०१
विश्वास-प्रस्तुतिः
प्राणभृ᳘त ऽउ᳘पदधाति॥
प्राणा वै᳘ प्राणभृ᳘तः प्राणा᳘ने᳘वैतदु᳘पदधाति ताः᳘ प्रथमा᳘यां चि᳘ता ऽउ᳘पदधाति पूर्वार्ध᳘ ऽए᳘षो ऽग्नेर्य᳘त्प्रथमा चि᳘तिः पुर᳘स्तात्त᳘त्प्राणा᳘न्दधाति त᳘स्मादिमे᳘ पुर᳘स्तात्प्राणाः[[!!]]॥
मूलम् - श्रीधरादि
प्राणभृ᳘त ऽउ᳘पदधाति॥
प्राणा वै᳘ प्राणभृ᳘तः प्राणा᳘ने᳘वैतदु᳘पदधाति ताः᳘ प्रथमा᳘यां चि᳘ता ऽउ᳘पदधाति पूर्वार्ध᳘ ऽए᳘षो ऽग्नेर्य᳘त्प्रथमा चि᳘तिः पुर᳘स्तात्त᳘त्प्राणा᳘न्दधाति त᳘स्मादिमे᳘ पुर᳘स्तात्प्राणाः[[!!]]॥
मूलम् - Weber
प्राणभृ᳘त उ᳘पदधाति॥
प्राणा वै᳘ प्राणभृ᳘तः प्राणा᳘नेवैतदु᳘पदधाति ताः᳘ प्रथमा᳘यां चि᳘ता उ᳘पदधाति पूर्वार्ध᳘ एॗषो ऽग्नेर्य᳘त्प्रथमा चि᳘तिः पुर᳘स्तात्त᳘त्प्राणा᳘न्दधाति त᳘स्मादिमे᳘ पुर᳘स्तात्प्राणाः᳟॥
मूलम् - विस्वरम्
अथ पञ्चाशत्प्राणभृदिष्टकोपधानम् ।
प्राणभृत उपदधाति । प्राणा वै प्राणभृतः । प्राणानेवैतदुपदधाति । ताः प्रथमायां चिता ऽउपदधाति । पूर्वार्द्ध एषो ऽग्नेः- यत्प्रथमा चितिः । पुरस्तात्तत्प्राणान्दधाति । तस्मादिमे पुरस्तात्प्राणाः॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
गार्हपत्यचयनादिपशुशीर्षापस्येष्टकोपधानपर्यन्तं सप्तमे प्रतिपादितम् । अथाष्टमकाण्डे चितीनामुपधानं प्रपञ्च्यते । तत्र प्रथमचितौ प्राणभृदुपधानं विधत्ते- प्राणभृत उपदधातीति । प्राणान् बिभर्ति शरीरे धारयत्याभिरिति वा प्राणलिङ्गोपेतमन्त्रोपधानाद्वा ‘प्राणभृतः’ इष्टकाः । श्रुत्या तु प्रकारान्तरेणापि निर्वचनमग्रे करिष्यते । ता उपदध्यादित्यर्थः । तदेतत् प्रशंसति- प्राणा वा इति । याः प्राणभृदाख्या इष्टकास्ताश्चक्षुरादिप्राणात्मिकाः खलु । तथा च ‘एतत्’ एतेन प्राणभृदुपधानेन अग्नौ ‘प्राणानेव’ स्थापितवान्भवति । तासां प्रथमचितावुपधानं विधाय स्तौति- ताः प्रथमायामिति । प्रथमचितिरग्निशरीरस्य पूर्वो भागः । तत्र प्राणभृतामुपधानेन प्राणानेव स्थापयतीति ॥ १ ॥
Eggeling
- He lays down the Prāṇabhr̥taḥ (breath-holders) 1: now, the Prāṇabhr̥taḥ being–the vital
airs, it is the vital airs he thereby bestows upon (Agni). He lays them down in the first layer;–that which is the first layer is the forepart (ground-part) of Agni: it is thus in front that he puts (into Agni) the vital airs, whence there are (in creatures) these (orifices of the) vital airs in front.
०२
विश्वास-प्रस्तुतिः
(स्ता) ता द᳘शदशो᳘पदधाति॥
द᳘श वै᳘ प्राणा य᳘दु वा ऽअ᳘पि बहुकृ᳘त्वो द᳘श-दश द᳘शैव तृत्प᳘ञ्चकृ᳘त्वो द᳘शदशो᳘पदधाति प᳘ञ्च वा᳘ ऽएता᳘न्पशूनु᳘पदधाति द᳘शदश वा ऽए᳘कैकस्मिन्पशौ᳘ प्राणास्त᳘देषु स᳘र्व्वेषु प्राणा᳘न्दधात्य᳘नन्तर्हिताः पशु᳘भ्य ऽउ᳘पदधात्य᳘नन्तर्हितांस्त᳘त्पशु᳘भ्यः प्राणा᳘न्दधाति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वैष्वेत᳘त्प्राणा᳘न्दधाति॥
मूलम् - श्रीधरादि
(स्ता) ता द᳘शदशो᳘पदधाति॥
द᳘श वै᳘ प्राणा य᳘दु वा ऽअ᳘पि बहुकृ᳘त्वो द᳘श-दश द᳘शैव तृत्प᳘ञ्चकृ᳘त्वो द᳘शदशो᳘पदधाति प᳘ञ्च वा᳘ ऽएता᳘न्पशूनु᳘पदधाति द᳘शदश वा ऽए᳘कैकस्मिन्पशौ᳘ प्राणास्त᳘देषु स᳘र्व्वेषु प्राणा᳘न्दधात्य᳘नन्तर्हिताः पशु᳘भ्य ऽउ᳘पदधात्य᳘नन्तर्हितांस्त᳘त्पशु᳘भ्यः प्राणा᳘न्दधाति सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘त ऽए᳘वैष्वेत᳘त्प्राणा᳘न्दधाति॥
मूलम् - Weber
ता द᳘श-दशो᳘पदधाति॥
द᳘श वै᳘ प्राणा य᳘दु वा अ᳘पि बहु कृ᳘त्वो द᳘श-दश द᳘शैव तृत्प᳘ञ्च कृ᳘त्वो द᳘श-दशो᳘पदधाति प᳘ञ्च वा᳘ एता᳘न्पशूनु᳘पदधाति द᳘श-दश वा ए᳘कैकस्मिन्पशौ᳘ प्राणास्तदेषु स᳘र्वेषु प्राणा᳘न्दधात्य᳘नन्तर्हिताः पशु᳘भ्य उ᳘पदधात्य᳘नन्तर्हितांस्त᳘त्पशु᳘भ्यः प्राणा᳘न्दधाति सर्व᳘त उ᳘पदधाति सर्व᳘त एॗवैष्वेत᳘त्प्राणा᳘न्दधाति॥
मूलम् - विस्वरम्
ता दश-दशोपदधाति । दश वै प्राणाः । यदु वा ऽअपि बहुकृत्वो दश-दश-दशैव तत् । पञ्चकृत्वो दश-दशोपदधाति । पञ्च वा ऽएतान्पशूनुपदधाति । दश-दश वा ऽएकैकस्मिन्पशौ प्राणाः, तदेषु सर्वेषु प्राणान्दधाति । अनन्तर्हिताः पशुभ्य उपदधाति । अनन्तर्हितांस्तत्पशुभ्यः प्राणान्दधाति । सर्वत उपदधाति, सर्वत एवैष्वेतत्प्राणान्दधाति ॥ २ ॥
सायणः
ताः पञ्चाशत्सङ्ख्याकाः प्राणभृतः ‘दश-दश’ उपधेयाः । ‘दश’ सङ्ख्याकाः खलु ‘प्राणाः’- सप्त शीर्षण्याः, द्वाववाञ्चौ, नाभिर्दशमीति । अतः सङ्ख्यासाम्यात् तासां प्राणरूपता सिद्धेति । यदु वा इत्यादि । बहुकृत्वः बहुवारं दशसङ्ख्याका इष्टका उपधीयन्ते ‘यत्’ तथापि विभज्यमानाः सत्यस्ताः प्राणभृतः ‘दशैव’ सम्पद्यन्ते । दशसङ्घातानां सङ्ख्यां विधाय स्तौति- पञ्चकृत्वो दश-दशोपदधातीति । ‘पञ्चकृत्वः’ पञ्चवारम् । पञ्च वा इत्यादि । पञ्चसङ्ख्याकान् हि ‘पशून्’ अयमध्वर्युः ‘उपदधाति’ तेषु एकैकस्मिन् ‘पशौ’ ‘दश-दश’ ‘प्राणाः’ ‘तत्’ तथा सति ‘एषु’ ‘सर्वेषु’ पञ्चस्वपि पशुषु प्रत्येकं दश-दश प्राणान् स्थापितवान् भवतीत्यर्थः । उपहितानां पशुशीर्षाणां समीपे तासामुपधानं विधाय स्तौति- अनन्तर्हिताः पशुभ्य इति । ‘पशुभ्यः’ पशुशीर्षेभ्यः सकाशाद् ‘अनन्तर्हिताः’ अव्यवहिताः ‘तत्’ तेन ‘पशुभ्यः’ ‘अनन्तर्हितान्’ अव्यवहितानेव ‘प्राणान्’ स्थापयति । प्राच्याद्यासु पञ्चसु दिक्षु तासामुपधानं विधत्ते- सर्वत उपदधातीति । ‘सर्वतः’ सर्वासु दिक्षु दश-दशोपदध्यात् । ‘सर्वतः’ सर्वाभ्यो दिग्भ्यः । गतमन्यत् ॥ २ ॥
Eggeling
- He lays them down by ten and ten, for there are ten vital airs; and even though ’ten-ten’ may mean many, times, here they mean only ten. Five times he puts on ten (bricks) each time; for it is those five (kinds of sacrificial) animals he bestows, and there are ten vital airs in each .animal: upon all of them he thus bestows the vital airs. He lays down (the bricks) so as not to be separated from the animals: he thus bestows vital airs not separated from the animals. He lays them down on every side: on every side he thus bestows on them (orifices of) the vital airs.
०३
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ प्राणभृ᳘त ऽउपद᳘धाति॥
प्रजा᳘पतेर्वि᳘स्रस्तात्प्राणा ऽउ᳘दक्रामन्देव᳘ता भूत्वा ता᳘नब्रवीदु᳘प मे᳘त प्र᳘ति म ऽएत᳘द्धत्त ये᳘न मे यूय᳘मुद᳘क्रमिष्टे᳘ति स वै तद᳘न्नᳫँ᳭ सृजस्व य᳘त्ते व्वयं प᳘श्यन्त ऽउपव᳘सामे᳘ति ते वा᳘ ऽउभ᳘ये सृजामहा ऽइ᳘ति तथे᳘ति ते᳘ प्राणा᳘श्च प्रजा᳘पतिश्चैतद᳘न्नमसृजन्तैताः᳘ प्राणभृ᳘तः॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ प्राणभृ᳘त ऽउपद᳘धाति॥
प्रजा᳘पतेर्वि᳘स्रस्तात्प्राणा ऽउ᳘दक्रामन्देव᳘ता भूत्वा ता᳘नब्रवीदु᳘प मे᳘त प्र᳘ति म ऽएत᳘द्धत्त ये᳘न मे यूय᳘मुद᳘क्रमिष्टे᳘ति स वै तद᳘न्नᳫँ᳭ सृजस्व य᳘त्ते व्वयं प᳘श्यन्त ऽउपव᳘सामे᳘ति ते वा᳘ ऽउभ᳘ये सृजामहा ऽइ᳘ति तथे᳘ति ते᳘ प्राणा᳘श्च प्रजा᳘पतिश्चैतद᳘न्नमसृजन्तैताः᳘ प्राणभृ᳘तः॥
मूलम् - Weber
य᳘द्वेव᳘ प्राणभृ᳘त उपद᳘धाति॥
प्रजा᳘पतेर्वि᳘स्रस्तात्प्राणा उ᳘दक्रामन्देव᳘ता भूत्वा ता᳘नब्रवीदु᳘प मे᳘त प्र᳘ति म एत᳘द्धत्त ये᳘न मे यूय᳘मुद᳘क्रमिष्टे᳘ति स वै तद᳘न्नᳫं सृजस्व य᳘त्ते वयम् प᳘श्यन्त उपव᳘सामे᳘ति ते वा᳘ उभ᳘ये सृजामहा इ᳘ति तथे᳘ति ते᳘ प्राणा᳘श्च प्रजा᳘पतिश्चैतद᳘न्नमसृजन्तैताः᳘ प्राणभृ᳘तः॥
मूलम् - विस्वरम्
यद्वेव प्राणभूत उपदधाति । प्रजापतेर्विस्रस्तात्प्राणा उदक्रामन्- देवता भूत्वा । तानब्रवीत्- उप मेत, प्रति म ऽएतद्धत्त- येन मे यूयमुदक्रमिष्टेति । स वै- तदन्नं सृजस्व- यत्ते वयं पश्यन्त उपवसामेति । ते वा उभये सृजामहा ऽइति । तथेति । ते प्राणाश्च प्रजापतिश्चैतदन्नमसृजन्त- एताः प्राणभृतः ॥ ३ ॥
सायणः
प्राणभृदुपधानमनूद्य प्रकारान्तरेण स्तौति- यद्वेव प्राणभृत उपदधातीति । ‘विस्रस्ताद्’ विश्लिष्टावयवात् ‘प्रजापतेः’ सकाशात् ‘प्राणाः’ उत्क्रान्ताः । केन रूपेणोदक्रामन्निति तदाह- देवता भूत्वेति । अग्न्याद्यधिष्ठातृदेवतारूपं प्राप्येत्यर्थः । तानब्रवीदित्यादि । प्रजापतिः ‘तान्’ प्राणान् ‘अब्रवीत्’ । हे प्राणाः ! यूयं ‘मा’ माम् ‘उपेत’ उपगच्छत । “त्वामौ द्वितीयायाः”- इति (पा. सू. ८ । १ । २३) मादेशः । ‘मे’ मदीयम् ‘एतद्’ अङ्गम् ‘प्रतिधत्त’ व्यवहारयोग्यं संस्कुरुत । ‘येन’ खलु शरीरेण विस्रस्तेन हेतुना हे प्राणाः ! ‘यूयमुदक्रमिष्ट’ उत्क्रान्ता अभूत । तच्छरीरं यथापूर्वं कुरुतेति सम्बन्धः । एवं प्रजापतिप्रार्थितानां प्राणानां वाक्यम्- स वै तदन्नामित्यादि । हे प्रजापते ! ‘सः’ तादृशस्त्वमस्मदर्थम् ‘अन्नं’ ‘सृजस्व’ ‘ते’ तव सम्बन्धि सृष्टम् ‘यद्’ अन्नम् ‘पश्यन्तः’ वयं तव समीपे ‘उपवसामः’ उपविशामेति । अथ प्रजापतिस्तानब्रवीत्; ‘ते’ तथाविधा ‘उभये’ उभयविधा अहं व यूयं च मिलिताः सन्तस्तदन्नम् ‘सृजामहा इति’ प्रार्थितवान् । ‘ते’ अपि ‘तथेति’ अङ्गीचक्रुः । तदनन्तरम् ‘ते’ ‘प्राणाः’ ‘प्रजापतिश्च’ सम्भूय प्राणभृदिष्टकारूपम् ‘अन्नमसृजन्त’ इत्यर्थः ॥ ३ ॥
Eggeling
- And again why he lays down the Prāṇabhr̥taḥ. From Prajāpati, when relaxed (by producing creatures), the vital airs departed. To them, having become deities, he spake, ‘Come ye to me, return ye unto me that wherewith ye have gone out of me!’–‘Well then, create thou that food which we will await here looking on!’–‘Well then, let us both create!’–‘So be it!’–So both the final airs and Prajāpati created that food, these Prāṇabhr̥t (bricks).
०४
विश्वास-प्रस्तुतिः
स᳘ पुर᳘स्तादुपदधाति[[!!]]॥
(त्य) अयं᳘ पुरो भु᳘व ऽइ᳘त्यग्निर्वै᳘ पुरस्तद्यत्तमा᳘ह पुर ऽइ᳘ति प्रा᳘ञ्च᳘ᳫँ᳘ ह्यग्नि᳘मुद्ध᳘रन्ति प्रा᳘ञ्चमुपच᳘रन्त्य᳘थ यद्भु᳘व ऽइत्या᳘हाग्निर्वै भु᳘वो ऽग्ने᳘र्हीदᳫँ᳭ स᳘र्व्वं भ᳘वति प्राणो᳘ हाग्नि᳘र्भूत्वा᳘ पुर᳘स्तात्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥
मूलम् - श्रीधरादि
स᳘ पुर᳘स्तादुपदधाति[[!!]]॥
(त्य) अयं᳘ पुरो भु᳘व ऽइ᳘त्यग्निर्वै᳘ पुरस्तद्यत्तमा᳘ह पुर ऽइ᳘ति प्रा᳘ञ्च᳘ᳫँ᳘ ह्यग्नि᳘मुद्ध᳘रन्ति प्रा᳘ञ्चमुपच᳘रन्त्य᳘थ यद्भु᳘व ऽइत्या᳘हाग्निर्वै भु᳘वो ऽग्ने᳘र्हीदᳫँ᳭ स᳘र्व्वं भ᳘वति प्राणो᳘ हाग्नि᳘र्भूत्वा᳘ पुर᳘स्तात्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥
मूलम् - Weber
स᳘ पुर᳘स्तादु᳘पदधाति॥
अय᳘म् पुरो भु᳘व इ᳘त्यग्निर्वै᳘ पुरस्तद्यत्तमा᳘ह पुर इ᳘ति प्रा᳘ञ्चᳫं ह्य᳘ग्नि᳘मुद्ध᳘रन्ति प्रा᳘ञ्चमुपच᳘रन्त्य᳘थ यद्भु᳘व इत्या᳘हाग्निर्वै भु᳘वो ऽग्नेॗर्हीदᳫं स᳘र्वम् भ᳘वति प्राणो᳘ हाग्नि᳘र्भूत्वा᳘ पुर᳘स्तात्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥
मूलम् - विस्वरम्
स पुरस्तादुपदधाति । “अयं पुरो भुवः”- इति । अग्निर्वै पुरः । तद्यत्तमाह- पुर इति । प्राञ्चं ह्यग्निमुद्धरन्ति, प्राञ्चमुपचरन्ति । अथ यद्भुव इत्याह । अग्निर्वै भुवः, अग्नेर्हीदं सर्वं भवति, प्राणो हाग्निर्भूत्वा पुरस्तात्तस्थौ । तदेव तद्रूपमुपदधाति ॥ ४ ॥
सायणः
अथ प्राच्यां दिशि प्राणभृदुपधानं समन्त्रकं विधत्ते- स पुरस्तादिति 2 । ‘पुरस्तात्’ पूर्वस्यां दिशि । सप्तम्यर्थे ऽस्तातिः । अत्र “पञ्चाशदिष्टकाः, पञ्चाशद्यजूंषि” इति वचनात् खण्डशः पञ्चाशद्धा विभक्ता मन्त्राः प्रयोक्तव्या इत्येकः पक्षः । विभक्तानां मन्त्रभागानामपरिसमाप्तार्थत्वात्पञ्चैव मन्त्राः; पञ्चाशत्संख्या तु आवृत्त्या पूरणीयेति पक्षान्तरम् 3 ।
अत्र प्रथमपक्षानुसारेण तावद्व्याख्यायते- “अयं पुरो भुवः”- इत्याद्याः पूर्वस्यां दिशि प्राणभृदुपधानमन्त्राः । “अग्निर्वे पुरः” इति पूर्वदिग्वाचिना पुरःशब्देन तत्सम्बद्धो ऽग्निरत्र विवक्षित इत्यर्थः ।
एतदेवोपपादयति- तद्यत्तमाहेति । ‘तत्’ तत्र ‘यत्’ यस्मात् ‘तम्’ अग्निम् ‘पुरः’ ‘इत्याह’ पुरःशब्दवाच्यतया प्रतिपादयति, तत्कारणमभिधीयत इति शेषः । प्राञ्चं हीत्यादि तत्कारणवर्णनम् । ‘प्राञ्चम्’ पूर्वदिगभिमुखम् ‘अग्निम्’ आहवनीयात्मना ‘उद्धरन्ति’ । तथा ‘प्राञ्चम्’ प्रागपवर्गम् ‘उपचरन्ति’ अग्निपरिचर्यां कुर्वन्ति ‘हि’ यस्मात् तस्मात्पुरःशब्देनाग्निरभिधीयत इत्यर्थः । पक्षान्तरमनूद्य व्याचष्टे- अथ यद्भुव इति । भवत्यस्मादिति व्युत्पत्त्या ‘भुव’- शब्दो ऽग्निवचनः । उक्तार्थपरतामाह- प्राणो हेति । प्राणवायुरेव हि ‘अग्निर्भूत्वा’ ‘पुरस्तात्’ पूर्वस्यां दिशि आहवनीयात्मना ‘तस्थौ’ स्थितवान् । ‘तद्’ अग्न्यात्मकं प्राणमेवोपहितवान् भवतीत्यर्थः । इत्थं प्रथमदशके प्रथमो मन्त्रो व्याख्यातः ॥ ४ ॥
Eggeling
- In front (of the altar) he lays down (ten bricks 4,–the first) with (Vāj. S. XIII, 54), ‘This one in front, the Existent,’–in front, doubtless, is Agni; and as to why he speaks of him (as being) ‘in front,’ it is because they take out the fire (from the Gārhapatya) towards the front, and attend on Agni towards the front 5. And as to why he says ’the
existent (bhuva),’ Agni is indeed the existent, for it is through Agni that everything exists (bhū) here. Agni, indeed, having become the breath, remained in front 6: it is that very form 7 he now bestows (on Agni).
०५
विश्वास-प्रस्तुतिः
त᳘स्य प्राणो᳘ भौवायन ऽइ᳘ति॥
प्राणं त᳘स्माद्रूपा᳘दग्नेर्नि᳘रमिमीत व्वसन्तः᳘ प्राणायन ऽइ᳘ति व्वसन्त᳘मृतुं᳘ प्राणान्नि᳘रमिमीत गायत्री᳘ व्वासन्ती᳘ति गायत्रीं छ᳘न्दो व्वसन्ता᳘दृतोर्नि᳘रमिमीत गायत्र्यै᳘ गायत्रमि᳘ति गायत्र्यै छ᳘न्दसो गायत्रᳫँ᳭ सा᳘म नि᳘रमिमीत गायत्रा᳘दुपाᳫँ᳭शुरि᳘ति गायत्रात्सा᳘म्न ऽउपाᳫँ᳭शुं ग्र᳘हं नि᳘रमिमीतोपाᳫँ᳭शो᳘स्त्रिव्वृदि᳘त्युपाᳫँ᳭शोर्ग्र᳘हात्त्रिव्वृ᳘तᳫँ᳭ स्तो᳘मं नि᳘रमिमीत त्रिव्वृ᳘तो रथन्तरमि᳘ति त्रिव्वृ᳘तः स्तो᳘माद्रथन्तरं᳘ पृष्ठं नि᳘रमिमीत॥
मूलम् - श्रीधरादि
त᳘स्य प्राणो᳘ भौवायन ऽइ᳘ति॥
प्राणं त᳘स्माद्रूपा᳘दग्नेर्नि᳘रमिमीत व्वसन्तः᳘ प्राणायन ऽइ᳘ति व्वसन्त᳘मृतुं᳘ प्राणान्नि᳘रमिमीत गायत्री᳘ व्वासन्ती᳘ति गायत्रीं छ᳘न्दो व्वसन्ता᳘दृतोर्नि᳘रमिमीत गायत्र्यै᳘ गायत्रमि᳘ति गायत्र्यै छ᳘न्दसो गायत्रᳫँ᳭ सा᳘म नि᳘रमिमीत गायत्रा᳘दुपाᳫँ᳭शुरि᳘ति गायत्रात्सा᳘म्न ऽउपाᳫँ᳭शुं ग्र᳘हं नि᳘रमिमीतोपाᳫँ᳭शो᳘स्त्रिव्वृदि᳘त्युपाᳫँ᳭शोर्ग्र᳘हात्त्रिव्वृ᳘तᳫँ᳭ स्तो᳘मं नि᳘रमिमीत त्रिव्वृ᳘तो रथन्तरमि᳘ति त्रिव्वृ᳘तः स्तो᳘माद्रथन्तरं᳘ पृष्ठं नि᳘रमिमीत॥
मूलम् - Weber
त᳘स्य प्राणो᳘ भौवायन इ᳘ति॥
प्राणं त᳘स्माद्रूपा᳘दग्नेर्नि᳘रमिमीत वसन्तः᳘ प्राणायन इ᳘ति वसन्त᳘मृतु᳘म् प्राणान्नि᳘रमिमीत गायत्री᳘ वासन्ती᳘ति गायत्रीं छ᳘न्दो वसन्ता᳘दृतोर्नि᳘रमिमीत गायत्र्यै᳘ गायत्रमि᳘ति गायत्र्यै छ᳘न्दसो गायत्रᳫं सा᳘म नि᳘रमिमीत गायत्रा᳘दुपांशुरि᳘ति गायत्रात्सा᳘म्न उपांशुं ग्र᳘हं नि᳘रमिमीतोपांशो᳘स्त्रिवृदि᳘त्युपांशोर्ग्र᳘हात्त्रिवृ᳘तᳫं स्तो᳘मं नि᳘रमिमीत त्रिवृ᳘तो रथन्तरमि᳘ति त्रिवृ᳘त स्तो᳘माद्रथन्तर᳘म् पृष्ठं नि᳘रमिमीत॥
मूलम् - विस्वरम्
“तस्य प्राणो भौवायनः”- इति । प्राणं तस्माद्रूपादग्नेर्निरमिमीत । “वसन्तः प्राणायनः”- इति । वसन्तमृतुं प्राणान्निरमिमीत । “गायत्री वासन्ती”- इति । गायत्री छन्दो वसन्तादृतोर्निरमिमीत । “गायत्र्यै गायत्रम्”- इति । गायत्र्यै छन्दसो गायत्रं साम निरमिमीत । “गायत्रादुपांशुः”- इति । गायत्रात्साम्न उपांशुं ग्रहं निरमिमीत । “उपांशोस्त्रिवृत्”- इति । उपांशोर्ग्रहात्त्रिवृतं स्तोमं निरमिमीत । “त्रिवृतो रथन्तरम्”- इति । त्रिवृतः स्तोमाद्रथन्तरं पृष्ठं निरमिमीत ॥ ५ ॥
सायणः
द्वितीयं मन्त्रमनूद्य व्याचष्टे- तस्य प्राण इति । भुवस्यापत्यम् ‘भौवायनः’ स च प्राणस्याग्नेरनन्तर उत्पन्नः । प्राणं तस्मादिति । ‘तस्मात्’ प्रथममन्त्रप्रतिपाद्यादग्न्यात्मकाद्रूपात् ‘प्राणम्’ ‘निरमिमीत’ निर्मितवान् सृष्टवान् भवतीत्यर्थः । “वसन्तः प्राणायनः” इति तृतीयमन्त्रः । प्राणस्यापत्यम् ‘प्राणायनः’ । अत्र पूर्वपूर्वमन्त्रप्रतिपाद्यादुत्तरोत्तरमन्त्रप्रतिपाद्यानामुत्पत्तिरिति प्रकरणार्थः । स च प्राणसृष्टः ‘वसन्तः’ । हे इष्टके ! तदात्मिकां त्वामुपदधामीति सर्वत्र योजना । ‘प्राणायनः’ इत्यनेन ‘प्राणाद्वसन्तमृतुम्’ सृष्टवानित्यर्थः सिद्धः । वसन्तादुत्पन्नत्वाद् ‘गायत्री वासन्ती’ । तदेवाह- गायत्री छन्दो वसन्तादृतोरिति । तस्या गायत्र्याः सकाशाद् गायत्राख्यं ‘साम’ सृष्टम् । तदाह- गायत्र्यै छन्दस इति । षष्ठ्यर्थे चतुर्थी (पा. सू. २ ३। ६२ वा. १) । तस्माच्च गायत्राख्यात् ‘साम्नः’ उपांशुनामको ग्रहो निर्मितस्तदाह- गायत्रात्साम्न उपांशुमिति । स्तोत्रियानवकात्मकः स्तोमः ‘त्रिवृत्’ स च ‘उपांशोः’ निर्मितस्तदाह- उपांशोर्ग्रहात्त्रिवृतमिति । तस्मात् ‘त्रिवृतः’ रथन्तराख्यं साम निर्मितम् । तदाह- त्रिवृतः स्तोमाद्रथन्तरमिति । पृष्ठस्तोत्रस्य निष्पादकत्वात् ‘रथन्तरं’ साम ‘पृष्ठम्’ ॥ ५ ॥
Eggeling
- [The others with], ‘His, the Existent’s son, the Breath,’–from out of that form, fire, he (Prajāpati) fashioned the breath;–‘Spring, the son of the breath,’–from out of the breath he fashioned the spring-season 8;–‘The Gāyatrī, the daughter of the Spring,’–from out of the spring-season he fashioned the Gāyatrī metre;–‘From the Gāyatrī the Gāyatra,’–from out of the Gāyatrī metre he fashioned the Gāyatra 9 hymn-tune;–‘From the Gāyatra the Upāṁśu,’–from out of the Gāyatra hymn-tune he fashioned the Upāṁśu-graha 10;–
‘From the Upāṁśu the Trivr̥t,’–from out of the Upāṁśu-graha he fashioned the nine-versed hymn-form;–‘From the Trivr̥t the Rathantara,’–from out of the Trivr̥t-stoma he fashioned the Rathantara-pr̥shṭḥa 11.
०६
विश्वास-प्रस्तुतिः
व्व᳘सिष्ठ ऽऋ᳘षिरि᳘ति॥
प्राणो वै व्व᳘सिष्ठ ऽऋ᳘षिर्यद्वै नु श्रे᳘ष्ठस्ते᳘न व्व᳘सिष्ठो᳘ ऽथो यद्व᳘स्तृतमो व्व᳘सति ते᳘नो ऽएव व्व᳘सिष्ठः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येत᳘त्प्राणं᳘ गृह्णामि प्रजा᳘भ्य ऽइ᳘ति प्राणं᳘ पुर᳘स्तात्प्रा᳘पादयत नानो᳘पदधाति ये᳘ नाना कामाः᳘ प्राणे तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं त᳘त्प्राणं᳘ करोत्य᳘थ यन्ना᳘ना साद᳘येत्प्राण᳘ᳫँ᳘ ह व्वि᳘च्छिन्द्या᳘त्सैषा᳘ त्रिव्वृदि᳘ष्टका य᳘जुः सा᳘दनᳫँ᳭ सू᳘ददोहास्त᳘त्त्रिव्वृ᳘त्त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘त्कृत्वो᳘पदधाति॥
मूलम् - श्रीधरादि
व्व᳘सिष्ठ ऽऋ᳘षिरि᳘ति॥
प्राणो वै व्व᳘सिष्ठ ऽऋ᳘षिर्यद्वै नु श्रे᳘ष्ठस्ते᳘न व्व᳘सिष्ठो᳘ ऽथो यद्व᳘स्तृतमो व्व᳘सति ते᳘नो ऽएव व्व᳘सिष्ठः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येत᳘त्प्राणं᳘ गृह्णामि प्रजा᳘भ्य ऽइ᳘ति प्राणं᳘ पुर᳘स्तात्प्रा᳘पादयत नानो᳘पदधाति ये᳘ नाना कामाः᳘ प्राणे तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं त᳘त्प्राणं᳘ करोत्य᳘थ यन्ना᳘ना साद᳘येत्प्राण᳘ᳫँ᳘ ह व्वि᳘च्छिन्द्या᳘त्सैषा᳘ त्रिव्वृदि᳘ष्टका य᳘जुः सा᳘दनᳫँ᳭ सू᳘ददोहास्त᳘त्त्रिव्वृ᳘त्त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘त्कृत्वो᳘पदधाति॥
मूलम् - Weber
व᳘सिष्ठ ऋ᳘षिरि᳘ति॥
प्राणो वै व᳘सिष्ठ ऋ᳘षिर्यद्वै नु श्रे᳘ष्ठस्ते᳘न व᳘सिष्ठो᳘ ऽथो यद्व᳘स्तृतमो व᳘सति ते᳘नो एव व᳘सिष्ठः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येत᳘त्प्राणं᳘ गृह्णामि प्रजा᳘भ्य इ᳘ति प्राण᳘म् पुर᳘स्तात्प्रा᳘पादयत नानो᳘पदधाति ये᳘ नानाकामाः᳘ प्राणे तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं त᳘त्प्राणं᳘ करोत्य᳘थ यन्ना᳘ना साद᳘येत्प्राणᳫं ह वि᳘छिन्द्याॗत्सैषा᳘ त्रिवृदि᳘ष्टका य᳘जुः सा᳘दनᳫं सू᳘ददोहास्त᳘त्त्रिवृ᳘त्त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘त्कृत्वो᳘पदधाति॥
मूलम् - विस्वरम्
“वसिष्ठ ऋषिः”- इति । प्राणो वै वसिष्ठ ऋषिः । यद्वै तु श्रेष्ठः- तेन वसिष्ठः । अथो यद्वस्तृतमो वसति- तेनो ऽएव वसिष्ठः । “प्रजापतिगृहीतया त्वया”- इति । प्रजापतिसृष्टया त्वयेत्येतत् । “प्राणं गृह्णामि प्रजाभ्यः”- (वा० सं० १३ । ५४) इति । प्राणं पुरस्तात् प्रापादयत । नानोपदधाति । ये नाना कामाः प्राणे- तांस्तद्दधाति । सकृत्सादयति । एकं तत्प्राणं करोति । अथ यन्नाना सादयेत्- प्राणं ह विच्छिन्द्यात् । सैषा त्रिवृदिष्टका- यजुः, सादनं, सूददोहाः- तत्त्रिवृत् । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावत्तत्कृत्वोपदधाति (१) ॥ ६ ॥
सायणः
तस्मात् ‘वसिष्ठ ऋषिः’ उत्पन्नः । तस्य च वसिष्ठस्य स्वरूपमाह- प्राणो वा इति । देहस्थितिहेतुत्वेन इन्द्रियाणां वासयितृत्वाद्वसिष्ठ इति प्राण एवोच्यते, तदेवाह- यद्वा इति । ‘यद्वै’ यस्मादेव ‘नु’ निश्चितमिन्द्रियाणां मध्ये प्राणः ‘श्रेष्ठः,’ अनुग्रहीतृत्वात् । तदनुगृहीतानि हीन्द्रियाणि स्वस्वव्यापारं कर्तुं प्रभवन्ति, ‘तेन’ श्रैष्ठ्ययोगेन प्राणो ‘वसिष्ठः’ जातः ॥
पक्षान्तरमाह- अथो इति । ‘यद्’ यस्मात्प्राणः ‘वस्तृतमः’ अतिशयेन वासयिता सन् ‘वसति’ शरीरे वर्तते ‘तेनो’ तेनैव कारणेन ‘वसिष्ठः’ । “तुश्छन्दसि” (पा. सू. ३ । ५ । ५९) इति स्मरणात् वस्तृशब्दादातिशायिनिके (पा. सू. ५ । ३ । ५५) इष्ठनि “तुरिष्ठेमेयस्सु" (पा. सू. ६ । ४ । १५४) इति तृलोपः । “प्रजापतिगृहीतया” इति दशमो मन्त्रस्तं व्याचष्टे- प्रजापतिसृष्टयेति । कर्तुविशेषोपादानसामर्थ्यादत्र गृहिधातुः सुजिधात्वर्थे वर्तत इत्यर्थः । हे इष्टके ! ‘प्रजापतिसृष्टया त्वया’ ‘प्रजाभ्यः’ तादर्थ्ये चतुर्थी, सर्वप्रजार्थम् ‘प्राणं गृह्णामि’ सृजामीत्यर्थः । अनेन प्राणं ‘पुरस्तात्’ पूर्वस्यां दिशि ‘प्रापादयत’ प्रजापतिः प्रावेशयत् । यजमानो ऽप्यनेन मन्त्रेण प्राणं प्रपादयति प्रवेशयतीत्यर्थः ॥
दशानां पूर्वदिगुपधेयानां प्राणभृतामुपधानस्य पृथक्त्वं विधाय स्तौति- नानोपदधातीति । ये नाना कामा इति । प्राणाख्ये वायौ ‘ये’ नानाविधफलविषयाः ‘कामाः’ सन्ति ‘तान्’ कामान् ‘तत्’ तेनोपधानेन स्थापितवान् भवतीत्यर्थः । सादनस्याप्युपधानवत्प्रसक्तं नानात्वं व्यावर्तयति- सकृत्सादयतीति । ‘तत्’ तेन सकृत्सादनेन ‘प्राणम्’ ‘एकम्’ अविच्छिन्नं ‘करोति’ ॥
व्यतिरेके बाधं दर्शयति- अथ यन्नाना सादयेदिति । पार्थक्येन सादने त्रिवृत्वसम्पत्तिविघातः स्यात् । त्रिवृत्त्वं विवृणोति- सैषेत्यादिना । ‘सैषा’ प्राणभृदिष्टका ‘त्रिवृत्’ त्रिगुणा । त्रैगुण्यमेव दर्शयति- यजुरिति । तत्तदुपधानमन्त्रो ‘यजुः’ तया देवतयेत्येतत् ‘सादनम्’ ता अस्येति ‘सूददोहाः’ ‘तत्’ एतत्त्रितयं मिलितं सत् ‘त्रिवृत्’ । गतमन्यत् ॥ ६ ॥
Eggeling
- ‘The R̥shi Vasishṭḥa 12,’–the R̥shi Vasishṭḥa, doubtless, is the breath: inasmuch as it is the chief (thing) therefore it is Vasishṭḥa (the most excellent); or inasmuch as it abides (with living beings) as the best abider (vastr̥), therefore also it is Vasishṭḥa.–‘By thee, taken by Prajāpati,’–that is, ‘by thee, created by Prajāpati,’–‘I take breath for my descendants (and people)!’–therewith he introduced the breath from the front. Separately he lays down (these ten bricks): what separate desires there are in the breath, those he thereby lays into it. Only once he settles them 13: he thereby makes it one breath; but were he to settle them each separately, he assuredly would cut the’ breath asunder. This brick is trivr̥t (threefold): the formula, the settling, and the sūdadohas 14, that is threefold, and threefold is Agni,–as great as
Agni is, as great as is his measure, so much he lays down (on the altar) by so dying.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ दक्षिणतः᳘॥
(तो ऽ) अयं᳘ दक्षिणा᳘ व्विश्व᳘कर्मे᳘त्ययं वै᳘ व्वायु᳘र्व्विश्व᳘कर्मा᳘ यो ऽयं प᳘वत ऽएष᳘ हीदᳫँ᳭ स᳘र्व्वं करो᳘ति तद्यत्तमा᳘ह दक्षिणे᳘ति त᳘स्मादेष᳘ दक्षि᳘णैव भू᳘यिष्ठं व्वाति म᳘नो ह व्वायु᳘र्भूत्वा᳘ दक्षिणत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥ (शतम् ४३००)
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ दक्षिणतः᳘॥
(तो ऽ) अयं᳘ दक्षिणा᳘ व्विश्व᳘कर्मे᳘त्ययं वै᳘ व्वायु᳘र्व्विश्व᳘कर्मा᳘ यो ऽयं प᳘वत ऽएष᳘ हीदᳫँ᳭ स᳘र्व्वं करो᳘ति तद्यत्तमा᳘ह दक्षिणे᳘ति त᳘स्मादेष᳘ दक्षि᳘णैव भू᳘यिष्ठं व्वाति म᳘नो ह व्वायु᳘र्भूत्वा᳘ दक्षिणत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥ (शतम् ४३००)
मूलम् - Weber
अ᳘थ दक्षिणतः᳟॥
अयं᳘ दक्षिणा᳘ विश्व᳘कर्मे᳘त्ययं वै᳘ वायु᳘र्विश्व᳘कर्माॗ यो ऽयम् प᳘वत एषॗ हीदᳫं स᳘र्वं करो᳘ति तद्यत्तमा᳘ह दक्षिणे᳘ति त᳘स्मादेष᳘ दक्षिॗणैव भू᳘यिष्ठं वाति म᳘नो ह वायु᳘र्भूत्वा᳘ दक्षिणत᳘स्तस्थौ त᳘देव त᳘द्रूपमु᳘पदधाति॥
मूलम् - विस्वरम्
अथ दक्षिणतः । “अयं दक्षिणा विश्वकर्मा”- इति । अयं वै वायुर्विश्वकर्मा- यो ऽयं पवते । एष हीदं सर्वं करोति । तद्यत्तमाह दक्षिणेति । तस्मादेष दक्षिणैव भूयिष्ठं वाति । मनो ह वायुर्भूत्वा दक्षिणतस्तस्थौ- तदेव तद्रूपमुपदधाति ॥ ७ ॥
सायणः
अथ दक्षिणस्यां दिश्युपधेयानां प्राणभृतां मन्त्रान् विधाय व्याचष्टे- अथ दक्षिणत इति । अथ पुरस्तादुपधानानन्तरं दक्षिणस्यां दिशि “अयं दक्षिणा” इत्यादिभिर्मन्त्रैर्दश प्राणभृत उपदध्यादित्यर्थः । अयं वै वायुरिति । ‘यो ऽयम्’ अन्तरिक्षे ‘पवते’ सञ्चरति सः ‘अयम्’ ‘वायुर्विश्वकर्मा’ विश्वं सर्वं जगत् कर्म कर्तव्यं यस्म सूत्रात्मनो वायोः स तथोक्तः । श्रूयते हि- “वायुर्वै गौतम तत्सूत्रम्, वायुना वै गौतम सूत्रेणायं च लोकः, परश्च लीकः, सर्वाणि च भूतानि सन्दृब्धानि भवन्ति”- (श. प. १४ । ६ । ७ । ६) इति । इममेवार्थमाह- एष हीदमिति । क्रियाशक्त्यात्मना ऽवस्थितः ‘एषः’ एव खलु वायुः ‘इदम्’ सर्वं करोति, तस्माद्विश्वकर्मेत्युच्यत इत्यर्थः । ‘तत्’ तत्र ‘तम्’ वायुम् ‘दक्षिणेति’ दक्षिणदिग्वाचिना शब्देन ‘यद्’ यस्माद् ‘आह’ ‘तस्मादेषः’ वायुः प्राणः सन् ‘दक्षिणैव’ शरीरस्य दक्षिणभाग एव ‘भूयिष्ठम्’ अधिकतरं ‘वाति’ सञ्चरते । “वा गतिगन्धनयोः” (धा. पा. अ. प. ४०) इति धातुः । मनो ह वायुर्भूत्वेत्यादि । सुखापरोक्ष्यसाधनमान्तरमिन्द्रियं ‘मनः’ तत्खलु प्राणवायुर्भूत्वा ‘दक्षिणतः’ देहस्य दक्षिणभागे ‘तस्थौ’ स्थितवत् । तस्मात् ‘तदेव’ वाय्वात्मकं मनसः रूपमुपहितवान् भवति ॥ ७ ॥
Eggeling
- And on the right (south) side 15 with (Vāj. S. XIII, 55), ‘This one on the right, the all-worker,’–the all-worker (viśvakarman), doubtless, is this Vāyu (the wind) who blows here, for it is he that makes everything here; and because he speaks of him as (being) ‘on the right,’ therefore it is in the south that he blows most. Vāyu, indeed, having become the mind, remained in the right side (of the body): it is that form (part) he now bestows (on Agni).
०८
विश्वास-प्रस्तुतिः
त᳘स्य म᳘नो व्वैश्वकर्मणमि᳘ति॥
म᳘नस्त᳘स्माद्रूपा᳘द्वायोर्नि᳘रमिमीत ग्रीष्मो᳘ मानस ऽइ᳘ति ग्रीष्म᳘मृतुं म᳘नसो नि᳘रमिमीत त्रिष्टुब्ग्रैष्मी᳘ति त्रिष्टु᳘भं छ᳘न्दो ग्रीष्मा᳘दृतोर्नि᳘रमिमीत त्रिष्टु᳘भः स्वारमि᳘ति त्रिष्टु᳘भश्छ᳘न्दसः स्वारᳫँ᳭ सा᳘म नि᳘रमिमीत स्वारा᳘दन्तर्याम ऽइ᳘ति स्वारात्सा᳘म्नो ऽन्तर्यामं ग्र᳘हं नि᳘रमिमीतान्तर्यामा᳘त्पञ्चदश ऽइ᳘त्यन्तर्यामाद्ग्र᳘हात्पञ्चदशᳫँ᳭ स्तो᳘मं नि᳘रमिमीत पञ्चदशा᳘द्बृहदि᳘ति पञ्चदशात्स्तो᳘माद्बृह᳘त्पृष्ठं नि᳘रमिमीत॥
मूलम् - श्रीधरादि
त᳘स्य म᳘नो व्वैश्वकर्मणमि᳘ति॥
म᳘नस्त᳘स्माद्रूपा᳘द्वायोर्नि᳘रमिमीत ग्रीष्मो᳘ मानस ऽइ᳘ति ग्रीष्म᳘मृतुं म᳘नसो नि᳘रमिमीत त्रिष्टुब्ग्रैष्मी᳘ति त्रिष्टु᳘भं छ᳘न्दो ग्रीष्मा᳘दृतोर्नि᳘रमिमीत त्रिष्टु᳘भः स्वारमि᳘ति त्रिष्टु᳘भश्छ᳘न्दसः स्वारᳫँ᳭ सा᳘म नि᳘रमिमीत स्वारा᳘दन्तर्याम ऽइ᳘ति स्वारात्सा᳘म्नो ऽन्तर्यामं ग्र᳘हं नि᳘रमिमीतान्तर्यामा᳘त्पञ्चदश ऽइ᳘त्यन्तर्यामाद्ग्र᳘हात्पञ्चदशᳫँ᳭ स्तो᳘मं नि᳘रमिमीत पञ्चदशा᳘द्बृहदि᳘ति पञ्चदशात्स्तो᳘माद्बृह᳘त्पृष्ठं नि᳘रमिमीत॥
मूलम् - Weber
त᳘स्य म᳘नो वैश्वकर्मणमि᳘ति॥
म᳘नस्त᳘स्माद्रूपा᳘द्वायोर्नि᳘रमिमीत ग्रीष्मो᳘ मानस इ᳘ति ग्रीष्म᳘मृतुम् म᳘नसो नि᳘रमिमीत त्रिष्टुब्ग्रैष्मी᳘ति त्रिष्टु᳘भं छ᳘न्दो ग्रीष्मा᳘दृतोर्नि᳘रमिमीत त्रिष्टु᳘भः स्वारमि᳘ति त्रिष्टु᳘भश्छ᳘न्दसः स्वारᳫं सा᳘म नि᳘रमिमीत स्वारा᳘दन्तर्याम इ᳘ति स्वारात्सा᳘म्नो ऽन्तर्यामं ग्र᳘हं नि᳘रमिमीतान्तर्यामा᳘त्पञ्चदश इ᳘त्यन्तर्यामाद्ग्र᳘हात्पञ्चदशᳫं स्तो᳘मं नि᳘रमिमीत पञ्चदशा᳘द्बृहदि᳘ति पञ्चदशात्स्तो᳘माद्बृह᳘त्पृष्ठं नि᳘रमिमीत॥
मूलम् - विस्वरम्
“तस्य मनो वैश्वकर्मणम्”- इति । मनस्तस्माद्रूपाद्वायोर्निरमिमीत । “ग्रीष्मो मानसः”- इति । ग्रीष्ममृतुं मनसो निरमिमीत । “त्रिष्टुब् ग्रैष्मी”- इति । त्रिष्टुभं छन्दो ग्रीष्मादृतोर्निरमिमीत । “त्रिष्टुभः स्वारम्”- इति । त्रिष्टुभश्छन्दसः स्वारं साम निरमिमीत । “स्वारादन्तर्यामः”- इति । स्वरात्साम्नो ऽन्तर्यामं ग्रहं निरमिमीत । “अन्तर्यामात्पञ्चदशः”- इति । अन्तर्यामाद् ग्रहात्पञ्चदशं स्तोमं निरमिमीत । “पञ्चदशाद्बृहत्”- इति । पञ्चदशात्स्तोमाद्बृहत्पृष्ठं निरमिमीत ॥ ८ ॥
सायणः
तस्य मनो वैश्वकर्मणमिति । द्वितीयदशकस्य द्वितीयमन्त्रः । विश्वकर्मशब्दाभिधेयाद्वायोर्जातं ‘मनो वैश्वकर्मणम्’ । हे इष्टके ! तद्रूपां त्वामुपदधामीति शेषः । एतन्मन्त्रप्रयोगेण तस्माद् विश्वकर्मशब्दाभिधेयाद्वायोः ‘मनः’ इन्द्रियम् ‘निरमिमीत’ सृष्टवान् ॥
ग्रीष्मो मानस इति तृतीयेन मन्त्रेण ग्रीष्माख्यम् ‘ऋतुम्’ ‘मनसः’ सकाशान्निर्मितवान् । ग्रीष्मादुत्पन्नं छन्दस्त्रिष्टुप् ‘ग्रैष्मी’ । तथा च ‘ग्रीष्माद्’ ‘ऋतोः’ सकाशात् त्रिष्टुबाख्यम् ‘छन्दः’ निर्मितवान् ॥
त्रिष्टुभः स्वारमिति । पञ्चममन्त्रः । त्रिष्टुप्छन्दसः सकाशात् ‘स्वारम्’ स्वरसंज्ञकैरकारादिभिरेव वर्णैः समाप्यमानं साम स्वारम् तदुत्पन्नमित्यर्थः । तदाह- ‘त्रिष्टुभश्छन्दसः स्वारम्’ इति । एवमुत्तरत्रापि योजनीयम् । ‘अन्तर्याम’ इति सोमग्रहः । पञ्चदशभिः स्तोत्रियाभिर्ऋग्भिर्निष्पाद्यः स्तोमः ‘पञ्चदशः’ । बृहत्पृष्ठमिति । ‘त्वामिद्धि हवामहे’ इत्यस्मादुत्पन्नं साम ‘बृहत्’ तच्च पृष्ठस्तोत्ररूपेण प्रयुज्यमानत्वात् ‘पृष्ठम्’ ॥ ८ ॥
Eggeling
- ‘His, the all-worker’s child, the Mind,’–from out of that (all-working) form, the wind, he fashioned the mind;–’the summer, the son of the mind,’–from out of the mind he fashioned the summer season 16;–’the Trishṭubh, the daughter of Summer,’–from out of the summer season he fashioned the Trishṭubh metre;–‘from the Trishṭubh the Svāra tune,’–from out of the Trishṭubh metre he created the Svāra hymn-tune 17;–‘from
the Svāra the Antaryāma,’–from out of the Svāra-sāman he fashioned the Antaryāma-graha;–‘from the Antaryāma the Pañcadaśa,’–from out of the Antaryāma-cup he fashioned the fifteen-versed hymn-form;–‘from the Pañcadaśa the Br̥hat,’–from out of the Pañcadaśa-stoma he fashioned the Br̥hat-pr̥shṭḥa.
०९
विश्वास-प्रस्तुतिः
भर᳘द्वाज ऽऋ᳘षिरि᳘ति॥
म᳘नो वै᳘ भर᳘द्वाज ऽऋ᳘षिर᳘न्नं व्वाजो यो वै म᳘नो बिभ᳘र्ति सो᳘ ऽन्नं व्वा᳘जं भरति त᳘स्मान्म᳘नो भर᳘द्वाज ऽऋ᳘षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतन्म᳘नो गृह्णामि प्रजा᳘भ्य ऽइ᳘ति म᳘नो दक्षिणतः प्रा᳘पादयत नानो᳘पदधाति ये᳘ नाना कामा म᳘नसि तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं तन्म᳘नः करोत्य᳘थ यन्ना᳘ना साद᳘येन्म᳘नो ह व्वि᳘च्छिन्द्या᳘त्सैषा᳘ त्रिव्वृदि᳘ष्टका त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
भर᳘द्वाज ऽऋ᳘षिरि᳘ति॥
म᳘नो वै᳘ भर᳘द्वाज ऽऋ᳘षिर᳘न्नं व्वाजो यो वै म᳘नो बिभ᳘र्ति सो᳘ ऽन्नं व्वा᳘जं भरति त᳘स्मान्म᳘नो भर᳘द्वाज ऽऋ᳘षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतन्म᳘नो गृह्णामि प्रजा᳘भ्य ऽइ᳘ति म᳘नो दक्षिणतः प्रा᳘पादयत नानो᳘पदधाति ये᳘ नाना कामा म᳘नसि तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं तन्म᳘नः करोत्य᳘थ यन्ना᳘ना साद᳘येन्म᳘नो ह व्वि᳘च्छिन्द्या᳘त्सैषा᳘ त्रिव्वृदि᳘ष्टका त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
भर᳘द्वाज ऋ᳘षिरि᳘ति॥
म᳘नो वै᳘ भर᳘द्वाज ऋ᳘षिर᳘न्नं वाजो यो वै म᳘नो बिभ᳘र्ति सो᳘ ऽन्नं वा᳘जम् भरति त᳘स्मान्म᳘नो भर᳘द्वाज ऋ᳘षिः प्रजा᳘पतिगृहीतया त्वये᳘ति प्रजा᳘पतिसृष्टया त्वये᳘त्येतन्म᳘नो गृह्णामि प्रजा᳘भ्य इ᳘ति म᳘नो दक्षिणतः प्रा᳘पादयत नानो᳘पदधाति ये᳘ नानाकामा म᳘नसि तांस्त᳘द्दधाति सकृ᳘त्सादयत्ये᳘कं तन्म᳘नः करोत्य᳘थ यन्ना᳘ना साद᳘येन्म᳘नो ह वि᳘छिन्द्याॗत्सैषा᳘ त्रिवृदि᳘ष्टका त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“भरद्वाज ऋषिः”- इति । मनो वै भरद्वाज ऋषिः । अन्नं वाजः । यो वै मनो बिभर्त्ति- सो ऽन्नं वाजं भरति । तस्मान्मनो भरद्वाज ऋषिः । “प्रजापतिगृहीतया त्वया”- इति । प्रजापतिसृष्टया त्वयेत्येतत् । “मनो गृह्णामि प्रजाभ्यः”- (वा. सं. १३ । ५५) इति । मनो दक्षिणतः प्रापादयत । नानोपदधाति । ये नाना कामाः मनसि, तांस्तद्दधाति । सकृत्सादयति । एकं तन्मनः करोति । अथ यन्नाना सादयेत्- मनो ह विच्छिन्द्यात् । सैषा त्रिवृदिष्टका । तस्योक्तो बन्धुः (२) ॥ ९ ॥
सायणः
भरद्वाज ऋषिरिति । नवमो मन्त्रस्तं व्याचष्टे- मनो वा इति । एतन्निर्ब्रूते- अन्नं वाज इति । ‘यः’ खलु प्राणी ‘मनो बिभर्ति’ धारयति जीवनविशिष्टो भवतीत्यर्थः । ‘सः’ च वाजाख्यम् ‘अन्नम्’ ‘भरति’ देहे धत्ते । ‘तस्माद्’ भरणाद्वाजेन धार्यमाणत्वाच्च ‘भरन्’ भ्रियमाणो वाजश्च यस्येति व्युत्पत्त्या ‘मनः’ एव ‘भरद्वाज ऋषिः’ इत्यर्थः । प्रजापतिगृहीतयेत्याद्युक्तार्थम् । ‘मनो गृह्णामि प्रजाभ्य इति’ अनेन मन्त्रभागेन दक्षिणदिशि प्राणभृदुपधानं कुर्वन् ‘दक्षिणतः’ शरीरस्य दक्षिणभागे ‘मनः’ ‘प्रापादयत’ प्रजापतिः प्रावेशयत् ।
उपधानस्य नानात्वं सादनस्य सकृत्त्वं पूर्ववद्विधाय स्तौति- नानोपदधातीत्यादिना । ‘मनसि’ स्थिता ये नानाविधाः ‘कामाः’ अभिलाषविशेषाः ‘तान्’ ‘तत्’ तत्र मनसि स्थापयति । एकं तन्मन इति । ‘तत्’ तेन मनःसादनसकृत्त्वेन ‘एकम्’ अविच्छिन्नम् ‘मनः’ सम्पादयति । पृथक्सादने तु दोषविशेषमाह- अथ यन्नाना सादयेदिति । ‘सैषा’ दशमीष्टका ‘त्रिवृत्’ तथात्वं च प्रागाम्नातम्- “सैषा त्रिवृदिष्टका यजुः सादनँ सूददोहास्तत्त्रिवृत्त्रिवृदग्निः”- इत्यादिना (श. प. ८ । १ । १ । ६ ।) तत्प्रशंसा च तत्रानुसन्धेयेत्यतिदिशति- तस्योक्त इति । ‘तस्य’ त्रिवृत्त्वस्य ॥ ९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये अष्टमकाण्डे प्रथमा ऽध्याये प्रथमं ब्राह्मणम् ॥ (८-१-१) ॥
Eggeling
- ‘The R̥shi Bharadvāja,’–the R̥shi Bharadvāja, doubtless, is the mind;–‘vāja’ means ‘food,’ and he who possesses a mind, possesses (bharati) food, ‘vāja;’ therefore the R̥shi Bharadvāja is the mind.–‘By thee, taken by Prajāpati,’–that is, ‘by thee, created by Prajāpati;’–‘I take the mind for my descendants!’–therewith he introduced the mind from the right side. Separately he lays down (these ten bricks): what separate desires there are in the mind, those he thereby lays into it. Only once he settles them: he thereby makes it one mind; but were he to settle them each separately,
he assuredly would cut asunder the mind. This brick is threefold: the meaning of this has been explained.
-
1:1 The construction of the first of the five layers of the altar which, as far as the special bricks are concerned, is now nearing its completion, may be briefly recapitulated here. The altar (agni) is constructed in the form of a bird, the body (ātman) of which consists of a square, usually measuring four man’s lengths, or forty feet (Indian=c. 30 ft. Engl.) on each side. The ground of the ‘body’ having been ploughed, watered, and sown with seeds of all kinds of herbs, a square mound, the so-called uttaravedi, measuring a yuga (yoke= 7 ft. Ind.) on each side, is thrown up in the middle of the ‘body,’ and the whole of the latter then made level with it. In the centre of the ‘body’ thus raised, where the two ‘spines’–connecting the middle of each of the four sides of the square with that of the, opposite side–meet, the priest puts down a lotus-leaf, and thereon the gold plate (a symbol of the sun) which the Sacrificer wore round his neck during the time of initiation. On this plate he then lays a small gold figure of a man (representing Agni-Prajāpati, as well as the Sacrificer himself), so as to lie on his back with the head towards the east; and beside him he places two offering-spoons, one on each side, filled with ghee and sour curds respectively. Upon the man he then places a brick with naturally-formed holes in it (or a porous stone), a so-called Svayam-ātr̥ṇṇā (self-perforated one), of which there are three in the altar, viz. in the centre of the first, third, and fifth layers, supposed to represent the earth, air, and sky respectively, and by their holes to allow the Sacrificer (in effigy) to breathe, and ultimately to pass through on his way to the eternal abodes. On this stone he lays down a plant of dūrvā grass–with the root lying on the brick, and the twigs hanging down–meant to represent vegetation on earth, and food for the Sacrificer. Thereupon he puts down in front (east) of the central stone, on the ‘spine,’ a Dviyajus brick; in front of that, on both sides of the spine, two Retaḥsic; then in front of them, one Viśvajyotis; then again two R̥tavyāḥ; and finally the Ashāḍḥā, representing the Sacrificer’s consecrated consort. These bricks, each of which is a pada (foot, Ind.) square, occupy nearly one-third of the line from the centre to the middle of the front side of the ‘body’ of the altar. South and north of the Ashāḍḥā, leaving the space of two bricks, he places a live tortoise, facing the gold man, and a wooden mortar and pestle respectively. On the mortar he places the ukhā, or fire-pan, filled with sand and milk; and thereon the heads of the five victims, after chips of gold have been thrust into their mouths, nostrils, eyes, and ears. At each of the four ends of the two spines’ he then puts down five Apasyāḥ bricks, the middle one lying on the spine itself, with two on each side of it. The last set of five bricks, those hid down at the north (or left) end of the ‘cross-spine,’ are also called Chandasyāḥ by the Brāhmaṇa. He now proceeds to lay down the Prāṇabhr̥taḥ, meant to represent the orifices of the vital airs, in five sets of ten bricks each. The first four sets are placed on the four diagonals connecting the centre with the four corners of the body of the altar, beginning from the corner (? or, according to some, optionally from the centre), in the order S.E., N.W., S.W., N.E.; the fifth set being then laid down round the central stone at the distance (or, on the range) of the retaḥsic bricks. See the diagram at p. 17. ↩︎
-
व्याधारणवत्प्राणभृतः कर्णसहिता दश दश पुरुषमुपाप्यैके रेतःसिग्वेलायां च सर्व्वतो यथायोगमयं पुर इति प्रतिमंत्रम् । का. श्रौ. सू. १७ । १२५ । ↩︎
-
द्वितीयमयं पश्चादिति । का. श्रौ. सूत्रे १७ । १२६ । कर्कः । अत्र चैके खंडशो मंत्रान् प्रयुंजते । पंचाशदिष्टकाः पंचाशद्यजूँषीति वचनात् । तत् पुनरयुक्तम् । वाक्यानामपरिसमाप्तत्वात् । कथं तर्हि यजुषां पंचाशत्त्वम् । अभ्यासेनेत्यदोषः । लिंगाच्च । कथमस्यैताः सर्व्वाः प्राजापत्या भवंतीति प्रकृत्याह । यदेव सर्व्वास्वाह प्रजापतिगृहीतया त्वयेत्येवमु हास्यैताः सर्वाः प्राजापत्या भवंतीति । तस्मात्सफलमंत्रप्रयोगो न खंडशः इति । ↩︎
-
3:1 Whilst standing in front (east) of the altar, he puts down the first set of ten bricks on the line from the south-west corner (or right shoulder) of the altar towards the centre. The formulas with which each set of ten bricks are deposited are spread over three paragraphs, the first of which gives that of the first brick, the second those for two to eight, the third for the last two. ↩︎
-
3:2 Viz. in taking out the fire from the Gārhapatya and transferring it to the Āhavanīya, as well as in approaching the sacrificial fire for offerings. It should also be borne in mind that the altar (agni) is built in form of an eagle flying towards the east, or front. ↩︎
-
4:1 See VII, 5, 1, 7, ‘The breath is taken in from the front backwards.’–In the text ‘prāṇo hāgnir bhūtvā purastāt tasthau,’ I take ‘prāṇaḥ’ to be the predicate. ↩︎
-
4:2 At VII, 4, 1, 16, the vital air is called Prajāpati’s (Agni’s) pleasing form (or part). ↩︎
-
4:3 For a similar connection of the East with the Gāyatrī, the Rathantara, the Trivr̥t, the Spring, and the Brahman (priesthood) see V, 4, I, 3, (part iii, p. 91). ↩︎
-
4:4 The Gāyatra-sāman is the simplest, and by far the most common of all hymn-tunes. It is especially used in connection with the trivr̥t-stoma, or nine-versed hymn, and is invariably employed for the Bahishpavamāna-stotra. It is also the tune of the first triplet both of the Mādhyandina and Ārbhava-pavamāna; as well as for all the four Ājya-stotras. ↩︎
-
4:5 See part ii, pp. 238 seqq., where this soma-cup is repeatedly connected with the Gāyatrī. Though its pressing is performed by three turns of eight, eleven, and twelve beatings respectively, representing the three chief metres, it is expressly stated (IV, 1, 1, 14) that he who is desirous of obtaining holiness, should press eight times at each turn. ↩︎
-
5:1 For this and the other Pr̥shṭḥa-sāmans see part iii, introd. pp. xvi, xx seqq. ↩︎
-
5:2 In Taitt. S. IV, 3, 2, 1, this formula is connected with the preceding one,–‘from the Rathantara (was produced) the R̥shi Vasishṭḥa.’ Similarly in the corresponding passages of the subsequent sets of bricks. ↩︎
-
5:3 The sādana, or settling, consists in the formula, ‘By that deity, Aṅgiras-like, lie thou steady!’ being pronounced over the bricks. See VI, 1, 2, 28. ↩︎
-
5:4 For the sūdadohas verse, the pronunciation of which, together with the ‘settling,’ constitutes the two necessary (nitya) ceremonies, see part iii, p. 307. ↩︎
-
6:1 Whilst standing on the right (south) side of the altar he lays down the third set of ten Prāṇabhr̥taḥ, viz. those on the diagonal from the south-west corner (or right thigh) towards the centre. Whilst, in the actual performance, these bricks are only laid down after those referred to in paragraphs 1-3 of the next Brāhmaṇa, the author, in his explanation of the formulas, follows the course of the sun from left to right. ↩︎
-
6:2 For a similar combination of the south with the Trishṭubh metre, the Br̥hat-sāman, the Pañcadaśa-stoma, the summer season, and the Kshatra, see V, 4, 1, 4 (part iii, p. 91). ↩︎
-
6:3 Svāra-sāman is called a chanted verse which has no special concluding nidhana, or finale, but in which the svarita (circumflex), or first rising then falling pitch (ej., f-g-f) of the final vowel, takes the place of the finale; whence ‘svāra’ is often explained by ‘svaranidhana,’ i.e. having the svara (svarita) for its nidhana. See Pañc. Br. IX, 3, 11, where a svāra-sāman is prescribed in case the Udgātr̥s have previously committed an excess in their chanting. The last tristich of the Mādhyandina-pavamānastotra of the Agnishṭoma, the Auśana-sāman (to Sāma-v., vol. ii, pp. 27-29), is chanted in this way, probably in order to make good the excess committed in the preceding triplet, the Yaudhājaya (ii, pp. 25, 26), in which each verse is chanted with three nidhanas, one at the end, and two inserted inside the sāman. Lāṭy. Śrautas. VI, 9, 6, the svāra-sāmans thus treated are called ‘padānusvārāṇi;’ whilst those with which the musical syllables ‘hā-i’ are used with a similar effect, are called ‘hāikārasvārāṇi.’ As an instance of the former, the Auśana (Sāma-v., vol. iii, p. 8r) is adduced, and of the latter the Vāmadevya (iii, p. 89). It is not only the final syllable of a sāman, however, that may be modulated in this way, but also that of a musical section of the sāman; cf. Pañc. Br. X, 12, 2, where the Udgītha is to be so treated to make up for the preceding Prastāva, chanted without a Stobha. Sacrificial calls such as the ‘Svāhā’ and ‘Vashaṭ’ are also modulated in this way,’ ib. VII, 3, 26; XI, 5, 26. ↩︎