०१

विश्वास-प्रस्तुतिः

अ᳘थ पश्चा᳘त्॥
(द) अयं᳘ पश्चा᳘द्विश्व᳘व्यचा ऽइ᳘त्यसौ वा᳘ ऽआदित्यो᳘ व्विश्व᳘व्यचा यदा᳘ ह्ये᳘वैष᳘ ऽउदेत्य᳘थेदᳫँ᳭ स᳘र्व्वं व्व्य᳘चो भवति तद्यत्तमा᳘ह पश्चादि᳘ति त᳘स्मादेतं᳘ प्रत्य᳘ञ्चमेव य᳘न्तं पश्यन्ति च᳘क्षुर्हादित्यो᳘ भूत्वा᳘ पश्चा᳘त्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

अ᳘थ पश्चा᳘त्॥
(द) अयं᳘ पश्चा᳘द्विश्व᳘व्यचा ऽइ᳘त्यसौ वा᳘ ऽआदित्यो᳘ व्विश्व᳘व्यचा यदा᳘ ह्ये᳘वैष᳘ ऽउदेत्य᳘थेदᳫँ᳭ स᳘र्व्वं व्व्य᳘चो भवति तद्यत्तमा᳘ह पश्चादि᳘ति त᳘स्मादेतं᳘ प्रत्य᳘ञ्चमेव य᳘न्तं पश्यन्ति च᳘क्षुर्हादित्यो᳘ भूत्वा᳘ पश्चा᳘त्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

अ᳘थ पश्चा᳘त्॥
अय᳘म् पश्चा᳘द्विश्व᳘व्यचा इ᳘त्यसौ वा᳘ आदित्यो᳘ विश्व᳘व्यचा यदाॗ ह्येवैष᳘ उदेत्य᳘थेदᳫं स᳘र्वं व्य᳘चो भवति तद्यत्तमा᳘ह पश्चादि᳘ति त᳘स्मादेत᳘म् प्रत्य᳘ञ्चमेव य᳘न्तम् पश्यन्ति च᳘क्षुर्हादित्यो᳘ भूत्वा᳘ पश्चा᳘त्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

अथ पश्चात् । “अयं पश्चाद्विश्वव्यचा”- इति । असौ वा ऽआदित्यो विश्वव्यचाः । यदा ह्येवैष उदेति- अथेदं सर्वं व्यचो भवति । तद्यत्तमाह- पश्चादिति । तस्मादेतं प्रत्यञ्चमेव यन्तं पश्यन्ति । चक्षुर्हादित्यो भूत्वा पश्चात्तस्थौ । तदेव तद्रूपमुपदधाति ॥ १ ॥

सायणः

अथ प्रतीच्यां दिश्युपधेयानां प्राणभृतां दशकस्य दश मन्त्रान्दर्शयन् क्रमेण व्याचष्टे- अथ पश्चादिति 1 । ‘पश्चात्’ प्रतीच्यां दिशि । “पश्चात्" (पा. सू. ५ । ३ । ३२) इत्यस्तातिर्निपात्यते । “अयं पश्चाद्विश्वव्यचाः”- इति प्रथमो मन्त्रः । “व्यचतिर्व्याप्तिकर्मा” विश्वं व्यचति व्याप्नोतीति विश्वव्यचा ‘असौ’ द्युलोकस्थ ‘आदित्यः’ । एतदेवाह- यदा ह्येवैष इति । यस्मिन् काले खलु ‘एषः’ सूर्यः ‘उदेति’ ‘अथ’ अनन्तरमेव ‘इदं सर्वम्’ ‘व्यचः’ व्यापनम् ‘भवति’ तस्मादसौ ‘विश्वव्यचाः’ इत्यर्थः । तद्यत्तमाहेति । ‘तम्’ आदित्यम् ‘पश्चादिति’ प्रत्यग्दिग्वाचिना शब्देन ‘यत्’ यस्मात्प्रतिपादयति, ‘तस्माद्’ एव प्रतीचीदिक्सम्बन्धात्कारणाद् ‘एतम्’ आदित्यम् ‘प्रत्यञ्चम्’ प्रत्यङ्मुखम् ‘एव’ ‘यन्तम्’ गच्छन्तम् ‘पश्यन्ति’ सर्वप्राणिनां ‘चक्षुः’ एव हि ‘आदित्यो भूत्वा’ ‘पश्चात्’ प्रत्यङ्मुखः ‘तस्थौ’ । ‘तदेव’ चक्षुरात्मकमेव ‘तत्’ आदित्यात्मकम् ‘रूपम्’ उपहितवान्भवतीत्यर्थः ॥ १ ॥

Eggeling
  1. And at the back (western part of the altar), with (Vāj. S. XIII, 56), ‘This one behind, the all-embracer;’–the all-embracer, doubtless, is yonder sun, for as soon as 2 he rises, all this embracing space comes into existence. And because he speaks of him as (being) ‘behind,’ therefore one sees him only when he goes towards the back (west). The Sun, indeed, having become the eye, remained behind: it is that form he now bestows (on Agni).

०२

विश्वास-प्रस्तुतिः

त᳘स्य च᳘क्षुर्व्वैश्वव्यचसमि᳘ति॥
च᳘क्षुस्त᳘स्माद्रूपा᳘दादित्यान्नि᳘रमिमीत व्वर्षा᳘श्चाक्षुष्य᳘ ऽइ᳘ति व्वर्षा᳘ऋतुं च᳘क्षुषो नि᳘रमिमीत ज᳘गती व्वार्षी᳘ति ज᳘गतीं छ᳘न्दो व्वर्षा᳘भ्य ऽऋतोर्नि᳘रमिमीत ज᳘गत्या ऽऋ᳘क्सममि᳘ति ज᳘गत्यै छ᳘न्दस ऽऋ᳘क्समᳫँ᳭ सा᳘म नि᳘रमिमीत᳘ ऽर्क्समाच्छुक्र ऽइत्यृक्समात्सा᳘म्नः[[!!]] शुक्रं ग्र᳘हं नि᳘रमिमीत शुक्रा᳘त्सप्तदश ऽइ᳘ति शुक्राद्ग्र᳘हात्सप्तदशᳫँ᳭ स्तो᳘मं नि᳘रमिमीत सप्तदशा᳘द्वैरूपमि᳘ति सप्तदशात्स्तो᳘माद्वैरूपं᳘ पृष्ठं नि᳘रमिमीत॥

मूलम् - श्रीधरादि

त᳘स्य च᳘क्षुर्व्वैश्वव्यचसमि᳘ति॥
च᳘क्षुस्त᳘स्माद्रूपा᳘दादित्यान्नि᳘रमिमीत व्वर्षा᳘श्चाक्षुष्य᳘ ऽइ᳘ति व्वर्षा᳘ऋतुं च᳘क्षुषो नि᳘रमिमीत ज᳘गती व्वार्षी᳘ति ज᳘गतीं छ᳘न्दो व्वर्षा᳘भ्य ऽऋतोर्नि᳘रमिमीत ज᳘गत्या ऽऋ᳘क्सममि᳘ति ज᳘गत्यै छ᳘न्दस ऽऋ᳘क्समᳫँ᳭ सा᳘म नि᳘रमिमीत᳘ ऽर्क्समाच्छुक्र ऽइत्यृक्समात्सा᳘म्नः[[!!]] शुक्रं ग्र᳘हं नि᳘रमिमीत शुक्रा᳘त्सप्तदश ऽइ᳘ति शुक्राद्ग्र᳘हात्सप्तदशᳫँ᳭ स्तो᳘मं नि᳘रमिमीत सप्तदशा᳘द्वैरूपमि᳘ति सप्तदशात्स्तो᳘माद्वैरूपं᳘ पृष्ठं नि᳘रमिमीत॥

मूलम् - Weber

त᳘स्य च᳘क्षुर्वैश्वव्यचसमि᳘ति॥
च᳘क्षुस्त᳘स्माद्रूपा᳘दादित्यान्नि᳘रमिमीत वर्षा᳘श्चाक्षुष्य᳘ इ᳘ति वर्षा᳘ ऋतुं च᳘क्षुषो नि᳘रमिमीत ज᳘गती वार्षी᳘ति ज᳘गतीं छ᳘न्दो वर्षा᳘भ्य ऋतोर्नि᳘रमिमीत ज᳘गत्या ऋ᳘क्सममि᳘ति ज᳘गत्यै छ᳘न्दस ऋ᳘क्समᳫं सा᳘म नि᳘रमिमीत᳘ ऽर्क्समाछुक्र इत्यृ᳘क्समात्सा᳘म्नः शुक्रं ग्र᳘हं नि᳘रमिमीत शुक्रा᳘त्सप्तदश इ᳘ति शुक्राद्ग्र᳘हात्सप्तदशᳫं स्तो᳘मं नि᳘रमिमीत सप्तदशा᳘द्वैरूपमि᳘ति सप्तदशात्स्तो᳘माद्वैरु:प᳘म् पृष्ठं नि᳘रमिमीत॥

मूलम् - विस्वरम्

“तस्य चक्षुर्वैश्वव्यचसम्”- इति । चक्षुस्तस्माद्रूपादादित्यान्निरमिमीत । “वर्षाश्चाक्षुष्यः”- इति । वर्षाऋतुं चक्षुषो निरमिमीत । “जगती वार्षी”- इति । जगतीं छन्दो वर्षाभ्य ऋतोर्निरमिमीत । “जगत्या ऋक्समम्”- इति । जगत्यै छन्दस ऋक्समं साम निरमिमीत । “ऋक्समाच्छुक्रः”- इति । ऋक्समात्साम्नः शुक्रं ग्रहं निरमिमीत । “शुक्रात्सप्तदशः”- इति । शुक्राद्ग्रहात्सप्तदशं स्तोमं निरमिमीत । “सप्तदशाद्वैरूपम्”- इति । सप्तदशात्स्तोमाद्वैरूपं पृष्ठं निरमिमीत ॥ २ ॥

सायणः

तस्य चक्षुर्वैश्वव्यचसमिति । द्वितीयो मन्त्रः । विश्वव्यचसो जातं ‘वैश्वव्यचसम्’ । अनेन मन्त्रेण ‘तस्माद्’ आदित्य- ‘रूपात्’ कारणात् ‘चक्षुः’ निर्मितवान् प्रजापतिरित्यर्थः । ‘वर्षाः’ ऋतुः ‘चाक्षुष्यः’ तस्माच्चक्षुषः सृष्टाः । “अप्सुमनःसिकतासमावर्षाणाम्” इति (लिङ्गानुशासन १ । २९) स्मरणात् नियतबहुत्वेनैकस्मिन्नपि बहुत्वम् । ‘वर्षाऋतुम्’ इति वर्षाख्यमृतुमित्यर्थः । जगती वार्षीति । वर्षाभ्यो जाता ‘वार्षी’ । गतमन्यत् । जगत्या ऋक्सममिति । यत्साम ऋचा समं समाप्यते न न्यूनाधिकभावेन तत् ‘ऋक्समं साम’ जगतीछन्दसः सकाशात्सृष्टम् । तदेवाह- जगत्यै छन्दस ऋक्समं सामेति । पूर्ववत्षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा. १) तस्मादृक्समाख्यात् ‘साम्नः’ शुक्राख्यः सोमग्रहः सृष्टस्तदाह- *ऋक्समात्साम्नः शुक्रं ग्रहमिति । सप्तदश इति । सप्तदशभिः स्तोत्रियाभिर्निष्पाद्यः स्तोमः ‘सप्तदशः’ । तस्माच्च वैरूपाख्यं पृष्ठं साम निर्मितमित्याह- सप्तदशात्स्तोमाद्वैरूपं पृष्ठमिति । ‘सप्तदशात् स्तोमात् वैरूपं पृष्ठं’ भवति । स्पष्टो ऽर्थः ॥ २ ॥

Eggeling
  1. ‘His, the all-embracer’s child, the Eye,’–from out of that (all-embracing) form, the Sun, he fashioned the eye;–’the rains, the offspring of the eye,’–from out of the eye he fashioned the rainy season;–’the Jagatī, the daughter of the rains,’–from out of the rainy season he fashioned the Jagatī metre;–‘from the Jagatī the R̥ksama,’–from out of the Jagatī metre he fashioned the R̥ksama hymn-tune 3;–‘from the R̥ksama

the Śukra,’–from out of the R̥ksama-sāman he fashioned the Śukra-graha;–‘from the Śukra the Saptadaśa,’–from out of the Śukra cup he fashioned the seventeen-versed hymn-form;–‘from the Saptadaśa the Vairūpa,’–from out of the Saptadaśa-stoma he fashioned the Vairūpa-pr̥shṭḥa.

०३

विश्वास-प्रस्तुतिः

जम᳘दग्निर्ऋ᳘षिरि᳘ति॥
च᳘क्षुर्व्वै᳘ जम᳘दग्निर्ऋ᳘षिर्य᳘देनेन ज᳘गत्प᳘श्यत्य᳘थो मनुते त᳘स्माच्च᳘क्षुर्जम᳘दग्निर्ऋ᳘षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतच्च᳘क्षुर्गृह्णामि प्रजा᳘भ्य ऽइ᳘ति च᳘क्षुः पश्चात्प्रा᳘पादयत नानो᳘पदधाति ये᳘ नाना कामाश्च᳘क्षुषि तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं तच्च᳘क्षुः करोत्य᳘थ यन्ना᳘ना साद᳘येच्च᳘क्षुर्ह व्वि᳘च्छिन्द्या᳘त्सैषा᳘ त्रिव्वृदि᳘ष्टका त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

जम᳘दग्निर्ऋ᳘षिरि᳘ति॥
च᳘क्षुर्व्वै᳘ जम᳘दग्निर्ऋ᳘षिर्य᳘देनेन ज᳘गत्प᳘श्यत्य᳘थो मनुते त᳘स्माच्च᳘क्षुर्जम᳘दग्निर्ऋ᳘षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतच्च᳘क्षुर्गृह्णामि प्रजा᳘भ्य ऽइ᳘ति च᳘क्षुः पश्चात्प्रा᳘पादयत नानो᳘पदधाति ये᳘ नाना कामाश्च᳘क्षुषि तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं तच्च᳘क्षुः करोत्य᳘थ यन्ना᳘ना साद᳘येच्च᳘क्षुर्ह व्वि᳘च्छिन्द्या᳘त्सैषा᳘ त्रिव्वृदि᳘ष्टका त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

जम᳘दग्निरृ᳘षिरि᳘ति॥
च᳘क्षुर्वै᳘ जम᳘दग्निरृ᳘षिर्य᳘देनेन ज᳘गत्प᳘श्यत्य᳘थो मनुते त᳘स्माच्च᳘क्षुर्जम᳘दग्निरृ᳘षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतच्च᳘क्षुर्गृह्णामि प्रजा᳘भ्य इ᳘ति च᳘क्षुः पश्चात्प्रा᳘पादयत नानो᳘पदधाति ये᳘ नानाकामाश्च᳘क्षुषि तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं तच्च᳘क्षुः करोत्य᳘थ यन्ना᳘ना साद᳘येच्च᳘क्षुर्ह वि᳘छिन्द्याॗत्सैषा त्रिवृदि᳘ष्टका त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“जमदग्निर्ऋषिः”- इति । चक्षुर्वै जमदग्निर्ऋषिः । यदेनेन जगत्पश्यति, अथो मनुते- तस्माच्चक्षुर्जमदग्निर्ऋषिः । “प्रजापतिगृहीतया त्वया”- इति । प्रजापतिसृष्टया त्वयेत्येतत् । “चक्षुर्गृह्णामि प्रजाभ्यः”- (वा. सं. १३ । ५६) इति । चक्षुः पश्चात्प्रापादयत । नानोपदधाति । ये नाना कामाः- चक्षुषि तांस्तद्दधाति । सकृत्सादयति । एकं तच्चक्षुः करोति । अथ यन्नाना सादयेत्- चक्षुर्ह विच्छिन्द्यात् । सैषा त्रिवृदिष्टका । तस्योक्तो बन्धुः ॥ ३ ॥

सायणः

जमदग्निर्ऋषिरिति । नवमो मन्त्रः । तत्र जमदग्निपदं व्याचष्टे- चक्षुर्वा इति । एतदुपपादयति- यदेनेनेति । ‘एनेन’ चक्षुषा ‘जगद्’ रूपादिकम् ‘पश्यति’ इति यत् ‘अथो’ अपिच चक्षुषैव ‘मनुते’ जानातीति यत् ‘तस्माद्’ हेतोः जगन्मनुते ऽनेन इति व्युत्पत्त्या वर्णलोपेन जमच्चक्षुः प्रकाशकत्वादग्निर्दर्शनादृषिश्चेति “जमदग्निर्ऋषिः” इति वाक्यतात्पर्येण चक्षुरेव प्रतिपाद्यत इत्यर्थः । “प्रजापतिगृहीतया” इति दशममन्त्रं पूर्ववद्व्याचष्टे- प्रजापतिसृष्टया त्वयेत्येतदिति । ‘चक्षुर्गृह्णामि’ इत्यस्य तात्पर्यमाह- चक्षुः पश्चात्प्रापादयतेति । ‘पश्चात्’ प्रतीच्यां दिश्यनेन मन्त्रभागेन ‘चक्षुः’ प्रावेशयदित्यर्थः । पूर्ववदुपधाने नानात्वम्, सादने सकृत्त्वं च विधत्ते- नानोपदधातीत्यादिना । एकं तच्चक्षुरिति । ‘एकम्’ अविच्छिन्नम् । नानासादने पूर्ववद्दोषमाह- अथ यन्नाना सादयेदिति । ‘विच्छिन्द्यात्’ विच्छिन्नं प्रशीर्णं वियुक्तं वा कुर्यादित्यर्थः । ‘सैषा’ ‘त्रिवृद्’ इत्यादि पूर्ववद्योज्यम् ॥ ३ ॥

Eggeling
  1. ‘The R̥shi Jamadagni,’–the R̥shi Jamadagni, doubtless, is the eye: inasmuch as thereby the world of the living (jagat) sees and thinks, therefore the R̥shi Jamadagni is the eye.–‘By thee, taken by Prajāpati,’–that is, ‘by thee, created by Prajāpati,’–‘I take the eye for my descendants,’ therewith he introduced the eye from behind. Separately he lays down (these ten bricks): what separate desires there are in the eye those he thereby lays into it. Only once he settles them: he thereby makes this eye one; but were he to settle them each separately, he assuredly would cut the eye asunder. This is a threefold brick: the meaning of this has been explained.

०४

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थोत्तरतः᳘॥
(ऽ) इद᳘मुत्तरा᳘त्स्वरि᳘ति[[!!]] दि᳘शो वा᳘ ऽउत्तरात्तद्यत्ता ऽआ᳘होत्तरादित्यु᳘त्तरा᳘ ह्यस्मात्स᳘र्व्वस्माद्दिशो᳘ ऽथ[[!!]] य᳘त्स्वरित्या᳘ह[[!!]] स्वर्गो हि᳘ लोको दि᳘शः श्रो᳘त्रᳫँ᳭ ह दि᳘शो भू᳘त्वोत्तरत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थोत्तरतः᳘॥
(ऽ) इद᳘मुत्तरा᳘त्स्वरि᳘ति[[!!]] दि᳘शो वा᳘ ऽउत्तरात्तद्यत्ता ऽआ᳘होत्तरादित्यु᳘त्तरा᳘ ह्यस्मात्स᳘र्व्वस्माद्दिशो᳘ ऽथ[[!!]] य᳘त्स्वरित्या᳘ह[[!!]] स्वर्गो हि᳘ लोको दि᳘शः श्रो᳘त्रᳫँ᳭ ह दि᳘शो भू᳘त्वोत्तरत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

अ᳘थोत्तरतः᳟॥
इद᳘मुत्तरात्स्व᳘रि᳘ति दि᳘शो वा᳘ उत्तरात्तद्यत्ता आ᳘होत्तरादित्यु᳘त्तरा ह्य᳘स्मात्स᳘र्वस्माद्दिशो᳘ ऽथ यत्स्व᳘रित्या᳘ह स्वर्गो हि᳘ लोको दि᳘शः श्रो᳘त्रᳫं ह दि᳘शो भूॗत्वोत्तरत᳘स्तस्थौ 4 त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

अथोत्तरतः । “इदमुत्तरात्स्वः”- इति । दिशो वा ऽउत्तरात् । तद्यत् ता आह- उत्तरादिति । उत्तरा ह्यस्मात्सर्वस्माद्दिशः । अथ यत्स्वरित्याह- स्वर्गो हि लोको दिशः । श्रोत्रं ह दिशो भूत्वोत्तरतस्तस्थौ । तदेव तद्रूपमुपदधाति ॥ ४ ॥

सायणः

अथोत्तरस्यां दिश्युपधेयस्य प्राणभृद्दशकस्य मन्त्रदशकं विधाय व्याचष्टे- अथोत्तरत इयादिना । ‘उत्तररतः’ उत्तरस्यां दिशि । तत्र “इदमुत्तरात्स्वः” इति प्रथमो मन्त्रः । ‘उत्तरात्’ ‘इति’ पदस्य विवक्षितमर्थमाह- दिशो वा उत्तरादिति । एतदेव विवृणोति- तद्यदिति । ‘तत्’ तत्र ‘ताः’ दिशः ‘उत्तराद्’ इति शब्देन ‘आह’ प्रतिपादयतीति ‘यत्’ तत्कारणमुच्यत इति शेषः । ‘हि’ यस्मात् ‘अस्मात्’ दृश्यमानात्स्थावरजङ्गमात्मकात् ‘सर्वस्मात्’ जगतः ‘दिशः’ प्राच्याद्याः ‘उत्तराः’ उत्कृष्टतराः, उत्तरभागे वर्तमाना वा । अतो हेतोः “उत्तरात्” इति पदेन दिशः प्रतिपाद्यन्त इत्यर्थः । दिशां स्वर्गलोकात्मकत्वात् ‘स्वः’ इति पदेनापि दिश एवोच्यन्त इत्याह- अथ यत्स्वरित्याहेति । श्रोत्रं ह दिश इत्यादि । ‘श्रोत्रम्’ शब्दग्रहणसाधनमिन्द्रियम्; तत्स्वकारणात्मना दिग्रूपत्वं प्राप्य ‘उत्तरतः’ उत्तरस्यां दिशि । ‘तस्थौ’ तद्रूपमिति । स्वकारणात्मकमेव दिगात्मकमेव रूपमुपहितवान्भवतीत्यर्थः ॥ ४ ॥

Eggeling
  1. And on the left (upper, north) side, with (Vāj. S. XIII, 57), ‘This, on the upper side, heaven,’–in the upper sphere, doubtless, are the regions (quarters); and as to why he speaks of them as being ‘on the upper (left) side,’ the regions, indeed,

are above everything here. And as to why he says, ‘heaven (or, the light),’ the regions, indeed, are the heavenly world (or world of light). The regions, having become the ear, remained above: it is that form he now bestows (on Agni).

०५

विश्वास-प्रस्तुतिः

त᳘स्य श्रो᳘त्रᳫँ᳭ सौवमि᳘ति॥
श्रो᳘त्रं त᳘स्माद्रूपा᳘द्दिग्भ्यो नि᳘रमिमीत शर᳘च्छ्रौत्री᳘ति शर᳘दमृतुᳫँ᳭ श्रो᳘त्रान्नि᳘रमिमीतानुष्टु᳘प्शारदी᳘त्यनुष्टु᳘भं छ᳘न्दः शर᳘द ऽऋतोर्नि᳘रमिमीतानुष्टु᳘भ ऽऐडमि᳘त्यनुष्टु᳘भश्छ᳘न्दस ऽऐडᳫँ᳭ सा᳘म नि᳘रमिमीतैडान्मन्थी᳘त्यैडा᳘त्सा᳘म्नो[[!!]] मन्थि᳘नं ग्र᳘हं नि᳘रमिमीत मन्थि᳘न ऽएकविᳫँ᳭श ऽइ᳘ति मन्थि᳘नो ग्र᳘हादेकविᳫँ᳭शᳫँ᳭ स्तो᳘मं नि᳘रमिमीतैकविᳫँ᳭शा᳘द्वैराजमि᳘त्येकविᳫँ᳭शात्स्तो᳘माद्वैराजं᳘ पृष्ठं नि᳘रमिमीत॥

मूलम् - श्रीधरादि

त᳘स्य श्रो᳘त्रᳫँ᳭ सौवमि᳘ति॥
श्रो᳘त्रं त᳘स्माद्रूपा᳘द्दिग्भ्यो नि᳘रमिमीत शर᳘च्छ्रौत्री᳘ति शर᳘दमृतुᳫँ᳭ श्रो᳘त्रान्नि᳘रमिमीतानुष्टु᳘प्शारदी᳘त्यनुष्टु᳘भं छ᳘न्दः शर᳘द ऽऋतोर्नि᳘रमिमीतानुष्टु᳘भ ऽऐडमि᳘त्यनुष्टु᳘भश्छ᳘न्दस ऽऐडᳫँ᳭ सा᳘म नि᳘रमिमीतैडान्मन्थी᳘त्यैडा᳘त्सा᳘म्नो[[!!]] मन्थि᳘नं ग्र᳘हं नि᳘रमिमीत मन्थि᳘न ऽएकविᳫँ᳭श ऽइ᳘ति मन्थि᳘नो ग्र᳘हादेकविᳫँ᳭शᳫँ᳭ स्तो᳘मं नि᳘रमिमीतैकविᳫँ᳭शा᳘द्वैराजमि᳘त्येकविᳫँ᳭शात्स्तो᳘माद्वैराजं᳘ पृष्ठं नि᳘रमिमीत॥

मूलम् - Weber

त᳘स्य श्रो᳘त्रᳫं सौवमि᳘ति॥
श्रो᳘त्रं त᳘स्माद्रूपा᳘द्दिग्भ्यो नि᳘रमिमीत शर᳘छ्रौत्री᳘ति शर᳘दमृतुं श्रो᳘त्रान्नि᳘रमिमीतानुष्टु᳘प्शारदी᳘त्यनुष्टु᳘भं छ᳘न्दः शर᳘द ऋतोर्नि᳘रमिमीतानुष्टु᳘भ ऐडमि᳘त्यनुष्टु᳘भश्छ᳘न्दस ऐडᳫं सा᳘म नि᳘रमिमीतैडा᳘न्मन्थी᳘त्यैडात्सा᳘म्नो मन्थि᳘नं ग्र᳘हं नि᳘रमिमीत मन्थि᳘न एकविंश इ᳘ति मन्थि᳘नो ग्र᳘हादेकविंशᳫं स्तो᳘मं नि᳘रमिमीतैकविंशा᳘द्वैराजमि᳘त्येकविंशात्स्तो᳘माद्वैराज᳘म् पृष्ठं नि᳘रमिमीत॥

मूलम् - विस्वरम्

“तस्य श्रोत्रं सौवम्”- इति । श्रोत्रं तस्माद्रूपाद्दिग्भ्यो निरमिमीत । “शरच्छ्रौत्री”- इति । शरदमृतुं श्रोत्रान्निरमिमीत । “अनुष्टुप्शारदी”- इति । अनुष्टुभं छन्दः शरद ऋतोर्निरमिमीत । “अनुष्टुभ ऽऐडम्”- इति । अनुष्टुभश्छन्दस ऐडं साम निरमिमीत । “ऐडान्मन्थी”- इति । ऐडात्साम्नो मन्थिनं ग्रहं निरमिमीत । “मन्थिन ऽएकविंशः”- इति । मन्थिनो ग्रहादेकविंशं स्तोमं निरमिमीत । “एकत्रिंशाद्वैराजम्”- इति । एकविंशात्स्तोमाद्वैराजं पृष्ठं निरमिमीत ॥ ५ ॥

सायणः

तस्य श्रोत्रँ सौवमिति । द्वितीयो मन्त्रः । दिगात्मकात्स्वर्गलोकाज्जातं ‘श्रोत्रम्’ ‘सौवम्’ स्वर्शब्दस्य तद्धिते परतः द्वारादित्वादैजागमः (पा. सू. ७ । ३ । ४) । ‘तस्मात्’ स्वर्शब्दाभिधेयात् ‘रूपात्’ श्रोत्रेन्द्रियम् ‘दिग्भ्यः’ सकाशान्निर्मितवानित्यर्थः । तच्छ्रोत्रादुत्पन्ना ‘शरच्छ्रौत्री’ । तस्याः शरदः सकाशादुत्पन्ना ‘अनुष्टुप् शारदी’ । तथाविधादनुष्टुप्छन्दसः ‘ऐडम्’ यस्य साम्नो ऽन्ते इडाशब्दः प्रयुज्यते तद् ‘ऐडं साम’ उत्पन्नम् । तस्माच्च ‘ऐडात्साम्नः’ मन्थिसंज्ञः सोमग्रहो निर्मितः । तस्मान्मन्थिग्रहादेकविंशाख्यस्तोमः, तस्माच्च वैराजाख्यं पृष्ठं साम निर्मितम् । एतावदत्र प्रतिपाद्यम् । ततः अक्षरयोजना पूर्ववात् कार्या ॥ ५ ॥

Eggeling
  1. ‘Its, heaven’s, child, the Ear,’–from out of that form, the regions, he fashioned the ear;–’the autumn, the daughter of the ear,’–from out of the ear he fashioned the autumn season;–‘Anushṭubh, the daughter of the autumn,’–from out of the autumn season he fashioned the Anushṭubh metre;–‘from the Anushṭubh the Aiḍa,’–from out of the Anushṭubh metre he fashioned the Aiḍa-sāman 5;–‘from the Aiḍa the Manthin,’–from out of the Aiḍa-sāman he fashioned the Manthin cup;–‘from the Manthin the Ekaviṁśa,’–from out of the Manthi-graha he fashioned the twenty-one-versed hymn-form;–‘from the Ekaviṁśa the Vairāja,’–from out of the Ekaviṁśa-stoma he fashioned the Vairāja-pr̥shṭḥa.

०६

विश्वास-प्रस्तुतिः

व्विश्वा᳘मित्र ऽऋ᳘षिरि᳘ति॥
श्रो᳘त्रं वै᳘ व्विश्वा᳘मित्र ऽऋ᳘षिर्य᳘देनेन सर्व्व᳘तः शृणोत्य᳘थो य᳘दस्मै सर्व्व᳘तो मित्रं भ᳘वति त᳘स्माच्छ्रो᳘त्रं व्विश्वा᳘मित्र ऽऋ᳘षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतच्छ्रो᳘त्रं गृह्णामि प्रजा᳘भ्य ऽइ᳘ति श्रो᳘त्रमुत्तरतः प्रा᳘पादयत नानो᳘पदधाति ये᳘ नाना कामाः श्रो᳘त्रे तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं तच्छ्रो᳘त्रं करोत्य᳘थ यन्ना᳘ना साद᳘येच्छ्रो᳘त्रᳫँ᳭ ह व्वि᳘च्छिन्द्या᳘त्सैषा᳘ त्रिव्वृदि᳘ष्टका त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

व्विश्वा᳘मित्र ऽऋ᳘षिरि᳘ति॥
श्रो᳘त्रं वै᳘ व्विश्वा᳘मित्र ऽऋ᳘षिर्य᳘देनेन सर्व्व᳘तः शृणोत्य᳘थो य᳘दस्मै सर्व्व᳘तो मित्रं भ᳘वति त᳘स्माच्छ्रो᳘त्रं व्विश्वा᳘मित्र ऽऋ᳘षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतच्छ्रो᳘त्रं गृह्णामि प्रजा᳘भ्य ऽइ᳘ति श्रो᳘त्रमुत्तरतः प्रा᳘पादयत नानो᳘पदधाति ये᳘ नाना कामाः श्रो᳘त्रे तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं तच्छ्रो᳘त्रं करोत्य᳘थ यन्ना᳘ना साद᳘येच्छ्रो᳘त्रᳫँ᳭ ह व्वि᳘च्छिन्द्या᳘त्सैषा᳘ त्रिव्वृदि᳘ष्टका त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

विश्वा᳘मित्र ऋ᳘षिरि᳘ति॥
श्रो᳘त्रं वै᳘ विश्वा᳘मित्र ऋ᳘षिर्य᳘देनेन सर्व᳘तः शृणोत्य᳘थो य᳘दस्मै सर्व᳘तो मित्रम् भ᳘वति त᳘स्माछ्रो᳘त्रं विश्वा᳘मित्र ऋ᳘षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतछ्रो᳘त्रं गृह्णामि प्रजा᳘भ्य इ᳘ति श्रो᳘त्रमुत्तरतः प्रा᳘पादयत नानो᳘पदधाति ये᳘ नानाकामाः श्रो᳘त्रे तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं तछ्रो᳘त्रं करोत्य᳘थ यन्ना᳘ना साद᳘येछ्रो᳘त्रᳫं ह वि᳘छिन्द्याॗत्सैषा त्रिवृदि᳘ष्टक: त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“विश्वामित्र ऋषिः”- इति । श्रोत्रं वै विश्वामित्र ऋषिः । यदेनेन सर्वतः शृणोति । अथो यदस्मै सर्वतो मित्रं भवति- तस्माच्छ्रोत्रं विश्वामित्र ऋषिः । “प्रजापतिगृहीतया त्वया”- इति । प्रजापतिसृष्टया त्वयेत्येतत् । “श्रोत्रं गृह्णामि प्रजाभ्यः”- (वा. सं. १३ । ५७) इति । श्रोत्रमुत्तरतः प्रापादयत । नानोपदधाति । ये नाना कामाः- श्रोत्रे तांस्तद्दधाति । सकृत्सादयति । एकं तच्छ्रोत्रं करोति । अथ यन्नाना सादयेत्- श्रोत्रं ह विच्छिन्द्यात् । सैषा त्रिवृदिष्टका । तस्योक्तो बन्धुः (४) ॥ ६ ॥

सायणः

श्रोत्रं वै विश्वामित्र ऋषिरित्यादि । विश्वं सर्वं मित्रमनेन श्रोत्रेण पुरुषस्य भवतीति विश्वस्य मित्रहेतुत्वाद्दर्शनसाधनत्वाच्च ‘श्रोत्रम्’ खलु विश्वामित्राख्य ऋषिरित्यर्थः । “मित्रे चर्षौ”- (पा. सू. ६ । ३ । १३०) इति पूर्वपदस्य दीर्घः । उक्तमेवार्थमाविष्करोति- यदेनेनेति । ‘सर्वतः’ सर्वाभ्यो दिग्भ्यः । अथो यद् अस्मा इति । व्युत्पत्त्यन्तरप्रदर्शनम् । ‘अथो’ इति पक्षान्तरद्योतने । ‘अस्मै’ शृण्वते जनाय ‘यद्’ यस्माद् अनेन ‘सर्वतः’ सर्वासु दिक्षु ‘मित्रं भवति’ सम्पद्यते; तस्माद्विश्वामित्र इत्यर्थः । प्रजापतिगृहीतया इत्यादि गतम् । श्रोत्रमुत्तरतः प्रापादयतेति । उत्तरस्यां दिशि ‘श्रोत्रम्’ ‘प्रापादयत’ प्रजापतिः सृष्टिकाले प्रावेशयत् । ततः तस्याः दिशः सकाशात् प्रजार्थं श्रोत्रेन्द्रियं ‘गृह्णामि’ उपादद इत्यर्थः । ‘नानोपदधाति’ इत्यादि पूर्ववद्योज्यम् । श्रोत्रस्य विच्छेदो बाधिर्यम् ॥ ६ ॥

Eggeling
  1. ‘The R̥shi Viśvāmitra,’–the R̥shi Viśvāmitra (‘all-friend’), doubtless, is the ear: because therewith one hears in every direction, and because there is a friend (mitra) to it on every side, therefore the ear is the R̥shi Viśvāmitra.–‘By thee, taken by Prajāpati,’–that is, ‘by thee, erected by Prajāpati;’–‘I take the ear for my descendants,’

–therewith he introduced the ear from the left (or upper) side. Separately he lays down (these bricks): what separate desires there are in the ear, those he thereby lays into it. Only once he settles them: he thereby makes the ear one; but were he to settle them each separately, he assuredly would cut the ear asunder. This is a threefold brick: the meaning of this has been explained.

०७

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ म᳘ध्ये॥
(ध्य ऽ) इय᳘मुप᳘रि मतिरि᳘ति चन्द्र᳘मा वा᳘ ऽउप᳘रि तद्यत्तमा᳘होपरी᳘त्युप᳘रि हि᳘ चन्द्र᳘मा ऽअ᳘थ य᳘न्मतिरित्या᳘ह व्वाग्वै᳘ मति᳘र्व्वाचा᳘ हीदᳫँ᳭ स᳘र्व्वं मनुते व्वा᳘ग्घ चन्द्र᳘मा भू᳘त्वोप᳘रिष्टात्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ म᳘ध्ये॥
(ध्य ऽ) इय᳘मुप᳘रि मतिरि᳘ति चन्द्र᳘मा वा᳘ ऽउप᳘रि तद्यत्तमा᳘होपरी᳘त्युप᳘रि हि᳘ चन्द्र᳘मा ऽअ᳘थ य᳘न्मतिरित्या᳘ह व्वाग्वै᳘ मति᳘र्व्वाचा᳘ हीदᳫँ᳭ स᳘र्व्वं मनुते व्वा᳘ग्घ चन्द्र᳘मा भू᳘त्वोप᳘रिष्टात्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - Weber

अ᳘थ म᳘ध्ये॥
इय᳘मुप᳘रि मतिरि᳘ति चन्द्र᳘मा वा᳘ उप᳘रि तद्यत्तमा᳘होपरो᳘त्युप᳘रि हि᳘ चन्द्र᳘मा अ᳘थ य᳘न्मतिरित्या᳘ह वाग्वै᳘ मति᳘र्वाचाॗ हीदᳫं स᳘र्वम् मनुते वा᳘ग्घ चन्द्र᳘मा भूॗत्वोप᳘रिष्टात्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥

मूलम् - विस्वरम्

अथ मध्ये । “इयमुपरि मतिः”- इति । चन्द्रमा वा ऽउपरि । तद्यत्तमाह- उपरीति । उपरि हि चन्द्रमाः । अथ यन्मतिरित्याह । वाग्वै मतिः । वाचा हीदं सर्वं मनुते । वाग्घ चन्द्रमा भूत्वोपरिष्टात्तस्थौ- तदेव तद्रूपमुपदधाति ॥ ७ ॥

सायणः

अथ मध्यभाग उपधेयस्य प्राणभृद्दशकस्य दश मन्त्रान्प्रदर्शयन् व्याचष्टे- अथ मध्य इति । ‘अथ’ चतसृषु दिक्षुपधानानन्तरमग्निक्षेत्रस्य मध्यभागे दश प्राणभृत उपदध्यादित्यर्थः । तत्र “इयमुपरि मतिः”- इति प्रथमो मन्त्रः ! तत्र ‘उपरि’- शब्दस्य विवक्षितमर्थमाह- चन्द्रमा वा उपरीति । प्रतिज्ञातमर्थमुपपादयति- तद्यदिति । ‘तं’ चन्द्रमसमुपरीत्यूर्ध्ववाचिना शब्देन यस्मात्कारणादाह तत्कारणमुच्यत इत्यर्थः । उपरि हीति । यस्मादुपरिष्टाद्दिशि आकाशे, ‘चन्द्रमाः’ दृश्यते; तस्मात् ‘तम्’ सोमम् ‘उपरि’ दिक्सम्बन्धादुपरीत्युच्यत इत्यर्थः । ‘मतिः’ शब्दो ज्ञाने । ‘मनुते’ जानाति ‘हि’ यस्मादेवं तस्मान्मननसाधनत्वाद् ‘वाग्’- इन्द्रियम् ‘चन्द्रमाः भूत्वा’ चन्द्ररूपतां प्राप्य ‘उपरिष्टाद्’ ऊर्ध्वदिशि ‘तस्थौ’ । अतः ‘तदेव’ वागात्मकं ‘रूपम्’ उपहितवान्भवतीत्यर्थः ॥ ७ ॥

Eggeling
  1. Then in the centre, with (Vāj. S. XIII, 58), ‘This one, above, the mind,’–above, doubtless, is the moon; and as to why he speaks of him as (being) ‘above,’ the moon is indeed above; and as to why he says, ’the mind,’ the mind (mati), doubtless, is speech, for by means of speech everything thinks (man) here 6. The moon, having become speech, remained above: it is that form he now bestows (on. Agni).

०८

विश्वास-प्रस्तुतिः

त᳘स्यै व्वा᳘ङ्मात्ये᳘ति॥
व्वा᳘चं त᳘स्माद्रूपा᳘च्चन्द्र᳘मसो नि᳘रमिमीत हेमन्तो᳘ व्वाच्य ऽइ᳘ति हेमन्त᳘मृतुं᳘ व्वाचो नि᳘रमिमीत पङ्क्ति᳘र्हैमन्ती᳘ति पङ्क्तिं च्छ᳘न्दो हेमन्ता᳘दृतोर्नि᳘रमिमीत पङ्क्त्यै᳘ निध᳘नवदि᳘ति पङ्क्त्यै छ᳘न्दसो निध᳘नवत्सा᳘म नि᳘रमिमीत निध᳘नवत ऽआग्रयण ऽइ᳘ति निध᳘नवतः सा᳘म्न ऽआग्रयणं ग्र᳘हं नि᳘रमिमीताग्रयणा᳘त्त्रिणवत्रयस्त्रिᳫँ᳭शावि᳘त्याग्रयणाद्ग्र᳘हात्त्रिणवत्रयस्त्रिᳫँ᳭शौ स्तो᳘मौ नि᳘रमिमीत त्रिणवत्रयस्त्रिᳫँ᳭शा᳘भ्याᳫँ᳭ शाक्वररैवते ऽइ᳘ति त्रिणवत्रयस्त्रिᳫँ᳭शा᳘भ्याᳫँ᳭ स्तो᳘माभ्याᳫँ᳭ शाक्वररैवते᳘ पृष्ठे नि᳘रमिमीत॥

मूलम् - श्रीधरादि

त᳘स्यै व्वा᳘ङ्मात्ये᳘ति॥
व्वा᳘चं त᳘स्माद्रूपा᳘च्चन्द्र᳘मसो नि᳘रमिमीत हेमन्तो᳘ व्वाच्य ऽइ᳘ति हेमन्त᳘मृतुं᳘ व्वाचो नि᳘रमिमीत पङ्क्ति᳘र्हैमन्ती᳘ति पङ्क्तिं च्छ᳘न्दो हेमन्ता᳘दृतोर्नि᳘रमिमीत पङ्क्त्यै᳘ निध᳘नवदि᳘ति पङ्क्त्यै छ᳘न्दसो निध᳘नवत्सा᳘म नि᳘रमिमीत निध᳘नवत ऽआग्रयण ऽइ᳘ति निध᳘नवतः सा᳘म्न ऽआग्रयणं ग्र᳘हं नि᳘रमिमीताग्रयणा᳘त्त्रिणवत्रयस्त्रिᳫँ᳭शावि᳘त्याग्रयणाद्ग्र᳘हात्त्रिणवत्रयस्त्रिᳫँ᳭शौ स्तो᳘मौ नि᳘रमिमीत त्रिणवत्रयस्त्रिᳫँ᳭शा᳘भ्याᳫँ᳭ शाक्वररैवते ऽइ᳘ति त्रिणवत्रयस्त्रिᳫँ᳭शा᳘भ्याᳫँ᳭ स्तो᳘माभ्याᳫँ᳭ शाक्वररैवते᳘ पृष्ठे नि᳘रमिमीत॥

मूलम् - Weber

त᳘स्यै वा᳘ङ्नात्ये᳘ति॥
वा᳘चं त᳘स्माद्रूपा᳘च्चन्द्र᳘मसो नि᳘रमिमीत हेमन्तो᳘ वाच्य इ᳘ति हेमन्त᳘मृतुं᳘ वाचो नि᳘रमिमीत पङ्क्ति᳘र्हैमन्ती᳘ति पङ्क्तिं छ᳘न्दो हेमन्ता᳘दृतोर्नि᳘रमिमीत पङ्क्त्यै᳘ निध᳘नवदि᳘ति पङ्क्त्यै छ᳘न्दसो निध᳘नवत्सा᳘म नि᳘रमिमीत निध᳘नवत आग्रयण इ᳘ति निध᳘नवतः सा᳘म्न आग्रयणं ग्र᳘हं नि᳘रमिमीताग्रयणा᳘त्त्रिणवत्रयस्त्रिंशावि᳘त्याग्रयणाद्ग्र᳘हात्त्रिणवत्रयस्त्रिंशौ स्तो᳘मौ नि᳘रमिमीत त्रिणवत्रयस्त्रिंश:!भ्यां शाक्वररैवते इ᳘ति त्रिणवत्रयस्त्रिंशा᳘भ्याᳫं स्तो᳘माभ्यां शाक्वररैवते᳘ पृष्ठे नि᳘रमिमीत॥

मूलम् - विस्वरम्

“तस्यै वाङ्मत्या”- इति । वाचं तस्माद्रूपाच्चन्द्रमसो निरमिमीत । “हेमन्तो वाच्यः”- इति । हेमन्तमृतुं वाचो निरमिमीत । “पङ्क्तिर्हैमन्ती”- इति । पङ्क्तिं छन्दो हेमन्तादृतोर्निरमिमीत । “पङ्क्त्यै निधनवत्”- इति । पङ्क्त्यै छन्दसो निधनवत्साम निरमिमीत । “निधनवत आग्रयणः”- इति । निधनवतः साम्न आग्रयणं ग्रहं निरमिमीत । “आग्रयणात्त्रिणवत्रयस्त्रिंशौ”- इति । आग्रयणाद्ग्रहात्त्रिणवत्रयस्त्रिंशौ स्तोमौ निरमिमीत । “त्रिणवत्रयस्त्रिंशाभ्यां शाक्वररैवते”- इति । त्रिणवत्रयस्त्रिंशाभ्यां स्तोमाभ्यां शाक्वररैवते पृष्ठे निरमिमीत ॥ ८ ॥

सायणः

तस्यै वाङ्मात्येति । द्वितीयो मन्त्रः । मतेः सकाशाज्जाता वाक् ‘मात्या’ । वाचं तस्मादित्यादि । ‘तस्माद्’ वाक्कारणभूताद् ‘रूपाच्चन्द्रमसः’ सकाशाद् ‘वाचम्’ सृष्टवान्भवतीत्यर्थः । तस्याः वाचः सकाशादुत्पन्नो ‘हेमन्तो वाच्यः’ । तस्माद्धेमन्तादुत्पन्ना ‘हैमन्ती पङ्क्तिः’ पङ्क्त्याख्यं छन्द इत्यर्थः । ‘पङ्क्त्यै’ पङ्क्त्याः सकाशात्, (पा. सू. २ । ३ । ६२ वा. २) षष्ठ्यर्थे चतुर्थी । ‘निधनवत्’ पञ्चभक्तिकस्य ‘साम्नः’ अन्तिमो भागो निधनम्- “विश्वं समन्त्रिणं दहा” इत्यादि, तद्युक्तं साम ‘निधनवत्’ तदुत्पन्नमित्यर्थः । तस्माच्च ‘निधनवतः’ सकाशाद् आग्रयणाख्यः सोमग्रहो जातः । तस्माद् ‘आग्रयणात्’ ‘त्रिणवत्रयस्त्रिंशौ’ ‘स्तोमौ’ जातौ । त्रिरावृत्तस्तोत्रियानवकेन निष्पाद्यः स्तोमस्त्रिणवः । त्रयस्त्रिंशता स्तोत्रियाभिर्निष्पाद्यस्त्रयस्त्रिंशः । “स्तोमे डविधिः पञ्चदशाद्यर्थमिति” वार्तिककृत्स्मृतेः स्तोमवाचिनः पञ्चदशसप्तदशादयः शब्दा डप्रत्ययान्ता द्रष्टव्याः । ताभ्यां त्रिणवत्रयस्त्रिंशाभ्यां सकाशाच्छाक्वररैवताख्ये पृष्ठसामनी निष्पन्ने ॥ ८ ॥

Eggeling
  1. ‘Its, the mind’s, daughter, Speech,’–from out of that form, the moon, he fashioned speech;–‘Winter, the son of Speech,’–from out of speech he fashioned the winter season;–‘Paṅkti, the daughter of Winter,’–from out of the winter season he fashioned the Paṅkti metre;–‘from the Paṅkti the Nidhanavat,’–from out of the Paṅkti metre he fashioned the Nidhanavat-sāman 7;–‘from the Nidhanavat the Āgrayaṇa,’–from out of the Nidhanavat-sāman he fashioned the Āgrayaṇa cup;–‘from the Āgrayaṇa the Triṇava and Trayastriṁśa,’–from out of the Āgrayaṇa-graha he fashioned the thrice-nine-versed and the three-and-thirty-versed hymn-forms;–

‘from the Triṇava and Trayastriṁśa the Śākvara and Raivata,’–from out of the Triṇava and Trayastriṁśa-stomas he fashioned the Śākvara and Raivata-pr̥shṭḥas 8.

०९

विश्वास-प्रस्तुतिः

व्विश्व᳘कर्म ऽऋ᳘षिरि᳘ति॥
व्वाग्वै᳘ व्विश्व᳘कर्म᳘ ऽर्षिर्व्वाचा᳘ हीदᳫँ᳭ स᳘र्व्वं कृतं त᳘स्माद्वा᳘ग्विश्व᳘कर्म᳘ ऽर्षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतद्वा᳘चं गृह्णामि प्रजा᳘भ्य ऽइ᳘ति व्वा᳘चमुप᳘रिष्टात्प्रा᳘पादयत नानो᳘पदधाति ये᳘ नाना कामा᳘ व्वाचि तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कां तद्वा᳘चं करोत्य᳘थ यन्ना᳘ना साद᳘येद्वा᳘चᳫँ᳭ ह व्वि᳘च्छिन्द्या᳘त्सैषा᳘ त्रिव्वृदि᳘ष्टका त᳘स्यो᳘क्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

व्विश्व᳘कर्म ऽऋ᳘षिरि᳘ति॥
व्वाग्वै᳘ व्विश्व᳘कर्म᳘ ऽर्षिर्व्वाचा᳘ हीदᳫँ᳭ स᳘र्व्वं कृतं त᳘स्माद्वा᳘ग्विश्व᳘कर्म᳘ ऽर्षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतद्वा᳘चं गृह्णामि प्रजा᳘भ्य ऽइ᳘ति व्वा᳘चमुप᳘रिष्टात्प्रा᳘पादयत नानो᳘पदधाति ये᳘ नाना कामा᳘ व्वाचि तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कां तद्वा᳘चं करोत्य᳘थ यन्ना᳘ना साद᳘येद्वा᳘चᳫँ᳭ ह व्वि᳘च्छिन्द्या᳘त्सैषा᳘ त्रिव्वृदि᳘ष्टका त᳘स्यो᳘क्तो ब᳘न्धुः॥

मूलम् - Weber

विश्व᳘कर्म ऋ᳘षिरि᳘ति॥
वाग्वै᳘ विश्व᳘कर्म᳘ ऽर्षिर्वाचाॗ 9 हीदᳫं स᳘र्वं कृतं त᳘स्माद्वा᳘ग्विश्व᳘कर्म᳘ ऽर्षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतद्वा᳘चं गृह्णामि प्रजा᳘भ्य इ᳘ति वा᳘चमुप᳘रिष्टात्प्रा᳘पादयत नानो᳘पदधाति ये᳘ नानाकामा᳘ वाचि तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कां तद्वा᳘चं करोत्य᳘थ यन्ना᳘ना साद᳘येद्वा᳘चᳫं ह वि᳘छिन्द्या᳘त्सैषा᳘ त्रिवृदि᳘ष्टका त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“विश्वकर्म ऽऋषिः”- इति । वाग्वै विश्वकर्मर्षिः । वाचा हीदं सर्वं कृतम् । तस्माद्वाग्विश्वकर्मर्षिः । “प्रजापतिगृहीतया त्वया”- इति । प्रजापतिसृष्टया त्वयेत्येतत् । “वाचं गृह्णामि प्रजाभ्यः”- (वा. सं. १३ । ५८) इति । वाचमुपरिष्टात्प्रापादयत । नानोपदधाति । ये नाना कामाः- वाचि तांस्तद्दधाति । सकृत्सादयति । एकां तद्वाचं करोति । अथ यन्नाना सादयेद् । वाचं ह विच्छिन्द्यात् । सैषा त्रिवृदिष्टका तस्योक्तो बन्धुः (५) ॥ ९ ॥

सायणः

विश्वकर्मऋषिरिति मन्त्रस्य पूर्ववदिन्द्रियपरतामाह- वाग्वा इति । ‘वाक्’ इन्द्रियं हि विश्वकर्माख्यः ‘ऋषिः’ । तदुपपादयति- वाचा हीदमिति । वागिन्द्रियेण खलु कारणेन ‘इदं सर्वम्’ जगत् प्रजापतिना ‘कृतम्’ । अत एव करणीयस्य वाक्पूर्वकत्वमन्यत्राम्नातम्- “यद्वै मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति”- इति । विश्वं क्रियते ऽनयेति व्युत्पत्त्या वागेव विश्वकर्मा सैव दर्शनादृषिश्च । अन्यन्निगदसिद्धम् । प्रजापतिगृहीतया इत्यादि पूर्ववत् । वाचं गृह्णामीत्यस्य प्रयोजनमाह- प्रजाभ्य इति । प्रजापतिर्वाचं सृष्ट्वा ऊर्ध्वायां दिशि तां प्रावेशयत् । अतः ‘प्रापादयत’ । ‘नानोपदधाति’ इत्यादि पूर्ववत् । एकां तद्वाचामिति । ‘एकाम्’ अविच्छिन्नां सन्ततां ‘वाचम्’ कृतवान्भवतीत्यर्थः । विपर्यये दोषमाह- अथ यन्नानेति । ‘सैषा त्रिवृदिष्टका’ इत्यादि पूर्ववद्योज्यम् ॥ ९ ॥

Eggeling
  1. ‘The R̥shi Viśvakarman,’–the R̥shi Viśvakarman (’the all-worker’), doubtless, is Speech, for by speech everything here is done: hence the R̥shi Viśvakarman is speech:–‘By thee, taken by Prajāpati,’–that is, ‘by thee, created by Prajāpati;’–‘I take speech for my descendants,’–therewith he introduced speech from above. Separately he lays down (these bricks): what separate desires there are in speech, those he now lays into it. Only once he settles them: he thereby makes speech one; but were he to settle them each separately, he assuredly would cut speech asunder. This is a threefold brick: the meaning of this has been explained.

१०

विश्वास-प्रस्तुतिः

(रे) एतद्वै तद᳘न्नम्॥
यत्त᳘त्प्राणा᳘श्च᳘ प्रजा᳘पतिश्चा᳘सृजन्तैता᳘वान्वै स᳘र्व्वो यज्ञो᳘ यज्ञ᳘ ऽउ देवा᳘नाम᳘न्नम्॥

मूलम् - श्रीधरादि

(रे) एतद्वै तद᳘न्नम्॥
यत्त᳘त्प्राणा᳘श्च᳘ प्रजा᳘पतिश्चा᳘सृजन्तैता᳘वान्वै स᳘र्व्वो यज्ञो᳘ यज्ञ᳘ ऽउ देवा᳘नाम᳘न्नम्॥

मूलम् - Weber

एतद्वै तद᳘न्नम्॥
यत्त᳘त्प्राणा᳘श्च प्रजा᳘पतिश्चा᳘सृजन्तैता᳘वान्वै स᳘र्वो यज्ञो᳘ यज्ञ᳘ उ देवा᳘नाम᳘न्नम्॥

मूलम् - विस्वरम्

एतद्वै तदन्नम् । यत्तत्प्राणाश्च प्रजापतिश्चासृजन्त । एतावान्वै सर्वो यज्ञः । यज्ञ उ देवानामन्नम् ॥ १० ॥

सायणः

एतद्वै तदन्नमिति । इत्थं पञ्चाशत्संख्याकैर्मन्त्रैर्यावन्तो ऽर्थाः प्रतिपादिताः, एतदात्मकमेव खलु ‘तदन्नम्’ यत्प्राणभृदाख्यमन्नं सृष्ट्यादौ ‘प्राणाश्च प्रजापतिश्च’ सह मिलिताः सृष्टवन्तः । उक्तार्थजातस्यान्नरूपतां प्रतिपादयति- एतावान्वा इति । अग्नि-प्राण-वसन्त-गायत्र्यादयो ऽत्र यावन्तो ऽर्थाः अनुक्रान्ताः एतावान् एव ‘सर्वो यज्ञः’ सर्वेषां यज्ञसाधनानां कालच्छन्दःसामग्रहस्तोमपृष्ठादीनामेतन्मन्त्रेष्वन्तर्भूतत्वात् । तादृशश्च ‘यज्ञः’ ‘देवानाम्’ ‘अन्नम्’ उपजीवनीयो जीवनोपायः । अतस्तन्मन्त्रोपधेयानां प्राणभृतामन्नरूपत्वं युक्तमित्यर्थः ॥ १० ॥

Eggeling
  1. This, then, is that same food which both the vital airs and Prajāpati created: just so great indeed is the whole sacrifice, and the sacrifice is the food of the gods.

११

विश्वास-प्रस्तुतिः

(न्ता) ता द᳘शदशो᳘पदधाति॥
द᳘शाक्षरा व्विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नᳫँ᳭ स᳘र्व्वमे᳘वास्मिन्नेत᳘त्कृत्स्नम᳘न्नं दधाति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वास्मिन्नेत᳘त्कृत्स्नम᳘न्नं दधाति ता᳘ हैता᳘ व्विरा᳘ज ऽएता᳘न्प्राणा᳘न्बिभ्रति य᳘त्प्राणान्बि᳘भ्रति त᳘स्मात्प्राणभृ᳘तः॥

मूलम् - श्रीधरादि

(न्ता) ता द᳘शदशो᳘पदधाति॥
द᳘शाक्षरा व्विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नᳫँ᳭ स᳘र्व्वमे᳘वास्मिन्नेत᳘त्कृत्स्नम᳘न्नं दधाति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वास्मिन्नेत᳘त्कृत्स्नम᳘न्नं दधाति ता᳘ हैता᳘ व्विरा᳘ज ऽएता᳘न्प्राणा᳘न्बिभ्रति य᳘त्प्राणान्बि᳘भ्रति त᳘स्मात्प्राणभृ᳘तः॥

मूलम् - Weber

ता द᳘श-द्शो᳘पदधाति॥
द᳘शाक्षरा विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नᳫं स᳘र्वमेॗवास्मिन्नेत᳘त्कृत्स्नम᳘न्नं दधाति सर्व᳘त उ᳘पदधाति सर्व᳘त एॗवास्मिन्नेत᳘त्कृत्स्नम᳘न्नं दधाति ता᳘ हैता᳘ विरा᳘ज एता᳘न्प्राणा᳘न्बिभ्रति य᳘त्प्राणान्बि᳘भ्रति त᳘स्मात्प्राणभृ᳘तः॥

मूलम् - विस्वरम्

ता दश-दशोपदधाति । दशाक्षरा विराट् । विराडु कृत्स्नमन्नम् । सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति । सर्वत उपदधाति । सर्वत एवास्मिन्नेतत्कृत्स्नमन्नं दधाति । ता हैता विराज एतान्प्राणान्बिभ्रति । यत्प्राणान्बिभ्रति । तस्मात्प्राणभृतः ॥ ११ ॥

सायणः

दशसंख्यानुवादेनाप्यन्नरूपतामाह- ता दश दशेति । ‘ताः’ प्राणभृतः प्रतिदिशं दशदशोपधीयन्ते । तथा च दशसंख्यायोगाद्विराड्रूपता सम्पद्यते । लोके च भुज्यमानं ‘कृत्स्नमन्नम्’ विराडात्मकम्, अतः ‘अस्मिन्’ चित्ये ऽग्नौ ‘सर्वमेव’ अन्नजातं ‘कृत्स्नम्’ निरवशेषमेव ‘एतत्’ एतेन प्राणभृदुपधानेन स्थापितवान्भवतीत्यर्थः । सर्वत उपधानमनूद्य स्तौति- सर्वत उपदधातीति । सर्वत एवास्मिन्निति । ‘सर्वतः’ सर्वाभ्यो दिग्भ्यः सकाशादेव ‘अस्मिन्’ चित्ये ऽग्नौ ‘एतत्’ एतेन सर्वासु दिक्षूपधानेनोदीरितलक्षणं प्राणभृदाख्यमन्नं स्थापितवान्भवतीत्यर्थः । प्राणभृत्संज्ञां निर्ब्रूते- ता हैता इति । ‘ताः’ खलु ‘एताः’ उप हिता इष्टकाः ‘विराजः’ दशसंख्यायोगात्, ‘एतान्प्राणान्’ मनश्चक्षुरादीन् ‘बिभ्रति’ धारयन्ति पोषयन्ति वा । अन्नरूपत्वात्तासां प्राणभरणहेतुत्वम् । “डुभृञ् धारणपोषणयोः” (धा. पा. जु. उ. ५) इति धातुः । ‘तस्मात्’ प्राणभरणाद्धेतोः एता इष्टकाः प्राणभृत्संज्ञाः सम्पन्नाः ॥ ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे प्रथमे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (८-१-२) ॥

Eggeling
  1. He lays them down by ten and ten,–of ten syllables consists the Virāj (metre), and the Virāj is all food: he thus bestows on him (Agni) the whole food. He puts them down on every side: on every side he thus bestows the whole food on him. And verily these same Virāj (verses) sustain those vital airs, and inasmuch as they sustain (bhr̥) the vital airs (prāṇa) they are called Prānabhr̥taḥ.

  1. द्वितीयमयं पश्चादिति । का० श्रौ० सू० १७ । १२६ । ↩︎

  2. 8:1 Or, perhaps, ‘only when’ (yadā-eva). ↩︎

  3. 8:2 No explanation of this sāman has been found anywhere. Sāyaṇa, on the corresponding formula, Taitt. S. IV, 3, 4, 2 (where the term is spelt r̥kshama), merely remarks that it is a kind of sāman.’ The meaning of the term ‘similar to a r̥c’ would seem to indicate a hymn-tune involving little, or no, modification of the text chanted to it. At V, 4, 1, 5 it is the Vairūpa-sāman which (together with the Jagatī, the Saptadaśa-stoma, the rainy season, and the Viś) is in this way connected with the West. Now the textual parts of the Pañcanidhanaṁ Vairūpam (Sāma-v., vol. v, pp. 387, 575-6), ordinarily used as a pr̥shṭḥa-sāman, show hardly any modifications on the original verses (Sāma-v., vol. ii, p. 278), even less so indeed than the simple Vairūpa-sāman (Sāma-v., vol. i, p. 572), and possibly ‘r̥ksama’ (if it does not apply to a whole class of sāmans) may be another name for the Vairūpa (of which there are two other forms, Sāma-v., vol. i, pp. 425, 438) in its simplest form. The Vairūpa, in its pr̥shṭḥa form, would in that case, indeed, have originated from the R̥ksama-sāman. It is true, however, that there is no special connection between the other Pr̥shṭḥa-sāmans and the respective hymn-tune with which they are symbolically connected in the foregoing formulas. ↩︎

  4. भू᳘त्वोत्तरं त᳘स्थौ B. ↩︎

  5. 10:1 Aiḍa-sāmans are those sāmans which have the word ‘iḍā’ for their nidhana, or chorus. Such sāmans are, ej. the Vairūpa (Sāma-v., vol. V, p. 387) and the Raurava (iii, 83), the latter of which forms the central sāman of the Mādhyandina-pavamāna-stotra. What connection there can be between the Aiḍa and the Vairāja-pr̥shṭḥa (Sāma-v., vol. v, p. 391; cf. vol. i, pp. 814-5) it is not easy to see. In Śat. Br. V, 4,i, 6 the North is connected with the Anushṭubh, the Vairāja-sāman, the Ekaviṁśa and the autumn. ↩︎

  6. 11:1 Or, perhaps, one thinks everything here. ↩︎

  7. 11:2 That is a sāman which has a special nidhana, or chorus, added at the end (or inserted in the middle) of it. ↩︎

  8. 12:1 For these Pr̥shṭḥa-sāmans see part iii, introd. pp. xx-xxi. In V, 4, I, 7 the upper region is symbolically connected with the Paṅkti metre, the Śākvara and Raivata-sāmans, the Triṇava and Trayastriṁśa-stomas, and the winter and dewy seasons. ↩︎

  9. वाग्वै᳘ विश्व᳘कर्म᳘ ऋषि A1. B. - Ibid. त᳘स्माद्वा᳘ग्विश्व᳘कर्म᳘ ऋषिः A1. B. ↩︎