०१
विश्वास-प्रस्तुतिः
अ᳘थ च्छन्द᳘स्या ऽउ᳘पदधाति॥
पश᳘वो वै छ᳘न्दाᳫँ᳭स्यन्त᳘रिक्षं मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - श्रीधरादि
अ᳘थ च्छन्द᳘स्या ऽउ᳘पदधाति॥
पश᳘वो वै छ᳘न्दाᳫँ᳭स्यन्त᳘रिक्षं मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - Weber
अ᳘थ छन्दॗस्या उ᳘पदधाति॥
पश᳘वो वै छ᳘न्दांस्यन्त᳘रिक्षम् मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशुं᳘ दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - विस्वरम्
अथ च्छन्दस्या उपदधाति । पशवो वै छन्दांसि । अन्तरिक्षं मध्यमा चितिः । अन्तरिक्षे तत्पशून् दधाति । तस्मादन्तरिक्षायतनाः पशवः ॥ १ ॥
सायणः
अथ च्छन्दस्या उपदधातीत्यादि । छन्दोलिङ्गकमन्त्रोपधेयाः ‘छन्दस्याः’ छन्दस्यानां पशुरूपत्वं द्वितीयचितिस्थच्छन्दस्यार्थवादे दर्शितम् (श. प. ८ । २ । ३ । ८) । पशवश्च अन्नरूपाः, मध्यमा चितिर्या ऽस्ति सा प्रजापतेर्मध्यम्; उदरस्थानीया ऽतस्तेन मध्यदेश एवान्नं दधाति । ताश्छन्दस्याः पूर्वार्द्धे प्राणभृतामुपहितत्वाद्दक्षिणादिदिक्षु ‘द्वादश-द्वादश’ उपदध्यात् । ‘जगती’ अपि ‘द्वादशा ऽक्षरा’ सा च ‘जगती पशवो वै,’ सोमाहरणप्रस्तावे पश्चात्मना ऽऽहरणसम्बन्धात्पशुत्वम् । “अन्तरिक्षमेव बृहतीं तृतीयां चितिमपश्यन्”- इत्युक्तत्वान्मध्यमचितेरन्तरिक्षत्वम् (श. प. ८ । ३ । १ । २) । अतः मध्यमचितौ द्वादशसङ्ख्याकेष्टकोपधानात् ‘अन्तरिक्षे पशून्दधाति’ ॥ १-३ ॥
Eggeling
- He then lays down the Chandasyā 1 (metres’ bricks). Now the metres are cattle, and the middle-most layer is the air: he thus places cattle in the air, whence cattle have their abode in the air.
०२
विश्वास-प्रस्तुतिः
(वो) य᳘द्वेव᳘ च्छन्द᳘स्या ऽउपद᳘धाति॥
पश᳘वो वै छ᳘न्दाᳫँ᳭स्य᳘न्नं पश᳘वो म᳘ध्यं मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति॥
मूलम् - श्रीधरादि
(वो) य᳘द्वेव᳘ च्छन्द᳘स्या ऽउपद᳘धाति॥
पश᳘वो वै छ᳘न्दाᳫँ᳭स्य᳘न्नं पश᳘वो म᳘ध्यं मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति॥
मूलम् - Weber
य᳘द्वेव᳘ छन्दॗस्या उपद᳘धाति॥
पश᳘वो वै छ᳘न्दांस्य᳘न्न्म् पश᳘वो म᳘ध्यम् मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति॥
मूलम् - विस्वरम्
यद्वेव च्छन्दस्या उपदधाति । पशवो वै छन्दांसि । अन्नं पशवः । मध्यं मध्यमा चितिः । मध्यतस्तदन्नं दधाति ॥ २ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- And, again, as to why he lays down Chandasyās,–the metres are cattle, and cattle are food, and the middlemost layer is the middle (of Agni, the altar): he thus places food in the middle (of Agni’s body).
०३
विश्वास-प्रस्तुतिः
ता द्वा᳘दश द्वादशो᳘पदधाति॥
द्वा᳘दशाक्षरा वै ज᳘गती पश᳘वो वै ज᳘गत्यन्त᳘रिक्षं मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - श्रीधरादि
ता द्वा᳘दश द्वादशो᳘पदधाति॥
द्वा᳘दशाक्षरा वै ज᳘गती पश᳘वो वै ज᳘गत्यन्त᳘रिक्षं मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - Weber
ता द्वा᳘दश-द्वादशो᳘पदधाति॥
द्वा᳘दशाक्षरा वै ज᳘गती पश᳘वो ज᳘गत्यन्त᳘रिक्षम् मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - विस्वरम्
ता द्वादश द्वादशोपदधाति । द्वादशाक्षरा वै जगती। पशवो वै जगती । अन्तरिक्षं मध्यमा चितिः । अन्तरिक्षे तत्पशून्दधाति । तस्मादन्तरिक्षायतनाः पशवः ॥ ३ ॥
सायणः
[व्याख्यानं प्रथमे]
Eggeling
- He lays them down by twelves,–for the Jagatī consists of twelve syllables, and the Jagatī is cattle, and the middlemost layer is the air: he thus places cattle in the air, whence cattle have their abode in the air.
०४
विश्वास-प्रस्तुतिः
(वो) य᳘द्वेव द्वा᳘दश-द्वादश॥
द्वा᳘दशाक्षरा वै ज᳘गती पश᳘वो वै ज᳘गत्य᳘न्नं पश᳘वो म᳘ध्यं मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति ता ऽअ᳘नन्तर्हिताः प्राणभृ᳘द्भ्य ऽउ᳘पदधात्य᳘नन्तर्हितं त᳘त्प्राणेभ्यो᳘ ऽन्नं दधात्यु᳘त्तरा ऽउ᳘त्तरं त᳘त्प्राणेभ्यो᳘ ऽन्नं दधाति॥
मूलम् - श्रीधरादि
(वो) य᳘द्वेव द्वा᳘दश-द्वादश॥
द्वा᳘दशाक्षरा वै ज᳘गती पश᳘वो वै ज᳘गत्य᳘न्नं पश᳘वो म᳘ध्यं मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति ता ऽअ᳘नन्तर्हिताः प्राणभृ᳘द्भ्य ऽउ᳘पदधात्य᳘नन्तर्हितं त᳘त्प्राणेभ्यो᳘ ऽन्नं दधात्यु᳘त्तरा ऽउ᳘त्तरं त᳘त्प्राणेभ्यो᳘ ऽन्नं दधाति॥
मूलम् - Weber
य᳘द्वेव द्वा᳘दश-द्वादश॥
द्वा᳘दशाक्षरा वै ज᳘गती पश᳘वो वै ज᳘गत्य᳘न्नम् पश᳘वो म᳘ध्यम् मध्यमा चि᳘तिर्मध्यतस्तद᳘न्न दधाति ता अ᳘नन्तर्हिताः प्राणभृ᳘द्भ्य उ᳘पदधात्य᳘नन्तर्हितं त᳘त्प्राणेभ्यो᳘ ऽन्नं दधात्यु᳘त्तरा उ᳘त्तरं त᳘त्प्राणेभ्यो᳘ ऽन्नं दधाति॥
मूलम् - विस्वरम्
यद्वेव द्वादश द्वादश । द्वादशाक्षरा वै जगती । पशवो वै जगती । अन्नं पशवः । मध्यं मध्यमा चितिः । मध्यतस्तदन्नं दधाति । ता अनन्तर्हिताः प्राणभृद्भ्य उपदधाति । अनन्तर्हितं तत्प्राणेभ्यो ऽन्नं दधाति । उत्तराः । उत्तरं तत्प्राणेभ्यो ऽन्नं दधाति ॥ ४ ॥
सायणः
उक्तामेवेष्टकासङ्ख्यां पुनर्जगत्यादिद्वारेणान्नात्मना प्रशंसति- यद्वेव द्वादश-द्वादश-द्वादशाक्षरा वा इत्यादिना । पूर्वेष्टकाभ्यो ऽव्यवधानं विधाय स्तौति- ता अनन्तर्हिताः प्राणभृद्भ्य इति । ‘उत्तराः’ ऊर्ध्वभाविनीश्च कुर्यात् । स्पष्टो ऽर्थवादः ॥ ४ ॥
Eggeling
- And, again, why (he lays them down) by twelves,–the Jagatī consists of twelve syllables, and the Jagatī is cattle, and cattle is food, and the middlemost layer is the middle: he thus places food in the middle. He places them so as not to be separated from the Prāṇabhr̥ts: he thus places the food so as not to be separated from the vital airs subsequently (to them he places them): he thus bestows food after (bestowing) the vital airs.
०५
विश्वास-प्रस्तुतिः
मा च्छ᳘न्द ऽइ᳘ति॥
(त्य) अयं वै᳘ लोको᳘ मा ऽयᳫँ᳭ हि᳘ लोको᳘ मित᳘ ऽइव प्रमा च्छ᳘न्द ऽइ᳘त्यन्तरिक्षलोको वै᳘ प्र᳘मा ऽन्तरिक्षलो᳘को ह्यस्मा᳘ल्लोकात्प्र᳘मित ऽइव प्रतिमा च्छ᳘न्द ऽइ᳘त्यसौ वै᳘ लोकः᳘ प्रति᳘मैष᳘ ह्यन्तरिक्षलोके[[!!]] प्र᳘तिमित ऽइवास्रीव᳘यश्छ᳘न्द ऽइत्य᳘न्नमस्रीव᳘यस्तद्य᳘देषु᳘ लोकेष्व᳘न्नं त᳘दस्रीवयो᳘ ऽथो य᳘देभ्यो᳘ लोकेभ्यो᳘ ऽन्नᳫँ᳭ स्र᳘वति त᳘दस्रीवयो ऽथा᳘तो नि᳘रुक्तान्येव च्छ᳘न्दाᳫँ᳭स्यु᳘पदधाति॥
मूलम् - श्रीधरादि
मा च्छ᳘न्द ऽइ᳘ति॥
(त्य) अयं वै᳘ लोको᳘ मा ऽयᳫँ᳭ हि᳘ लोको᳘ मित᳘ ऽइव प्रमा च्छ᳘न्द ऽइ᳘त्यन्तरिक्षलोको वै᳘ प्र᳘मा ऽन्तरिक्षलो᳘को ह्यस्मा᳘ल्लोकात्प्र᳘मित ऽइव प्रतिमा च्छ᳘न्द ऽइ᳘त्यसौ वै᳘ लोकः᳘ प्रति᳘मैष᳘ ह्यन्तरिक्षलोके[[!!]] प्र᳘तिमित ऽइवास्रीव᳘यश्छ᳘न्द ऽइत्य᳘न्नमस्रीव᳘यस्तद्य᳘देषु᳘ लोकेष्व᳘न्नं त᳘दस्रीवयो᳘ ऽथो य᳘देभ्यो᳘ लोकेभ्यो᳘ ऽन्नᳫँ᳭ स्र᳘वति त᳘दस्रीवयो ऽथा᳘तो नि᳘रुक्तान्येव च्छ᳘न्दाᳫँ᳭स्यु᳘पदधाति॥
मूलम् - Weber
मा छ᳘न्द इ᳘ति॥
अयं वै᳘ लोकोॗ मायᳫं हि᳘ लोको᳘ मित᳘ इव प्रमा छ᳘न्द इ᳘त्यन्तरिक्षलोको वै᳘ प्रॗमान्तरिक्षलोॗको ह्यस्मा᳘ल्लोकात्प्र᳘मित इव प्रतिमा छ᳘न्द इ᳘त्यसौ वै᳘ लोकः᳘ प्रतिॗमैष ह्य᳘न्तरिक्षलोके प्र᳘तिमित इवास्रीव᳘यश्छ᳘न्द इत्य᳘न्नमस्रीव᳘यस्तद्य᳘देषु᳘ लोकेष्व᳘न्नं त᳘दस्रीवयो᳘ ऽथो य᳘देभ्यो᳘ लोकेभ्यो᳘ ऽन्नᳫं स्र᳘वति त᳘दस्रीवयो ऽथा᳘तो नि᳘रुक्तान्येव छ᳘न्दांस्यु᳘पदधाति॥
मूलम् - विस्वरम्
(१) “मा च्छन्दः”- इति । अयं वै लोको मा । अयं हि लोको मित इव । (२) “प्रमा च्छन्दः”- इति । अन्तरिक्षलोको वै प्रमा । अन्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इव (३) “प्रतिमा च्छन्दः”- इति । असौ वै लोकः प्रतिमा । एष ह्यन्तरिक्षलोके प्रतिमित इव । (४) “अस्रीवयश्छन्दः”- इति । अन्नमस्रीवयः । तद्यदेषु लोकेष्वन्नम्- तदस्रीवयः । अथो यदेभ्यो लोकेभ्यो ऽन्नं स्रवति- तदस्रीवयः । अथातो निरुक्तान्येव च्छन्दांस्युपदधाति ॥ ५ ॥
सायणः
तत्र दक्षिणत उपधेयेष्टकानां मन्त्रान्विधाय व्याचष्टे- मा च्छन्द इत्यादिना । मा संज्ञया छन्दो ‘मा च्छन्दः’ तच्च ‘अयं लोको वै’ भूलोकः खलु, मीयते परिच्छिद्यत इति ‘मा’ इति व्युत्पत्तेः । एतल्लोकसाम्यमुपपादयति- अयं हि लोको मित इवेति । सर्वतः परिच्छिन्न एव, पञ्चाशत्कोटियोजनविस्तारा पृथिवीति ह्याचक्षते । प्रमा च्छन्द इति । द्वितीयो मन्त्रः । प्रकर्षेण मितः प्रमा तत्संज्ञकः छन्दो ऽन्तरिक्षलोकः खलु । तल्लोकसाम्यमाह- अन्तरिक्षलोको ह्यस्माल्लोकात्प्रमित इवेति । भूलोकादप्यधिकतरेण मानेन मित इव वर्तते ‘अन्तरिक्षलोकः’ । प्रतिमा च्छन्द इति । तृतीयः । असौ वै लोकः प्रतिमेति । ‘असौ’ द्युलोकः प्रतिमाख्यं छन्दः । कुतः ? ‘एषो ऽन्तरिक्षलोके प्रतिमित इव’ अन्तरिक्षपरिमाणेन परिच्छिन्न इव वर्तते । अतः प्रतिरूपत्वेन मितत्वात् ‘प्रतिमा’ ‘असौ लोकः’ । चतुर्थमन्त्रं विधाय व्याचष्टे- अस्रीवयश्छन्द इति । अन्नम् ‘अस्रीवयः’ लोकानां त्रित्वात्तन्निष्ठान्नस्यापि त्रित्वम् । अतस्तदपेक्षया ‘अस्रीवयः’ इति बहुवचननिर्देशः । तदेवोपपादयति- तद्यदेषु लोकेष्वन्नं तदस्रीवय इति । अस्रीविच्छन्दःसाम्यमन्नस्य दर्शयति- यदेभ्यो लोकेभ्यो ऽन्नं स्रवति तदस्रीवय इति । भूम्यादिलोकेभ्य आसमन्ताद्वृष्टिरूपेण स्रवतीत्यस्रीवि अन्नम्, छान्दसत्वादभिमतरूपसिद्धिः । अर्थान्मादीनां छन्दसां व्युत्पत्तिर्दर्शिता । मादीनि हि गायत्र्यादिष्वपाठादनिरुक्तानि मन्तव्यानि । अतः उक्तेभ्यो वक्ष्यमाणानां वैलक्षण्यं दर्शयन्नुत्तरा अष्टाविष्टका विधत्ते- अथातो निरुक्तान्येव च्छन्दांस्युपदधातीति । अनिरुक्तेष्टकामन्त्रचतुष्टयादनन्तरं निरुक्तानि पङ्क्त्यादीनि प्रसिद्धानि च्छन्दांस्युपदधातीत्युच्यते । एवं तत्र तत्र द्रष्टव्यम् ॥ ५ ॥
Eggeling
- [He lays down the right set, with, Vāj. S. XIV, 18], ‘The metre Measure;’–the measure (mā), doubtless, is this (terrestrial) world, for this world is, as it were, measured (mita);–’the metre Fore-measure!’–the fore-measure (pramā), doubtless, is the air-world, for the air-world is, as it were, measured forward from this world;–‘The metre Countermeasure,’–the counter-measure (pratimā), doubtless, is yonder (heavenly) world, for yonder world is, as it were, counter-measured 2 in the air;–‘The metre Asrīvayas,’–‘asrīvayas,’ doubtless, is food: whatever food there is in these worlds that is ‘asrīvayas.’ Or, whatever food (anna) flows (sravati) from these
worlds that is ‘asrīvayas.’ Hereafter, now, he puts down only defined metres.
०६
विश्वास-प्रस्तुतिः
पङ्क्तिश्छ᳘न्दः॥
(ऽ) उष्णिक्छ᳘न्दो बृहती च्छ᳘न्दो ऽनुष्टुप्छ᳘न्दो व्विराट् छ᳘न्दो गायत्री च्छ᳘न्दस्त्रिष्टुप्छ᳘न्दो ज᳘गती च्छ᳘न्द ऽइ᳘त्येता᳘नि नि᳘रुक्तानि व्विरा᳘डष्टमानि च्छ᳘न्दाᳫँ᳭स्युपदधाति[[!!]] पृथिवी च्छ᳘न्दो ऽन्त᳘रिक्षं च्छ᳘न्द ऽइ᳘ति या᳘न्येत᳘द्देव᳘त्यानि च्छ᳘न्दाᳫँ᳭सि ता᳘न्ये᳘वैतदु᳘पदधात्यग्नि᳘र्देव᳘ता व्वा᳘तो देवते᳘त्येता वै᳘ देव᳘ताश्छ᳘न्दाᳫँ᳭सि ता᳘न्ये᳘वैतदु᳘पदधाति॥
मूलम् - श्रीधरादि
पङ्क्तिश्छ᳘न्दः॥
(ऽ) उष्णिक्छ᳘न्दो बृहती च्छ᳘न्दो ऽनुष्टुप्छ᳘न्दो व्विराट् छ᳘न्दो गायत्री च्छ᳘न्दस्त्रिष्टुप्छ᳘न्दो ज᳘गती च्छ᳘न्द ऽइ᳘त्येता᳘नि नि᳘रुक्तानि व्विरा᳘डष्टमानि च्छ᳘न्दाᳫँ᳭स्युपदधाति[[!!]] पृथिवी च्छ᳘न्दो ऽन्त᳘रिक्षं च्छ᳘न्द ऽइ᳘ति या᳘न्येत᳘द्देव᳘त्यानि च्छ᳘न्दाᳫँ᳭सि ता᳘न्ये᳘वैतदु᳘पदधात्यग्नि᳘र्देव᳘ता व्वा᳘तो देवते᳘त्येता वै᳘ देव᳘ताश्छ᳘न्दाᳫँ᳭सि ता᳘न्ये᳘वैतदु᳘पदधाति॥
मूलम् - Weber
पङ्क्तिश्छ᳘न्दः॥
उष्णिक्छ᳘न्दो बृहती छ᳘न्दो ऽनुष्टुप्छ᳘न्दो विराट् छ᳘न्दो गायत्री छ᳘न्दस्त्रिष्टुप्छ᳘न्दो ज᳘गती छ᳘न्द इ᳘त्येता᳘नि नि᳘रुक्तानि विरा᳘डष्टमानि छ᳘न्दांस्यु᳘पदधाति पृथिवी छ᳘न्दो ऽन्त᳘रिक्षं छ᳘न्द इ᳘ति या᳘न्येतद्देव᳘त्यानि छ᳘न्दांसि ता᳘न्येॗवैतदु᳘पदधात्यग्निर्देव᳘ता वा᳘तो देवते᳘त्येता वै᳘ देव᳘ताश्छ᳘न्दांसि ता᳘न्येॗवैतदु᳘पदधाति॥
मूलम् - विस्वरम्
(५) “पङ्क्तिश्छन्दः” (६) “उष्णिक्छन्दः” (७) “बृहती च्छन्दः" (८) “अनुष्टुप्छन्दः” (९) “विराट्छन्दः” (१०.) “गायत्री च्छन्दः” (११) “त्रिष्टुप्छन्दः” (१२) “जगती च्छन्दः”- (वा० सं० १४ । १८) इति । एतानि निरुक्तानि विराडष्टमानि च्छन्दांस्युपदधाति । “पृथिवी च्छन्दो ऽन्तरिक्षं छन्दः- (वा० सं० १४ । १९) इति । यान्येतद्देवत्यानि च्छन्दांसि- तान्येवैतदुपदधाति । अग्निर्देवता वातो देवता”- (वा. सं. १४ । २०) इति । एता वै देवताश्छन्दांसि । तान्येवैतदुपदधाति ॥ ६ ॥
सायणः
तानि निरुक्तानि दर्शयति- पङ्क्तिश्छन्द इत्यादिना । एतेषां लक्षणानि द्वितीयचितौ दर्शितानि (श. प. ८ । २ । ४ । ३-१५) । विराट्छन्दसः प्रसिद्धगायत्र्यादिसप्तच्छन्दोमध्ये अपठितत्वात् “द्वाभ्यां विराट् स्वराजौ”- इत्युक्तेष्वन्तर्भावात् निर्दिष्टस्यापि ‘विराडष्टमानि ’ इति पुनरभिधानम् ॥
पश्चादुपधेयानां द्वादशानामिष्टकानां ये मन्त्रास्तेषां प्रतीकमुपादाय तेषां समानार्थत्वेन मादिच्छन्दोरूपतामाशङ्क्य तद्भिन्नत्वमुपपादयंस्तात्पर्यमाह- पृथिवी च्छन्दो ऽन्तरिक्षं छन्द इति । यान्येतद्देवत्यानि च्छन्दांसि तान्येवैतदुपदधातीति । ‘एतद्देवत्यानि’ पृथिव्यन्तरिक्षादिदेवताकमन्त्रोपरिबद्धानि ‘यानि च्छन्दांसि’ सन्ति तानीत्यर्थः । पूर्ववदुपधेयेष्टकामन्त्रप्रतीकमुपादाय व्याचष्टे- अग्निर्देवता वातो देवतेति । एता वै देवताश्छन्दांसि तान्येवैतदुपदधातीति । अग्निवातसूर्यादिदेवताः खलु ‘च्छन्दांसि’ ‘अग्नेर्गायत्र्यभवत्’ इति वाक्यादेव ताभ्यश्छन्दसामुत्पत्तेः, उत्पादकोत्पाद्यानामभेदविवक्षया देवतानामेव च्छन्दस्त्वव्यपदेशः । अत्र कात्यायनः- “छन्दस्या द्वादश द्वादश पक्षपुच्छाप्ययेषु मा च्छन्द इति प्रतिमन्त्रम्"- (का. श्रौ. सू. १७ । १९८) इति ॥ ६ ॥
Eggeling
- ‘The Paṅkti metre! the Ushṇih metre! the Br̥hatī metre! the Anushṭubh metre! the Virāj metre! the Gāyatrī metre! the Trishṭubh metre! the Jagatī metre!’ these eight defined metres, including the Virāj, he puts down.–[The back set, with, Vāj. S. XIV, 19], ‘The metre Earth! the metre Air! the metre Heaven! the metre Years! the metre Stars! the metre Speech! the metre Mind! the metre Husbandry! the metre Gold! the metre Cow! the metre Goat! the metre Horse!’ he thus puts down those metres which are sacred to those particular deities.–[The left set, with, Vāj. S. XIV, 20], ‘The deity Fire! the deity Wind! the deity Sun! the deity Moon! the deity Vasavaḥ! the deity Rudrāḥ! the deity Ādityāḥ! the deity Marutaḥ! the deity Viśve Devāḥ! the deity Br̥haspati! the deity Indra! the deity Varuṇa!’–these deities, doubtless, are metres: it is these he thus lays down.
०७
विश्वास-प्रस्तुतिः
स वै नि᳘रुक्तानि चा᳘निरुक्तानि चो᳘पदधाति॥
स यत्स᳘र्व्वाणि नि᳘रुक्तान्युपा᳘धास्यद᳘न्तवद्धा᳘न्नमभविष्यद᳘क्षेष्यत हा᳘थ यत्स᳘र्व्वाण्य᳘निरुक्तानि परो᳘ ऽक्षᳫँ᳭ हा᳘न्नमभविष्यन्न᳘ हैनद᳘द्रक्ष्यंश्चन नि᳘रुक्तानि चा᳘निरुक्तानि चो᳘पदधाति त᳘स्मान्नि᳘रुक्तम᳘न्नमद्य᳘मानं न᳘ क्षीयते॥
मूलम् - श्रीधरादि
स वै नि᳘रुक्तानि चा᳘निरुक्तानि चो᳘पदधाति॥
स यत्स᳘र्व्वाणि नि᳘रुक्तान्युपा᳘धास्यद᳘न्तवद्धा᳘न्नमभविष्यद᳘क्षेष्यत हा᳘थ यत्स᳘र्व्वाण्य᳘निरुक्तानि परो᳘ ऽक्षᳫँ᳭ हा᳘न्नमभविष्यन्न᳘ हैनद᳘द्रक्ष्यंश्चन नि᳘रुक्तानि चा᳘निरुक्तानि चो᳘पदधाति त᳘स्मान्नि᳘रुक्तम᳘न्नमद्य᳘मानं न᳘ क्षीयते॥
मूलम् - Weber
स वै नि᳘रुक्तानि चा᳘निरुक्तानि चो᳘पदधाति॥
स यत्स᳘र्वाणि नि᳘रुक्तान्युपा᳘धास्यद᳘न्तवद्धा᳘न्नमभविष्यद᳘क्षेष्यत हा᳘थ यत्स᳘र्वाण्य᳘निरुक्तानि परो᳘ ऽक्षᳫं हा᳘न्नमभविष्यन्न᳘ हैनद᳘द्रक्ष्यंश्चन नि᳘रुक्तानि चा᳘निरुक्तानि चो᳘पदधाति त᳘स्मान्नि᳘रुक्तम᳘न्नमद्य᳘मानं न᳘ क्षीयते॥
मूलम् - विस्वरम्
स वै निरुक्तानि चानिरुक्तानि चोपदधाति । स यत्- सर्वाणि निरुक्तान्युपाधास्यत् । अन्तवद्धान्नमभविष्यत्- अक्षेष्यत ह । अथ यत्सर्वाण्यनिरुक्तानि- परो ऽक्षं हान्नमभविष्यत्- न हैनदद्रक्ष्यं श्चन । निरुक्तानि चानिरुक्तानि चोपदधाति । तस्मान्निरुक्तमन्नमद्यमानं न क्षीयते ॥ ७ ॥
सायणः
अथ दक्षिणोत्तरपक्षपुच्छसन्धिषु निरुक्तानिरुक्तभेदेन द्विविधानामपि च्छन्दसामुपधानमन्यतरोपधानपक्षे दोषप्रदर्शनपुरःसरं प्रशंसति- स वै निरुक्तानि चेत्यादिना । ‘सः’ उपधाता ‘यदि’ केवलम् ‘निरुक्तानि एवोपाधास्यत्,’ तर्हि छन्दसां पशुरूपत्वेनान्नत्वात्तेषां छन्दसां निःशेषोपधानेन मितत्वात् ‘अन्नमप्यन्तवदेवाभविष्यत्’ । यथा द्विप्रस्थं त्रिप्रस्थम् इत्येवं निरुक्तिमापन्नं ख्यापितं सत् पुनश्चानिरुक्तस्यान्नस्यासम्भवात् अन्तवदेव भवति । तद्वत्त्वे को बाधः ? इत्यत्राह- अक्षेष्यत हेति । ‘ह’ इति विनिग्रहार्थीयः (निरु. १ । २ । २ ।) क्षयमापद्येत ॥
अथ उक्तवैपरीत्येन ‘यत्’ यदि ‘सर्वाणि’ अपि च्छदांसि ‘अनिरुक्तानि’ एवोपाधास्यत् इत्यनुषज्यते; तर्हि इदमिति निरुक्तत्वाभावादन्नं परो ऽक्षमभविष्यत् । अस्तु परोक्षं को दोषस्तत्राह- न हैनदद्रक्ष्यंश्चनेति । ‘एनद्’ अन्नम् जना नापि ‘अद्रक्ष्यन्’ अस्पष्टत्वेनेन्द्रियाविषयत्वात् । दोषद्वयासंस्पर्शोपायमाह- निरुक्तानि चानिरुक्तानि चोपदधातीति । ‘तस्मात्’ उभयस्याप्यनुष्ठितत्वात् ‘निरुक्तमन्नमद्यमानम्’ अपि अनिरुक्तस्यासङ्ख्यातस्यान्यस्यान्नस्य सद्भावात् ‘न संक्षीयते’ । अतः केषांचिन्निरुक्तानां केषाञ्चिदनिरुक्तानां चोपधानं प्रशस्तमित्यर्थः ॥ ७ ॥
Eggeling
- He lays down both defined and undefined (metres). Were he to lay down such as are all defined, then the food would have an end, it would fail; and (were he to lay down) such as are all undefined, then the food would be invisible, and one would not see it at all. He lays down both defined and undefined ones: hence the defined (certain) food which is eaten does not fail.
०८
विश्वास-प्रस्तुतिः
ता᳘नि वा᳘ ऽएता᳘नि॥
त्री᳘णि द्वादशान्यु᳘पदधाति तत्ष᳘ट्त्रिᳫँ᳭शत्ष᳘ट्त्रिᳫँ᳭शदक्षरा बृह᳘त्येषा वै सा᳘ बृहती यां त᳘द्देवा᳘ ऽअन्त᳘रिक्षं बृहतीं᳘ तृती᳘यां चि᳘तिम᳘पश्यंस्त᳘स्या ऽएत᳘स्यै देवा᳘ ऽउत्तमाः[[!!]]॥
मूलम् - श्रीधरादि
ता᳘नि वा᳘ ऽएता᳘नि॥
त्री᳘णि द्वादशान्यु᳘पदधाति तत्ष᳘ट्त्रिᳫँ᳭शत्ष᳘ट्त्रिᳫँ᳭शदक्षरा बृह᳘त्येषा वै सा᳘ बृहती यां त᳘द्देवा᳘ ऽअन्त᳘रिक्षं बृहतीं᳘ तृती᳘यां चि᳘तिम᳘पश्यंस्त᳘स्या ऽएत᳘स्यै देवा᳘ ऽउत्तमाः[[!!]]॥
मूलम् - Weber
ता᳘नि वा᳘ एता᳘नि॥
त्री᳘णि द्वादशान्यु᳘पदधाति तत्ष᳘ट्त्रिंशत्ष᳘ट्त्रिंशदक्षरा बृहॗत्येषा वै सा बृहती यां त᳘द्देवा᳘ अन्त᳘रिक्षम् बृहतीं᳘ तृती᳘यां चि᳘तिमपश्यंस्त᳘स्या एत᳘स्यै देवा᳘ उत्तमाः᳟॥
मूलम् - विस्वरम्
तानि वा ऽएतानि त्रीणि द्वादशान्युपदधाति । तत् षट्त्रिंशत् । षट्त्रिंशदक्षरा बृहती । एषा वै सा बृहती- यां तद्देवा अन्तरिक्षं बृहतीं तृतीयां चितिमपश्यन् । तस्या ऽएतस्यै देवा उत्तमाः ॥ ८ ॥
सायणः
प्रतिदिक्षु यद्द्वादशत्वं तद्बृहतीसम्पत्तिद्वारा स्तौति- तानि वा एतानि त्रीणि द्वादशान्युपदधातीति । छन्दसां द्वादशकं द्वादशम्, तादृशानि ‘त्रीणि द्वादशानि’ उपदध्यात् । मिलितानि ‘षट्त्रिंशत्’, बृहत्याश्च ‘षट्त्रिंशत् अक्षराणि,’ अतः ‘एषा बृहती’ सम्पन्ना । तृतीयचित्युपक्रमे प्रतिपादिता या बृहती “अन्तरिक्षं बृहतीं तृतीयां चितिमपश्यन्”- (श. प. ८ । ३ । १ । २) इति । ‘तस्या ऽएतस्यै देवा उत्तमाः’ इत्युपधीयन्त इति शेषः । ते च “अग्निर्देवता वातो देवता” इत्यादिना निर्दिष्टाः ॥ ८ ॥
Eggeling
- These then are those (sets of) twelve he lays down,–that makes thirty-six, and the Br̥hatī consists of thirty-six syllables: this is that same Br̥hatī, the air, which the gods then saw as a third
layer. In that (br̥hatī set of bricks) the gods come last (or, are highest).
०९
विश्वास-प्रस्तुतिः
(०) य᳘द्वे᳘वैता ऽइ᳘ष्टका ऽउपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तात्स᳘र्व्वाणि भूता᳘नि स᳘र्व्वा दिशो᳘ ऽनु व्यु᳘दक्रामन्॥
मूलम् - श्रीधरादि
(०) य᳘द्वे᳘वैता ऽइ᳘ष्टका ऽउपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तात्स᳘र्व्वाणि भूता᳘नि स᳘र्व्वा दिशो᳘ ऽनु व्यु᳘दक्रामन्॥
मूलम् - Weber
य᳘द्वेॗवैता इ᳘ष्टका उपद᳘धाति॥
प्रजा᳘पतेर्विस्रस्तात्स᳘र्वाणि भूता᳘नि स᳘र्वा दिशो᳘ ऽनु व्यु᳘दक्रामन्॥
मूलम् - विस्वरम्
यद्वेवैता इष्टका उपदधाति । प्रजापतेर्विस्रस्तात्सर्वाणि भूतानि सर्वा दिशो ऽनु व्युदक्रामन् ॥ ९ ॥
सायणः
एता एवेष्टकाः पुनर्विस्रस्तप्रजापत्यवयवप्रतिसन्धानरूपत्वेन स्तौति- यद्वेवैता इष्टका उपदधाति प्रजापतेर्विस्रस्तादित्यादिना । प्रजापतिर्नाम चितिलक्षणो ऽग्निः । ततो विस्रस्तानि भूतानीत्येताः षट्त्रिंशदिष्टकाः । अत एतासामुपधानेन विस्रस्तात्प्रजापतेर्निर्गतानां भूतानां प्रतिसन्धानं कृतं भवतीत्यर्थः ॥ ९ ॥ १० ॥
Eggeling
- And, again, as to why he lays down these bricks. When Prajāpati became relaxed, all living beings went from him in all directions.
१०
विश्वास-प्रस्तुतिः
(न्त्स) स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘न्यस्मात्ता᳘नि भूता᳘नि व्व्युद᳘क्रामन्नेतास्ता᳘ ऽइ᳘ष्टकास्तद्य᳘देता᳘ ऽउपद᳘धाति या᳘न्येवास्मात्ता᳘नि[[!!]] भूता᳘नि व्व्युद᳘क्रामंस्ता᳘न्यस्मिन्नेतत्प्र᳘तिदधाति॥
मूलम् - श्रीधरादि
(न्त्स) स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘न्यस्मात्ता᳘नि भूता᳘नि व्व्युद᳘क्रामन्नेतास्ता᳘ ऽइ᳘ष्टकास्तद्य᳘देता᳘ ऽउपद᳘धाति या᳘न्येवास्मात्ता᳘नि[[!!]] भूता᳘नि व्व्युद᳘क्रामंस्ता᳘न्यस्मिन्नेतत्प्र᳘तिदधाति॥
मूलम् - Weber
स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रंसत॥
अय᳘मेव सॗ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘न्यस्मात्ता᳘नि भूता᳘नि व्युद᳘क्रामन्नेतास्ता इ᳘ष्टकास्तद्य᳘देता᳘ उपद᳘धाति या᳘न्येॗवास्मात्ता᳘नि भूता᳘नि व्युद᳘क्रामंस्ता᳘न्यस्मिन्नेतत्प्र᳘तिदधाति॥
मूलम् - विस्वरम्
स यः स प्रजापतिर्व्यस्रंसत- अयमेव सः- यो ऽयमग्निश्चीयते । अथ यान्यस्मात्तानि भूतानि व्युदक्रामन्- एतास्ता इष्टकाः । तद्यदेता उपदधाति- यान्येवास्मात्तानि भूतानि व्युदक्रामन्- तान्यस्मिन्नेतत्प्रतिदधाति ॥ १० ॥
सायणः
[व्याख्यानं नवमे]
Eggeling
- Now that same Prajāpati who became relaxed is this very Agni (fire-altar) that is now being built up; and those living beings which went from him are these bricks: hence when he lays down these (bricks), he thereby puts back into him (Prajāpati-Agni) those same living beings which went from him.
११
विश्वास-प्रस्तुतिः
तद्या द᳘श प्रथमा᳘ ऽउपद᳘धाति॥
स᳘ चन्द्र᳘मास्ता द᳘श भवन्ति द᳘शाक्षरा व्विराड᳘न्नं व्विराड᳘न्नमु चन्द्र᳘मा ऽअ᳘थ या ऽउ᳘त्तराः ष᳘ट्त्रिᳫँ᳭शदर्धमासा᳘श्च ते मा᳘साश्च च᳘तुर्विᳫँ᳭शतिरर्धमासा द्वा᳘दश मा᳘साश्चन्द्र᳘मा वै᳘ संव्वत्सरः स᳘र्व्वाणि भूता᳘नि॥
मूलम् - श्रीधरादि
तद्या द᳘श प्रथमा᳘ ऽउपद᳘धाति॥
स᳘ चन्द्र᳘मास्ता द᳘श भवन्ति द᳘शाक्षरा व्विराड᳘न्नं व्विराड᳘न्नमु चन्द्र᳘मा ऽअ᳘थ या ऽउ᳘त्तराः ष᳘ट्त्रिᳫँ᳭शदर्धमासा᳘श्च ते मा᳘साश्च च᳘तुर्विᳫँ᳭शतिरर्धमासा द्वा᳘दश मा᳘साश्चन्द्र᳘मा वै᳘ संव्वत्सरः स᳘र्व्वाणि भूता᳘नि॥
मूलम् - Weber
तद्या द᳘श प्रथमा᳘ उपद᳘धाति॥
स᳘ चन्द्र᳘मास्ता द᳘श भवन्ति द᳘शाक्षरा विराड᳘न्नं विराड᳘न्नमु चन्द्र᳘मा अ᳘थ या उ᳘त्तराः ष᳘ट्त्रिंशदर्धमासा᳘श्च ते मा᳘साश्च च᳘तुर्विंशतिरर्धमासा द्वा᳘दश मा᳘साश्चन्द्र᳘मा वै᳘ संवत्सरः स᳘र्वाणि भूता᳘नि॥
मूलम् - विस्वरम्
तद्या दश प्रथमा उपदधाति- स चन्द्रमाः । ता दश भवन्ति । दशा ऽक्षरा विराट् । अन्नं विराट् । अन्नमु चन्द्रमाः । अथ या उत्तराः षट्त्रिंशत्- अर्धमासाश्च ते, मासाश्च । चतुर्विंशतिरर्धमासाः, द्वादश मासाः । चंद्रमा वै संवत्सरः सर्वाणि भूतानि ॥ ११ ॥
सायणः
अथैताः पूर्वोक्ताभिः सह समुच्चित्य स्तौति- तद्या दशेत्यादिना । ‘याः’ ‘दश’ ‘प्रथमाः’ प्राणभृत उपहिताः ‘स चन्द्रमाः’ चन्द्रमो ऽपेक्षया ‘स’ इति पुल्ँलिङ्गनिर्देशः ॥
उक्तं चन्द्रमस्त्वमेवोपपादयति- ता दश भवन्तीत्यादिना । ‘ताः’ प्राणभृतः ‘दश’ ‘विराट्’ अपि ‘दशाक्षरा’ सा तु ‘अन्नम्’ विराजो ऽन्नत्वं प्रागुक्तम् (श. प. ८ । ३ । २ । १३) । ‘चन्द्रमाः’ अपि ‘अन्नमु’ अन्नमेव “एष वै सोमो राजा देवानामन्नम्, तं देवा भक्षयन्ति” इति श्रुतेः । ओषध्यादिरूपस्य तस्यान्नत्वं व्यक्तमेव । ‘अथ या उत्तराः षट्त्रिंशत्’ छन्दस्याः सन्ति, ‘ते ऽर्द्धमासा मासाश्च’ । मासापेक्षया ‘ते’ इति पुल्ँलिङ्गनिर्देशः । विभज्य दर्शयति- चतुर्विंशतिरर्धमासा द्वादश मासा इति । चन्द्रस्योपचयापचयाभ्यां शुक्लकृष्णौ पक्षौ भवतः, तयोरावृत्त्या मासादिद्वारेण संवत्सरो निष्पद्यत इत्यभिप्रेत्य ‘चन्द्रमा वै संवत्सरः’ इत्युक्तम् । स च ‘सर्वाणि भूतानि’ संवत्सरकाले सर्वभूतानामुत्पत्तेः ॥ ११ ॥
Eggeling
- Now when he first lays down ten (Prāṇabhr̥ts), they are the moon. There are ten of these,–the Virāj; consists of ten syllables, and the Virāj is food, and the moon is food. And when subsequently he lays down thirty-six (Chandasyās), they are the half-months and months–twenty-four half-months and twelve months: the moon, doubtless, is the year, and all living beings.
१२
विश्वास-प्रस्तुतिः
तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्॥
(र्वंस्त᳘) त᳘दस्मिन्नेता᳘नि स᳘र्व्वाणि भूता᳘नि मध्य᳘तो ऽदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति ता ऽअ᳘नन्तर्हिता ऽऋत᳘व्याभ्य ऽउ᳘पदधात्यृतु᳘षु तत्स᳘र्व्वाणि भूता᳘नि प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्॥
(र्वंस्त᳘) त᳘दस्मिन्नेता᳘नि स᳘र्व्वाणि भूता᳘नि मध्य᳘तो ऽदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति ता ऽअ᳘नन्तर्हिता ऽऋत᳘व्याभ्य ऽउ᳘पदधात्यृतु᳘षु तत्स᳘र्व्वाणि भूता᳘नि प्र᳘तिष्ठापयति॥
मूलम् - Weber
तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्॥
त᳘दस्मिन्नेता᳘नि स᳘र्वाणि भूता᳘नि मध्यॗतो ऽदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति ता अ᳘नन्तर्हिता ऋतॗव्याभ्य उ᳘पदधात्यृतु᳘षु तत्स᳘र्वाणि भूता᳘नि प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
तं यत्र देवाः समस्कुर्वन्- उदस्मिन्नेतानि भूतानि मध्यतो ऽदधुः । तथैवास्मिन्नयमेतद्दधाति । ता अनन्तर्हिता ऋतव्याभ्य उपदधाति । ऋतुषु तत्सर्वाणि भूतानि प्रतिष्ठापयति ॥ १२ ॥
सायणः
‘तम्’ संवत्सरात्मकं प्रजापतिम् । ‘यत्र’ यस्मिन्काले ‘देवाः’ ‘समस्कुर्वन्’ तदा ‘सर्वाणि’ भूतानि मध्यदेशे स्थापयामासुः ‘तथैव’ देववदेव ‘अयम्’ अपि यजमानः ‘एतत्’ एतेन छन्दस्येष्टकोपधानेन स्थापयति । गतो ऽनन्तर्हितत्वार्थवादः (श. प. ८ । ३ । २ । १४) भाष्ये ॥ १२ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीय शतपथब्राह्मणभाष्ये अष्टमकाण्डे तृतीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (८-३-२) ॥
Eggeling
- And when the gods restored him (Prajāpati-Agni), they put all those living beings inside him, and in like manner does this one now put them therein. He lays them down so as not to be separated from the seasonal (bricks): he thus establishes all living beings in the seasons.
-
51:2 The thirty-six Chandasyā bricks are laid down, in three sets of twelve each, along the edge of the body of the altar where the two wings and the tail join it; six bricks being placed on each side of the respective spine. At the back the bricks are not, however, placed close to the edge separating the body from the tail, but sufficient space is left (a foot wide) for another set of bricks to be laid down behind the Chandasyās. ↩︎
-
52:1 That is, made a counterfeit, or copy, of the earth. ↩︎