०१
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
किं᳘ प्राणाः किं᳘ प्राणभृ᳘त ऽइ᳘ति प्राणा᳘ ऽएव᳘ प्राणा ऽअ᳘ङ्गानि प्राणभृन्त्य᳘ङ्गानि हि᳘ प्राणान्बि᳘भ्रति प्राणा᳘स्त्वेव᳘ प्राणा ऽअ᳘न्नं प्राणभृद᳘न्नᳫँ᳭ हि᳘ प्राणा᳘न्बिभ᳘र्त्ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
किं᳘ प्राणाः किं᳘ प्राणभृ᳘त ऽइ᳘ति प्राणा᳘ ऽएव᳘ प्राणा ऽअ᳘ङ्गानि प्राणभृन्त्य᳘ङ्गानि हि᳘ प्राणान्बि᳘भ्रति प्राणा᳘स्त्वेव᳘ प्राणा ऽअ᳘न्नं प्राणभृद᳘न्नᳫँ᳭ हि᳘ प्राणा᳘न्बिभ᳘र्त्ति॥
मूलम् - Weber
त᳘दाहुः॥
कि᳘म् प्राणाः कि᳘म् प्राणभृ᳘त इ᳘ति प्राणा᳘ एव᳘ प्राणा अ᳘ङ्गानि प्राणभृन्त्य᳘ङ्गानि 1 हि᳘ प्राणान्बि᳘भ्रति प्राणाॗस्त्वेव᳘ प्राणा अ᳘न्नम् प्राणभृद᳘न्नᳫं हि᳘ प्राणा᳘न्बिभ᳘र्ति॥
मूलम् - विस्वरम्
तदाहुः- किं प्राणाः, किं प्राणभृत इति । प्राणा एव प्राणाः, अङ्गानि प्राणभृन्ति । अङ्गानि हि प्राणान्बिभ्रति । प्राणास्त्वेव प्राणाः, अनं प्राणभृत् । अन्नं हि प्राणान्बिभर्ति ॥ १ ॥
सायणः
प्राणान् बिभ्रतीति प्राणभृत इति नामनिर्वचनं कृतम्, तत्र प्राणस्वरूपं प्राणभृत्स्वरूपं च विशदयितुं ब्रह्मवादिनां प्रश्नमुद्भावयति- तदाहुरिति । तत्रोदीरितप्रश्नांश्चोदयन्ति- प्राणानां प्राणभृतां च किं स्वरूपमिति । उत्तरमाह- प्राणा इति । प्राणा एवात्रापि प्राणाः विवक्षिताः, नान्ये । ‘अङ्गानि’ शरीरावयवभूताश्चक्षुराद्याः । कथमेतदित्यत आह- अङ्गानि हीति । यस्माद् ‘अङ्गानि’ ‘प्राणान् बिभ्रति’ धारयन्ति पोषयन्ति वा, तस्मात्तानि ‘प्राणभृतः’ । प्रकारान्तरेण प्रतिवक्ति- प्राणास्त्वेवेति । ‘तु’- शब्दः पक्षव्यावर्तकः अस्मिन्नपि पक्षे प्राणा एव प्राणाः; ‘प्राणभृत्’ तु ‘अन्नम्’ एव । तत्प्रतिपादयति- अन्नं हीति । अन्नरसस्य प्राणपोषकत्वं प्रसिद्धमिति ‘हि’ शब्दार्थः ॥ १ ॥
Eggeling
- As to this they say, ‘What are the vital airs (prāṇa), and what the Prāṇabhr̥taḥ?’–The vital airs are just the vital airs, and the Prāṇabhr̥taḥ (holders of the vital airs) are the limbs, for the limbs do hold the vital airs. But, indeed, the vital airs are the vital airs, and the Prāṇabhr̥t is food, for food does uphold the vital airs.
०२
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
कथ᳘मस्यैताः स᳘र्व्वाः प्राजापत्या᳘ भवन्ती᳘ति य᳘देव स᳘र्वास्वा᳘ह प्रजा᳘पतिगृहीतया त्वये᳘त्येव᳘मु हास्यैताः स᳘र्व्वाः प्राजापत्या᳘ भवन्ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
कथ᳘मस्यैताः स᳘र्व्वाः प्राजापत्या᳘ भवन्ती᳘ति य᳘देव स᳘र्वास्वा᳘ह प्रजा᳘पतिगृहीतया त्वये᳘त्येव᳘मु हास्यैताः स᳘र्व्वाः प्राजापत्या᳘ भवन्ति॥
मूलम् - Weber
त᳘दाहुः॥
कथ᳘मस्यैताः स᳘र्वाः प्राजापत्या᳘ भवन्ती᳘ति य᳘देव स᳘र्वास्वा᳘ह प्रजा᳘पतिगृहीतया त्वये᳘त्येव᳘मु हास्यैताः स᳘र्वाः प्राजापत्या᳘ भवन्ति॥
मूलम् - विस्वरम्
तदाहुः- कथमस्यैताः सर्वाः प्राजापत्या भवन्तीति । यदेव सर्वास्वाह- प्रजापतिगृहीतया त्वयेति । एवमु हास्यैताः सर्वाः प्राजापत्या भवन्ति ॥ २ ॥
सायणः
“अयं पुरो भुवः”- (वा. सं. १३ । ५४) इत्यादिकैर्विभक्तैः पञ्चाशन्मन्त्रैः पञ्चाशदिष्टका उपधेया इत्येकः पक्षस्तमेवाभिप्रेत्य प्रश्नमुद्भावयति- तदाहुः कथमस्यैता इति । ‘तत्’ तत्र ‘आहुः’ चोदयन्ति ब्रह्मवादिनः, ‘अस्य’ अग्नेः सम्बन्धिन्यः ‘एताः’ पञ्चाशदिष्टकाः ‘सर्वाः’ ‘कथम्’ ? ‘प्राजापत्याः’ प्रजापतिदेवताका उपहिता ‘भवन्तीति’ तस्मिन्पक्षे एकस्मिन्नेव हि मन्त्रे “प्रजापतिगृहीतया” इति पदं, न सर्वत्र, अतः सर्वासां प्राजापत्यता न सम्भवतीति । अस्योत्तरमाह- यदेव सर्वास्वाहेति । यस्मादेव कारणात् ‘सर्वासु’ अपि पञ्चाशदिष्टकासु यत् “प्रजापतिगृहीतया” इति ‘आह’ अनेनैव खलु ‘एताः’ प्राणभृतः ‘सर्वाः’ ‘प्राजापत्याः भवन्ति’ । अयमभिसन्धिः, यद् “अयं पुरः” इत्यादीनां विभक्तानां मन्त्राणां प्रयोग एव न सम्भवति, अपरिसमाप्तार्थत्वात् । “अयं पुरः” इत्यारभ्य “प्रजाभ्यः”- इत्यन्ते ह्येको ऽर्थः परिसमाप्यते । एकार्थावच्छेदकत्वादेको मन्त्र इति प्रतीष्टकं सङ्घ एवावर्तनीयः । अतः सर्वास्वपीष्टकासु प्रजापतिगृहीतयेत्येतत्प्रजापतिशब्दसम्बन्धो भविष्यतीति सर्वासां प्राजापत्यतासिद्धिरिति ॥ २ ॥
Eggeling
- As to this they say, ‘How do all these (Prāṇabhr̥t-bricks) of him (Agni and the Sacrificer) come to be of Prajāpati’s nature?’–Doubtless in that with all of them he says, ‘By thee, taken by Prajāpati:’ it is in this way, indeed, that they all come to be for him of Prajāpati’s nature 2.
०३
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य) यद्ग्र᳘हाय गृहीता᳘य स्तुवते᳘ ऽथ श᳘ᳫँ᳘सत्य᳘थ क᳘स्मात्पुर᳘स्ताद् ग्र᳘हाणामृ᳘चश्च सा᳘मानि चो᳘पदधाती᳘ति सᳫँ᳭स्था वै क᳘र्मणो ऽन्वीक्षित᳘व्यर्चा वै᳘ प्रतिप᳘दा ग्र᳘हो गृह्यत ऽऋचि सा᳘म गीयते त᳘दस्यैतद्य᳘त्पुर᳘स्ताद्ग्र᳘हाणामृ᳘चश्च सा᳘मानि चोपद᳘धात्य᳘थ य᳘दुप᳘रिष्टाद्ग्र᳘हाणाᳫँ᳭ स्तुतशस्त्रे भ᳘वतस्त᳘द्वस्यैतद्य᳘दुप᳘रिष्टाद्ग्र᳘हाणाᳫँ᳭ स्तो᳘मांश्च पृष्ठा᳘नि चोपद᳘धाति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य) यद्ग्र᳘हाय गृहीता᳘य स्तुवते᳘ ऽथ श᳘ᳫँ᳘सत्य᳘थ क᳘स्मात्पुर᳘स्ताद् ग्र᳘हाणामृ᳘चश्च सा᳘मानि चो᳘पदधाती᳘ति सᳫँ᳭स्था वै क᳘र्मणो ऽन्वीक्षित᳘व्यर्चा वै᳘ प्रतिप᳘दा ग्र᳘हो गृह्यत ऽऋचि सा᳘म गीयते त᳘दस्यैतद्य᳘त्पुर᳘स्ताद्ग्र᳘हाणामृ᳘चश्च सा᳘मानि चोपद᳘धात्य᳘थ य᳘दुप᳘रिष्टाद्ग्र᳘हाणाᳫँ᳭ स्तुतशस्त्रे भ᳘वतस्त᳘द्वस्यैतद्य᳘दुप᳘रिष्टाद्ग्र᳘हाणाᳫँ᳭ स्तो᳘मांश्च पृष्ठा᳘नि चोपद᳘धाति॥
मूलम् - Weber
त᳘दाहुः॥
यद्ग्र᳘हाय गृहीता᳘य स्तुवते᳘ ऽथ श᳘ᳫं᳘सत्य᳘थ क᳘स्मात्पुर᳘स्ताद्ग्र᳘हाणामृ᳘चश्च सा᳘मानि चो᳘पदधाती᳘ति संस्था वै क᳘र्मणो ऽन्वीक्षित᳘व्य ऽर्चा वै᳘ प्रतिप᳘दा ग्र᳘हो गृह्यत ऋचि सा᳘म गीयते त᳘दस्यैतद्य᳘त्पुर᳘स्ताद्ग्र᳘हाणामृ᳘चश्च सा᳘मानि चोपद᳘धात्य᳘थ य᳘दुप᳘रिष्टाद्ग्र᳘हाणाᳫं स्तुतशस्त्रे भ᳘वतस्त᳘द्वस्यैतद्य᳘दुप᳘रिष्टाद्ग्र᳘हाणाᳫं स्तो᳘मांश्च पृष्ठा᳘नि चोपद᳘धाति॥
मूलम् - विस्वरम्
तदाहुः- यद्ग्रहाय गृहीताय स्तुवते- अथ शंसति- अथ कस्मात्पुरस्ताद्ग्रहाणामृचश्च सामानि चोपदधातीति । संस्था वै कर्मणो ऽन्वीक्षितव्या । ऋचा वै प्रतिपदा ग्रहो गृह्यते, ऋचि साम गीयते । तदस्यैतद्- यत्पुरस्ताद्ग्रहाणामृचश्च सामानि चोपदधाति । अथ यदुपरिष्टाद् ग्रहाणां स्तुतशस्त्रे भवतः- तद्वस्यैतद्- यदुपरिष्टाद् ग्रहाणां स्तोमांश्च पृष्ठानि चोपदधाति ॥ ३ ॥
सायणः
अथ मन्त्रगतानुपूर्व्या ऋक्सामग्रहाणां प्रतीयमानमानन्तर्यमाक्षिप्य समाधत्ते- तदाहुर्यद्ग्रहाय गृहीतायेत्यादिना । एवं ह्यनुष्ठानक्रमः- प्रथमं ग्रहग्रहणम्, पश्चात्स्तोत्रम्, तदनन्तरं शस्त्रमिति । नन्वत्र गायत्रादिसामानि वैपरीत्येनोपदधातीत्याक्षेपः । संस्था वा इति । ‘संस्था’ निष्पत्तिः ‘अन्वीक्षितव्या’ अनुक्रमेण द्रष्टव्या । प्रतिपद्यते देवतास्वरूपं ज्ञायते अनयेति ‘प्रतिपत्’ तया खलु ‘ऋचा’ प्रथममैन्द्रवायवादि- ‘ग्रहो गृह्यते,’ ततः सामाधारभूतायाम् ‘ऋचि’ ‘साम गीयते’ सामगानं क्रियते । ‘तत्’ तस्मात्साम्न ऋगाश्रितत्वादृचश्च प्रतिपद्रूपत्वाद् ग्रहग्रहणात्पूर्वभावित्वात्, ऋचां गायत्रीत्रिष्टुबादीनां, साम्नां गायत्रसामादीनां च उपांश्वादिग्रहेभ्यः पूर्वमुपधानमुत्पत्तिक्रमानुरोधाद्युक्तमित्यर्थः । तथा प्रयोगक्रमानुसारेणाप्युपांश्वादीनां ग्रहाणां ‘उपरिष्टाद्’ उत्तरकाले उपांशोस्त्रिवृत् त्रिवृतो रथन्तरमित्यादिना त्रिवृदादीन्स्तोमान् रथन्तरादीनि पृष्ठसामानि च ‘उपदधाति’ अतो न क्रमभङ्ग इत्यर्थः ॥ ३ ॥
Eggeling
- As to this they say, ‘As they chant and recite for the cup when drawn, wherefore, then, does he put in verses and hymn-tunes 3 before (the drawing of) the cups?’–Doubtless, the completion of the sacrificial work has to be kept in view;–now with the opening hymn-verse the cup is drawn; and on the verse (r̥c) the tune (sāman) is sung: this means that he thereby puts in for him (Agni) both the verses and hymn-tunes before (the drawing of) the cups. And when after (the drawing of) the cups there are the chanting (of the Stotra) and the recitation (of the Śastra): this means that thereby he puts in for him both the stomas (hymn-forms) and the pr̥shṭḥa (sāmans) after (the drawing of) the cups 4.
०४
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य᳘) य᳘देत᳘त्त्रयᳫँ᳘ सह᳘ क्रिय᳘ते ग्र᳘ह स्तोत्र᳘ᳫँ᳘ शस्त्रमथा᳘त्र ग्र᳘हं चैव᳘ स्तोत्रं᳘ चोपद᳘धाति कथ᳘मस्यात्रा᳘पि शस्त्रमु᳘पहितं भवती᳘ति यद्वाव᳘ स्तोत्रं त᳘च्छस्त्रं या᳘सु ह्येव᳘ स्तुव᳘ते ता᳘ ऽउ ऽएवा᳘नुशᳫँ᳭सन्त्येव᳘मु हास्यात्रा᳘पि शस्त्रमु᳘पहितं भवति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य᳘) य᳘देत᳘त्त्रयᳫँ᳘ सह᳘ क्रिय᳘ते ग्र᳘ह स्तोत्र᳘ᳫँ᳘ शस्त्रमथा᳘त्र ग्र᳘हं चैव᳘ स्तोत्रं᳘ चोपद᳘धाति कथ᳘मस्यात्रा᳘पि शस्त्रमु᳘पहितं भवती᳘ति यद्वाव᳘ स्तोत्रं त᳘च्छस्त्रं या᳘सु ह्येव᳘ स्तुव᳘ते ता᳘ ऽउ ऽएवा᳘नुशᳫँ᳭सन्त्येव᳘मु हास्यात्रा᳘पि शस्त्रमु᳘पहितं भवति॥
मूलम् - Weber
त᳘दाहुः॥
य᳘देत᳘त्त्रयᳫं सह᳘ क्रिय᳘ते ग्र᳘ह स्तोत्रं᳘ शस्त्रमथा᳘त्र ग्र᳘हं चैव᳘ स्तोत्रं᳘ चोपद᳘धाति कथ᳘मस्यात्रा᳘पि शस्रमु᳘पहितं यद्वाव᳘ स्तोत्रं त᳘छस्त्रं या᳘सु ह्येव᳘ स्तुव᳘ते ता᳘ उ एवा᳘नुशंसत्येव᳘मु हास्यात्रा᳘पि शस्त्रमु᳘पहितम् भवति॥
मूलम् - विस्वरम्
तदाहुः- यदेतत्त्रयं सह क्रियते- ग्रहः, स्तोत्रम्, शस्त्रम् । अथात्र ग्रहं चव स्तोत्रं चोपदधाति । कथमस्यात्रापि शस्त्रमुपहितं भवतीति । यद्वाव स्तोत्रं- तच्छस्त्रम् । यासु ह्येव स्तुवते- ता ऽउ एवानुशंसन्ति । एवमु हास्यात्रापि शस्त्रमुपहितं भवति ॥ ४ ॥
सायणः
अन्यं प्रश्नमुद्भाव्य समाधत्ते- तदाहुर्यदेतत्त्रयमिति । ग्रह-स्तोत्र-शस्त्राणि पौर्वापर्येण ‘सह’ प्रयुज्यन्ते । अत्र तु प्राणभृद्रूपोपांश्वादिग्रहं रथन्तरादिपृष्ठस्तोत्रं तत्तत्प्रतिपादकमन्त्रभागेन कृत्वा इष्टकात्वेन ‘उपदधाति’ । अथास्याध्वर्योः ‘कथम्’ केन प्रकारेण ‘अत्र’ प्राणभृत्सु आज्यप्रउगादि ‘शस्त्रमप्युपहितं भवतीति’ प्रश्नः । स्तोत्रोपधानादेव शस्त्रस्याप्युपधानं सिध्यतीत्याह- यद्वाव स्तोत्रमिति । ‘यद्’ एव हि ‘स्तोत्रम्’ ‘तद्’ एव ‘शस्त्रम्’ तयोः प्रगीताप्रगीतत्वमेव विशेषः । एतदेवाह- यासु ह्येवेति । ‘यासु हि’ स्तोत्रियासु ऋक्षु ‘स्तुवते’ रथन्तरादीनि सामानि गायन्ति सामगाः ‘ताः’ एवर्चो होतृमैत्रावरुणादयः ‘अनुशंसन्ति’ । अत स्तोत्रशस्त्रयोर्भेदाभावात्स्तोत्रोपधानेन ‘शस्त्रमपि’ अस्य ‘उपहितम्’ एव ‘भवति’ इत्यर्थः ॥ ४ ॥
Eggeling
- As to this they say, ‘If these three are done together–the soma-cup, the chant, and the recitation,–and he puts in only the soma-cup and the chant, how comes the recitation also in this case to be put (into the sacrificial work) for him 5?’ But, surely, what the chant is that is the recitation 6; for on whatsoever (verses) they chant a tune, those same (verses) he (the Hotr̥) recites thereafter 7; and in this way, indeed, the Śastra also comes in this case to be put in for him.
०५
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य) यद्य᳘था पितुः᳘ पुत्र᳘मेवं त्री᳘णि प्रथमान्याहा᳘थ क᳘स्मादृक्साम᳘योः सं᳘क्रामती᳘ति सा᳘म वा᳘ ऽऋचः प᳘तिस्तद्यत्तत्रा᳘पि य᳘था पितुः[[!!]] पुत्र᳘मेवं᳘ ब्रूयाद्य᳘था प᳘तिᳫँ᳭ स᳘न्तं पुत्रं᳘ ब्रूया᳘त्तादृक्तत्त᳘स्मादृक्साम᳘योः सं᳘क्रामति क᳘स्मादु त्रिः सं᳘तनोती᳘ति पित᳘रं पुत्रं पौ᳘त्रं तांस्तत्सं᳘तनोति त᳘स्मादु ते᳘भ्य ऽए᳘क ऽएव᳘ ददाति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य) यद्य᳘था पितुः᳘ पुत्र᳘मेवं त्री᳘णि प्रथमान्याहा᳘थ क᳘स्मादृक्साम᳘योः सं᳘क्रामती᳘ति सा᳘म वा᳘ ऽऋचः प᳘तिस्तद्यत्तत्रा᳘पि य᳘था पितुः[[!!]] पुत्र᳘मेवं᳘ ब्रूयाद्य᳘था प᳘तिᳫँ᳭ स᳘न्तं पुत्रं᳘ ब्रूया᳘त्तादृक्तत्त᳘स्मादृक्साम᳘योः सं᳘क्रामति क᳘स्मादु त्रिः सं᳘तनोती᳘ति पित᳘रं पुत्रं पौ᳘त्रं तांस्तत्सं᳘तनोति त᳘स्मादु ते᳘भ्य ऽए᳘क ऽएव᳘ ददाति॥
मूलम् - Weber
त᳘दाहुः॥
यद्य᳘था पितुः᳘ पुत्र᳘मेवं त्री᳘णि प्रथमान्याहा᳘थ क᳘स्मादृक्साम᳘योः सं᳘क्रामती᳘ति सा᳘म वा᳘ ऋचः प᳘तिस्तद्यत्तत्रा᳘पि य᳘था पितुः᳘ पुत्र᳘मेव᳘म् ब्रूयाद्य᳘था प᳘तिᳫं स᳘न्तम् पुत्र᳘म् ब्रूया᳘त्तादृक्तत्त᳘स्मादृक्साम᳘योः सं᳘क्रामति क᳘स्मादु त्रिः सं᳘तनोती᳘ति पित᳘रम् पुत्रम् पौ᳘त्रं तांस्तत्सं᳘तनोति त᳘स्मादु ते᳘भ्य ए᳘क एव᳘ ददाति॥
मूलम् - विस्वरम्
तदाहुः- यद्यथा पितुः पुत्रमेवं त्रीणि प्रथमान्याह । अथ कस्मादृक्सामयोः संक्रामतीति । साम वा ऽऋचः पतिः । तद्यत्तत्रापि यथा पितुः पुत्रमेवं ब्रूयात्, यथा पतिं सन्तं पुत्रं ब्रूयात्- तादृक् तत् तस्मादृक्सामयोः संक्रामति । कस्मादु त्रिः सन्तनोतीति- पितरम्, पुत्रम्, पौत्रम्- तांस्तत्सन्तनोति । तस्मादु तेभ्य एक एव ददाति ॥ ५ ॥
सायणः
तत्रैव प्रश्नान्तरमुद्भाव्य परिहरति- तदाहुर्यद्यथा पितुः पुत्रमिति । ‘यथा’ येन प्रकारेण तद्धितवृत्त्य अश्वस्यापत्यमाश्वलीय इत्येवंरूपया ‘पितुः’ सम्बन्धविशिष्टं ‘पुत्र’ कथयति । ‘एवम्’ अनेन प्रकारेण तद्धितवृत्त्य “तस्य प्राणो भौवायनः” इत्येवंरूपया ‘प्रथमानि’ ‘त्रीणि’ प्राणवसन्तगायत्रीरूपाणि ‘आह’ प्रतिपादयति ‘अथ’ एवं सति ‘कस्माद्’ हेतोः “गायत्र्यै गायत्रम्" इत्यादिना- प्रतिपाद्यमानयोः ‘ऋक्सामयोः’ स्वरूपं ‘सङ्क्रामति’ सङ्क्रमणं नाम कार्यकारणतया ‘ऋचः’ सामात्मना सङ्क्रमणम्, साम्नश्च ग्रहात्मना अत्र सर्वत्र तद्धितवृत्त्यभावात् । अनयोः पूर्वेषु त्रिष्विव पितापुत्रभावं तद्धितवृत्त्या ब्रूयात् प्रतिपादयेत् । अनयोर्जन्यजनकभावः कथं सिद्ध्येदिति प्रश्नभावार्थः । “अचतुर”- (पा. सू. ५ । ४ । ७७) इत्यादिसूत्रेण निपातनाद् ऋक्सामशब्दो ऽच्प्रत्ययान्तः । संक्रमणं समर्थयते- साम वा इति । ‘साम’ खलु गीयमानमाधारभूतायाः ‘ऋचः पतिः,’ आधेयत्वेन प्राधान्यात् । तथा सति ‘यत्’ यदि तयोः ‘ऋक्सामयोः’ अपि पूर्वेषु त्रिष्विव पितापुत्रभावं तद्धितवृत्त्या ‘ब्रूयात्,’ तर्हि कस्याश्चित् ‘पतिं सन्तम्’ तामेवापेक्ष्य ‘पुत्रम्’ इति ‘ब्रूयात्,’ इत्येतद् ‘यथा’ अनुचितम् ‘तादृग्’ एव ‘तत्;’ यत् पत्युः सतः साम्नः ऋचः पुत्रत्वप्रतिपादनम् । ‘तस्मात्’ कारणाद् ऋक्सामयोराधाराधेयभावलक्षण एव सम्बन्धः इत्याह- तस्मादिति ॥
प्रथमतस्त्रिषु मन्त्रेषु ख्यापितस्य पितापुत्रभावस्य प्रयोजनं वक्तुमाकाङ्क्षामुत्थापयति- कस्मादु त्रिरिति । ‘कस्मात्’ खलु प्रयोजनादादितस्त्रीन् तद्धितवृत्त्या पितापुत्रभावेन ‘सन्तनोति’ सम्बद्धान् प्रतिपादयतीत्यर्थः । पितृ-पुत्र-पौत्रलक्षणत्रिपुरुषसन्तानप्रतिपादनाय तत् इति प्रतिवक्ति- पितरं पुत्रं पौत्रमिति । ‘पितरं’ पुत्रेण, ‘पुत्रं’ पौत्रेण । एवं ‘तान्’ पित्रादीनेव ‘तत्’ तेन ‘सन्तनोति’ सन्ततानविच्छिन्नान्करोति । ‘तस्मात्’ तेषां सम्बद्धत्वादेव ‘तेभ्य एक एव’ प्रपौत्रः ‘ददाति’ पिण्डानिति शेषः ॥ ५ ॥
Eggeling
- As to this they say, ‘When he speaks first of three in the same way as of a father’s son 8, how, then, does this correspond as regards the r̥le and sāman?’ The sāman, doubtless, is the husband of the
R̥c; and hence were he also in their case to speak as of a father’s son, it would be as if he spoke of him who is the husband, as of the son: therefore it corresponds as regards the r̥c and sāman. ‘And why does he thrice carry on (the generation from father to son)?’–father, son, and grandson: it is these he thereby carries on; and therefore one and the same (man) offers (food) to them 9.
०६
विश्वास-प्रस्तुतिः
तद्याः᳘ पुर᳘स्तादुपद᳘धाति॥
ताः᳘ प्राणभृतो᳘ ऽथ याः᳘ पश्चात्ता᳘श्चक्षुर्भृ᳘तस्ता᳘ ऽअपानभृतो᳘ ऽथ या᳘ दक्षिणतस्ता᳘ मनोभृ᳘तस्ता᳘ ऽउ व्व्यानभृतो᳘ ऽथ या᳘ ऽउत्तरतस्ताः᳘ श्रोत्रभृ᳘तस्ता᳘ ऽउदानभृतो᳘ ऽथ या म᳘ध्ये ता᳘ व्वाग्भृ᳘तस्ता᳘ ऽउ समानभृ᳘तः॥
मूलम् - श्रीधरादि
तद्याः᳘ पुर᳘स्तादुपद᳘धाति॥
ताः᳘ प्राणभृतो᳘ ऽथ याः᳘ पश्चात्ता᳘श्चक्षुर्भृ᳘तस्ता᳘ ऽअपानभृतो᳘ ऽथ या᳘ दक्षिणतस्ता᳘ मनोभृ᳘तस्ता᳘ ऽउ व्व्यानभृतो᳘ ऽथ या᳘ ऽउत्तरतस्ताः᳘ श्रोत्रभृ᳘तस्ता᳘ ऽउदानभृतो᳘ ऽथ या म᳘ध्ये ता᳘ व्वाग्भृ᳘तस्ता᳘ ऽउ समानभृ᳘तः॥
मूलम् - Weber
तद्याः᳘ पुर᳘स्तादुपद᳘धाति॥
ताः᳘ प्राणभृतो᳘ ऽथ याः᳘ पश्चात्ता᳘श्चक्षुर्भृ᳘तस्ता᳘ अपानभृतो᳘ ऽथ या᳘ दक्षिणतस्ता᳘ मनोभृ᳘तस्ता᳘ उ व्यानभृतो᳘ ऽथ या उत्तरतस्ताः᳘ श्रोत्रभृ᳘तस्ता᳘ उदानभृतो᳘ ऽथ या म᳘ध्ये ता᳘ वाग्भृ᳘तस्ता᳘ उ समानभृ᳘तः॥
मूलम् - विस्वरम्
तद्याः पुरस्तादुपधाति- ताः प्राणभृतः । अथ याः पश्चात्- ताश्चक्षुर्भृतः, ता अपानभृतः । अथ या दक्षिणतः- ता मनोभृतः, ता उ व्यानभृतः । अथ या उत्तरतः- ताः श्रोत्रभृतः, ता उदानभृतः । अथ या मध्ये- ता वाग्भृतः, ता उ समानभृतः ॥ ६ ॥
सायणः
अथैतासामुपधानमन्त्रेषु प्राणादिलिङ्गदर्शनात्तदुपजीवनेन तेषां दशकानां पृथक् संज्ञाकरणं प्रतिजानीते- तद्याः पुरस्तादित्यादिना । ‘तत्’ तासु प्राणभृत्सु मध्ये ‘याः’ पूर्वस्यां दिशि ‘उपदधाति’ ‘ताः’ प्राणभृत्संज्ञाः, तासामुपधानमन्त्रेषु “प्राणं गृह्णामि प्रजाभ्यः" इति श्रवणात् । अथेति । चक्षुर्लिंगप्रयुक्तेन मन्त्रेण पश्चादुपधेया ‘याः’ एव ‘चक्षुर्भृतः’ ता एवेष्टका ‘अपानभृतः’ इत्यर्थः । कौष्ठस्य वायोर्मुखनासिकाभ्यां बहिर्निःसरणं प्राणवृत्तिः, अधः सञ्चरणम् अपानवृत्तिः, पूर्वापरभावेन तयोः सञ्चरणात्पूर्वापरदिगवस्थितानामिष्टकानां तदुभयरूपतेत्यर्थः । ता मनोभृत इति । मनोलिङ्गप्रयुक्तेन मन्त्रेण दक्षिणत उपधेया इष्टका ‘मनोभृतः’ ‘ता’ एव ‘व्यानभृतः’ मनस इव व्यानस्यापि सर्वशरीरव्याप्तेः । श्रोत्रलिङ्गकेन मन्त्रेण ‘उत्तरतः’ उपधेया इष्टकाः ‘श्रोत्रभृतः’ ‘ता’ एव ‘उदानभृतः,’ श्रोत्रस्येवोदानस्यापि ऊर्द्ध्वदेशावस्थितत्वात् । वाग्लिङ्गप्रयुक्तेन मन्त्रेण मध्यत उपधेया इष्टका एव ‘वाग्भृतः’ ‘ता’ एव ‘समानभृतः’ इत्थं प्राणभृत इति सामान्यतया विहिता एव अपानभृत इत्यादिविशेषसंज्ञामपि लभन्ते । अपानादीनां तत्तद्वृत्तित्वाच्चक्षुरादीनां च तदनुग्राह्यत्वात् प्राणभृतश्चक्षुर्भृत इत्येवं पृथग्नामधेया इत्यर्थः ॥ ६ ॥
Eggeling
- Those (bricks) which he lays down in front are the holders of the upward air (the breath, prāṇa); those behind are the eye-holders, the holders of the downward air (apāna) 10; those on the right side are the mind-holders, the holders of the circulating air (vyāna); those on the left side are the ear-holders, the holders of the outward air (udāna); and those in the middle are the speech-holders, the holders of the pervading air (samāna).
०७
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दु ह च᳘रकाध्वर्यवः॥
(वो ऽन्या᳘) अन्या᳘ ऽए᳘वापानभृ᳘तो व्व्यानभृ᳘त ऽउदानभृ᳘तः समानभृ᳘तश्चक्षुर्भृ᳘तो मनोभृ᳘तः श्रोत्रभृ᳘तो व्वाग्भृ᳘त ऽइत्यु᳘पदधति न त᳘था कुर्यादत्य᳘हैव᳘ रोच᳘यन्त्य᳘त्रो ऽए᳘वैता᳘नि स᳘र्व्वाणि रूपाण्यु᳘पधीयन्ते॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दु ह च᳘रकाध्वर्यवः॥
(वो ऽन्या᳘) अन्या᳘ ऽए᳘वापानभृ᳘तो व्व्यानभृ᳘त ऽउदानभृ᳘तः समानभृ᳘तश्चक्षुर्भृ᳘तो मनोभृ᳘तः श्रोत्रभृ᳘तो व्वाग्भृ᳘त ऽइत्यु᳘पदधति न त᳘था कुर्यादत्य᳘हैव᳘ रोच᳘यन्त्य᳘त्रो ऽए᳘वैता᳘नि स᳘र्व्वाणि रूपाण्यु᳘पधीयन्ते॥
मूलम् - Weber
त᳘दु ह च᳘रकाध्वर्यवः॥
अन्या᳘ एॗवापानभृ᳘तो व्यानभृ᳘त उदानभृ᳘तः समानभृ᳘तश्चक्षुर्भृ᳘तो मनोभृ᳘तः श्रोत्रभृ᳘तो वाग्भृ᳘त इत्यु᳘पदधति न त᳘था कुर्यादत्य᳘हैव᳘ रोच᳘यन्त्य᳘त्रो एॗवैता᳘नि स᳘र्वाणि रूपाण्यु᳘पधीयन्ते॥
मूलम् - विस्वरम्
तदु ह चरकाध्वर्यवः- अन्या एवापानभृतो व्यानभृत उदानभृतः समानभृतः, चक्षुर्भृतो मनोभृतः श्रोत्रभृतो वाग्भृत- इत्युपदधति । न तथा कुर्यात् । अत्यहैव रेचयन्ति । अत्रो ऽएवैतानि सर्वाणि रूपाण्युपधीयन्ते ॥ ७ ॥
सायणः
अन्यदीयं मतमुपन्यस्य निराचष्टे- तदु ह चरकाध्वर्यव इति । चरकप्रोक्तशाखाध्यायिनो ऽध्वर्यवः ‘चरकाध्वर्यवः’ ‘तत्’ तत्र उक्तविषये प्राणभृद्भ्यो ऽन्या एवापानभृदादीष्टकाः ‘उपदधति’ इति तन्मतोपन्यासः । तदेतन्निषेधति- न तथा कुर्यादिति । ‘अत्रो’ ‘एव’ अत्रैव प्राणभृत्स्वेवोदीरितरीत्या ‘एतानि सर्वाणि’ अपानभृच्चक्षुर्भुदेवमादीनि ‘रूपाण्युपधीयन्ते’ पृथगुपदधतां तेषामतिरेकदोष एव स्यादित्यर्थः ॥ ७ ॥
Eggeling
- Now the Carakādhvaryus, indeed, lay down different (bricks) as holders of the downward air, of the circulating air, of the outward air, of the pervading air, as eye-holders, mind-holders, ear-holders, and speech-holders; but let him not do this, for they do what is excessive, and in this (our) way, indeed, all those forms are laid (into Agni).
०८
विश्वास-प्रस्तुतिः
स वै᳘ पुर᳘स्तादुपधा᳘य पश्चादु᳘पदधाति॥
प्राणो᳘ हापानो᳘ भू᳘त्वा ऽऽङ्गुल्यग्रे᳘भ्य ऽइ᳘ति सं᳘चरत्यपान᳘ ऽउ ह प्राणो᳘ भू᳘त्वा ऽऽङ्गुल्यग्रे᳘भ्य ऽइ᳘ति सं᳘चरति तद्य᳘त्पुर᳘स्तादुपधा᳘य पश्चा᳘दुपद᳘धात्येता᳘वे᳘वैत᳘त्प्राणौ सं᳘तनोति सं᳘दधाति त᳘स्मादेतौ᳘ प्राणौ सं᳘ततौ स᳘ᳫँ᳘हितौ॥
मूलम् - श्रीधरादि
स वै᳘ पुर᳘स्तादुपधा᳘य पश्चादु᳘पदधाति॥
प्राणो᳘ हापानो᳘ भू᳘त्वा ऽऽङ्गुल्यग्रे᳘भ्य ऽइ᳘ति सं᳘चरत्यपान᳘ ऽउ ह प्राणो᳘ भू᳘त्वा ऽऽङ्गुल्यग्रे᳘भ्य ऽइ᳘ति सं᳘चरति तद्य᳘त्पुर᳘स्तादुपधा᳘य पश्चा᳘दुपद᳘धात्येता᳘वे᳘वैत᳘त्प्राणौ सं᳘तनोति सं᳘दधाति त᳘स्मादेतौ᳘ प्राणौ सं᳘ततौ स᳘ᳫँ᳘हितौ॥
मूलम् - Weber
स वै᳘ पुर᳘स्तादुपधा᳘य पश्चादु᳘पदधाति॥
प्राणो᳘ हापानो᳘ भूॗत्वाङ्गुल्यग्रे᳘भ्य इ᳘ति सं᳘चरत्यपान᳘ उ ह प्राणो᳘ भूॗत्वाङ्गुल्यग्रे᳘भ्य इ᳘ति सं᳘चरति तद्य᳘त्पुर᳘स्तादुपधा᳘य पश्चा᳘दुपद᳘धात्येना᳘वेॗवैत᳘त्प्राणौ सं᳘तनोति सं᳘दधाति त᳘स्मादेतौ᳘ प्राणौ सं᳘ततौ स᳘ᳫं᳘हितौ॥
मूलम् - विस्वरम्
स वै पुरस्तादुपधाय पश्चादुपदधाति । प्राणो हापानो भूत्वा ऽऽङ्गुल्येग्रभ्य इति सञ्चरति । अपान उ ह प्राणो भूत्वा ऽऽङ्गुल्यग्रेभ्य इति सञ्चरति । तद्यत्पुरस्तादुपधाय पश्चादुपदधाति । एतावेवैतत्प्राणौ सन्तनोति, सन्दधाति । तस्मादेतौ प्राणौ सन्ततौ संहितौ ॥ ८ ॥
सायणः
पूर्वदिशि प्राणभृतामुपधानानन्तरं दक्षिणां दिशं विहाय प्रतीच्यां दिशि कर्तव्यमिति विधत्ते- स वै पुरस्तादिति । एतदुपपादयति- प्राणो हेति । मुखनासिकाभ्यां बहिर्निःसरञ्छरीरस्य पूर्वभागे ऽवस्थितः प्राणवायुः पुनर्मुखनासाभ्यामेवान्तःप्रविशन्नपानवृत्त्यात्मकः ‘भूत्वा’ ‘आङ्गुल्यग्रेभ्यः’ नखाग्रपर्यन्तम् ‘इति’- शब्दो ऽभिनयद्योतकः । अनेन प्रकारेण देहमध्ये प्रत्यङ्मुखः ‘सञ्चरति’ । अधोमुखः स एव ‘अपानः’ पुनरूर्ध्वमुखः ‘प्राणो भूत्वा’ नखाग्रपर्यन्तम् ‘इति’ अनेन प्रकारेण प्राचीनं ‘सञ्चरति’ अतः पूर्वापरदिशोर्नैरन्तर्येण प्राणभृदुपधानाद् ‘एतावेव’ प्राणापानौ परस्परं सम्बद्धौ ‘संहितौ’ अविच्छिन्नौ च भवत इत्यर्थः । यस्मादेवमेतस्मिन्कर्मणि ‘तस्माद्’ एव कारणाल्लोके ऽप्येवं प्राणापानौ दृश्येते इत्यर्थः ॥ ८ ॥
Eggeling
- Now, when he has laid down (the bricks) in
front, he lays down those at the back (of the altar); for the upward air, becoming the downward air, passes along thus from the tips of the fingers; and the downward air, becoming the upward air, passes along thus from the tips of the toes: hence when, after laying down (the bricks) in front, he lays down those at the back, he thereby makes these two breathings continuous and connects them; whence these two breathings are continuous and connected.
०९
विश्वास-प्रस्तुतिः
(ताव᳘) अ᳘थ दक्षिणत᳘ ऽउपधा᳘योत्तरत ऽउ᳘पदधाति॥
व्व्यानो᳘ होदानो᳘ भू᳘त्वा ऽऽङ्गुल्यग्रे᳘भ्य ऽइ᳘ति सं᳘चरत्युदान᳘ ऽउ ह व्व्यानो᳘ भू᳘त्वा ऽऽङ्गुल्यग्रे᳘भ्य ऽइ᳘ति सं᳘चरति तद्य᳘द्दक्षिणत᳘ ऽउपधा᳘योत्तरत᳘ ऽउपद᳘धात्येता᳘वे᳘वैत᳘त्प्राणौ सं᳘तनोति सं᳘दधाति त᳘स्मादेतौ᳘ प्राणौ सं᳘ततौ स᳘ᳫँ᳘हितौ॥
मूलम् - श्रीधरादि
(ताव᳘) अ᳘थ दक्षिणत᳘ ऽउपधा᳘योत्तरत ऽउ᳘पदधाति॥
व्व्यानो᳘ होदानो᳘ भू᳘त्वा ऽऽङ्गुल्यग्रे᳘भ्य ऽइ᳘ति सं᳘चरत्युदान᳘ ऽउ ह व्व्यानो᳘ भू᳘त्वा ऽऽङ्गुल्यग्रे᳘भ्य ऽइ᳘ति सं᳘चरति तद्य᳘द्दक्षिणत᳘ ऽउपधा᳘योत्तरत᳘ ऽउपद᳘धात्येता᳘वे᳘वैत᳘त्प्राणौ सं᳘तनोति सं᳘दधाति त᳘स्मादेतौ᳘ प्राणौ सं᳘ततौ स᳘ᳫँ᳘हितौ॥
मूलम् - Weber
अ᳘थ दक्षिणत᳘ उपधा᳘योत्तरत उ᳘पदधाति॥
व्यानो᳘ होदानो᳘ भूॗत्वाङ्गुल्यग्रे᳘भ्य इ᳘ति सं᳘चरत्युदान᳘ उ ह व्यानो᳘ भूॗत्वाङ्गुल्यग्रे᳘भ्य इ᳘ति सं᳘चरति तद्य᳘द्दक्षिणत᳘ उपधा᳘योत्तरत᳘ उपद᳘धात्येता᳘वेॗवैत᳘त्प्राणौ सं᳘तनोति सं᳘दधाति त᳘स्मादेतौ᳘ प्राणौ सं᳘ततौ स᳘ᳫं᳘हितौ॥
मूलम् - विस्वरम्
अथ दक्षिणत उपधायोत्तरत उपदधाति । व्यानो होदानो भूत्वा ऽऽङ्गुल्यग्रेभ्य इति संचरति । उदान उ ह व्यानो भूत्वा ऽऽङ्गुल्यग्रेभ्य इति सञ्चरति । तद्यद्दक्षिणत उपधायोत्तरत उपदधाति । एतावेवैतत्प्राणौ सन्तनोति, सन्दधाति । तस्मादेतौ प्राणौ सन्ततौ, संहितौ ॥ ९ ॥
सायणः
अथ दक्षिणोत्तरदिशोरपि नैरन्तर्येण प्राणभृदुपधानं विधाय स्तौति- अथ दक्षिणत इति । ‘अथ’-शब्दः प्रत्यग्दिगुपधानानन्तर्यार्थः । दक्षिणत उपहिताः प्राणभृत एव मनोभृतः व्यानभृतश्च, उत्तरत उपहिताः श्रोत्रभृत उदानभृतश्च । ‘तत्’ तथा च ‘दक्षिणत उपधायोत्तरतः’ उपधाने व्यानोदानयोः पूर्ववत्परस्पराभिमुख्येन संचरणम्, तद्धेतुकाविच्छेदश्च सिद्ध्यतीति ‘व्यानो होदानो भूत्वा’ इत्यादेस्तात्पर्यार्थः । गतमन्यत् ॥ ९ ॥
Eggeling
- And when he has laid down those on the right side, he lays down those on the left side; for the outward air, becoming the circulating air, passes along thus from the tips of the fingers 11; and the circulating air, becoming the outward air, passes along thus from the tips of the fingers 11: hence when, after laying down (the bricks) on the right side, he lays down those on the left side, he thereby makes these two breathings continuous and connects them; whence these two breathings are continuous and connected.
१०
विश्वास-प्रस्तुतिः
(ताव᳘) अ᳘थ या म᳘ध्य ऽउपद᳘धाति॥
स᳘ प्राणस्ता᳘ रेतःसि᳘चोर्व्वे᳘लयो᳘पदधाति पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ ऽए᳘वास्मिन्नेत᳘त्प्राणं᳘ दधाति सर्व्वत ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वास्मिन्नेत᳘त्प्राणं᳘ दधात्य᳘थो ऽएव᳘ᳫँ᳘ हैष᳘ गुदः᳘ प्राणः᳘ समन्तं ना᳘भिं प᳘र्यक्नो ऽनू᳘चीश्च तिर᳘श्चीश्चो᳘पदधाति त᳘स्मादि᳘मे ऽन्व᳘ञ्चश्च तिर्य᳘ञ्चश्चात्म᳘न्प्राणाः स᳘ᳫँ᳘स्पृष्टा ऽउ᳘पदधाति प्राणा᳘ने᳘वैतत्सं᳘तनोति सं᳘दधाति त᳘स्मादिमे᳘ प्राणाः सं᳘तताः स᳘ᳫँ᳘हिताः॥
मूलम् - श्रीधरादि
(ताव᳘) अ᳘थ या म᳘ध्य ऽउपद᳘धाति॥
स᳘ प्राणस्ता᳘ रेतःसि᳘चोर्व्वे᳘लयो᳘पदधाति पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ ऽए᳘वास्मिन्नेत᳘त्प्राणं᳘ दधाति सर्व्वत ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वास्मिन्नेत᳘त्प्राणं᳘ दधात्य᳘थो ऽएव᳘ᳫँ᳘ हैष᳘ गुदः᳘ प्राणः᳘ समन्तं ना᳘भिं प᳘र्यक्नो ऽनू᳘चीश्च तिर᳘श्चीश्चो᳘पदधाति त᳘स्मादि᳘मे ऽन्व᳘ञ्चश्च तिर्य᳘ञ्चश्चात्म᳘न्प्राणाः स᳘ᳫँ᳘स्पृष्टा ऽउ᳘पदधाति प्राणा᳘ने᳘वैतत्सं᳘तनोति सं᳘दधाति त᳘स्मादिमे᳘ प्राणाः सं᳘तताः स᳘ᳫँ᳘हिताः॥
मूलम् - Weber
अ᳘थ या म᳘ध्य उपद᳘धाति॥
स᳘ प्राणस्ता᳘ रेतःसि᳘चोर्वे᳘लयो᳘पदधाति पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ एॗवास्मिन्नेत᳘त्प्राणं᳘ दधाति सर्व᳘त उ᳘पदधाति सर्व᳘त एॗवास्मिन्नेत᳘त्प्राणं᳘ दधात्य᳘थो एव᳘ᳫं᳘ हैष᳘ गुदः᳘ प्राणः᳘ समन्तं ना᳘भिम् प᳘र्यक्नो नू᳘चीश्च तिरश्चीश्चो᳘पदधाति त᳘स्मादिॗमे ऽन्व᳘ञ्चश्च तिर्य᳘ञ्चश्चात्म᳘न्प्राणाः स᳘ᳫं᳘स्पृष्टा उ᳘पदधाति प्राणा᳘नेॗवैतत्सं᳘तनोति सं᳘दधाति त᳘स्मादिमे᳘ प्राणाः सं᳘तताः स᳘ᳫं᳘हिताः॥
मूलम् - विस्वरम्
अथ या मध्य ऽउपदधाति- स प्राणः । ता रेतःसिचोर्वेलयोपदधाति । पृष्टयो वै रेतःसिचौ । मध्यमु पृष्टयः, मध्यत एवास्मिन्नेतत्प्राणं दधाति । सर्वत उपदधाति । सर्वत एवास्मिन्नेतत्प्राणं दधाति । अथो ऽएवं हैष गुदः प्राणः समन्तं नाभिं पर्यक्नः । अनूचीश्च तिरश्चीश्चोपदधाति । तस्मादिमे ऽन्वञ्चश्च तिर्यञ्चश्चात्मन्प्राणाः । संस्पृष्टा उपदधाति । प्राणानेवैतत्सन्तनोति, सन्दधाति । तस्मादिमे प्राणाः सन्तताः संहिताः ॥ १० ॥
सायणः
अथ मध्यत उपधेयानां स्थानविशेषं विधाय स्तौति- अथ या मध्य इति । ‘मध्ये’ ‘याः’ दशसङ्ख्याकाः प्राणभृत उपधीयन्ते ‘स प्राणः’ समानवृत्त्युपेतप्राणात्मिकास्ता इत्यर्थः । ‘स’ इति विधेयापेक्षयैकवचनम् । रेतःसिगाख्ययोरिष्टकयोर्या वेला प्रान्तदेशस्तया ‘वेलया’ ‘ताः’ उपदध्यात्, ताः मध्यवर्तिनीः प्राणभृत इत्यर्थः । पृष्टयो वा इत्यादि । कटिसम्बन्धीन्यस्थीनि ‘पृष्टयः’ तदात्मिके हि रेतःसिगाख्ये इष्टके । ताश्च पृष्टयो ‘मध्यमु’ पुरुषशरीरस्य मध्यभाग एव तथा च ‘एतत्’ एतेन मध्यवर्तिपृष्टिरूपरेतःसिक्समीपे प्राणभृदुपधानेन ‘मध्यतः’ चित्याग्निशरीरस्य मध्य एव पञ्चमवृत्त्यात्मकम् ‘प्राणम्’ प्रतिष्ठापयति । सर्वत उपधानमनूद्य स्तौति- सर्वत उपदधातीति । सर्वत एवास्मिन्निति । ‘सर्वतः’ सर्वाभ्यो दिग्भ्यः । सर्वत उपधानं प्रकारान्तरेण स्तौति- अथो एवं हैष इति । ‘अथो’ अपि च ‘एवमेषः’ खल्वेषः ‘गुदः प्राणः’ प्राणोत्पत्तिस्थानस्य मूलाधाराख्यस्योपलक्षणमेतत्; तथाविधः सः ‘समन्तं नाभिम्’ नाभेः सर्वतः ‘पर्यक्नः’ परिणतः “अञ्चु गतौ”- (धा. पा. भ्वा. प. १८८) इत्यस्मान्निष्ठायाम् “अञ्चो ऽनपादाने”- (पा. सू. ८ । २ । ४८) इति नत्वम् । अथ सर्वासां प्राणभृतामुपधाने धर्मविशेषं विधत्ते- अनूचीश्च तिरश्चीश्चेति । ‘अनूचीः’ प्राक्प्रत्यगायताः । ‘तिरश्चीः’ दक्षिणोत्तरायताः । तत्प्रशंसति- तस्मादिम इति । ‘आत्मन्’ आत्मनि शरीरे वर्तमानाः ‘इमे’ ‘प्राणाः’ तत्तन्नाडीसंस्थानवशेन तत्र तत्र सञ्चरन्तः क्वचिद् ‘अन्वञ्चः’ अनूचीनाः क्वचित् ‘तिर्यञ्चः’ तिरश्चीनाश्च भवन्ति । तासामुपहितानां परस्परसंस्पर्शं विधाय स्तौति- सँस्पृष्टा उपदधातीति । निगदसिद्धो ऽर्थः ॥ १० ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे प्रथमे ऽध्याये तृतीयं ब्राह्मणम् ॥ (८-१-३) ॥
Eggeling
- And those (bricks) which he lays down in the centre are the vital air; he lays them down on the range of the two Retaḥsic (bricks), for the retaḥsic are the ribs, and the ribs are the middle: he thus lays the vital air into him (Agni and the Sacrificer) in the very middle (of the body). On every side he lays down (the central bricks) 12: in every part he thus
lays vital air into him; and in the same way indeed that intestinal breath (channel) is turned all round
the navel. He lays them down both lengthwise and crosswise 13, whence there are here in the body (channels of) the vital airs both lengthwise and crosswise. He lays them down touching each other: he thereby makes these vital airs continuous and connects them; whence these (channels of the) vital airs are continuous and connected.
-
प्राणभृत्यं᳘गानि A. प्राणभूत्यं᳘गानि B. ↩︎
-
13:1 Or, come to be (Agni-) Prajāpati’s (prājāpatyā bhavanti). ↩︎
-
13:2 In laying down the different sets of Prāṇabhr̥t-bricks the priest is said (in VIII, 1, 1, 5; 8; 2, 2; 5; 8) symbolically to put into the sacrificial work (or into the altar, Agni) ‘both verses or metres (as Gāyatrī, Trishṭubh, &c.) and hymn-tunes (as Gāyatra. Svāra, &c.). ↩︎
-
13:3 It is not quite clear whether this is the correct construction of the text, especially as, in the paragraph referred to in. the last note, it is not only the metres and tunes that are supposed to be put in along with the Prāṇabhr̥taḥ, but also the stomas and pr̥shṭḥa-sāmans. ↩︎
-
14:1 Only soma-cups (graha) and hymn-tunes (sāman) and hymn-forms (stoma) are specially named in connection with these bricks, but no śastras. ↩︎
-
14:2 Every stotra, chanted by the Udgātr̥s, is followed by a śastra recited by the Hotr̥ or one of his assistants. ↩︎
-
14:3 Most chants (stotra) consisting of a single triplet (e. g. the Pr̥shṭḥa-stotras at the midday service) have their text (stotriyatr̥ca) included in the corresponding śastra recited by the Hotr̥, or one of the Hotrakas; it being followed, on its part, by the recitation of an analogous triplet (anurūpa, ‘similar or corresponding,’ i.e. antistrophe) usually commencing with the very same word, or words, as the stotriya. ↩︎
-
14:4 As in the case of the first (south-west) set of bricks, VIII, 1, 1, 4-6, he puts down the first four with ‘This one, in front, the existent,’ ‘His, the existent’s son, the breath,’ ‘Spring, the son of the breath,’ and ‘The Gāyatrī, the daughter of spring,’–implying three generations from father to son (or daughter). In the formulas of the remaining bricks of each set referring to the metres (or verses, ilk) and hymn-tunes (sāman) the statement of descent is expressed more vaguely by, ‘From the Gāyatrī (is derived) the Gāyatra,’ &c. ↩︎
-
15:1 At the offerings to the Fathers, or deceased ancestors, oblations are made to the father, grandfather, and great-grandfather; see II, 4, 2, 23. ↩︎
-
15:2 Sāyaṇa, on Taitt. S. IV, 3, 3, explains ‘prāṇa’ by ‘bahiḥsaṁcārarūpa,’ and ‘apāna’ by ‘punarantaḥsaṁkārarūpa;’ see also part i, p. 120, note 2; but cp. Maitry-up. II, 6; H. Walter, Haṭḥayogapradipikā, p. xviii. Beside the fifty bricks called ‘Prāṇabhr̥taḥ,’ the Taittirīyas also place fifty Apānabhr̥taḥ in the first layer of the altar. ↩︎
-
16:1 ? Or, perhaps, the fingers and toes. The same word (aṅguli), having both meanings, makes it difficult exactly to understand these processes. The available MSS. of Harisvāmin’s commentary unfortunately afford no help. ↩︎ ↩︎
-
16:2 That is to say, he lays down the fifth set round the (central) Svayamātr̥ṇṇā, on the range of the two Retaḥsic bricks. It is, however, not quite clear in what particular manner this fifth set of ten bricks is to be arranged round the centre so as to touch one another. The two Retaḥsic bricks, occupying each a space of a square foot north and south of the spine, are separated from the central (Svayamātr̥ṇṇā) brick by the Dviyajus brick a foot square. The inner side of the retaḥsic-space would thus be a foot and a half, and their outer side two feet and a half, distant from the central point of the altar. The retaḥsic range, properly speaking, would thus consist of a circular rim, obtained by drawing two ↩︎
-
18:1 Each special brick is marked on its upper surface with (usually three) parallel lines. Now the bricks are always laid down in such a way that their lines run parallel to the adjoining spine, whence those on the east and west sides have their lines running lengthwise (west to east), and those on the north and south sides crosswise (north to south). As to the four corner bricks there is some uncertainty on this point, but if we may judge from the analogy of the second layer in this respect, the bricks of the south-east and north-west corners would be eastward-lined, and those of the northeast and south-west corners northward-lined. ↩︎