०१
विश्वास-प्रस्तुतिः
तृती᳘यां चि᳘तिमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ द्विती᳘यां चि᳘तिं चित्वा᳘ समा᳘रोहन्य᳘दूर्ध्वं᳘ पृथिव्या᳘ ऽअर्व्वाची᳘नमन्त᳘रिक्षात्त᳘देव त᳘त्संस्कृ᳘त्य समा᳘रोह᳘न्॥
मूलम् - श्रीधरादि
तृती᳘यां चि᳘तिमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ द्विती᳘यां चि᳘तिं चित्वा᳘ समा᳘रोहन्य᳘दूर्ध्वं᳘ पृथिव्या᳘ ऽअर्व्वाची᳘नमन्त᳘रिक्षात्त᳘देव त᳘त्संस्कृ᳘त्य समा᳘रोह᳘न्॥
मूलम् - Weber
तृती᳘यां चि᳘तिमु᳘पदधाति॥
एतद्वै᳘ देवा᳘ द्विती᳘यां चि᳘तिं चित्वा᳘ समा᳘रोहन्य᳘दूर्ध्व᳘म् पृथिव्या᳘ अर्वाची᳘नमन्त᳘रिक्षात्त᳘देव त᳘त्संस्कृ᳘त्य समा᳘रोहन्॥
मूलम् - विस्वरम्
तृतीयां चितिमुपधाति । एतद्वै देवा द्वितीयां चितिं चित्वा समारोहन् । यदूर्ध्वं पृथिव्याः, अर्वाचीनमन्तरिक्षात्- तदेव तत्संस्कृत्य समारोहन् ॥ १ ॥
सायणः
अथ तृतीयचितिं विधाय प्रशंसति- तृतीयां चितिमुपधात्येतद्वै देवा इत्यादि ।
‘एतद्वै’ एतत्खलु पूर्वमासीत् । एतच्छब्दार्थमाह- ‘देवा द्वितीयां चितिं चित्वा समारोहन्’ । तत्किमिति तदाह- यदूर्ध्वं पृथिव्या इति । पृथिव्यन्तरिक्षयोर्मध्यदेशमारोहन्नित्यर्थः । ‘तत्’ तदा समारोहणकाले ‘तदेव’ द्वितीयचितिस्वरूपं ‘संस्कृत्य समारोहन्’ ॥ १ ॥
Eggeling
- He lays down the third layer. For the gods, having laid down the second layer, now ascended it; but, indeed, they thereby completed and ascended to what is above the earth and below the atmosphere.
०२
विश्वास-प्रस्तुतिः
(हं᳘स्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्नित᳘ ऽऊर्ध्व᳘मिच्छते᳘ति ते᳘ चेत᳘यमाना ऽअन्त᳘रिक्षमेव᳘ बृहतीं᳘ तृती᳘यां चि᳘तिमपश्यंस्ते᳘भ्य ऽएष᳘ लो᳘को ऽच्छन्दयत्॥
मूलम् - श्रीधरादि
(हं᳘स्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्नित᳘ ऽऊर्ध्व᳘मिच्छते᳘ति ते᳘ चेत᳘यमाना ऽअन्त᳘रिक्षमेव᳘ बृहतीं᳘ तृती᳘यां चि᳘तिमपश्यंस्ते᳘भ्य ऽएष᳘ लो᳘को ऽच्छन्दयत्॥
मूलम् - Weber
ते ऽब्रुवन्॥
चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवन्नित᳘ ऊर्ध्व᳘मिछते᳘ति ते᳘ चेत᳘यमाना अन्त᳘रिक्षमेव᳘ बृहतीं᳘ तृती᳘यां चि᳘तिमपश्यंस्ते᳘भ्य एष᳘ लोॗको ऽछन्दयत् 1 ॥
मूलम् - विस्वरम्
ते ऽब्रुवन्- चेतयध्वमिति, चितिमिच्छतेति वाव तदब्रुवन्- इत ऊर्ध्वमिच्छतेति । ते चेतयमाना अन्तरिक्षमेव बृहतीं तृतीयां चितिमपश्यन् । तेभ्य एष लोको ऽच्छदयत् ॥ २ ॥
सायणः
लोकान्तरसमारोहणे ऽपि चितिसंस्कारमेवोपायत्वेनामनन्तः ‘ते’ देवाः परस्परं ‘चेतयध्वमित्यब्रुवन्’ । चेतितव्यविषयं श्रुतिस्तटस्था ब्रूते- चितिमिच्छतेति वाव तदब्रुवन्निति । ‘चेतयमानास्ते’ ‘अन्तरिक्षमेव बृहतीं तृतीयां चितिमपश्यन्’ । अस्या बृहतीत्वमुत्तरत्र षट्त्रिंशत्सङ्ख्याकेष्टकासंपादनेन वक्ष्यति । (श. प. ८ । ३ । ३ । ८) । ‘एषः’ अन्तरिक्षलोक इष्टकाच्छादनाभिधः ‘अच्छदयत्’ आत्मानं छादित्वा आच्छन्नो ऽस्पष्टो ऽभूदित्यर्थः ॥ २ ॥
Eggeling
- They spate, ‘Meditate ye!’ whereby, indeed, they meant to say, ‘Seek ye a layer! Seek ye (to build) upwards from hence!’ Whilst meditating, they saw the great third layer, even the air: that world pleased them.
०३
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘ ऽइन्द्राग्नी᳘ ऽअब्रुवन्॥
(न्यु) युवं᳘ न ऽइमां᳘ तृती᳘यां चि᳘तिमु᳘पधत्तमि᳘ति किं᳘ नौ त᳘तो भविष्यती᳘ति युव᳘मेव᳘ नः श्रे᳘ष्ठौ भविष्यथ ऽइ᳘ति तथे᳘ति ते᳘भ्य ऽएता᳘मिन्द्राग्नी᳘ तृती᳘यां चि᳘तिमु᳘पाधत्तां त᳘स्मादाहुरिन्द्राग्नी᳘ ऽएव᳘ देवा᳘नाᳫँ᳭ श्रे᳘ष्ठावि᳘ति॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘ ऽइन्द्राग्नी᳘ ऽअब्रुवन्॥
(न्यु) युवं᳘ न ऽइमां᳘ तृती᳘यां चि᳘तिमु᳘पधत्तमि᳘ति किं᳘ नौ त᳘तो भविष्यती᳘ति युव᳘मेव᳘ नः श्रे᳘ष्ठौ भविष्यथ ऽइ᳘ति तथे᳘ति ते᳘भ्य ऽएता᳘मिन्द्राग्नी᳘ तृती᳘यां चि᳘तिमु᳘पाधत्तां त᳘स्मादाहुरिन्द्राग्नी᳘ ऽएव᳘ देवा᳘नाᳫँ᳭ श्रे᳘ष्ठावि᳘ति॥
मूलम् - Weber
त᳘ इन्द्राग्नी᳘ अब्रुवन्॥
युवं᳘ न इमां᳘ तृती᳘यां चि᳘तिमु᳘पधत्तमि᳘ति किं᳘ नौ त᳘तो भविष्यती᳘ति युव᳘मेव᳘ नः श्रे᳘ष्ठौ भविष्यथ इ᳘ति तथे᳘ति ते᳘भ्य एता᳘मिन्द्राग्नी᳘ तृती᳘यां चि᳘तिमु᳘पाधत्तां त᳘स्मादाहुरिन्द्राग्नी᳘ एव᳘ देवा᳘नां श्रे᳘ष्ठावि᳘ति॥
मूलम् - विस्वरम्
त ऽइन्द्राग्नी ऽअब्रुवन्- युवं न इमां तृतीयां चितिमुपधत्तमिति । किं नौ ततो भविष्यतीति । युवमेव नः श्रेष्ठौ भविष्यथ इति । तथेति । तेभ्य एतामिन्द्राग्नी तृतीयां चितिमुपाधत्ताम् । तस्मादाहुः- इन्द्राग्नी एव देवानां श्रेष्ठाविति ॥ ३ ॥
सायणः
‘ते’ देवास्तदा ‘इन्द्राग्नी’ प्रत्येवम् ‘अब्रुवन्’ । ‘युवम्’ युवां ‘नः’ अस्मदर्थे इमां तृतीयाम् । अन्तरिक्षरूपां ‘चितिमुपधत्तमिति’ । अथ तौ श्रैष्ठ्यं वृतवन्तौ, तच्च लब्ध्वा ‘तृतीयां चितिम् उपाधत्ताम्’ । यस्मादेवं ‘तस्मात्’ वेदवादिनः ‘इन्द्राग्नी ऽएव देवानां श्रेष्ठावित्याहुः’ ॥ ३ ॥
Eggeling
- They said to Indra and Agni, ‘Lay ye down for us this third layer!’–‘What will accrue unto us therefrom? Ye two shall be the best of us!’–‘So be it!’ Accordingly Indra and Agni laid down for them that third layer; and hence people say, ‘Indra and Agni are the best of gods.’
०४
विश्वास-प्रस्तुतिः
स वा᳘ ऽइन्द्राग्नि᳘भ्यामुपद᳘धाति॥
व्विश्व᳘कर्मणा सादयतीन्द्राग्नी᳘ च वै᳘ व्विश्व᳘कर्मा चैतां᳘ तृती᳘यां चि᳘तिमपश्यंस्त᳘स्मादिन्द्राग्नि᳘भ्यामुपद᳘धाति[[!!]] विश्व᳘कर्मणा सादयति॥
मूलम् - श्रीधरादि
स वा᳘ ऽइन्द्राग्नि᳘भ्यामुपद᳘धाति॥
व्विश्व᳘कर्मणा सादयतीन्द्राग्नी᳘ च वै᳘ व्विश्व᳘कर्मा चैतां᳘ तृती᳘यां चि᳘तिमपश्यंस्त᳘स्मादिन्द्राग्नि᳘भ्यामुपद᳘धाति[[!!]] विश्व᳘कर्मणा सादयति॥
मूलम् - Weber
स वा᳘ इन्द्राग्नि᳘भ्यामुपद᳘धाति॥
विश्व᳘कर्मणा सादयतीन्द्राग्नी᳘ च वै᳘ विश्व᳘कर्मा चैतां᳘ तृती᳘यां चि᳘तिमपश्यंस्त᳘स्मादिन्द्राग्नि᳘भ्यामु᳘पदधाति विश्व᳘कर्मणा सादयति॥
मूलम् - विस्वरम्
स वा ऽइन्द्राग्निभ्यामुपदधाति । विश्वकर्मणा सादयति । इन्द्राग्नी च वै विश्वकर्मा चैतां तृतीयां चितिमपश्यन् । तस्मादिन्द्राग्निभ्यामुपदधाति, विश्वकर्मणा सादयति ॥ ४ ॥
सायणः
‘सः’ खलु यजमानो ऽपि ‘इन्द्राग्निभ्याम्’ तृतीयां चितिं ‘उपदधाति’ । उपधानमन्त्रे तथा प्रतिपादनात् । ‘विश्वकर्मणा’ विश्वकर्मलिङ्गकेन मन्त्रेण ‘सादयति’ “विश्वकर्मा त्वा सादयतु”- इति हि मन्त्रः । अस्तु देवैः प्रार्थितत्वादिन्द्राग्निभ्यामुपधानम् । विश्वकर्मणः कः प्रसङ्ग इति तत्राह- इन्द्राग्नी च वै विश्वकर्मा चैतां तृतीयां चितिमपश्यन्निति । ‘तस्मात्’ इत्युपसंहारः ॥ ४ ॥
Eggeling
- He accordingly lays it down by means of Indra and Agni, and settles it by means of Viśvakarman 2,
for indeed Indra and Agni, as well as Viśvakarman, saw this third layer: this is why he lays it down by means of Indra and Agni, and settles it by means of Viśvakarman.
०५
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वेन्द्राग्नि᳘भ्यामुपद᳘धाति॥
व्विश्व᳘कर्मणा साद᳘यति प्रजा᳘पतिं व्वि᳘स्रस्तं देव᳘ता ऽआदा᳘य व्व्यु᳘दक्रामंस्त᳘स्येन्द्राग्नी᳘ च व्विश्व᳘कर्मा च म᳘ध्यमादा᳘योत्क᳘म्यातिष्ठन्॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वेन्द्राग्नि᳘भ्यामुपद᳘धाति॥
व्विश्व᳘कर्मणा साद᳘यति प्रजा᳘पतिं व्वि᳘स्रस्तं देव᳘ता ऽआदा᳘य व्व्यु᳘दक्रामंस्त᳘स्येन्द्राग्नी᳘ च व्विश्व᳘कर्मा च म᳘ध्यमादा᳘योत्क᳘म्यातिष्ठन्॥
मूलम् - Weber
य᳘द्वेॗवेन्द्राग्नि᳘भ्यामुपद᳘धाति॥
विश्व᳘कर्मणा साद᳘यति प्रजा᳘पतिं वि᳘स्रस्तं देव᳘ता आदा᳘य व्यु᳘दक्रामंस्तस्येन्द्राग्नी᳘ च विश्व᳘कर्मा च म᳘ध्यमादा᳘योत्क᳘म्यातिष्ठन्॥
मूलम् - विस्वरम्
यद्वेवेन्द्राग्निभ्यामुपदधाति, विश्वकर्मणा सादयति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामन् । तस्येन्द्राग्नी च विश्वकर्मा च मध्यमादायोत्क्रम्यातिष्ठन् ॥ ५ ॥
सायणः
उक्तमर्थं पुनरनूद्य प्रकारान्तरेण प्रशंसति- यद्वेवेन्द्राग्निभ्यामित्यादिना । पुरा किल ‘विस्रस्तं प्रजापतिं देवताः’ एकैकमंशम् ‘आदाय व्युदक्रामन्’ विविधमुद्गताः । तस्य ‘मध्यम्’ मध्यभागम् ‘इन्द्राग्नी च विश्वकर्मा चादायोत्क्रम्यतिष्ठन्’ ॥ ५ ॥
Eggeling
- And, again, as to why he lays it down by means of Indra and Agni, and settles it by means of Viśvakarman. When Prajāpati had become relaxed (disjointed), the deities took him and went off in different directions. Indra and Agni, and Viśvakarman took his middle part, and kept going away from him.
०६
विश्वास-प्रस्तुतिः
(ष्ठंस्ता᳘) ता᳘नब्रवीत्॥
(दु᳘) उ᳘प मे᳘त प्र᳘ति म ऽएत᳘द्धत्त ये᳘न मे यूय᳘मुद᳘क्रमिष्टे᳘ति किं᳘ नस्त᳘तो भविष्यती᳘ति युष्मद्देव᳘त्यमेव᳘ म ऽएत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘दिन्द्राग्नी च व्विश्व᳘कर्मा च प्र᳘त्यदधुः॥ (शतम् ४४००)॥
मूलम् - श्रीधरादि
(ष्ठंस्ता᳘) ता᳘नब्रवीत्॥
(दु᳘) उ᳘प मे᳘त प्र᳘ति म ऽएत᳘द्धत्त ये᳘न मे यूय᳘मुद᳘क्रमिष्टे᳘ति किं᳘ नस्त᳘तो भविष्यती᳘ति युष्मद्देव᳘त्यमेव᳘ म ऽएत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘दिन्द्राग्नी च व्विश्व᳘कर्मा च प्र᳘त्यदधुः॥ (शतम् ४४००)॥
मूलम् - Weber
ता᳘नब्रवीत्॥
उ᳘प मे᳘त प्र᳘ति म एत᳘द्धत्त ये᳘न मे यूय᳘मुद᳘क्रमिष्टे᳘ति किं᳘ नस्त᳘तो भविष्यती᳘ति युष्मद्देव᳘त्यमेव᳘ म एत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘दिन्द्राग्नी च विश्व᳘कर्मा च प्र᳘त्यदधुः॥
मूलम् - विस्वरम्
तानब्रवीत्- ‘उप मेत, प्रति म ऽएतद्धत्त, येन मे यूयमुदक्रमिष्ट’ इति । किं नस्ततो भविष्यतीति । युष्मद्देवत्यमेव म ऽएतदात्मनो भविष्यतीति । तथेति । तदस्मिन्नेतदिन्द्राग्नी च विश्वकर्मा च प्रत्यदधुः ॥ ६ ॥
सायणः
‘तान्’ मध्यदेशापहर्तॄन् प्रजापतिः ‘अब्रवीत्’ । किमिति ? उच्यते- उप मेतेति । ‘मा’ माम् ‘उपेत’ उपगच्छत उपगत्य च ‘मे’ मदीयम् ‘एतत्’ अपहृतमङ्गं ‘प्रतिधत्त’ सन्धानं कुरुत । एतच्छब्दार्थमाह- येनेति । सार्द्धमिति शेषः । स्पष्टमन्यत् । ‘युष्मद्देवत्यमेव म एतद् आत्मनो तादर्श भविष्यतीति’ ममात्मनः शरीरस्य सम्बन्ध्येतदङ्गं तृतीयचितिरूपमित्यर्थः । यूयं देवता दीपयित्र्यो यस्य तद्युष्मद्दैवत्यम् । तादृशं भविष्यतीति प्रजापतिश्चाब्रवीत् । ‘तथेति’ अङ्गीकृत्य ‘तत्’ अङ्गम् ‘अस्मिन्’ चयनात्मकप्रजापतिशरीरमध्यदेशे ‘प्रत्यदधुः’ प्रतिनिहितवन्तः ॥ ६ ॥
Eggeling
- He said to them, ‘Come ye to me and restore ye to me wherewith ye are going from me!’–‘What will accrue unto us therefrom?’–‘That (part) of my body shall be sacred unto you!’–‘So be it!’ So Indra and Agni, and Viśvakarman restored that (part) unto him.
०७
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘द्यैषा᳘ मध्यमा᳘ स्वयमातृ᳘ण्णा॥
(ण्णै) एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देताम᳘त्रोपद᳘धाति य᳘दे᳘वास्यै᳘षा ऽऽत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेतामत्रो᳘पदधाति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘द्यैषा᳘ मध्यमा᳘ स्वयमातृ᳘ण्णा॥
(ण्णै) एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देताम᳘त्रोपद᳘धाति य᳘दे᳘वास्यै᳘षा ऽऽत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेतामत्रो᳘पदधाति॥
मूलम् - Weber
तॗद्यैषा᳘ मध्यमा᳘ स्वयमातृ᳘णा॥
एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देताम᳘त्रोपद᳘धाति य᳘देॗवास्यैॗषात्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेतामत्रो᳘पदधाति॥
मूलम् - विस्वरम्
स्वयमातृण्णेष्टकोपधानम् ।
तद्यैषा मध्यमा स्वयमातृण्णा- एतदस्य तदात्मनः । तद्यदेतामत्रोपदधाति- यदेवास्यैषा ऽऽत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेतामत्रोपदधाति ॥ ७ ॥
सायणः
किं तदङ्गमिति तत्राह- तद्यैषेति 3 । ‘स्वयमातृण्णा’ एव मध्ये उपधेयत्वेन प्राधान्यान्मध्यमचितिरूपा ऽस्ति । ‘एतदस्य’ प्रजापतेः ‘आत्मनः’ शरीरस्य ‘तत्’ विस्रस्तमङ्गमित्यर्थः । ‘तद्यदेताम्’ स्वयमातृण्णाम् ‘अत्र’ मध्यमदेशे । स्पष्टमन्यत् । तस्मादेतामिति । प्रतिपादितार्थनिगमनम् ॥ ७ ॥
Eggeling
- Now that central Svayam-ātr̥ṇṇā (naturally-perforated brick) 4 is that very (part) of his body;–when he now lays down that (brick), he thereby restores to him that (part) of his (Prajāpati’s) body which this (brick represents): this is why he now lays down that (brick).
०८
विश्वास-प्रस्तुतिः
(ती᳘) इ᳘न्द्राग्नी ऽअ᳘व्यथमानाम्॥
(मि᳘) इ᳘ष्टकां दृᳫँ᳭हतं युवमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः पृष्ठे᳘न द्या᳘वापृथिवी᳘ ऽअन्त᳘रिक्षं च व्वि᳘बाधस ऽइ᳘ति पृष्ठे᳘न᳘ ह्येषा द्या᳘वापृथिवी᳘ ऽअन्त᳘रिक्षं च व्विबा᳘धते॥
मूलम् - श्रीधरादि
(ती᳘) इ᳘न्द्राग्नी ऽअ᳘व्यथमानाम्॥
(मि᳘) इ᳘ष्टकां दृᳫँ᳭हतं युवमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः पृष्ठे᳘न द्या᳘वापृथिवी᳘ ऽअन्त᳘रिक्षं च व्वि᳘बाधस ऽइ᳘ति पृष्ठे᳘न᳘ ह्येषा द्या᳘वापृथिवी᳘ ऽअन्त᳘रिक्षं च व्विबा᳘धते॥
मूलम् - Weber
इन्द्राग्नी अ᳘व्यथमानाम्॥
इ᳘ष्टकां दृंहतं युवमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः पृष्ठे᳘न द्या᳘वापृथिवी᳘ अन्त᳘रिक्षं च वि᳘बाधस इ᳘ति पृष्ठे᳘नॗ ह्येषा द्या᳘वापृथिवी᳘ अन्त᳘रिक्षं च विबा᳘धते॥
मूलम् - विस्वरम्
“इन्द्राग्नी ऽअव्यथमानामिष्टकां दृँहतं युवम्”- इति । यथैव यजुस्तथा बन्धुः । “पृष्ठेन द्यावापृथिवी ऽअन्तरिक्षं च विबाधसे”- (वा० सं० १४ । ११) इति । पृष्ठेन ह्येषा द्यावापृथिवी ऽअन्तरिक्षं च विबाधते ॥ ८ ॥
सायणः
स्वयमातृण्णाया उपधानमन्त्रस्य पूर्वभागः स्पष्टार्थ इत्याह- इन्द्राग्नी अव्यथमानामित्यादिना । ‘यथैव यजुः’ इत्यस्यार्थ उक्तचरो बहुशः । हे ‘इन्द्राग्नी’ ‘युवम्’ युवाम् ‘अव्यथमानाम्’ कुशलाम् युवाभ्यामुपधेयत्वाद्व्यथारहितां सुखितामित्यर्थः । तादृशीम् ‘इष्टकां’ ‘दृंहतम्’ दृढीकुरुतम् । हे स्वयमातृण्णेष्टके ! त्वं ‘पृष्ठेन’ स्वपृष्ठभागेन ‘द्यावापृथिवी अन्तरिक्षं च’ इति लोकत्रयं ‘विबाधसे’ पीडयसीत्ययमर्थः सुप्रसिद्ध इति व्याचष्टे- पृष्ठेन ह्येषेति । ‘हि’ यस्माद् ‘विश्वकर्मा’ सकलजगन्निर्माता देवः ‘एतां तृतीयां चितिम्’ स्वयमातृण्णाख्याम् ‘अपश्यत्’ अतस्तन्मन्त्रो ऽपि “विश्वकर्मा त्वा सादयतु”- इति ब्रूते । कुत्र सादनम् ? ‘अन्तरिक्षस्य पृष्ठे’ एतन्मध्यस्थानं यदन्तरिक्षस्य पृष्ठं, तच्च ‘व्यचस्वत्’ व्यञ्चनवत्, ‘प्रथस्वत्’ प्रथनं निम्नोन्नतत्वराहित्यं तद्वत् विस्तारवदित्यर्थः । “अन्तरिक्षं यच्छ”- इत्यादयस्त्रयो मन्त्रभागाः, तत्रत्या ये त्वन्तरिक्षशब्दाः सन्ति तैरात्मैवाभिधीयत इत्याह- आत्मानं यच्छेत्यादिना ॥ ८-९ ॥
Eggeling
- [Vāj. S. XIV, 11], ‘O Indra and Agni, make ye fast the brick so as not to shake!’ as the text so the sense;–‘with thy back thou forcest asunder the earth, and the sky, and the air;’ for with its back this (brick) indeed forces asunder the earth, and the sky, and the air.
०९
विश्वास-प्रस्तुतिः
व्विश्व᳘कर्मा त्वा सादयत्वि᳘ति॥
व्विश्व᳘कर्मा᳘ ह्येतां᳘ तृती᳘यां चि᳘तिम᳘पश्यदन्त᳘रिक्षस्य पृष्ठे व्य᳘चस्वतीं प्र᳘थस्वतीमि᳘त्यन्त᳘रिक्षस्य᳘ ह्येत᳘त्पृष्ठं व्य᳘चस्वत्प्र᳘थस्वदन्त᳘रिक्षं यच्छान्त᳘रिक्षं दृᳫँ᳭हान्त᳘रिक्षं मा᳘ हिᳫँ᳭सीरि᳘त्यात्मा᳘नं यच्छात्मा᳘नं दृᳫँ᳭हात्मा᳘नं मा᳘ हिᳫँ᳭सीरि᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
व्विश्व᳘कर्मा त्वा सादयत्वि᳘ति॥
व्विश्व᳘कर्मा᳘ ह्येतां᳘ तृती᳘यां चि᳘तिम᳘पश्यदन्त᳘रिक्षस्य पृष्ठे व्य᳘चस्वतीं प्र᳘थस्वतीमि᳘त्यन्त᳘रिक्षस्य᳘ ह्येत᳘त्पृष्ठं व्य᳘चस्वत्प्र᳘थस्वदन्त᳘रिक्षं यच्छान्त᳘रिक्षं दृᳫँ᳭हान्त᳘रिक्षं मा᳘ हिᳫँ᳭सीरि᳘त्यात्मा᳘नं यच्छात्मा᳘नं दृᳫँ᳭हात्मा᳘नं मा᳘ हिᳫँ᳭सीरि᳘त्येतत्[[!!]]॥
मूलम् - Weber
विश्व᳘कर्मा त्वा सादयत्वि᳘ति॥
विश्व᳘कर्माॗ ह्येतां᳘ तृती᳘यां चि᳘तिम᳘पश्यदन्त᳘रिक्षस्य पृष्ठे व्य᳘चस्वतीम् प्र᳘थस्व तीमि᳘त्यन्त᳘रिक्षस्यॗ ह्येत᳘त्पृष्ठं व्यचस्वत्प्र᳘थस्वदन्त᳘रिक्षं यछान्त᳘रिक्षं दृंहान्त᳘रिक्षम् मा᳘ हिंसीरि᳘त्यात्मा᳘नं यछात्मा᳘नं दृंहात्मा᳘नम् मा᳘ हिंसीरि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“विश्वकर्मा त्वा सादयतु”- इति । विश्वकर्मा ह्येतां तृतीयां चितिमपश्यत् । “अन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीम्”- इति । अन्तरिक्षस्य ह्येतत्पृष्ठं व्यचस्वत् प्रथस्वत् । “अन्तरिक्षं यच्छान्तरिक्षं दृंहान्तरिक्षं मा हिंसीः"- इति । आत्मानं यच्छ, आत्मानं दृंह, आत्मानं मा हिंसीरित्येतत् ॥ ९ ॥
सायणः
[व्याख्यानं अष्टमे]
Eggeling
- [Vāj. S. XIV, 12], ‘May Viśvakarman settle
thee,’ for Viśvakarman saw this third layer;–‘on the back of the air, thee the wide, the broad one!’ for this (brick) indeed is the wide and broad back of the air;–‘support thou the air, make fast the air, injure not the air!’ that is, ‘support thou thine own self (body), make fast thine own self, injure not thine own self!’
१०
विश्वास-प्रस्तुतिः
(द्वि᳘) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्व्याना᳘योदानाये᳘ति प्राणो वै᳘ स्वयमातृण्णा स᳘र्व्वस्मा उ वा᳘ ऽएत᳘स्मै प्राणः᳘ प्रतिष्ठा᳘यै चरि᳘त्राये᳘तीमे वै᳘ लोकाः᳘ स्वयमातृण्णा᳘ ऽइम᳘ ऽउ लोकाः᳘ प्रतिष्ठा᳘ चरि᳘त्रं व्वायु᳘ष्ट्वा ऽभि᳘पात्वि᳘ति व्वायु᳘ष्ट्वा ऽभि᳘गोपायत्वि᳘त्येत᳘न्मह्या᳘ स्वस्त्ये᳘ति महत्या᳘ स्वस्त्ये᳘त्येत᳘च्छर्दि᳘षा शं᳘तमेने᳘ति य᳘च्छर्दिः शं᳘तमं तेने᳘त्येत᳘त्सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुर᳘थ सा᳘म गायति त᳘स्योप᳘रि ब᳘न्धुः॥
मूलम् - श्रीधरादि
(द्वि᳘) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्व्याना᳘योदानाये᳘ति प्राणो वै᳘ स्वयमातृण्णा स᳘र्व्वस्मा उ वा᳘ ऽएत᳘स्मै प्राणः᳘ प्रतिष्ठा᳘यै चरि᳘त्राये᳘तीमे वै᳘ लोकाः᳘ स्वयमातृण्णा᳘ ऽइम᳘ ऽउ लोकाः᳘ प्रतिष्ठा᳘ चरि᳘त्रं व्वायु᳘ष्ट्वा ऽभि᳘पात्वि᳘ति व्वायु᳘ष्ट्वा ऽभि᳘गोपायत्वि᳘त्येत᳘न्मह्या᳘ स्वस्त्ये᳘ति महत्या᳘ स्वस्त्ये᳘त्येत᳘च्छर्दि᳘षा शं᳘तमेने᳘ति य᳘च्छर्दिः शं᳘तमं तेने᳘त्येत᳘त्सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुर᳘थ सा᳘म गायति त᳘स्योप᳘रि ब᳘न्धुः॥
मूलम् - Weber
वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्याना᳘योदानाये᳘ति प्राणो वै स्वयमातृणा स᳘र्वस्मा उ वा᳘ एत᳘स्मै प्राणः᳘ प्रतिष्ठा᳘यै चरि᳘त्राये᳘तीमे वै᳘ लोकाः᳘ स्वयमातृणा᳘ इम᳘ उ लोकाः᳘ प्रतिष्ठा᳘ चरि᳘त्रं वायु᳘ष्ट्वाभि᳘पात्वि᳘ति वायु᳘ष्ट्वाभि᳘गोपायत्वि᳘त्येत᳘न्मह्या᳘ स्वस्त्ये᳘ति महत्या स्वस्त्ये᳘त्येत᳘च्छर्दि᳘षा शं᳘तमेने᳘ति य᳘च्छर्दिः शं᳘तमं तेने᳘त्येत᳘त्सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुर᳘थ सा᳘म गायति त᳘स्योप᳘रि ब᳘न्धुः॥
मूलम् - विस्वरम्
“विश्वस्मै प्राणायापानाय व्यानायोदानाय”- इति । प्राणो वै स्वयमातृण्णा । सर्वस्मा ऽउ वा ऽएतस्मै प्राणः । “प्रतिष्ठायै चरित्राय”- इति । इमे वै लोकाः स्वयमातृण्णा । इम ऽउ लोकाः प्रतिष्ठा चरित्रम् । “वायुष्ट्वा ऽभिपातु”- इति । वायुष्ट्वा ऽभिगोपायत्वित्येतत् । “मह्या स्वस्त्या”- इति । महत्या स्वस्त्येत्येतत् । “छर्दिषा शंतमेन”- (वा. सं. १४ । १२) इति । यच्छर्दिः शंतमं- तेनेत्येतत् । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः । अथ साम गायति । तस्योपरि बन्धुः ॥ १० ॥
सायणः
“विश्वस्मा” इत्यादिमन्त्रभागस्य तात्पर्यमाह- प्राणो वा इति । येयं स्वयमातृण्णा सः ‘प्राणो वै’ चित्यात्मशरीरस्य मध्ये प्राणरूपतयोपधीयमानत्वात् । अतस्तस्या उपधानम् ‘एतस्मै’ परिदृश्यमानाय ‘सर्वस्मै’ जगते तदर्थं प्राणाधारस्थानीयमित्यर्थः । एतदर्थं त्वामुपदधामीत्यन्वयः । अपानादीनां तु प्राणवृत्तिविशेषत्वात् प्राधान्येन प्राणस्यैव कीर्तनम् “प्राणो वै स्वयमातृण्णा” इति । मन्त्रे “प्रतिष्ठायै चरित्राय”- इत्यनेन लोकत्रयं विवक्ष्यत इति व्याचष्टे- इमे वै लोकाः स्वयमातृण्णा इम उ लोकाः प्रतिष्ठा चरित्रमिति । प्रथममध्यमोत्तमचितिषु लोकत्रयरूपेणोपधेयत्वात्तिस्रः ‘स्वयमातृण्णा इमे लोकाः’ खलु । ‘इम उ’ इमे एव ‘लोकाः प्रतिष्ठा चरित्रम्’ चरत्यत्र कृत्स्नं जगत् इति चरित्रम् । प्रतितिष्ठत्यत्रेति प्रतिष्ठा, इमे त्रयो ऽपि लोकाः चरित्ररूपाः, प्रतिष्ठात्मकत्वमस्य भूलोकस्यैव तदर्थं त्वामुपदधामीत्यर्थः । स्पष्टं ‘वायुष्ट्वा’ इत्यस्य ब्राह्मणम् । ‘मह्या’ इत्यस्य व्याख्यानं ‘महत्या’ इति । तद् अयं मन्त्रभागत्रयस्यार्थः । हे स्वयमातृण्णे ! वायुर्महत्या प्रभूतया ‘स्वस्त्या’ अविनाशेन ‘शन्तमेन’ अत्यन्तसुखहेतुभूतेन ‘छर्दिषा’ गृहनामैतत् (निघं. ३ । ४ । १८ ।) ‘तेन’ च ‘त्वा’ त्वाम् ‘अभिपातु’ सर्वतो गोपायत्वित्यर्थः । “तया देवतया”- इति मन्त्रेण सादयित्वा “ता अस्य सूददोहसः”- इति मन्त्रेणाधिवदति । अस्यार्थवादं गार्हपत्यचितावुक्तम् (७ । १ । १ । २६) अतिदिशति-तस्योक्तो बन्धुरिति । ‘अथ’ अधिवदनानन्तरम् ‘साम’ स्वयमातृण्णाङ्गभूतं गायेत्, तत्प्रतिपादकं ब्राह्मणम् ‘उपरि’ अन्त्यचितौ प्रदर्श्यत इत्यर्थः ॥ १० ॥
Eggeling
- ‘For all up-breathing, and dawn-breathing, and through-breathing, and out-breathing!’ for the naturally-perforated (brick) is the vital air, and the vital air serves for everything here;–‘for a resting-place and moving-place!’ for the naturally-perforated (brick) is these worlds, and these worlds are indeed a resting-place and a moving-place;–‘May Vāyu shelter thee!’ that is, ‘May Vāyu protect thee!’–‘with grand prosperity!’ that is, ‘with great prosperity;’–‘with most auspicious protection!’–that is, with what protection is most auspicious.’ Having settled it 5, he pronounces the Sūdadohas 6 over it; the meaning of this has been explained. He then sings a sāman: the meaning of this (will be explained) further on 7.
११
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ दि᳘श्या ऽउ᳘पदधाति॥
दि᳘शो वै दि᳘श्या दि᳘श ऽए᳘वैतदु᳘पदधाति तद्या᳘भिरदो᳘ व्वायु᳘र्दिग्भिर᳘नन्तर्हिताभिरुपैत्ता᳘ ऽएतास्ता᳘ ऽए᳘वैतदुपदधाति[[!!]] ता᳘ ऽउ ऽए᳘वामूः᳘ पुर᳘स्ताद्दर्भस्तम्बं᳘ च लोगेष्टकाश्चो᳘पदधात्यसौ वा᳘ ऽआदित्य᳘ ऽएता᳘ ऽअमुं त᳘दादित्यं᳘ दि᳘क्ष्वध्यूहति[[!!]] दिक्षु᳘ चिनोति ता यत्त᳘त्रैव स्यु᳘र्बहिर्धा त᳘त्स्युर्बहि᳘र्धो वा᳘ ऽएतद्यो᳘नेरग्निकर्म य᳘त्पुरा᳘ पुष्करपर्ण्णात्ता य᳘दि᳘हाहृ᳘त्योपद᳘धाति त᳘देना यो᳘नौ पुष्करपर्णे प्र᳘तिष्ठापयति त᳘थो हैता ऽअ᳘बहिर्धा भवन्ति ता ऽअ᳘नन्तर्हिताः स्वयमातृण्णा᳘या ऽउ᳘पदधात्यन्त᳘रिक्षं वै᳘ मध्यमा᳘ स्वयमातृण्णा᳘ ऽनन्तर्हितास्त᳘दन्त᳘रिक्षाद्दि᳘शो दधात्यु᳘त्तरा ऽउ᳘त्तरास्त᳘दन्त᳘रिक्षाद्दि᳘शो दधाति रेतःसि᳘चोर्व्वे᳘लयेमे वै᳘ रेतःसि᳘चावन᳘योस्तद्दि᳘शो दधाति त᳘स्मादन᳘योर्दि᳘शः सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्तद्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तो दि᳘शः सर्व्व᳘तः समी᳘चीः सर्व्व᳘तस्त᳘त्समी᳘चीर्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तः समी᳘च्यो दि᳘शः॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ दि᳘श्या ऽउ᳘पदधाति॥
दि᳘शो वै दि᳘श्या दि᳘श ऽए᳘वैतदु᳘पदधाति तद्या᳘भिरदो᳘ व्वायु᳘र्दिग्भिर᳘नन्तर्हिताभिरुपैत्ता᳘ ऽएतास्ता᳘ ऽए᳘वैतदुपदधाति[[!!]] ता᳘ ऽउ ऽए᳘वामूः᳘ पुर᳘स्ताद्दर्भस्तम्बं᳘ च लोगेष्टकाश्चो᳘पदधात्यसौ वा᳘ ऽआदित्य᳘ ऽएता᳘ ऽअमुं त᳘दादित्यं᳘ दि᳘क्ष्वध्यूहति[[!!]] दिक्षु᳘ चिनोति ता यत्त᳘त्रैव स्यु᳘र्बहिर्धा त᳘त्स्युर्बहि᳘र्धो वा᳘ ऽएतद्यो᳘नेरग्निकर्म य᳘त्पुरा᳘ पुष्करपर्ण्णात्ता य᳘दि᳘हाहृ᳘त्योपद᳘धाति त᳘देना यो᳘नौ पुष्करपर्णे प्र᳘तिष्ठापयति त᳘थो हैता ऽअ᳘बहिर्धा भवन्ति ता ऽअ᳘नन्तर्हिताः स्वयमातृण्णा᳘या ऽउ᳘पदधात्यन्त᳘रिक्षं वै᳘ मध्यमा᳘ स्वयमातृण्णा᳘ ऽनन्तर्हितास्त᳘दन्त᳘रिक्षाद्दि᳘शो दधात्यु᳘त्तरा ऽउ᳘त्तरास्त᳘दन्त᳘रिक्षाद्दि᳘शो दधाति रेतःसि᳘चोर्व्वे᳘लयेमे वै᳘ रेतःसि᳘चावन᳘योस्तद्दि᳘शो दधाति त᳘स्मादन᳘योर्दि᳘शः सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्तद्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तो दि᳘शः सर्व्व᳘तः समी᳘चीः सर्व्व᳘तस्त᳘त्समी᳘चीर्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तः समी᳘च्यो दि᳘शः॥
मूलम् - Weber
अ᳘थ दि᳘श्या उ᳘पदधाति॥
दि᳘शो वै दि᳘श्या दि᳘श एॗवैतदु᳘पदधाति तद्या᳘भिरदो᳘ वायु᳘र्दिग्भिर᳘नन्तर्हिताभिरुपैत्ता᳘ एतास्ता᳘ एॗवैतदु᳘पदधाति ता᳘ उ एॗवामूः᳘ पुर᳘स्ताद्दर्भस्तम्बं᳘ च लोगेष्टकाश्चो᳘पदधात्यसौ वा᳘ आदित्य᳘ एता᳘ अमुं त᳘दादित्यं᳘ दिक्ष्व᳘ध्यू᳘हति दिक्षु᳘ चिनोति ता यत्त᳘त्रैव स्यु᳘र्बहिर्धा त᳘त्स्युर्बहिॗर्धो वा᳘ एतद्यो᳘नेरग्निकर्म य᳘त्पुरा᳘ पुष्करपर्णात्ता य᳘दिॗहाहृ᳘त्योपद᳘धाति त᳘देना यो᳘नौ पुष्करपर्णे प्र᳘तिष्ठापयति त᳘थो हैता अ᳘बहिर्धा भवन्ति ता अ᳘नन्तर्हिताः स्वयमातृणा᳘या उ᳘पदधात्यन्त᳘रिक्षं वै᳘ मध्यमा᳘ स्वयमातृणा᳘नन्तर्हितास्त᳘दन्त᳘रिक्षाद्दि᳘शो दधात्यु᳘त्तरा उ᳘त्तरास्त᳘दन्त᳘रिक्षाद्दि᳘शो दधाति रेतःसि᳘चोर्वे᳘लयेमे वै᳘ रेतःसि᳘चावन᳘योस्तद्दि᳘शो दधाति त᳘स्मादन᳘योर्दि᳘शः सर्व᳘त उ᳘पदधाति सर्व᳘तस्तद्दि᳘शो दधाति त᳘स्मात्सर्व᳘तो दि᳘शः समी᳘चीः सर्व᳘तस्त᳘त्समी᳘चीर्दि᳘शो दधाति त᳘स्मात्सर्व᳘तः समी᳘च्यो दि᳘शः॥
मूलम् - विस्वरम्
अथ पञ्चदिश्येष्टकोपधानम् ।
अथ दिश्या उपदधाति । दिशो वै दिश्याः । दिश एवैतदुपदधाति । तद्याभिरदो वायुर्दिग्भिरेनन्तर्हिताभिरुपैत्- ता एताः । ता एवैतदुपदधाति । ता उ ऽएवामूः पुरस्ताद्दर्भस्तम्बं च लोगेष्टकाश्चोपदधाति । असौ वा ऽआदित्य एताः । अमुं तदादित्यं दिक्ष्वध्यूहति । दिक्षु चिनोति । ता यत्तत्रैव स्युः- बहिर्धा तत्स्युः । बहिर्धो वा ऽएतद्योनेरग्निकर्म । यत्पुरा पुष्करपर्णात् । ता यदिहाहृत्योपदधाति । तदेना योनौ पुष्करपर्णे प्रतिष्ठापयति । तथो हैता अबहिर्धा भवन्ति । ता अनन्तर्हिताः स्वयमातृण्णाया उपदधाति । अन्तरिक्षं वै मध्यमा स्वयमातृण्णा । अनन्तर्हिता स्तदन्तरिक्षाद्दिशो दधाति । उत्तराः । उत्तरास्तदन्तरिक्षाद्दिशो दधाति । रेतःसिचोर्वेलया । इमे वै रेतःसिचौ । अनयोस्तद्दिशो दधाति । तस्मादनयोर्दिशः । सर्वत उपदधाति । सर्वतस्तद्दिशो दधाति । तस्मात्सर्वतो दिशः । सर्वतः समीचीः । सर्वतस्तत्समीचीर्दिशो दधाति । तस्मात्सर्वतः समीच्यो दिशः ॥ ११ ॥
सायणः
अथ दिश्या नामेष्टका विधाय प्रशंसति- अथ दिश्या 8 इति । दिग्लिङ्गैर्मन्त्रैरुपधेया ‘दिश्याः’ ताः पञ्चोपपदध्यात् । ‘दिश्या’ नाम ‘दिशो वै’ साक्षात् दिश एव, दिक्तदुपधेययोरभेदात् । अतो दिशामेवोपधानं कृतवान्भवति । तद्याभिरिति । ‘तत्’ तदा ‘अदः’ विप्रकृष्टकाले प्रजापतिविस्रंसावसरे ‘अनन्तर्हिताभिः’ अतिरोहिताभिर्याभिर्दिग्भिः प्रजापत्यवयवभूताभिः सहितः ‘वायुरुपैत्’ उपागतः । ‘ता एताः’ इष्टका इत्यर्थः । ‘सा एव’ दिश उपस्थापितवान् भवति । एतासां दिश्यानां प्रथमचितावेवोपहितत्वान्मध्यमचितौ किमर्थं तदुपधानमित्याशङ्क्यात्राप्युपधेयत्वं सोपपत्तिकमाह- ता उ एवामूरित्यादिना । ‘ता उ एव’ ता अपि प्रजापतेर्दिग्रूपावयवस्था एव या ‘अमूः’ ‘दर्भस्तम्बं च लोगेष्टकाश्च पुरस्तात्’ ताभ्यः पूर्वं प्रथमचितौ ‘उपदधाति’ । ‘एताः’ दिश्याः ‘असौ’ उपरि दृश्यमानः ‘आदित्यः’ रुक्मरूपेणोपहितो ऽतः ‘अमुम् आदित्यम्’ ‘दिक्षु’ ‘अध्यूहति’ उपरि स्थापितवान्भवति । अतस्तत्रावश्यमेता उपधेया इत्यर्थः । ‘ताः’ दिश्याः ‘यत्’ यदि ‘तत्रैव स्युः’ प्रथमचितावेव भवेयुः नात्र ‘तत्’ तर्हि ताः ‘बहिर्धा’ अत्यन्तं भूगोलापेक्षया बहिरेव भवेयुः । तत् कथमिति तदुपपादयति- बहिर्द्धा वा ऽएतद्योनेरग्निकर्म यत्पुरा पुष्करपर्णादिति । पुष्करपर्णोपधानस्य चितेर्योनिस्थानीयत्वात्ततः ‘पुरा’ यदग्निचयनलक्षणं कर्म क्रियते तत्सर्वं ‘योनेः’ ‘बहिर्द्धो’ बाह्यं खलु । यस्मादेवं तस्मात् ‘ताः’ दिश्याः यदिह तृतीयायां चितौ ‘आहृत्योपदधाति’ ‘तदेनाः’ दिश्या योनिभूते ‘पुष्करपर्णे प्रतिष्ठापयति’ । ‘तथा’ सति अबहिर्भूता ‘भवन्ति’ । आसां स्वयमातृण्णानन्तर्हितत्व-तदुत्तरभावित्व-रेतःसिग्निकटभाक्त्व-सर्वतोभावित्व-सम्यक्त्वार्थवादाः पूर्ववत् ॥ ११ ॥
Eggeling
- He then lays down (five) Diśyā (regional bricks) 9. Now the regional ones, doubtless, are
the regions: it is the regions he thus bestows (on the air-world). And these are those same regions not separated (from the air) wherewith Vāyu on that occasion 10 stepped nigh: it is them he thereby bestows. But prior to these same (bricks) he lays down 11 both the bunch of Darbha grass and the clod-bricks; and these (diśyās) being yonder sun 12, he thus places yonder sun over the regions, and builds him up upon (or, in) the regions. But were these (laid down) at the same time (as the bunch of grass and the clod-bricks), they would be outside (of the altar); and outside of the womb (foundation), indeed, is that sacrificial work regarding the fire-altar which is done prior to the lotus-leaf 13. When he
now brings and lays down these (bricks), he thereby establishes them in the womb, on the lotus-leaf, and thus these (bricks) are not outside (the fire-altar). He lays them down so as not to be separated 14 from the naturally-perforated one; for the middle 15 naturally-perforated one is the air: he thus places the regions so as not to be separate from the air. Subsequently 16 (to the central brick he lays them down): subsequently to the air he thus sets up the regions. In all (four) directions he places them: he thus places the regions (quarters) in all directions, whence the regions are in all (four) directions. [He places them] on all sides so as to face each other: he thereby makes the regions on all sides face each other, and hence the regions on all sides face each other 17.
१२
विश्वास-प्रस्तुतिः
(शो) य᳘द्वेव दि᳘श्या ऽउपद᳘धाति॥
छ᳘न्दाᳫँ᳭सि वै दि᳘शो गायत्री वै प्रा᳘ची दि᳘क्त्रिष्टुब्द᳘क्षिणा ज᳘गती प्रती᳘च्यनुष्टुबु᳘दीची पङ्क्ति᳘रूर्ध्वा᳘ पश᳘वो वै छ᳘न्दाᳫँ᳭स्यन्त᳘रिक्षं मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - श्रीधरादि
(शो) य᳘द्वेव दि᳘श्या ऽउपद᳘धाति॥
छ᳘न्दाᳫँ᳭सि वै दि᳘शो गायत्री वै प्रा᳘ची दि᳘क्त्रिष्टुब्द᳘क्षिणा ज᳘गती प्रती᳘च्यनुष्टुबु᳘दीची पङ्क्ति᳘रूर्ध्वा᳘ पश᳘वो वै छ᳘न्दाᳫँ᳭स्यन्त᳘रिक्षं मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - Weber
य᳘द्वेव दि᳘श्या उपद᳘धाति॥
छ᳘न्दांसि वै दि᳘शो गायत्री वै प्रा᳘ची दि᳘क्त्रष्टुब्द᳘क्षिणा ज᳘गती प्रती᳘च्यनुष्टुबु᳘दीची पङ्क्ति᳘रूर्ध्वा᳘ पश᳘वो वै छ᳘न्दांस्यन्त᳘रिक्षम् मध्यमा चि᳘तिरन्त᳘रिक्षे त᳘त्पशू᳘न्दधाति त᳘स्मादन्त᳘रिक्षायतनाः पश᳘वः॥
मूलम् - विस्वरम्
यद्वेव दिश्या उपदधाति । छन्दांसि वै दिशः । गायत्री वै प्राची दिक् । त्रिष्टुब्दक्षिणा । जगती प्रतीची । अनुष्टुबुदीची । पङ्क्तिरूर्ध्वा । पशवो वै छन्दांसि । अन्तरिक्षं मध्यमा चितिः । अन्तरिक्षे तत्पशून् दधाति । तस्मादन्तरिक्षायतनाः पशवः ॥ १२ ॥
सायणः
दिश्याः पुनः छन्दोलक्षणरूपेण प्रशंसति- यद्वेव दिश्या इति । कथं छन्दोरूपत्वमिति तत्राह- गायत्री वै प्राची दिगित्यादिना । प्रागादिदिशां गायत्र्यादिरूपत्वे लिङ्गमात्रं बीजम् । छन्दसां पशुरूपत्वे तु “प्रजापतेर्विस्रस्तात्पशव उदक्रामञ्छन्दांसि भूत्वा”- (श. प. ८ । २ । ३ । ९) इति प्राक्प्रतिपादितम् । येयं ‘मध्यमा चितिः’ तदन्तरिक्षम् । अतो ऽत्र दिश्यानामुपधानेन ‘अन्तरिक्षे पशून्दधाति’ । ‘तस्मादन्तरिक्षायतनाः पशवः’ अवकाशेनोरस्यवष्टम्भाभावात् ॥ १२ ॥
Eggeling
- And, again, as to why he lays down the regionals. The regions, doubtless, are the metres–the eastern region being the Gāyatrī, the southern the Trishṭubh, the western the Jagatī, the northern the Anushṭubh, and the upper region the Paṅkti;–and the metres are animals 18, and the middlemost layer is the air: he thus places animals in the air,
and hence there are animals that have their abode in the air 19.
१३
विश्वास-प्रस्तुतिः
(वो) य᳘द्वेव दि᳘श्या ऽउपद᳘धाति॥
छ᳘न्दाᳫँ᳭सि वै दि᳘शः पश᳘वो वै छ᳘न्दाᳫँ᳭स्य᳘न्नं पश᳘वो म᳘ध्यं मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति ता ऽअ᳘नन्तर्हिताः स्वयमातृण्णा᳘या ऽउ᳘पदधाति प्राणो वै᳘ स्वयमातृण्णा᳘ ऽनन्तर्हितं त᳘त्प्राणाद᳘न्नं दधात्यु᳘त्तरा ऽउ᳘त्तरं त᳘त्प्राणाद᳘न्नं दधाति रेतःसि᳘चोर्व्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ ऽए᳘वास्मिन्नेतद᳘न्नं दधाति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वास्मिन्नतद᳘न्नं दधाति॥
मूलम् - श्रीधरादि
(वो) य᳘द्वेव दि᳘श्या ऽउपद᳘धाति॥
छ᳘न्दाᳫँ᳭सि वै दि᳘शः पश᳘वो वै छ᳘न्दाᳫँ᳭स्य᳘न्नं पश᳘वो म᳘ध्यं मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति ता ऽअ᳘नन्तर्हिताः स्वयमातृण्णा᳘या ऽउ᳘पदधाति प्राणो वै᳘ स्वयमातृण्णा᳘ ऽनन्तर्हितं त᳘त्प्राणाद᳘न्नं दधात्यु᳘त्तरा ऽउ᳘त्तरं त᳘त्प्राणाद᳘न्नं दधाति रेतःसि᳘चोर्व्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ ऽए᳘वास्मिन्नेतद᳘न्नं दधाति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वास्मिन्नतद᳘न्नं दधाति॥
मूलम् - Weber
य᳘द्वेव दि᳘श्या उपद᳘धाति॥
छ᳘न्दांसि वै दि᳘शः पश᳘वो वै छ᳘न्दांस्य᳘न्नम् पश᳘वो म᳘ध्यम् मध्यमा चि᳘तिर्मध्यतस्तद᳘न्नं दधाति ता अ᳘नन्तर्हिताः स्वयमातृणा᳘या उ᳘पदधाति प्राणो वै᳘ स्वयमातृणा᳘नन्तर्हितं त᳘त्प्राणाद᳘न्नं दधात्यु᳘त्तरा उ᳘त्तरं त᳘त्प्राणाद᳘न्नं दधाति रेतःसि᳘चोर्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ एॗवास्मिन्नेतद᳘न्नं दधाति सर्व᳘त उ᳘पदधाति सर्व᳘त एॗवास्मिन्नतद᳘न्नं दधाति॥
मूलम् - विस्वरम्
यद्वेव दिश्या उपदधाति । छन्दांसि वै दिशः । पशवो वै छन्दांसि । अन्नं पशवः । मध्यं मध्यमा चितिः । मध्यतस्तदन्नं दधाति । ता अनन्तर्हिताः स्वयमातृण्णाया ऽउपदधाति । प्राणो वै स्वयमातृण्णा | अनन्तर्हितं तत्प्राणादन्नं दधाति । उत्तराः । उत्तरं तत्प्राणादन्नं दधाति । रेतःसिचोर्वेलया । पृष्टयो वै रेतःसिचौ । मध्यमु पृष्टयः । मध्यत एवास्मिन्नेतदन्नं दधाति । सर्वत उपदधाति । सर्वत एवास्मिन्नेतदन्नं दधाति ॥ १३ ॥
सायणः
अन्नरूपेणापि प्रशंसति- यद्वेवेति । ‘अन्नं पशवः’ उपभोग्यत्वात् । शिष्टं स्पष्टम् । दिश्यानां स्वयमातृण्णाया अनन्तर्हितत्वाद्यर्थवादः । पूर्वं स्वयमातृण्णाया अन्तरिक्षरूपत्वेन संस्तुतिः । इह तु प्राणरूपत्वेन । दिश्यानां च छन्दःपशुद्वारा ऽन्नरूपत्वेन स्तुतिरिति विशेषः ॥ १३ ॥
Eggeling
- And, again, as to why he lays down the regionals. The regions, doubtless, are the metres, and the metres are animals, and animals are food, and the middlemost layer is the middle: he thus puts food in the middle (of the body). He places them so as not to be separated (by special bricks) from the naturally-perforated one; for the naturally-perforated one is the vital air: he thus places the food so as not to be separated from the vital air. Subsequently (to the central brick he lays them down): subsequently to (or upon) the vital air he thus places food. On the range of the Retaḥsic (he places them): the Retaḥsic being the ribs, and the ribs being the middle (of the body), he thus places the food in the middle of this (Agni’s body). On every side he places them: from everywhere he thus supplies him with food.
१४
विश्वास-प्रस्तुतिः
रा᳘ज्ञ्यसि प्रा᳘ची दि᳘क्॥
(ग्वि) व्विरा᳘डसि द᳘क्षिणा दि᳘क्सम्रा᳘डसि प्रती᳘ची दि᳘क्स्वरा᳘डस्यु᳘दीची दिग᳘धिपत्न्यसि बृहती दिगि᳘ति ना᳘मान्यासामेता᳘नि नामग्रा᳘हमे᳘वैना ऽएतदु᳘पदधाति ता ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना हि दि᳘शः॥
मूलम् - श्रीधरादि
रा᳘ज्ञ्यसि प्रा᳘ची दि᳘क्॥
(ग्वि) व्विरा᳘डसि द᳘क्षिणा दि᳘क्सम्रा᳘डसि प्रती᳘ची दि᳘क्स्वरा᳘डस्यु᳘दीची दिग᳘धिपत्न्यसि बृहती दिगि᳘ति ना᳘मान्यासामेता᳘नि नामग्रा᳘हमे᳘वैना ऽएतदु᳘पदधाति ता ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना हि दि᳘शः॥
मूलम् - Weber
रा᳘ञ्यसि प्रा᳘ची दि᳘क्॥
विरा᳘डसि द᳘क्षिणा दि᳘क्सम्रा᳘डसि प्रती᳘ची दि᳘क्स्वरा᳘डस्यु᳘दीची दिग᳘धिपत्न्यसि बृहती दिगि᳘ति ना᳘मान्यासामेता᳘नि नामग्रा᳘हमेॗवैना एतदु᳘पदधाति ता ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘धिवदति ना᳘ना हि दि᳘शः॥
मूलम् - विस्वरम्
“राज्ञ्यसि प्राची दिक्, विराडसि दक्षिणा दिक्, सम्राडसि प्रतीची दिक्, स्वराडस्युदीची दिक्, अधिपत्न्यसि बृहती दिक्”- (वा. सं. १४ । १३) इति । नामान्यासामेतानि । नामग्राहमेवैना एतदुपदधाति । ता नानोपदधाति । नाना सादयति । नाना सूददोहसा ऽधिवदति । नाना हि दिशः ॥ १४ ॥
सायणः
“राज्ञ्यसि” इत्यादयः पञ्च दिश्योपधानमन्त्रास्तेषां च तात्पर्यतो व्याख्यानं ‘नामान्यासामेतानि’ इत्यादिकम् । ‘सज्ञी,’ ‘विराड्’- इत्यादीनि प्रागादिदिशां यानि ‘नामानि’ क्रमेण ‘एतद्’ एतेन “राज्ञ्यसि”- इत्यादिमन्त्रेण तत्तन्नाम गृहीत्वा गृहीत्वैव ‘एनाः’ इष्टका उपहितवान्भवति । हे प्राच्यामुपधेयेष्टके ! त्वं ‘राज्ञी’ एतन्नामिका भवसि । का सा ? प्राची दिक् । एवं सर्वे ऽपि व्याख्येयाः । दिश्यानां पृथक् पृथक् मन्त्रभेदेन उपधानम्; पृथक् सादनम्; पृथक् अधिवदनं च, प्रागादीनां नानात्वात्पार्थक्यं युक्तमित्यर्थः ॥ १४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे तृतीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (८-३-१) ॥
समाप्तश्च प्रथमः प्रपाठकः ॥ ८ । १ ॥
Eggeling
- [He lays them down, with, Vāj. S. XIV, 13], ‘Thou art the queen, the Eastern region! Thou art the far-ruler, the Southern region! Thou art the all-ruler, the Western region! Thou art the self-ruler, the Northern region! Thou art the supreme ruler, the Great region!’ these are their names: he thus lays them down whilst naming them. Separately he lays them down, separately he settles them, and separately he pronounces the Sūdadohas over them, for separate are the regions.
-
लोको छंदयत B. ↩︎
-
41:4 For the connection of these deities with the third layer, and the air, see also VI, 2, 3, 3. Viśvakarman is likewise the deity by which the Viśvajyotis-brick, representing Vāyu (the wind), the regent of the air-world, is settled; see VIII, 3, 2, 3. ↩︎
-
तृतीयायां स्वयमातृण्णामिंद्राग्नी इति मध्ये । का. श्रौ. सू. १७ । १९१ । ↩︎
-
42:1 See part iii, p. 155, note 8. ↩︎
-
43:1 Viz. by the concluding formula, ‘With the help of that deity, Aṅgiras-like, lie thou steady!’ see part iii, p. 302, note 3. ↩︎
-
43:2 Viz. Vāj. S. XII, 55 (R̥g-veda S. VIII, 69, 3), ‘At his birth the well-like milking, speckled ones mix the Soma, the clans of the gods in the three spheres of the heavens.’ See part iii, p. 307, note 2. ↩︎
-
43:3 VIII, 7, 4, 1 seq. ↩︎
-
अनूकेषु पञ्च दिश्या वैश्व देवीवत् राज्ञ्यसीति प्रतिमंत्रम् । वत्करणं च रेतःसिग्वेलार्थं दक्षिणामुत्तरेण पंचमीत्येवमर्थं चेत्यस्मिन् सूत्रे का. श्रौ. सू. १७ । १९२ । कर्कः । ↩︎
-
43:4 The five Diśyās are placed on the spines in the four directions at the retaḥsic range, just over where the five Vaiśvadevī bricks were placed in the second layer (see the sketch, p. 24). Between them and the central (naturally-perforated) brick there is thus an empty space a foot square, and the two southern Diśyās are half-bricks lying north and south of each other. ↩︎
-
44:1 See VI, 2, 3, 4. The second naturally-perforated brick represents the air-world with which Vāyu, the wind, is most closely associated. ↩︎
-
44:2 That is to say, he laid them down on the site of the altar, before the first layer was commenced, viz. the darbha-bunch in the centre of the ‘body’ of the altar, where the two spines (anūka) intersect each other (VII, 2, 3, 1 seqq.); and the clod-bricks (logeshṭakā) on the four ends of the two spines (VII, 3, 1, 23 seqq.), that is, in the middle of each of the four sides of the square of which the body’ consists. ↩︎
-
44:3 The symbolic interpretation here seems somewhat confused, inasmuch as the Diśyās, which are now apparently identified with the sun, have just been stated to represent the regions. At VI, 7, 1, 17 the sun was represented as the central point of the universe to which these three worlds are linked by means of the quarters (as by the strings of a scale). The clod-bricks, on the other hand, were indeed, in VII, 3, I, 13, identified with the regions (quarters); and the bunch of grass, being laid down in the centre, might be regarded as marking the fifth region, that upwards from here. Cf. IX, 5, 1, 36. ↩︎
-
44:4 The lotus-leaf is placed in the centre of the altar when the first layer is about to be laid down. See VII, 4, 1, 7 seqq., where it is explained as representing the foundation of the fire-altar, or rather, the womb whence Agni is born. ↩︎
-
45:1 That is, not separated therefrom by other special bricks; though the full space of one brick is left between the Diśyās and the central brick. Perhaps, however, ‘anantarhita’ here means ‘immediately after.’ ↩︎
-
45:2 That is, the second of the three svayam-ātr̥ṇṇās, the one in the third layer. ↩︎
-
45:3 Uttara seems here and elsewhere to have a double meaning, viz. that of subsequent, and upper, or left, inasmuch as looking towards these bricks from the centre of the altar, they are placed to the left of the particular section of the anūkas. ↩︎
-
45:4 See p. 26, note 3. ↩︎
-
45:5 The metres are commonly represented as cattle. ↩︎
-
46:1 That is all (four-footed) animals that dwell on, not in, the earth. The Gāyatrī metre, at any rate, is also represented as a bird which fetches the Soma from heaven, but it is not the air as such that is intended here, but the face of the earth. ↩︎