०१
विश्वास-प्रस्तुतिः
अ᳘थ व्विश्व᳘ज्योतिषमु᳘पदधाति॥
व्वायुर्व्वै᳘ मध्यमा᳘ व्विश्व᳘ज्योतिर्व्वायु᳘र्ह्ये᳘वान्तरिक्षलोके व्वि᳘श्वं ज्यो᳘तिर्व्वायु᳘मे᳘वैतदु᳘पदधाति ताम᳘नन्तर्हितां दि᳘श्याभ्य ऽउ᳘पदधाति दिक्षु त᳘द्वायुं᳘ दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु᳘ व्वायुः[[!!]]॥
मूलम् - श्रीधरादि
अ᳘थ व्विश्व᳘ज्योतिषमु᳘पदधाति॥
व्वायुर्व्वै᳘ मध्यमा᳘ व्विश्व᳘ज्योतिर्व्वायु᳘र्ह्ये᳘वान्तरिक्षलोके व्वि᳘श्वं ज्यो᳘तिर्व्वायु᳘मे᳘वैतदु᳘पदधाति ताम᳘नन्तर्हितां दि᳘श्याभ्य ऽउ᳘पदधाति दिक्षु त᳘द्वायुं᳘ दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु᳘ व्वायुः[[!!]]॥
मूलम् - Weber
अ᳘थ विश्व᳘ज्योतिषमु᳘पदधाति॥
वायुर्वै᳘ मध्यमा᳘ विश्व᳘ज्योतिर्वायुॗर्ह्येॗवान्तरिक्षलोके वि᳘श्वं ज्यो᳘तिर्वायु᳘मेॗवैतदु᳘पदधाति ताम᳘नन्तर्हितां दि᳘श्याभ्य उ᳘पदधाति दिक्षु त᳘द्वायुं᳘ दधाति त᳘स्मात्स᳘र्वासु दिक्षु᳘ वायुः᳟॥
मूलम् - विस्वरम्
अथ विश्वज्योतिरिष्टकोपधानम् ।
अथ विश्वज्योतिषमुपदधाति । वायुर्वै मध्यमा विश्वज्योतिः । वायुर्ह्येवान्तरिक्षलोके विश्वं ज्योतिः । वायुमेवैतदुपदधाति । तामनन्तर्हितां दिश्याभ्य उपदधाति । दिक्षु तद्वायुं दधाति । तस्मात्सर्वासु दिक्षु वायुः ॥ १ ॥
सायणः
विश्वज्योतिराख्यामिष्टकां विधाय स्तौति- अथ विश्वज्योतिषमिति 1 । मध्यमाया विश्वज्योतिरिष्टकाया वायुत्वोक्तौ मध्यमचितेस्तद्वत्त्वात्तद्देवताकान्तरिक्षलोकस्थानीयत्वं बीजम् । अस्त्वेवं तथापि वायोस्तच्छब्दवाच्यत्वं कथमिति तत्राह- वायुर्ह्येवान्तरिक्षलोके विश्वं ज्योतिरिति । उपचारप्रयोजनमाह- वायुमेवैतदुपधातीति ।
पूर्वेष्टकाभ्यो ऽस्या अव्यवहितत्वं विधाय स्तौति- तामनन्तर्हितां दिश्याभ्य इति ॥ १ ॥
Eggeling
- He then lays down a Viśvajyotis (all-light brick). Now the middle Viśvajyotis is Vāyu 2, for Vāyu (the wind) is all the light in the air-world: it is Vāyu he thus places therein. He places it so as not to be separated from the regional (bricks): he thus places Vāyu in the regions, and hence there is wind in all the regions.
०२
विश्वास-प्रस्तुतिः
(र्य᳘) य᳘द्वेव᳘ व्विश्व᳘ज्योतिषमुपद᳘धाति॥
प्रजा वै᳘ व्विश्व᳘ज्योतिः प्रजा᳘ ह्येव व्वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमे᳘वैतदु᳘पदधाति[[!!]] ताम᳘नन्तर्हितां दि᳘श्याभ्य ऽउ᳘पदधाति दिक्षु त᳘त्प्रजा᳘ दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु᳘ प्रजाः᳘॥
मूलम् - श्रीधरादि
(र्य᳘) य᳘द्वेव᳘ व्विश्व᳘ज्योतिषमुपद᳘धाति॥
प्रजा वै᳘ व्विश्व᳘ज्योतिः प्रजा᳘ ह्येव व्वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमे᳘वैतदु᳘पदधाति[[!!]] ताम᳘नन्तर्हितां दि᳘श्याभ्य ऽउ᳘पदधाति दिक्षु त᳘त्प्रजा᳘ दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु᳘ प्रजाः᳘॥
मूलम् - Weber
य᳘द्वेव᳘ विश्व᳘ज्योतिषमुपद᳘धाति॥
प्रजा वै᳘ विश्व᳘ज्योतिः प्रजाॗ ह्येव वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमेॗवैत᳘दुपदधाति ताम᳘नन्तर्हितां दि᳘श्याभ्या उ᳘पदधाति दिक्षु त᳘त्प्रजा᳘ 3 दधाति त᳘स्मात्स᳘र्वासु दिक्षु᳘ प्रजाः᳟॥
मूलम् - विस्वरम्
यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः । प्रजा ह्येव विश्वं ज्योतिः । प्रजननमेवैतदुपदधाति । तामनन्तर्हितां दिश्याभ्य उपदधाति । दिक्षु तत्प्रजा दधाति । तस्मात्सर्वासु दिक्षु प्रजाः ॥ २ ॥
सायणः
इत्थं वायुरूपेण प्रशस्याथ प्रजारूपेणापि प्रशंसति- यद्वेव विश्वज्योतिषमित्यादिना । पूर्ववद् व्याख्येयम् ॥ २ ॥
Eggeling
- And, again, as to why he lays down the Viśvajyotis,–the Viśvajyotis, doubtless, is offspring (or creatures), for offspring indeed is all the light: he thus lays generative power (into that world). He places it so as not to be separated from the regional ones 4: he thus places creatures in the regions, and hence there are creatures in all the regions.
०३
विश्वास-प्रस्तुतिः
(०) व्विश्व᳘कर्मा त्वा सादयत्वि᳘ति॥
व्विश्व᳘कर्मा᳘ ह्येतां᳘ तृती᳘यां चि᳘तिम᳘पश्यदन्त᳘रिक्षस्य पृष्ठे ज्यो᳘तिष्मतीमि᳘त्यन्त᳘रिक्षस्य᳘ ह्ययं᳘ पृष्ठे ज्यो᳘तिष्मान्वायुः[[!!]]॥
मूलम् - श्रीधरादि
(०) व्विश्व᳘कर्मा त्वा सादयत्वि᳘ति॥
व्विश्व᳘कर्मा᳘ ह्येतां᳘ तृती᳘यां चि᳘तिम᳘पश्यदन्त᳘रिक्षस्य पृष्ठे ज्यो᳘तिष्मतीमि᳘त्यन्त᳘रिक्षस्य᳘ ह्ययं᳘ पृष्ठे ज्यो᳘तिष्मान्वायुः[[!!]]॥
मूलम् - Weber
विश्व᳘कर्मा त्वा सादयत्वि᳘ति॥
विश्व᳘कर्माॗ ह्येतां᳘ तृती᳘यां चि᳘तिम᳘पश्यदन्त᳘रिक्षस्य पृष्ठे ज्यो᳘तिष्मतीमि᳘त्यन्त᳘रिक्षस्य ह्य᳘य᳘म् पृष्ठे ज्यो᳘तिष्मान्वायुः᳟॥
मूलम् - विस्वरम्
“विश्वकर्मा त्वा सादयतु”- इति । विश्वकर्मा ह्येतां तृतीयां चितिमपश्यत् । “अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीम्”- इति । अन्तरिक्षस्य ह्ययं पृष्ठे ज्योतिष्मान्वायुः ॥ ३ ॥
सायणः
स्वयमातृण्णावद्विश्वज्योतिषो ऽपि विश्वकर्मणा सादनम् । तद्व्याख्यानं च पूर्ववत् । अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमिति । ‘अयं वायुः’ एवान्तरिक्षपृष्टवर्ती ‘ज्योतिष्मान्,’ तत्स्थानत्वात् । अतस्तदभेदेनेष्टका ऽपि तद्रूपिणीत्यर्थः ॥ ३ ॥
Eggeling
- [He lays it down, with, Vāj. S. XIV, 14], ‘May Viśvakarman settle thee!’ for Viśvakarman saw this third layer 5;–‘on the back of the air, thee the brilliant one!’ for on the back of the air that brilliant Vāyu indeed is.
०४
विश्वास-प्रस्तुतिः
(र्व्वि᳘) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्व्यानाये᳘ति प्राणो वै᳘ व्विश्व᳘ज्योतिः स᳘र्व्वस्मा ऽउ वा᳘ ऽएत᳘स्मै प्राणो व्वि᳘श्वं ज्यो᳘तिर्यच्छे᳘ति स᳘र्व्वं ज्यो᳘तिर्यच्छे᳘त्येत᳘द्वायुष्टे᳘ ऽधिपतिरि᳘ति व्वायु᳘मे᳘वास्या ऽअ᳘धिपतिं करोति सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(र्व्वि᳘) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्व्यानाये᳘ति प्राणो वै᳘ व्विश्व᳘ज्योतिः स᳘र्व्वस्मा ऽउ वा᳘ ऽएत᳘स्मै प्राणो व्वि᳘श्वं ज्यो᳘तिर्यच्छे᳘ति स᳘र्व्वं ज्यो᳘तिर्यच्छे᳘त्येत᳘द्वायुष्टे᳘ ऽधिपतिरि᳘ति व्वायु᳘मे᳘वास्या ऽअ᳘धिपतिं करोति सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्यानाये᳘ति प्राणो वै᳘ विश्व᳘ज्योतिः स᳘र्वस्मा उ वा एत᳘स्मै प्राणो वि᳘श्वं ज्यो᳘तिर्यछे᳘ति स᳘र्वं ज्यो᳘तिर्यछे᳘त्येत᳘द्वायुष्टे᳘ ऽधिपतिरि᳘ति वायु᳘मॗवास्या अ᳘धिपतिं करोति सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“विश्वस्मै प्राणायापानाय व्यानाय”- इति । प्राणो वै विश्वज्योतिः । सर्वस्मा ऽउ वा ऽएतस्मै प्राणः । “विश्वं ज्योतिर्यच्छ”- इति । सर्वं ज्योतिर्यच्छेत्येतद् । “वायुष्टे ऽधिपतिः”- (वा. सं. १४ । १४) इति । वायुमेवास्या अधिपतिं करोति । सादायित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ ४ ॥
सायणः
विश्वस्मै प्राणायेत्यादि । स्वयमातृण्णावत् । तत्र ‘विश्वं ज्योतिर्यच्छ’ इत्यस्य तात्पर्यम्- सर्वं ज्योतिर्यच्छेत्येतदिति । वायुष्टे इत्यादि सूददोहसो ऽर्थवादातिदेशान्तं स्पष्टम् ॥ ४ ॥
Eggeling
- ‘For all up-breathing, down-breathing, through-breathing,’–for the Viśvajyotis is breath,
and breath indeed is (necessary) for this entire universe;–‘give all the light!’–that is, ‘give the whole light;’–‘Vāyu is thine over-lord,’–it is Vāyu he thus makes the over-lord of that (layer and the air-world). Having settled it, he pronounces the Sūdadohas over it: the significance of this has been explained.
०५
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ ऽर्त᳘व्या ऽउ᳘पदधाति॥
(त्यृ) ऋत᳘व ऽएते य᳘दृत᳘व्या ऽऋतू᳘ने᳘वैतदु᳘पदधाति न᳘भश्च नभस्य᳘श्च व्वा᳘र्षिकावृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदु᳘पदधाति द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोत्य᳘वकासू᳘पदधात्य᳘वकाभिः प्र᳘च्छादयत्या᳘पो वा ऽअ᳘वका ऽअपस्त᳘देत᳘स्मिन्नृतौ᳘ दधाति त᳘स्मादेत᳘स्मिन्नृतौ भूयिष्ठं[[!!]] व्वर्षति॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ ऽर्त᳘व्या ऽउ᳘पदधाति॥
(त्यृ) ऋत᳘व ऽएते य᳘दृत᳘व्या ऽऋतू᳘ने᳘वैतदु᳘पदधाति न᳘भश्च नभस्य᳘श्च व्वा᳘र्षिकावृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदु᳘पदधाति द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोत्य᳘वकासू᳘पदधात्य᳘वकाभिः प्र᳘च्छादयत्या᳘पो वा ऽअ᳘वका ऽअपस्त᳘देत᳘स्मिन्नृतौ᳘ दधाति त᳘स्मादेत᳘स्मिन्नृतौ भूयिष्ठं[[!!]] व्वर्षति॥
मूलम् - Weber
अ᳘थ ऽर्तॗव्या उ᳘पदधाति॥
ऋत᳘व एते य᳘दृतॗव्या ऋतू᳘नेॗवैतदु᳘पदधाति न᳘भश्च नभस्य᳘श्च वा᳘र्षिकावृतू इ᳘ति ना᳘मनी एनयोरेते ना᳘मभ्यामेॗवैने एतदु᳘पदधाति द्वे इ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोत्य᳘वकासू᳘पदधात्य᳘वकाभिः प्र᳘छादयत्या᳘पो वा अ᳘वका अपस्त᳘देत᳘स्मिन्नृतौ᳘ दधाति त᳘स्मादेत᳘स्मिन्नृतौ भू᳘यिष्ठं वर्षति॥
मूलम् - विस्वरम्
अथ चतुर्ऋतव्येष्टकोपधानम् ।
अथ ऽर्तव्या उपदधाति । ऋतव एते यदृतव्याः । ऋतूनेवैतदुपदधाति । “नभश्च नभस्यश्च वार्षिकावृतू”- (वा. सं. १४ । १५) इति । नामनी एनयोरेते । नामभ्यामेवैने एतदुपदधाति । द्वे ऽइष्टके भवतः । द्वौ हि मासावृतुः । सकृत्सादयति । एकं तदृतुं करोति । अवकासूपदधाति । अवकाभिः प्रच्छादयति । आपो वा ऽअवकाः । अपस्तदेतस्मिन्नृतौ दधाति । तस्मादेतस्मिन्नृतौ भूयिष्ठं वर्षति ॥ ५ ॥
सायणः
“अथर्तव्या उपदधाति” इत्यादिः “एकं तदृतुं करोति” इत्यन्तः द्वितीयचितिवत् द्रष्टव्यः । “नभश्च नभस्यश्च वार्षिकावृतू” 6- इति तयोरुपधानमन्त्रः । ‘नभः’ नाम श्रावणो मासः, ‘नभस्यः’ भाद्रः; तावुभौ वर्षाख्यावृतू । अवयवापेक्षया द्विवचनम् । ताश्चतस्र ऋतव्या अवकासूपधायावकाभिरेव प्रच्छादयेत् । अवका नाम हृदादिजलेषु स्तबकाकारेण प्ररोहन्तो हरितवर्णाः पदार्थाः शैवलानीत्यर्थः । तासां चाप्सु, एव जायमानत्वादाश्रयाश्रयिणोरभेदेनावात्मता । ऋतव्यानामृतुत्वात् तेनावकास्थापनेन तस्मिन्नेवर्त्तावप एव स्थापितवान् भवति ॥ ५ ॥
Eggeling
- He then lays down two Ritavyā (seasonal 7 bricks);–the two seasonal ones being the same as the seasons, it is the seasons he thus places therein.[Vāj. S. XIV, 15], ‘Nabha and Nabhasya, the two rainy seasons,’ these are the names of those two (bricks): it is by their names he thus lays them down. There are two (such) bricks, for a season consists of two months. He settles them once only: he thereby makes (the two months) one season. He places them on avakā-plants and covers them
with avakā-plants 8; for avakā-plants mean water he thus bestows water on that season, whence it rains most abundantly in that season.
०६
विश्वास-प्रस्तुतिः
(त्य) अथो᳘त्तरे॥
(र ऽ) इष᳘श्चोर्ज᳘श्च शारदा᳘वृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदु᳘पदधाति द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं[[!!]] करोत्य᳘वकासू᳘पदधात्या᳘पो वा ऽअ᳘वका ऽअपस्त᳘देत᳘स्य ऽर्तोः᳘ पुर᳘स्ताद्दधाति त᳘स्मादेत᳘स्य ऽर्तोः᳘ पुर᳘स्ताद्वर्षति᳘ नोप᳘रिष्टात्प्र᳘च्छादयति त᳘स्मान्न त᳘थेवोप᳘रिष्टाद्वर्षति॥
मूलम् - श्रीधरादि
(त्य) अथो᳘त्तरे॥
(र ऽ) इष᳘श्चोर्ज᳘श्च शारदा᳘वृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदु᳘पदधाति द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं[[!!]] करोत्य᳘वकासू᳘पदधात्या᳘पो वा ऽअ᳘वका ऽअपस्त᳘देत᳘स्य ऽर्तोः᳘ पुर᳘स्ताद्दधाति त᳘स्मादेत᳘स्य ऽर्तोः᳘ पुर᳘स्ताद्वर्षति᳘ नोप᳘रिष्टात्प्र᳘च्छादयति त᳘स्मान्न त᳘थेवोप᳘रिष्टाद्वर्षति॥
मूलम् - Weber
अथो᳘त्तरे॥
इष᳘श्चोर्ज᳘श्च शारदा᳘वृतू इ᳘ति ना᳘मनी एनयोरेते ना᳘मभ्यामेॗवैने एतदु᳘पदधाति द्वे इ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोत्य᳘वकासू᳘पदधात्या᳘पो वा अ᳘वका अपस्त᳘देत᳘स्य ऽर्तोः᳘ पुर᳘स्ताद्दधाति त᳘स्मादेत᳘स्य ऽर्तोः᳘ पुर᳘स्ताद्वर्षतिॗ नोप᳘रिष्टात्प्र᳘छादयति त᳘स्मान्न त᳘थेवोप᳘रिष्टाद्वर्षति॥
मूलम् - विस्वरम्
अथोत्तरे- “इषश्चोर्जश्च शारदावृतू”- (वा. सं. १४ । १६) इति । नामनी ऽएनयोरेते । नामभ्यामेवैने ऽएतदुपदधाति । द्वे ऽइष्टके भवतः । द्वौ हि मासावृतुः । सकृत्सादयति । एकं तदृतुं करोति । अवकासूपदधाति । आपो वा ऽअवकाः । अपस्तदेतस्य ऽर्तोः पुरस्ताद्दधाति । तस्मादेतस्य ऽर्तोः पुरस्ताद्वर्षति । नोपरिष्टात्प्रच्छादयति । तस्मान्न तथैवोपरिष्टाद्वर्षति ॥ ६ ॥
सायणः
‘अथोत्तरे’- ऋतव्ये इष्टके अभिधीयेते इति शेषः । “इषश्चोर्जश्च शारदावृतू” 9- इत्युत्तरयोर्ऋतव्ययोरुपधानमन्त्रः । ‘इषः’ आश्वयुजः ‘ऊर्जः’ कार्त्तिकः । ‘नामनी’ इत्यादि गतम् । अत्रोत्तरयोर्ऋतव्ययोरवकासूपधानमेव, नोपर्यवकाभिश्छादनं कर्त्तव्यमिति, अमुमर्थमिदानींतनवर्षणप्रकारदर्शनमुखेनोपपादयति- अवकासूपदधातीति । अधस्तादवकासम्बन्धाद्यथा ऋत्वादौ वृष्टिर्जायते, तथैवोपरिष्टात्तु तदृत्वन्ते वृष्टिर्नास्ति अवकासम्बन्धाभावात् । अत एतस्य तादृग्विधत्वं सिद्धमित्यर्थः ॥ ६ ॥
Eggeling
- Then the two upper ones, with (Vāj. S. XIV, I6), ‘Isha and Ūrja, the two autumnal seasons,’–these are the names of those two (bricks): it is by their names he thus lays them down. There are two (such) bricks, for a season consists of two months. He settles them only once: he thereby makes (the two months) one season. He places them on avakā-plants, for the avakā-plants mean water: he thus bestows water before that season, whence it rains before that season. He does not cover them afterwards, whence it does not likewise rain after (that season).
०७
विश्वास-प्रस्तुतिः
तद्य᳘देता ऽअ᳘त्रोपद᳘धाति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘रिम᳘ ऽउ लोकाः᳘ संव्वत्सरस्त᳘स्यान्त᳘रिक्षमेव᳘ मध्यमा चि᳘तिरन्त᳘रिक्षमस्य व्वर्षाशर᳘दावृतू तद्य᳘देता ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैता᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता ऽअत्रो᳘पदधाति॥
मूलम् - श्रीधरादि
तद्य᳘देता ऽअ᳘त्रोपद᳘धाति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘रिम᳘ ऽउ लोकाः᳘ संव्वत्सरस्त᳘स्यान्त᳘रिक्षमेव᳘ मध्यमा चि᳘तिरन्त᳘रिक्षमस्य व्वर्षाशर᳘दावृतू तद्य᳘देता ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैता᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता ऽअत्रो᳘पदधाति॥
मूलम् - Weber
तद्य᳘देता॥
अ᳘त्रोपद᳘धाति संवत्सर᳘ एॗषो ऽग्नि᳘रिम᳘ उ लोकाः᳘ संवत्सरस्त᳘स्यान्त᳘रिक्षमेव᳘ मध्यमा चि᳘तिरन्त᳘रिक्षमस्य वर्षाशर᳘दावृत् तद्य᳘देता अ᳘त्रोपद᳘धाति य᳘देॗवास्यैता᳘ आत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता अत्रो᳘पदधाति॥
मूलम् - विस्वरम्
तद्यदेता अत्रोपदधाति । संवत्सर एषो ऽग्निः । इम उ लोकाः संवत्सरः । तस्यान्तरिक्षमेव मध्यमा चितिः । अन्तरिक्षमस्य वर्षाशरदावृतू । तद्यदेता अत्रोपदधाति- यदेवास्यैता आत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेता अत्रोपदधाति ॥ ७ ॥
सायणः
तद्यदेता अत्रोपदधाति संवत्सर एषो ऽग्निरिति यद्वेवैता अत्रोपदधाति प्रजापतिरेषो ऽग्निरिति- चार्थवादद्वयं द्वितीयचितितृतीयचितिवत् ऋत्वर्थवादव्याख्यानैर्व्याख्यातप्रायम्, अतो न पुनर्व्याख्यानापेक्षा ऽस्ति । तत्र क्षित्यन्तरिक्षयोर्मध्यदेशो द्वितीया चितिः । ‘अत्र त्वन्तरिक्षमेव’ तृतीया चितिः, तत्र [[??]] ‘वर्षा-शरदौ’ इति विशेषः ॥ ७ ॥ ८ ॥
Eggeling
- And as to why he places these (four bricks) in this (layer),–this fire-altar is the year, and the year is the same as these worlds, and the middlemost layer is the air (-world) thereof; and the rainy season and autumn are the air (-world) thereof: hence when he places them in this (layer), he thereby restores to him (Agni) what (part) of his body these (formed),–this is why he places them in this (layer).
०८
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैता ऽअ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरे᳘षो ऽग्निः᳘ संव्वत्सर᳘ ऽउ प्रजा᳘पतिस्त᳘स्य म᳘ध्यमेव᳘ मध्यमा चि᳘तिर्म᳘ध्यमस्य व्वर्षाशर᳘दावृतू तद्य᳘देता ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैता᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता ऽअत्रो᳘पदधाति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैता ऽअ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरे᳘षो ऽग्निः᳘ संव्वत्सर᳘ ऽउ प्रजा᳘पतिस्त᳘स्य म᳘ध्यमेव᳘ मध्यमा चि᳘तिर्म᳘ध्यमस्य व्वर्षाशर᳘दावृतू तद्य᳘देता ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैता᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता ऽअत्रो᳘पदधाति॥
मूलम् - Weber
य᳘द्वेॗवैता अ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरेॗषो ऽग्निः᳘ संवत्सर᳘ उ प्रजा᳘पतिस्त᳘स्य म᳘ध्यमेव᳘ मध्यमा चि᳘तिर्म᳘ध्यमस्य वर्षाशर᳘दावृतू तद्य᳘देता अ᳘त्रोपद᳘धाति य᳘देॗवास्यैता᳘ आत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता अत्रो᳘पदधाति॥
मूलम् - विस्वरम्
यद्वेवैता अत्रोपदधाति । प्रजापतिरेषो ऽग्निः । संवत्सर उ प्रजापतिः । तस्य मध्यमेव मध्यमा चितिः । मध्यमस्य वर्षाशरदावृतू । तद्यदेता अत्रोपदधाति । यदेवास्यैता आत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेता अत्रोपदधाति ॥ ८ ॥
सायणः
[व्याख्यानं सप्तमे]
Eggeling
- And, again, as to why he places them in this (layer),–this Agni (the fire-altar) is Prajāpati, and Prajāpati is the year. Now the middlemost layer is the middle of this (altar), and the rainy season and the autumn are the middle of that (year): hence when he places them in this (layer), he thereby restores to him (Agni-Prajāpati) what part of his
body these (formed),–this is why he places them in this (layer).
०९
विश्वास-प्रस्तुतिः
ता वा᳘ ऽएताः᳘॥
(श्च᳘) च᳘तस्र ऽऋत᳘व्या मध्यमा᳘यां चि᳘ता ऽउ᳘पदधाति द्वे᳘ द्वे ऽइ᳘तरासु चि᳘तिषु च᳘तुष्पादा वै᳘ पश᳘वो ऽन्त᳘रिक्षं मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - श्रीधरादि
ता वा᳘ ऽएताः᳘॥
(श्च᳘) च᳘तस्र ऽऋत᳘व्या मध्यमा᳘यां चि᳘ता ऽउ᳘पदधाति द्वे᳘ द्वे ऽइ᳘तरासु चि᳘तिषु च᳘तुष्पादा वै᳘ पश᳘वो ऽन्त᳘रिक्षं मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
च᳘तस्र ऋतॗव्या मध्यमा᳘यां चि᳘ता उ᳘पदधाति द्वे᳘-द्वे इ᳘तरासु चि᳘तिषु च᳘तुष्पादा वै᳘ पश᳘वो ऽन्त᳘रिक्षम् मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - विस्वरम्
ता वा ऽएताश्चतस्र ऋतव्या मध्यमायां चिता ऽउपदधाति, द्वे द्वे इतरासु चितिषु । चतुष्पादा वै पशवः । अन्तरिक्षं मध्यमा चितिः । अन्तरिक्षे तत्पशून्दधाति । तस्मादन्तरिक्षायतनाः पशवः ॥ ९ ॥
सायणः
मध्यमचित्यां प्रथमोत्तमचित्योर्थद्वैलक्षण्यमृतव्यानां चतुष्ट्वं तत्प्रशंसति- ता वा एताश्चतस्र ऋतव्या मध्यमायामित्यादिना । नात्र तिरोहितो ऽर्थो ऽस्ति ॥ ९ ॥
Eggeling
- There are here four seasonal (bricks) he lays down in the middlemost layer; and two in each of the other layers,–animals (cattle) are four-footed, and the middlemost layer is the air: he thus places animals in the air, and hence there are animals that have their abode in the air.
१०
विश्वास-प्रस्तुतिः
(वो) य᳘द्वेव च᳘तस्रः॥ (श्च᳘) च᳘तुष्पादा वै᳘ पशवो᳘ ऽन्नं पश᳘वो म᳘ध्यं मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति॥
मूलम् - श्रीधरादि
(वो) य᳘द्वेव च᳘तस्रः॥ (श्च᳘) च᳘तुष्पादा वै᳘ पशवो᳘ ऽन्नं पश᳘वो म᳘ध्यं मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति॥
मूलम् - Weber
य᳘द्वेव च᳘तस्रः च᳘तुष्पादा वै᳘ पशवो᳘ ऽन्नम् पश᳘वो म᳘ध्यम् मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति॥
मूलम् - विस्वरम्
यद्वेव चतस्रः । चतुष्पादा वै पशवः । अन्नं पशवः, मध्यं मध्यमा चितिः । मध्यतस्तदन्नं दधाति ॥ १० ॥
सायणः
चतुष्ट्वमुक्त्वा पशुत्वमुपजीव[[??]]त्मना ऽपि प्रशंसति- यद्वेव चतस्र इति । इष्टकासु सख्याचतुष्ट्वमस्ति, ‘पशवः’ अपि ‘चतुष्पादाः’ यतस्ताः पशवः अतः ‘अन्नम्’ हि पयोद्वारा गवादयः, स्वरूपेण चाजादयः ‘मध्यमा चितिः’ च ‘मध्यम्’ उदरस्थानीया, अतश्चतसृणामृतव्यानामुपधानेनोदरे ऽन्नमेव स्थापितं भवतीत्यर्थः ॥ १० ॥
Eggeling
- And, again, why there are four,–animals are four-footed, and animals are food; and the middle-most layer is the middle (of Agni’s body): he thus puts food in the middle.
११
विश्वास-प्रस्तुतिः
य᳘द्वेव च᳘तस्रः॥
(श्च᳘) च᳘तुरक्षरं वा᳘ ऽअन्त᳘रिक्षं᳘ द्व्य᳘क्षरा ऽइ᳘तराश्चि᳘तयस्तद्या᳘वदन्त᳘रिक्षं ता᳘वत्त᳘त्कृत्वो᳘पदधाति॥
मूलम् - श्रीधरादि
य᳘द्वेव च᳘तस्रः॥
(श्च᳘) च᳘तुरक्षरं वा᳘ ऽअन्त᳘रिक्षं᳘ द्व्य᳘क्षरा ऽइ᳘तराश्चि᳘तयस्तद्या᳘वदन्त᳘रिक्षं ता᳘वत्त᳘त्कृत्वो᳘पदधाति॥
मूलम् - Weber
य᳘द्वेव च᳘तस्रः॥
च᳘तुरक्षरं वा᳘ अन्त᳘रिक्षं द्व्य᳘क्षरा इ᳘तराश्चि᳘तयस्तद्या᳘वदन्त᳘रिक्षं ता᳘वत्त᳘त्कृत्वो᳘पदधाति॥
मूलम् - विस्वरम्
यद्वेव चतस्रः । चतुरक्षरं वा ऽअन्तरिक्षम् । द्व्यक्षरा इतराश्चितयः । तद्यावदन्तरिक्षं- तावत्तत्कृत्वोपदधाति ॥ ११ ॥
सायणः
उक्तमेव चतुष्टयं शब्दगतचतुःसंख्यायुक्तान्तरिक्षाख्यमध्यमचितेर्योग्यत्वाभिधानद्वारेण स्तौति- यद्वेव चतस्र इति । चतुरक्षरं वा इति । अन्तरिक्षशब्दगताक्षरपरिगणनायां चत्वार्यक्षराणि, अतो ऽन्तरिक्षेतरचित्तीनां द्व्यक्षर[[??]] [[??]] चतुःसंख्याका इष्टका ‘उपदधाति’ पूर्णप्रमाणमुपहितवान्भवति ॥ ११ ॥
Eggeling
- And, again, why there are four,–‘antariksha’ (air) consists of four syllables, and the other layers (citi) consist of two syllables; hence as much as the air consists of, so much he makes it in laying it down.
१२
विश्वास-प्रस्तुतिः
य᳘द्वेव च᳘तस्रः॥
पशु᳘रेष य᳘दग्निर्म᳘ध्यं तत्प्र᳘ति पशुं व्व᳘रिष्ठं करोति त᳘स्मान्म᳘ध्यं प्र᳘ति पशुर्व्व᳘रिष्ठः॥
मूलम् - श्रीधरादि
य᳘द्वेव च᳘तस्रः॥
पशु᳘रेष य᳘दग्निर्म᳘ध्यं तत्प्र᳘ति पशुं व्व᳘रिष्ठं करोति त᳘स्मान्म᳘ध्यं प्र᳘ति पशुर्व्व᳘रिष्ठः॥
मूलम् - Weber
य᳘द्वेव चतस्रः॥
पशु᳘रेष य᳘दग्निर्म᳘ध्यं तत्प्र᳘ति पशुं व᳘रिष्ठं करोति त᳘स्मान्म᳘ध्यम् प्र᳘ति पशुर्व᳘रिष्ठः॥
मूलम् - विस्वरम्
यद्वेव चतस्रः । पशुरेष यदग्निः । मध्यं तत्प्रति पशुं वरिष्ठं करोति । तस्मान्मध्यं प्रति पशुर्वरिष्ठः ॥ १२ ॥
सायणः
प्रकारान्तरेणापि प्रशंसति- यद्वेव चतस्रः पशुरेष यदग्निरिति । चित्याग्नेः पशुत्वं छन्दस्यानां प्रकरणे- “स एष पशुर्यदग्निः”- इत्यादिना दर्शितम् । मध्यं तत् प्रति पशुं वरिष्ठं करोतीति । ‘तस्मात्’ तेन ‘पशुं प्रति’ ‘मध्यं’ मध्यदेशमिति यावत् । स्पष्टमन्यत् ॥ १२ ॥
Eggeling
- And, again, why there are four,–this Agni (altar), doubtless, is an animal: he thus makes the animal biggest towards the middle; whence an animal is biggest towards the middle.
१३
विश्वास-प्रस्तुतिः
(स्ता) ता वा᳘ ऽएताः[[!!]]॥
(श्च᳘) च᳘तस्र ऽऋत᳘व्यास्ता᳘सां व्विश्व᳘ज्योतिः पञ्चमी प᳘ञ्च दि᳘श्यास्तद्द᳘श द᳘शाक्षरा व्विराड᳘न्नं व्विराण्म᳘ध्यं मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति ता ऽअ᳘नन्तर्हिताः स्वयमातृण्णा᳘या ऽउ᳘पदधाति प्राणो वै᳘ स्वयमातृण्णा᳘ ऽनन्तर्हितं त᳘त्प्राणाद᳘न्नं दधात्यु᳘त्तरा ऽउ᳘त्तरं त᳘त्प्राणाद᳘न्नं दधाति॥
मूलम् - श्रीधरादि
(स्ता) ता वा᳘ ऽएताः[[!!]]॥
(श्च᳘) च᳘तस्र ऽऋत᳘व्यास्ता᳘सां व्विश्व᳘ज्योतिः पञ्चमी प᳘ञ्च दि᳘श्यास्तद्द᳘श द᳘शाक्षरा व्विराड᳘न्नं व्विराण्म᳘ध्यं मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति ता ऽअ᳘नन्तर्हिताः स्वयमातृण्णा᳘या ऽउ᳘पदधाति प्राणो वै᳘ स्वयमातृण्णा᳘ ऽनन्तर्हितं त᳘त्प्राणाद᳘न्नं दधात्यु᳘त्तरा ऽउ᳘त्तरं त᳘त्प्राणाद᳘न्नं दधाति॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
च᳘तस्र ऋतॗव्यास्ता᳘सां विश्व᳘ज्योतिः पञ्चमी प᳘ञ्च दि᳘श्यास्तद्द᳘श द᳘शाक्षरा विराड᳘न्नं विराण्म᳘ध्यम् मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति ता अ᳘नन्तर्हिताः स्वयमातृणा᳘या उ᳘पदधाति प्राणो वै᳘ स्वयमातृणा᳘नन्तर्हितं त᳘त्प्राणाद᳘न्नं दधात्यु᳘त्तरा उ᳘त्तरं त᳘त्प्राणाद᳘न्नं दधाति॥
मूलम् - विस्वरम्
ता वा ऽएताश्चतस्र ऋतव्याः । तासां विश्वज्योतिः पञ्चमी । पञ्च दिश्याः । तद्दश । दशाक्षरा विराट् । अन्नं विराट् । मध्यं मध्यमा चितिः । मध्यतस्तदन्नं दधाति । ता अनन्तर्हिताः स्वयमातृण्णाया उपदधाति । प्राणो वै स्वयमातृण्णा । अनन्तर्हितं तत्प्राणादन्नं दधाति । उत्तराः । उत्तरं तत्प्राणादन्नं दधाति ॥ १३ ॥
सायणः
अथैताश्चतस्रः प्रागुक्ताभिः सह समुच्चित्य विराट्त्वसम्पादनाय स्तौति- ता वा इत्यादिना । ‘ताः’ ‘एताश्चतस्र ऋतव्याः’ एका ‘विश्वज्योतिः’ ‘पञ्च दिश्याः’ इति ‘दश’ । विराडपि ‘दशाक्षरा’ अत आसां विराट्सम्पत्तिर्भवति । सा च ‘विराडन्नम्’ गोरूपत्वात् । अतो दशानामुपधानेनान्नमेव ‘मध्यतः’ उदरे स्थापितवान् भवति । ता अनन्तर्हिताः स्वयमातृण्णाया इति । ‘ताः’ विराट्त्वेन स्तुता दशापीष्टका इत्यर्थः । उत्तरा इति । ता एव दश ‘स्वयमातृण्णायाः’ ‘उत्तराः’ उपरिवर्तिनीरित्यर्थः ॥ १३ ॥
Eggeling
- There are here four R̥tavyās, the Viśvajyotis being the fifth, and five Diśyās,–this makes ten: the Virāj consists of ten syllables, and the Virāj is food, and the middlemost layer is the middle;–he thus puts food in the middle (of the body). He lays them down so as not to be separated from the naturally-perforated one 10, for the naturally-perforated one is the vital air: he thus places the food so as not to be separated from the vital air. Subsequently (to the central brick) he lays them down: subsequently
to (or upon) the vital air he thus places food.
१४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ प्राणभृ᳘त ऽउ᳘पदधाति॥
प्राणा वै᳘ प्राणभृ᳘तः प्राणा᳘ने᳘वैतदु᳘पदधाति ता द᳘श भवन्ति द᳘श वै᳘ प्राणाः᳘ पूर्वार्ध ऽउ᳘पदधाति पुर᳘स्ता᳘द्धीमे᳘ प्राणा ऽआ᳘युर्मे पाहि ज्यो᳘तिर्मे यच्छे᳘ति प्राणो वै ज्यो᳘तिः प्राणं᳘ मे यच्छे᳘त्ये᳘वैत᳘दाह ता ऽअ᳘नन्तर्हिता ऽऋ᳘तव्याभ्य ऽउ᳘पदधाति[[!!]] प्राणो वै᳘ व्वायु᳘र्ऋतु᳘षु त᳘द्वायुं प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ प्राणभृ᳘त ऽउ᳘पदधाति॥
प्राणा वै᳘ प्राणभृ᳘तः प्राणा᳘ने᳘वैतदु᳘पदधाति ता द᳘श भवन्ति द᳘श वै᳘ प्राणाः᳘ पूर्वार्ध ऽउ᳘पदधाति पुर᳘स्ता᳘द्धीमे᳘ प्राणा ऽआ᳘युर्मे पाहि ज्यो᳘तिर्मे यच्छे᳘ति प्राणो वै ज्यो᳘तिः प्राणं᳘ मे यच्छे᳘त्ये᳘वैत᳘दाह ता ऽअ᳘नन्तर्हिता ऽऋ᳘तव्याभ्य ऽउ᳘पदधाति[[!!]] प्राणो वै᳘ व्वायु᳘र्ऋतु᳘षु त᳘द्वायुं प्र᳘तिष्ठापयति॥
मूलम् - Weber
अ᳘थ प्राणभृ᳘त उ᳘पदधाति॥
प्राणा वै᳘ प्राणभृ᳘तः प्राणा᳘नेॗवैतदु᳘पदधाति ता द᳘श भवन्ति द᳘श वै᳘ प्राणाः᳘ पूर्वार्ध उ᳘पदधाति पुर᳘स्ताॗद्धीमे प्राणा आ᳘युर्मे पाहि ज्यो᳘तिर्मे यछे᳘ति प्राणो वै ज्यो᳘तिः प्राण᳘म् मे यछे᳘त्येॗवैत᳘दाह ता अ᳘नन्तर्हिता ऋतॗव्याभ्य उ᳘पदधाति प्राणो वै᳘ वायु᳘रृतु᳘षु त᳘द्वायुम् प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
अथ दशप्राणभृदिष्टकोपधानम् ।
अथ प्राणभृत उपदधाति । प्राणा वै प्राणभृतः । प्राणानेवैतदुपदधाति । ता दश भवन्ति । दश वै प्राणाः । पूर्वार्ध उपदधाति । पुरस्ताद्धीमे प्राणाः । “आयुर्मे पाहि ज्योतिर्मे यच्छ”- (वा० सं० १४ । १७) इति । प्राणो वै ज्योतिः । प्राणं मे यच्छेत्येवैतदाह । ता अनन्तर्हिता ऋतव्याभ्य उपदधाति । प्राणो वै वायुः, ऋतुषु तद्वायुं प्रतिष्ठापयति ॥ १४ ॥
सायणः
अथ प्राणभृत उपदधातीत्यादि । प्राणलिङ्गकमन्त्रोपधेयाः ‘प्राणभृतः’ ‘ता दश’ एव । दश वै प्राणा वै इति । सप्त शीर्षण्याः, द्वाववाञ्चौ, नाभिर्दशमीति प्राणानां दशसंख्याकत्वात् । एतां चितिं ‘पूर्वार्धे’ उपदध्यात् । तत्रोपपत्तिः- पुरस्ताद्धीमे प्राणा इति । ‘पुरस्तात्’ शरीरस्य पुरोभागे ‘इमे’ शीर्षण्यादयः ‘प्राणाः’ वर्तन्त इति शेषः । “पूर्वार्द्धे प्राणभृतो दशायुर्म इति प्रतिमन्त्रम्” इति हि सूत्रम् (का. श्रौ. सू. १७ । १९७) । प्राणानां प्रतीकमुपादत्ते- आयुर्मे पाहीति । स्पष्टार्थत्वादकार्त्स्न्येनाभिधाय प्रत्याहारन्यायेनान्त्यं निर्दिशति- ज्योतिर्मे यच्छेति । तदर्थवादः- प्राणो वै ज्योतिरिति स्पष्टः । ता अनन्तर्हिता इत्यादि- निगदव्याख्यातम् ॥ १४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे तृतीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (८-३-२) ॥
Eggeling
- He then lays down the Prāṇabhr̥t 11 (bricks);–the Prāṇabhr̥ts (breath-holders), doubtless, are the vital airs: it is the vital airs he thus lays into (Agni’s body). There are ten of them, for there are ten vital airs. He places them in the forepart (of the altar),–for there are these vital airs in front,–with (Vāj. S. XIV, 17), ‘Protect my vital strength! protect mine up-breathing! protect my down-breathing! protect my through-breathing! protect mine eye! protect mine ear! increase my speech! animate my mind! protect my soul (or body)! give me light!’–He lays them down so as not to be separated from the seasonal ones, for the vital air is wind: he thus establishes the wind in the seasons.
-
व्विश्वकर्म्मेति व्विश्वज्योतिषमुपरि पूर्व्वस्याः । का० श्रौ० सू० १७ । १९३ । ↩︎
-
47:1 The three Viśvajyotis bricks, placed in (the fourth easterly place from the centre of) the first, third and fifth layer respectively, are supposed to represent the regents of the three worlds–earth, air and sky–which these three layers represent, viz. Agni, Vāyu and Āditya (Sūrya). See VI, 3, 3, 16. ↩︎
-
दिक्षु᳘ प्रजा᳘ A. ↩︎
-
47:2 Though, properly speaking, the Viśvajyotis lies close to only one of the Diśyās, viz. the eastern one, it may at any rate be said to lie close to the range of the Diśyās. Here, too, the sense ‘immediately after, not separated from them in respect of time,’ would suit even better. ↩︎
-
47:3 See VIII, 3, 1, 4 with note. ↩︎
-
ऋतव्ये नभश्च नभस्यश्चेति । अवकाः कूर्मवत् । का. श्रौ. सू. १७ । १९५ । ↩︎
-
48:1 ↩︎
-
49:1 As in the case of the live tortoise, in the first layer; see VII, 5, 1, 11 with note–‘Blyxa octandra, a grassy plant growing in marshy land (“lotus-flower,” Weber, Ind. Stud. XIII, p. 250).’ ↩︎
-
इषश्चोर्ज्जश्चेत्यपरे । का. श्रौ. सू. । १७ । १९६ । ↩︎
-
50:1 That is to say, the three sets of bricks are not separated by any others from the Svayamātr̥ṇṇā. ↩︎
-
51:1 The ten Prāṇabhr̥ts are placed–five on each side of the spine–either along the edge of the altar, or so as to leave the space of one foot between them and the edge, to afford room for another set of bricks, the Vālakhilyās. ↩︎