०१
विश्वास-प्रस्तुतिः
अ᳘थ व्वैश्वदेवीरु᳘पदधाति॥
(त्ये) एषा वै सा᳘ द्विती᳘या चि᳘तिर्या᳘मेभ्यस्त᳘दश्वि᳘ना ऽउपा᳘धत्तां ता᳘मुपधा᳘येदᳫँ᳭ स᳘र्व्वमभवतां य᳘दिदं किं᳘ च॥
मूलम् - श्रीधरादि
अ᳘थ व्वैश्वदेवीरु᳘पदधाति॥
(त्ये) एषा वै सा᳘ द्विती᳘या चि᳘तिर्या᳘मेभ्यस्त᳘दश्वि᳘ना ऽउपा᳘धत्तां ता᳘मुपधा᳘येदᳫँ᳭ स᳘र्व्वमभवतां य᳘दिदं किं᳘ च॥
मूलम् - Weber
अ᳘थ वैश्वदेवीरु᳘पदधाति॥
एषा वै सा᳘ द्वीती᳘या चि᳘तिर्या᳘मेभ्यस्त᳘दश्वि᳘ना उपा᳘धत्तां ता᳘मुपधा᳘येदᳫं स᳘र्वमभवतां य᳘दिदं किं᳘ च॥
मूलम् - विस्वरम्
अथ पञ्चवैश्वदेवेष्टकोपधानम् ।
अथ वैश्वदेवीरूपदधाति । एषा वै सा द्वितीया चितिः- यामेभ्यस्तदश्विना ऽउपाधत्ताम् । तामुपधायेदं सर्वमभवताम्- यदिदं किं च ॥ १ ॥
सायणः
ऋतव्ययोरुपधानानन्तरं वैश्वदेवीनामुपधानं विधायाख्यायिकया 1 स्तौति- अथ 2 वैश्वदेवीरूपदधात्येषा वै सेत्यादिना । ‘याम्’ इष्टकाम् ‘एभ्यः’ देवेभ्यो ऽर्थाय ‘तत्’ तदा ‘अश्विनौ उपाधत्ताम्’ । ‘सैषा द्वितीया चितिः’ खलु । ‘ताम्’ द्वितीयाम् ‘उपधायेदं सर्वमभवताम्;’ सर्वमिदं तयोः स्वाधीनमभूदित्यर्थः । सर्वशब्दस्यासङ्कोचं दर्शयति- यदिदं किञ्चेति । ‘यत्’- यत्प्रतीयते तत्सर्वमित्यर्थः ॥ १ ॥
Eggeling
- He then lays down the Vaiśvadevī (All-gods’ bricks). For this second layer is that one which the Aśvins at that time laid down for them (the gods); and by laying it down they became everything here whatsoever there is here.
०२
विश्वास-प्रस्तुतिः
ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्न) अश्वि᳘नौ वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमभूतामु᳘प त᳘ज्जानीत य᳘था व्वय᳘मि᳘हाप्य᳘सामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘था व्वय᳘मि᳘हाप्य᳘सामे᳘ति ते᳘ चेत᳘यमाना ऽएता ऽइ᳘ष्टका ऽअपश्यन्वैश्वदेवीः᳘॥
मूलम् - श्रीधरादि
ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्न) अश्वि᳘नौ वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमभूतामु᳘प त᳘ज्जानीत य᳘था व्वय᳘मि᳘हाप्य᳘सामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्त᳘दिच्छत य᳘था व्वय᳘मि᳘हाप्य᳘सामे᳘ति ते᳘ चेत᳘यमाना ऽएता ऽइ᳘ष्टका ऽअपश्यन्वैश्वदेवीः᳘॥
मूलम् - Weber
ते᳘ देवा᳘ अब्रुवन्॥
अश्वि᳘नौ वा᳘ इदᳫं स᳘र्वमभूतामु᳘प त᳘ज्जानीत य᳘था व्य᳘मिॗहाप्य᳘सामे᳘तिॗ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्त᳘दिछत य᳘था वय᳘मिॗहाप्य᳘सामे᳘ति ते᳘ चेत᳘यमाना एता इ᳘ष्टका अपश्यन्वैश्वदेवीः॥
मूलम् - विस्वरम्
ते देवा अब्रुवन्- अश्विनौ वा ऽइदं सर्वमभूताम्, उप तज्जानीत- यथा वयमिहाप्यसामेति । ते ऽब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । तदिच्छत- यथा वयमिहाप्यसामेति । ते चेतयमाना एता इष्टका अपश्यन्वैश्वदेवीः ॥ २ ॥
सायणः
‘ते देवाः’ ‘इदं सर्वम्’ ‘अश्विनौ’ एव ‘अभूताम्’ अतः ‘यथा’ येन प्रकारेण ‘इह’ अस्मिन् सर्वस्मिन् ‘वयमप्यसाम’ ‘तत्’ तथा ‘उपजानीत’ ‘इति’ परस्परम् ‘अब्रुवन्’ । एवमुक्त्वा ते पुनरब्रुवन् ‘चेतयध्वमिति’ । एवं वदतामुक्तेरभिप्रायं श्रुतिरितरथा ब्रूते- चितिमिच्छतेति वाव तदब्रुवन्निति । इतस्ततो विक्षिप्ताया बुद्धिवृत्तेरैकाग्र्येणैकत्र समावेश- श्चितिः । ‘ते चेतयमानाः’ इत्यादि स्पष्टम् । स्वातन्त्र्येण कार्यं साधयितुमशक्ताः ‘ते’ देवा एवम् ‘अब्रुवन्’ । कथं ? पूर्वम् ‘इदं सर्वमश्विनौ’ एव ‘अभूताम्’ खलु । अतो वयमपि ‘अश्विभ्यामेव’ साधनाभ्यां (तद्धस्तादित्यर्थः) तयोः ‘चितिम्’ अनुसृत्यैव वैश्वदेवीः ‘उपदधामहा इति’ एवमुक्त्वा ‘ते’ तथैवाकुर्वन् । ‘तस्मात्’ अश्विप्रधानत्वात् ‘एताम्’ द्वितीयां चितिम् ‘आश्विनीत्याचक्षते’ अभिज्ञाः । ‘तस्माद्’ अश्विभ्यां साधितत्वात् ‘यथैव पूर्वासाम्’ आश्विनीनाम् ‘उदर्कः’ मन्त्रस्यावसानम् “अश्विना ऽध्वर्यू सादयताम्” इत्येवंरूपः; ‘एवमेतासाम्’ वैश्वदेवीनामप्युदर्क इति शेषः । तत्र कारणं पूर्वोक्तं पुनः स्मारयति- अश्विभ्यां ह्येवेति ॥ २ ॥ ३ ॥
Eggeling
- The gods spake, ‘The Aśvins have become everything here: think ye upon this as to how we also may share in it!’ They said, ‘Meditate ye (cit)!’ whereby, no doubt, they meant to say, Seek ye a layer (citi)! seek ye in what way we also may share in it!’ whilst meditating, they saw these Vaiśvadevī (All-gods’) bricks.
०३
विश्वास-प्रस्तुतिः
(स्ते) ते ऽब्रुवन्॥
(न्न) अश्वि᳘नौ वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमभूतामश्वि᳘भ्यामे᳘वाश्वि᳘नोश्चि᳘तिमनू᳘पदधामहा ऽइ᳘ति᳘ ते ऽश्वि᳘भ्यामे᳘वाश्वि᳘नोश्चि᳘तिमनू᳘पादधत त᳘स्मादेता᳘माश्विनी चि᳘तिरित्या᳘चक्षते त᳘स्माद्य᳘थैव पू᳘र्व्वासामुदर्क᳘ ऽएव᳘मेता᳘सामश्वि᳘भ्या᳘ᳫँ᳘ ह्ये᳘वाश्वि᳘नोश्चि᳘तिमनूपा᳘दधत॥
मूलम् - श्रीधरादि
(स्ते) ते ऽब्रुवन्॥
(न्न) अश्वि᳘नौ वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमभूतामश्वि᳘भ्यामे᳘वाश्वि᳘नोश्चि᳘तिमनू᳘पदधामहा ऽइ᳘ति᳘ ते ऽश्वि᳘भ्यामे᳘वाश्वि᳘नोश्चि᳘तिमनू᳘पादधत त᳘स्मादेता᳘माश्विनी चि᳘तिरित्या᳘चक्षते त᳘स्माद्य᳘थैव पू᳘र्व्वासामुदर्क᳘ ऽएव᳘मेता᳘सामश्वि᳘भ्या᳘ᳫँ᳘ ह्ये᳘वाश्वि᳘नोश्चि᳘तिमनूपा᳘दधत॥
मूलम् - Weber
ते ऽब्रुवन्॥
अश्वि᳘नौ वा᳘ इदᳫं सर्वमभूतामश्वि᳘भ्यामेॗवाश्वि᳘नोश्चितिमनू᳘पदधामहा इ᳘तिॗ ते ऽश्वि᳘भ्यामेॗवाश्वि᳘नोश्चि᳘तिमनू᳘पादधत त᳘स्मादेता᳘माश्विनी चि᳘तिरित्या᳘चक्षते त᳘स्माद्य᳘थैव पू᳘र्वासामुदर्क᳘ एव᳘मेता᳘सामिश्वि᳘भ्याॗᳫंॗ ह्येॗवाश्वि᳘नोश्चि᳘तिमनूपा᳘दधत॥
मूलम् - विस्वरम्
ते ऽब्रुवन्- अश्विनौ वा ऽइदं सर्वमभूताम्, अश्विभ्यामेवाश्विनोश्चितिमनूपदधामहा ऽइति । ते ऽश्विभ्यामेवाश्विनोश्चितिमनूपादधत । तस्मादेतामाश्विनी चितिरित्याचक्षते । तस्माद्यथैव पूर्वासामुदर्कः- एवमेतासाम् । अश्विभ्यां ह्येवाश्विनश्चितिमनूपादधत ॥ ३ ॥
सायणः
[व्याख्यानं द्वितीये]
Eggeling
- They said, ‘The Aśvins have become everything here: with the help of the Aśvins let us lay down (bricks) along with the Aśvins’ layer!’ With the help of the Aśvins they accordingly laid down (bricks) along with the Aśvins’ layer, whence they call this the Aśvins’ layer. Hence the end of these (bricks) is the same as that of the former ones; for they laid them down with the help of the Aśvins along with the Aśvins’ layer.
०४
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ व्वैश्वदेवी᳘रुपद᳘धाति॥
ये वै ते व्वि᳘श्वे देवा᳘ ऽएतां᳘ द्विती᳘यां चि᳘तिम᳘पश्यन्ये त᳘ ऽएते᳘न र᳘सेनोपा᳘यंस्त᳘ ऽएते ता᳘ने᳘वैतदु᳘पदधाति ता᳘ ऽएताः स᳘र्व्वाः प्रजास्ता᳘ रेतःसि᳘चोर्व्वे᳘लयो᳘पदधातीमे वै᳘ रेतःसि᳘चावन᳘योस्त᳘त्प्रजा᳘[[!!]] दधाति त᳘स्मादन᳘योः प्रजाः᳘ सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्त᳘त्प्रजा᳘ दधाति त᳘स्मात्सर्व्व᳘तः प्रजा दि᳘श्या ऽअनू᳘पदधाति दिक्षु त᳘त्प्रजा᳘ दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु᳘ प्रजाः[[!!]]॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ व्वैश्वदेवी᳘रुपद᳘धाति॥
ये वै ते व्वि᳘श्वे देवा᳘ ऽएतां᳘ द्विती᳘यां चि᳘तिम᳘पश्यन्ये त᳘ ऽएते᳘न र᳘सेनोपा᳘यंस्त᳘ ऽएते ता᳘ने᳘वैतदु᳘पदधाति ता᳘ ऽएताः स᳘र्व्वाः प्रजास्ता᳘ रेतःसि᳘चोर्व्वे᳘लयो᳘पदधातीमे वै᳘ रेतःसि᳘चावन᳘योस्त᳘त्प्रजा᳘[[!!]] दधाति त᳘स्मादन᳘योः प्रजाः᳘ सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्त᳘त्प्रजा᳘ दधाति त᳘स्मात्सर्व्व᳘तः प्रजा दि᳘श्या ऽअनू᳘पदधाति दिक्षु त᳘त्प्रजा᳘ दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु᳘ प्रजाः[[!!]]॥
मूलम् - Weber
य᳘द्वेव᳘ वैश्वदेवी᳘रुपद᳘धाति॥
ये वै ते वि᳘श्वे देवा᳘ एतां᳘ द्विती᳘यां चि᳘तिम᳘पश्यन्ये त᳘ एते᳘न र᳘सेनोपा᳘यंस्त᳘ एते ता᳘नेॗवैतदु᳘पदधाति ता᳘ एताः स᳘र्वाः प्रजास्ता᳘ रेतःसि᳘चोर्वे᳘लयो᳘पदधातीमे वै᳘ रेतःसिचा᳘वन᳘योस्त᳘त्प्रजा᳘ दधाति त᳘स्मादन᳘योः प्रजाः᳘ सर्व᳘त उ᳘पदधाति सर्व᳘तस्त᳘त्प्रजा᳘ दधाति त᳘स्मात्सर्व᳘तः प्रजा दि᳘श्या अनू᳘पदधाति दिक्षु त᳘त्प्रजा᳘ दधाति त᳘स्मात्स᳘र्वासु दिक्षु᳘ प्रजाः᳟॥
मूलम् - विस्वरम्
यद्वेव वैश्वदेवीरुपदधाति । ये वै ते विश्वे देवा एतां द्वितीयां चितिमपश्यन्, ये त ऽएतेन रसेनोपायन्- त एते । तानेवैतदुपदधाति । ता एताः सर्वाः प्रजाः । ता रेतःसिचोर्वेलयोपदधाति । इमे वै रेतःसिचौ । अनयोस्तत्प्रजा दधाति । तस्मादनयोः प्रजाः । सर्वत उपदधाति । सर्वतस्तत्प्रजा दधाति । तस्मात्सर्वतः प्रजाः । दिश्या अनूपदधाति । दिक्षु तत्प्रजा दधाति । तस्मात्सर्वासु दिक्षु प्रजाः ॥ ४ ॥
सायणः
प्रकारान्तरेण स्तौति- यद्वेवेति । ‘यदेव’ कारणाद् ‘वैश्वदेवीरूपदधाति’ तदभिधीयत इत्यर्थः । ‘ये’ खलु ‘ते विश्वे देवा एताम्’ वैश्वदेवीभिर्निर्मिताम् ‘द्वितीयां चितिमपश्यन्’ अजानन् । ‘ते’ देवाः ‘एतेन रसेनोपायन्’ रसेन सङ्गता अभवन्नित्यर्थः । ‘त एते’ प्रसिद्धा विश्वे देवाः । ‘तानेव’ रसेनोपेतानेव देवान् ‘एतद्’ एतेन वैश्वदेवीनामुपधानेन ‘उपदधाति’ अध्वर्युः । को ऽसौ रस इति स उच्यते- ता एताः सर्वाः प्रजा इति । ‘ताः’ रसत्वेन निर्दिष्टा इष्टकाः ‘एताः’ परिदृश्यमानाः ‘सर्वाः प्रजाः’ । एतासां स्थानमाह- ता रेतःसिचोर्वेलयेति । गतमिदम् । ‘तस्माद्’ रेतःसिचोर्द्यावापृथिव्यात्मकत्वाद् ‘अनयोः’ द्यावापृथिव्योर्मध्ये ‘प्रजाः’ वर्तन्त इति शेषः । तत्रापि विशेषं सार्थवादमाह- सर्वत उपदधातीति । तत्राप्याश्विनीनामानन्तर्यमाह- दिश्या अन्विति । ‘दिश्याः’ आश्विन्यस्ताः सर्वत उपहिताः, ता अन्वेता अप्युपदध्यात् । स्पष्टो ऽर्थवादः ॥ ४ ॥
Eggeling
- And, again, as to why he lays down the
All-gods’ (bricks). These indeed are those same All-gods who saw this second layer, and who came nigh with that life-sap: it is them he thereby bestows, that is, all these creatures. He lays them down in the range of the Retaḥsic; for the Retaḥsic are these two (heaven and earth): within these two (worlds) he thus places creatures; whence there are creatures within these two (worlds). He places (bricks) on every side: he thus places creatures everywhere, whence there are creatures everywhere. He places them alongside of the regional ones 3: he thus places creatures in the regions (quarters); whence there are creatures in all the (four) quarters.
०५
विश्वास-प्रस्तुतिः
(०) य᳘द्वेव᳘ व्वैश्वदेवी᳘रुपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तात्स᳘र्व्वाः प्रजा᳘ मध्यत ऽउ᳘दक्रामन्नेत᳘स्या ऽअ᳘धि यो᳘नेस्ता᳘ ऽएनमेत᳘स्मिन्नात्म᳘नः प्र᳘तिहिते प्रा᳘पद्यन्त॥
मूलम् - श्रीधरादि
(०) य᳘द्वेव᳘ व्वैश्वदेवी᳘रुपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तात्स᳘र्व्वाः प्रजा᳘ मध्यत ऽउ᳘दक्रामन्नेत᳘स्या ऽअ᳘धि यो᳘नेस्ता᳘ ऽएनमेत᳘स्मिन्नात्म᳘नः प्र᳘तिहिते प्रा᳘पद्यन्त॥
मूलम् - Weber
य᳘द्वेव᳘ वैश्वदेवी᳘रुपद᳘धाति॥
प्रजा᳘पतेर्वि᳘स्रस्तात्स᳘र्वाः प्रजा᳘ मध्यत उ᳘दक्रामन्नेत᳘स्या अ᳘धि यो᳘नेस्ता᳘ एनमेत᳘स्मिन्न्:त्म᳘नः प्र᳘तिहिते प्रा᳘पद्यन्त॥
मूलम् - विस्वरम्
यद्वेव वैश्वदेवीरूपदधाति । प्रजापतेर्विस्रस्तात्सर्वाः प्रजा मध्यत उदक्रामन्- एतस्या अधि योनेः । ता एनमेतस्मिन्नात्मनः प्रतिहिते प्रापद्यन्त ॥ ५ ॥
सायणः
पुनः प्रकारान्तरेण स्तौति- यद्वेवेति । ‘विस्रस्तात्प्रजापतेर्मध्यतः सर्वाः प्रजाः’ उद्गताः । मध्यं विशिनष्टि- एतस्या अधि योनेरिति । ‘अधि’ इति पञ्चम्यर्थानुवादी । ‘एतस्याः’ प्रजोत्पादिकायाः ‘योनेः’ सकाशात् । ‘ताः’ उद्गता; प्रजापतिशरीरस्य सम्बन्धिन्यः ‘एतस्मिन्’ मध्ये ‘प्रतिहिते’ समाहिते सति ‘एनम्’ प्रजापतिं पुरस्तात् प्रापद्यन्त ॥ ५ ॥
Eggeling
- And, again, as to why he lays down the All-gods’ (bricks). When Prajāpati had become relaxed, all creatures went forth from the midst of him, from that birth-place of theirs. When that (central part) of his body had been restored, they entered him.
०६
विश्वास-प्रस्तुतिः
स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘ ऽअस्मात्ताः᳘ प्रजा᳘ मध्य᳘त ऽउद᳘क्रामन्नेतास्ता᳘ व्वैश्वदेव्य᳘ ऽइ᳘ष्टकास्तद्य᳘देता᳘ ऽउपद᳘धाति या᳘ ऽए᳘वास्मात्ताः᳘ प्रजा᳘ मध्यत᳘ ऽउद᳘क्रामंस्ता᳘ ऽअस्मिन्नेतत्प्र᳘पादयति रेतःसि᳘चोर्व्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत ऽए᳘वास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति॥
मूलम् - श्रीधरादि
स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ता) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘ ऽअस्मात्ताः᳘ प्रजा᳘ मध्य᳘त ऽउद᳘क्रामन्नेतास्ता᳘ व्वैश्वदेव्य᳘ ऽइ᳘ष्टकास्तद्य᳘देता᳘ ऽउपद᳘धाति या᳘ ऽए᳘वास्मात्ताः᳘ प्रजा᳘ मध्यत᳘ ऽउद᳘क्रामंस्ता᳘ ऽअस्मिन्नेतत्प्र᳘पादयति रेतःसि᳘चोर्व्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत ऽए᳘वास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति॥
मूलम् - Weber
स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रंसत॥
अय᳘मेव सॗ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या᳘ अस्मात्ताः᳘ प्रजा᳘ मध्य᳘त उद᳘क्रामन्नेतास्ता᳘ वैश्वदेव्य᳘ इ᳘ष्टकास्तद्य᳘देता᳘ उपद᳘धाति या᳘ एॗवास्मात्ताः᳘ प्रजा᳘ मध्यत᳘ उद᳘क्रामंस्ता᳘ अस्मिन्नेतत्प्र᳘पादयति रेतःसि᳘चोर्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ एॗवास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति सर्व᳘त उ᳘पदधाति सर्व᳘त एॗवास्मिन्नेताः᳘ प्रजाः प्र᳘पादयति॥
मूलम् - विस्वरम्
स यः स प्रजापतिर्व्यस्रंसत- अयमेव सः- यो ऽयमग्निश्चीयते । अथ या अस्मात्ताः प्रजा मध्यत उदक्रामन्- एतास्ता वैश्वदेव्य इष्टकाः । तद्यदेता उपदधाति- या एवास्मात् ताः प्रजा मध्यत उदक्रामन्- ता अस्मिन्नेतत्प्रपादयति । रेतःसिचोर्वेलया । पृष्टयो वै रेतःसिचौ । मध्यमु पृष्टयः । मध्यत एवास्मिन्नेताः प्रजाः प्रपादयति । सर्वत उपदधाति । सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति ॥ ६ ॥
सायणः
को ऽसौ विस्रस्तः प्रजापतिरिति तमाह- अयमेव स इति । एतच्छब्दार्थमाह- यो ऽयमिति । अस्तु सः । उत्क्रान्ताः प्रजाः का इति ता आह- एतास्ता वैश्वदेव्य इति । ‘तद्यदेताः’ वैश्वदेवीः अत्र द्वितीयायां चितौ ‘उपदधाति’ ‘या एव प्रजाः’ ‘अस्मात्’ प्रजापतेः ‘मध्यतः’ मध्यदेशात् उत्क्रान्ताः ‘ताः’ एव पुनस्तत्र ‘प्रपादयति’ । रेतःसिग्व्याख्यानम्- ‘पृष्टयः’ इत्यादिकम् ‘सर्वत उपदधाति’ इति च स्पष्टम् ॥ ६ ॥
Eggeling
- Now the Prajāpati who become relaxed is this very Agni (fire-altar) that is now being built up; and the creatures who went forth from the midst of him are these same All-gods’ bricks; and when he lays these down, he causes those creatures, which went forth from the midst of him, to enter him. In the range of the Retaḥsic (he places the Vaiśvadevī bricks), for the Retaḥsic are the ribs, and the ribs
are the middle: he thus causes the creatures to enter him in the very middle. He places them on all sides: on all sides he thus causes the creatures to enter him.
०७
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ व्वैश्वदेवी᳘रुपद᳘धाति॥
(त्ये) एतद्वै᳘ प्रजा᳘पतिरेत᳘स्मिन्नात्म᳘नः प्र᳘तिहिते ऽकामयत प्रजाः᳘ सृजेय प्र᳘जायेये᳘ति स᳘ ऽऋतु᳘भिरद्भिः᳘ प्राणैः᳘ संव्वत्सरे᳘णाश्वि᳘भ्याᳫँ᳭ सयु᳘ग्भू᳘त्वैताः᳘ प्रजाः प्रा᳘जनयत्त᳘थै᳘वैतद्य᳘जमान ऽएता᳘भिर्देव᳘ताभिः सयु᳘ग्भू᳘त्वैताः᳘ प्रजाः प्र᳘जनयति त᳘स्मादु स᳘र्व्वास्वे᳘व सजूः᳘ सजूरित्य᳘नुवर्तते॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ व्वैश्वदेवी᳘रुपद᳘धाति॥
(त्ये) एतद्वै᳘ प्रजा᳘पतिरेत᳘स्मिन्नात्म᳘नः प्र᳘तिहिते ऽकामयत प्रजाः᳘ सृजेय प्र᳘जायेये᳘ति स᳘ ऽऋतु᳘भिरद्भिः᳘ प्राणैः᳘ संव्वत्सरे᳘णाश्वि᳘भ्याᳫँ᳭ सयु᳘ग्भू᳘त्वैताः᳘ प्रजाः प्रा᳘जनयत्त᳘थै᳘वैतद्य᳘जमान ऽएता᳘भिर्देव᳘ताभिः सयु᳘ग्भू᳘त्वैताः᳘ प्रजाः प्र᳘जनयति त᳘स्मादु स᳘र्व्वास्वे᳘व सजूः᳘ सजूरित्य᳘नुवर्तते॥
मूलम् - Weber
य᳘द्वेव᳘ वैश्वदेवी᳘रुपद᳘धाति॥
एतद्वै᳘ प्रजा᳘पतिरेत᳘स्मिन्नात्म᳘नः प्र᳘तिहिते ऽकामयत प्रजाः᳘ सृजेय प्र᳘जायेये᳘ति स᳘ ऋतु᳘भिरद्भिः᳘ प्राणैः᳘ संवत्सरे᳘णाश्वि᳘भ्याᳫं सयु᳘ग्भूॗत्वैताः᳘ प्रजाः प्रा᳘जनयत्त᳘थैॗवैतद्य᳘जमान एता᳘भिर्देव᳘ताभिः सयु᳘ग्भूॗत्वैताः᳘ प्रजाः प्र᳘जनयति त᳘स्मादु स᳘र्वास्वे᳘व सजूः᳘-सजूरित्य᳘नुवर्तते॥
मूलम् - विस्वरम्
यद्वेव वैश्वदेवीरूपदधाति । एतद्वै प्रजापतिरेतस्मिन्नात्मनः प्रतिहिते ऽकामयत- प्रजाः सृजेय, प्रजायेयेति । स ऋतुभिः-अद्भिः-प्राणैः-सम्वत्सरेण-अश्विभ्यां सयुग्भूत्वैताः प्रजाः प्राजनयत् । तथैवैतद्यजमान एताभिर्देवताभिः सयुग्भूत्वैताः प्रजाः प्रजनयति । तस्मादु सर्वास्वेव सजूः सजूरित्यनुवर्तते ॥ ७ ॥
सायणः
अथासां पञ्चानां वैश्वदेवीनामुपधाने मन्त्रं विधातुमाह- यद्वेव वैश्वदेवीरुपदधात्येतद्वै प्रजापतिरित्यादिना । ‘आत्मनः’ शरीरस्य ‘एतस्मिन्’ मध्यमे ऽङ्गे ‘प्रतिहिते’ सति ‘अकामयत प्रजाः सृजेय, प्रजायेयेति’ सृज्यमानप्रजारूपेण मे ऽस्तु प्रादुर्भावो ऽपीत्यर्थः । एवं कामयमानः ‘स’ ऋत्वप्प्राणसंवत्सराश्विभिः ‘सयुक्’ तत्सहायो ‘भूत्वा’ ‘एताः’ वक्ष्यमाणवैश्वदेव्याख्याः ‘प्रजाः प्राजनयत्’ । तथैवेत्यादि स्पष्टम् । ‘तस्माद्’- एव सयुग्भावाद्धेतोर्वैश्वदेवीनामुपधानमन्त्रेषु ‘सजूः सजूरित्यनुवर्तते’ ॥ ७ ॥
Eggeling
- And, again, as to why he lays down the Vaiśvadevī (bricks). At that time, when that (part) of his body had been restored, Prajāpati desired, ‘May I create creatures, may I be reproduced!’ Having entered into union with the seasons, the waters, the vital airs, the year, and the Aśvins, he produced these creatures; and in like manner does this Sacrificer, by entering into union with those deities, now produce these creatures. Hence with all (of these bricks, the word) sajush (‘in union with’) recurs.
०८
विश्वास-प्रस्तुतिः
सजू᳘र्ऋतु᳘भिरि᳘ति॥
त᳘दृतून्प्रा᳘जनयदृतु᳘भिर्व्वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयत्सजू᳘र्व्विधा᳘भिरित्या᳘पो वै᳘ व्विधा᳘ ऽअद्भि᳘र्हीदᳫँ᳭ स᳘र्व्वं व्वि᳘हितमद्भिर्व्वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयत्सजू᳘र्देवैरि᳘ति त᳘द्देवान्प्रा᳘जनयद्य᳘द्देवा ऽइ᳘त्याच᳘क्षते सजू᳘र्देवै᳘र्व्वयोनाधैरि᳘ति प्राणा वै᳘ देवा᳘ व्वयोनाधाः᳘ प्राणै᳘र्हीदᳫँ᳭ स᳘र्व्वं व्वयु᳘नं नद्धम᳘थो च्छ᳘न्दाᳫँ᳭सि वै᳘ देवा᳘ व्वयोनाधाश्छ᳘न्दोभि᳘र्हीदᳫँ᳭ स᳘र्व्वं व्वयु᳘नं नद्धं᳘ प्राणैर्व्वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयदग्न᳘ये त्वा व्वैश्वानराये᳘ति संव्वत्सरो वा᳘ ऽअग्नि᳘र्व्वैश्वानरः᳘ संव्वत्सरे᳘ण वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयदश्वि᳘ना ऽध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘भ्यां वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयत्॥
मूलम् - श्रीधरादि
सजू᳘र्ऋतु᳘भिरि᳘ति॥
त᳘दृतून्प्रा᳘जनयदृतु᳘भिर्व्वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयत्सजू᳘र्व्विधा᳘भिरित्या᳘पो वै᳘ व्विधा᳘ ऽअद्भि᳘र्हीदᳫँ᳭ स᳘र्व्वं व्वि᳘हितमद्भिर्व्वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयत्सजू᳘र्देवैरि᳘ति त᳘द्देवान्प्रा᳘जनयद्य᳘द्देवा ऽइ᳘त्याच᳘क्षते सजू᳘र्देवै᳘र्व्वयोनाधैरि᳘ति प्राणा वै᳘ देवा᳘ व्वयोनाधाः᳘ प्राणै᳘र्हीदᳫँ᳭ स᳘र्व्वं व्वयु᳘नं नद्धम᳘थो च्छ᳘न्दाᳫँ᳭सि वै᳘ देवा᳘ व्वयोनाधाश्छ᳘न्दोभि᳘र्हीदᳫँ᳭ स᳘र्व्वं व्वयु᳘नं नद्धं᳘ प्राणैर्व्वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयदग्न᳘ये त्वा व्वैश्वानराये᳘ति संव्वत्सरो वा᳘ ऽअग्नि᳘र्व्वैश्वानरः᳘ संव्वत्सरे᳘ण वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयदश्वि᳘ना ऽध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘भ्यां वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयत्॥
मूलम् - Weber
सजू᳘रृतु᳘भिरि᳘ति॥
त᳘दृतून्प्रा᳘जनयदृतु᳘भिर्वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयत्सजू᳘र्विधा᳘भिरित्या᳘पो वै᳘ विधा᳘ अद्भिॗर्हीदᳫं स᳘र्वं वि᳘हितमद्भिर्वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयत्सजू᳘र्देवैरि᳘ति त᳘द्देवान्प्रा᳘जनयद्य᳘द्देवा इ᳘त्याच᳘क्षते सजू᳘र्देवै᳘र्वयोनाधैरि᳘ति प्राणा वै᳘ देवा᳘ वयोनाधाः᳘ प्राणैॗर्हीदᳫं स᳘र्वं वयु᳘नं नद्धम᳘थो छ᳘न्दांसि वै᳘ देवा᳘ वयोनाधाश्छ᳘न्दोभिॗर्हीदᳫं स᳘र्वं वयु᳘नं नद्ध᳘म् प्राणैर्वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयदग्न᳘ये त्वा वैश्वानराये᳘ति संवत्सरो वा᳘ अग्नि᳘र्वैश्वानरः᳘ संवत्सरे᳘ण वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयदश्वि᳘नाध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘भ्यां वै᳘ सयु᳘ग्भूत्वा प्रा᳘जनयत्॥
मूलम् - विस्वरम्
“सजूर्ऋतुभिः”- इति । तद्ऋतून्प्राजनयत् । ऋतुभिर्वै सयुग्भूत्वा प्राजनयत् । “सजूर्विधाभिः”- इति । आपो वै विधाः । अद्भिर्हीदं सर्वं विहितम् । अद्भिर्वै सयुग्भूत्वा प्राजनयत् “सजूर्देवैः”- इति । तद्देवान्प्राजनयत्- यद्देवा इत्याचक्षते । “सजूर्देवैर्वयोनाधैः”- इति । प्राणा वै देवा वयोनाधाः । प्राणैर्हीदं सर्वं वयुनं नद्धम् । अथो छन्दांसि वै देवा वयोनाधाः । छन्दोभिर्हीदं सर्वं वयुनं नद्धम् । प्राणैर्वै सयुग्भूत्वा प्राजनयत् । “अग्नये त्वा वैश्वानराय”- इति । संवत्सरो वा ऽअग्निर्वैश्वानरः । संवत्सरेण वै सयुग्भूत्वा प्राजनयत् । “अश्विना ऽध्वर्यू सादयतामिह त्वा”- इति । अश्विभ्यां वै सयुग्भूत्वा प्राजनयत् ॥ ८ ॥
सायणः
अनुवृत्तिप्रकारं च स्वयमेवाह- सजूर्ऋतुभिरिति । ‘इति’ एवं प्रतिमन्त्रमादावनुवर्तते । ‘तत्’ तेन ‘ऋतून् प्राजनयत्’ । ऋतूत्पादनमितरप्रजासृष्टेर्ऋतुसयुग्भावा ऽन्यथानुपपत्त्या समर्थयते- ऋतुभिर्वै सयुग्भूत्वा प्राजनयदिति । अन्यानिति शेषः । उत्पन्नस्य ऋतोः सयुग्भावमापद्य तत्सहायवानन्यान् विश्वदेववस्वादीन् प्राजनयदित्यर्थः । एवमुत्तरेष्वपि ‘सजूर्विधाभिः’ ‘सजूर्देवैः’ ‘सजूर्देवैर्वयोनाधैः’ इत्यादिष्वनुषञ्जनीयभागेष्वपि द्रष्टव्यम् । ‘सजूर्विधाभिरिति’ अनुषञ्जनीयो द्वितीयभागः । तत्र विधाशब्दार्थमाह- आपो वै विधा इति । अप्सु विधाशब्दप्रवृत्तिं दर्शयति- अद्भिर्हीति । विधीयते क्रियते आभिरद्भिरिदमिति विधा आपः । ‘हि’- शब्दो ऽपां सर्वाश्रयत्वस्य प्रसिद्धिद्योतनार्थः । शिष्टं पूर्ववत् । इत्थं पञ्चस्वपि मन्त्रेषु पूर्वभागे ऽनुषञ्जनीयमभिधाय प्रथमं मन्त्रं व्याचष्टे- सजूर्देवैरिति । “तद्देवान्प्राजनयत्” इत्यत्रत्यदेवशब्देन वक्ष्यमाणवस्वादयः सर्वे ऽपि देवा विवक्षिता इति व्याचष्टे- यद्देवा इत्याचक्षत इति । देवशब्देन ये ऽभिधीयन्ते ते सर्वे ऽप्यनेन विवक्षिता इत्यर्थः । उपरिष्टादनुषञ्जनीयप्रथमभागं व्याचष्टे- सजूर्देवैर्वयोनाधैरिति । वयोनाधशब्दार्थमाह- प्राणा वै देवा वयोनाधा इति । वयोनाधशब्दः कथं प्राणानभिधत्त इति तदुपपादयति- प्राणैर्हीदं सर्वं वयुनं नद्धमिति । वयो वयुनं नह्यन्ति बध्नन्तीति ‘वयोनाधाः’ ‘प्राणाः’ । वयःशब्दस्य विवक्षितार्थान्तरमाह- अथो छन्दांसि वै देवा वयोनाधा इति । शिष्टं पूर्ववद्व्याख्येयम् । अनुषङ्गस्य द्वितीयभागमुदाहृत्य व्याचष्टे- अग्नये त्वा वैश्वानरायेत्यादिना । तृतीयभागं विधाय व्याचष्टे- अश्विना ऽध्वर्यू सादयतामिह त्वेति । हे इष्टके ! त्वाम् अश्विनावध्वर्यू ‘इह’ द्वितीयचितिप्रदेशे ‘सादयताम्’ इति तस्यार्थः ॥ ८ ॥
Eggeling
- [He lays down the Vaiśvadevī bricks, with Vāj. S. XIV, 7], ‘In union with the seasons,’–he thereby produced the seasons, and having entered into union with the seasons he produced (creatures);–‘in union with the ranges,’–the ranges, doubtless, are the waters, for by water everything is ranged (distributed or produced) here: having entered into union with the waters he produced (creatures);–‘in union with the gods,’–he thereby produced the gods,–those who are called ‘gods 4;’–‘in union with the life-sustaining gods,’–the life-sustaining gods, doubtless, are the vital airs, for by the vital airs everything living here is sustained; or, the life-sustaining gods are the metres, for by the metres (sacred writ) everything living is sustained here; having entered into union with the vital airs he produced creatures;–
‘for Agni Vaiśvānara,’–Agni Vaiśvānara (‘belonging to all men’), doubtless, is the year: having entered into union with the year he produced creatures;–‘May the Aśvins, the Adhvaryus, settle thee here!’–having entered into union with the Aśvins he produced creatures.
०९
विश्वास-प्रस्तुतिः
(त्स) सजूर्व्व᳘सुभिरि᳘ति दक्षिणतः[[!!]]॥
(स्त) तद्व᳘सून्प्रा᳘जनयत्सजू᳘ रुद्रैरि᳘ति पश्चात्त᳘द्रुद्रान्प्रा᳘जनयत्सजू᳘रादित्यैरि᳘त्युत्तरतस्त᳘दादित्यान्प्रा᳘जनयत्स᳘जूर्व्वि᳘श्वैर्देवैरि᳘त्युपरिष्टात्तद्वि᳘श्वान्देवान्प्रा᳘जनयत्ता वै᳘ समान᳘प्रभृतयः समानो᳘दर्का ना᳘ना मध्यतस्ता य᳘त्समान᳘प्रभृतयः समानो᳘दर्काः समानी᳘भिर्हि᳘ देव᳘ताभिः पुर᳘स्ताच्चोप᳘रिष्टाच्च सयु᳘ग्भूत्वा प्रा᳘जनयद᳘थ यन्ना᳘ना मध्य᳘तो ऽन्या᳘ ऽअन्या हि᳘ प्रजा᳘ मध्यतः प्रा᳘जनयत्॥
मूलम् - श्रीधरादि
(त्स) सजूर्व्व᳘सुभिरि᳘ति दक्षिणतः[[!!]]॥
(स्त) तद्व᳘सून्प्रा᳘जनयत्सजू᳘ रुद्रैरि᳘ति पश्चात्त᳘द्रुद्रान्प्रा᳘जनयत्सजू᳘रादित्यैरि᳘त्युत्तरतस्त᳘दादित्यान्प्रा᳘जनयत्स᳘जूर्व्वि᳘श्वैर्देवैरि᳘त्युपरिष्टात्तद्वि᳘श्वान्देवान्प्रा᳘जनयत्ता वै᳘ समान᳘प्रभृतयः समानो᳘दर्का ना᳘ना मध्यतस्ता य᳘त्समान᳘प्रभृतयः समानो᳘दर्काः समानी᳘भिर्हि᳘ देव᳘ताभिः पुर᳘स्ताच्चोप᳘रिष्टाच्च सयु᳘ग्भूत्वा प्रा᳘जनयद᳘थ यन्ना᳘ना मध्य᳘तो ऽन्या᳘ ऽअन्या हि᳘ प्रजा᳘ मध्यतः प्रा᳘जनयत्॥
मूलम् - Weber
सजूर्व᳘सुभिरि᳘ति दक्षिणतः᳟॥
तद्व᳘सून्प्रा᳘जनयत्सजू᳘ रुद्रैरि᳘ति पश्चात्त᳘द्रुद्रान्प्रा᳘जनयत्सजू᳘रादित्यैरि᳘त्युत्तरतस्त᳘दादित्यान्प्रा᳘जनयत्सजूर्वि᳘श्वैर्देवैरि᳘त्युपरिष्टात्तद्वि᳘श्वान्देवान्प्रा᳘जनयत्ता वै᳘ समान᳘प्रभृतयः समानो᳘दर्का ना᳘ना मध्यतस्ता य᳘त्समान᳘प्रभृतयः समानी᳘भिर्हि᳘ देव᳘ताभिः पुर᳘स्ताच्चोपरिष्टाच्च सयु᳘ग्भूत्वा प्रा᳘जनयद᳘थ यन्ना᳘ना मध्यॗतो ऽन्या᳘-अन्या हि᳘ प्रजा᳘ मध्यतः प्रा᳘जनयत्॥
मूलम् - विस्वरम्
“सजूर्वसुभिः” इति दक्षिणतः । तद्वसून्प्राजनयत् । सजू रुद्रैः"- इति पश्चात् । तद्रुद्रान्प्राजनयत् । “सजूरादित्यैः”- इत्युत्तरतः । तदादित्यान्प्राजनयत् । सजूर्विश्वैर्देवैः"- (वा. सं. १४ । ७) इत्युपरिष्टात् । तद्विश्वान्देवान्प्राजनयत् । ता वै समानप्रभृतयः समानोदर्काः, नाना मध्यतः । ता यत्समानप्रभृतयः समानोदर्काः । समानीभिर्हि देवताभिः पुरस्ताच्चोपरिष्टाच्च सयुग्भूत्वा प्राजनयत् । अथ यन्नाना मध्यतः । अन्या अन्या हि प्रजा मध्यतः प्राजनयत् ॥ ९ ॥
सायणः
द्वितीयेष्टकोपधानमन्त्रमुक्त्वा व्याचष्टे- सजूर्वसुभिरिति दक्षिणत इति । उपदध्यादिति शेषः । ‘तत्’ तेन एतन्मन्त्रसाध्येष्टकोपधानेन ‘वसून्’ अष्टसंख्यान् ‘प्राजनयत्’ । सजू रुद्रैरिति तृतीयो मन्त्रः । रुद्रा एकादश, तन्मन्त्रेण पश्चादुपदध्यात् । सजूरादित्यैरिति चतुर्थेन मन्त्रेणोत्तरतः सादयेत् । स्पष्टमन्यत् । सजूर्देवैरिति उपरिष्टात्सादयेत् । उक्तानां सादनमन्त्राणामाद्यन्तानुषङ्गसाम्यमाह- ता वै समानप्रभृतयः समानोदर्का इति । प्रभृतिरुपक्रमः । उदर्को ऽवसानम् । तौ सर्वासामिष्टकानां समानावित्यर्थः ॥
कृत्स्नमन्त्राणां मध्यमभागस्य नानारूपतामाह- नाना मध्यत इति । “सजूर्ऋतुभिः” इत्यादिकः सर्वासामुपक्रमः । मध्ये “सजूर्देवैः सजूर्वसुभिः" इत्यादिः पञ्चमन्त्रेष्वेकैको मन्त्रः । अन्ते “सजूर्देवैर्वयोनाधैः” इत्यादिक इत्यर्थः । तत्त्रितयं प्रशंसति- ता यत्समानप्रभृतय इत्यादिना । ‘समानीभिर्हि देवताभिः’ ‘पुरस्ताच्चोपरिष्टाच्च’ इति ऋत्वादिभिः पुरस्तात्, ‘सजूर्वयोनाधैः’ इत्यादिभिरुपरिष्टाच्चेति विभागः । अन्या अन्या हि प्रजा इति । प्रजानां वैलक्षण्यं वस्वादीनां विलक्षणत्वाद् द्रष्टव्यम् ॥ ९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे द्वितीये ऽध्याये द्वितीयं ब्राह्मणम् ॥ (८-२-२) ॥
Eggeling
- ‘In union with the Vasus,’ he says on the right side: he thereby produced the Vasus;–‘in union with the Rudras,’ he says at the back: he thereby produced the Rudras;–‘in union with the Ādityas,’ he says on the left side: he thereby produced the Ādityas;–‘in union with the All-gods,’ he says upwards: he thereby produced the All-gods. These (bricks) have the same beginning and end, but are different in the middle: as to their having the same beginning and end, it is because having become united with the deities in front and behind, he produced creatures; and as to their being different in the middle, it is that each time he produced different creatures from within him.
-
वैश्वदेवीः । पूर्व्वो दक्षिणेन दक्षिणामपरेण अपरामुत्तरेण उत्तरां पूर्व्वेण । का. श्रौ. सू. १७ । १७१-१७५ ↩︎
-
व्वैश्वदेवीः सजूर्ऋतुभिरिति प्रतिमंत्रम् । का. श्रौ. सू. १७ । १८२ । ↩︎
-
31:1 The Āśvinī (or Diśyā) bricks were placed in a circle round the centre, at the distance of a foot from where the central brick (Svayamātr̥ṇṇā) was placed in the first layer,–that is to say, in the third place from the centre. They were, moreover, placed in the second space (or at the distance of half a foot) from the two spines, see p. 23, note 1. The five Vaiśvadevīs are then placed alongside of the Āśvinīs, so as to fill up the ‘first spaces,’ that is to say, to lie on the spines themselves; each of the two half-foot bricks laid down in the south being, as it were, halved by the spine. ↩︎
-
32:1 Lit. what they (viz. the Vedic hymns, according to the commentator) call gods:–Yat kiṁcid ity eva vedavādā ācakshate. ↩︎