven seasons, the two, day and night, and the year itself is the range of the ruddy one, the thirty-four-fold. And as to his calling it ’the range of the ruddy one,’ the range of the ruddy one, doubtless, means supreme sway, and the thirty-four-fold one means supreme sway: it is that form he now lays down.

२४

विश्वास-प्रस्तुतिः

ना᳘कः षट्त्रिᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ षट्त्रिᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव ना᳘कः षट्त्रिᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासा द्वा᳘दश मा᳘सास्तद्यत्तमा᳘ह ना᳘क ऽइ᳘ति न हि त᳘त्र गता᳘य क᳘स्मैचना᳘कं भ᳘वत्य᳘थो संव्वत्सरो वाव ना᳘कः संव्वत्सरः᳘ स्वर्गो᳘ लोकस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

ना᳘कः षट्त्रिᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽएव᳘ षट्त्रिᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव ना᳘कः षट्त्रिᳫँ᳭शस्त᳘स्य च᳘तुर्विᳫँ᳭शतिरर्धमासा द्वा᳘दश मा᳘सास्तद्यत्तमा᳘ह ना᳘क ऽइ᳘ति न हि त᳘त्र गता᳘य क᳘स्मैचना᳘कं भ᳘वत्य᳘थो संव्वत्सरो वाव ना᳘कः संव्वत्सरः᳘ स्वर्गो᳘ लोकस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

ना᳘कः षट्त्रिंश इ᳘ति॥
य᳘ एव᳘ षट्त्रिंश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संवत्सरो वाव ना᳘कः षट्त्रिंशस्त᳘स्य च᳘तुर्विंशतिरर्धमासा द्वा᳘दश मा᳘सास्तद्यत्तमा᳘ह ना᳘क इ᳘ति न हि त᳘त्र गता᳘य क᳘स्मै चना᳘कम् भ᳘वत्य᳘थो संवत्सरो वाव ना᳘कः संवत्सरः᳘ स्वर्गो᳘ लोकस्त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(१६) “नाकः षट्त्रिंशः”- इति । य एव षट्त्रिंशः स्तोमः- तं तदुपदधाति । अथो सम्वत्सरो वाव नाकः षट्त्रिंशः । तस्य चतुर्विंशतिरर्धमासाः, द्वादश मासाः । तद्यत्तमाह- नाक इति । न हि तत्र गताय कस्मैचनाकं भवति । अथो सम्वत्सरो वाव नाकः । सम्वत्सरः स्वर्गो लोकः । तदेव तद्रूपमुपदधाति ॥ २४ ॥

सायणः

नाकशब्देन षट्त्रिंशस्तोमो विशेष्यते । कथं स नाक इति तदुपपादयति- न हि तत्र गताय कस्मैचनाकं भवति इति । तत्र स्वर्गं प्राप्ताय कस्मैचन पुरुषाय अकं दुःखं न खलु भवतीत्यतो न विद्यते अकमत्रेति ‘नाकः’ । ‘हि’- शब्दो “न वा अमुं लोकं जग्मुषे किंचनाकम्” इत्यादिप्रसिद्धिद्योतनार्थः । “षडुदङ्ङेति हि मासान्मासेभ्यः संवत्सरं संवत्सरादादित्यम्” इति च च्छन्दोगश्रुतेः । सुकृतिभिः प्राप्तव्यत्वात् ‘संवत्सरो वाव नाकः’ अत एव सः ‘स्वर्गो लोकः’ ॥ २४ ॥

Eggeling
  1. ‘The firmament, the Shaṭtriṁśa!’ he therewith lays down that hymn-form which is thirty-six-fold. But the firmament, the thirty-six-fold one, doubtless, is the year: in it there are twenty-four half-moons, and twelve months. And as to why he calls it ’the firmament’ (nākam), it is because there is no pain (na akam) for whosoever goes there. And the firmament indeed is the year, the heavenly world is the year: it is that form he now lays down.

२५

विश्वास-प्रस्तुतिः

व्विव᳘र्तो ऽष्टाचत्वारिᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽए᳘वाष्टाचत्वरिᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव᳘ व्विव᳘र्तो ऽष्टाचत्वारिᳫँ᳭शस्त᳘स्य ष᳘ड्विᳫँ᳭शतिरर्धमासास्त्र᳘योदश मा᳘साः सप्त᳘ ऽर्त᳘वो द्वे᳘ ऽअहोरात्रे तद्यत्तमा᳘ह व्विव᳘र्त ऽइ᳘ति संव्वत्सराद्धि स᳘र्व्वाणि भूता᳘नि व्विव᳘र्तन्ते त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

व्विव᳘र्तो ऽष्टाचत्वारिᳫँ᳭श ऽइ᳘ति॥
य᳘ ऽए᳘वाष्टाचत्वरिᳫँ᳭श स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संव्वत्सरो वाव᳘ व्विव᳘र्तो ऽष्टाचत्वारिᳫँ᳭शस्त᳘स्य ष᳘ड्विᳫँ᳭शतिरर्धमासास्त्र᳘योदश मा᳘साः सप्त᳘ ऽर्त᳘वो द्वे᳘ ऽअहोरात्रे तद्यत्तमा᳘ह व्विव᳘र्त ऽइ᳘ति संव्वत्सराद्धि स᳘र्व्वाणि भूता᳘नि व्विव᳘र्तन्ते त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

विवॗर्तो ऽष्टाचत्वारिंश इ᳘ति॥
य᳘ एॗवाष्टाचत्वरिंश स्तो᳘मस्तं तदु᳘पदधात्य᳘थो संवत्सरो वाव᳘ विवॗर्तो ऽष्टाचत्वारिंशस्त᳘स्य ष᳘ड्विंशतिरर्धमासास्त्र᳘योदश मा᳘साः सप्त᳘ ऽर्त᳘वो द्वे᳘ अहोरात्रे तद्यत्तमा᳘ह विवर्त इ᳘ति संवत्सराद्धि स᳘र्वाणि भूता᳘नि विव᳘र्तन्ते त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

(१७) “विवर्तो ऽष्टाचत्वारिंशः”- इति । य एवाष्टाचत्वारिंशः स्तोमः- तं तदुपदधाति । अथ सम्वत्सरो वाव विवर्तो ऽष्टाचत्वारिंशः । तस्य षड्विंशतिरर्धमासाः, त्रयोदश मासाः, सप्त ऽर्तवः, द्वे ऽअहोरात्रे । तद्यत्तमाह- विवर्त इति । सम्वत्सराद्धि सर्वाणि भूतानि विवर्तन्ते । तदेव तद्रूपमुपदधाति ॥ २५ ॥

सायणः

विवर्त इति । एतस्य संवत्सरवाचकत्वमुपपादयति- ‘संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते’ इति । सर्वभूतविवर्तनायतनत्वाद् ‘विवर्तः संवत्सरः’ ॥ २५ ॥

Eggeling
  1. ‘The revolving sphere, the Ashṭācatvāriṁśa!’ he therewith lays down that hymn-form which is forty-eight-fold. But the revolving sphere, the forty-eight-fold, doubtless, is the year: in it there are twenty-six half-months, thirteen months, seven seasons, and the two, day and night. And as to his calling it ’the revolving sphere,’ from the year all creatures indeed are evolved: it is that form he now lays down.

२६

विश्वास-प्रस्तुतिः

धर्त्रं᳘ चतुष्टोम ऽइ᳘ति॥
य᳘ ऽएव᳘ चतुष्टोम स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह धर्त्रमि᳘ति प्रतिष्ठा वै᳘ धर्त्रं᳘ प्रतिष्ठा᳘ चतुष्टोमो᳘ ऽथो व्वायुर्वाव᳘ धर्त्रं᳘ चतुष्टोमः स ऽआभि᳘श्चतसृ᳘भिर्दिग्भिः᳘ स्तुते तद्यत्तमा᳘ह धर्त्रमि᳘ति प्रतिष्ठा वै᳘ धर्त्रं᳘ व्वायु᳘रु स᳘र्व्वेषां भूता᳘नां प्रतिष्ठा त᳘देव त᳘द्रूपमु᳘पदधाति स वै᳘ व्वायु᳘मेव᳘ प्रथम᳘मुपद᳘धाति व्वायु᳘मुत्तमं᳘ व्वायु᳘नैव त᳘देता᳘नि स᳘र्व्वाणि भूता᳘न्युभय᳘तः प᳘रिगृह्णाति॥

मूलम् - श्रीधरादि

धर्त्रं᳘ चतुष्टोम ऽइ᳘ति॥
य᳘ ऽएव᳘ चतुष्टोम स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह धर्त्रमि᳘ति प्रतिष्ठा वै᳘ धर्त्रं᳘ प्रतिष्ठा᳘ चतुष्टोमो᳘ ऽथो व्वायुर्वाव᳘ धर्त्रं᳘ चतुष्टोमः स ऽआभि᳘श्चतसृ᳘भिर्दिग्भिः᳘ स्तुते तद्यत्तमा᳘ह धर्त्रमि᳘ति प्रतिष्ठा वै᳘ धर्त्रं᳘ व्वायु᳘रु स᳘र्व्वेषां भूता᳘नां प्रतिष्ठा त᳘देव त᳘द्रूपमु᳘पदधाति स वै᳘ व्वायु᳘मेव᳘ प्रथम᳘मुपद᳘धाति व्वायु᳘मुत्तमं᳘ व्वायु᳘नैव त᳘देता᳘नि स᳘र्व्वाणि भूता᳘न्युभय᳘तः प᳘रिगृह्णाति॥

मूलम् - Weber

धर्त्रं᳘ चतुष्टोम इ᳘ति॥
य᳘ एव᳘ चतुष्टोम स्तो᳘मस्तं तदु᳘पदधाति तद्यत्तमा᳘ह धर्त्रमि᳘ति प्रतिष्ठा वै᳘ धर्त्र᳘म् प्रतिष्ठा᳘ चतुष्टोमो᳘ ऽथो वायुर्वाव᳘ धर्त्रं᳘ चतुष्टोमः स आभि᳘श्चतसृ᳘भिर्दिग्भि᳘ स्तुते तद्यत्तमा᳘ह धर्त्रमि᳘ति प्रतिष्ठा वै᳘ धर्त्रं᳘ वायु᳘रु स᳘र्वेषाम् भूता᳘नाम् प्रतिष्ठा त᳘देव त᳘द्रूपमु᳘पदधाति स वै᳘ वायु᳘मेव᳘ प्रथम᳘मुपद᳘धाति वायु᳘मुत्तमं᳘ वायु᳘नैव त᳘देता᳘नि स᳘र्वाणि भूता᳘न्युभय᳘तः प᳘रिगृह्णाति॥

मूलम् - विस्वरम्

(१८) “धर्त्रं चतुष्टोमः”- (वा. सं. १४ । २३) इति । य एव चतुष्टोमः स्तोमः । तं तदुपदधाति । तद्यत्तमाह- धर्त्रमिति । प्रतिष्ठा वै धर्त्रम् । प्रतिष्ठा चतुष्टोमः । अथो वायुर्वाव धर्त्रं चतुष्टोमः । स आभिश्चतसृभिर्दिग्भिः स्तुते । तद्यत्तमाह- धर्त्रमिति । प्रतिष्ठा वै धर्त्रम् । वायुरु सर्वेषां भूतानां प्रतिष्ठा । तदेव तद्रूपमुपदधाति । स वै वायुमेव प्रथममुपदधाति, वायुमुत्तमम् । वायुनैव तदेतानि सर्वाणि भूतान्युभयतः परिगृह्णाति ॥ २६ ॥

सायणः

** धर्त्रं चतुष्टोम** इति । स च चरमेष्टकोपधानमन्त्रः । उक्तं चतुष्टोमस्वरूपम् (अत्रैव १४ क. भाष्ये) । धर्त्रचतुष्टोमावुभावपि प्रतिष्ठात्मना स्तौति- प्रतिष्ठा वै धर्त्रं प्रतिष्ठा चतुष्टोम इति । यत् ‘धर्त्रम्’ धारकं वस्तु तस्य सर्वस्याप्याश्रय इति धर्मशब्दवाच्यस्य संवत्सरस्य प्रतिष्ठात्मकता । चतुष्टोमस्यापि चतुःसङ्ख्यायोगात्पादचतुष्टयोपेतमिव, इति प्रतिष्ठारूपत्वम् । प्रकारान्तरेण व्याचष्टे- अथो वायुर्वाव धर्त्रं चतुष्टोम इति । वायोश्चतुष्टोमशब्दवाच्यत्वमाह- स आभिश्चतसृभिर्दिग्भिः स्तुत इति । वायोश्चतुर्दिङ्मध्ये सशब्दं सञ्चारात् ‘चतसृभिर्दिग्भिः स्तुते’ स्तूयते इत्युपचर्यते । यकारलोपश्छान्दसः । अतश्चतसृभिः स्तूयमानत्वाच्चतुष्टोमः । वायुपक्षे ऽपि धर्त्रशब्दस्य सङ्गतार्थतामाह- प्रतिष्ठा वै धर्त्रमिति । यत् ‘धर्त्रम्’ सा ‘प्रतिष्ठा’ इत्येतत्पृथिव्यादौ दृष्टम् । ‘वायुः’ अपि ‘सर्वेषां भूतानां प्रतिष्ठा’ प्राणरूपत्वेन धारकत्वात् । एवं स्तोमविशेषणत्वपक्षे ऽपि तपआदिशब्दा यथायोगं द्रष्टव्याः । शिष्टं त्रिवृदादिवाक्यवद्व्याख्येयम् । आद्यन्तस्तोमेष्टकयोर्वायुरूपतां स्तौति- स वै वायुमेव प्रथममित्यादिना ॥ २६ ॥

Eggeling
  1. ‘The stay, the Catushṭoma!’ he therewith lays down the chant of praise consisting of four stomas 12. And as to his calling it ’the stay,’–stay means support, and the Catushṭoma is a support. But the stay, the Catushṭoma, doubtless, is Vāyu (the wind), for he sings from all those four quarters. And as to his calling him ’the stay,’–stay means support; and the wind indeed is the support of all beings: it is that form he now lays down. The wind he places first and last: by the wind he thus encloses all these beings on both sides.

२७

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएताः᳘॥
(ऽ) अष्टा᳘दशे᳘ष्टका ऽउ᳘पदधाति। तौ द्वौ᳘ त्रिवृ᳘तौ प्राणो वै᳘ त्रिवृ᳘द्वायु᳘रु प्राणो᳘ व्वायु᳘रेषा चि᳘तिः॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः᳘॥
(ऽ) अष्टा᳘दशे᳘ष्टका ऽउ᳘पदधाति। तौ द्वौ᳘ त्रिवृ᳘तौ प्राणो वै᳘ त्रिवृ᳘द्वायु᳘रु प्राणो᳘ व्वायु᳘रेषा चि᳘तिः॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
अष्टा᳘दशे᳘ष्टका उ᳘पदधाति तौ द्वौ᳘ त्रिवृ᳘तौ प्राणो वै᳘ त्रिवृ᳘द्वायु᳘रु प्राणो᳘ वायु᳘रेषा चि᳘तिः॥

मूलम् - विस्वरम्

ता वा ऽएता ऽअष्टादशेष्टका उपदधाति । तौ द्वौ त्रिवृतौ । प्राणो वै त्रिवृत् । वायुरु प्राणः । वायुरेषा चितिः ॥ २७ ॥

सायणः

उक्तामष्टादशसंख्यां त्रिवृत्स्तोमद्वयसंपत्त्या स्तौति- ता वा एता अष्टादशेष्टका उपदधाति तौ द्वौ त्रिवृताविति । अष्टादशसंख्यया निष्पाद्यौ ‘तौ द्वौ त्रिवृतौ’ भवतः एकस्य त्रिवृत्स्तोमस्य ऋचां नवकत्वादष्टादशसंख्यया द्वौ स्तोमौ सम्पद्येते, स च ‘त्रिवृत्प्राणः’ प्राण उदानो व्यान इति त्रित्वात् ‘सप्त शीर्षण्या द्वाववाञ्चौ’ इति नवसंख्यायोगाद्वा । स च ‘प्राणो वायुः’ एव, “एषा चतुर्थी चितिः” इति प्रागुक्तम् । अतस्तादृक्त्रिवृद्द्वयरूपत्वादिष्टकागताष्टादशसंख्या प्रशस्ता ॥ २७ ॥

Eggeling
  1. These, then, are eighteen bricks he lays down; this makes two Trivr̥ts,–the Trivr̥t being breath, and breath being wind, this layer is Vāyu.

२८

विश्वास-प्रस्तुतिः

(र्य᳘) य᳘द्वे᳘वाष्टा᳘दश॥
(शा) अष्टादशो वै᳘ संव्वत्सरो द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वः संव्वत्सर᳘ ऽएव᳘ प्रजा᳘पतिरष्टादशः᳘ प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘त्कृत्वो᳘पदधाति॥

मूलम् - श्रीधरादि

(र्य᳘) य᳘द्वे᳘वाष्टा᳘दश॥
(शा) अष्टादशो वै᳘ संव्वत्सरो द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वः संव्वत्सर᳘ ऽएव᳘ प्रजा᳘पतिरष्टादशः᳘ प्रजा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘त्कृत्वो᳘पदधाति॥

मूलम् - Weber

य᳘द्वेॗवाष्टा᳘दश॥
अष्टादशो वै᳘ संवत्सरो द्वा᳘दश मा᳘साः प᳘ञ्च ऽर्त᳘वः संवत्सर᳘ एव᳘ प्रजा᳘पतिरष्टादशः᳘ प्र्जा᳘पतिरग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘त्कृत्वो᳘पदधाति॥

मूलम् - विस्वरम्

यद्वेवाष्टादश । अष्टादशो वै सम्वत्सरः- द्वादश मासाः, पञ्च ऽर्तवः, संवत्सर एव प्रजापतिरष्टादशः । प्रजापतिरग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तत्कृत्वोपदधाति ॥ २८ ॥

सायणः

प्रकारान्तरेण स्तौति- यद्वेवाष्टादशाष्टादशो वैः संवत्सर इत्यादिना । यावानग्निरिति । ‘अग्निः’ प्रजापतिः संवत्सरद्वारा ‘यावान्’ यावत्प्रमाणः द्वादश मासाः षड्ऋतव इत्याद्यष्टादशसंख्याप्रमाण इत्यर्थः । तस्यैव व्याख्यानम्- यावत्यस्य मात्रेति । ‘तावत्तत्कृत्वा’ अग्निमात्रासमं कृत्वा ‘उपदधाति’ ॥ २८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमे काण्डे चतुर्थे ऽध्याये प्रथमं ब्राह्मणम् ॥ (८-४-१) ॥

Eggeling
  1. And as to why there are eighteen,–the year is eighteenfold: twelve months and six seasons. And Prajāpati indeed is the year, Prajāpati is eighteenfold: as great as Agni is, as great as is his measure, so great he makes it when he lays it down.

  1. 59:1 This refers to the first eighteen bricks of the fourth layer; but as the names of the bricks (ishṭakā, f.) are invariably of the feminine gender, it is doubtful whether stoma (m.), in this case, is meant as the designation of these bricks, or merely as their symbolical analogon. In the former case, one would rather, from the analogy of other bricks, expect some such term as ‘stomyā.’ To the first four of them Mahīdhara, on Vāj. S. XIV, 23, applies the epithet mr̥tyumohinī, or ‘confounders of death.’ ↩︎

  2. 60:1 See VI, 1, 1, 1; VII, 2, 3, 5. ↩︎

  3. 60:2 See VI, 2, 3, 7. 8. ↩︎

  4. 60:3 These eighteen bricks, representing the Stomas, or hymn-forms, are laid down in the following order. At each end of the spine (running from west to east) one brick, of the size of the shank (from knee to ankle), is placed, with its line-marks running from west to east; the eastern one being placed north, and the western one south, of the spine. Thereupon an ordinary brick, a foot square, is placed at the southern end of the ‘cross-spine,’ so as to lie on the spine (though not apparently exactly in the middle, but so that only one-fourth of the brick lies on one side of the spine) with its line-marks running from south to north; and a second brick of the same size is placed on the north, but so as to leave the full space of another such brick between it and the northern edge of the altar. Behind (west of) the front brick, fourteen half-foot bricks are then laid down, in a row from north to south, seven on each side of the spine. ↩︎

  5. उत्तरां पूर्वयोराशुस्त्रिवृदिति । का. श्रौ. सू. । १७ । २११ । ↩︎

  6. दक्षिणां दक्षिणयोर्भांतः पंचदश इति । का. श्रौ. सू. १७ । २१३ । ↩︎ ↩︎

  7. 61:1 The formulas of the first four of these (stoma) bricks are not given here (in paragraphs 9-12) in the order in which the bricks are actually laid down, viz. E. W. S. N., but in the order E. S. N. W.; cp. Kātyāy. Śrautas. XVII, 10, 6-9. For a symbolic explanation of this change of order see VIII, 4, 4, 1 seq. ↩︎

  8. 61:2 Or, perhaps, ’the angry one.’ The author of the Brāhmaṇa, however, evidently connects ‘bhānta’ with the root ‘bhā,’ to shine. ↩︎

  9. तद्यत्तमा᳘ह A2! B. ↩︎

  10. विपूर्वादवतेर्व्याप्त्यर्थात् “सर्वधातुभ्यो मनिम्” इति (पा. सू. उणा. ४ । १४८) उणादिसूत्रेण मनिन्प्रत्यय ज्वरत्वरस्रिव्यविमवामुपधायाश्च" (पा. सू. ६ । ४ । २०) इत्यूठि च (पा० सू० ६ । १ । ८७) गुणः । ↩︎

  11. दक्षिणामपरयोर्धरुण एकविँश इति । का. श्रौ. सू. १७ । २१२ । ↩︎ ↩︎

  12. 66:1 For particulars on the Catushṭoma, see note on XIII, 1, 3, 4. ↩︎