०१

विश्वास-प्रस्तुतिः

बस्तो व्व᳘य ऽइ᳘ति॥ बस्तं व्व᳘यसा ऽऽप्नोद्विवलं छ᳘न्द ऽइत्ये᳘कपदा वै᳘ व्विवलं छ᳘न्द ऽए᳘कपदा ह भूत्वा ऽजा ऽउ᳘च्चक्रमुः[[!!]]॥

मूलम् - श्रीधरादि

बस्तो व्व᳘य ऽइ᳘ति॥ बस्तं व्व᳘यसा ऽऽप्नोद्विवलं छ᳘न्द ऽइत्ये᳘कपदा वै᳘ व्विवलं छ᳘न्द ऽए᳘कपदा ह भूत्वा ऽजा ऽउ᳘च्चक्रमुः[[!!]]॥

मूलम् - Weber

बस्तो व᳘य इ᳘ति बस्तं व᳘यसाप्नोद्विवलं छ᳘न्द इत्ये᳘कपदा वै᳘ विवलं छ᳘न्द ए᳘कपदा ह भूॗत्वाजा उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(१) “बस्तो वयः”- इति । बस्तं वयसा ऽऽप्नोत् । “विवलं छन्दः”- इति । एकपदा वै विवलं छन्दः । एकपदा ह भूत्वा ऽजा उच्चक्रमुः ॥ १ ॥

सायणः

“पञ्चदशोत्तरे” इति ये पशवः संग्रहेण निर्दिष्टाः, तान् इदानीं दक्षिणोत्तरपश्चिमदिक्षु क्रमेणोपधेयेष्टकानां मन्त्रव्याख्यानप्रसङ्गेन दर्शयति- बस्तो वय इत्यादिना । ‘बस्तः’ अजजातिः शरीरपरिणामविशेषः ‘वयः’ बस्ताकारः शरीरपरिणामो बस्ततया प्रजापतिना स्वीकृत इत्यर्थः । “अजेतरा ऽभवद् बस्त इतरः” इति श्रुतेः । ‘बस्तं वयसा ऽऽप्नोद्’ इति तात्पर्यतो व्याख्यानं, बस्तोचितवयो धृत्वा बस्तमाप्नोदिति । ब्राह्मणं तु मन्त्रपदयोर्विभक्तिं परिणमय्य व्याचष्टे- ‘बस्तः’ बस्तमित्यर्थः । ‘वयः’ वयसेत्यर्थः । वयसा बस्तमाप्नोदिति वाक्यार्थः । एवं सर्वत्र व्याख्येयम् । इत्थं स्वाभाविकं पशूनां रूपमभिधायोत्क्रमणसमये छन्दोरूपेणोत्क्रान्तत्वात्तद्रूपप्राप्तिमाह- विवलं छन्द इति । स्वीकृतवानिति शेषः । एतद्व्याचष्टे- एकपदा वै विवलं छन्द इति । विगतं बलं यस्या एकपदायाः सकाशादित्येकपदा वाग्विवलं छन्दः । पदद्वयाभावादेकपदाया विवलच्छन्दोरूपता युक्ता । ननु बस्तापरपर्यायेष्वजेषु उत्क्रान्तेषु विवलच्छन्दो ऽवाप्तिः कुत्रोपयुज्यत ? इत्यत आह- एकपदा ह भूत्वा ऽजा उच्चक्रमुरिति । एवमुत्तरत्र तत्तच्छन्दोवाक्यानि व्याख्येयानि ॥ १ ॥

Eggeling
  1. ‘The he-goat is vigour 1,’–the he-goat he overtook by his vigour;–‘gapless the metre,’–

the gapless metre, doubtless, is the Ekapadā: in the form of Ekapadā (metre) the goats indeed went forth (from Prajāpati).

०२

विश्वास-प्रस्तुतिः

(र्व्वृ᳘) व्वृ᳘ष्णिर्व्व᳘य ऽइ᳘ति॥
व्वृ᳘ष्णिं व्व᳘यसा ऽऽप्नोद्विशालं छ᳘न्द ऽइ᳘ति द्वि᳘पदा वै᳘ व्विशालं छ᳘न्दो द्वि᳘पदा ह भूत्वा᳘ ऽवय ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

(र्व्वृ᳘) व्वृ᳘ष्णिर्व्व᳘य ऽइ᳘ति॥
व्वृ᳘ष्णिं व्व᳘यसा ऽऽप्नोद्विशालं छ᳘न्द ऽइ᳘ति द्वि᳘पदा वै᳘ व्विशालं छ᳘न्दो द्वि᳘पदा ह भूत्वा᳘ ऽवय ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

वृ᳘ष्णिर्व᳘य इ᳘ति॥
वृ᳘ष्णिं व᳘यसाप्नोद्विशालं छन्द इ᳘ति द्वि᳘पदा वै᳘ विशालं च᳘न्दो द्वि᳘पदा ह भूत्वा᳘वय उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(२) “वृष्णिर्वयः”- इति । वृष्णिं वयसा ऽऽप्नोत् । “विशालं छन्दः”- इति । द्विपदा वै विशालं छन्दः । द्विपदा ह भूत्वा ऽवय उच्चक्रमुः ॥ २ ॥

सायणः

वृष्णिर्वय इति । वृष्णिनामा ऽविजातिः । व्याख्या पूर्ववत् । विशालं छन्द इति । अत्र; ‘द्विपदा वै विशालं छन्दः’ इति द्विपदायामृचि पादद्वयसद्भावादेकपदापेक्षया युक्ता विशालच्छन्दोरूपता । उत्क्रमणावसरे ऽवीनां द्विपदारूपाश्रयणाद् द्विपदारूपस्य विशालच्छन्दस आप्तिः प्रजापतेर्युक्तैवेत्यर्थः ॥ २ ॥

Eggeling
  1. ‘The ram is vigour,’–the ram he overtook by his vigour;–‘ample the metre,’–the ample metre, doubtless, is the Dvipadā: in the form of the Dvipadā the sheep indeed went forth.

०३

विश्वास-प्रस्तुतिः

पुरुषो[[!!]] व्व᳘य ऽइ᳘ति॥
पु᳘रुषं व्व᳘यसा ऽऽप्नोत्तन्द्रं छ᳘न्द ऽइ᳘ति पङ्क्तिर्वै᳘ तन्द्रं छ᳘न्दः पंक्ति᳘र्ह भूत्वा पु᳘रुषा ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

पुरुषो[[!!]] व्व᳘य ऽइ᳘ति॥
पु᳘रुषं व्व᳘यसा ऽऽप्नोत्तन्द्रं छ᳘न्द ऽइ᳘ति पङ्क्तिर्वै᳘ तन्द्रं छ᳘न्दः पंक्ति᳘र्ह भूत्वा पु᳘रुषा ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

पु᳘रुषो व᳘य इ᳘ति॥
पु᳘रुषं व᳘यसाप्नोत्तन्द्रं छ᳘न्द इ᳘ति पङ्क्तिर्वै᳘ तन्द्रं छ᳘न्दः पङ्क्ति᳘र्ह भूत्वा पु᳘रुषा उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(३) “पुरुषो वयः”- इति । पुरुषं वयसा ऽऽप्नोत् । “तन्द्रं छन्दः”- इति । पङ्क्तिर्वै तन्द्रं छन्दः । पङ्क्तिर्ह भूत्वा पुरुषा उच्चक्रमुः ॥ ३ ॥

सायणः

पुरुषो वय इति । ‘पुरुषः’ स्पष्टः । तन्द्रशब्दं व्याचष्टे- **पङ्क्तिर्वै तन्द्रं छन्द **इति ॥ ३ ॥

Eggeling
  1. ‘Man is vigour,’–the man he overtook by his vigour;–‘slow the metre,’–the slow metre, doubtless, is the Paṅkti: in the form of the Paṅkti the men indeed went forth.

०४

विश्वास-प्रस्तुतिः

(र्व्या) व्याघ्रो व्व᳘य ऽइ᳘ति॥
व्याघ्रं व्व᳘यसा ऽऽप्नोद᳘नाधृष्टं छ᳘न्द ऽइ᳘ति व्विराड्वा ऽअ᳘नाधृष्टं छन्दो᳘ ऽन्नं वै᳘ व्विराड᳘न्नम᳘नाधृष्टं व्विरा᳘ड्ढ भूत्वा᳘ व्याघ्रा ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

(र्व्या) व्याघ्रो व्व᳘य ऽइ᳘ति॥
व्याघ्रं व्व᳘यसा ऽऽप्नोद᳘नाधृष्टं छ᳘न्द ऽइ᳘ति व्विराड्वा ऽअ᳘नाधृष्टं छन्दो᳘ ऽन्नं वै᳘ व्विराड᳘न्नम᳘नाधृष्टं व्विरा᳘ड्ढ भूत्वा᳘ व्याघ्रा ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

व्याघ्रो व᳘य इ᳘ति॥
व्याघ्रं व᳘यसाप्नोद᳘नाधृष्टं छ᳘न्द इ᳘ति विराड्वा 2 अ᳘नाधृष्टं छन्दो᳘ ऽन्नं वै᳘ विराड᳘न्नम᳘नाधृष्टं विरा᳘डृ भूत्वा᳘ व्याघ्रा उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(४) “व्याघ्रो वयः”- इति । व्याघ्रं वयसा ऽऽप्नोत् । “अनाधृष्टं छन्दः”- इति । विराड् वा अनाधृष्टं छन्दः । अन्नं वै विराड् । अन्नमनाधृष्टम् । विराड्ड भूत्वा व्याघ्रा उच्चक्रमुः॥ ४ ॥

सायणः

व्याघ्रो वय इति । वयसा ऽऽप्तव्यस्य व्याघ्रस्यानाधृष्टत्वात्तदीयस्य च्छन्दसो ऽपि अनाधृष्टत्वेनैव भवितव्यमिति तदेतद्व्याचष्टे- विराड्वा अनाधृष्टं छन्द इति । विराट्छन्दो ऽन्नात्मना स्तौति- अन्नं वै विराडिति । अन्नत्वेन स्तुतौ बीजमनाधृष्टत्वसाम्यमिति दर्शयति- अन्नमनाधृष्टमिति । अन्नस्य धर्षणायोग्यत्वं सर्वप्रसिद्धम् ॥ ४ ॥

Eggeling
  1. ‘The tiger is vigour,’–the tiger he overtook by his vigour;–‘unassailable the metre,’–the unassailable metre, doubtless, is the Virāj, for the Virāj is food, and food is unassailable; in the form of the Virāj the tigers indeed went forth.

०५

विश्वास-प्रस्तुतिः

सिᳫँ᳭हो व्व᳘य ऽइ᳘ति॥
सिᳫँ᳭हं व्व᳘यसा ऽऽप्नोच्छदिश्छ᳘न्द ऽइत्य᳘तिच्छन्दा वै᳘ छदिश्छ᳘न्दः सा हि स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि च्छाद᳘यत्य᳘तिच्छन्दा ह भूत्वा᳘ सिᳫँ᳭हा ऽउ᳘च्चक्रमुरथा᳘तो नि᳘रुक्तानेव᳘ पशून्नि᳘रुक्तानि च्छ᳘न्दाᳫँ᳭स्युपदधाति[[!!]]॥

मूलम् - श्रीधरादि

सिᳫँ᳭हो व्व᳘य ऽइ᳘ति॥
सिᳫँ᳭हं व्व᳘यसा ऽऽप्नोच्छदिश्छ᳘न्द ऽइत्य᳘तिच्छन्दा वै᳘ छदिश्छ᳘न्दः सा हि स᳘र्व्वाणि च्छ᳘न्दाᳫँ᳭सि च्छाद᳘यत्य᳘तिच्छन्दा ह भूत्वा᳘ सिᳫँ᳭हा ऽउ᳘च्चक्रमुरथा᳘तो नि᳘रुक्तानेव᳘ पशून्नि᳘रुक्तानि च्छ᳘न्दाᳫँ᳭स्युपदधाति[[!!]]॥

मूलम् - Weber

सिंहो व᳘य इ᳘ति॥
सिंहं व᳘यसाप्नोच्छदिश्छ᳘न्द इत्य᳘तिछन्दा वै᳘ छदिश्छ᳘न्दः सा हि स᳘र्वाणि छ᳘न्दांसि छाद᳘यत्य᳘तिछन्दा ह भूत्वा᳘ सिंहा उ᳘च्चक्रमुरथा᳘तो नि᳘रुक्तानेव᳘ पशून्नि᳘रुक्तानि छ᳘न्दांस्यु᳘पदधाति॥

मूलम् - विस्वरम्

(५) “सिंहो वयः”- इति । सिंहं वयसा ऽऽप्नोत् । “छदिश्छन्दः”- इति । अतिच्छन्दा वै छदिश्छन्दः । सा हि सर्वाणि च्छन्दांसि च्छादयति । अतिच्छन्दा ह भूत्वा सिंहा उच्चक्रमुः । अथातो निरुक्तानेव पशून्, निरुक्तानि छन्दांस्युपदधाति ॥ ५ ॥

सायणः

सिंहो वय इति । छदिश्छन्द इति । सर्वेषां छन्दसामाच्छादकम्, न चैकपदा द्विपदा पंक्तिरित्येवमादीनि च्छन्दांसि यथा प्रसिद्धानि तादृशमिव छदिश्छन्दः, ‘छदिश्छन्द अतः’ इत्येतस्यार्थमाह- अतिच्छन्दा वै छदिश्छन्द इति । यथा सिंहः सर्वान् पशूनतीत्य वर्तते, एवं तद्रूपं छन्दो ऽपि ‘अतिच्छन्दाः’ इति युक्तम् । कुतस्तस्यातिच्छन्दस्त्वमिति तत्राह- सा हि सर्वाणि च्छन्दांसि च्छादयतीति । सर्वाण्यतिजगत्यादीनि छन्दांसि ‘सा’ इति तच्छन्दोबद्धामृचमपेक्ष्य स्त्रीलिङ्गता, अस्याश्च इतो न्यूनच्छन्दसामन्तर्भावात् अतिच्छन्दस्त्वव्यपदेशः । अर्थात्, छादनात् ‘छदिः’ इति व्युत्पत्तिः प्रदर्शिता भवति ॥

इत्थं दक्षिणत उपधेयानां पञ्चानां पञ्च मन्त्रा व्याख्याताः । अथोत्तरतः पश्चाच्चोपधेयानां दशानामिष्टकानां मन्त्रान्विधाय व्याचिख्यासुरुक्तेभ्यो वक्ष्यमाणानां किञ्चिद्वैलक्षण्यमाह- अथातो निरुक्तानेव पशून्निरुक्तानि च्छन्दांस्युपदधातीति । उक्तवैलक्षण्ये ‘अथ’ शब्दः । पूर्वत्र पशवो निरुक्ता अजाव्यादयः, छन्दांसि तु विवलादीन्यनिरुक्तान्युक्तानि । यद्वा पूर्वत्र च्छन्दांसि पशवश्चेत्युभयमप्यनिरुक्तम्, उत्तरत्र निरुक्तमिति विशेषः । पूर्वं हि “प्रजापतिश्छन्दः” “मयन्दं छन्दः” इत्युक्तत्वात् छन्दसां मध्ये प्रजापतिमयन्दादेरपि गणनात् । वक्ष्यमाणास्तु षष्ठवाडादयस्तत्तद्भेदयुक्ता निरुक्ता एव च्छन्दांस्यपि बृहतीककुबादीनि निरुक्तान्येव । ‘अतः’ उत्तरत्र ‘निरुक्तानेव पशून्, निरुक्तानि च्छन्दांसि’ उपदध्यात् ॥ ५ ॥

Eggeling
  1. ‘The lion is vigour,’–the lion he overtook by his vigour;–’the covering the metre,’–the covering metre, doubtless, is the Aticchandas, for that covers (includes) all metres: in the form of the Aticchandas the lions indeed went forth. And so he places undefined metres along with defined beasts.

०६

विश्वास-प्रस्तुतिः

पष्ठवाड्व᳘य ऽइ᳘ति॥
पष्ठवा᳘हं व्व᳘यसा ऽऽप्नोद्बृहती छ᳘न्द ऽइ᳘ति बृहती᳘ ह भूत्वा᳘ पष्ठवा᳘ह ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

पष्ठवाड्व᳘य ऽइ᳘ति॥
पष्ठवा᳘हं व्व᳘यसा ऽऽप्नोद्बृहती छ᳘न्द ऽइ᳘ति बृहती᳘ ह भूत्वा᳘ पष्ठवा᳘ह ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

पष्ठवाड्व᳘य इ᳘ति॥
पष्ठवा᳘हं व᳘यसाप्नोद्बृहती छ᳘न्द इ᳘ति बृहती᳘ ह भूत्वा᳘ पष्ठवा᳘ह उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(१) “पष्ठवाड्वयः”- इति । पष्ठवाहं वयसा ऽऽप्नोद् । “बृहती छन्दः”- इति । बृहती ह भूत्वा पष्ठवाह उच्चक्रमुः ॥ ६ ॥

सायणः

तत्र प्रथमं पशुं छन्दश्च निरुक्तं दर्शयति- पष्ठवाडित्यादिना । योजना तु पूर्ववत् । ‘पष्ठं’ पृष्टभागः । तत्र भारं वोढुं शक्तः पष्ठवाट् तं ‘पष्ठवाहम्’ प्रजापतिराप्तव्यपष्ठवाड्यो ऽयं वयः शरीरविकारं प्राप्तवानित्यर्थः । ‘बृहती छन्द’ इत्यस्य समर्थनम्- बृहती ह भूत्वेति । बृहतीककुबादीनि च्छन्दांसि प्रसिद्धानि । बृहतीरूपेणोत्क्रान्तत्वात् प्रजापतिरपि बृहतीछन्दो ऽभूदित्यर्थः ॥ ६ ॥

Eggeling
  1. ‘The ox is vigour,’–the ox he overtook by his vigour;–’the Br̥hatī the metre,’–in the form of the Br̥hatī the oxen indeed went forth.

०७

विश्वास-प्रस्तुतिः

(रु) उक्षा व्व᳘य ऽइ᳘ति॥
(त्यु) उक्षा᳘णं व्व᳘यसा ऽऽप्नोत्ककुप्छ᳘न्द ऽइ᳘ति ककु᳘ब्भ भू᳘त्वोक्षा᳘ण ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

(रु) उक्षा व्व᳘य ऽइ᳘ति॥
(त्यु) उक्षा᳘णं व्व᳘यसा ऽऽप्नोत्ककुप्छ᳘न्द ऽइ᳘ति ककु᳘ब्भ भू᳘त्वोक्षा᳘ण ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

उक्षा व᳘य इ᳘ति॥
उक्षा᳘णं व᳘यसाप्नोत्ककुप्छ᳘न्द इ᳘ति ककु᳘ब्भ भूॗत्वोक्षा᳘ण उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(२) “उक्षा वयः”- इति । उक्षाणं वयसा ऽऽप्नोत् । “ककुप्छन्दः”- इति । ककुब्भ भूत्वोक्षाण उच्चक्रमुः ॥ ७ ॥

सायणः

सेचनसमर्थः पशुः ‘उक्षा’ । ककुप् छन्द इति । “मध्यमश्चेत्ककूप्” इति तल्लक्षणम् । मध्यमो द्वादशाक्षरश्चेदित्यर्थः । शिष्टावष्टाक्षरौ ॥ ७ ॥

Eggeling
  1. ‘The bull is vigour,’–the bull he overtook by his vigour;–’the Kakubh the metre,’–in the form of the Kakubh the bulls indeed went forth.

०८

विश्वास-प्रस्तुतिः

(र्ऋ) ऋषभो व्व᳘य ऽइ᳘ति॥
(त्यृ) ऋषभं व्व᳘यसा ऽऽप्नोत्सतो᳘बृहती च्छ᳘न्द ऽइ᳘ति सतो᳘बृहती ह भूत्व᳘ ऽर्षभा ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

(र्ऋ) ऋषभो व्व᳘य ऽइ᳘ति॥
(त्यृ) ऋषभं व्व᳘यसा ऽऽप्नोत्सतो᳘बृहती च्छ᳘न्द ऽइ᳘ति सतो᳘बृहती ह भूत्व᳘ ऽर्षभा ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

ऋषभो व᳘य इ᳘ति॥
ऋषभं व᳘यसाप्नोत्सतो᳘बृहती छ᳘न्द इ᳘ति सतो᳘बृहती ह भूत्व᳘ ऽर्षभा उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(३) “ऋषभो वयः”- इति । ऋषभं वयसा ऽऽप्नोत् । “सतोबृहती च्छन्दः” (वा. सं १४ । ९) इति । सतोबृहती ह भूत्वर्षभा उच्चक्रमुः ॥ ८ ॥

सायणः

‘ऋषभः’ ततो ऽपि उत्कृष्टवयस्कः । सतोबृहती च्छन्द इति । आद्यतृतीयौ पादौ द्वादशाक्षरौ, द्वितीयचतुर्थावष्टाक्षरौ, चेत्सा सतोबृहतीनाम बृहत्यवान्तरविशेषः । “अयुजौ जागतौ सतोबृहती” इति तल्लक्षणम् ॥ ८ ॥

Eggeling
  1. ‘The steer is vigour,’–the steer he overtook by his vigour;–’the Satobr̥hatī the metre,’–in the form of the Satobr̥hatī the steers indeed went forth.

०९

विश्वास-प्रस्तुतिः

(र) अनड्वान्व᳘य ऽइ᳘ति॥
(त्य) अनड्वा᳘हं व्व᳘यसा ऽऽप्नोत्पङ्क्तिश्छ᳘न्द ऽइ᳘ति पङ्क्ति᳘र्ह भूत्वा ऽनड्वा᳘ह ऽउच्चक्रमुः[[!!]]॥

मूलम् - श्रीधरादि

(र) अनड्वान्व᳘य ऽइ᳘ति॥
(त्य) अनड्वा᳘हं व्व᳘यसा ऽऽप्नोत्पङ्क्तिश्छ᳘न्द ऽइ᳘ति पङ्क्ति᳘र्ह भूत्वा ऽनड्वा᳘ह ऽउच्चक्रमुः[[!!]]॥

मूलम् - Weber

अनड्वान्व᳘य इ᳘ति॥
अनड्वा᳘हं व᳘यसाप्नोत्पङ्क्तिश्छ᳘न्द इ᳘ति पङ्क्ति᳘र्ह भूॗत्वानड्वा᳘ह उच्चक्रमुः॥

मूलम् - विस्वरम्

(४) “अनड्वान्वयः”- इति । अनड्वाहं वयसा ऽऽप्नोत् । “पंक्तिश्छन्दः”- इति । पङ्क्तिर्ह भूत्वा ऽनड्वाह उच्चक्रमुः ॥ ९ ॥

सायणः

अनड्वान्वय इति । अनोवहनसमर्थः ‘अनड्वान्’ । पङ्क्तिश्छन्द इति । “अष्टाक्षरपञ्चपदा पंक्तिः” ॥ ९ ॥

Eggeling
  1. ‘The bullock is vigour,’–the bullock he overtook by his vigour;–’the Paṅkti the metre,’–in the form of the Paṅkti the bullocks indeed went forth.

१०

विश्वास-प्रस्तुतिः

(र्धे) धेनुर्व्व᳘य ऽइ᳘ति॥
धेनुं व्व᳘यसा ऽऽऽप्नोज्ज᳘गती छ᳘न्द ऽइ᳘ति ज᳘गती ह भूत्वा᳘ धेन᳘व ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

(र्धे) धेनुर्व्व᳘य ऽइ᳘ति॥
धेनुं व्व᳘यसा ऽऽऽप्नोज्ज᳘गती छ᳘न्द ऽइ᳘ति ज᳘गती ह भूत्वा᳘ धेन᳘व ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

धेनुर्व᳘य इ᳘ति॥
धेनुं व᳘यसाप्नोज्ज᳘गती छ᳘न्द इ᳘ति ज᳘गती ह भूत्वा᳘ धेन᳘व उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(५) “धेनुर्वयः”- इति । धेनुं वयसा ऽऽप्नोत् । “जगती छन्दः”- इति । जगती ह भूत्वा धेनव उच्चक्रमुः ॥ १० ॥

सायणः

धेनुर्वय इति । नवप्रसूतिका ‘धेनुः’ । जगती छन्द इति । अष्टाचत्वारिंशदक्षरा ‘जगती’ ॥ १० ॥

Eggeling
  1. ‘The milch cow is vigour,’–the milch cow he overtook by his vigour;–’the Jagatī the metre,’–in the form of the Jagatī the milch cows indeed went forth.

११

विश्वास-प्रस्तुतिः

(स्त्र्य᳘) त्र्य᳘विर्व्व᳘य ऽइ᳘ति॥
त्र्य᳘विं व्व᳘यसा ऽऽप्नोत्त्रिष्टुप्छ᳘न्द ऽइ᳘ति त्रिष्टु᳘ब्भ भूत्वा त्र्य᳘वय ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

(स्त्र्य᳘) त्र्य᳘विर्व्व᳘य ऽइ᳘ति॥
त्र्य᳘विं व्व᳘यसा ऽऽप्नोत्त्रिष्टुप्छ᳘न्द ऽइ᳘ति त्रिष्टु᳘ब्भ भूत्वा त्र्य᳘वय ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

त्र्य᳘विर्व᳘य इ᳘ति॥
त्र्य᳘विं व᳘यसाप्नोत्त्रिष्टुप्छ᳘न्द इ᳘ति त्रिष्टु᳘ब्भ भूत्वा त्र्य᳘वय उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(१) “त्र्यविर्वयः”- इति । त्र्यविं वयसा ऽऽप्नोत् । “त्रिष्टुप्छन्दः”- इति । त्रिष्टुब्भ भूत्वा त्र्यवय उच्चक्रमुः ॥ ११ ॥

सायणः

पश्चादुपधेयानां मन्त्रानाह- त्र्यविर्वय इति । त्रेधा ऽवतीति त्र्यविः, त्रैवार्षिको वा ऽविस्त्र्यविः । त्रिष्टुप् छन्द इति । चतुश्चत्वारिंशदक्षरा ‘त्रिष्टुप्’ ॥ ११ ॥

Eggeling
  1. ‘The calf of eighteen months is vigour,’–the calf of eighteen months he overtook by his vigour;–’the Trishṭubh the metre,’–in the form of the Trishṭubh the calves of eighteen months indeed went forth.

१२

विश्वास-प्रस्तुतिः

(र्दि) दित्यवाड्व᳘य ऽइ᳘ति॥
दित्यवा᳘हं व्व᳘यसा ऽऽप्नोद्विराट्छ᳘न्द ऽइ᳘ति व्विरा᳘ड्ढ भूत्वा᳘ दित्यवा᳘ह ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

(र्दि) दित्यवाड्व᳘य ऽइ᳘ति॥
दित्यवा᳘हं व्व᳘यसा ऽऽप्नोद्विराट्छ᳘न्द ऽइ᳘ति व्विरा᳘ड्ढ भूत्वा᳘ दित्यवा᳘ह ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

दिव्यवाड्व᳘य इ᳘ति॥
दित्यवा᳘हं व᳘यसाप्नोद्विराट् छ᳘न्द इ᳘ति विरा᳘ड भूत्वा᳘ दित्यवा᳘ह उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(२) “दित्यवाड्वयः”- इति । दित्यवाहं वयसा ऽप्नोत् । “विराट् छन्दः”- इति । विराड्ढ भूत्वा दित्यवाह उच्चक्रमुः ॥ १२ ॥

सायणः

दितिरवखण्डनम्, तदर्हतीति ‘दित्यम्’ धान्यम्, तद्वहतीति ‘दित्यवाट्’ अल्पानल्पवाहक इत्यर्थः । दशाक्षरा ‘विराट्’ ॥ १२ ॥

Eggeling
  1. ‘The two-year-old bull is vigour,’–the two-year-old bull he overtook by his vigour;–’the Virāj the metre,’–in the form of the Virāj the two-year-old kine indeed went forth.

१३

विश्वास-प्रस्तुतिः

प᳘ञ्चाविर्व्व᳘य ऽइ᳘ति॥
प᳘ञ्चाविं व्व᳘यसा ऽऽप्नोद्गायत्री छ᳘न्द ऽइ᳘ति गायत्री᳘ ह भूत्वा प᳘ञ्चावय ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

प᳘ञ्चाविर्व्व᳘य ऽइ᳘ति॥
प᳘ञ्चाविं व्व᳘यसा ऽऽप्नोद्गायत्री छ᳘न्द ऽइ᳘ति गायत्री᳘ ह भूत्वा प᳘ञ्चावय ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

प᳘ञ्चाविर्व᳘य इ᳘ति॥
प᳘ञ्चाविं व᳘यसाप्नोद्गायत्री छ᳘न्द इ᳘ति गायत्री᳘ ह भूत्वा प᳘ञ्चावय उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(३) “पञ्चाविर्वयः”- इति । पञ्चाविं वयसा ऽऽप्नोत् । “गायत्री छन्दः”- इति । गायत्री ह भूत्वा पञ्चावय उच्चक्रमुः ॥ १३ ॥

सायणः

पञ्चाविर्वय इति । पञ्चवार्षिको ऽत्यन्तवर्षीयान्वा ‘अविः’ । गायत्री च्छन्द इति । चतुर्विंशत्यक्षरा ‘गायत्री’ ॥ १३ ॥

Eggeling
  1. ‘The bull of two years and a half is vigour,’–the bull of two years and a half he overtook by his vigour;–’the Gāyatrī the metre,’–in the form of the Gāyatrī the kine of two years and a half indeed went forth.

१४

विश्वास-प्रस्तुतिः

(स्त्रि) त्रिवत्सो व्व᳘य ऽइ᳘ति॥
त्रिवत्सं व्व᳘यसा ऽऽप्नोदुष्णिक्छ᳘न्द ऽइ᳘त्युष्णि᳘ग्घ भूत्वा᳘ त्रिवत्सा ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

(स्त्रि) त्रिवत्सो व्व᳘य ऽइ᳘ति॥
त्रिवत्सं व्व᳘यसा ऽऽप्नोदुष्णिक्छ᳘न्द ऽइ᳘त्युष्णि᳘ग्घ भूत्वा᳘ त्रिवत्सा ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

त्रिवत्सो व᳘य इ᳘ति॥
त्रिवत्सं व᳘यसाप्नोदुष्णिक्छ᳘न्द इ᳘त्युष्णि᳘ग्घ भूत्वा᳘ त्रिवत्सा उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(४) “त्रिवत्सो वयः”- इति । त्रिवत्सं वयसा ऽऽप्नोत् । उष्णिक्छन्दः- इति । उष्णिग्घ भूत्वा त्रिवत्सा उच्चक्रमुः ॥ १४ ॥

सायणः

‘त्रिवत्सः’ त्रयो वत्सा यस्य साम्येन शक्ताः त्रिवत्सः । ‘उष्णिग्’ अष्टाविंशत्यक्षरा ॥ १४ ॥

Eggeling
  1. ‘The three-year-old bull is vigour,’–the three-year-old bull he overtook by his vigour;–’the Ushṇih the metre,’–in the form of the Ushṇih the three-year-old kine indeed went forth.

१५

विश्वास-प्रस्तुतिः

(स्तु) तुर्यवाड्व᳘य ऽइ᳘ति॥
तुर्यवा᳘हं व्व᳘यसा ऽऽप्नोदनुष्टुप्छ᳘न्द ऽइ᳘त्यनुष्टुब्भ भूत्वा᳘ तुर्यवा᳘ह ऽउ᳘च्चक्रमुः॥

मूलम् - श्रीधरादि

(स्तु) तुर्यवाड्व᳘य ऽइ᳘ति॥
तुर्यवा᳘हं व्व᳘यसा ऽऽप्नोदनुष्टुप्छ᳘न्द ऽइ᳘त्यनुष्टुब्भ भूत्वा᳘ तुर्यवा᳘ह ऽउ᳘च्चक्रमुः॥

मूलम् - Weber

तुर्यवाड्व᳘य इ᳘ति॥
तुर्यवा᳘हं व᳘यसाप्तोदनुष्टुप्छ᳘न्द इ᳘त्यनुष्टुब्भ भूत्वा᳘ तुर्यवा᳘ह उ᳘च्चक्रमुः॥

मूलम् - विस्वरम्

(५) “तुर्यवाड्वयः”- इति । तुर्यवाहं वयसा ऽऽप्नोत् । “अनुष्टुप्छन्दः”- (वा. सं. १४ । १०) इति । अनुष्टुब्भ भूत्वा तुर्यवाह उच्चक्रमुः ॥ १५ ॥

सायणः

तुर्यवाड् वय इति । अनआदेरग्रतः प्रविश्य तुर्यत्वेन वोढुं शक्तः ‘तुर्यवाट्’ । “द्वात्रिंशदक्षरा ऽनुष्टुप्" ॥ १५ ॥

Eggeling
  1. ‘The four-year-old bull is vigour,’–the four-year-old bull he overtook by his vigour;–’the Anushṭubh the metre,’–in the form of the Anushṭubh the four-year-old kine indeed went forth.

१६

विश्वास-प्रस्तुतिः

(रे) एते वै ते᳘ पश᳘वः॥
(वो) यांस्त᳘त्प्रजा᳘पतिर्व्व᳘यसा᳘ ऽऽप्नोत्स वै पशुं[[!!]] प्रथम᳘माहा᳘थ व्वयो᳘ ऽथ च्छ᳘न्दो व्व᳘यसा च᳘ ह्येनांश्छ᳘न्दसा च परिग᳘त्यात्म᳘न्नधत्तात्म᳘न्नकुरुत त᳘थै᳘वैनानय᳘मेतद्व᳘यसा चैव च्छ᳘न्दसा च परिग᳘त्यात्म᳘न्धत्त ऽआत्म᳘न्कुरुते॥

मूलम् - श्रीधरादि

(रे) एते वै ते᳘ पश᳘वः॥
(वो) यांस्त᳘त्प्रजा᳘पतिर्व्व᳘यसा᳘ ऽऽप्नोत्स वै पशुं[[!!]] प्रथम᳘माहा᳘थ व्वयो᳘ ऽथ च्छ᳘न्दो व्व᳘यसा च᳘ ह्येनांश्छ᳘न्दसा च परिग᳘त्यात्म᳘न्नधत्तात्म᳘न्नकुरुत त᳘थै᳘वैनानय᳘मेतद्व᳘यसा चैव च्छ᳘न्दसा च परिग᳘त्यात्म᳘न्धत्त ऽआत्म᳘न्कुरुते॥

मूलम् - Weber

एते वै ते᳘ पश᳘वः॥
यांस्त᳘त्प्रजा᳘पतिर्व᳘यसा᳘प्नोत्स वै पशु᳘म् प्रथम᳘माहा᳘थ वयो᳘ ऽथ छ᳘न्दो व᳘यसा चॗ ह्येनांश्छ᳘न्दसा च परिग᳘त्यात्म᳘न्नधत्तात्म᳘न्नकुरुत त᳘थैॗवैनानय᳘मेतद्व᳘यसा चैव छ᳘न्दसा च परिग᳘त्यात्म᳘न्धत्त आत्म᳘न्कुरुते॥

मूलम् - विस्वरम्

एते वै ते पशवो- यांस्तत्प्रजापतिर्वयसा ऽऽप्नोत् । स वै पशुं प्रथममाह- अथ वयः- अथ च्छन्दः । वयसा च ह्येनांश्छन्दसा च परिगत्या ऽऽत्मन्नधत्त, आत्मन्नकुरुत । तथैवैनानयमेतद्वयसा चैव च्छन्दसा च परिगत्या ऽऽत्मन्धते-आत्मन्कुरुते ॥ १६ ॥

सायणः

उपक्रमे प्रतिपादितमर्थं प्रतिज्ञापयन्नुपसंहरति- एते वै ते पशव इति । ‘एते’ प्रागुक्ताः ‘पशवः’ ‘ते वै’ “बस्तो वयः” इत्यादिनोक्ताः खलु । के ते ? ‘यांस्तत्प्रजापतिर्वयसा ऽऽप्नोद्’ इत्युत्तरम् । ‘तत्’ तदा ‘यान्’ पशून् ‘वयसा प्रजापतिराप्नोद्’ ‘त एते’ इत्यर्थः ॥

सर्वेषु मन्त्रेषु पशुवयश्छन्दसां यत् पौर्वापर्यं तत्प्रशंसति- स वै पशुमिति । ‘सः’ प्रजापतिः “बस्तो वयः” इत्येवमादौ बस्तं ‘पशुं’ पश्चाद् ‘वयः’ तदनन्तरं विवलं ‘छन्दः,’ तथा सत्येनं प्रथमनिर्दिष्टं पशुं ‘वयसा’ स्वाभाविकेन रूपेण ‘छन्दसा’ पलायनोचितैकपदादिरूपेण च ‘परिगत्य’ ‘आत्मन्’ आत्मनि ‘अधत्त;’ धृत्वा च स्वात्मन्यकुरुत, स्वात्मना सहैकीकृतवान् । ‘तथैवैनान्’ इत्याद्युक्तप्रायम् ॥ १६ ॥

Eggeling
  1. These then are those very beasts which Prajāpati overtook by his vigour. The animal he (the priest) mentions first, then vigour, then the

metre, for having hemmed them in with vigour and the metre, he put them into himself, and made them his own; and in like manner does he (the sacrificer) now hem them in with vigour and the metre, and put them into himself, and make them his own.

१७

विश्वास-प्रस्तुतिः

स᳘ ऽएष᳘ पशुर्य᳘दग्निः[[!!]]॥
सो᳘ ऽत्रैव स᳘र्व्वः कृत्स्नः सं᳘स्कृतस्त᳘स्य याः᳘ पुर᳘स्तादुपद᳘धाति शि᳘रो ऽस्य ता ऽअ᳘थ या᳘ दक्षिणत᳘श्चोत्तरत᳘श्च स᳘ ऽआत्मा᳘ ऽथ याः᳘ पश्चात्तत्पु᳘च्छम्॥

मूलम् - श्रीधरादि

स᳘ ऽएष᳘ पशुर्य᳘दग्निः[[!!]]॥
सो᳘ ऽत्रैव स᳘र्व्वः कृत्स्नः सं᳘स्कृतस्त᳘स्य याः᳘ पुर᳘स्तादुपद᳘धाति शि᳘रो ऽस्य ता ऽअ᳘थ या᳘ दक्षिणत᳘श्चोत्तरत᳘श्च स᳘ ऽआत्मा᳘ ऽथ याः᳘ पश्चात्तत्पु᳘च्छम्॥

मूलम् - Weber

स᳘ एष᳘ पशुर्य᳘दग्निः᳟॥
सो᳘ ऽत्रैव स᳘र्वः कृत्स्नः स᳘ᳫं᳘स्कृतस्त᳘स्य याः᳘ पुर᳘स्तादुपद᳘धाति शि᳘रो ऽस्य ता अ᳘थ या᳘ दक्षिणत᳘श्चोत्तरत᳘श्च स᳘ आत्मा᳘थ याः᳘ पश्चात्तत्पु᳘छम्॥

मूलम् - विस्वरम्

स एष पशुर्यदग्निः । सो ऽत्रैव सर्वः कृत्स्नः संस्कृतः । तस्य याः पुरस्तादुपदधाति । शिरो ऽस्य ताः । अथ या दक्षिणतश्चोत्तरतश्च- स आत्मा । अथ याः पश्चात्- तत्पुच्छम् ॥ १७ ॥

सायणः

इष्टकानां पश्वात्मना स्तुतेः प्रयोजनमाह- स एष पशुर्यदग्निरिति । चित्यात्मको ऽग्निरिति ‘यत्’ यो ऽस्ति ‘एषः’ इदानीमभिहितः ‘पशुः’ एव पशुरूपेष्टकाभिश्चितत्वात् ‘सो ऽग्निरत्रैव’ द्वितीयचितावेव सर्वो ऽपि संस्कृतः चयनाख्येन संस्कारेण स्वरूपापन्नः कृत इत्यर्थः । सर्वशब्दस्यापेक्षिकत्वशङ्कां निराकरोति- कृत्स्न इति । नन्वग्नेः पक्षपुच्छाद्यङ्गानि सन्ति तानि सर्वाणि कथमुक्तपश्विष्टकाभिः संस्कृतानीत्याशंक्य विभज्य दर्शयति- तस्य याः पुरस्तादिति । ‘तस्य’ अग्नेः ‘पुरस्तात्’ पूर्वदेशे ‘याः’ चतस्र इष्टकाः “मूर्द्धा वयः” इत्यादिमन्त्रचतुष्टयसाध्या उपदधाति ‘ताः’ ‘अस्य अग्नेः’ शिरःस्थानीयाः, ‘अथ याः’ “बस्तो वयः” इत्यादिभिः “पष्ठवाड्वयः” इत्यादिभिश्च पञ्चभिर्मन्त्रैः ‘दक्षिणतश्चोत्तरतश्च’ क्रमेणोपधेयाः पञ्च पञ्चेष्टकास्ता ‘आत्मा’ मध्यदेहः । ‘अथ याः’ “त्र्यविर्वयः”- इत्यादिभिः पञ्चभिर्मन्त्रैः ‘पश्चात्’ उपधेयाः ‘तत्पुच्छम्’ ॥ १७ ॥

Eggeling
  1. Now that animal is the same as Agni: (as such) he is even now made up whole and entire. Those (bricks) which he places in front are his head; those on the right and left sides are his body, and those behind his tail.

१८

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स वै᳘ पुर᳘स्तादेवा᳘ग्र ऽउ᳘पदधाति॥
शि᳘रो हि᳘ प्रथमं जा᳘यमानस्य जा᳘यते᳘ ऽथ दक्षिणत᳘ ऽउपधा᳘योत्तरत ऽउ᳘पदधाति सार्ध᳘मय᳘मात्मा᳘ जायता ऽइत्य᳘थ पश्चात्पु᳘च्छ᳘ᳫँ᳘ ह्यन्ततो[[!!]] जा᳘यमानस्य जा᳘यते॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स वै᳘ पुर᳘स्तादेवा᳘ग्र ऽउ᳘पदधाति॥
शि᳘रो हि᳘ प्रथमं जा᳘यमानस्य जा᳘यते᳘ ऽथ दक्षिणत᳘ ऽउपधा᳘योत्तरत ऽउ᳘पदधाति सार्ध᳘मय᳘मात्मा᳘ जायता ऽइत्य᳘थ पश्चात्पु᳘च्छ᳘ᳫँ᳘ ह्यन्ततो[[!!]] जा᳘यमानस्य जा᳘यते॥

मूलम् - Weber

स वै᳘ पुर᳘स्तादेवा᳘ग्र उ᳘पदधाति॥
शि᳘रो हि᳘ प्रथमं जा᳘यमानस्य जा᳘यते᳘ ऽथ दक्षिणत᳘ उपधा᳘योत्तरत उ᳘पदधाति सार्ध᳘मय᳘मात्मा᳘ जायाता इत्य᳘थ पश्चात्पु᳘छᳫं ह्य᳘न्ततो जा᳘यमानस्य जा᳘यते॥

मूलम् - विस्वरम्

स वै पुरस्तादेवाग्र उपदधाति । शिरो हि प्रथमं जायमानस्य जायते । अथ दक्षिणत उपधायोत्तरत उपदधाति । सार्द्धमयमात्मा जायता ऽइति । अथ पश्चात् । पुच्छं ह्यन्ततो जायमानस्य जायते ॥ १८ ॥

सायणः

अस्तु शिरआदिरूपता प्रागादिषूपधेयानां, तथापि केन क्रमेणोपधेया इति, तं क्रम सोपपत्तिकं दर्शयति- स वै पुरस्तादेवाग्र उपदधातीत्यादिना । निगदव्याख्यातमिदम् ॥ १८ ॥

Eggeling
  1. He first lays down those in front, for of an animal that is born the head is born first. Having then laid down those on the right (south) side, he lays down those on the left (north) side, thinking, ‘Together with its sides this body shall be born.’ Then those behind, for of (the animal) that is born the tail is born last.

१९

विश्वास-प्रस्तुतिः

तद्या᳘नि व्व᳘र्षिष्ठानि च्छ᳘न्दाᳫँ᳭सि॥
ये स्थ᳘विष्ठाः पश᳘वस्तान्म᳘ध्य ऽउ᳘पदधाति म᳘ध्यं तत्प्र᳘ति पशुं व्व᳘रिष्ठं करोति त᳘स्मान्म᳘ध्यं प्र᳘ति पशुर्व्व᳘रिष्ठो᳘ ऽथ ये᳘ व्वी᳘र्यवत्तमाः पश᳘वस्ता᳘न्दक्षिणत ऽउ᳘पदधाति द᳘क्षिणं तदर्धं[[!!]] पशो᳘र्व्वी᳘र्यवत्तरं[[!!]] करोति त᳘स्माद्द᳘क्षिणो᳘ ऽर्धः पशो᳘र्व्वी᳘यत्तरः[[!!]]॥

मूलम् - श्रीधरादि

तद्या᳘नि व्व᳘र्षिष्ठानि च्छ᳘न्दाᳫँ᳭सि॥
ये स्थ᳘विष्ठाः पश᳘वस्तान्म᳘ध्य ऽउ᳘पदधाति म᳘ध्यं तत्प्र᳘ति पशुं व्व᳘रिष्ठं करोति त᳘स्मान्म᳘ध्यं प्र᳘ति पशुर्व्व᳘रिष्ठो᳘ ऽथ ये᳘ व्वी᳘र्यवत्तमाः पश᳘वस्ता᳘न्दक्षिणत ऽउ᳘पदधाति द᳘क्षिणं तदर्धं[[!!]] पशो᳘र्व्वी᳘र्यवत्तरं[[!!]] करोति त᳘स्माद्द᳘क्षिणो᳘ ऽर्धः पशो᳘र्व्वी᳘यत्तरः[[!!]]॥

मूलम् - Weber

तद्या᳘नि व᳘र्षिष्ठानि छ᳘न्दांसि॥
ये स्थ᳘विष्ठाः पश᳘वस्तान्म᳘ध्य उ᳘पदधाति म᳘ध्यं तत्प्र᳘ति पशुं व᳘रिष्ठं करोति त᳘स्मान्म᳘ध्यम् प्र᳘ति पशुर्व᳘रिष्ठो᳘ ऽथ ये᳘ वीर्य᳘वत्तमाः पश᳘वस्ता᳘न्दक्षिणत उ᳘पदधाति द᳘क्षिणं तद᳘र्धम् पशो᳘र्वीर्य᳘वत्तरं करोति त᳘स्माद्द᳘क्षिणो᳘ ऽर्धः पशो᳘र्वीय᳘त्तरः॥

मूलम् - विस्वरम्

तद् यानि वर्षिष्ठानि च्छन्दांसि- ये स्थविष्ठाः पशवः- तान्मध्य ऽउपदधाति । मध्यं तत् प्रति पशुं वरिष्ठं करोति । तस्मान्मध्यं प्रति पशुर्वरिष्ठः । अथ ये वीर्यवत्तमाः पशवः- तान्दक्षिणत उपदधाति । दक्षिणं तदर्धं पशोर्वीर्यवत्तरं करोति । तस्माद्दक्षिणो ऽर्धः पशोर्वीर्यवत्तरः ॥ १९ ॥

सायणः

इदानीमविभागेन विहितानां पश्वात्मिकानामिष्टकानां यथोचितं मध्याद्यङ्गेषु विभज्य विनियोगमाह- तद्यानि वर्षिष्ठानि- इत्यादिना । ‘वर्षिष्ठानि’ अतिशयेन वृद्धानि ‘छन्दांसि’ ‘यानि’ विवलादीनि दश उक्तानि ‘ये’ च ‘स्थविष्ठाः’ अतिशयेन स्थूलाः ‘पशवः’ बस्तादयो दश ‘तान्’ मध्यतो मध्यदेशे ‘उपदधाति’ । मध्यत इति दक्षिणोत्तरपक्षयोरित्यर्थः । तत्रापि क्रमस्तूक्त एव “दक्षिणत उपधायोत्तरतः” इति (पूर्वकंडिकायाम्) । ‘मध्यं तत्प्रति पशुम्’ इत्यर्थवादः स्पष्टः । तत्रापि विशेषमाह- अथ ये वीर्यवत्तमाः पशवस्तान्दक्षिणत इति । पुरुष-व्याघ्र-सिंहादिलक्षणेषु पशुष्वतिशयेन वीर्यवत्त्वं प्रसिद्धम् । दक्षिणं तदर्धमित्यादि स्पष्टम् ॥ १९ ॥

Eggeling
  1. The metres which are longest, and the animals which are biggest, he puts in the middle: he thus makes the animal biggest towards the middle; whence the animal is biggest towards the middle. And the animals which are the strongest he puts on the right side: he thus makes the right side of an animal the stronger; whence the right side of an animal is the stronger.

२०

विश्वास-प्रस्तुतिः

पूर्व्वार्धं᳘ च जघनार्धं चा᳘णिष्ठौ करोति॥
यद᳘हामूश्च᳘तस्रस्ते᳘नैना अ᳘णिष्ठा ऽअ᳘थ य᳘दिह ह्र᳘सिष्ठान्पशू᳘नुपद᳘धाति ते᳘नो ऽएता ऽअ᳘णिष्ठाः पूर्व्वार्धं᳘ च त᳘ज्जघनार्धं᳘ च पशोर᳘णिष्ठौ करोति त᳘स्मात्पूर्व्वार्ध᳘श्च जघनार्ध᳘श्च पशोर᳘णिष्ठौ त᳘स्मात्पूर्व्वार्धे᳘न च जघनार्धे᳘न च पशुरु᳘च्च ति᳘ष्ठति सं᳘ च व्विशत्य᳘थ लोकम्पृणे ऽउ᳘पदधात्यस्या᳘ᳫँ᳘ स्रक्त्यां त᳘योरुप᳘रि ब᳘न्धुः पु᳘रीषं नि᳘वपति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - श्रीधरादि

पूर्व्वार्धं᳘ च जघनार्धं चा᳘णिष्ठौ करोति॥
यद᳘हामूश्च᳘तस्रस्ते᳘नैना अ᳘णिष्ठा ऽअ᳘थ य᳘दिह ह्र᳘सिष्ठान्पशू᳘नुपद᳘धाति ते᳘नो ऽएता ऽअ᳘णिष्ठाः पूर्व्वार्धं᳘ च त᳘ज्जघनार्धं᳘ च पशोर᳘णिष्ठौ करोति त᳘स्मात्पूर्व्वार्ध᳘श्च जघनार्ध᳘श्च पशोर᳘णिष्ठौ त᳘स्मात्पूर्व्वार्धे᳘न च जघनार्धे᳘न च पशुरु᳘च्च ति᳘ष्ठति सं᳘ च व्विशत्य᳘थ लोकम्पृणे ऽउ᳘पदधात्यस्या᳘ᳫँ᳘ स्रक्त्यां त᳘योरुप᳘रि ब᳘न्धुः पु᳘रीषं नि᳘वपति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - Weber

पूर्वार्धं᳘ च जघनार्धं चा᳘णिष्ठौ करोति॥
यद᳘हामूश्च᳘तस्रस्ते᳘नैना अ᳘णिष्ठा अ᳘थ य᳘दिह ह्र᳘सिष्ठान्पशू᳘नुपद᳘धाति ते᳘नो एता अ᳘णिष्ठाः पूर्वार्धं᳘ च त᳘ज्जघनार्धं᳘ च पशोर᳘णिष्ठौ करोति त᳘स्मात्पूर्वार्ध᳘श्च जघनार्ध᳘श्च पशोर᳘णिष्ठौ त᳘स्मात्पूर्वार्धे᳘न च जघनार्धे᳘न च पशुरु᳘च्च ति᳘ष्ठति सं᳘ च विशत्य᳘थ लोकम्पृणे उ᳘पदधात्यस्या᳘ᳫं᳘ स्रक्त्यां त᳘योरुप᳘रि ब᳘न्धुः पु᳘रीषं नि᳘वपति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - विस्वरम्

पूर्वार्धं च जघनार्धं चाणिष्ठौ करोति । यदहामूश्चतस्रः- तेनैना अणिष्ठाः । अथ यदिह ह्नसिष्ठान्पशूनुपदधाति- तेनो एता अणिष्ठाः । पूर्वार्धं च तज्जघनार्धं च पशोरणिष्ठौ करोति । तस्यात्पूर्वार्धेन च जघनार्धेन च पशुरुच्च तिष्ठति, सं च विशति । अथ लोकम्पृणे ऽउपदधाति- अस्यां स्रक्त्याम् । तयोरुपरि बन्धुः । पुरीषं निवपति । तस्योपरि बन्धुः ॥ २० ॥

इत्याहवनीयचित्यायां पञ्चचितिकायां द्वितीया चितिः ।

सायणः

अथ शिरःपुच्छयोरणुतरत्वं विदधाति- पूर्वार्द्धं चेति । ननु पूर्वार्द्ध उपधेयानां ये मन्त्रास्तत्र प्रजापतिरभिधीयते, तत्कथं तदणुतरत्वमित्याशङ्क्येष्टकासङ्ख्याणुत्वेनेत्याह- यदहामूश्चतस्र इति । जघनार्धस्याणिष्ठत्वं ह्नस्वपशूपधानद्वारेणेति दर्शयति- अथ यदिह ह्नसिष्ठान्पशूनिति । ‘इह’ जघनार्द्धे ‘ह्नसिष्ठान्’ अतिशयेन ह्नस्वा अल्पशरीराः, त्र्यव्या दिषु तथा दर्शनात् । “सर्वतः पशूनुपदधाति”- इत्यभिधानम् । “स एष पशुर्यदग्निः” (श. प. ८ । २ । ४ । १७) इत्युक्तत्वात् । उपक्रान्तः प्रजापतिरिति चयनाग्निस्तदङ्गादुद्गताः पशव इष्टका अतो ऽपि पशूनामुपधानमित्यभिप्रेतम् । तस्मात्पूर्वार्द्धेन च जघनार्द्धेन च पशुरुच्च तिष्ठति सं च विशतीति । ‘तस्मात्’ पूर्वार्द्धभूतस्य शिरसो ऽणिष्ठत्वात्, ‘उत्तिष्ठति’ इति ऊर्ध्वकर्मत्वात् परस्मैपदम्, संवेशापेक्षया ‘च’ शब्दः, तस्माज्जघनार्द्धस्याणुत्वात् ‘संविशति च’ उत्थानमपेक्ष्य ‘च’ शब्दः । अत्र कात्यायनः- “वयस्याः पञ्च पञ्चानूकान्तेषु मूर्द्धा वय इति प्रतिमन्त्रम्, चतस्रः पुरस्तात्, दक्षिणत उत्तरतः पश्चात्”- इति (का. श्रौ. सू. १७ । १८७-१८९) । अथ लोकंपृणलिङ्गकमन्त्रोपधेयेष्टके ‘लोकंपृणे’ उपदध्यात् । स्थानमाह- अस्यां स्रक्त्यामिति । ‘अस्याम्’ दक्षिणस्यामित्यर्थः । ‘स्रक्तिः’ कोणप्रदेशः । अत्र कात्यायनः- “दक्षिणाश्रोणेरधि लोकंपृणाः पूर्ववद्”- इति (का. श्रौ. सू. १७ । १९०) । अनयोरपेक्षितं ब्राह्मणशेषमुत्तरत्र वक्ष्यमाणमतिदिशति- तयोरुपरि बन्धुरिति । ‘उपरि’ सप्तमाध्यायस्य द्वितीयब्राह्मणादौ ‘तयोः’ लोकंपृणयोः ‘बन्धुः’ अर्थवादः “असौ वा आदित्यो लोकंपृणैष हीमाल्ँ लोकान्पूरयत्यमुमेवैतदादित्यमुपदधाति”- (श. प. ८ । ७ । २ । १) इत्यादिनोक्त इत्यर्थः । पुरीषनिवापार्थवादमप्युत्तरत्र वक्ष्यमाणमत्रातिदिशति- पुरीषं निवपति-तस्योपरि बन्धुरिति । ‘उपरि’ काण्डान्ते" अन्तरिक्षमेव द्वितीया चितिर्वयांसि पुरीषम्"- (श. प. ८ । ७ । ४ । १३) इति । यद्वा ‘उपरि’ स्तोमभागाभिधानप्रस्तावे “अन्नं वै पुरीषम्”- इत्यादि वक्ष्यत इत्यर्थः ॥ २० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे द्वितीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ (८-२-४) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये ऽष्टमे काण्डे द्वितीयो ऽध्यायः समाप्तः ॥ (८ । २) ॥

Eggeling
  1. The fore and hind parts he makes smallest; for inasmuch as those (bricks in front) are only four in number 3, thereby they are the smallest; and inasmuch as here (at the back) he puts the smallest animals, thereby these are the smallest: he thus makes the fore and hind parts of an animal the smallest, whence the fore and hind parts of an animal

are the smallest; and hence the animal rises and sits down by its fore and hind parts. He then lays down two Lokampr̥ṇā (bricks) in that corner 4: the significance of them (will be explained) further on 5. He throws loose earth on the layer: the significance of this (will be explained) further on 6.


  1. 37:1 Mahīdhara, in accordance with the explanation added by the Brāhmaṇa to this and the corresponding formulas in the succeeding paragraphs, takes vayas’ as a defective instrumental (vayasā). It is, however, very doubtful whether such an interpretation of the formula was intended by the author of the Brāhmaṇa. ↩︎

  2. विरा᳘ढ्ढ A. विराड्व B. ↩︎

  3. 40:1 See p. 35, note 2. ↩︎

  4. 41:1 Whilst, in laying down the Lokampr̥ṇās of the first layer, he started from the right shoulder (or south-east corner) of the altar (see p. 22, note 1), in this layer he begins from the right hip (or south west-corner), filling up the available spaces, in two turns, in sunwise fashion. ↩︎

  5. 41:2 See VII, 7, 2, 4 seq. ↩︎

  6. 41:3 See VIII, 7, 3, 1 seq. ↩︎