०१

विश्वास-प्रस्तुतिः

अ᳘थ व्वा᳘लखिल्या ऽउ᳘पदधाति॥
प्राणा वै व्वा᳘लखिल्याः प्राणा᳘ने᳘वैतदु᳘पदधाति ता यद्वा᳘लखिल्या ना᳘म यद्वा᳘ ऽउर्व᳘रयोर᳘सम्भिन्नं भ᳘वति खिल ऽइ᳘ति वै तदा᳘चक्षते व्वालमात्रा᳘दु हेमे᳘ प्राणा ऽअ᳘सम्भिन्नास्ते य᳘द्वालसात्राद᳘सम्भिन्नास्त᳘स्माद्वा᳘लखिल्याः॥

मूलम् - श्रीधरादि

अ᳘थ व्वा᳘लखिल्या ऽउ᳘पदधाति॥
प्राणा वै व्वा᳘लखिल्याः प्राणा᳘ने᳘वैतदु᳘पदधाति ता यद्वा᳘लखिल्या ना᳘म यद्वा᳘ ऽउर्व᳘रयोर᳘सम्भिन्नं भ᳘वति खिल ऽइ᳘ति वै तदा᳘चक्षते व्वालमात्रा᳘दु हेमे᳘ प्राणा ऽअ᳘सम्भिन्नास्ते य᳘द्वालसात्राद᳘सम्भिन्नास्त᳘स्माद्वा᳘लखिल्याः॥

मूलम् - Weber

अ᳘थ वा᳘लखिल्या उ᳘पदधाति॥
प्राणा वै वा᳘लखिल्याः प्राणा᳘नेॗवैतदु᳘पदधाति ता यद्वा᳘लखिल्या नाम यद्वा᳘ उर्व᳘रयोर᳘सम्भिन्नम् भ᳘वति खिल इ᳘ति वै तदा᳘चक्षते वालमात्रा᳘दु हेमे᳘ प्राणा अ᳘सम्भिन्नास्ते य᳘द्वालसात्राद᳘सम्भिन्नास्त᳘स्माद्वा᳘लखिल्याः॥

मूलम् - विस्वरम्

अथ चतुर्दशवालखिल्येष्टकोपधानम् ।

अथ वालखिल्या उपदधाति । प्राणा वै वालखिल्याः । प्राणानेवैतदुपदधाति । ता यद्वालखिल्या नाम । यद्वा ऽउर्वरयोरसम्भिन्नं भवति- खिल इति वै तदाचक्षते । वालमात्रादु हेमे प्राणा असम्भिन्नाः । ते यद्वालमात्रादसम्भिन्नाः- तस्माद्वालखिल्याः ॥ १ ॥

सायणः

वालखिल्येष्टका विधाय स्तौति- अथ वालखिल्या उपदधाति प्राणा वै वालखिल्या इति । प्राणत्वमुपरिष्टाद्वक्ष्यते । प्रतिज्ञापूर्वकं नाम, निर्ब्रूते- ता यद्वालखिल्या नामेति । तत्प्रकारः प्रदर्श्यत इति शेषः । खिलस्वरूपं तावदाह- यद्वा इति । यदेव खलु क्षेत्रम् । ‘उर्वरयोः’ द्वयोः सर्वसस्याढ्ययोः क्षेत्रयोः ‘असम्भिन्नम्’ अस्पृष्टम् ‘भवति’ । स्वयमसस्यं भवतीत्यर्थः । ‘तत्’ क्षेत्रं ‘खिलः’ इत्याचक्षते । प्रकृते कथं तत्राह- वालमात्राद्विति । ‘इमे’ प्राणाः ‘वालमात्राद्’ व्यवधानाद् ‘असम्भिन्नाः’ अत एव खिलाः ‘ते’ । खिला एव खिल्याः, यस्मादेवं तस्मात् प्राणा वालखिल्याः देहे स्थितानां प्राणानां वालमात्रेणापि भेदाभावे देहेन साङ्कर्य्यं स्यात्, प्राणानां वालमात्रनाडीव्यवधानं तु शास्त्रसिद्धम् ॥ १ ॥

Eggeling
  1. He then lays down the Vālakhilyās;–the Vālakhilyās, doubtless, are the vital airs: it is the vital airs he thus lays (into Agni). And as to why they are called Vālakhilyās,–what (unploughed piece of ground lies) between two cultivated fields is called

‘khila;’ and these (channels of the) vital airs 1 are separated from each other by the width of a horsehair (vāla), and because they are separated from each other by the width of a horse-hair, they (the bricks) are called Vālakhilyās.

०२

विश्वास-प्रस्तुतिः

स वै᳘ सप्त᳘ पुर᳘स्तादुपद᳘धाति॥
सप्त᳘ पश्चात्तद्याः᳘ सप्त᳘ पुर᳘स्तादुपद᳘धाति य᳘ ऽए᳘वेमे᳘ सप्त᳘ पुर᳘स्तात्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

स वै᳘ सप्त᳘ पुर᳘स्तादुपद᳘धाति॥
सप्त᳘ पश्चात्तद्याः᳘ सप्त᳘ पुर᳘स्तादुपद᳘धाति य᳘ ऽए᳘वेमे᳘ सप्त᳘ पुर᳘स्तात्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

स वै᳘ सप्त᳘ पुर᳘स्तादुपद᳘धाति॥
सप्त᳘ पश्चात्तद्याः᳘ सप्त᳘ पुर᳘स्तादुपद᳘धाति य᳘ एॗवेमे᳘ सप्त᳘ पुर᳘स्तात्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

स वै सप्त पुरस्तादुपदधाति । सप्त पश्चात् । तद्याः सप्त पुरस्तादुपदधाति- य ऽएवेमे सप्त पुरस्तात्प्राणास्तानस्मिन्नेतदधाति ॥ २ ॥

सायणः

ताः ‘पुरस्तात्’ पश्चाच्च सप्त सप्तोपदध्यात् 2 । पुरस्तादुपधेयेष्टकासप्तकं प्राणात्मना स्तौति- तद्याः सप्तेति । ‘अस्मिन्’ शरीरे । स्पष्टमन्यत् ॥ २॥

Eggeling
  1. He places seven in front, and seven at the back. When he places seven in front, he thereby restores to him those seven (organs of the) vital airs here in front.

०३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ याः᳘ सप्त᳘ पश्चा᳘त्॥
(दे) एषा᳘मे᳘वैत᳘त्प्राणा᳘नामेता᳘न्प्राणा᳘न्प्रतिप्रती᳘न्करोति त᳘स्माद्य᳘देभिर᳘न्नम᳘त्ति त᳘देतैर᳘त्येति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ याः᳘ सप्त᳘ पश्चा᳘त्॥
(दे) एषा᳘मे᳘वैत᳘त्प्राणा᳘नामेता᳘न्प्राणा᳘न्प्रतिप्रती᳘न्करोति त᳘स्माद्य᳘देभिर᳘न्नम᳘त्ति त᳘देतैर᳘त्येति॥

मूलम् - Weber

अ᳘थ याः᳘ सप्त᳘ पश्चा᳘त्॥
एषा᳘मेॗवैत᳘त्प्राणा᳘नामेता᳘न्प्राणा᳘न्प्रती᳘न्करोति त᳘स्माद्य᳘देभिर᳘न्नम᳘त्ति त᳘देतैर᳘त्येति॥

मूलम् - विस्वरम्

अथ याः सप्त पश्चात् । एषामेवैतत्प्राणानामेतान्प्राणान्प्रतिप्रतीन्करोति । तस्माद्यदेभिरन्नमत्ति- तदेतैरत्येति ॥ ३ ॥

सायणः

तत्पश्चाद्भागे च ‘सप्त’ उपदध्यात् । ‘एषामेव’ पुरस्तादुपधीयमानेष्टकालक्षणसप्तप्राणानामेव ‘एतत्’ एतेन पश्चादुपधानेन ‘एतान्’ अधोवर्तिनः ‘प्राणान्’ ‘प्रतिप्रतीन्’ प्रतिनिधिरूपान् ‘करोति’ । अथवा ‘प्रतिप्रतीन्’ प्रतिकूलव्यापारवतः करोति । तेषामूर्ध्वमुखव्यापारः, एषां त्वधोमुख इति प्रातिकूल्यमेव दर्शयति- तस्माद्यदेभिरन्नमत्ति तदेतैरत्येतीति । ‘एभिः’ पुरस्ताद्वर्तमानैर्भक्षितम् ‘अन्नम्’ ‘एतैः’ अधोवर्तमानैः ‘अत्येति’ देहान्मलादिरूपेणातिक्रामति, निःसारयतीत्यर्थः । यद्यप्यूर्ध्वप्राणेष्वेकस्यैवात्तृवम्, तथापीतरेषां षण्णां तदनुकूलव्यापारवत्त्वादत्तृत्वमुपचर्यते । एवमधस्तात्प्राणानामप्यन्नापसारकत्वम् ॥ ३ ॥

Eggeling
  1. And those seven which (he places) behind he thereby makes the counter-breathings to those (first breathings); and hence by means of (the channels of) these breathings he passes over the food which he eats with those (other) breathings.

०४

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ सप्त᳘ पुर᳘स्तादुपद᳘धाति॥
सप्त वा᳘ ऽइमे᳘ पुर᳘स्तात्प्राणा᳘श्चत्वा᳘रि दोर्बाहवा᳘णि शि᳘रो ग्रीवा य᳘दूर्ध्वं ना᳘भेस्त᳘त्सप्तमम᳘ङ्गे ऽङ्गे हि᳘ प्राण᳘ ऽएते वै᳘ सप्त᳘ पुर᳘स्तात्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ सप्त᳘ पुर᳘स्तादुपद᳘धाति॥
सप्त वा᳘ ऽइमे᳘ पुर᳘स्तात्प्राणा᳘श्चत्वा᳘रि दोर्बाहवा᳘णि शि᳘रो ग्रीवा य᳘दूर्ध्वं ना᳘भेस्त᳘त्सप्तमम᳘ङ्गे ऽङ्गे हि᳘ प्राण᳘ ऽएते वै᳘ सप्त᳘ पुर᳘स्तात्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

य᳘द्वेव᳘ सप्त᳘ पुर᳘स्तादुपद᳘धाति॥
सप्त वा᳘ इमे᳘ पुर᳘स्तात्प्राणा᳘श्चत्वा᳘रि दोर्बाहवा᳘णि शि᳘रो ग्रीवा य᳘दूर्ध्वं ना᳘भेस्त᳘त्सप्तमम᳘ङ्गे ऽङ्गे हि᳘ प्राण᳘ एते वै᳘ सप्त᳘ पुर᳘स्तात्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

यद्वेव सप्त पुरस्तादुपदधाति । सप्त वा ऽइमे पुरस्तात्प्राणाः- चत्वारि दोर्बाहवाणि, शिरः, ग्रीवा, यदूर्ध्वं नाभेः-स्तत्सप्तमम् । अङ्गे ऽङ्गे हि प्राणः । एते वै सप्त पुरस्तात्प्राणाः- तानस्मिन्नेतद्दधाति ॥ ४ ॥

सायणः

इत्थं प्राणात्मना पुरस्तात्पश्चाच्चोपधेयेष्टकाः प्रशस्येदानीं प्राणशब्देन विवक्षितमभिदधत्प्रकारान्तरेण स्तौति- यद्वेव सप्त पुरस्तादित्यादिना । के ते ? पुरस्तात्प्राणा इति तान् दर्शयति- चत्वारि दोर्बाहवाणीति । दोर्द्वयं बाहुद्वयं चेति चत्वार्यङ्गानि, मध्यसन्धेरुपरिभागो दोः, अधोभागो बाहुः, चत्वारि दोर्बाहवाणि, शिरो ग्रीवाचेति द्वे अङ्गे, ‘नाभेरूर्ध्वं, यदेकं ‘तत्सप्तमम्’ । सर्वाणि मिलत्वा पुरस्तात्सप्त प्राणाः । नन्वेतान्यङ्गानि भवन्ति कथमेषां प्राणत्वमिति, ? तत्राह- अङ्गे ऽङ्गे हि प्राण इति । प्रत्यक्षं प्राणाभावे तु तत्तदङ्गचेष्टैव नोपपद्यते । एते वा इत्यादि स्पष्टमेव ॥ ४ ॥

Eggeling
  1. And, again, as to why he places seven in front,–there are seven (channels of the) vital airs here in the front part (of the animal) 3–the four upper and lower parts of the fore-feet, the head, the neck, and what is above the navel that is the sixth, for in each limb there is a vital air: this makes seven vital airs here in front; it is them he thus lays into him (Agni-Prajāpati).

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ याः᳘ सप्त᳘ पश्चा᳘त्॥
(त्स) सप्त वा᳘ ऽइमे᳘ पश्चा᳘त्प्राणा᳘श्चत्वा᳘र्यूर्वष्ठीवा᳘नि द्वै᳘ प्रतिष्ठे यद᳘वाङ्ना᳘भेस्त᳘त्सप्तमम᳘ङ्गे ऽङ्गे हि᳘ प्राण᳘ ऽएते वै᳘ सप्त᳘ पश्चा᳘त्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ याः᳘ सप्त᳘ पश्चा᳘त्॥
(त्स) सप्त वा᳘ ऽइमे᳘ पश्चा᳘त्प्राणा᳘श्चत्वा᳘र्यूर्वष्ठीवा᳘नि द्वै᳘ प्रतिष्ठे यद᳘वाङ्ना᳘भेस्त᳘त्सप्तमम᳘ङ्गे ऽङ्गे हि᳘ प्राण᳘ ऽएते वै᳘ सप्त᳘ पश्चा᳘त्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थ याः᳘ सप्त᳘ पश्चा᳘त्॥
सप्त वा᳘ इमे᳘ पश्चा᳘त्प्राणा᳘श्चत्वा᳘र्यूर्वष्ठीवा᳘नि द्वै᳘ प्रतिष्ठे 4 यद᳘वाङ्ना᳘भेस्त᳘त्सप्तमम᳘ङ्गे ऽङ्गे हि᳘ प्राण एते वै᳘ सप्त᳘ पश्चा᳘त्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथ याः सप्त पश्चात्- सप्त वा ऽइमे पश्चात्प्राणाः- चत्वार्यूर्वष्ठीवानि, द्वे प्रतिष्ठे, यदवाङ्नाभेस्तत्सप्तमम् । अङ्गे ऽङ्गे हि प्राणः । एते वै सप्त पश्चात्प्राणाः- तानस्मिन्नेतदधाति ॥ ५ ॥

सायणः

अथ याः सप्त पश्चादित्यादि- एवमेव व्याख्येयम् । पादस्य मध्यसन्धेरुपरिभाग ऊरुः, अधोभागो ऽष्ठीवशब्दवाच्यः, द्वे प्रतिष्ठे पादौ नाभेरधो ऽङ्गं सप्तमं स्पष्टमन्यत् ॥ ५ ॥

Eggeling
  1. And as to what seven (bricks) he places behind,–there are seven vital airs here in the back part–the four thighs and knee-bones, the two feet, and what is below the navel that is the seventh, for in each limb there is a vital air: this makes seven vital airs here at the back; it is them he thus lays into him.

०६

विश्वास-प्रस्तुतिः

मू᳘र्द्धा ऽसि रा᳘ड्॥
(ड्ध्रु᳘) ध्रु᳘वा ऽसि धरु᳘णा ध᳘र्त्र्यसि ध᳘रणी य᳘न्त्री रा᳘ड्य᳘न्त्र्यसि[[!!]] य᳘मनी ध्रु᳘वा ऽसि ध᳘रित्री᳘त्येता᳘ने᳘वास्मिन्नेत᳘द् ध्रुवा᳘न्प्राणा᳘न्यच्छति॥

मूलम् - श्रीधरादि

मू᳘र्द्धा ऽसि रा᳘ड्॥
(ड्ध्रु᳘) ध्रु᳘वा ऽसि धरु᳘णा ध᳘र्त्र्यसि ध᳘रणी य᳘न्त्री रा᳘ड्य᳘न्त्र्यसि[[!!]] य᳘मनी ध्रु᳘वा ऽसि ध᳘रित्री᳘त्येता᳘ने᳘वास्मिन्नेत᳘द् ध्रुवा᳘न्प्राणा᳘न्यच्छति॥

मूलम् - Weber

मूॗर्धासि रा᳘ट्॥
ध्रुॗवासि धरु᳘णा धर्त्र्य᳘सि ध᳘रणी य᳘न्त्री रा᳘ड्यन्त्र्य᳘सि 5 य᳘मनी ध्रुॗवासि ध᳘रित्री᳘त्येता᳘नेॗवास्मिन्नेत᳘द्ध्रुवा᳘न्प्राणा᳘न्यछति॥

मूलम् - विस्वरम्

“मूर्धा ऽसि राड् ध्रुवा ऽसि धरुणा धर्त्र्यसि धरणी” “यन्त्री राड् यन्त्र्यसि यमनी ध्रुवा ऽसि धरित्री”- (वा० सं १४ । २१ । २२) इति । एतानेवास्मिन्नेतद्ध्रुवान्प्राणान्यच्छति ॥ ६ ॥

सायणः

पुरस्तात्पश्चाच्चोपधेयानां मध्ये त्रीस्त्रीँन्मन्त्रानुदाहृत्य सङ्गृह्य तात्पर्यमाह- मूर्द्धा ऽसीत्यादिना । उत्तरत्र मूर्द्धादीनां त्रयाणां भूरादिलोकत्रयरूपेण स्तूयमानत्वान्मूर्द्धादिभिः शब्दैर्भूरादिलोका विवक्ष्यन्ते । हे इष्टके ! त्वं मूर्द्धा ऽसि मूर्द्धवदुत्कृष्टभूर्लोकरूपा ऽसि । मूर्द्धत्वं सर्ववस्त्वाश्रयत्वात् । तथा ‘राट्’ राजमाना ऽसि । हे द्वितीयेष्टके ! त्वं ‘ध्रुवा’ । उभयतो लोकसद्भावाद्ध्रुवो ऽन्तरिक्षलोकंस्तद्रूपा ‘असि’ । सैव विशेष्यते- ‘धरुणा’ सर्वस्य पक्ष्यादेरपि धारिका । हे तृतीयेष्टके ! त्वं ‘धर्त्र्यसि’ धरणी चासि । त एते त्रयो मन्त्राः । “आयुषे त्वा” “वर्चसे स्वा” “कृष्यै त्वा” “क्षेमाय त्वा” इति चत्वार आम्नास्यन्ते; ते तु स्पष्टार्थाः । ताम्पृथगुदाहृत्य व्याख्यास्यति । तत्र ‘यन्त्री राट्’- इति पश्चादुपधेयानां प्रथमो मन्त्रः, एतेषां त्रयाणां स्वर्गादिक्रमणसाधनत्वेन स्तूयमानत्वादिष्टकाः स्वर्गादिरूपेण स्तूयते- हे प्रथमेष्टके ! त्वं ‘यन्त्री’ सर्वस्य नियमयित्री ‘राट्’ राजमाना, उक्तलक्षणस्वर्गरूपा ऽसीत्यर्थः । हे द्वितीयेष्टके ! त्वं ‘यमनी’ विशेषेण नियन्तृरूपा ‘यन्त्री’ उक्तलक्षणान्तरिक्षरूपा ऽसीत्यर्थः । हे तृतीयेष्टके ! त्वं ‘ध्रुवा’ अविचलिता ‘धरित्री’ सर्वस्य धारिका उक्तलक्षणपृथिवीरूपा ऽसि । अग्रिमष्टकोपधानमन्त्राश्चत्वारः- “इषे त्वा” “ऊर्जे त्वा” “रय्ये त्वा” “पोषाय त्वा”- इत्येत उपरिष्टादाम्नास्यन्ते; ते स्पष्टार्थाः । निर्दिष्टानां षण्मन्त्राणां तात्पर्यमाह- एतानेवास्मिन्नेतद्ध्रुवान्प्राणान्यच्छतीति । एषु मन्त्रेषु ध्रुवसंशब्दनात् ‘एतानेव ध्रुवान्’ लोकान् ध्रुवप्राणात्मकान्कृत्वा ‘अस्मिन्’ प्रजापतिशरीरात्मके चितिस्वरूपे एतेन मूर्द्धादिमन्त्रसाध्येष्टकोपधानेन ‘यच्छति’ स्थापयतीत्यर्थः ॥ ६ ॥

Eggeling
  1. [He lays them down, with, Vāj. S. XIV, 21,22], ‘The head thou art, the ruler! steady thou

art, steadfast! a holder thou art, a hold!’–‘A guider, a ruler! a guider thou art, a guide! steady thou art, a steadier!’ he truly bestows steady vital airs unto him.

०७

विश्वास-प्रस्तुतिः

य᳘द्वेव व्वा᳘लखिल्या ऽउपद᳘धाति॥
(त्ये) एतद्वै᳘ देवा व्वा᳘लखिल्याभिरे᳘वेमाल्ँ᳘लोकान्त्स᳘मयुरित᳘श्चोर्ध्वा᳘नमु᳘तश्चार्व्वा᳘चस्त᳘थै᳘वैतद्य᳘जमानो व्वा᳘लखिल्याभिरे᳘वेमाल्ँ᳘लोकान्त्सं᳘यातीत᳘श्चोर्ध्वा᳘नमु᳘तश्चार्व्वा᳘चः॥

मूलम् - श्रीधरादि

य᳘द्वेव व्वा᳘लखिल्या ऽउपद᳘धाति॥
(त्ये) एतद्वै᳘ देवा व्वा᳘लखिल्याभिरे᳘वेमाल्ँ᳘लोकान्त्स᳘मयुरित᳘श्चोर्ध्वा᳘नमु᳘तश्चार्व्वा᳘चस्त᳘थै᳘वैतद्य᳘जमानो व्वा᳘लखिल्याभिरे᳘वेमाल्ँ᳘लोकान्त्सं᳘यातीत᳘श्चोर्ध्वा᳘नमु᳘तश्चार्व्वा᳘चः॥

मूलम् - Weber

य᳘द्वेव वा᳘लखिल्या उपद᳘धाति॥
एतद्वै᳘ देवा वा᳘लखिल्याभिरेॗवेमां᳘लोकान्त्स᳘मयुरित᳘श्चोर्ध्वा᳘नमु᳘तश्चार्वा᳘चस्त᳘थैॗवैतद्य᳘जमानो वा᳘लखिल्याभिरेॗवेमां᳘लोकान्त्सं᳘यातीत᳘श्चोर्ध्वा᳘नमु᳘तश्चार्वा᳘चः॥

मूलम् - विस्वरम्

यद्वेव वालखिल्या उपदधाति । एतद्वै देवा वालखिल्याभिरेवेमाल्ँ लोकान्त्समयुः, इतश्चोर्ध्वान्, अमुतश्चार्वाचः । तथैवैतद्यजमानो वालखिल्याभिरेवेमाल्ँ लोकान्त्संयाति । इतश्चोर्ध्वान्, अमुतश्चार्वाचः ॥ ७ ॥

सायणः

प्रकारान्तरेण स्तौति- ** यद्वेव वालखिल्या** इत्यादिना । ‘एतद्वै’ एतत् खलु पुरा ऽऽसीत् । किमेतदिति ? तत्राह- ‘देवाः’ पुरा ‘वालखिल्याभिः’ इष्टकाभिः ‘एव’ इमाँस्त्रील्ँ लोकान्समयुः सम्यगाप्तवन्तः । केन क्रमेण ? इत्युच्यते- ‘इतः’ भूलोकात् ‘ऊर्ध्वान्’ ‘अमुतः’ स्वर्गात् ‘अर्वाचः’ अधस्तनान्, इत्यारोहावरोहभेदाद् द्विप्रकारेण समयुरित्यर्थः ‘तथैवैतद्यजमानः’ इत्यादि स्पष्टम् ॥ ७ ॥

Eggeling
  1. And, again, as to why he lays down the Vālakhilyās,–it was by means of the Vālakhilyās that the gods then ranged over these worlds, both from hence upwards and from yonder downwards; and in like manner does the sacrifice now, by means of the Vālakhilyās, range over these worlds, both from hence upwards and from yonder downwards.

०८

विश्वास-प्रस्तुतिः

(चो) मू᳘र्द्धा ऽसि राडि᳘तीमं᳘ लोक᳘मरोहन्॥
(न्ध्रु᳘) ध्रु᳘वा ऽसि धरुणे᳘त्यन्तरिक्षं लोकं᳘ ध᳘र्त्र्यसि[[!!]] ध᳘रणी᳘त्यमुं᳘ लोकमा᳘युषे त्वा व्व᳘र्चसे त्वा कृष्यै᳘ त्वा क्षे᳘माय त्वे᳘ति चत्वा᳘रश्चतुष्पादाः पशवो᳘ ऽन्नं पश᳘वस्त᳘ ऽएतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनामु᳘ष्मिंल्लोके प्र᳘त्यतिष्ठंस्त᳘थै᳘वैतद्य᳘जमान ऽएतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनामु᳘ष्मिंल्लोके प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

(चो) मू᳘र्द्धा ऽसि राडि᳘तीमं᳘ लोक᳘मरोहन्॥
(न्ध्रु᳘) ध्रु᳘वा ऽसि धरुणे᳘त्यन्तरिक्षं लोकं᳘ ध᳘र्त्र्यसि[[!!]] ध᳘रणी᳘त्यमुं᳘ लोकमा᳘युषे त्वा व्व᳘र्चसे त्वा कृष्यै᳘ त्वा क्षे᳘माय त्वे᳘ति चत्वा᳘रश्चतुष्पादाः पशवो᳘ ऽन्नं पश᳘वस्त᳘ ऽएतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनामु᳘ष्मिंल्लोके प्र᳘त्यतिष्ठंस्त᳘थै᳘वैतद्य᳘जमान ऽएतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनामु᳘ष्मिंल्लोके प्र᳘तितिष्ठति॥

मूलम् - Weber

मूॗर्धासि राडि᳘तीमं लोक᳘मरोहन्॥
ध्रुॗवासि धरुणे᳘त्यन्तरिक्षलोकं᳘ धर्त्र्य᳘सि ध᳘रणी᳘त्यमुं᳘ ध᳘रणी᳘त्यमुं᳘ लोकमा᳘युषे त्वा व᳘र्चसे त्वा कृष्यै᳘ त्वा क्षे᳘माय त्वे᳘ति चत्वा᳘रश्चतुष्पादाः पशवो᳘ ऽन्नम् पश᳘वस्त᳘ एतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनामु᳘ष्मिंलोके प्र᳘त्यतिष्ठंस्त᳘थैॗवैतद्य᳘जमान एतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनामु᳘ष्मिंलोके प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

“मूर्द्धा ऽसि राट्”- इति । इमं लोकमरोहन् । “ध्रुवा ऽसि धरुणा"- इति । अन्तरिक्षलोकम् । “धर्त्र्यसि धरणी”- इति । अमुं लोकम् । “आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा”- (वा. सं. १४ । २१) इति । चत्वारश्चतुष्पादाः पशवः । अन्नं पशवः । त ऽएतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनामुष्मिल्ँ लोके प्रत्यतिष्ठन् । तथैवैतद्यजमान एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनामुष्मिल्ँ लोके प्रतितिष्ठति ॥ ८ ॥

सायणः

उक्तं प्रकारं विभज्य दर्शयति- मूर्द्धा ऽसि राडितीमं लोकमरोहन्नित्यादिना । एतन्निगदसिद्धम् । पुरस्तादुपधेयेष्टकानां चतुरो मन्त्रानुदाहृत्य तात्पर्यं दर्शयति- आयुषे त्वेत्यादिना । एते ‘चत्वारः’ ‘पशवश्चतुष्पादाः’ ते च ‘अन्नम्’ ते देवाः ‘एतैश्चतुर्भिः’ मन्त्रैश्चतुःसंख्यासाम्येन चतुष्पादयुक्तैः ‘पशुभिः’ तद्रूपेण ‘एतेन’ ‘अमुष्मिन्’ भूरादिक्रमेणारूढे स्वर्गे ‘प्रत्यतिष्ठन्’ प्रतिष्ठिता अभूवन् । एवं पूर्वोक्तास्त्रयो मन्त्राः क्रमेण लोकत्रयाक्रमणस्थानीयाः, उपरितनाश्चत्वार आक्रान्तवतां देवानामन्नस्थानीयाः, इति सिद्धा पुरस्तादुपधेयानां वालखिल्यानां स्तुतिः । ‘तथैव’- इत्याद्युक्तप्रायम् ॥ ८ ॥

Eggeling
  1. By ‘The head thou art, the ruler!’ they stepped on this (terrestrial) world; by ‘Steady thou art, steadfast!’ on the air-world; by ‘A holder thou art, a hold!’ on that (heavenly) world.–‘For life-strength (I bestow) thee! for vigour thee! for husbandry thee! for prosperity thee!’ There are four (kinds of) four-footed (domestic) animals, and (domestic) animals are food: by means of this food, these four four-footed animals, they (the gods) established themselves in yonder world; and in like manner does the Sacrificer now by means of this food, these four four-footed animals, establish himself in yonder world.

०९

विश्वास-प्रस्तुतिः

स स प᳘राङिव रो᳘हः॥
(ऽ) इय᳘मु वै᳘ प्रतिष्ठा ते᳘ देवा᳘ ऽइमां᳘ प्रतिष्ठा᳘मभिप्रत्या᳘यंस्त᳘थै᳘वैतद्य᳘जमान ऽइमां᳘ प्रतिष्ठा᳘मभिप्रत्यै᳘ति॥

मूलम् - श्रीधरादि

स स प᳘राङिव रो᳘हः॥
(ऽ) इय᳘मु वै᳘ प्रतिष्ठा ते᳘ देवा᳘ ऽइमां᳘ प्रतिष्ठा᳘मभिप्रत्या᳘यंस्त᳘थै᳘वैतद्य᳘जमान ऽइमां᳘ प्रतिष्ठा᳘मभिप्रत्यै᳘ति॥

मूलम् - Weber

स स प᳘राङिव रो᳘हः॥
इय᳘मु वै᳘ प्रतिष्ठा ते᳘ देवा᳘ इमा᳘म् प्रतिष्ठा᳘मभिप्रत्या᳘यंस्त᳘थै᳘वैतद्य᳘जमान इमा᳘म् प्रति ष्हा᳘मभिप्रत्यै᳘ति॥

मूलम् - विस्वरम्

स स पराङिव रोहः । इयमु वै प्रतिष्ठा । ते देवा इमां प्रतिष्ठामभिप्रत्यायन् । तथैवैतद्यजमान इमां प्रतिष्ठामभिप्रत्यैति ॥ ९ ॥

सायणः

पश्चाद्वालखिल्याप्रसञ्जनार्थमाह- स स पराङिवेति । लोकानां त्रित्वेन तदारोहस्यापि त्रित्वात्तदपेक्ष्य ‘स’ इति वीप्सा । ‘पराङिव’ पुनरावृत्तिरिवेयम् । कथमेवं स्वर्गे ऽपि प्रतिष्ठानं किं न स्यादित्यत आह- इयमु वै प्रतिष्ठेति । सुकृतक्षये पुनर्भूलोके पतनादित्यभिप्रायः । अस्याः प्रतिष्ठात्वं तु सर्वजीवाश्रयत्वात् । यस्मादेवं तस्माद्देवाः स्वर्गं प्राप्ताः सन्तो ऽपि इमां ‘प्रतिष्ठां’ भुवम् अभिलक्ष्य ‘प्रत्यायन्’ प्रतिमुखं प्राप्ताः । ‘तथैवैतद्’ इति गतप्रायम् ॥ ९ ॥

Eggeling
  1. That was, as it were, an ascent away from hence; but this (earth) is a foothold: the gods came back to this foothold; and in like manner does the Sacrificer now come back to this foothold.

१०

विश्वास-प्रस्तुतिः

य᳘न्त्री राडि᳘त्यमुं᳘ लोक᳘मरोहन्॥
(न्य᳘) य᳘न्त्र्यसि[[!!]] य᳘मनी᳘त्यन्तरिक्षलोकं᳘ ध्रुवा ऽसि[[!!]] ध᳘रित्री᳘तीमं᳘ लोक᳘मिषे᳘ त्वोर्जे᳘ त्वा रय्यै᳘ त्वा पो᳘षाय त्वे᳘ति चत्वा᳘रश्च᳘तुष्पादाः पशवो᳘ ऽन्नं प᳘शवस्त᳘ ऽएतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनास्मिं᳘ल्लोके प्र᳘त्यतिष्ठंस्त᳘थै᳘वैतद्य᳘जमान ऽएतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनास्मिं᳘ल्लोके प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

य᳘न्त्री राडि᳘त्यमुं᳘ लोक᳘मरोहन्॥
(न्य᳘) य᳘न्त्र्यसि[[!!]] य᳘मनी᳘त्यन्तरिक्षलोकं᳘ ध्रुवा ऽसि[[!!]] ध᳘रित्री᳘तीमं᳘ लोक᳘मिषे᳘ त्वोर्जे᳘ त्वा रय्यै᳘ त्वा पो᳘षाय त्वे᳘ति चत्वा᳘रश्च᳘तुष्पादाः पशवो᳘ ऽन्नं प᳘शवस्त᳘ ऽएतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनास्मिं᳘ल्लोके प्र᳘त्यतिष्ठंस्त᳘थै᳘वैतद्य᳘जमान ऽएतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनास्मिं᳘ल्लोके प्र᳘तितिष्ठति॥

मूलम् - Weber

य᳘न्त्रि राडि᳘त्यमुं᳘ लोक᳘मरोहन्॥
यन्त्र्य᳘सि य᳘मनी᳘त्यन्तरिक्षलोकं᳘ ध्रुॗवासि ध᳘रित्री᳘तीमं᳘ लोक᳘मिषे᳘ त्वोर्जे᳘ त्वा रय्यै᳘ त्वा पो᳘षाय त्वे᳘ति चत्वा᳘रश्च᳘तुष्पादाः पशवो᳘ ऽन्नम् पशवस्त᳘ एतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनास्मिं᳘लोके प्र᳘त्यतिष्ठंस्त᳘थैॗवैतद्य᳘जमान एतै᳘श्चतु᳘र्भिश्च᳘तुष्पादैः पशु᳘भिरेतेना᳘न्नेनास्मिं᳘लोके प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

“यन्त्री राट्"- इति । अमुं लोकमरोहन् । “यन्त्र्यसि यमनी"- इति । अन्तरिक्षलोकम् “ध्रुवा ऽसि धरित्री"- इति । इमं लोकम् । “इषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा"- (वा० सं० १४ । २२) इति । चत्वारश्चतुष्पादाः पशवः । अन्नं पशवः । त ऽएतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनास्मिंल्लोके प्रत्यतिष्ठन् । तथैवैतद्यजमान एतैश्चतुर्भिश्चतुष्पादैः पशुभिरेतेनान्नेनास्मिंल्लोके प्रतितिष्ठति ॥ १० ॥

सायणः

प्रतिगतिप्रकारं विभज्य दर्शयति- यन्त्री राडित्यमुं लोकमित्यादिना । एवमुत्तरांश्चतुरो मन्त्रान्प्रदर्शयन् भुवः प्रतिष्ठात्वमन्नत्वेन स्तौति- इषे त्वेत्यादिना । एतत्पूर्वेणैव व्याख्यातप्रायम् ॥ १० ॥

Eggeling
  1. By ‘A guider, a ruler!’ they stepped on that (heavenly) world; by ‘A guider thou art, a guide!’ on the air-world; by ‘Steady thou art, a steadier!’ on this (terrestrial) world.–‘For sap (I bestow) thee! for strength thee! for wealth thee! for thrift thee!’–There are four four-footed (domestic) animals,

and (domestic) animals are food: by means of this food, these four four-footed animals, they (the gods) established themselves in this world; and in like manner does the Sacrificer, by means of this food, these four four-footed animals, establish himself in this world.

११

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तः सं᳘स्कृतिरेव[[!!]]॥
या ऽअमूरे᳘कादशे᳘ष्टका ऽउपद᳘धाति᳘ यो ऽसौ᳘ प्रथ᳘मो ऽनुवाकस्त᳘दन्त᳘रिक्षᳫँ᳭ स᳘ ऽआत्मा तद्यत्ता ऽए᳘कादश भ᳘वन्त्ये᳘कादशा ऽक्षरा वै᳘ त्रिष्टुप्त्रै᳘ष्टुभमन्त᳘रिक्षम᳘थ या ऽउ᳘त्तराः षष्टिः स᳘ व्वायुः स᳘ प्रजा᳘पतिः᳘ सो ऽग्निः स य᳘जमानः॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तः सं᳘स्कृतिरेव[[!!]]॥
या ऽअमूरे᳘कादशे᳘ष्टका ऽउपद᳘धाति᳘ यो ऽसौ᳘ प्रथ᳘मो ऽनुवाकस्त᳘दन्त᳘रिक्षᳫँ᳭ स᳘ ऽआत्मा तद्यत्ता ऽए᳘कादश भ᳘वन्त्ये᳘कादशा ऽक्षरा वै᳘ त्रिष्टुप्त्रै᳘ष्टुभमन्त᳘रिक्षम᳘थ या ऽउ᳘त्तराः षष्टिः स᳘ व्वायुः स᳘ प्रजा᳘पतिः᳘ सो ऽग्निः स य᳘जमानः॥

मूलम् - Weber

अथा᳘तः स᳘ᳫं᳘स्कृतिरेव᳟॥
या अमूरे᳘कादशे᳘ष्टका उपद᳘धातिॗ यो ऽसौ᳘ प्रथॗमो ऽनुवाकस्त᳘दन्त᳘रिक्षᳫं स᳘ आत्मा तद्यत्ता ए᳘कादश भ᳘वन्त्ये᳘कादशाक्षरा वै᳘ त्रिष्टुप्त्रै᳘ष्टुभमन्त᳘रिक्षम᳘थ या उ᳘त्तराः षष्टिः स᳘ वायुः स᳘ प्रजा᳘पतिःॗ सो ऽग्निः स य᳘जमानः॥

मूलम् - विस्वरम्

अथातः संस्कृतिरेव । या अमूरेकादशेष्टका उपदधाति । यो ऽसौ प्रथमो ऽनुवाकः । तदन्तरिक्षम् । स आत्मा । तद्यत्ता एकादश भवन्ति । एकादशाक्षरा वै त्रिष्टुप् । त्रैष्टुभमन्तरिक्षम् । अथ या उत्तराः षष्टिः- स वायुः । स प्रजापतिः । सो ऽग्निः । स यजमानः ॥ ११ ॥

सायणः

वक्ष्यमाणग्रन्थस्य विषयं दर्शयति- अथातः संस्कृतिरेवेति । तृतीयचितौ या इष्टकाः सन्ति ताभिरुपहिताभिश्चित्याग्निरूपस्य प्रजापतेर्लोकस्तदभिमानिदेवतादिरूपः संस्कार एवोत्पाद्यत इत्यर्थः । संस्कृतिरेव प्रदर्श्यते- या अमूरित्यादिना । ‘अमूरेकादशेष्टकाः,’ एका स्वयमातृण्णा, पञ्च दिश्याः, एका विश्वज्योतिः, चतस्र ऋतव्या इत्येकादश । ताः सङ्गृह्याह- ‘यो ऽसौ प्रथमो ऽनुवाकः’ एकादशपद्यात्मकः सङ्घः तदन्तरिक्षस्थानीयम् । ‘स आत्मा’ मध्यशरीरम् । उक्तामेकादशसंख्यां स्तौति- एकादशा ऽक्षरा वै त्रिष्टुबिति । गायत्रीत्रिष्टुब्जगतीनां क्षित्यन्तरिक्षद्युरूपत्वेन सर्वत्राभिधानाद् ‘अन्तरिक्षं त्रैष्टुभम्’ । अथ या उत्तराः षष्टिरिति । प्राणभृतो दश, छन्दस्याः षट्त्रिंशत्, वालखिल्याश्चतुर्दशेति ‘षष्टिः’ ‘स वायुः’ बाह्या एकोनपञ्चाशत् वायवः, आन्तरा दश एकः साधारण इति वायोः षष्ट्यात्मकता । ‘सः’ एव ‘प्रजापतिः,’ तत्रात्मा ‘सः’ एवोपधीयमानः ‘अग्निः’ ‘सः’ एव यजमानः । चयनसंस्कारेणोत्तरत्र प्रजापत्यात्मनोत्पत्तेः ॥ ११ ॥

Eggeling
  1. Now as to the restoration (of Prajāpati-Agni). Those eleven bricks he lays down 6, which (constitute) that first anuvāka 7, are the air and this body (of Agni, the altar). And as to why there are eleven of these, it is because the Trishṭubh consists of eleven syllables, and the air is of the trishṭubh nature. And the sixty subsequent (bricks) are Vāyu, Prajāpati, Agni, the Sacrificer.

१२

विश्वास-प्रस्तुतिः

(स्त) तद्याः᳘ पुर᳘स्तादुपद᳘धाति॥
शि᳘रो ऽस्य तास्ता द᳘श भवन्ति द᳘श वै᳘ प्राणाः᳘ प्राणा᳘ ऽउ वै शि᳘रः पूर्व्वार्ध ऽउ᳘पदधाति पुर᳘स्ता᳘द्धीदᳫँ᳭ शि᳘रः॥

मूलम् - श्रीधरादि

(स्त) तद्याः᳘ पुर᳘स्तादुपद᳘धाति॥
शि᳘रो ऽस्य तास्ता द᳘श भवन्ति द᳘श वै᳘ प्राणाः᳘ प्राणा᳘ ऽउ वै शि᳘रः पूर्व्वार्ध ऽउ᳘पदधाति पुर᳘स्ता᳘द्धीदᳫँ᳭ शि᳘रः॥

मूलम् - Weber

तद्याः᳘ पुर᳘स्तादुपद᳘धाति॥
शि᳘रो ऽस्य तास्ता द᳘श भवन्ति द᳘श वै᳘ प्राणाः᳘ प्राणा᳘ उ वै शि᳘रः पूर्वार्ध उ᳘पदधाति पुर᳘स्ताॗद्धीदं शि᳘रः॥

मूलम् - विस्वरम्

तद्याः पुरस्तादुपदधाति । शिरो ऽस्य ताः । ता दश भवन्ति । दश वै प्राणाः । प्राणा उ वै शिरः । पूर्वार्ध ऽउपदधाति । पुरस्ताद्धीदं शिरः ॥ १२ ॥

सायणः

इत्थं प्रजापतेः शरीररूपेण संस्कारमभिधायेदानीमाद्या स्वयमातृण्णा, पञ्च दिश्याः, विश्वज्योतिः, चतस्र ऋतव्या इत्येकादश त्यक्त्वा ऽवशिष्टानां शिरआद्यङ्गकल्पनया तत्रत्यप्राणरूपसंस्कारं दर्शयति- तद्याः पुरस्तादित्यादिना । ‘तत्’ तत्रात्मनि ‘याः’ प्राणभृतो दश ‘पुरस्तात्’ पूर्वदिशि ‘उपदधाति,’ ‘ताः’ ‘अस्य’ चितिशरीरस्य ‘शिरः’ आश्रयाश्रयिणामभेदस्य विवक्षितत्वात् ‘प्राणा उ वै शिरः’ इति व्यपदेशः ॥ १२ ॥

Eggeling
  1. Those which he places in front are his head: there are ten 8 of them, because there are ten vital airs, and the head is (the focus of) the vital airs. He places them in front, because the head (of an animal) is here in front.

१३

विश्वास-प्रस्तुतिः

(रो᳘ ऽथ) अ᳘थ या᳘ दक्षिणतः[[!!]]॥
(तो) य᳘दूर्ध्वं म᳘ध्यादवाची᳘नᳫँ᳭ शीर्ष्णस्त᳘दस्य ता ऽअ᳘थ याः᳘ पश्चाद्य᳘दूर्ध्वं᳘ प्रतिष्ठा᳘या ऽअवाची᳘नं म᳘ध्यात्त᳘दस्य ताः᳘ प्रति᳘ष्ठै᳘वोत्तरतः[[!!]]॥

मूलम् - श्रीधरादि

(रो᳘ ऽथ) अ᳘थ या᳘ दक्षिणतः[[!!]]॥
(तो) य᳘दूर्ध्वं म᳘ध्यादवाची᳘नᳫँ᳭ शीर्ष्णस्त᳘दस्य ता ऽअ᳘थ याः᳘ पश्चाद्य᳘दूर्ध्वं᳘ प्रतिष्ठा᳘या ऽअवाची᳘नं म᳘ध्यात्त᳘दस्य ताः᳘ प्रति᳘ष्ठै᳘वोत्तरतः[[!!]]॥

मूलम् - Weber

अ᳘थ या᳘ दक्षिणतः᳟॥
य᳘दूर्ध्वम् म᳘ध्यादवाची᳘नं शीर्ष्णस्त᳘दस्य ता अ᳘थ याः᳘ पश्चाद्य᳘दूर्ध्व᳘म् प्रतिष्ठा᳘या अवाची᳘नम् म᳘ध्यात्त᳘दस्य ताः᳘ प्रतिॗष्ठैॗवोत्तरतः᳟॥

मूलम् - विस्वरम्

अथ या दक्षिणतः । यदूर्ध्वं मध्यात्, अवाचीनं शीर्ष्णः- तदस्य ताः । अथ याः पश्चात्- यदूर्ध्वं प्रतिष्ठायाः, अवाचीनं मध्यात्,- तदस्य ताः । प्रतिष्ठैवोत्तरतः ॥ १३ ॥

सायणः

‘अथ या दक्षिणतः’ द्वादश ‘तत्’ कटिप्रदेशात् ‘ऊर्ध्वम्’ ‘शीर्ष्णः’ अधस्तनं यदङ्गं तत्स्थानीया इत्यर्थः । पश्चाद्भाविन्यः ‘याः’ द्वादशेष्टकाः ‘ताः’ पादादुपरि, ‘मध्याद्’ अधस्तनमङ्गम् । उत्तरत्र या दश ताः ‘प्रतिष्ठैव’ पादावेवेत्यर्थः ॥ १३ ॥

Eggeling
  1. And those which he places on the right (south) side are that (part) of him which is above the waist and below the head. And those at the back are that (part) of him which is above the feet and below the waist. Those on the left (north) side are the feet themselves.

१४

विश्वास-प्रस्तुतिः

(स्त) तद्याः᳘ सप्त᳘ पुर᳘स्ताद्वा᳘लखिल्या ऽउपद᳘धाति॥
य᳘ ऽए᳘वेमे᳘ सप्त᳘ पुर᳘स्तात्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति ता ऽअ᳘नन्तर्हिता ऽएता᳘भ्यो दश᳘भ्य ऽउ᳘पदधात्य᳘नन्तर्हितांस्त᳘च्छीर्ष्णः᳘ प्राणा᳘न्दधाति॥

मूलम् - श्रीधरादि

(स्त) तद्याः᳘ सप्त᳘ पुर᳘स्ताद्वा᳘लखिल्या ऽउपद᳘धाति॥
य᳘ ऽए᳘वेमे᳘ सप्त᳘ पुर᳘स्तात्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति ता ऽअ᳘नन्तर्हिता ऽएता᳘भ्यो दश᳘भ्य ऽउ᳘पदधात्य᳘नन्तर्हितांस्त᳘च्छीर्ष्णः᳘ प्राणा᳘न्दधाति॥

मूलम् - Weber

तद्याः᳘ सप्त᳘ पुर᳘स्ताद्वा᳘लखिल्या उपद᳘धाति॥
य᳘ एॗवेमे᳘ सप्त᳘ पुर᳘स्तात्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति ता अ᳘नन्तर्हिता एता᳘भ्यो दश᳘भ्य उ᳘पदधात्य᳘नन्तर्हितांस्त᳘छीर्ष्णः᳘ प्राणा᳘न्दधाति॥

मूलम् - विस्वरम्

तद्याः सप्त पुरस्ताद्वालखिल्या उपदधाति । य ऽएवेमे सप्त पुरस्तात्प्राणाः- तानस्मिन्नेतद्दधाति । ता अनन्तर्हिता एताभ्यो दशभ्य उपदधाति । अनन्तर्हितांस्तच्छीर्ष्णः प्राणान्दधाति ॥ १४ ॥

सायणः

एवं च सति ‘याः सप्त पुरस्ताद्वालखिल्या उपदधाति’ ताभिः ‘इमे’ परिदृश्यमानाः ‘सप्त पुरस्तात्प्राणाः’ “चत्वारि दोर्बाहवाणि”- इत्यादिनोक्ताः । (श. प. ८ । ३ । ४ । ४) तानस्मिन्नेतदधाति ता अनन्तर्हिता एताभ्यो दशभ्य उपदधातीति । ‘दशभ्यः’ प्राणभृद्भ्य इत्यर्थः । ‘तत्’ तेन ‘शीर्ष्णः’ शिरसः ‘अनन्तर्हितान्प्राणान्दधाति’ ॥ १४ ॥

Eggeling
  1. And the seven (Vālakhilyās) which he places in front are these seven vital airs here in the forepart (of an animal): it is these he thus puts into

him (Agni). He places them so as not to he separated from those ten (Prāṇabhr̥ts): he thereby puts in vital airs that are not separate from the head.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ याः᳘ सप्त᳘ पश्चात्[[!!]]॥
(द्य᳘) य᳘ ऽए᳘वेमे᳘ सप्त᳘ पश्चा᳘त्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति ता ऽअ᳘नन्तर्हिता ऽएता᳘भ्यो द्वादश᳘भ्य ऽउ᳘पदधात्य᳘नन्तर्हितांस्त᳘दात्म᳘नः प्राणा᳘न्दधाति स᳘ ऽएष᳘ व्वायुः᳘ प्रजा᳘पतिरस्मिंस्त्रै᳘ष्टुभे ऽन्त᳘रिक्षे समन्तं प᳘र्यक्नस्तद्य᳘त्तृती᳘यां चि᳘तिमुपद᳘धाति व्वायुं᳘ चैव त᳘दन्त᳘रिक्षं च संस्कृत्यो᳘पधत्ते᳘ ऽथ लोकम्पृणे ऽउ᳘पदधात्यस्या᳘ᳫँ᳘ स्रक्त्यां त᳘योरुप᳘रि ब᳘न्धुः पु᳘रीषं नि᳘वपति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ याः᳘ सप्त᳘ पश्चात्[[!!]]॥
(द्य᳘) य᳘ ऽए᳘वेमे᳘ सप्त᳘ पश्चा᳘त्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति ता ऽअ᳘नन्तर्हिता ऽएता᳘भ्यो द्वादश᳘भ्य ऽउ᳘पदधात्य᳘नन्तर्हितांस्त᳘दात्म᳘नः प्राणा᳘न्दधाति स᳘ ऽएष᳘ व्वायुः᳘ प्रजा᳘पतिरस्मिंस्त्रै᳘ष्टुभे ऽन्त᳘रिक्षे समन्तं प᳘र्यक्नस्तद्य᳘त्तृती᳘यां चि᳘तिमुपद᳘धाति व्वायुं᳘ चैव त᳘दन्त᳘रिक्षं च संस्कृत्यो᳘पधत्ते᳘ ऽथ लोकम्पृणे ऽउ᳘पदधात्यस्या᳘ᳫँ᳘ स्रक्त्यां त᳘योरुप᳘रि ब᳘न्धुः पु᳘रीषं नि᳘वपति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - Weber

अ᳘थ याः᳘ सप्त᳘ पश्चा᳘त्॥
य᳘ एॗवेमे᳘ सप्त᳘ पश्चा᳘त्प्राणास्ता᳘नस्मिन्नेत᳘द्दधाति ता अ᳘नन्तर्हिता एता᳘भ्यो द्वादश᳘भ्य उ᳘पदधात्य᳘नन्तर्हितांस्त᳘दात्म᳘नः प्राणा᳘न्दधाति स᳘ एष᳘ वायुः᳘ प्रजा᳘पतिरस्मिंस्त्रै᳘ष्टुभे ऽन्त᳘रिक्षे समन्तम् प᳘र्यक्नस्तद्य᳘त्तृती᳘यां चि᳘तिमुपद᳘धाति वायुं᳘ चैव त᳘दन्त᳘रिक्षं च संक्कृत्यो᳘पधत्ते᳘ ऽथ लोकम्पृणे उ᳘पदधात्यस्या᳘ᳫं᳘ स्रक्त्यां त᳘योरुप᳘रि ब᳘न्धुः पु᳘रीषं नि᳘वपति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - विस्वरम्

अथ याः सप्त पश्चात् । य ऽएवेमे सप्त पश्चात्प्राणाः- तानेतस्मिन्नेतद्दधाति । ता अनन्तर्हिता एताभ्यो द्वादशभ्य उपदधाति । अनन्तर्हितांस्तदात्मनः प्राणान्दधाति । स एष वायुः प्रजापतिरस्मिंस्त्रैष्टुभे ऽन्तरिक्षे समन्तं पर्यक्नः । तद्यत्तृतीयां चितिमुपदधाति- वायुं चैव तदन्तरिक्षं च संस्कृत्योपधत्ते । अथ लोकम्पृणे ऽउपदधाति- अस्यां स्रक्त्याम् । तयोरुपरि बन्धुः । पुरीषं निवपति । तस्योपरि बन्धुः ॥ १५ ॥

सायणः

एवम् ‘अथ याः सप्त पश्चात्’ इत्युत्तरवाक्यमपि व्याख्येयम् । सप्त पश्चात्प्राणाः “चत्वार्यूर्वष्ठीवानि” इत्यादिनोक्ताः (श. प. ८ । ३ । ४ । ५ ।) एताभ्यो द्वादशभ्य इति । मध्यत उपधेयाभ्यश्छन्दस्याभ्यः ‘अनन्तर्हिताः’ इत्यर्थः । ‘स एषः’ प्राणभृदादिवालखिल्यान्त इष्टकारूपः प्राणशरीरवान् ‘प्रजापतिः’ ‘अस्मिन्’ स्वयमातृण्णाद्यृतव्यान्तैकादशेष्टकारूपे ‘त्रैष्टुभे ऽन्तरिक्षे’ ‘समन्तं पर्यक्नः’ परिव्याप्तो वर्तते । ‘तत्’ तस्मात् इमाम् ‘तृतीयां चितिमुपदधाति’ इति ‘यत्’ ‘तत्’ तेनोपधानेन ‘वायुम्’ ‘अन्तरिक्षं च’ ‘संस्कृत्य’ उपहितवान्भवति । अथ लोकंपृणे इति । द्वे इष्टके उपदध्यात् । तयोर्ब्राह्मणमुपरि वक्ष्यते । (८ । ७ । २ । १) । अथ ‘पुरीषं निवपति’ तस्यापि ब्राह्मणमुत्तरत्र वक्ष्यत इत्यतिदिशति- तस्योपरि बन्धुरिति । काण्डावसाने “असौ वा आदित्यो लोकम्पृणा” इति- (श. प. ८ । ७ । २ । १ ।) “अन्नं वै पुरीषम्" (श. प. ८ । ७ । ३ । २) इत्यादिना वक्ष्यत इत्यर्थः ॥ १५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे तृतीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ (८-३-४) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये ऽष्टमकाण्डे तृतीयो ऽध्यायः ॥ (८-३) ॥

Eggeling
  1. And the seven he places at the back (of the altar) are those seven vital airs behind: it is these he thereby puts into him. He places them so as not to be separated from those twelve (Chandasyās): he thereby puts into him vital airs that are not separate from the body. That same Vāyu-Prajāpati is turned round in all directions in this trishṭubh-like air; and when he lays down the third layer, having made up both Vāyu (the wind) and the air, he thereby adds them to himself. He then puts down two Lokampr̥ṇā (space-filling bricks) in that corner 9: the significance of them (will be explained) further on 10. He throws loose earth (on the layer): the significance of this (will be explained) further on 11.

  1. 55:1 Or, these bricks representing the vital airs. ↩︎

  2. वालखिल्याः सप्त पुरस्तात् । प्राणभृद्भ्यो वा ऽपराः । द्वादशभ्यो ऽपरास्तु । मूर्द्धासि राडि ऽति प्रतिमंत्रम् । का. श्रौ. सू. १७ । १९९-२०३ । ↩︎

  3. 55:2 Or, in the upper part of man. ↩︎

  4. द्वे᳘ प्रतिष्ठे. ↩︎

  5. रा᳘ड्यन्त्र्य᳘सि B. यन्त्री is here and १०. (as well as Vâj. S. १४.२२) paroxytonon in the first instance, oxytonon in the second! ↩︎

  6. 57:1 That is to say, the first eleven bricks of the third layer, viz. one svayamātr̥ṇṇā, four diśyās, one viśvajyotis, and four r̥tavyās. ↩︎

  7. 57:2 The formulas used with these bricks, Vāj. S. XIV, 11-16, constitute the first anuvāka of the texts relating to the third layer (XIV, II-22). ↩︎

  8. 57:3 Viz. ten Prāṇabhr̥ts, see VIII, 3, 2, 14. ↩︎

  9. 58:1 Whilst, in laying down the Lokampr̥ṇās of the first and second layers, he started from the south-east and south-west corners respectively, in the third layer he starts from the left hip (or north-west corner) of the altar, filling up the available spaces in two turns, in sunwise fashion. Cf. p. 22, note 1; and p. 41, note 1. ↩︎

  10. 58:2 See VIII, 7, 2, 4 seq. ↩︎

  11. 58:3 See VIII, 7, 3, 1 seq. ↩︎