०१

विश्वास-प्रस्तुतिः

अ᳘थ प्राणभृ᳘त ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना व्वायु᳘मेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - श्रीधरादि

अ᳘थ प्राणभृ᳘त ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना व्वायु᳘मेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थ प्राणभृ᳘त उ᳘पदधाति॥
एतद्वै᳘ देवा᳘ अब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना वायु᳘मेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथ पञ्चप्राणभृदिष्टकोपधानम् ।

अथ प्राणभृत उपदधाति । एतद्वै देवा अब्रुवन् । चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । ते चेतयमाना वायुमेव चितिमपश्यन् । तामस्मिन्नदधुः । तथैवास्मिन्नयमेतद्दधाति ॥ १ ॥

सायणः

प्राणभृत्संज्ञकानामिष्टकानामुपधानं विधाय स्तौति- अथ प्राणभृत इति 1 । ‘अथ’ वैश्वदेवीनामनन्तरम् । ‘चेतयध्वम्’ इत्यादिभागः स्पष्टः । ‘चेतयमानास्ते वायुमेव चितिमपश्यन्’ ‘ताम्’ वायुरूपां चितिम् ‘अस्मिन्’ द्वितीयचितिप्रदेशे ‘अदधुः’ स्थापितवन्तः । ‘तथैव’ इत्यादि पूर्ववत् ॥ १ ॥

Eggeling
  1. He then lays down the Prāṇabhr̥t (bricks). For at that time the gods said, ‘Meditate ye!’ whereby, doubtless, they meant to say, ‘Seek ye a layer!’ Whilst meditating, they saw even that layer, the wind: they put it into that (fire-altar), and in like manner does he (the priest) now put it therein.

०२

विश्वास-प्रस्तुतिः

प्राणभृ᳘त ऽउ᳘पदधाति॥
प्राणो वै᳘ व्वायु᳘र्व्वायु᳘मे᳘वास्मिन्नेत᳘द्दधाति रेतःसि᳘चोर्व्वे᳘लयेमे वै᳘ रेतःसि᳘चावनयो᳘स्त᳘द्वायुं᳘ दधाति त᳘स्मादन᳘योर्व्वायुः᳘ सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्त᳘द्वायुं᳘ दधाति त᳘स्मात्सर्व्व᳘तो व्वायुः᳘ सर्व्व᳘तः समी᳘चीः सर्व्व᳘तस्त᳘त्सम्य᳘ञ्चं व्वायुं᳘ दधाति त᳘स्मात्सर्व्व᳘तः सम्य᳘ङ्भूत्वा स᳘र्व्वाभ्यो दिग्भ्यो᳘ व्वाति दि᳘श्या ऽअनू᳘पदधाति दिक्षु त᳘द्वायुं᳘ दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु᳘ व्वायुः[[!!]]॥

मूलम् - श्रीधरादि

प्राणभृ᳘त ऽउ᳘पदधाति॥
प्राणो वै᳘ व्वायु᳘र्व्वायु᳘मे᳘वास्मिन्नेत᳘द्दधाति रेतःसि᳘चोर्व्वे᳘लयेमे वै᳘ रेतःसि᳘चावनयो᳘स्त᳘द्वायुं᳘ दधाति त᳘स्मादन᳘योर्व्वायुः᳘ सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्त᳘द्वायुं᳘ दधाति त᳘स्मात्सर्व्व᳘तो व्वायुः᳘ सर्व्व᳘तः समी᳘चीः सर्व्व᳘तस्त᳘त्सम्य᳘ञ्चं व्वायुं᳘ दधाति त᳘स्मात्सर्व्व᳘तः सम्य᳘ङ्भूत्वा स᳘र्व्वाभ्यो दिग्भ्यो᳘ व्वाति दि᳘श्या ऽअनू᳘पदधाति दिक्षु त᳘द्वायुं᳘ दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु᳘ व्वायुः[[!!]]॥

मूलम् - Weber

प्राणभृ᳘त उ᳘पदधाति॥
प्राणो वै᳘ वायु᳘र्वायु᳘मेॗवास्मिन्नेत᳘द्दधाति रेतःसि᳘चोर्वे᳘लयेमे वै᳘ रेतःसि᳘चावनयो᳘स्त᳘द्वायुं᳘ दधाति त᳘स्मादन᳘योर्वायुः᳘ सर्वत उ᳘पदधाति सर्व᳘तस्त᳘द्वायुं᳘ दधाति त᳘स्मात्सर्व᳘तो वायुः᳘ सर्व᳘तः समी᳘चीः सर्व᳘तस्त᳘त्सम्य᳘ञ्चं वायुं᳘ दधाति त᳘स्मात्सर्व᳘तः सम्य᳘ङ्भूत्वा स᳘र्वाभ्यो दिग्भ्यो᳘ वाति दि᳘श्या अनू᳘पदधाति दिक्षु त᳘द्वायुं᳘ दधाति त᳘स्मात्स᳘र्वासु दिक्षु᳘ वायुः᳟॥

मूलम् - विस्वरम्

प्राणभृत उपदधाति । प्राणो वै वायुः । वायुमेवास्मिन्नेतद्दधाति । रेतःसिचोर्वेलया । इमे वै रेतःसिचौ । अनयोस्तद्वायुं दधाति । तस्मादनयोर्वायुः । सर्वत उपदधाति । सर्वतस्तद्वायुं दधाति । तस्मात्सर्वतो वायुः । सर्वतः समीचीः । सर्वतस्तत्सम्यञ्चं वायुं दधाति । तस्मात्सर्वतः सम्यङ् भूत्वा सर्वाभ्यो दिग्भ्यो वाति । दिश्या अनूपदधाति । दिक्षु तद्वायुं दधाति । तस्मात् सर्वासु दिक्षु वायुः ॥ २ ॥

सायणः

पुनः स्तोतुमनुवदति- प्राणभृत उपदधातीति । प्राणो वै वायुरिति । वैशब्दो “वायुः प्राणो भूत्वा नासिके प्राविशत्” इत्यादिश्रुत्यन्तराम्नातवायुप्राणैकत्वप्रसिद्धिद्योतनार्थः । तासां स्थानमाह- रेतःसिचोर्वेलयेति । तस्मात्क्षित्यन्तरिक्षसंस्तुतरेतःसिचोर्निकटे प्राणभृतामुपधानात् रेतःसिग्रूपयोः ‘अनयोः’ क्षित्यन्तरिक्षयोर्मध्ये ‘वायुः’ सञ्चरतीति शेषः । स्पष्टः सर्वतउपधानार्थवादः । सर्वतः समीचीरिति । प्रागादिसर्वदिक्षु तिर्यक्त्वाभावेनार्जवेन यथा वर्त्तन्ते तथोपदध्यादित्यर्थः । ‘तत्’ तेन तथोपधानेन ‘वायुम्’ अपि ‘सम्यञ्चम्’ अकुटिलं स्थापितवान् भवति । ‘तस्मात् सर्वतः’ इत्यादिः स्पष्टः ।

दिश्या अनूपदधातीति । दिश्यानन्तर्यार्थवादो वैश्वदेवीष्टकावाक्यवद्व्याख्येयः ॥ २ ॥

Eggeling
  1. He lays down the Prāṇabhr̥ts,–wind, doubtless, is breath: it is wind (air) he thus bestows Upon him (Agni). On the range of the Retaḥsic (they are placed); for the Retaḥsic are these two (worlds): it is within these two (worlds) that he thus places the wind; whence there is wind within these two (worlds).

He places them on every side: he thus places wind on all sides, whence the wind is everywhere. [He places them so as] on every side to run in the same direction 2: he thus makes the wind everywhere (to blow) in the same direction, whence, having become united, it blows from all quarters in the same direction. He lays them down alongside of the regional (bricks) 3: he thereby places the wind in the regions, whence there is wind in all the regions.

०३

विश्वास-प्रस्तुतिः

(र्य᳘) य᳘द्वेव᳘ प्राणभृ᳘त ऽउपद᳘धाति॥
(त्या᳘) आ᳘स्वे᳘वैत᳘त्प्रजा᳘सु प्राणा᳘न्दधाति ता ऽअ᳘नन्तर्हिता व्वैश्वदेवी᳘भ्य ऽउ᳘पदधात्य᳘नन्तर्हितांस्त᳘त्प्रजा᳘भ्यः प्राणा᳘न्दधाति प्राणं᳘ मे पाह्यपानं᳘ मे᳘ पाहि व्व्यानं᳘ मे पाहि च᳘क्षुर्म ऽउर्व्व्या व्वि᳘भाहि श्रो᳘त्रं मे श्लोकये᳘त्येता᳘ने᳘वास्वेत᳘त्कॢप्ता᳘न्प्राणा᳘न्दधाति॥

मूलम् - श्रीधरादि

(र्य᳘) य᳘द्वेव᳘ प्राणभृ᳘त ऽउपद᳘धाति॥
(त्या᳘) आ᳘स्वे᳘वैत᳘त्प्रजा᳘सु प्राणा᳘न्दधाति ता ऽअ᳘नन्तर्हिता व्वैश्वदेवी᳘भ्य ऽउ᳘पदधात्य᳘नन्तर्हितांस्त᳘त्प्रजा᳘भ्यः प्राणा᳘न्दधाति प्राणं᳘ मे पाह्यपानं᳘ मे᳘ पाहि व्व्यानं᳘ मे पाहि च᳘क्षुर्म ऽउर्व्व्या व्वि᳘भाहि श्रो᳘त्रं मे श्लोकये᳘त्येता᳘ने᳘वास्वेत᳘त्कॢप्ता᳘न्प्राणा᳘न्दधाति॥

मूलम् - Weber

य᳘द्वेव᳘ प्राणभृ᳘त उपद᳘धाति॥
आॗस्वेॗवैत᳘त्प्रजा᳘सु प्राणा᳘न्दधाति ता अ᳘नन्तर्हिता वैश्वदेवी᳘भ्य उ᳘पदधात्य᳘नन्तर्हितांस्त᳘त्प्रजा᳘भ्यः प्राणा᳘न्दधाति प्राण᳘म् मे पाह्यपान᳘म् मे᳘ पाहि व्यान᳘म् मे पाहि च᳘क्षुर्म उर्व्या बि᳘भाहि श्रो᳘त्रम् मे श्लोकये᳘त्येता᳘नेॗवास्वेत᳘त्कॢप्ता᳘न्प्राणा᳘न्दधाति॥

मूलम् - विस्वरम्

यद्वेव प्राणभृत उपदधाति । आस्वेवैतत्प्रजासु प्राणान्दधाति । ता अनन्तर्हिता वैश्वदेवेभ्य उपदधाति । अनन्तर्हितांस्तत्प्रजाभ्यः प्राणान्दधाति । "(१) प्राणं मे पाहि, (२) अपानं मे पाहि, (३) व्यानं मे पाहि, (४) चक्षुर्म ऽउर्व्या विभाहि, (५) श्रोत्रं मे श्लोकय”- इति । एतानेवास्वेतत्क्लृप्तान्प्राणान्दधाति ॥ ३ ॥

सायणः

प्रकारान्तरेण प्राणभृतः प्रशंसति- यद्वेव प्राणभृत इति । ‘आस्वेव प्रजासु’ वैश्वदेवीनां प्रजारूपत्वेन स्तुतत्वात् तासामनन्तरं प्राणभृतामुपधानेन प्रजासु प्राणान् स्थापितवान् भवति । ‘ताः’ प्राणभृतो ‘वैश्वदेवीभ्यः’ ‘अनन्तर्हिताः’ इष्टकान्तरेणाव्यवहिता यथा स्युस्तथा उपदध्यात् । तेन प्राणानपि ताभ्यः प्रजाभ्यः ‘अनन्तर्हितान्’ कृतवान्भवति । तासामुपधानमन्त्रान् विधाय संगृह्य तात्पर्यमाह- प्राणं मे इत्यादिना । “प्राणं मे पाहि”- इति प्रथमो मन्त्रः । “अपानं मे पाहि”- इति द्वितीयः । “व्यानं मे” इति तृतीयः । “चक्षुर्म उर्व्या”- इति चतुर्थः । हे चतुर्थेकष्टके ! ‘मे’ मम ‘चक्षुः’ ‘उर्व्या’ अविकृतया दृष्ट्या ‘विभाहि’ विशेषेण दीपय । हे पञ्चमेष्टके ! ‘मे’ मम ‘श्रोत्रं श्लोकय’ श्लाघनं कुरु । अत्र यद्यपि प्रथमेष्टकामन्त्रे एव ‘प्राण मे’ इति प्राणलिङ्गमुक्तं तथापि छत्रिन्यायेन लिङ्गमात्रमपेक्ष्य सर्वा अपि प्राणभृत इत्युच्यन्ते । एवं सर्वत्र यथालाभं द्रष्टव्यम् ॥ ३ ॥

Eggeling
  1. And, again, as to why he lays down the Prāṇabhr̥ts;–it is that he thereby bestows vital airs on these creatures. He places them so as not to be separated from the Vaiśvadevīs: he thereby bestows vital airs not separated from the creatures. [He lays them down with, Vāj. S. XIV, 8], ‘Preserve mine up-breathing! Preserve my down-breathing! Preserve my through-breathing! Make mine eye shine far and wide! Make mine ear resound!’ He thereby bestows on them properly constituted vital airs.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाप᳘स्या ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना व्वृ᳘ष्टिमेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाप᳘स्या ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना व्वृ᳘ष्टिमेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थापॗस्या उ᳘पदधाति॥
एतद्वै᳘ देवा᳘ अब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना वृ᳘ष्टिमेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथापस्या उपदधाति । एतद्वै देवा अब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । ते चेतयमाना वृष्टिमेव चितिमपश्यन् । तामस्मिन्नदधुः । तथैवास्मिन्नयमेतद्दधाति ॥ ४ ॥

सायणः

अपस्या विधाय प्रशंसति 4- अथापस्या इति । अब्लिङ्गैर्मन्त्रैरुपधेयत्वाद् ‘अपस्याः’, यद्वा ‘वृष्टिमेव चितिमपश्यन्’ इत्युक्तत्वादभेदादाप एवापस्याः । ‘एतद्वै देवा अब्रुवंश्चेतयध्वमिति’ इत्यादिः सर्वो ऽपि पूर्वोक्तेनैवोक्तप्रयोजनो व्याख्यातप्रायः । आपो वै वृष्टिरिति । वृष्टिकर्मत्वादाप एव वृष्टिः । वायव्या अनूपदधातीति । प्राणभृतामन्वित्यर्थः ॥ ४ ॥ ५ ॥

Eggeling
  1. He then lays down the Apasyā (bricks). For the gods, at that time, spake, ‘Meditate ye!’ whereby, doubtless, they meant to say, ‘Seek ye a layer!’ Whilst meditating, they saw even that layer, rain:

they put it into that (fire-altar) and in like manner does he now put it therein.

०५

विश्वास-प्रस्तुतिः

(त्य) अप᳘स्या ऽउ᳘पदधाति॥
(त्या᳘) आ᳘पो वै व्वृ᳘ष्टिर्वृ᳘ष्टिमे᳘वास्मिन्नेत᳘द्दधाति रेतःसि᳘चोर्व्वे᳘लयेमे वै᳘ रेतःसि᳘चावन᳘योस्तद्वृ᳘ष्टिं दधाति त᳘स्मादन᳘योर्व्वर्षति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्तद्वृ᳘ष्टिं दधाति त᳘स्मात्सर्व्व᳘तो व्वर्षति सर्व्व᳘तः समी᳘चीः सर्व्व᳘तस्त᳘त्समी᳘चीं व्वृ᳘ष्टिं दधाति त᳘स्मात्सर्व्व᳘तः सम्य᳘ङ्भूत्वा स᳘र्व्वाभ्यो दिग्भ्यो᳘ व्वर्षति व्वाय᳘व्या ऽअनू᳘पदधाति व्वायौ तद्वृ᳘ष्टिं दधाति त᳘स्माद्यां दि᳘शं व्वायुरे᳘ति तां[[!!]] दि᳘शं व्वृ᳘ष्टिर᳘न्वेति॥

मूलम् - श्रीधरादि

(त्य) अप᳘स्या ऽउ᳘पदधाति॥
(त्या᳘) आ᳘पो वै व्वृ᳘ष्टिर्वृ᳘ष्टिमे᳘वास्मिन्नेत᳘द्दधाति रेतःसि᳘चोर्व्वे᳘लयेमे वै᳘ रेतःसि᳘चावन᳘योस्तद्वृ᳘ष्टिं दधाति त᳘स्मादन᳘योर्व्वर्षति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्तद्वृ᳘ष्टिं दधाति त᳘स्मात्सर्व्व᳘तो व्वर्षति सर्व्व᳘तः समी᳘चीः सर्व्व᳘तस्त᳘त्समी᳘चीं व्वृ᳘ष्टिं दधाति त᳘स्मात्सर्व्व᳘तः सम्य᳘ङ्भूत्वा स᳘र्व्वाभ्यो दिग्भ्यो᳘ व्वर्षति व्वाय᳘व्या ऽअनू᳘पदधाति व्वायौ तद्वृ᳘ष्टिं दधाति त᳘स्माद्यां दि᳘शं व्वायुरे᳘ति तां[[!!]] दि᳘शं व्वृ᳘ष्टिर᳘न्वेति॥

मूलम् - Weber

अपॗस्या उ᳘पदधाति॥
आ᳘पो वै वृ᳘ष्टिर्वृ᳘ष्टिमेॗवास्मिन्नेत᳘द्दधाति रेतःसि᳘चोर्वे᳘लयेमे वै᳘ रेतःसि᳘चावन᳘योस्तद्वृ᳘ष्टिं दधाति त᳘स्मादन᳘योर्वर्षति सर्व᳘त उ᳘पदधाति सर्व᳘तस्तद्वृ᳘ष्टिं दधाति त᳘स्मात्सर्व᳘तो वर्षति सर्व᳘तः समी᳘चीः सर्व᳘तस्त᳘मी᳘चीं वृ᳘ष्टिं दधाति त᳘स्मात्सर्व᳘तः सम्य᳘ङ्भूत्वा स᳘र्वाभ्यो दिग्भ्यो᳘ वर्षति वायॗव्या अनू᳘पदधाति वायौ तद्वृ᳘ष्टिं दधाति त᳘स्माद्यां दि᳘शं वायुरे᳘ति तां᳘ दिशं वृ᳘ष्टिर᳘न्वेति॥

मूलम् - विस्वरम्

अपस्या उपदधाति । आपो वै वृष्टिः । दृष्टिमेवास्मिन्नेतद्दधाति । रेतःसिचोर्वेलया । इमे वै रेतःसिचौ । अनयोस्तद्वृष्टिं दधाति । तस्मादनयोर्वर्षति । सर्वत उपदधाति । सर्वतस्तद्वृष्टिं दधाति । तस्मात्सर्वतो वर्षति । सर्वतः समीचीः । सर्वतस्तत्समीचीं वृष्टिं दधाति । तस्मात्सर्वतः सम्यङ् भूत्वा सर्वाभ्यो दिग्भ्यो वर्षति । वायव्या अनूपदधाति । वायौ तद्वृष्टिं दधाति । तस्माद्यां दिशं वायुरेति- तां दिशं वृष्टिरन्वेति ॥ ५ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. He put on the Apasyās; for rain is water (ap); it is rain he thereby puts into it (the altar; or into him, Agni). On the range of the Retaḥsic (he places them), for, the Retaḥsic being these two (worlds), it is on these two (worlds) that he thereby bestows rain, whence it rains therein. He places them on every side: he thus puts rain everywhere, whence it rains everywhere. [He places them] so as everywhere to run in the same direction 5: he thereby bestows rain (falling) everywhere in the same direction, whence the rain falls everywhere, and from all quarters, in the same direction. He places them alongside of those referring to the wind 6: he thereby puts rain into the wind, whence rain follows to whatever quarter the wind goes.

०६

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वाप᳘स्या ऽउपद᳘धाति॥
(त्ये᳘) ए᳘ष्वे᳘वैत᳘त्प्राणे᳘ष्वपो᳘ दधाति ता ऽअ᳘नन्तर्हिताः प्राणभृ᳘द्भ्य ऽउ᳘पदधात्य᳘नन्तर्हितास्त᳘त्प्राणे᳘भ्यो ऽपो᳘ दधात्य᳘थो ऽअ᳘न्नं वा ऽआपो᳘ ऽनन्तर्हितं त᳘त्प्राणेभ्यो᳘ ऽन्नं दधात्यपः᳘ पिन्वौ᳘षधीर्जिन्व द्विपा᳘दव च᳘तुष्पात्पाहि दिवो व्वृ᳘ष्टिमे᳘रये᳘त्येता᳘ ऽए᳘वैष्वेत᳘त्कॢप्ता᳘ ऽअपो᳘ दधाति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वाप᳘स्या ऽउपद᳘धाति॥
(त्ये᳘) ए᳘ष्वे᳘वैत᳘त्प्राणे᳘ष्वपो᳘ दधाति ता ऽअ᳘नन्तर्हिताः प्राणभृ᳘द्भ्य ऽउ᳘पदधात्य᳘नन्तर्हितास्त᳘त्प्राणे᳘भ्यो ऽपो᳘ दधात्य᳘थो ऽअ᳘न्नं वा ऽआपो᳘ ऽनन्तर्हितं त᳘त्प्राणेभ्यो᳘ ऽन्नं दधात्यपः᳘ पिन्वौ᳘षधीर्जिन्व द्विपा᳘दव च᳘तुष्पात्पाहि दिवो व्वृ᳘ष्टिमे᳘रये᳘त्येता᳘ ऽए᳘वैष्वेत᳘त्कॢप्ता᳘ ऽअपो᳘ दधाति॥

मूलम् - Weber

य᳘द्वेॗवापॗस्या उपद᳘धाति॥
एॗष्वेॗवैत᳘त्प्राणे᳘ष्वपो᳘ दधाति ता अ᳘न्तर्हिताः प्राणभृ᳘द्भ्य उ᳘पदधात्य᳘नन्तर्हितास्त᳘त्प्राणे᳘भ्यो ऽपो᳘ दधात्य᳘थो अ᳘न्नं वा आपो᳘ ऽनन्तर्हितं त᳘त्प्राणेभ्यो᳘ ऽन्नं दधात्यपः᳘ पिन्वौ᳘षधीर्जिन्व द्विपा᳘दव च᳘तुष्पात्पाहि दिवो वृ᳘ष्टिमे᳘रये᳘त्येता᳘ एॗवैष्वेत᳘त्कॢप्ता᳘ अपो᳘ दधाति॥

मूलम् - विस्वरम्

यद्वेवापस्या उपदधाति । एष्वेवैतत्प्राणेष्वपो दधाति । ता अनन्तर्हिताः प्राणभृद्भ्य उपदधाति । अनन्तर्हितास्तत्प्राणेभ्यो ऽपो दधाति । अथो ऽअन्नं वा ऽआपः । अनन्तर्हितं तत्प्राणेभ्यो ऽन्नं दधाति । (१) अपः पिन्व, (२) ओषधीर्जिन्व, (३) द्विपादव, (४) चतुष्पात्पाहि, (५) दिवो वृष्टिमेरय"- (वा. सं. १४ । ८) इति । एता एवैष्वेतत्क्लृप्ता अपो दधाति ॥ ६ ॥

सायणः

प्रकारान्तरेण स्तौति- यद्वेवेति । एष्वेवैतदिति । पूर्वोपस्थापितेषु ‘प्राणेष्वेव’ ‘अपो दधाति’ “आपोमयः प्राणः”- इति श्रुतेः तासामभावे प्राणाः सीदन्तीत्यतः प्राणेष्वपां निधानं युक्तम् । आसां प्राणभृद्भ्यो व्यवधानाभावं विधत्ते- ता अनन्तर्हिताः प्राणभृद्भ्य उपदधातीति । तेन प्राणानामपां चाव्यवधानं कृतवान् भवति । अनन्तर्हितत्वस्य परंपरायितं प्रयोजनं दर्शयति- अथो इति । ‘अथो’ अपि च ‘अन्नं वा’ एतत् अन्वयव्यतिरेकानुविधायित्वादन्नस्य । ‘तत्’ तेन ‘अन्नं प्राणेभ्यः’ ‘अनन्तर्हितम्’ स्थापितवान् भवति । अपस्यानां मन्त्रान् विधाय, सङ्गृह्य तात्पर्यमाह- अपः पिन्वेति । हे इष्टके ! त्वम् ‘अपः पिन्व’ सेचय । तेन च ‘ओषधीः’ व्रीहियवाद्याः ‘जिन्व’ प्रीणय । तदनन्तरं हे इष्टके ! ‘द्विपात्’ पादयोपेतं यन्मनुष्यादिकं तत् ‘अव’ रक्ष तथा ‘चतुष्पात्’ पश्वादिकं ‘पाहि’ रक्ष । ‘दिवः’ सकाशात् ‘वृष्टिमेरय’ आ सर्वतः प्रेरय इत्येतदिष्टकोपधानेन ‘एता एव अपः क्लृप्ताः’ स्वकार्यसमर्थाः ‘एषु’ एव प्राणेषु ‘दधाति’ स्थापितवान् भवति ॥ ६ ॥

Eggeling
  1. And, again, as to why he lays down Apasyās,–he thereby puts water into the vital airs. He places them so as not to be separated from the Prāṇabhr̥ts: he thus places the water so as not to be separate from the vital airs. Moreover, water is food: he thus introduces food not separated from (the channels of) the vital airs. [He lays them down with, Vāj. S. XIV, 8], ‘Make the waters swell! Quicken the plants! Bless thou the two-footed! Protect the four-footed! Draw thou rain from the sky!’ He thereby puts water that is made fit, into those (vital airs).

०७

विश्वास-प्रस्तुतिः

(त्य) अ᳘थ च्छन्द᳘स्या ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमानाः पशू᳘नेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(त्य) अ᳘थ च्छन्द᳘स्या ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमानाः पशू᳘नेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थ छन्दॗस्या उ᳘पदधाति॥
एतद्वै᳘ देवा᳘ अब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमानाः पशू᳘नेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथैकोनविंशतिवयस्येष्टकोपधानम् ।

अथ च्छन्दस्या उपदधाति । एतद्वै देवा अब्रुवन्- चेतयध्वमिति- चितिमिच्छतेति वाव तदब्रुवन् । ते चेतयमानाः पशूनेव चितिमपश्यन् । तामस्मिन्नदधुः । तथैवास्मिन्नयमेतद्दधाति ॥ ७ ॥

सायणः

अथ च्छन्दस्येष्टका विधाय प्रशंसति- अथ च्छन्दस्या इत्यादिना । ‘चेतयमाना देवाः पशूनेव’ चितित्वेनापश्यन् ‘ताम्’ पशुरूपां चितिम् ‘अस्मिन्’ द्वितीयचयने ‘अदधुः’ स्थापितवन्तः । अयं यजमानो ऽपि तथैवास्मिन् ‘एतत्’ इदानीं ‘दधाति’ स्थापयति ॥ ७ ॥

Eggeling
  1. He then lays down the Chandasyā 7 (bricks) for the gods, at that time, spake, ‘Meditate ye!’ whereby, doubtless, they meant to say, ‘Seek ye a layer!’ Whilst meditating, they saw even that layer, cattle (or beasts): they put it therein, and, in like manner, does he now put it therein.

०८

विश्वास-प्रस्तुतिः

छन्द᳘स्या ऽउ᳘पदधाति॥
पश᳘वो वै छ᳘न्दाᳫँ᳭सि पशू᳘ने᳘वास्मिन्नेत᳘द्दधाति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्त᳘त्पशू᳘न्दधाति त᳘स्मात्सर्व्व᳘तः पश᳘वो ऽप᳘स्या ऽअनू᳘पदधात्यप्सु त᳘त्पशून्प्र᳘तिष्ठापयति त᳘स्माद्यदा व्व᳘र्षत्य᳘थ पश᳘वः प्र᳘तितिष्ठन्ति॥

मूलम् - श्रीधरादि

छन्द᳘स्या ऽउ᳘पदधाति॥
पश᳘वो वै छ᳘न्दाᳫँ᳭सि पशू᳘ने᳘वास्मिन्नेत᳘द्दधाति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्त᳘त्पशू᳘न्दधाति त᳘स्मात्सर्व्व᳘तः पश᳘वो ऽप᳘स्या ऽअनू᳘पदधात्यप्सु त᳘त्पशून्प्र᳘तिष्ठापयति त᳘स्माद्यदा व्व᳘र्षत्य᳘थ पश᳘वः प्र᳘तितिष्ठन्ति॥

मूलम् - Weber

छन्दॗस्या उ᳘पदधाति॥
पश᳘वो वै छ᳘न्दांसि पशू᳘नेॗवास्मिन्नेत᳘द्दधाति सर्व᳘त उ᳘पदधाति सर्व᳘तस्त᳘त्पशू᳘न्दधाति त᳘स्मात्सर्व᳘तः पश᳘वो ऽपॗस्या अनू᳘पदधात्यप्सु त᳘त्पशून्प्र᳘तिष्ठापयति त᳘स्माद्यदा व᳘र्षत्य᳘थ पश᳘वः प्र᳘तितिष्ठन्ति॥

मूलम् - विस्वरम्

छन्दस्या उपदधाति । पशवो वै छन्दांसि । पशूनेवास्मिन्नेतद्दधाति । सर्वत उपदधाति । सर्वतस्तत्पशून्दधाति । तस्मात्सर्वतः पशवः । अपस्या अनूपदधाति । अप्सु तत्पशून्प्रतिष्ठापयति । तस्माद्यदा वर्षति- अथ पशवः प्रतितिष्ठन्ति ॥ ८ ॥

सायणः

छन्दःशब्देन पशवो विवक्षिता इति दर्शयति- पशवो वै छन्दांसीति । सर्वत उपदधातीत्यादि पूर्ववत् । एतासामपस्यासान्निध्यं विधाय प्रशंसति- अपस्या अन्विति । । ‘तत्’ तेन अपस्यानन्तर्येण ‘अप्सु’ उपजीवनीयासु ‘पशून् प्रतिष्ठापयति’ स्थिरीकरोति । इदानीन्तनी या वृष्टिसमनन्तरभाविनी पशूनां प्रतिष्ठा सा ऽप्यपस्याछन्दस्यानां मेलनप्रयुक्तेति दर्शयति- तस्माद्यदा वर्षत्यथ पशवः प्रतितिष्ठन्तीति ॥ ८ ॥

Eggeling
  1. He lays down the Chandasyās; for the metres (chandas) are cattle: it is cattle he thus puts into it (or, bestows on him, Agni). On every side (he places them): he thereby places cattle (or beasts) everywhere, whence there are cattle everywhere. He places them alongside of the Apasyās: he thus establishes the cattle on (or, near) water, whence cattle thrive when it rains.

०९

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ च्छन्द᳘स्या ऽउपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तात्पश᳘व ऽउ᳘दक्रामंश्छ᳘न्दाᳫँ᳭सि भूत्वा ता᳘न्गायत्री छ᳘न्दो भूत्वा व्व᳘यसा ऽऽप्नोत्तद्य᳘द्गायत्र्या᳘ ऽऽप्नोदेतद्धि छ᳘न्द ऽआ᳘शिष्ठᳫँ᳭ सा त᳘द्भूत्वा᳘ प्रजा᳘पतिरेता᳘न्पशून्व᳘यसा ऽऽप्नोत्॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ च्छन्द᳘स्या ऽउपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तात्पश᳘व ऽउ᳘दक्रामंश्छ᳘न्दाᳫँ᳭सि भूत्वा ता᳘न्गायत्री छ᳘न्दो भूत्वा व्व᳘यसा ऽऽप्नोत्तद्य᳘द्गायत्र्या᳘ ऽऽप्नोदेतद्धि छ᳘न्द ऽआ᳘शिष्ठᳫँ᳭ सा त᳘द्भूत्वा᳘ प्रजा᳘पतिरेता᳘न्पशून्व᳘यसा ऽऽप्नोत्॥

मूलम् - Weber

य᳘द्वेव᳘ छन्दॗस्या उपद᳘धाति॥
प्रजा᳘पतेर्वि᳘स्रस्तात्पश᳘व उ᳘दक्रामंश्छ᳘न्दांसि भूत्वा ता᳘न्गायत्री छ᳘न्दो भूत्वा व᳘यसाप्नोत्तद्य᳘द्गायत्र्या᳘प्नोदेतद्धि छ᳘न्द आ᳘शिष्ठᳫं सा त᳘द्भूत्वा᳘ प्रजा᳘पतिरेता᳘न्पशून्व᳘यसाप्नोत्॥

मूलम् - विस्वरम्

यद्वेव च्छन्दस्या उपदधाति । प्रजापतेर्विस्रस्तात्पशव उदक्रामन्- छन्दांसि भूत्वा । तान्गायत्री छन्दो भूत्वा वयसा ऽऽप्नोत् । तद्यद्गायत्र्या ऽऽप्नोत्- एतद्धि छन्द आशिष्ठम् । सा तद्भूत्वा प्रजापतिरेतान्पशून्वयसा ऽऽप्नोत् ॥ ९ ॥

सायणः

छन्दस्यानां पशुरूपत्वेन स्तुतिः कृता पुनस्तामेव पशुरूपतां ज्येष्ठां दर्शयति- यद्वेव च्छन्दस्या इति । ‘प्रजापतेर्विस्रस्तात्’ विश्लिष्टाङ्गादित्यर्थः । ‘पशवः’ वक्ष्यमाणाः अजादिलक्षणाः ‘उदक्रामन्’ । केन रूपेण ? ‘छन्दांसि भूत्वा’ वक्ष्यमाणविवलादिच्छन्दोरूपमास्थाय । ‘तान्’ उद्गतान् पशून् ‘गायत्री छन्दो भूत्वा’ ‘वयसा’ तत्तन्निर्गतपशूचितस्वशरीरपरिणामेन परिणतो भूत्वेत्यर्थः । ‘आप्नोत्’ अन्तर्गतान् पशून् स्वस्मिन् कृतवान् । गायत्र्या यदाशुतरत्वं तद्गायत्रीद्वारा प्रजापतिना शीघ्रं या सर्वपश्वाप्तिस्तन्मूलमिति दर्शयति- तद्यद्गायत्र्या ऽऽप्नोदिति । यस्माद्गायत्र्यैव सर्वान् पशूनाप्नोत्तस्मात् ‘एतच्छन्दः’ गायत्र्याख्यम् ‘आशिष्ठम्’ आशुतरम् ‘हि’ स्वयं प्रतिपादितो ऽर्थः । “पूर्वं तथा ऽऽसीदिति” श्रुतिराह- सा तद्भूत्वेति । ‘तत्’ तदा पूर्वं ‘प्रजापतिः’ ‘सा’ गायत्री ‘भूत्वा’ ‘एतान् पशून् वयसा ऽऽप्नोत्’ ॥ ९ ॥

Eggeling
  1. And, again, as to why he lays down Chandasyās. When Prajāpati was relaxed, the cattle, having become metres, went from him. Gāyatrī, having become a metre, overtook them by dint of her vigour; and as to how Gāyatrī overtook them, it is that this is the quickest (shortest) metre. And so Prajāpati, in the form of that (Gāyatrī), by dint of his vigour, overtook those cattle.

१०

विश्वास-प्रस्तुतिः

(न्मू) मूर्धा व्व᳘य ऽइ᳘ति॥
प्रजा᳘पतिर्व्वै᳘ मूर्धा स व्व᳘यो ऽभवत्प्रजा᳘पतिश्छ᳘न्द ऽइ᳘ति प्रजा᳘पतिरेव च्छ᳘न्दो ऽभवत्॥

मूलम् - श्रीधरादि

(न्मू) मूर्धा व्व᳘य ऽइ᳘ति॥
प्रजा᳘पतिर्व्वै᳘ मूर्धा स व्व᳘यो ऽभवत्प्रजा᳘पतिश्छ᳘न्द ऽइ᳘ति प्रजा᳘पतिरेव च्छ᳘न्दो ऽभवत्॥

मूलम् - Weber

मूर्धा व᳘य इ᳘ति॥
प्रजा᳘पतिर्वै᳘ मूर्धा स व᳘यो ऽभवत्प्रजा᳘पतिश्छ᳘न्द इ᳘ति प्रजा᳘पतिरेव छ᳘न्दो ऽभवत्॥

मूलम् - विस्वरम्

(१) “मूर्धा वयः”- इति । प्रजापतिर्वै मूर्धा । स वयो ऽभवत् । “प्रजापतिश्छन्दः”- इति । प्रजापतिरेव च्छन्दो ऽभवत् ॥ १० ॥

सायणः

इत्यमिष्टकानां पशुरूपतामुपपाद्य, अथ पूर्वदिश्युपधेयानां चतसृणामिष्टकानां मन्त्रान्विधाय, व्याख्यास्यन्नर्थान्निष्पन्नं गायत्रीरूपमिष्टमपि दर्शयति- मूर्द्धा वय इत्यादिना 8 । ‘प्रजापतिर्वै मूर्धा, स वयो ऽभवत्’ इति, उत्तरतत्तत्प्राप्तव्यपशूचिता वयोविशेषास्तेन तेन प्राप्तव्यास्तत्तच्छन्दोरूपाः पशवश्च वक्ष्यन्ते, अत्र तावत्तानि वयांसि तानि च्छन्दांसि सामान्येन प्रजा एवेति प्रतिपाद्यते, यथा प्रजापतिः सर्वेषां प्रधानं तथा मूर्द्धा ऽपि सर्वेषामङ्गानां प्रधानमिति प्राधान्येन विवक्षितत्वात् ‘प्रजापतिः’ एव ‘मूर्द्धा’ इत्युच्यते । एवमुत्तरवाक्येष्वपि तत्तदुपचारबीजं द्रष्टव्यम् । ‘वयो ऽभवत्’ वयस्वानभवदित्यर्थः । यद्वा ‘स’ प्रजापतिः ‘वै’ प्रसिद्धः प्रजापतिर्ननु ‘मूर्द्धा वयो ऽभवत्’ मूर्द्धरूपमत्युत्कृष्टं वयो ऽभवत् । एवमुत्तरत्र मन्त्रत्रये ऽपि योज्यम् । प्रजापतिश्छन्द इति । ‘प्रजापतिरेव’ वक्ष्यमाणं तद्विवलं छन्दो ऽभवदित्यर्थः । अथवा प्रजापतिरेव च्छन्दः प्राजापत्याख्यं छन्दो ऽभवदित्यर्थः । एवमुत्तरेष्वपि त्रिषु वाक्येषु योज्यम् ॥ १० ॥

Eggeling
  1. [He lays down four in front, with, Vāj. S. XIV, 9], ‘The head is vigour,’–Prajāpati, doubtless, is the head: it is he that became vigour;–‘Prajāpati the metre,’–Prajāpati indeed became a metre.

११

विश्वास-प्रस्तुतिः

(क्ष) क्षत्रं व्व᳘य ऽइ᳘ति॥
प्रजा᳘पतिर्वै᳘ क्षत्रᳫँ᳭ स व्व᳘यो ऽभवन्म᳘यन्दं छ᳘न्द ऽइ᳘ति यद्वा ऽअ᳘निरुक्तं तन्म᳘यन्दम᳘निरुक्तो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिरेञ्च्छ᳘न्दो ऽभवत्॥

मूलम् - श्रीधरादि

(क्ष) क्षत्रं व्व᳘य ऽइ᳘ति॥
प्रजा᳘पतिर्वै᳘ क्षत्रᳫँ᳭ स व्व᳘यो ऽभवन्म᳘यन्दं छ᳘न्द ऽइ᳘ति यद्वा ऽअ᳘निरुक्तं तन्म᳘यन्दम᳘निरुक्तो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिरेञ्च्छ᳘न्दो ऽभवत्॥

मूलम् - Weber

क्षत्रं व᳘य इ᳘ति॥
प्रजा᳘पतिर्वै᳘ क्षत्रᳫं स व᳘यो ऽभवन्म᳘यंदं छ᳘न्द इ᳘ति यद्वा अ᳘निरुक्तं तन्म᳘यंदम᳘निरुक्तो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिरेव छ᳘न्दो ऽभवत्॥

मूलम् - विस्वरम्

(२) “क्षत्रं वयः"- इति । प्रजापतिर्वै क्षत्रम् । स वयो ऽभवत् । “मयन्दं छन्दः”- इति । यद्वा ऽअनिरुक्तं तन्मयन्दम् । अनिरुक्तो वै प्रजापतिः । प्रजापतिरेव च्छन्दो ऽभवत् ॥ ११ ॥

सायणः

क्षत्रं वय इति । क्षत्रियजातितया तद्गतो बलविशेषो लक्ष्यते । “तच्छ्रेयोरूपमत्यसृजत् क्षत्रम्” इत्यादिश्रुतेः । अथवा “क्षत्रम् इति बलनाम”- (निघं.) शरीरपरिणामेन तद्रूपं प्राप्त इत्यर्थः । योजना पूर्ववत् । मयन्दं छन्द इति । “मयः इति सुखनाम”- (निघं. ३ । ५ । ७) तद्ददातीति मयन्दम् । अस्य प्रजापतिरूपत्वे बीजमाह- यद्वा अनिरुक्तं तन्मयन्दम् इति । सुखदस्वरूपस्य विशेषेणानभिधानाल्लोके ऽपि ईदृक्- सुखदमित्यविशेषितं सामान्येन मयन्दमिति व्यवहृतत्वादिदम् ‘अनिरुक्तम्’ । प्रजापतेस्तु सर्वात्मकत्वाद्विशेषेण निर्वक्तुमशक्यत्वाद् अनिरुक्तत्वम् ॥ ११ ॥

Eggeling
  1. ‘The Kshatra is vigour,’–the Kshatra, doubtless, is Prajāpati, it is he that became vigour;–’the pleasure-giving metre,’–what is undefined

that is pleasure-giving; and Prajāpati is undefined, and Prajāpati indeed became a metre.

१२

विश्वास-प्रस्तुतिः

(द्वि) व्विष्टम्भो व्व᳘य ऽइ᳘ति॥
प्रजा᳘पतिर्व्वै᳘ व्विष्टम्भः स व्व᳘यो ऽभवद᳘धिपतिश्छ᳘न्द ऽइ᳘ति प्रजा᳘पतिर्वा ऽअ᳘धिपतिः प्रजा᳘पतिरेव च्छ᳘न्दो ऽभवत्॥

मूलम् - श्रीधरादि

(द्वि) व्विष्टम्भो व्व᳘य ऽइ᳘ति॥
प्रजा᳘पतिर्व्वै᳘ व्विष्टम्भः स व्व᳘यो ऽभवद᳘धिपतिश्छ᳘न्द ऽइ᳘ति प्रजा᳘पतिर्वा ऽअ᳘धिपतिः प्रजा᳘पतिरेव च्छ᳘न्दो ऽभवत्॥

मूलम् - Weber

विष्टम्भो व᳘य इ᳘ति॥
प्रजा᳘पतिर्वै᳘ विष्टम्भः स व᳘यो ऽभवद᳘धिपतिश्छ᳘न्द इ᳘ति प्रजा᳘पतिर्वा अ᳘धिपतिः प्रजा᳘पतिरेव छ᳘न्दो ऽभवत्॥

मूलम् - विस्वरम्

(३) “विष्टम्भो वयः”- इति । प्रजापतिर्वै विष्टम्भः । स वयो ऽभवत् । अधिपतिश्छन्दः"- इति । प्रजापतिर्वा ऽअधिपतिः । प्रजापतिरेव च्छन्दो ऽभवत् ॥ १२ ॥

सायणः

विष्टम्भो वय इति । अत्र ‘प्रजापतिर्वै विष्टंभः’ इति ‘वै’-शब्देन “विष्टंभो धरुणः पृथिव्याः” इत्यादिसर्वश्रुतिगता प्रजापतेः सर्वजगदवलम्बनप्रसिद्धिर्द्योत्यते । ‘अधिपतिश्छन्द इति’ अत्र प्रजापतेः सर्वाधिपतित्वम् “सर्वस्याधिपतिः सर्वस्येशानः" इत्यादिश्रुतिप्रसिद्धमुक्तम् ॥ १२ ॥

Eggeling
  1. ‘Support is vigour,’–the support, doubtless, is Prajāpati: it is he that became vigour;–’the over-lord the metre,’–the over-lord, doubtless, is Prajāpati, and Prajāpati indeed became a metre.

१३

विश्वास-प्रस्तुतिः

(द्वि) व्विश्व᳘कर्मा व्व᳘य ऽइ᳘ति॥
प्रजा᳘परिर्वै᳘ व्विश्व᳘कर्मा स व्व᳘यो ऽभवत्परमेष्ठी छ᳘न्द ऽइत्या᳘पो वै᳘ प्रजा᳘पतिः परमेष्ठी ता हि᳘ परमे स्था᳘ने ति᳘ष्ठन्ति प्रजा᳘पतिरेव᳘ परमेष्ठी छ᳘न्दो ऽभवत्॥

मूलम् - श्रीधरादि

(द्वि) व्विश्व᳘कर्मा व्व᳘य ऽइ᳘ति॥
प्रजा᳘परिर्वै᳘ व्विश्व᳘कर्मा स व्व᳘यो ऽभवत्परमेष्ठी छ᳘न्द ऽइत्या᳘पो वै᳘ प्रजा᳘पतिः परमेष्ठी ता हि᳘ परमे स्था᳘ने ति᳘ष्ठन्ति प्रजा᳘पतिरेव᳘ परमेष्ठी छ᳘न्दो ऽभवत्॥

मूलम् - Weber

विश्व᳘कर्मा व᳘य इ᳘ति॥
प्रजा᳘परिर्वै᳘ विश्व᳘कर्मा स व᳘यो ऽभवत्परमेष्ठी छ᳘न्द इत्या᳘पो वै᳘ प्रजा᳘पतिः परमेष्ठी ता हि᳘ परमे स्था᳘ने ति᳘ष्ठन्ति प्रजा᳘पतिरेव᳘ परमेष्ठी छ᳘न्दो ऽभवत्॥

मूलम् - विस्वरम्

(४) “विश्वकर्मा वयः”- इति । प्रजापतिर्वै विश्वकर्मा । स वयो ऽभवत् । “परमेष्ठी छन्दः”- इति । आपो वै प्रजापतिः परमेष्ठी । ता हि परमे स्थाने तिष्ठन्ति । प्रजापतिरेव परमेष्ठी छन्दो ऽभवत् ॥ १३ ॥

सायणः

विश्वकर्मा वय इति । अत्र ‘प्रजापतिर्वै विश्वकर्मा’ इति प्रजापतेर्विश्वकर्मत्वम् “य इमा विश्वा भुवनानि जुह्वत्”- इति “यतो भूमिं जनयन् विश्वकर्मा” इत्यादिप्रसिद्धिं दर्शयति । परमेष्ठी छन्द इति । अत्र प्रजापतेः परमेष्ठित्वं शब्दद्वारकमिति दर्शयति । ‘आपो वै प्रजापतिः परमेष्ठी’ जगत्सृष्टेः पूर्वमपां सर्जनात्तदभेदेनापां परमेष्ठिरूपप्रजापतिरूपत्वम् । अपामस्तु प्रजापतिरूपत्वमभेदात्; कथं पुनस्तासां परमेष्ठित्वम् ? इति तद्दर्शयति- ता हि परमे स्थाने तिष्ठन्ति इति । “आदित्याज्जायते वृष्टिः” इति स्मृतेः (म. स्मृ. ३ । ७६), “दिवो वृष्टिमेरय दिवो ह्यापः सन्नाः" इत्यादिश्रुतेश्च वृष्टेः परमस्थानभूतद्युसम्बन्धः ॥

तान् गायत्री छन्दो भूत्वेति यद्गायत्रीछन्द उक्तं तदिदानीं सम्पाद्य दर्शयति- तानि वा एतानि चत्वारि वयांसीत्यादिना । स्पष्टो ऽर्थः । एषा वै सा गायत्रीति । ‘एषा’ इति इदानीं सम्पादितप्रकारा गायत्री प्राङ्निर्दिष्टा सा खलु । सा केति तामाह- या तद्भूत्वा प्रजापतिरिति । प्रजापतिर्या भूत्वा पशूनाप्नोत्सेत्यर्थः । “वयो ऽभवद्वयो ऽभवद्”- इति या प्रजापतेर्वयस आप्तिरुक्ता सा इदानींतनव्यवहारस्य मूलमिति दर्शयति- तस्माज्जीर्णं पशुं वयसा ऽऽप्त इत्याचक्षत इति । ‘जीर्णम्’ वृद्धं ‘पशुम्’ दृष्ट्वा ऽसौ प्रभूतेन ‘वयसा ऽऽप्तः’ इति यथेदानीं ब्रूते तथा पूर्वमपि प्रजापतिर्वयसा ऽऽप्नोदित्येष सत्यवादः । ‘तस्मादु’ तस्मादेव वयसा ऽऽप्तत्वादेव पशुस्थानीयासु सर्वास्विष्टकासु ‘मूर्द्धा वयः बस्तो वयः’ इत्येवं वयःशब्दो ऽनुवर्तते ॥

इत्थं गायत्र्यात्मना सम्पन्नेन मन्त्रचतुष्टयेना ऽऽप्तस्य प्रजापतेः स्वरूपं दर्शितम् । अथा ऽऽप्तव्यानां पशूनां स्वरूपं सामान्येन निर्दिशन्ती श्रुतिः पशूंस्तद्गतसङ्ख्यां च प्रशंसति- अथ ये ऽस्मादिति । ‘अस्मात्’ विस्रस्तात् प्रजापत्यङ्गात् ‘ये पशवः’ ‘उदक्रामन्’ ‘एते ते’ प्रसिद्धा वक्ष्यमाणा बस्तादय इत्यर्थः । के ते ? ‘उत्तरे’ कियन्तो वा पञ्चदशेत्युत्तरम् । पञ्चदशस्तोमस्य प्रजापतेः सारभूतांशबाहुलक्षणावयवेभ्य उत्पन्नत्वाद्वा बाह्वोर्वधसाधनत्वाद्वज्रत्वम् । पशूनां वज्रत्वं स्वयमेव दर्शयति- तस्माद्यस्य पशवो भवन्तीति । ‘पाप्मानम्’ क्षुद्दारिद्र्यलक्षणम् ‘सः’ पशुमान् ‘अपहत एव’ । ‘वज्रो हैव’ वज्रः खलु ‘तस्य पाप्मानमपहन्ति’ अतो यद्धननसाधनं तद्वज्रमिति सिद्धो ऽर्थः ॥

युक्तिभिरुपपादितमर्थं लोकस्थित्या द्रढयति- तस्माद्यां कां चेति । तां दिशं ‘वज्रविहताम्’ ‘एवान्वेति’ पशुभिरुपक्रान्तस्य वर्त्मनो ऽप्रतिहतत्वात् ॥ १३-१४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे द्वितीये ऽध्याये तृतीयं ब्राह्मणम् ॥ (८-२-३) ॥

Eggeling
  1. ‘The All-worker is vigour,’–the All-worker, doubtless, is Prajāpati: it is he that became vigour;–’the highest lord the metre,’–Prajāpati, the highest lord, doubtless, is the waters, for they (the waters of heaven) are in the highest place: Prajāpati, the highest lord, indeed became a metre.

१४

विश्वास-प्रस्तुतिः

(त्ता᳘) ता᳘नि वा᳘ ऽएता᳘नि॥
चत्वा᳘रि[[!!]] व्व᳘याᳫँ᳭सि चत्वा᳘रि[[!!]] च्छ᳘न्दाᳫँ᳭सि त᳘दष्टा᳘वष्टा᳘क्षरा गाय᳘त्र्येषा वै सा᳘ गायत्री या त᳘द्भूत्वा᳘ प्रजा᳘पतिरेता᳘न्पशून्व᳘यसा᳘ ऽऽप्नोत्त᳘स्माज्जीर्णं᳘ पशुं व्व᳘यसा ऽऽप्त ऽइत्या᳘चक्षते त᳘स्मादु स᳘र्व्वास्वेव व्व᳘यो व्व᳘य ऽइत्य᳘नुवर्तते᳘ ऽथ᳘ ये ऽस्मात्ते᳘ पश᳘व ऽउद᳘क्रामन्नेते ते प᳘ञ्चदशो᳘त्तरे व्व᳘ज्रो वै᳘ पश᳘वो व्व᳘ज्रः पञ्चदशस्त᳘स्माद्य᳘स्य पश᳘वो भ᳘वन्त्य᳘पैव स᳘ पाप्मा᳘नᳫँ᳭ हते व्व᳘ज्रो हैव त᳘स्य पाप्मा᳘नम᳘पहन्ति त᳘स्माद्यां कां᳘ च दि᳘शं पशुमाने᳘ति व्व᳘ज्रविहताᳫँ᳭ हैव ताम᳘न्वेति॥

मूलम् - श्रीधरादि

(त्ता᳘) ता᳘नि वा᳘ ऽएता᳘नि॥
चत्वा᳘रि[[!!]] व्व᳘याᳫँ᳭सि चत्वा᳘रि[[!!]] च्छ᳘न्दाᳫँ᳭सि त᳘दष्टा᳘वष्टा᳘क्षरा गाय᳘त्र्येषा वै सा᳘ गायत्री या त᳘द्भूत्वा᳘ प्रजा᳘पतिरेता᳘न्पशून्व᳘यसा᳘ ऽऽप्नोत्त᳘स्माज्जीर्णं᳘ पशुं व्व᳘यसा ऽऽप्त ऽइत्या᳘चक्षते त᳘स्मादु स᳘र्व्वास्वेव व्व᳘यो व्व᳘य ऽइत्य᳘नुवर्तते᳘ ऽथ᳘ ये ऽस्मात्ते᳘ पश᳘व ऽउद᳘क्रामन्नेते ते प᳘ञ्चदशो᳘त्तरे व्व᳘ज्रो वै᳘ पश᳘वो व्व᳘ज्रः पञ्चदशस्त᳘स्माद्य᳘स्य पश᳘वो भ᳘वन्त्य᳘पैव स᳘ पाप्मा᳘नᳫँ᳭ हते व्व᳘ज्रो हैव त᳘स्य पाप्मा᳘नम᳘पहन्ति त᳘स्माद्यां कां᳘ च दि᳘शं पशुमाने᳘ति व्व᳘ज्रविहताᳫँ᳭ हैव ताम᳘न्वेति॥

मूलम् - Weber

ता᳘नि वा᳘ एता᳘नि॥
च᳘त्वारि व᳘यांसि च᳘त्वारि छ᳘न्दांसि त᳘दष्टा᳘वष्टा᳘क्षरा गायॗत्र्येषा वै सा᳘ गायत्री या त᳘द्भूत्वा᳘ प्रजा᳘पतिरेता᳘न्पशून्व᳘यसा᳘प्नोत्त᳘स्माज्जीर्ण᳘म् पशुं व᳘यसाप्त इत्या᳘चक्षते त᳘स्मादु स᳘र्वास्वेव व᳘यो व᳘य इत्य᳘मुवर्तते᳘ ऽथॗ ये ऽस्मात्ते᳘ पश᳘व उद᳘क्रामन्नेते ते प᳘ञ्चदशो᳘त्तरे व᳘ज्रो वै᳘ पश᳘वो व᳘ज्रः पञ्चदशस्त᳘स्माद्य᳘स्य पश᳘वो भ᳘वन्त्य᳘पैव स᳘ पाप्मा᳘नᳫं हते व᳘ज्रो हैव त᳘स्य पाप्मा᳘नम᳘पहन्ति त᳘स्माद्यां कां᳘ च दि᳘शम् पशुमाने᳘ति व᳘ज्रविहिताᳫं हैव ताम᳘न्वेति॥

मूलम् - विस्वरम्

तानि वा ऽएतानि चत्वारि वयांसि, चत्वारि च्छन्दांसि- तदष्टौ । अष्टाक्षरा गायत्री । एषा वै सा गायत्री- या तद्भूत्वा प्रजापतिरेतान्पशून्वयसा ऽऽप्नोत् । तस्माज्जीर्णं पशुं वयसा ऽऽप्त इत्याक्षते । तस्मादु सर्वास्वेव वयो वय इत्यनुवर्तते । अथ ये ऽस्मात्ते पशव उदक्रामन्- एते ते- पञ्चदशोत्तरे । वज्रो वै पशवः । वज्रः पञ्चदशः । तस्माद्यस्य पशवो भवन्ति- अपैव स पाप्मानं हते । वज्रो हैव तस्य पाप्मानमपहन्ति । तस्माद्यां कां च पशुमानेति-वज्रविहतां हैव तामन्वेति ॥ १४ ॥

सायणः

[व्याख्यानं त्रयोदशे]

Eggeling
  1. These then are four kinds of vigour, and four metres; this (makes) eight,–the Gāyatrī consists of eight syllables: this, assuredly, is that same Gāyatrī in the form of which Prajāpati then, by his vigour, overtook those cattle; whence they say of worn-out cattle that they are overtaken by vigour (or, age), and hence (the word) ‘vigour’ recurs with all (these bricks). And those cattle which went away from him (Prajāpati) are these fifteen other (formulas): the cattle are a thunderbolt, and the thunderbolt is fifteenfold: whence he who possesses cattle, drives off the evildoer, for the thunderbolt drives off the evildoer for him. And in whatever direction, therefore, the possessor of cattle goes, that he finds torn up by the thunderbolt.

  1. एवं व्वैश्वदेवीभ्यः प्राणभृतः । प्राणभृतः प्राणं म इति । का. श्रौ. सू. १७ । १७६ । १८४ । ↩︎

  2. 34:1 That is, the bricks placed in opposite quarters, run in the same direction; see p. 26, note 3. ↩︎

  3. 34:2 The Prāṇabhr̥ts are placed beside the Vaiśvadevīs so as to be separated from them by the respective section of the anūkas or ‘spines’ (dividing the square ‘body’ of the altar into four quarters). Each Vaiśvadevī would thus be enclosed between an Āśvinī and a Prāṇabhr̥t; but whilst the Āśvinī and Vaiśvadevī are placed in the same section (or quarter) of the altar, the Prāṇabhr̥t comes to lie in the adjoining section, moving in the sunwise direction from left to right. ↩︎

  4. प्राणभृद्भ्यो ऽपस्याः । अपः पिन्वेत्यपस्याः । का. श्रौ. सू. १७ । १७७ । १८५ । ↩︎

  5. 35:1 See p. 26, note 3. ↩︎

  6. 35:2. The five Apasyā bricks are placed immediately to the right of the Prāṇabhr̥ts (looking towards the latter from the centre of the altar), so as to fill up the four remaining spaces between the four sets of bricks on the range of the Retaḥsic. ↩︎

  7. 36:1 These are otherwise called Vayasyā (conferring vigour, or vitality), each formula containing the word vayas, ‘vitality, force.’ There are nineteen such bricks which are placed on the four ends of the two ‘spines,’ viz. four on the front, or east end of the spine proper, and five on the hind end of it as well as on each end of the ‘cross-spine.’ ↩︎

  8. व्वयस्याः पंच पंचानूकांतेषु मूर्द्धा व्वय इति प्रतिमंत्रम् । चतस्रः पुरस्तात् दक्षिणत उत्तरतः पश्चात् । का० श्रौ० सू० । १७ । १८६-१८८ । ↩︎