०१
विश्वास-प्रस्तुतिः
द्विती᳘यां चि᳘तिमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवाः᳘ प्रथमां चि᳘तिं चित्वा᳘ समा᳘रोहन्नयं वै᳘ लोकः᳘ प्रथमा चि᳘तिरिम᳘मेव त᳘ल्लोक᳘ᳫँ᳘ संस्कृ᳘त्य समा᳘रोह᳘न्॥
मूलम् - श्रीधरादि
द्विती᳘यां चि᳘तिमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवाः᳘ प्रथमां चि᳘तिं चित्वा᳘ समा᳘रोहन्नयं वै᳘ लोकः᳘ प्रथमा चि᳘तिरिम᳘मेव त᳘ल्लोक᳘ᳫँ᳘ संस्कृ᳘त्य समा᳘रोह᳘न्॥
मूलम् - Weber
द्विती᳘यां चि᳘तिमु᳘पदधाति॥
एतद्वै᳘ देवाः᳘ प्रथमां चि᳘तिं चित्वा᳘ समा᳘रोहन्नयं वै᳘ लोकः᳘ प्रथमा चि᳘तिरिम᳘मेव त᳘ल्लोक᳘ᳫं᳘ संस्कृ᳘त्य समा᳘रोहन्॥
मूलम् - विस्वरम्
द्वितीयां चितिमुपदधाति । एतद्वै देवाः प्रथमां चितिं चित्वा समारोहन् । अयं वै लोकः प्रथमा चितिः । इममेव तल्लोकं संस्कृत्य समारोहन् ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
इत्थं प्रथमचितावुपधेयानां प्राणभृतामुपधानं पुरीषनिवपनान्तं वर्णितम्, तावता प्रथमचितिः समापिता । अथ द्वितीयस्याश्चितेरुपधानं विधत्ते- द्वितीयां चितिमुपदधातीति । इष्टकानां प्रस्तारश्चितिः । एतस्य द्वितीयचित्युपधानस्य प्रयोजनं प्रथमचितिप्रयोजनप्रतिपादनपूर्वकमुपपादयति- एतद्वै देवा इत्यादिना । ‘एतत्’ एतर्हि खलु ‘देवाः’ उदीरितरूपां ‘प्रथमां चितिं चित्वा’ उपधाय ‘समारोहन्’ सम्यगारोहणं कृतवन्तः । समारूढव्यमाह- अयं वै लोक इति । स्वयमातृण्णोपधानादौ पूर्वचितेर्भूलोकरूपतोक्ता, तथा च प्रथमचित्यात्मना ‘इममेव’ भू-‘लोकं संस्कृत्य’ तस्योपरि देवताः समारोहन् ॥ १ ॥
Eggeling
- He lays down the second layer. For now the gods, having laid down the first layer, mounted it.
But, indeed, the first layer is this (terrestrial) world: it is this same world which, when completed, they mounted.
०२
विश्वास-प्रस्तुतिः
(हं᳘स्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्नित᳘ ऽऊर्ध्व᳘मिच्छते᳘ति ते᳘ चेत᳘यमाना ऽएतां᳘ द्विती᳘यां चि᳘तिमपश्यन्य᳘दूर्ध्वं᳘ पृथिव्या᳘ ऽअर्व्वाची᳘नमन्त᳘रिक्षात्ते᳘षामेष᳘ लोको᳘ ऽध्रुव इवा᳘प्रतिष्ठित ऽइव म᳘नस्यासी᳘त्॥
मूलम् - श्रीधरादि
(हं᳘स्ते) ते ऽब्रुवन्॥
(वंश्चे) चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवन्नित᳘ ऽऊर्ध्व᳘मिच्छते᳘ति ते᳘ चेत᳘यमाना ऽएतां᳘ द्विती᳘यां चि᳘तिमपश्यन्य᳘दूर्ध्वं᳘ पृथिव्या᳘ ऽअर्व्वाची᳘नमन्त᳘रिक्षात्ते᳘षामेष᳘ लोको᳘ ऽध्रुव इवा᳘प्रतिष्ठित ऽइव म᳘नस्यासी᳘त्॥
मूलम् - Weber
ते ऽब्रुवन्॥
चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवन्नित᳘ ऊर्ध्व᳘मिछते᳘ति ते᳘ चेत᳘यमाना एतां᳘ द्विती᳘यां चि᳘तिमपश्यन्य᳘दूर्ध्व᳘म् पृथिव्या᳘ अर्वाची᳘नमन्त᳘रिक्षात्ते᳘षामेष᳘ लोको᳘ ऽध्रुव इवा᳘प्रतिष्ठित इव म᳘नस्यासीत्॥
मूलम् - विस्वरम्
ते ऽब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । इत ऊर्ध्वमिच्छतेति । ते चेतयमाना एतां द्वितीयां चितिमपश्यन्- यदूर्ध्वं पृथिव्याः, अर्वाचीनमन्तरिक्षात् । तेषामेष लोको ऽध्रुव इवाप्रतिष्ठित इव मनस्यासीत् ॥ २ ॥
सायणः
ते ऽब्रुवन्नित्यादि । प्राग् व्याख्यातम् । इत ऊर्ध्वमिच्छतेति । ‘इतः’ अस्मात्प्रथमचितिरूपाद्भूलोकाद् ‘ऊर्ध्वम्’ लोकम् ‘इच्छतेति’ एवं परस्परं सम्प्रधार्य ‘चेतयमानाः’ सञ्जानन्तः ‘ते’ देवाः ‘एताम्’ वक्ष्यमाणां ‘द्वितीयां चितिमपश्यन्’ । तामेव लोकात्मना विशिनष्टि- यदूर्ध्वमिति । ‘पृथिव्या ऊर्ध्वम्’ उपरिभागः, ‘अन्तरिक्षादर्वाचीनम्’ अधोभागः, पृथिव्यन्तरिक्षयोर्मध्यवर्ती यो ‘लोकः’ तदात्मिका द्वितीया चितिरित्यर्थः । तत्राश्विनीनां प्रथममुपधानं विधित्सुराह- तेषामेष लोक इति । ‘एषः’ उदीरितलक्षणः ‘लोकः’ ‘तेषां’ देवानाम् ‘अप्रतिष्ठितः’ आधाररहितः ‘इवासीत्’ ॥ २ ॥
Eggeling
- They spake, ‘Meditate ye!’–whereby, doubtless, they meant to say, ‘Seek ye a layer! Seek ye (to build) from hence upwards!’ Whilst meditating, they saw this second layer: what there is above the earth, and on this side of the atmosphere, that world was to their mind, as it were, unfirm and unsettled.
०३
विश्वास-प्रस्तुतिः
(त्ते) ते ऽश्वि᳘नावब्रुवन्॥
(न्यु) युवं वै᳘ ब्रह्मा᳘णौ भिष᳘जौ स्थो युवं᳘ न ऽइमां᳘ द्विती᳘यां चि᳘तिमु᳘पधत्तमि᳘ति किं᳘ नौ त᳘तो भविष्यती᳘ति युव᳘मेव᳘ नो ऽस्या᳘ ऽअग्निचित्या᳘या ऽअध्वर्यू᳘ भविष्यथ ऽइ᳘ति तथे᳘ति ते᳘भ्य ऽएता᳘मश्वि᳘नौ द्विती᳘यां चि᳘तिमु᳘पाधत्तां त᳘स्मादाहुरश्वि᳘नावेव᳘ देवा᳘नामध्वर्यू ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त्ते) ते ऽश्वि᳘नावब्रुवन्॥
(न्यु) युवं वै᳘ ब्रह्मा᳘णौ भिष᳘जौ स्थो युवं᳘ न ऽइमां᳘ द्विती᳘यां चि᳘तिमु᳘पधत्तमि᳘ति किं᳘ नौ त᳘तो भविष्यती᳘ति युव᳘मेव᳘ नो ऽस्या᳘ ऽअग्निचित्या᳘या ऽअध्वर्यू᳘ भविष्यथ ऽइ᳘ति तथे᳘ति ते᳘भ्य ऽएता᳘मश्वि᳘नौ द्विती᳘यां चि᳘तिमु᳘पाधत्तां त᳘स्मादाहुरश्वि᳘नावेव᳘ देवा᳘नामध्वर्यू ऽइ᳘ति॥
मूलम् - Weber
ते ऽश्वि᳘नावब्रुवन्॥
युवं वै᳘ ब्रह्मा᳘णौ भिष᳘जौ स्थो युवं᳘ न इमां᳘ द्विती᳘यां चि᳘तिमु᳘पधत्तमि᳘ति किं᳘ नौ त᳘तो भविष्यती᳘ति युव᳘मेव᳘ नो ऽस्या᳘ अग्निचित्या᳘या अध्वर्यू᳘ भविष्यथ इ᳘ति तथे᳘ति ते᳘भ्य एता᳘मश्वि᳘नौ द्विती᳘यां चि᳘तिमु᳘पाधत्तां त᳘स्मादाहुरश्वि᳘नावेव᳘ देवा᳘नामध्वर्यू इ᳘ति॥
मूलम् - विस्वरम्
ते ऽश्विनावब्रुवन्- युवं वै ब्रह्माणौ भिषजौ स्थः । युवं न इमां द्वितीयां चितिमुपधत्तमिति । किं नौ ततो भविष्यतीति । युवमेव नो ऽस्या ऽअग्निचित्याया ऽअध्वर्यू भविष्यथः- इति । तथेति । तेभ्य एतामश्विनौ द्वितीयां चितिमुपाधत्ताम् । तस्मादाहुः- अश्विनावेव देवानामध्वर्यू इति ॥ ३ ॥
सायणः
ततः ‘ते’ देवास्तस्य लोकस्य प्रतिष्ठितत्वाय ‘अश्विनावब्रुवन्’ । हे अश्विनौ ! ‘युवम्’ युवाम् खलु ‘ब्रह्माणौ’ परिवृढौ ‘भिषजौ स्थः’ भवतः । अतो युवाम् ‘नः’ अस्मदीयां ‘इमां द्वितीयां चितिमुपधत्तम्’ उपधानेन सम्पादयतम् ‘इति’ देवानां वचः श्रुत्वा अश्विनावब्रूताम् । ‘ततः’ तस्माद्द्वितीयचित्युपधानात् ‘नौ’ आवयोः ‘किम्’ प्रयोजनं ‘भविष्यतीति’ । ‘युवमेव’- इति देवानां वाक्यम् । ‘नः’ अस्माकं सम्बन्धिन्याः ‘अस्या अग्निचित्यायाः’ युवामेव ‘अध्वर्यू भविष्यथः’ । ‘अश्विनौ’ अपि ‘तथा’ अस्त्वित्यङ्गीकृत्य ‘तेभ्यः’ देवेभ्यः, तादर्थ्ये चतुर्थी (पा. सू २ । ३ । ६२) । ‘एताम्’ वक्ष्यमाणां ‘द्वितीयां चितिमुपाधत्ताम्’ उपहितवन्तौ । यस्मादेवमश्विभ्यामाध्वर्यवमाचरितं देवकर्तृके ऽग्निचयने ‘तस्माद्’ एव कारणात् ‘अश्विनावेव देवानामध्वर्यू इत्याहुः’ ब्रह्मवादिनस्तत्र तत्र कथयन्ति ॥ ३ ॥
Eggeling
- They said to the Aśvins, ‘Ye two are Brahmans and physicians: lay ye down for us this second layer!’–‘What will therefrom accrue unto us?–‘Ye two shall be the Adhvaryus at this our Agnicityā.’–‘So be it!’–The Aśvins laid down for them that second layer: whence they say, ‘The Aśvins are the Adhvaryus of the gods.’
०४
विश्वास-प्रस्तुतिः
स ऽउ᳘पदधाति॥
ध्रुव᳘क्षितिर्ध्रुव᳘योनिर्ध्रु᳘वा ऽसी᳘ति यद्वै᳘ स्थिरं यत्प्र᳘तिष्ठितं त᳘द्ध्रुवम᳘थ वा᳘ ऽएषामेष᳘ लोको᳘ ऽध्रुव ऽइवा᳘प्रतिष्ठित ऽइव म᳘नस्यासीत्त᳘मे᳘वैत᳘त्स्थिरं᳘ ध्रुवं᳘ कृत्वा प्र᳘त्यधत्तां ध्रुवं यो᳘निमा᳘सीद साधुये᳘ति स्थिरं यो᳘निमा᳘सीद साधुयेत्येतदु᳘ख्यस्य केतुं᳘ प्रथमं᳘ जुषाणे᳘त्ययं वा᳘ ऽअग्निरु᳘ख्यस्त᳘स्यैष᳘ प्रथमः᳘ केतुर्य᳘त्प्रथमा चि᳘तिस्तं᳘ जुषाणे᳘त्येत᳘दश्वि᳘ना ऽध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ᳘ ह्य᳘ध्वर्यू᳘ ऽउपा᳘धत्ताम्॥
मूलम् - श्रीधरादि
स ऽउ᳘पदधाति॥
ध्रुव᳘क्षितिर्ध्रुव᳘योनिर्ध्रु᳘वा ऽसी᳘ति यद्वै᳘ स्थिरं यत्प्र᳘तिष्ठितं त᳘द्ध्रुवम᳘थ वा᳘ ऽएषामेष᳘ लोको᳘ ऽध्रुव ऽइवा᳘प्रतिष्ठित ऽइव म᳘नस्यासीत्त᳘मे᳘वैत᳘त्स्थिरं᳘ ध्रुवं᳘ कृत्वा प्र᳘त्यधत्तां ध्रुवं यो᳘निमा᳘सीद साधुये᳘ति स्थिरं यो᳘निमा᳘सीद साधुयेत्येतदु᳘ख्यस्य केतुं᳘ प्रथमं᳘ जुषाणे᳘त्ययं वा᳘ ऽअग्निरु᳘ख्यस्त᳘स्यैष᳘ प्रथमः᳘ केतुर्य᳘त्प्रथमा चि᳘तिस्तं᳘ जुषाणे᳘त्येत᳘दश्वि᳘ना ऽध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ᳘ ह्य᳘ध्वर्यू᳘ ऽउपा᳘धत्ताम्॥
मूलम् - Weber
स उ᳘पदधाति॥
ध्रुव᳘क्षितिर्ध्रुव᳘योनिर्ध्रुॗवासी᳘ति यद्वै᳘ स्थिरं यत्प्र᳘तिष्ठितं त᳘द्ध्रुवम᳘थ वा᳘ एषामेष᳘ लोको᳘ ऽध्रुव इवा᳘प्रतिष्ठित इव म᳘नस्यासीत्त᳘मेॗवैत᳘त्स्थिरं᳘ ध्रुवं᳘ कृत्वा प्र᳘त्यधत्तां ध्रुवं यो᳘निमा᳘सीद साधुये᳘ति स्थिरं यो᳘निमा᳘सीद साधुयेत्येतदु᳘ख्यस्य केतु᳘म् प्रथमं᳘ जुषाणे᳘त्ययं वा᳘ अग्निरु᳘ख्यस्त᳘स्यैष᳘ प्रथमः᳘ केतुर्य᳘त्प्रथमा चि᳘तिस्तं᳘ जुषाणे᳘त्येत᳘दश्वि᳘नाध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ ह्य᳘ध्वर्यू᳘ उपा᳘धत्ताम्॥
मूलम् - विस्वरम्
स उपदधाति । “ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवा ऽसि”- इति । यद्वै स्थिरं, यत्प्रतिष्ठितं- तद्ध्रुवम् । अथ वा ऽएषामेष लोको ऽध्रुव- इवाप्रतिष्ठित- इव मनस्यासीत् । तमेवैतत्स्थिरं ध्रुवं कृत्वा प्रत्यधत्ताम् । ध्रुवं योनिमासीद साधुया"- इति । स्थिरं योनिमासीद साधुयेत्येतत् । उख्यस्य केतुं प्रथमं जुषाणा"- इति । अयं वा ऽअग्निरुख्यः । तस्यैष प्रथमः केतुः- यत्प्रथमा चितिः । तं जुषाणेत्येतत् । “अश्विना ऽध्वर्यू सादयतामिह त्वा”- (वा. सं. १४ । १) इति । अश्विनौ ह्यध्वर्यू ऽउपाधत्ताम् ॥ ४ ॥
सायणः
एवमुपोद्घातत्वेन द्वितीयचित्युपधाने ऽश्विकर्तृत्वं प्रतिपाद्य औपोद्घातिकमाश्विनीनामुपधानं समन्त्रकं विधत्ते- स उपदधातीति । ‘सः’ अध्वर्युः प्रथमम् आश्विनीः पञ्चेष्टका उपदध्यात् । “ध्रुवक्षितिः” इत्याद्यास्तन्मन्त्राः । अत्र प्रथममन्त्रे ध्रुवशब्दं कुर्वन् प्रागुक्तदोषपरिहाररूपं तस्य प्रयोजनमाविष्करोति- यद्वै स्थिरमिति । ‘यत्’ खलु ‘स्थिरम्’ अनश्वरम् ‘प्रतिष्ठितम्’ लब्धास्पदं च यत् ‘तत्’ उभयम् ‘ध्रुवम्’ ध्रुवशब्दप्रतिपाद्यमित्यर्थः । एषामित्यादि । अथ खलु ‘एषाम्’ प्रागुक्तानां देवानां ‘मनसि’ पृथिव्यन्तरिक्षमध्यवर्ती ‘लोकः’ अस्थिर ‘इव’ निराधार इव च ‘आसीत्’ ‘तमेव’ लोकम् ‘एतत्’ एतेन ध्रुवशब्दोपेतमन्त्रकरणकोपधानेन ‘स्थिरम्’ अनश्वरं ‘प्रतिष्ठितम्’ च ‘कृत्वा’ ‘प्रत्यधत्ताम्’ अश्विनौ समाहितवन्तावित्यर्थः ॥
द्वितीयपादमनूद्य तत्रापि ध्रुवशब्दस्योक्तार्थपरतामाह- स्थिरं योनिमिति । तृतीयं व्याचष्टे- अयं वा अग्निरुख्य इति । उखायां भवो ऽग्निः ‘उख्यः’ गर्भरूपेण स्थितः उख्यो ऽग्निरेव हि शिरःपक्षाद्युपेतचित्याग्निरूपेण स्थितः ‘तस्य’ चोख्यस्याग्नेः ‘एष प्रथमः केतुः’ प्रज्ञापको ऽवयवः । येयं ‘प्रथमा चितिः’ ‘तम्’ अवयवं ‘जुषाणा’ सेवमानेत्यर्थः सम्पद्यते । अश्विना ऽध्वर्यू इत्यादि निगदसिद्धम् । मन्त्रार्थस्तु हे इष्टके ! ‘ध्रुवक्षितिः’ स्थिरनिवासा ‘ध्रुवयोनिः’ स्थिराधारा ‘ध्रुवा’ स्थिरस्वरूपा ‘असि’ । ‘ध्रुवम्’ स्थिरतरम् ‘योनिम्’ प्रथमचितिलक्षणम् ‘आसीद’ उपविश । ‘साधुया’ 1 अस्माभिः साधनीया । ‘उख्यस्य’ उखायामुत्पन्नस्य चित्याग्नेः ‘केतुम्’ प्रज्ञापकम्, ‘प्रथमम्’ प्रथमचितिरूपं ‘जुषाणा’ सेवमाना ‘असि’ । तादृशीं ‘त्वा’ त्वाम् ‘अध्वर्यू’ ‘इह सादयताम्’ अत्र स्थापयताम् ॥ ४ ॥
Eggeling
- He lays down (the first Āśvinī 2 brick, with
Vāj. S. XIV, 1), ‘Thou art firmly-founded, firmly-seated, firm!’ for what is steady and settled, that is firm. Now that world was to their minds, as it were, unfirm and unsettled: having thereby made it firm, steady, they (the Aśvins) went on laying down (bricks).–‘Seat thee fitly in thy firm seat!’–that is, ‘Seat thee fitly in thy steady seat;’–’enjoying the first appearance of the Ukhya,’–the Ukhya, doubtless, is this Agni; and that first layer is indeed his first appearance: thus, ’enjoying that.’–‘May the Aśvins, the Adhvaryus, settle you here!’ for the Aśvins, as Adhvaryus, did lay down (this brick).
०५
विश्वास-प्रस्तुतिः
(ङ्कु᳘) कुलायि᳘नी घृत᳘वती पु᳘रंधिरि᳘ति॥
कुला᳘यमिव वै᳘ द्विती᳘या चि᳘तिः स्योने᳘ सीद स᳘दने पृथिव्या ऽइ᳘ति पृथिवी वै᳘ प्रथमा चि᳘तिस्त᳘स्यै शिवे᳘ स्योने᳘ सीद स᳘दन ऽइ᳘त्येत᳘दभि᳘ त्वा रुद्रा व्व᳘सवो गृणन्त्वि᳘त्येता᳘स्त्वां देव᳘ता ऽअभि᳘गृणन्त्वि᳘त्येत᳘दिमा ब्र᳘ह्म पीपिहि सौ᳘भगाये᳘तीमा ब्र᳘ह्माव सौ᳘भगाये᳘त्येत᳘दश्वि᳘ना ऽध्वर्यू᳘[[!!]] सादयतामिह त्वे᳘त्यश्वि᳘नौ ह्यध्वर्यू᳘ ऽउपा᳘धत्ताम्[[!!]]॥
मूलम् - श्रीधरादि
(ङ्कु᳘) कुलायि᳘नी घृत᳘वती पु᳘रंधिरि᳘ति॥
कुला᳘यमिव वै᳘ द्विती᳘या चि᳘तिः स्योने᳘ सीद स᳘दने पृथिव्या ऽइ᳘ति पृथिवी वै᳘ प्रथमा चि᳘तिस्त᳘स्यै शिवे᳘ स्योने᳘ सीद स᳘दन ऽइ᳘त्येत᳘दभि᳘ त्वा रुद्रा व्व᳘सवो गृणन्त्वि᳘त्येता᳘स्त्वां देव᳘ता ऽअभि᳘गृणन्त्वि᳘त्येत᳘दिमा ब्र᳘ह्म पीपिहि सौ᳘भगाये᳘तीमा ब्र᳘ह्माव सौ᳘भगाये᳘त्येत᳘दश्वि᳘ना ऽध्वर्यू᳘[[!!]] सादयतामिह त्वे᳘त्यश्वि᳘नौ ह्यध्वर्यू᳘ ऽउपा᳘धत्ताम्[[!!]]॥
मूलम् - Weber
कुलायि᳘नी घृत᳘वती पु᳘रंधिरि᳘ति॥
कुला᳘यमिव वै᳘ द्विती᳘या चि᳘तिः स्योने᳘ सीद स᳘दने पृथिव्या इ᳘ति पृथिवी वै᳘ प्रथमा चि᳘तिस्त᳘स्यै शिवे᳘ स्योने᳘ सीद स᳘दन इ᳘त्येत᳘दभि᳘ त्वा रुद्रा व᳘सवो गृणन्त्वि᳘त्येता᳘स्त्वां देव᳘ता अभि᳘गृणन्त्वि᳘त्येत᳘दिमा ब्र᳘ह्म पीपिहि सौ᳘भगाये᳘तीमा ब्र᳘ह्माव सौ᳘भगाये᳘त्येत᳘दश्वि᳘नाध्व᳘र्यू सादयतामिह त्वे᳘त्यश्वि᳘नौ ह्य᳘ध्वर्यू᳘ उपा᳘धत्ताम्॥
मूलम् - विस्वरम्
“कुलायिनी घृतवती पुरन्धिः”- इति । कुलायमिव वै द्वितीया चितिः । “स्योने सीद सदने पृथिव्याः”- इति । पृथिवी वै प्रथमा चितिः । तस्यै शिवे स्योने सीद सदने- इत्येतत् । “अभि त्वा रुद्रा वसवो गृणन्तु”- इति । एतास्त्वां देवता अभिगृणन्त्वित्येतत् । “इमा ब्रह्म पीपिहि सौभगाय”- इति । इमा ब्रह्माव सौभगायेत्येतत् । “अश्विना ऽध्वर्यू सादयतामिह त्वा”- (वा. सं. १४ । २) इति । अश्विनौ ह्यध्वर्यू ऽउपाधत्ताम् ॥ ५ ॥
सायणः
द्वितीयं मन्त्रं पादशो ऽनूद्य व्याचष्टे- कुलायिनी घृतवतीति । कुलायमिव वा इति । कुलायो नीडम्, तदिव हि द्वितीया चितिर्भवति । यथा वृक्षादेरुपरि नीडमवतिष्ठते, तथा द्वितीयचितेरपि प्रथमचितेरुपर्यवस्थानात्तत्सादृश्यम् । द्वितीयपादे ‘पृथिव्यै’ इति पदस्यार्थमाह- पृथिवी वै प्रथमा चितिरिति । प्रथमचितेः पृथिवीरूपता प्राक् प्रतिपादिता (श. प. ८ । २ । १ । १) । तस्याः सम्बन्धिनि ‘शिवे’ शोभने ‘स्योने’ सुखकरे (निघं. ३ । ६ । १५) । मन्त्रस्यायमर्थः- हे इष्टके ! त्वं कुलायसदृशी द्वितीया चितिः कुलायस्तत्सम्बन्धिनी कुलायिनी, घृतमुदकमाज्यं वा तद्वती, पुरं शरीरं धीयते गर्भतया ऽस्यामिति ‘पुरन्धिः’ योषिद्रूपा ऽसि । सा त्वं ‘पृथिव्याः’ प्रथमचितेः सम्बन्धिनि सुखकरे स्थाने ‘सीद’ आस्वं । ‘अभि त्वा’ इत्यादि निगदसिद्धम् । ‘अभिगृणन्तु’ अभिष्टुवन्त्वित्यर्थः । “गृ शब्दे” (धा.पा. क्र्या. प. २६) इति क्रैयादिको धातुः । प्वादित्वाच्च ह्रस्वः (पा. सू. ७ । ३ । ८०) । ‘पीपिहि’ इति पदं व्याचष्टे- इमा ब्रह्मावेति । हे इष्टके ! त्वं ‘सौभगाय’ सौभाग्याय, यद्वा धनं सौभगं ‘सौभगाय’ धनाय इमानि ब्रह्माणि परिवृढानि हविरादीनि ‘पीपिहि’ अव पालय वर्धय वा । ‘अश्विना ऽध्वर्यू’ इत्यादि गतम् ॥ ५ ॥
Eggeling
- [The second Āśvinī he lays down, with Vāj. S. XIV, 2], ‘Nest-like, fat, wise,’–a nest, as it were, is indeed the second layer 3;–‘seat thee in the soft seat of the earth!’–the second layer, no doubt, is the earth: thus, ‘Sit on her pleasant seat!’–‘May the Rudras, the Vasus sing thy praises!’–that is, ‘May those deities sing thy praises!’–‘Replenish them, O Brahman, for happiness!’–that is, ‘Favour them, O Brahman, with a view to happiness.’–‘May the Aśvins, the Adhvaryus, settle thee here!’ for the Aśvins, as Adhvaryus, did lay down (this brick).
०६
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स्वैर्द᳘क्षैर्द᳘क्षपितेह᳘ सीदे᳘ति॥
स्वे᳘न व्वी᳘र्येणेह᳘ सीदे᳘त्येत᳘द्देवा᳘नाᳫँ᳭ सम्ने᳘ बृहते र᳘णाये᳘ति देवा᳘नाᳫँ᳭ सुम्ना᳘य महते र᳘णाये᳘त्येत᳘त्पि᳘तेवैधि सून᳘व ऽआ᳘ सुशेवे᳘ति य᳘था पिता᳘ पुत्रा᳘य स्योनः᳘ सुशे᳘व ऽएव᳘ᳫँ᳘ सुशे᳘वैधी᳘त्येत᳘त्स्वावेशा᳘ त᳘न्वा सं᳘विशस्वे᳘त्यात्मा वै᳘ तनूः᳘ स्वावेशे᳘नात्म᳘ना सं᳘विशस्वे᳘त्येत᳘दश्वि᳘ना ऽध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ ह्यध्वर्यू᳘ ऽउपा᳘धत्ताम्[[!!]]॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स्वैर्द᳘क्षैर्द᳘क्षपितेह᳘ सीदे᳘ति॥
स्वे᳘न व्वी᳘र्येणेह᳘ सीदे᳘त्येत᳘द्देवा᳘नाᳫँ᳭ सम्ने᳘ बृहते र᳘णाये᳘ति देवा᳘नाᳫँ᳭ सुम्ना᳘य महते र᳘णाये᳘त्येत᳘त्पि᳘तेवैधि सून᳘व ऽआ᳘ सुशेवे᳘ति य᳘था पिता᳘ पुत्रा᳘य स्योनः᳘ सुशे᳘व ऽएव᳘ᳫँ᳘ सुशे᳘वैधी᳘त्येत᳘त्स्वावेशा᳘ त᳘न्वा सं᳘विशस्वे᳘त्यात्मा वै᳘ तनूः᳘ स्वावेशे᳘नात्म᳘ना सं᳘विशस्वे᳘त्येत᳘दश्वि᳘ना ऽध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ ह्यध्वर्यू᳘ ऽउपा᳘धत्ताम्[[!!]]॥
मूलम् - Weber
स्वैर्द᳘क्षैर्द᳘क्षपितेह᳘ सीदे᳘ति॥
स्वे᳘न वीॗर्येणेह᳘ सीदे᳘त्येत᳘द्देवा᳘नाᳫं सम्ने᳘ बृहते र᳘णायेति देवा᳘नाᳫं सुम्ना᳘य महते र᳘णाये᳘त्येत᳘त्पिॗतेवैधि सून᳘व आ᳘ सुशेवे᳘ति य᳘था पिता᳘ पुत्रा᳘य स्योनः᳘ सुशे᳘व एव᳘ᳫं᳘ सुशे᳘वैधी᳘त्येत᳘त्स्वावेशा᳘ तॗन्वा सं᳘विशास्वे᳘त्यात्मा वै᳘ तनूः᳘ स्वावेशे᳘नात्म᳘ना सं᳘विशस्वे᳘त्येत᳘दश्वि᳘नाध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ ह्य᳘ध्वर्यू᳘ उपा᳘धत्ताम्॥
मूलम् - विस्वरम्
“स्वैर्दक्षैर्दक्षपितेह सीद”- इति । स्वेन वीर्येणेह सीदेत्येतत् । “देवानां सुम्ने बृहते रणाय”- इति । देवानां सुम्नाय महते रणायेत्येतत् । “पितेवैधि सूनव ऽआ सुशेवा”- इति । यथा पिता पुत्राय स्योनः सुशेवः- एवं सुशेवैधीत्येतत् । “स्वावेशा तन्वा संविशस्व”- इति । आत्मा वै तनूः, स्वावेशेनात्मना संविशस्वेत्येतत् । “अश्विना ऽध्वर्यू सादयतामिह त्वा”- (वा. सं. १४ । ३) इति । अश्विनौ ह्यध्वर्यू ऽउपाधत्ताम् ॥ ६ ॥
सायणः
तृतीयं मन्त्रमनूद्य व्याचष्टे- स्वैर्दक्षैरिति । दक्षशब्दो वीर्यवचनः । बहुवचनं पूजार्थमित्यभिप्रेत्याह- स्वेन वीर्येणेति । स्वकीयेन सामर्थ्येनेत्यर्थः । ‘सुम्ने’ इति, ‘बृहते’ इति पदयोर्व्याख्यानम् सुम्नाय महत इति । सुम्नशब्दाच्चतुर्थ्येकवचने “सर्वे विधयश्छन्दसि विकल्प्यन्ते” इति यादेशस्य विकल्पितत्वाद् “अतो गुणे”- (पा. सू. ६ । १ । ९७) इति पररूपत्वमेव । तृतीयपादमनूद्य व्याचष्टे- पितेवैधीति । अयमर्थः- हे इष्टके ! ‘दक्षपिता’ दक्षो वर्धयिता ऽग्निः पिता पालको यस्याः सा तादृशी भूत्वा ‘इह’ अस्मिन्स्थाने ‘स्वेन वीर्येण’ उपविश । किमर्थम् ? ‘देवानां सुम्नाय’ सुखाय, ‘महते रणाय’ च ‘पितेव’ ‘यथा पिता’ ‘सूनवे’ पुत्राय ‘स्योनः’ सन् ‘सुशेवः’ सुमुखो भवति, एवं सा त्वं देवानां सुखयित्री ‘एधि’ भव । चतुर्थपादमनूद्य व्याचष्टे- स्वावेशा तन्वेति । अत्र तनूशब्दः शरीरवाचीत्याह- स्वावेशेनात्मनेति । सुष्ठु आवेशयतीति स्वावेश् “अन्येभ्यो ऽपि दृश्यन्ते”- (पा. सू. ३ । २ । ७५) इति विच् । तथा च ‘स्वावेशेन’ सुखोपवेशनहेतुभूतेन ‘आत्मना’ ‘संविशस्व’ सम्यगुपविश ‘इति’ तुरीयपादस्यार्थः । अश्विना ऽध्वर्यू इत्यादि गतम् ॥ ६ ॥
Eggeling
- [The third Āśvinī brick he lays down, with Vāj. S. XIV, 3], ‘By thine own powers seat thee here, a holder of powers,’–that is, ‘By thy own energy seat thee here;’–‘in the gods’ favour for high joy!’ that is, ‘for the favour of the gods, for great joy 4;"–‘be thou kind, as a father to his son!’–that is, ‘As a father is gentle, kind, to his son, so be thou kind!’–‘rest thou readily accessible with thy form!’–the form, doubtless, is the body: thus, ‘rest thou with readily accessible body!’–‘May the Aśvins, the Adhvaryus, settle thee here!’ for the Aśvins, as Adhvaryus, did lay down (this brick).
०७
विश्वास-प्रस्तुतिः
(म्पृ) पृथिव्याः पु᳘रीषमसी᳘ति॥
पृथिवी वै᳘ प्रथमा चि᳘तिस्त᳘स्या ऽएतत्पु᳘रीषमिव य᳘द्द्वितीया᳘ ऽप्सो नामे᳘ति र᳘सो नामे᳘त्येतत्तां᳘ त्वा व्वि᳘श्वे ऽअभि᳘गृणन्तु देवा ऽइ᳘ति तां᳘ त्वा स᳘र्व्वे ऽभि᳘गृणन्तु देवा ऽइ᳘त्येतत्स्तो᳘मपृष्ठा घृत᳘वतीह᳘ सीदे᳘ति यान्त्स्तो᳘मानस्यां᳘ तᳫँ᳭स्य᳘मानो भ᳘वति तै᳘रेषा स्तो᳘मपृष्ठा प्रजा᳘वदस्मे द्र᳘विणा᳘ ऽऽयजस्वे᳘ति प्रजा᳘वदस्मे द्र᳘विणमा᳘यजस्वे᳘त्येत᳘दश्वि᳘ना ऽध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ᳘ ह्यध्वर्यू᳘ ऽउपा᳘धत्ताम्[[!!]]॥
मूलम् - श्रीधरादि
(म्पृ) पृथिव्याः पु᳘रीषमसी᳘ति॥
पृथिवी वै᳘ प्रथमा चि᳘तिस्त᳘स्या ऽएतत्पु᳘रीषमिव य᳘द्द्वितीया᳘ ऽप्सो नामे᳘ति र᳘सो नामे᳘त्येतत्तां᳘ त्वा व्वि᳘श्वे ऽअभि᳘गृणन्तु देवा ऽइ᳘ति तां᳘ त्वा स᳘र्व्वे ऽभि᳘गृणन्तु देवा ऽइ᳘त्येतत्स्तो᳘मपृष्ठा घृत᳘वतीह᳘ सीदे᳘ति यान्त्स्तो᳘मानस्यां᳘ तᳫँ᳭स्य᳘मानो भ᳘वति तै᳘रेषा स्तो᳘मपृष्ठा प्रजा᳘वदस्मे द्र᳘विणा᳘ ऽऽयजस्वे᳘ति प्रजा᳘वदस्मे द्र᳘विणमा᳘यजस्वे᳘त्येत᳘दश्वि᳘ना ऽध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ᳘ ह्यध्वर्यू᳘ ऽउपा᳘धत्ताम्[[!!]]॥
मूलम् - Weber
पृथिव्याः पु᳘रीषमसी᳘ति॥
पृथिवी वै᳘ प्रथमा चि᳘तिस्त᳘स्या एतत्पु᳘रीषमिव य᳘द्द्वितीया᳘प्सो नामे᳘ति र᳘सो नामे᳘त्येतत्तां᳘ त्वा वि᳘श्वे अभि᳘गृणन्तु देवा इ᳘ति तां᳘ त्वा स᳘र्वे ऽभि᳘गृणन्तु देवा इ᳘त्येतत्स्तो᳘मपृष्ठा घृत᳘वतीह᳘ सीदे᳘ति यान्त्स्तो᳘मानस्यां तंस्य᳘मानो भ᳘वति तै᳘रेषा स्तो᳘मपृष्ठा प्रजा᳘वदस्मे द्र᳘विणा᳘यजस्वे᳘ति प्रजा᳘वदस्मे द्र᳘विणमा᳘यजस्वे᳘त्येत᳘दश्वि᳘नाध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ ह्य᳘ध्वर्यू᳘ उपा᳘धत्ताम्॥
मूलम् - विस्वरम्
“पृथिव्याः पुरीषमसि”- इति । पृथिवी वै प्रथमा चितिः । तस्या एतत्पुरीषमिवयद्द्वितीया । “अप्सो नाम”- इति । रसो नामेत्येतत् । “तां त्वा विश्वे ऽअभिगृणन्तु देवाः”- इति । तां त्वा सर्वे ऽभिगृणन्तु देवा इत्येतत् । “स्तोमपृष्ठा घृतवतीह सीद”- इति । यान् स्तोमानस्यां तंस्यमानो भवति । तैरेषा स्तोमपृष्ठा । “प्रजावदस्मे द्रविणा यजस्व”- इति । प्रजावदस्मे द्रविणमायजस्वेत्येतत् । “अश्विना ऽध्वर्यू सादयतामिह त्वा”- (वा. सं. १४ । ४) इति । अश्विनौ ह्यध्वर्यू ऽउपाधत्ताम् ॥ ७ ॥
सायणः
चतुर्थमन्त्रमनूद्य व्याचष्टे- पृथिव्याः पुरीषमसीत्यादिना । पुरीषमिवेति । प्रथमचितेरुपरि पुरीषमुप्यते । द्वितीया चितिरपि तथेति; तस्याश्चितेः पुरीषसाम्यम् । अप्स इत्येतत्पदं व्याचष्टे- रसो नामेत्येतदिति । अप्स इत्युदकनामसु पठितत्वात् तेन रसः प्रतिपाद्यत इत्यर्थः । तां त्वा विश्वे इत्यादि निगदसिद्धम् । ‘स्तोमपृष्ठा’ इति पदं व्याचष्टे- यान्स्तोमानिति । ‘अस्याम्’ चितौ ‘यान्’ त्रिवृदाद्यान् ‘स्तोमान्’ ‘तंस्यमानः’ विस्तारयिष्यमाणो ‘भवति’ ‘तैः’ स्तोमैरुपेतत्वात् स्तोमाः पृष्ठे यस्या इति व्युत्पत्त्या ‘एषा स्तोमपृष्ठा’ । ‘द्रविणा’ इति द्वितीयार्थे आकार इत्याह- द्रविणमायजस्वेत्येतदिति । ‘अश्विना’ इत्यादि गतम् । मन्त्रार्थः सुगमः ॥ ७ ॥
Eggeling
- [The fourth Āśvinī he lays down, with Vāj. S. XIV, 4], ‘Thou art the earth’s soil-cover,’–the first layer, doubtless, is the earth, and this, the second (layer) is, as it were, its soil-cover (purīsha)–‘her sap 5, in truth,’–that is, ‘her essence, in truth,’–‘May the All-gods sing thy praises!’–that is, ‘May all the gods sing thy praises!’–‘Seat thee here, laden with stomas, and rich in fat!’–whatever hymn-forms he will be spreading (constructing) thereon by them this (brick) is laden with stomas 6;–‘Gain for us by sacrifice wealth (draviṇā, pl.) with offspring (adj. sing.)!’–that is, ‘Gain for us, by sacrifice, wealth (draviṇam, sing.) with offspring!’–‘May the Aśvins, the Adhvaryus, settle thee here!’ for the Aśvins, as Adhvaryus, did lay down (this brick).
०८
विश्वास-प्रस्तुतिः
(न्ता᳘) ता᳘ ऽएता दि᳘शः॥
(स्ता᳘) ता᳘ रेतःसि᳘चोर्व्वेलयो᳘पदधातीमे वै᳘ रेतःसि᳘चावन᳘योस्तद्दि᳘शो दधाति त᳘स्मादन᳘योर्दि᳘शः सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्तद्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तो दि᳘शः सर्व्व᳘तः समी᳘चीः सर्व्व᳘तस्त᳘त्समी᳘चीर्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तः समी᳘च्यो दि᳘शस्ता ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना हि दि᳘शः॥
मूलम् - श्रीधरादि
(न्ता᳘) ता᳘ ऽएता दि᳘शः॥
(स्ता᳘) ता᳘ रेतःसि᳘चोर्व्वेलयो᳘पदधातीमे वै᳘ रेतःसि᳘चावन᳘योस्तद्दि᳘शो दधाति त᳘स्मादन᳘योर्दि᳘शः सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्तद्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तो दि᳘शः सर्व्व᳘तः समी᳘चीः सर्व्व᳘तस्त᳘त्समी᳘चीर्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तः समी᳘च्यो दि᳘शस्ता ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना हि दि᳘शः॥
मूलम् - Weber
ता᳘ एता दि᳘शः॥
ता᳘ रेतःसि᳘चोर्वे᳘लयो᳘पदधातीमे वै᳘ रेतःसि᳘चावन᳘योस्तद्दि᳘शो दधाति त᳘स्मादन᳘योर्दि᳘शः सर्व᳘त उ᳘पदधाति सर्व᳘तस्तद्दि᳘शो दधाति त᳘स्मात्सर्व᳘तो दि᳘शः सर्व᳘तः समी᳘चीः सर्व᳘तस्त᳘त्समी᳘चीर्दि᳘शो दधाति त᳘स्मात्सर्व᳘तः समी᳘च्यो दि᳘शस्ता ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना हि दि᳘शः॥
मूलम् - विस्वरम्
ता एता दिशः । ता रेतःसिचोर्वेलयोपदधाति । इमे वै रेतःसिचौ । अनयोस्तद्दिशो दधाति । तस्मादनयोर्दिशः । सर्वत उपदधाति । सर्वतस्तद्दिशो दधाति । तस्मात्सर्वतो दिशः । सर्वतः समीचीः । सर्वतस्तत्समीचीर्दिशो दधाति । तस्मात्सर्वतः समीच्यो दिशः । ता नानोपदधाति । नाना सादयति । नाना सूददोहसा ऽधिवदति । नाना हि दिशः ॥ ८ ॥
सायणः
एताश्चतस्र इष्टकाः संभूय प्रशंसति- ता एता दिश इति । प्राच्यादिदिक्षूपधीयमानत्वाद्दिगात्मिकाः । तासामुपधाने स्थानविशेषं विधाय स्तौति- ता रेतःसिचोरिति । ‘इमे’ द्यावापृथिव्यौ हि ‘रेतःसिचौ’ अखिलजगदुत्पत्तिहेतुत्वात् । ‘तत्’ तेनाश्विनीनां रेतःसिक्समीपोपधानेन ‘अनयोः’ द्यावापृथिव्योः प्राच्याद्याश्चतस्रः ‘दिशो दधाति’ स्थापयति । ‘तस्मात्’ इति लोकप्रसिद्धिकथनम् । सर्वासु दिक्षु क्रमेण चतसृणामुपधानं विधत्ते- सर्वत उपदधातीति । आसामुपधाने गुणान्तरं विधाय स्तौति- सर्वतः समीचीरिति । सर्वास्वपि दिक्षु ‘समीचीः’ अनूचीनाग्राः न तु तिर्यगवस्थिता इत्यर्थः । उपधानसादनसूददोहसां नानात्वं विधाय स्तौति- ता नानोपदधातीति ॥ ८ ॥
Eggeling
- These (bricks) are those regions (quarters); he places them on the range of the two retaḥsic (bricks), for the retaḥsic are these two (worlds): he thereby places the regions within these two (worlds), whence there are regions within these two (worlds). He lays down (these bricks) in every direction: he thus places the regions in all (the four) directions, whence the regions are in all directions. [He places them] on all sides so as to face each other 7: he thereby
makes the regions on all sides face each other, and hence the regions on all sides face each other. He lays (the bricks) down separately, settles them separately, and pronounces the sūdadohas over them separately, for separate are the regions.
०९
विश्वास-प्रस्तुतिः
(शो᳘ ऽथ) अ᳘थ पञ्चमीं दि᳘श्यामु᳘पदधाति॥
(त्यू) ऊर्ध्वा᳘ ह सा दिक्सा या᳘ सोर्ध्वा दि᳘गसौ स᳘ ऽआदि᳘त्यो ऽमु᳘मे᳘वैत᳘दादित्यमु᳘पदधाति ताम᳘न्तरेण दक्षिणां दि᳘श्यामु᳘पदधात्यमुं त᳘दादित्यम᳘न्तरेण द᳘क्षिणां दि᳘शं दधाति त᳘स्मादेषो᳘ ऽन्तरेण द᳘क्षिणां दि᳘शमेति᳘॥
मूलम् - श्रीधरादि
(शो᳘ ऽथ) अ᳘थ पञ्चमीं दि᳘श्यामु᳘पदधाति॥
(त्यू) ऊर्ध्वा᳘ ह सा दिक्सा या᳘ सोर्ध्वा दि᳘गसौ स᳘ ऽआदि᳘त्यो ऽमु᳘मे᳘वैत᳘दादित्यमु᳘पदधाति ताम᳘न्तरेण दक्षिणां दि᳘श्यामु᳘पदधात्यमुं त᳘दादित्यम᳘न्तरेण द᳘क्षिणां दि᳘शं दधाति त᳘स्मादेषो᳘ ऽन्तरेण द᳘क्षिणां दि᳘शमेति᳘॥
मूलम् - Weber
अ᳘थ पञ्चमीं दि᳘श्यामु᳘पदधाति॥
ऊर्ध्वा᳘ ह सा दिक्सा याॗ सोर्ध्वा दि᳘गसौ स᳘ आदिॗत्यो ऽमु᳘मेॗवैत᳘दादित्यमु᳘पदधाति ताम᳘न्तरेण दक्षिणां दि᳘श्यामु᳘पदधात्यमुं त᳘दादित्यम᳘न्तरेण द᳘क्षिणां दि᳘शं दधाति त᳘स्मादेषो᳘ ऽन्तरेण द᳘क्षिणां दि᳘शमेति॥
मूलम् - विस्वरम्
अथ पञ्चमीं दिश्यामुपदधाति । ऊर्ध्वा ह सा दिक् । सा या सोर्ध्वा दिक्- असौ स आदित्यः । अमुमेवैतदादित्यमुपदधाति । तामन्तरेण दक्षिणां दिश्यामुपदधाति । अमुं तदादित्यमन्तरेण दक्षिणां दिशं दधाति । तस्मादेषो ऽन्तरेण दक्षिणां दिशमेति ॥ ९ ॥
सायणः
अथ मध्य उपधेयामाश्विनीं विधत्ते- अथ पञ्चमीमिति । उक्तानां पञ्चसंख्यापूरणी पञ्चमी, दिशि ऊर्ध्वायां भवा इति ‘दिश्या’ “दिगादिभ्यो यत्” (पा. सू. ४ । ३ । ५४) । इमां पञ्चमीमूर्ध्वदिगादित्यरूपेण स्तौति- ऊर्ध्वा हेत्यादिना । ‘या’ इयं पञ्चमीष्टका ‘सा’ ‘ऊर्ध्वा दिक्,’ ‘सा’ इष्टकारूपा ‘या सोर्ध्वा दिक्’ । ‘असौ’ एव ‘सः’ प्रसिद्धः ‘आदित्यः’ ऊर्ध्वायां हि तस्य सञ्चरणम् । अतः ‘अमुम्’ आकाशे दृश्यमानमेव ‘आदित्यम्’ ‘एतत्’ एतेन पञ्चमेष्टकोपधानेनोपहितवान्भवतीत्यर्थः । तामन्तरेणेत्यादि । दक्षिणदिश्युपहिता येयं दिश्या ताम् ‘अन्तरेण’ तस्या अभ्यन्तरदेशे ‘तां’ पञ्चमीमादित्यरूपामिष्टकामुपदध्यात् । ‘तस्मात्’ कारणात् ‘एष’ आदित्यः ‘दक्षिणां दिशमन्तरेण’ दक्षिणस्या दिशो ऽभ्यन्तरदेशे ‘एति’ गच्छति ॥ ९ ॥
Eggeling
- He then lays down the fifth regional (or Āśvinī brick). Now that region is the one above 8; and that same region above, doubtless, is yonder sun: it is yonder sun he thus places thereon. He places this (brick) within the southern regional one 9: he thus places yonder sun within the southern region, and therefore he moves within the southern region.
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘दित्यास्त्वा पृष्ठे᳘ सादयामी᳘ति॥
(ती) इयं वा ऽअ᳘दितिरस्या᳘मे᳘वैनमेत᳘त्प्रतिष्ठा᳘यां प्र᳘तिष्ठापयत्यन्त᳘रिक्षस्य धर्त्रीं᳘ विष्ट᳘म्भनीं दिशाम᳘धिपत्नीं भु᳘वनानामि᳘त्यन्त᳘रिक्षस्य᳘ ह्येष᳘ धर्ता᳘ विष्ट᳘म्भनो दिशाम᳘धिपतिर्भु᳘वनानामूर्मि᳘र्द्रप्सो᳘ ऽअपा᳘मसी᳘ति र᳘सो वा᳘ ऽऊर्मि᳘र्व्विश्व᳘कर्मा त ऽऋ᳘षिरि᳘ति प्रजा᳘पतिर्व्वै᳘ व्विश्व᳘कर्मा प्रजा᳘पतिसृष्टा ऽसी᳘त्येत᳘दश्वि᳘ना ऽध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ᳘ ह्यध्वर्यू᳘ ऽउपा᳘धत्ताम्[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘दित्यास्त्वा पृष्ठे᳘ सादयामी᳘ति॥
(ती) इयं वा ऽअ᳘दितिरस्या᳘मे᳘वैनमेत᳘त्प्रतिष्ठा᳘यां प्र᳘तिष्ठापयत्यन्त᳘रिक्षस्य धर्त्रीं᳘ विष्ट᳘म्भनीं दिशाम᳘धिपत्नीं भु᳘वनानामि᳘त्यन्त᳘रिक्षस्य᳘ ह्येष᳘ धर्ता᳘ विष्ट᳘म्भनो दिशाम᳘धिपतिर्भु᳘वनानामूर्मि᳘र्द्रप्सो᳘ ऽअपा᳘मसी᳘ति र᳘सो वा᳘ ऽऊर्मि᳘र्व्विश्व᳘कर्मा त ऽऋ᳘षिरि᳘ति प्रजा᳘पतिर्व्वै᳘ व्विश्व᳘कर्मा प्रजा᳘पतिसृष्टा ऽसी᳘त्येत᳘दश्वि᳘ना ऽध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ᳘ ह्यध्वर्यू᳘ ऽउपा᳘धत्ताम्[[!!]]॥
मूलम् - Weber
अ᳘दित्यास्त्वा पृष्ठे सादयामी᳘ति॥
इयं वा अ᳘दितिरस्या᳘मेॗवैनमेत᳘त्प्रतिष्ठा᳘याम् प्र᳘तिष्ठापयत्यन्त᳘रिक्षस्य धर्त्रीं᳘ विष्ट᳘म्भनीं दिशाम᳘धिपत्नीम् भु᳘वनानामि᳘त्यन्त᳘रिक्षस्यॗ ह्येष᳘ धर्ता᳘ विष्ट᳘म्भनो दिशाम᳘धिपतिर्भु᳘वनानामूर्मि᳘र्द्रप्सो᳘ अपा᳘मसी᳘ति र᳘सो वा᳘ ऊर्मि᳘र्विश्व᳘कर्मा त ऋ᳘षिरि᳘ति प्रजा᳘पतिर्वै᳘ विश्व᳘कर्मा प्रजा᳘पतिसृष्टासी᳘त्येत᳘दश्वि᳘नाध्वर्यू᳘ सादयतामिह त्वे᳘त्यश्वि᳘नौ ह्य᳘ध्वर्यू᳘ उपा᳘धत्ताम्॥
मूलम् - विस्वरम्
“अदित्यास्त्वा पृष्ठे सादयामि”- इति । इयं वा ऽअदितिः । अस्यामेवैनमेतत्प्रतिष्ठायां प्रतिष्ठापयति । अन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशामधिपत्नीं भुवनानाम्"- इति । अन्तरिक्षस्य ह्येष धर्त्ता, विष्टम्भनो दिशाम्, अधिपतिर्भुवनानाम् । “ऊर्मिर्द्रप्सो ऽअपामसि”- इति । रसो वा ऽऊर्मिः । “विश्वकर्मा त ऽऋषिः”- इति । प्रजापतिर्वै विश्वकर्मा । प्रजापतिसृष्टा ऽसीत्येतत् । “अश्विना ऽध्वर्यू सादयतामिह त्वा”- (वा. सं. १४ । ५) इति । अश्विनौ ह्यध्वर्यू ऽउपाधत्ताम् ॥ १० ॥
सायणः
तन्मन्त्रमनूद्य व्याचष्टे- अदित्यास्त्वेति । अत्रादितिशब्देन पृथिवी विवक्षितेत्याह- इयं वा अदितिरिति । अस्यामेवैनमिति । ‘एनम्’ पञ्चमेष्टकारूपमादित्यम् । अन्तरिक्षस्य धर्त्रीम् इत्यादि । पञ्चमेष्टकाया आदित्यरूपत्वादादित्यरूपतयेत्याह- अन्तरिक्षस्य ह्येष धर्तेत्यादि । ‘एषः’ खलु सूर्यः ‘अन्तरिक्षस्य’ ‘धर्ता’ धारयिता यथा दिशो न पतन्ति तथा तासां ‘विष्टम्भनः’ विशेषेण स्तम्भयिता ‘भुवनानाम्’ अधिकं प्रकाशवर्षादिना पालयिता, अतस्तद्रूपिण्या इष्टकाया अप्येतत्सर्वमुपपद्यत इति विशेषणानामभिप्रायः । रसो वा ऊर्मिरिति । ‘रसः’ एव ह्यप्सु तरङ्गरूपेण वर्तते । तस्मादत्रोर्मिशब्दो रसपर इत्यर्थः । एतदुक्तं भवति । हे इष्टके ! अपां सम्बन्धी यो रसरूप ‘ऊर्मिः’ तरङ्गो ‘द्रप्सो’ दृढश्च तदुभयरूपा ऽसीति । प्रजापतिर्वै विश्वकर्मेति । विश्वं सर्वं जगत् कर्म कर्तव्यं येनेति व्युत्पत्तेः ‘विश्वकर्मा’ ‘प्रजापतिः’ । हे इष्टके ! उदीरितरूपायाः ‘ते’ तव ‘विश्वकर्मा ऋषिः’ द्रष्टा । अस्य तात्पर्यमाह- प्रजापतिसृष्टा ऽसीत्येतदिति । अश्विनौ ह्यध्वर्यू इत्यादि गतम् ॥ १० ॥
Eggeling
- [He lays it down, with Vāj. S. XIV, 5], ‘I settle thee upon the back of Aditi,’–Aditi doubtless is this (earth): it is upon her, as a foundation, that he thus founds him (Agni);–’the holder
of the air, the supporter of the regions, the ruler of beings,’–for he (the sun) is indeed the holder of the air, the supporter of the regions, and the ruler of beings;–’thou art the wave, the drop, of water,’–the wave, doubtless, means the essence;–‘Viśvakarman is thy R̥shi!’–Viśvakarman (the all-shaper), doubtless, is Prajāpati: thus, ‘Thou art fashioned by Prajāpati.’–‘May the Aśvins, the Adhvaryus, settle thee here!’ for the Aśvins, as Adhvaryus, did lay down (this brick).
११
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैता᳘ ऽआश्विनी᳘रुपद᳘धाति॥
प्रजा᳘पतिं व्वि᳘स्रस्तं देव᳘ता ऽआदा᳘य व्व्यु᳘दक्रामंस्त᳘स्य य᳘दूर्ध्वं᳘ प्रतिष्ठा᳘या ऽअवाची᳘नं म᳘ध्यात्त᳘दस्याश्वि᳘नावादा᳘योत्क्र᳘म्यातिष्ठताम्॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैता᳘ ऽआश्विनी᳘रुपद᳘धाति॥
प्रजा᳘पतिं व्वि᳘स्रस्तं देव᳘ता ऽआदा᳘य व्व्यु᳘दक्रामंस्त᳘स्य य᳘दूर्ध्वं᳘ प्रतिष्ठा᳘या ऽअवाची᳘नं म᳘ध्यात्त᳘दस्याश्वि᳘नावादा᳘योत्क्र᳘म्यातिष्ठताम्॥
मूलम् - Weber
य᳘द्वेॗवैता᳘ आश्विनी᳘रुपद᳘धाति॥
प्रजा᳘पतिं वि᳘स्रस्तं देव᳘ता आदा᳘य व्यु᳘दक्रामंस्त᳘स्य य᳘दूर्ध्व᳘म् प्रतिष्ठा᳘या अवाची᳘नम् म᳘ध्यात्त᳘दस्याश्वि᳘नावादा᳘योत्क्र᳘म्यातिष्ठताम्॥
मूलम् - विस्वरम्
यद्वेवैता आश्विनीरुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामन् । तस्य यदूर्ध्वं प्रतिष्ठायाः, अवाचीनं मध्यात्, तदस्याश्विनावादायोत्क्रम्यातिष्ठताम् ॥ ११ ॥
सायणः
अथैतासामाश्विनीनामात्मभाग उपधानमनुवादपुरःसरमाख्यायिकया प्रतिपादयति- यद्वेवैता इत्यादिना । अश्विशब्दवानासामुपधानो मन्त्र इति विगृह्य “तद्वानासामुपधानो मन्त्रः”- (पा. सू. ४ । ४ । १२५) इति मतुपो लुकि प्राप्ते; “अश्विमानण्” (पा. सू. ४ । ४ । १२६) इत्यण् प्रत्ययः, ततः (पा. सू. ४ । १ । १५) ङीप् । ‘प्रजापतिम्’ विस्रस्तावयवं प्रजापतिम् ‘देवताः’ अग्न्यादयः पृथक् पृथक् एकैकमवयवम् ‘आदाय’ ‘व्युदक्रामन्’ शरीरमध्यान्निष्क्रान्ताः । ‘तस्य’ प्रजापतेः ‘प्रतिष्ठाया यदूर्ध्वम्’ प्रतिष्ठाशब्दः पादवाची पादतलादारभ्योर्ध्वम्, ‘मध्यात्’ कटिप्रदेशात् ‘अवाचीनम्’ अधस्तनमङ्गजातम् ‘अस्य’ प्रजापतेः सम्बन्धि तदङ्गं ‘अश्विनावादाय’ तस्मात्स्थानादपक्रम्य ‘अतिष्ठताम्’ ॥ ११ ॥
Eggeling
- Now as to why he lays down these Āśvinī (bricks). When Prajāpati had become relaxed (disjointed), the deities took him and went away in different directions. Now what part of him there was above the feet and below the waist, that part of him the two Aśvins took and kept going away from him.
१२
विश्वास-प्रस्तुतिः
(न्ता᳘) ता᳘वब्रवीत्॥
(दु᳘) उ᳘प मे᳘तं प्र᳘ति म ऽएत᳘द्धत्तं ये᳘न मे युव᳘मुद᳘क्रमिष्टमि᳘ति किं᳘ नौ त᳘तो भविष्यती᳘ति युवद्देव᳘त्यमेव᳘ म ऽएत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘दश्वि᳘नौ प्र᳘त्यधत्ताम्॥
मूलम् - श्रीधरादि
(न्ता᳘) ता᳘वब्रवीत्॥
(दु᳘) उ᳘प मे᳘तं प्र᳘ति म ऽएत᳘द्धत्तं ये᳘न मे युव᳘मुद᳘क्रमिष्टमि᳘ति किं᳘ नौ त᳘तो भविष्यती᳘ति युवद्देव᳘त्यमेव᳘ म ऽएत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘दश्वि᳘नौ प्र᳘त्यधत्ताम्॥
मूलम् - Weber
ता᳘वब्रवीत्॥
उ᳘प मे᳘तम् प्र᳘ति म एत᳘द्धत्तं ये᳘न मे युव᳘मुद !क्रमिष्टमि᳘ति किं᳘ नौ त᳘तो भविष्यती᳘ति युवद्देव᳘त्यमेव᳘ म एत᳘दात्म᳘नो भविष्यती᳘ति तथे᳘ति त᳘दस्मिन्नेत᳘दश्वि᳘नौ प्र᳘त्यधत्ताम्॥
मूलम् - विस्वरम्
तावब्रवीत्- उप मेतं, प्रति म ऽएतद्धत्तम्, येन मे युवमुदक्रमिष्टमिति । किं नौ ततो भविष्यतीति । युवद्देवत्यमेव म ऽएतदात्मनो भविष्यतीति । तथेति । तदस्मिन्नेतदश्विनौ प्रत्यधत्ताम् ॥ १२ ॥
सायणः
स प्रजापतिः ‘तावब्रवीत्’ हे अश्विनौ ! ‘मा’ माम् ‘उपेतम्’ उपगच्छतम् । मदीयम् ‘एतत्’ अङ्गं ‘प्रतिधत्तम्’ ‘येन’ मदीयाङ्गेन सह ‘युवं’ युवां ‘उदक्रमिष्टमिति’ । ततो ऽश्विनावब्रूताम् । ‘ततः’ तस्मात् प्रतिधानात् ‘नौ’ आवयोः ‘किम्’ प्रयोजनं ‘भविष्यतीति’ । ततः प्रजापतिरब्रवीत् । ‘मे’ मम ‘आत्मनः’ शरीरस्य सम्बन्धि ‘एतद्’ अङ्गम् ‘युवद्देवत्यम्’ ‘भविष्यति’ युवाम् ‘अश्विनौ’ देवते यस्य ‘तत्’ तथोक्तम् । “युवावौ द्विवचने"- (पा. सू. ७ । २ । ९२) इति मपर्यन्तस्य द्व्यर्थस्य युष्मदो युवादेशः । तौ ‘तथेति’ अङ्गीकृत्य ‘अस्मिन्’ प्रजापतौ यदुपात्तभङ्गं तत् पुनः ‘प्रत्यधत्ताम्’ ॥ १२ ॥
Eggeling
- He said to them, ‘Come to me and restore unto me that wherewith ye have gone away from me!’–‘What will accrue to us therefrom?’–‘That part of my body shall be sacred unto you!’–‘So be it!’ so the Aśvins restored that (part) unto him.
१३
विश्वास-प्रस्तुतिः
(न्त) तद्या᳘ ऽएताः प᳘ञ्चाश्वि᳘न्यः[[!!]]॥
(ऽ) एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देता ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैता᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता ऽअत्रो᳘पदधाति॥
मूलम् - श्रीधरादि
(न्त) तद्या᳘ ऽएताः प᳘ञ्चाश्वि᳘न्यः[[!!]]॥
(ऽ) एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देता ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैता᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता ऽअत्रो᳘पदधाति॥
मूलम् - Weber
तद्या᳘ एताः प᳘ञ्चाश्विन्यः᳟॥
एत᳘दस्य त᳘दात्म᳘नस्तद्य᳘देता अ᳘त्रोपद᳘धाति य᳘देॗवास्यैता᳘ आत्म᳘नस्तदस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता अत्रो᳘पदधाति॥
मूलम् - विस्वरम्
तद्या एताः पञ्चाश्विन्यः- एतदस्य तदात्मनः । तद्यदेता अत्रोपदधाति- यदेवास्यैता आत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेता अत्रोपदधाति ॥ १३ ॥
सायणः
किं पुनस्तदङ्गमिति तत्राह- तद्या एता इति । ‘तत्’ तत्र ‘या एताः’ ‘पञ्च’ सङ्ख्याकाः ‘आश्विन्यः’ ‘अस्य’ प्रजापतेः ‘आत्मनः’ ‘एतत्’ एव ‘तत्’ अङ्गं तदश्विभ्यां पूर्वप्रतिहितम् । तस्मादात्मभागे तासामुपधानं कर्तव्यमिति प्रकृतमनुसरति- तद्यदेता इति 10 । ‘अत्र’ आत्मनि । ‘तस्मादेता’ इति प्रतिपादितार्थनिगमनम् ॥ १३ ॥
Eggeling
- Now these five Āśvinī (bricks) are that same (part) of his (Agni’s) body; and when he now puts them into this (layer of the altar), he thereby restores to him what (part) of his body these (bricks) are: that is why he puts them into this (layer).
१४
विश्वास-प्रस्तुतिः
ध्रुव᳘क्षितिर्ध्रुव᳘योनिर्ध्रु᳘वा ऽसी᳘ति॥
यद्वै᳘ स्थिरं यत्प्र᳘तिष्ठितं त᳘द्ध्रुवम᳘थ वा᳘ ऽअस्यैतद᳘स्थिरमिवा᳘ध्रुवमिवात्म᳘न ऽआसीत्त᳘दे᳘वैत᳘त्स्थिरं᳘ ध्रुवं᳘ कृत्वा प्र᳘त्यधत्ताम्॥
मूलम् - श्रीधरादि
ध्रुव᳘क्षितिर्ध्रुव᳘योनिर्ध्रु᳘वा ऽसी᳘ति॥
यद्वै᳘ स्थिरं यत्प्र᳘तिष्ठितं त᳘द्ध्रुवम᳘थ वा᳘ ऽअस्यैतद᳘स्थिरमिवा᳘ध्रुवमिवात्म᳘न ऽआसीत्त᳘दे᳘वैत᳘त्स्थिरं᳘ ध्रुवं᳘ कृत्वा प्र᳘त्यधत्ताम्॥
मूलम् - Weber
ध्रुव᳘क्षितिर्ध्रुव᳘योनिर्ध्रुॗवासी᳘ति॥
यद्वै᳘ स्थिरं यत्प्र᳘तिष्ठितं त᳘द्ध्रुवम᳘थ वा᳘ अस्यैतद᳘स्थिरमिवा᳘ध्रुवमिवात्म᳘न आसीत्त᳘देॗवैत᳘त्स्थिरं᳘ ध्रुवं᳘ कृत्वा प्र᳘त्यधत्ताम्॥
मूलम् - विस्वरम्
“ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवा ऽसि”- इति । यद्वै स्थिरं, यत्प्रतिष्ठितं- तद्ध्रुवम् । अथ वा ऽअस्यैतदस्थिरमिवाध्रुवमिवात्मन आसीत्- तदेवैतत्स्थिरं ध्रुवं कृत्वा प्रत्यधत्ताम् ॥ १४ ॥
सायणः
प्रजापत्यवयवसन्धानरूपे ऽर्थे मन्त्राणामपि सामर्थ्यं प्रतिपादयति- ध्रुवक्षितिरित्यादिना 10 । यद्वै स्थिरम्- इत्यादि प्रागुक्तार्थम् । आत्मन आसीदिति । ‘आत्मनः’ प्रजापतिशरीरस्य सम्बन्ध्यङ्गं ‘अस्थिरमिव’ अदृढमिव ‘अध्रुवम्’ अप्रतिष्ठितम् ‘इव च आसीत्’ ‘एतत्’ एतेन ध्रुवशब्दोपेतमन्त्रेण ‘तदेवैतत्’- अङ्गम् ‘स्थिरं ध्रुवम्’ च कृत्वा अश्विनौ ‘प्रत्यधत्ताम्’ ॥ १४ ॥
Eggeling
- ‘Thou art firmly founded, firmly seated, firm,’ he says, for whatsoever is steady and established that is firm. Now that part of his (Prajāpati-Agni’s) body was, as it were, unsteady, unfirm; and having made it steady and firm they (the Aśvins) restored it to him.
१५
विश्वास-प्रस्तुतिः
(ङ्कु) कुलायि᳘नी घृत᳘वती पु᳘रन्धिरि᳘ति॥
कुला᳘यमिव वा᳘ ऽअस्यैत᳘दात्म᳘नः स्वैर्द᳘क्षैर्द᳘क्षपितेह᳘ सीदेत्य᳘दक्षयतामे᳘वास्यैत᳘दात्म᳘नः पृथिव्याः पु᳘रीषमसी᳘ति पु᳘रीषसᳫँ᳭हितमिव वा᳘ ऽअस्यैत᳘दात्म᳘नो रेतःसि᳘चोर्व्वे᳘लया पृष्टयो[[!!]] वै᳘ रेतःसि᳘चौ पृष्टिसाचय᳘मिव वा᳘ ऽअस्यैत᳘दात्म᳘नः सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तो᳘ ह्यस्यैत᳘दश्वि᳘नावात्म᳘नः प्रत्य᳘धत्ताम्॥
मूलम् - श्रीधरादि
(ङ्कु) कुलायि᳘नी घृत᳘वती पु᳘रन्धिरि᳘ति॥
कुला᳘यमिव वा᳘ ऽअस्यैत᳘दात्म᳘नः स्वैर्द᳘क्षैर्द᳘क्षपितेह᳘ सीदेत्य᳘दक्षयतामे᳘वास्यैत᳘दात्म᳘नः पृथिव्याः पु᳘रीषमसी᳘ति पु᳘रीषसᳫँ᳭हितमिव वा᳘ ऽअस्यैत᳘दात्म᳘नो रेतःसि᳘चोर्व्वे᳘लया पृष्टयो[[!!]] वै᳘ रेतःसि᳘चौ पृष्टिसाचय᳘मिव वा᳘ ऽअस्यैत᳘दात्म᳘नः सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तो᳘ ह्यस्यैत᳘दश्वि᳘नावात्म᳘नः प्रत्य᳘धत्ताम्॥
मूलम् - Weber
कुलायि᳘नी घृत᳘वती पु᳘रंधिरि᳘ति॥
कुला᳘यमिव वा᳘ अस्यैत᳘दात्म᳘नः स्वैर्द᳘क्षैर्द᳘क्षपितेह᳘ सीदेत्य᳘दक्षयतामेॗवास्यैत᳘दात्म᳘नः पृथिव्याः पु᳘रीषमसी᳘ति पु᳘रीषसंहितमिव वा᳘ अस्यैत᳘दात्म᳘नो रेतःसि᳘चोर्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ पृष्टिसाचय᳘मिव वा᳘ अस्यैत᳘दात्म᳘नः सर्व᳘त उ᳘पदधाति सर्व᳘तो ह्यस्यैत᳘दश्वि᳘नावात्म᳘नः प्रत्य᳘धत्ताम्॥
मूलम् - विस्वरम्
“कुलायिनी घृतवती पुरन्धिः”- इति । कुलायमिव वा ऽअस्यैतदात्मनः । “स्वैर्दक्षैर्दक्षपितेह सीद”- इति । अदक्षयतामेवास्यैतदात्मनः । “पृथिव्याः पुरीषमसि”- इति । पुरीषसंहितमिव वा ऽअस्यैतदात्मनः । रेतःसिचोर्वेलया । पृष्टयो वै रेतःसिचौ । पृष्टिसाचयमिव वा ऽअस्यैतदात्मनः । सर्वत उपदधाति । सर्वतो ह्यस्यैतदश्विनावात्मनः प्रत्यधत्ताम् ॥ १५ ॥
सायणः
द्वितीयमन्त्रे ऽप्युक्तार्थपरतामाह- कुलायिनीति । यदेतदश्विभ्यां प्रतिहितमङ्गम् ‘एतत्’ अस्यात्मनः ‘कुलायमिव’ हि भवति । अतः “कुलायिनी” इति मन्त्रेण तत्सन्धानं युज्यत इत्यर्थः । तृतीयमन्त्रस्याप्युक्तार्थपरतां सूचयति- स्वैर्दक्षैरिति । ‘अस्यात्मनः’ प्रजापतिशरीरस्य ‘एतत्’ उक्तमङ्गमश्विनौ ‘अदक्षयताम्’ अवर्द्धयताम् । “दक्ष वृद्धौ”- (धा. पा. भ्वा. प. ६०९) इति धातुः । अस्मिन्मन्त्रे दक्षशब्देन सो ऽर्थः प्रज्ञाप्यते । चतुर्थमन्त्रस्याप्येतदर्थपरतामाह- पृथिव्याः पुरीषमसीति । ‘अस्य’ आत्मनः ‘एतत्’ अश्विभ्यां प्रतिहितमङ्गम् ‘पुरीषसंहितमिव’ पुरीषेण संयुक्तमिव खलु भवति । अतो मन्त्रगतपुरीषशब्देनायमर्थः प्रतिपाद्यत इति तन्मन्त्रप्रयोगो युक्त इत्यर्थः । स्थानविशेषस्याप्येतदर्थानुगुणत्वमाविष्करोति- रेतःसिचोर्वेलयेति । रेतःसिगाख्ये ये इष्टके तयोः समीपे ह्येता आश्विन्य उपधीयन्ते ते च ‘रेतःसिचौ’ ‘पृष्टयः’ कटिप्रदेशास्थीनि पृष्टय इत्युच्यन्ते । ‘पृष्टिसाचयमिव’ पृष्टिभिः कटिसम्बन्धिभिरस्थिभिः सम्बद्धमिव खलु ‘अस्य’ प्रजापतिशरीरस्य ‘एतद्’ अश्विभ्यां प्रतिहितमङ्गम्, अतः पृष्टिसंस्तुतरेतःसिक्समीपोपधानमाश्विनीनां युक्तमिति भावः । सर्वत उपधानमप्यस्मिन्नर्थे योजयति- सर्वत इति । ‘सर्वतः’ सर्वासु प्राच्यादिदिक्षु ‘उपदधाति’ इति । अत्र कारणमाह- सर्वतो हीति । ‘हि’ यस्माद् ‘अस्य’ आत्मनः ‘एतद्’ अङ्गम् ‘अश्विनौ’ सर्वाभ्यो दिग्भ्य आहृत्य ताभिरेवाच्छिन्नं ‘प्रत्यधत्ताम्’ अतः ‘सर्वतः’ उपधानमप्येतत्प्रयोजनसिद्धये सम्पद्यत इत्यर्थः ॥ १५ ॥
Eggeling
- ‘Nestlike, fat, wise,’ he says, for this indeed
is as a nest for his body.–‘By thine own powers seat thee here, a holder of powers,’ he says, for they did make that (part) of him powerful.–‘Thou art the Earth’s soil-cover,’ he says, for that (lower part) of his body is, as it were, in connection with the soil-cover. At the range of the Retaḥsic (he places the bricks),–the Retaḥsic are the ribs, for level with the ribs, as it were, is that (part) of his body. He places them on every side, for on every side the Aśvins restored that (part) of his (Prajāpati’s) body.
१६
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थर्त᳘व्ये ऽउ᳘पदधाति॥
(त्यृ) ऋत᳘व ऽएते य᳘दृत᳘व्ये ऽऋतू᳘ने᳘वैतदु᳘पदधाति शुक्र᳘श्च शु᳘चिश्च ग्रै᳘ष्मावृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदु᳘पदधाति द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थर्त᳘व्ये ऽउ᳘पदधाति॥
(त्यृ) ऋत᳘व ऽएते य᳘दृत᳘व्ये ऽऋतू᳘ने᳘वैतदु᳘पदधाति शुक्र᳘श्च शु᳘चिश्च ग्रै᳘ष्मावृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदु᳘पदधाति द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥
मूलम् - Weber
अ᳘थ ऽर्तॗव्ये उ᳘पदधाति॥
ऋत᳘व एते य᳘दृतॗव्ये ऋतू᳘नेॗवैतदु᳘पदधाति शुक्र᳘श्च शु᳘चिश्च ग्रै᳘ष्मावृतू इ᳘ति ना᳘मनी एनयोरेते ना᳘मभ्यामेॗवैने एतदु᳘पदधाति द्वे इष्टके भवतो द्वौ हि मा᳘सावृतुः सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥
मूलम् - विस्वरम्
अथ ऋतव्येष्टकोपधानम् ।
अथ ऽर्तव्ये ऽउपदधाति । ऋतव एते- यदृतव्ये । ऋतूनेवैतदुपदधाति । शुक्रश्च शुचिश्च ग्रैष्मावृतू"- (वा. सं. १४ । ६) इति । नामनी ऽएनयोरेते । नामभ्यामेवैने ऽएतदुपदधाति । द्वे ऽइष्टके भवतः । द्वौ हि मासावृतुः । सकृत्सादयति । एकं तदृतुं करोति ॥ १६ ॥
सायणः
इत्थमाश्विनीर्विधाय ऋतव्ययोरुपधानं विधत्ते- अथर्तव्ये 11 उपदधातीति । ‘अथ’ आश्विन्युपधानानन्तरम् ‘ऋतव्ये’ ऋतुदेवताके इष्टके उपदध्यात् । तत्प्रशंसति- ऋतव एत इति । संवत्सरात्मकस्य चित्यस्याग्ने- “मधुश्च माधवश्च” इत्यादिमन्त्रैरुपधेया ऋतव्या इष्टका ऋतुस्थानीया अतस्तेनैव ऋतव्योपधानेनैव ‘ऋतून्’ स्थापितवान्भवतीत्यर्थः । मन्त्रं विधाय व्याचष्टे- शुक्रश्च शुचिश्चेति । नामनी एनयोरिति । ‘एनयोः’ ग्रीष्मर्त्वात्मिकयोर्ऋतव्ययोः ‘एते’ शुक्रशुचिशब्दरूपे ‘नामनी’ अतो ‘नामभ्यामेव’ एतयोरुपधानं कृतं भवतीः त्यर्थः । “ऋतव्ये उपदधाति” इति विशिष्टविधिनैव सिद्धं द्वित्वमनूद्य स्तौति- द्वे इष्टके भवतो द्वौ हि मासावृतू हति । ‘हि’ शब्दः सर्वजनप्रसिद्धिद्योतनार्थः । इष्टकयोर्द्वित्वात् पृथक् सादनप्रसक्तावाह- सकृत्सादयतीति । ‘तत्’ सेन सकृत्त्वकरणेन ‘ऋतुमेकम्’ अद्वयात्मकं ‘करोति’ यजमानः ॥ १६ ॥
Eggeling
- He then lays down two Ritavyā 12 (seasonal bricks);–these two, the R̥tavyā, are the seasons (r̥tu): it is the seasons he thus bestows thereon. [He lays them down, with Vāj. S. XIV, 6], ‘Śukra and Śuci, the two summer-seasons;’–these are the names of these two: it is with their names that he thus lays them down. There are two bricks, for a season consists of two months. He settles them once only: he thereby makes (the two months) one season.
१७
विश्वास-प्रस्तुतिः
तद्य᳘देते ऽअ᳘त्रोपद᳘धाति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘रिम᳘ ऽउ लोकाः᳘ संव्वत्सरस्त᳘स्य य᳘दूर्ध्वं᳘ पृथिव्या᳘ ऽअर्व्वाची᳘नमन्त᳘रिक्षात्त᳘दस्यैषा᳘ द्विती᳘या चि᳘तिस्त᳘द्वस्य ग्रीष्म᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति॥
मूलम् - श्रीधरादि
तद्य᳘देते ऽअ᳘त्रोपद᳘धाति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘रिम᳘ ऽउ लोकाः᳘ संव्वत्सरस्त᳘स्य य᳘दूर्ध्वं᳘ पृथिव्या᳘ ऽअर्व्वाची᳘नमन्त᳘रिक्षात्त᳘दस्यैषा᳘ द्विती᳘या चि᳘तिस्त᳘द्वस्य ग्रीष्म᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति॥
मूलम् - Weber
तद्य᳘देते अ᳘त्रोपद᳘धाति॥
संवत्सर᳘ एॗषो ऽग्नि᳘रिम᳘ उ लोकाः᳘ संवत्सरस्त᳘स्य य᳘दूर्ध्व᳘म् पृथिव्या अर्वाची᳘नमन्त᳘रिक्षात्त᳘दस्यैषा᳘ द्विती᳘यां चि᳘तिस्त᳘द्वस्य ग्रीष्म᳘ ऋतुस्तद्य᳘देते अ᳘त्रोपद᳘धाति॥
मूलम् - विस्वरम्
तद्यदेते ऽअत्रोपदधाति । संवत्सर एषो ऽग्निः । इम उ लोकाः संवत्सरः । तस्य यदूर्ध्वं पृथिव्याः, अर्वाचीनमन्तरिक्षात्- तदस्यैषा द्वितीया चितिः । तद्वस्य ग्रीष्म ऋतुः । तद्यदेते- अत्रोपदधाति । यदेवास्यैते ऽआत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेते ऽअत्रोपदधाति ॥ १७ ॥
सायणः
ऋतव्ययोर्द्वितीयचितावुपधानं प्रशंसति- तद्यदेते अत्रेति । वसन्ताद्यृत्विष्टकानिष्पाद्यत्वाद् ‘एषः’ चीयमानो ऽग्निः ‘संवत्सरः’ स च संवत्सर ‘इमे लोकाः’ खलु संवत्सरात्मकेन प्रजापतिना सृष्टत्वात् । अग्नेः संवत्सररूपस्य लोकत्रयात्मकत्वकल्पनायाः प्रयोजनमाह- तस्य यदूर्ध्वमिति । पृथिव्याः प्रथमचित्यात्मकतायाः प्रागुक्तत्वात् (श. प. ८ । २ । १ । १) तत उपरितनम्, अन्तरिक्षादधस्तनं यदस्ति; ‘तदस्य’ अग्नेर्द्वितीयचितिस्थानीयम् । ‘तदु’ तदेव ‘अस्य’ संवत्सररूपस्य ‘ग्रीष्म ऋतुः’ ‘तत्’ तस्मात् ‘एते’ इष्टके ‘अत्र’ द्वितीयायां चितौ ‘उपदधाति’ इति यत् ‘तत्’ तेन ‘यदेवास्य’ अग्नेः ‘आत्मनः’ शरीरस्य इष्टकाद्वयरूपमङ्गं विकलमभूत्; ‘तत्’ विकलम् ‘अस्मिन्’ आत्मनि ‘एतत्’ इदानीम् ‘प्रतिदधाति’ पुनः स्थापितवान् भवति । ‘तस्मादेते’ इति निगमनम् । अयमर्थः- लोकत्रयात्मकस्य चित्याग्नेर्यत्पृथिव्यन्तरिक्षान्तरालरूपमङ्गं तद्द्वितीयचित्यनुष्ठानेन यत्तु संवत्सरात्मकस्य ग्रीष्मर्तुरूपं तदृतव्ययोरुपधानेन प्रतिहितं भवतीति ॥ १७ ॥
Eggeling
- And as to why he lays down these two in this (layer):–this Agni (fire-altar) is the year, and the year is these worlds. Now that part of him which is above the earth and below the atmosphere, is this second layer; and that same part of him (Agni, the year,) is the summer season. And when he lays down those two in this (layer), he thereby restores to him (Agni) that part of his body which these two are: this is why he lays down these two (bricks) in this (layer).
१८
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैते ऽअ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरे᳘षो ऽग्निः᳘ संव्वत्सर᳘ ऽउ प्रजा᳘पतिस्त᳘स्य य᳘दूर्ध्वं᳘ प्रतिष्ठा᳘या ऽअवाची᳘नं म᳘ध्यात्त᳘दस्यैषा᳘ द्विती᳘या चि᳘तिस्त᳘द्वस्य ग्रीष्म᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैते ऽअ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरे᳘षो ऽग्निः᳘ संव्वत्सर᳘ ऽउ प्रजा᳘पतिस्त᳘स्य य᳘दूर्ध्वं᳘ प्रतिष्ठा᳘या ऽअवाची᳘नं म᳘ध्यात्त᳘दस्यैषा᳘ द्विती᳘या चि᳘तिस्त᳘द्वस्य ग्रीष्म᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति॥
मूलम् - Weber
य᳘द्वेॗवैते अ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरेॗषो ऽग्निः᳘ संवत्सर᳘ उ प्रजा᳘पतिस्त᳘स्य य᳘दूर्ध्व᳘म् प्रतिष्ठा᳘या अवाची᳘नम् म᳘ध्यात्त᳘दस्यैषा᳘ द्विती᳘या चि᳘तिस्त᳘द्वस्य ग्रीष्म᳘ ऋतुस्तद्य᳘देते अ᳘त्रोपद᳘धाति य᳘देॗवास्यैते᳘ आत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते अत्रो᳘पदधाति॥
मूलम् - विस्वरम्
यद्वेवैते ऽअत्रोपदधाति । प्रजापतिरेषो ऽग्निः । संवत्सर उ प्रजापतिः । तस्य यदूर्ध्वं प्रतिष्ठायाः, अवाचीनं मध्यात्- तदस्यैषा द्वितीया चितिः । तद्वस्य ग्रीष्म ऋतुः । तद्यदेते ऽअत्रोपदधाति- यदेवास्यैते ऽआत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेते ऽअत्रोपदधाति ॥ १८ ॥
सायणः
पुनः प्रकारान्तरेण प्रशंसति- यद्वेवैते इत्यादिना । ‘एषः’ चीयमानः ‘अग्निः प्रजापतिः’ सो ऽपि संवत्सर एव किं ? ततः ‘तस्य’ संवत्सरादभिन्नस्य प्रजापतिरूपस्याग्नेः ‘यत्’ ‘प्रतिष्ठायाः’ प्रतिष्ठा पादौ तत ‘ऊर्ध्वम्’ ‘मध्यात्’ कटिप्रदेशादधस्तनं च यदस्ति । शिष्टं पूर्ववत् ॥ १८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे द्वितीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (८-२-१) ॥
Eggeling
- And, again, as to why he lays down these two in this (layer). This fire-altar is Prajāpati, and Prajāpati is the year. Now that (part) of him which is above the feet and below the waist is this second layer; and that same part of him is the summer season. Thus when he lays down those two in this (layer), he thereby restores to him that (part) of his body which these two ale: this is why he lays down these two (bricks) in this (layer).
-
अत्र महीधरः “कीदृशं ‘साधुया’ साधुं श्रेष्ठम् “सुपां सुलुक्” (पा. सू. ७ । १ । ३९) इत्यमो यादेशः” इति व्याख्यातवान् । ↩︎
-
23:1 The main portion of the special bricks of the second layer consists of five, or (if, for the nonce, we take the two southern sets of half-bricks as one) of four sets of four bricks each, or of together sixteen bricks, each measuring a foot square, placed on the range of the retaḥsic bricks so as to form the outer rim of a square measuring five feet on each side, and having in the middle a blank square of nine square feet. Each of the four sides of the retaḥsic rim contains a complete set of four bricks; but as there are five bricks on each side, the one in the left-hand corner (looking at them from the centre of the square) is counted along with the adjoining set. Each set, proceeding from left to right (that is, in sunwise fashion), consists of the following bricks,–āśvinī, vaiśvadevī, prāṇabhr̥t, and apasyā, the last of these occupying the corner spaces. The southern bricks consist, however, of two sets of half-bricks (running with their long sides from west to east), counted as the second and fifth set respectively. The eastern and western bricks are laid down so that their line-marks (which, in the case of the bricks of the second and fourth layers, are of an indefinite number) run from west to east; whilst those of the southern and northern ones run from south to north. All the five bricks of each class, beginning with the āśvinīs, are laid down at the same time, proceeding again in sunwise fashion (east, south, &c.); the ↩︎
-
25:1 This comparison doubtless refers to the way in which the central portion of the special bricks of this layer are arranged so as completely to enclose an empty space in the middle.. In the first layer there was, no doubt, a similar enclosure of bricks as the retaḥsic range, but the central space was not left quite empty. In the end, however, the empty spaces are in both cases filled up by ‘space-fillers.’ ↩︎
-
25:2 The author seems to take ‘rasa’ as an adjective (= ramaṇīya), as does Mahīdhara, who interprets the formula as meaning ‘for the gods’ great, cheerful happiness.’ ↩︎
-
26:1 The word ‘apsas,’ which western philologists usually take to mean ‘cheek,’ is here apparently connected with ‘ap,’ water. ↩︎
-
26:2 Literally, ‘having stomas on her back.’ Mahīdhara interprets ‘stoma-pr̥shṭḥā’ by ‘possessed of stomas and Pr̥shṭḥas.’ Sāyaṇa, on Taitt. S. III, 7, 2, 7, by ‘(Pr̥shṭḥa-)stotras performed with stomas.’ ↩︎
-
26:3 ‘Samyañc’ may either mean ’tending to one and the same point,’ or ‘running in the same direction, parallel to each other.’ It is probably in the former sense that we have to take it here, though not quite literally, but in so far as the line-marks of these bricks, if continued towards the centre of the altar, intersect one another. As applied to the quarters this meaning would then modify itself to that of ‘facing each other.’ On the other hand, it is quite possible that the meaning of ’tending in the same direction’ is the one intended; and it would in that case probably apply to the fact that the sets opposite to each other have their line-marks running in the same direction, or are parallel to each other; and this meaning would seem to be implied to the quarters where the author supports his argument by the fact that the wind blows, and the rain falls, in the same direction in all the four quarters (VIII, 2, 3, 2; 5). It is curious that the expression is used by the author in connection with the āśvinī, prāṇabhr̥t, and apasyā, but not with the vaiśvadevī, the line-marks of which all meet in one central point, which is not the case with the others. At VIII, 3, 1, 11, on the other hand, it is used again in connection with the Diśyā bricks, which, in the third layer, occupy exactly the same spaces as the Vaiśvadevīs do here. ↩︎
-
27:1 Or, that direction is the one upward (from here). ↩︎
-
27:2 That is to say, he places it immediately north of the southern āśvinī, so as to fill up the unoccupied, inner half of the space (of a foot square). ↩︎
-
द्वितीयायामाश्विनीः प्रतिदिशम् । रेतःसिग्वेलायामनूकमुत्तरेण पूर्व्वा द्वितीये दक्षिणा पूर्व्वेण । अपरा दक्षिणेन उत्तरा ऽपरेण दक्षिणामुत्तरेण पंचमी । का. श्रौ. सू. । १७ । १६५-१७० । ↩︎ ↩︎
-
शुक्रश्च शुचिश्चेत्यृतव्ये पूर्व्वयोरुपरि । का. श्रौ. सू. १७ । १८१ । ↩︎
-
29:1 These two bricks are placed exactly upon the two R̥tavyās of the first layer, that is, in the fifth space from the centre; see p. 1, note 1. ↩︎