०१
विश्वास-प्रस्तुतिः
कूर्म्ममु᳘पदधाति॥
र᳘सो वै᳘ कूर्म्मो र᳘समे᳘वैतदु᳘पदधाति यो वै स᳘ ऽएषां᳘ लोका᳘नामप्सु प्र᳘विद्धानां प᳘राङ्र᳘सो ऽत्य᳘क्षरत्स᳘ ऽएष᳘ कूर्म्मस्त᳘मे᳘वैतदुपदधाति[[!!]] या᳘वानु वै र᳘सस्ता᳘वानात्मा स᳘ ऽएष᳘ ऽइम᳘ ऽएव᳘ लोकाः[[!!]]॥
मूलम् - श्रीधरादि
कूर्म्ममु᳘पदधाति॥
र᳘सो वै᳘ कूर्म्मो र᳘समे᳘वैतदु᳘पदधाति यो वै स᳘ ऽएषां᳘ लोका᳘नामप्सु प्र᳘विद्धानां प᳘राङ्र᳘सो ऽत्य᳘क्षरत्स᳘ ऽएष᳘ कूर्म्मस्त᳘मे᳘वैतदुपदधाति[[!!]] या᳘वानु वै र᳘सस्ता᳘वानात्मा स᳘ ऽएष᳘ ऽइम᳘ ऽएव᳘ लोकाः[[!!]]॥
मूलम् - Weber
कूर्ममु᳘पदधाति॥
र᳘सो वै᳘ कूर्मो र᳘समेॗवैतदु᳘पदधाति यो वै स᳘ एषां᳘ लोका᳘नामप्सु प्र᳘विद्धानाम् प᳘राङ्र᳘सो ऽत्य᳘क्षरत्स᳘ एष᳘ कूर्मस्त᳘मेॗवैतदु᳘पदधाति या᳘वानु वै र᳘सस्ता᳘वानात्मा स᳘ एष᳘ इम᳘ एव᳘ लोकाः᳟॥
मूलम् - विस्वरम्
अथ कूर्मेष्टकोपधानम् ।
कूर्ममुपदधाति । रसो वै कूर्मः । रसमेवैतदुपदधाति । यो वै स एषां लोकानामप्सु प्रविद्धानां पराङ्रसो ऽत्यक्षरत्- स एष कूर्मः । तमेवैतदुपदधाति । यावानु वै रसः- तावानात्मा । स एष इम एव लोकाः ॥ १ ॥
सायणः
यस्य निश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
पूर्वस्मिन् ब्राह्मणे स्वयमातृण्णादीनामुपधानमभिहितम्, अथास्मिन् ब्राह्मणे कूर्मादीनामुपधानमभिधास्यते; तत्रादौ तावत्कूर्मोपधानं विधाय तं रसात्मना स्तौति- कूर्ममुपदधातीति । उक्तमेव कूर्मस्य रसत्वं प्रतिपादयति- यो वै स इति । ‘एषाम्’ पृथिव्यादीनां ‘लोकानाम्’ ‘अप्सु’ ‘प्रविद्धानाम्’ मग्नानां ‘सः’ प्रसिद्धो ‘यो’ ‘रसः’ ‘पराङ्’ अनावृत्तः ‘अत्यक्षरत्’ अस्रवत् । ‘सः’ रसः ‘एषः’ इदानीमस्माभिरुच्यमानः ‘कूर्मः’ अतः ‘तमेव’ रसम् एतेन कूर्मोपधानेनोपहितवान् भवति । लोकरसत्वप्रणाल्या कूर्मस्य लोकात्मकत्वमेवाह- यावानु वा इति । ‘रसो’ ‘यावान्’ यत्परिमाणः, ‘आत्मा’ देहो ऽपि ‘तावान्’ तत्परिमाणः, रस एव देहस्यान्तर्भावात् । यथा विलीने लोहपिण्डे तत्स्वरूपं तद्रसे सूक्ष्माकारेणावतिष्ठते तद्वल्लोकरसात्मके कूर्मे ‘लोका’ अपि सूक्ष्मरूपेणावतिष्ठन्त इति । ‘स एषः’ कूर्म एव सर्वलोकात्मक इत्यर्थः ॥ १ ॥
Eggeling
- He then puts down a (living) tortoise;–the tortoise means life-sap: it is life-sap (blood) he thus bestows on (Agni). This tortoise is that life-sap of these worlds which flowed away from them when plunged into the waters 1: that (life-sap) he now bestows on (Agni). As far as the life-sap extends, so far the body extends: that (tortoise) thus is these worlds.
०२
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘स्य यद᳘धरं कपा᳘लम्॥
(म) अयᳫँ᳭ स᳘ लोकस्तत्प्र᳘तिष्ठितमिव भवति प्र᳘तिष्ठित ऽइव᳘ ह्ययं᳘[[!!]] लोको᳘ ऽथ यदु᳘त्तरᳫँ᳭ सा द्यौस्तद्व्य᳘वगृहीतान्तमिव भवति व्व्य᳘वगृहीतान्तेव हि द्यौर᳘थ य᳘दन्तरा त᳘दन्त᳘रिक्षᳫँ᳭ स᳘ ऽएष᳘ ऽइम᳘ ऽएव᳘ लोका᳘ ऽइमा᳘ने᳘वैत᳘ल्लोकानु᳘पदधाति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘स्य यद᳘धरं कपा᳘लम्॥
(म) अयᳫँ᳭ स᳘ लोकस्तत्प्र᳘तिष्ठितमिव भवति प्र᳘तिष्ठित ऽइव᳘ ह्ययं᳘[[!!]] लोको᳘ ऽथ यदु᳘त्तरᳫँ᳭ सा द्यौस्तद्व्य᳘वगृहीतान्तमिव भवति व्व्य᳘वगृहीतान्तेव हि द्यौर᳘थ य᳘दन्तरा त᳘दन्त᳘रिक्षᳫँ᳭ स᳘ ऽएष᳘ ऽइम᳘ ऽएव᳘ लोका᳘ ऽइमा᳘ने᳘वैत᳘ल्लोकानु᳘पदधाति॥
मूलम् - Weber
त᳘स्य यद᳘धरं कपा᳘लम्॥
अयᳫं स᳘ लोकस्तत्प्र᳘तिष्ठितमिव भवति प्र᳘तिष्ठित इव ह्य᳘यं᳘ लोको᳘ ऽथ यदु᳘त्तरᳫं सा द्यौस्तद्ब्यवगृहीतान्तमिव भवति व्य᳘वगृहीतान्तेव हि द्यौर᳘थ य᳘दन्तरा त᳘दन्त᳘रिक्षᳫं स᳘ एष᳘ इम᳘ एव᳘ लोका इमा᳘नेॗवैत᳘ल्लोकानु᳘पदधाति॥
मूलम् - विस्वरम्
तस्य यदधरं कपालम् । अयं स लोकः । तत्प्रतिष्ठितमिव भवति । प्रतिष्ठित इव ह्ययं लोकः । अथ यदुत्तरम्- सा द्यौः । तद्व्यवगृहीतान्तमिव भवति । व्यवगृहीतान्तेव हि द्यौः । अथ यदन्तरातदन्तरिक्षम् । स एष इम ऽएव लोकाः । इमानेवैतल्लोकानुपदधाति ॥ २ ॥
सायणः
यदुक्तं कूर्मस्य पृथिव्यादिलोकत्रयात्मकत्वं तदेव तच्छरीरे विविच्य दर्शयति- तस्येति । ‘तस्य’ कूर्मस्य ‘यद्’ अधस्तनं ‘कपालम्’ कठिनत्वक् ‘सः’ ‘अयम्’ ‘लोकः’ पृथिवी । अधरकपालपृथिव्योः कस्यचित्साधर्म्यस्य प्रदर्शनात्तदात्मकत्वमुपपादयति- तत्प्रतिष्ठितमिवेति । ‘प्रतिष्ठितम्’ अधः सर्वत्र पृष्ठतलम् । अधरकपालपृथिव्योस्तथाविधत्वात्तस्य पृथिव्यात्मकत्वम् । अथेति । ‘अथ’ ‘यदुत्तरं’ कपालं तद् ‘द्यौः’ द्युलोकः । पूर्ववत्तदेवोपपादयति- तद्व्यवगृहीतान्तमिति । विविधम् ‘अवगृहीतः’ अवनतः प्रान्तो यस्य तत्तथोक्तम् । कूर्मस्योपरिकपालं सर्वतो मण्डलाकारेणावनतप्रान्तम् ‘इव’ ‘भवति’, ‘द्यौः’ अपि तथाविधा; अतस्तस्य तदात्मकत्वम् । अथ यदधरोत्तरयोर्द्वयोः कपालयोः ‘अन्तरा’ मध्यमस्ति ‘तदन्तरिक्षम्’ अतः ‘सः’ ‘एषः’ कूर्मः ‘इमे’ पृथिव्यादयः ‘एव लोकाः’ तस्मादेतेनोपधानेन ‘इमानेव लोकानुपदधाति’ ॥ २ ॥
Eggeling
- That lower shell of it is this (terrestrial) world; it is, as it were, fixed; for fixed, as it were, is this (earth-)world. And that upper shell of it is yonder sky; it has its ends, as it were, bent down; for yonder sky has its ends, as it were, bent down. And what is between (the shells) is the air;–that (tortoise) thus is these worlds: it is these worlds he thus lays down (to form part of the altar).
०३
विश्वास-प्रस्तुतिः
त᳘म᳘भ्यनक्ति[[!!]]॥
दध्ना म᳘धुना घृते᳘न द᳘धि है᳘वास्य᳘ लोक᳘स्य रूपं᳘ घृत᳘मन्त᳘रिक्षस्य म᳘ध्वमुष्य[[!!]] स्वे᳘नै᳘वैनमेत᳘द्रूपे᳘ण स᳘मर्धयत्य᳘थो द᳘धि है᳘वास्य᳘ लोक᳘स्य र᳘सो घृत᳘मन्त᳘रिक्षस्य म᳘ध्वमुष्य[[!!]] स्वे᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्धयति॥
मूलम् - श्रीधरादि
त᳘म᳘भ्यनक्ति[[!!]]॥
दध्ना म᳘धुना घृते᳘न द᳘धि है᳘वास्य᳘ लोक᳘स्य रूपं᳘ घृत᳘मन्त᳘रिक्षस्य म᳘ध्वमुष्य[[!!]] स्वे᳘नै᳘वैनमेत᳘द्रूपे᳘ण स᳘मर्धयत्य᳘थो द᳘धि है᳘वास्य᳘ लोक᳘स्य र᳘सो घृत᳘मन्त᳘रिक्षस्य म᳘ध्वमुष्य[[!!]] स्वे᳘नै᳘वैनमेतद्र᳘सेन स᳘मर्धयति॥
मूलम् - Weber
त᳘मभ्य᳘नक्ति॥
दध्ना म᳘धुना घृते᳘न द᳘धि हैॗवास्य᳘ लोक᳘स्य रूपं᳘ घृत᳘मन्त᳘रिक्षस्य म᳘ध्वमु᳘ष्य स्वे᳘नैॗवैनमेत᳘द्रूपे᳘ण स᳘मर्धयत्य᳘थो द᳘धि हैॗवास्य᳘ लोक᳘स्य र᳘सो घृत᳘मन्त᳘रिक्षस्य म᳘ध्वमु᳘ष्य स्वे᳘नैॗवैनमेतद्र᳘सेन स᳘मर्धयति॥
मूलम् - विस्वरम्
तमभ्यनक्ति- दध्ना मधुना घृतेन । दधि हैवास्य लोकस्य रूपम्, घृतमन्तरिक्षस्य, मध्वमुष्य । स्वेनैवैनमेतद्रूपेण समर्धयति । अथो दधि हैवास्य लोकस्य रसः, घृतमन्तरिक्षस्य, मध्वमुष्य । स्वेनैवैनमेतद्रसेन समर्धयति ॥ ३ ॥
सायणः
विहितस्य कूर्मस्य दधिमधुवृतैरभ्यञ्जनं विधत्ते- तमभ्यनक्तीति 2 । दधिमधुघृतानां पृथिव्यादिलोकरूपत्वात्तैरभ्यञ्जनैः कूर्मं स्वकीयेनैव रूपेण समृद्धं करोतीत्याह- दधि हैवेति । तत्र घनीभावसाधर्म्याद्दध्नः पृथिवीलोकरूपत्वम् । घृतस्य दध्न उपरिभावित्वात् पृथिव्युपरितनान्तरिक्षलोकरूपत्वम् । मधुनस्तु वृक्षाचलशिखरादिषूपरिभागेष्ववस्थितत्वाद् द्युलोकात्मकत्वम् । अथवा मधुनो मधुररसत्वेन सोमात्मकत्वात्सोमस्य च द्युलोके ऽवस्थानान्मधु द्युलोकरूपम् । प्रकारान्तरेणापि दध्यादिभिरभ्यञ्जनं प्रशंसति- अथो इति ॥ ३ ॥
Eggeling
- He anoints it with sour curds, honey, and ghee,–sour curds doubtless are a form of this (earth-)world,
ghee of the air, and honey of yonder sky: he thus supplies it (the tortoise) with its own form. Or, sour curds are the life-sap of this (earth-)world, ghee that of the air, and honey that of yonder sky: he thus supplies it with its own life-sap.
०४
विश्वास-प्रस्तुतिः
म᳘धु व्वा᳘ता ऽऋतायत ऽइ᳘ति॥
यां वै᳘ देव᳘तामृ᳘गभ्य᳘नूक्ता यां य᳘जुः᳘ सैव᳘ देव᳘ता स᳘ ऽर्क्सो देव᳘ता तद्य᳘जुस्त᳘द्धैतन्म᳘ध्वे᳘वैष᳘ त्रिचो र᳘सो वै म᳘धु र᳘समे᳘वास्मिन्नेत᳘द्दधाति गायत्री᳘भिस्तिसृ᳘भिस्त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
म᳘धु व्वा᳘ता ऽऋतायत ऽइ᳘ति॥
यां वै᳘ देव᳘तामृ᳘गभ्य᳘नूक्ता यां य᳘जुः᳘ सैव᳘ देव᳘ता स᳘ ऽर्क्सो देव᳘ता तद्य᳘जुस्त᳘द्धैतन्म᳘ध्वे᳘वैष᳘ त्रिचो र᳘सो वै म᳘धु र᳘समे᳘वास्मिन्नेत᳘द्दधाति गायत्री᳘भिस्तिसृ᳘भिस्त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
म᳘धु वा᳘ता ऋतायत इ᳘ति॥
यां वै᳘ देव᳘तामृ᳘गभ्य᳘नूक्ता यां य᳘जुःॗ सैव᳘ देव᳘ता सॗ ऽक्सो देव᳘ता तद्य᳘जुस्त᳘द्धैतन्म᳘ध्वेॗवैष᳘ त्रिचो र᳘सो वै म᳘धु र᳘समेॗवास्मिन्नेत᳘द्दधाति गायत्री᳘भिस्तिसृ᳘भिस्त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“मधु वाता ऋतायते”- (वा. सं. १३ । २७-२९) इति । यां वै देवतामृगभ्यनूक्ता, यां यजुः- सैव देवता स ऽर्क्, सो देवता तद्यजुः । तद्धैतन्मध्वेवैष त्रिचः । रसो वै मधु । रसमेवास्मिन्नेतद्दधाति । गायत्रीभिस्तिसृभिः । तस्योक्तो बन्धुः ॥ ४ ॥
सायणः
अभ्यञ्जने मन्त्रं विधत्ते- मधु वाता ऋतायत इति । विहितमभ्यञ्जनमन्त्रं रसात्मना प्रशंसति- यां वै देवतामिति । ‘याम्’ ‘देवताम्’ ‘अभि’-लक्ष्य या ‘ऋग्’ ‘अनूक्ता’ उच्चारिता यद्देवताप्रतिपादकत्वेनोच्यते सा ऋक् तत्प्रतिपादकत्वात् ‘सैव’ प्रतिपाद्या ‘देवता’, तथा ‘यजुः’ अपि । एवं च सति अत्र तद्देवतास्वरूपमेतन्मधु, “मधु वाता ऋतायते”- इत्यनया ऋचा प्रतिपाद्यत्वात् । ततश्च ‘एष तृचः’ प्रतिपाद्यत्वेन देवताभूतमध्वात्मकः । तिस्र ऋचो यस्मिन् समुदाये स तृचः । “ऋचि त्रेरुत्तरपदादिलोपश्च च्छन्दसि”- (पा. सू. ६ । १ । ३४ । वा. १) इति त्रिशब्दस्य संप्रसारणमृवर्णस्य च लोपः । “ऋक्यूरब्धूःपथामानक्षे” – (पा. सू. ५ । ४ । ७४ ।) इति समासान्तः । मधु च ‘रसः’ रसस्वरूपम्, अतश्चैतेन तृचेनोपधाने सति रसात्मके ऽस्मिन् कूर्मे ‘रसमेव’ निहितवान् भवति । अभ्यञ्जनमन्त्राणां छन्दःसङ्ख्ये विधत्ते- गायत्रीभिस्तिसृभिरिति । तद्व्याख्यानं प्रागुक्तमित्याह- तस्योक्तो बन्धुरिति । तच्च “गायत्रीभिः प्राणो गायत्री प्राणमेवास्मिन्नेतद्दधाति, तिसृभिस्त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिन्नेतद्दधाति”- (श. प. ६ । ४ । २ । ५) इति षष्ठकाण्डे ऽभिहितम् । मन्त्राणामयमर्थः- ‘ऋतायते’ ऋतं यज्ञमात्मन इच्छतीति ऋतायन् यजमानः (पा. सू. ३ । १ । ८५) व्यत्ययेनाकारः । तस्मै, ‘वाताः’ वायवो ‘मधु’ मधुररसं ‘क्षरन्ति’ स्रावयन्ति । ‘सिन्धवः’ समुद्राश्च नद्यश्च ‘मधु क्षरन्ति’ । ‘ओषधीः’ ओषधयो ऽपि “वा छन्दसि”- (पा. सू. ३ । ४ । ८८) इति पूर्वसवर्णदीर्घः । ‘नः’ अस्मत्सम्बन्धियजमानार्थं ‘माध्वीः’ मधुररसोपेताः सन्तु । “ऋत्व्यवास्त्व्य” इत्यादिना (पा. सू. ६ । ४ । १७५) माध्वीशब्दो निपातितः । किञ्च ‘नक्तम्’ रात्रिरपि मधुररसोपेता भवतु । अपि च ‘उषसः’ मधुररसोपेता भवन्तु । तथा यत् ‘पार्थिवं रजः’ तत्सर्वं ‘मधुमद्’ अस्तु । ‘नः’ अस्माकं यजमानस्य ‘पिता’ पितृस्थानीया ‘द्यौः’ ‘मध्वस्तु’ मधुररसोपेता भवतु । ‘वनस्पतिः’ अश्वत्थादिर्यज्ञसाधनभूतो ‘नः’ अस्मद्यजमानार्थं ‘मधुमानस्तु’ । ‘सूर्यो ऽपि’ ‘मधुमान्’ सन्तापराहित्यलक्षणमाधुर्यरसोपेतो ऽस्तु । तथा ‘गावो’ ‘नः’ अस्मद्यजमानार्थं ‘माध्वीः’ मधुरक्षीरोपेता ‘भवन्तु’ ॥ ४ ॥
Eggeling
- [He anoints it, with Vāj. S. XIII, 27-29; R̥k S. I, 90, 6-8] ‘Honey the winds pour forth for the righteous, honey the rivers; full of honey may the plants be for us!–Honey by night and morn, rich in honey may the region of the earth be for us, honey the father Heaven!–rich in honey may the tree be for us, rich in honey the sun, full of honey the kine!’ To whatever deity a Rik-verse, and to whatever (deity) a Yajus formula applies, that very deity the verse is, and that very deity the sacrificial formula is 3. This triplet then is honey (madhu); and honey being life-sap, it is life-sap he thus puts into him (Agni). With three Gāyatrī verses (he performs): the significance of this has been explained.
०५
विश्वास-प्रस्तुतिः
स य᳘त्कूर्म्मो ना᳘म॥
(मै) एतद्वै᳘ रूपं᳘ कृत्वा᳘ प्रजा᳘पतिः प्रजा᳘ ऽअसृजत यद᳘सृजता᳘करोत्तद्यद᳘करोत्त᳘स्मात्कूर्म्मः᳘ कश्य᳘पो वै᳘ कूर्म्मस्त᳘स्मादाहुः स᳘र्व्वाः प्रजाः का᳘श्यप्य ऽइ᳘ति॥
मूलम् - श्रीधरादि
स य᳘त्कूर्म्मो ना᳘म॥
(मै) एतद्वै᳘ रूपं᳘ कृत्वा᳘ प्रजा᳘पतिः प्रजा᳘ ऽअसृजत यद᳘सृजता᳘करोत्तद्यद᳘करोत्त᳘स्मात्कूर्म्मः᳘ कश्य᳘पो वै᳘ कूर्म्मस्त᳘स्मादाहुः स᳘र्व्वाः प्रजाः का᳘श्यप्य ऽइ᳘ति॥
मूलम् - Weber
स य᳘त्कूर्मो ना᳘म॥
एतद्वै᳘ रूपं᳘ कृत्वा᳘ प्रजा᳘पतिः प्रजा᳘ असृजत यद᳘सृजता᳘करोत्तद्यद᳘करोत्त᳘स्मात्कूर्मः᳘ कश्य᳘पो वै᳘ कूर्मस्त᳘स्मादाहुः स᳘र्वाः प्रजाः का᳘श्यप्य इ᳘ति॥
मूलम् - विस्वरम्
स यत् कूर्मो नाम । एतद्वै रूपं कृत्वा प्रजापतिः प्रजा असृजत । यदसृजत- अकरोत् तत् । यदकरोत्- तस्मात्कूर्मः । कश्यपो वै कूर्मः । तस्मादाहुः- सर्वाः प्रजाः काश्यप्य ऽइति ॥ ५ ॥
सायणः
अथ कूर्म इति नाम्नः प्रवृत्तिनिमित्तं दर्शयति- स यत्कर्म इति । ‘एतत्’ कूर्मसम्बन्धि ‘रूपम्’ आत्मनः कृत्वा ‘प्रजापतिः’ ‘प्रजा असृजत’ । ‘असृजत’ इत्यस्य व्याख्यानम्- यदसृजताकरोदिति । ‘असृजत’ इति ‘यत्’ तत् ‘अकरोत्’ इत्यर्थः । ‘तत्’ तेन कूर्मरूपेण ‘अकरोद्’ इति यत् तस्मादकरोदिति ‘कूर्मः’ इति कूर्मशब्दो नामधेयमित्यर्थः । करोतेरौणादिके (पा. सू. उ. १ । १५०) मक्प्रत्यये “बहुलं छन्दसि”- (पा. सू. ७ । १ । १०३) इत्युत्वे कृते “हलि च”- (पा. सू. ८ । २ । ७७) इति दीर्घे च कृते कूर्म इति रूपं भवति । ‘कश्यपो वा’ इत्यादिकस्यायमर्थः । कूर्मशब्दस्य करणप्रवृत्तिनिमित्तकत्वात् कश्यपस्य प्रजापतित्वेन प्रजाकारकत्वात्कश्यपः कूर्मः खलु । अत एव ‘सर्वाः प्रजाः’ ‘काश्यप्यः’ इत्याहुर्जनाः । अतश्च कूर्मस्य कश्यपात्मकत्वात्तदुपधानं प्रशस्तमिति भावः ॥ ५ ॥
Eggeling
- And as to its being called ‘kūrma’ (tortoise);Prajāpati, having assumed that form, created living beings. Now what he created, he made; and inasmuch as he made (kar), he is (called) ‘kūrma;’ and ‘kūrma’ being (the same as) ‘kaśyapa’ (a tortoise), therefore all creatures are said to be descended from Kaśyapa.
०६
विश्वास-प्रस्तुतिः
स यः स᳘ कू᳘र्म्मो ऽसौ स᳘ ऽआदि᳘त्यः॥
(त्यो ऽमु᳘) अमु᳘मे᳘वैत᳘दादित्यमु᳘पदधाति तं᳘ पुर᳘स्तात्प्रत्य᳘ञ्चमु᳘पदधात्यमुं त᳘दादित्यं᳘ पुर᳘स्तात्प्रत्य᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्यः᳘ पुर᳘स्तात्प्रत्य᳘ङ्धीयते दक्षिणतो᳘ ऽषाढायै व्वृ᳘षा वै᳘ कूर्म्मो योषा᳘ ऽषाढा दक्षिणतो वै व्वृ᳘षा यो᳘षामु᳘पशेते ऽरत्निमा᳘त्रे ऽरत्निमात्राद्धि व्वृ᳘षा यो᳘षामुपशे᳘ते᳘ सैषा स᳘र्व्वासामि᳘ष्टकानां म᳘हिषी यद᳘षाढैत᳘स्यै दक्षिणतः सन्त्स᳘र्व्वासामि᳘ष्टकानां दक्षिणतो᳘ भवति॥
मूलम् - श्रीधरादि
स यः स᳘ कू᳘र्म्मो ऽसौ स᳘ ऽआदि᳘त्यः॥
(त्यो ऽमु᳘) अमु᳘मे᳘वैत᳘दादित्यमु᳘पदधाति तं᳘ पुर᳘स्तात्प्रत्य᳘ञ्चमु᳘पदधात्यमुं त᳘दादित्यं᳘ पुर᳘स्तात्प्रत्य᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्यः᳘ पुर᳘स्तात्प्रत्य᳘ङ्धीयते दक्षिणतो᳘ ऽषाढायै व्वृ᳘षा वै᳘ कूर्म्मो योषा᳘ ऽषाढा दक्षिणतो वै व्वृ᳘षा यो᳘षामु᳘पशेते ऽरत्निमा᳘त्रे ऽरत्निमात्राद्धि व्वृ᳘षा यो᳘षामुपशे᳘ते᳘ सैषा स᳘र्व्वासामि᳘ष्टकानां म᳘हिषी यद᳘षाढैत᳘स्यै दक्षिणतः सन्त्स᳘र्व्वासामि᳘ष्टकानां दक्षिणतो᳘ भवति॥
मूलम् - Weber
स यः कूॗर्मो ऽसौ स᳘ आदिॗत्यो॥
ऽमु᳘मेॗवैत᳘दादित्यमु᳘पदधाति तं᳘ पुर᳘स्तात्प्रत्य᳘ञ्चमु᳘पदधात्यमुं त᳘दादित्य᳘म् पुर᳘स्तात्प्रत्य᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्यः᳘ पुर᳘स्तात्प्रत्य᳘ङ् धीयते दक्षिणतो᳘ ऽषाढायै वृ᳘षा वै᳘ कूर्मो योषा᳘षाढा दक्षिणतो वै वृ᳘षा यो᳘षामु᳘पशेते ऽरत्निमाॗत्रे ऽरत्निमात्राद्धि वृ᳘षा यो᳘षामुपशे᳘तेॗ सैषा स᳘र्वासामि᳘ष्टकानाम् म᳘हिषी यद᳘षाढैत᳘स्यै दक्षिणतः सन्त्स᳘र्वासामि᳘ष्टकान:ं दक्षिणतो᳘ भवति॥
मूलम् - विस्वरम्
स यः स कूर्मः- असौ स आदित्यः । अमुमेवैतदादित्यमुपदधाति । तं पुरस्तात्प्रत्यञ्चमुपदधाति । अमुं तदादित्यं पुरस्तात्प्रत्यञ्चं दधाति । तस्मादसावादित्यः पुरस्तात्प्रत्यङ्धीयते । दक्षिणतो ऽषाढायै । वृषा वै कूर्मः, योषा ऽषाढा । दक्षिणतो वै वृषा योषामुपशेते । अरत्निमात्रे । अरत्निमात्राद्धि वृषा योषामुपशेते । सैषा सर्वासामिष्टकानां महिषी- यदषाढा । एतस्यै दक्षिणतः सन्त्सर्वासामिष्टकानां दक्षिणतो भवति ॥ ६ ॥
सायणः
अथ तमेव कूर्ममादित्यात्मना ऽपि स्तौति- स य इति । ‘सः’ प्रकृतो ‘यः’ ‘कूर्मः’ अस्ति, ‘असौ’ विप्रकृष्टः ‘आदित्यः’ आदित्यात्मकत्वं मण्डलाकारसाम्यात्, यथा ऽऽदित्यो यूप इति । एतस्योपधाने आदित्यस्यैवोपधानं कृतं भवति । उक्तमादित्यात्मकत्वमुपजीव्य तस्य चयनप्रदेश एव पूर्वभागे प्रत्यङ्मुखत्वेनोपधानमाह- तं पुरस्तादिति । ननु कूर्मस्यादित्यात्मकत्वेन पुरस्तात्प्रत्यगुपधानेनादित्यस्य पुरस्तात्प्रत्यङ्निधानमित्यन्योन्याश्रयतादोष इति चेत् । नैष दोषः । कारकज्ञापकयोर्हेतुहेतुमद्भाववैपरीत्यं भूषणमेव न तु दूषणम् । यथा ऽग्निर्धूमस्य कारको हेतुः, धूमश्चाग्नेर्ज्ञापक इति । तथा ऽत्रापि कूर्मस्य पुरस्तात्प्रत्यगुपधानमादित्यस्य पुरस्तात्त् प्रत्यङ्निधाने कारकम् । आदित्यस्य पुरस्तात्प्रत्यगवस्थानं कूर्मस्यैवंविधोपधाने ज्ञापकम् । पुरस्तात् प्रत्यगुपधानमषाढायाः पुरस्तादुत्तरतो वापि स्यादित्यत आह- दक्षिणत इति । ‘अषाढायै’ इति (पा. सू. २ । ३ । ६२, वा. १) षष्ठ्यर्थे चतुर्थी ।
उक्ते ऽर्थे उपपत्तिमाह- वृषा वा इति । ‘वृष’ शब्देन सेचनसमर्थत्वात् पुमानुच्यते । अषाढाशब्दस्य स्त्रीलिङ्गत्वाद् ‘अषाढा योषा’ खलु । “उतरतो हि स्त्री पुमाँ समुपशेते”- इति श्रुतेः । पुमान् दक्षिणभागे ‘योषामुपशेते’ उपशयनेनेप्सिततमत्वाद् ‘योषाम्’ (पा. सू. २। ३ । २) इति द्वितीया । अतश्चास्य कूर्मस्याषाढायाः दक्षिणभागे उपधानमुपपन्नमित्यर्थः । दक्षिणभागे विप्रकृष्टे ऽप्युपधानं स्यादित्यत आह- अरत्निमात्रे 4 इति । उखाया अपि पुरस्तादषाढायाः शिष्टत्वेन सर्वेष्टकानामपि प्रशस्तत्वाद्दक्षिणभागे उपधानेन सर्वेष्टकानामपि दक्षिणभागे उपशयनं सिद्धं भवतीति दर्शयति- सैषेति ॥ ६ ॥
Eggeling
- Now this tortoise is the same as yonder sun: it is yonder sun he thus lays down (on the altar). He lays it down in front with the head towards the back (west): he thus places yonder sun in the east
looking thitherwards (or moving westward); and hence yonder sun is placed in the east looking thitherwards. On the right (south) of the Ashāḍḥā (he places it), for the tortoise (kūrma, masc.) is a male, and the Ashāḍḥā a female, and the male lies on the right side of the female;–at a cubit’s distance 5, for at a cubit’s distance the male lies by the female. That Ashāḍḥā is the consecrated queen (mahishī) of all the bricks, hence being on the right (south) side of her, it (the tortoise) is on the right side of all the bricks.
०७
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ कूर्म्म᳘मुपद᳘धाति॥
प्राणो वै᳘ कूर्म्मः᳘ प्राणो᳘ हीमाः स᳘र्व्वाः प्रजाः᳘ करो᳘ति प्राण᳘मे᳘वैतदु᳘पदधाति तं᳘ पुर᳘स्तात्प्रत्य᳘ञ्चमु᳘पदधाति पुर᳘स्तात्त᳘त्प्रत्य᳘ञ्चं प्राणं᳘ दधाति त᳘स्मात्पुर᳘स्तात्प्रत्य᳘ङ् प्राणो᳘ धीयते पु᳘रुषमभ्या᳘वृत्तं य᳘जमाने त᳘त्प्राणं᳘ दधाति दक्षिणतो᳘ ऽषाढायै प्राणो वै᳘ कूर्म्मो व्वाग᳘षाढा प्राणो वै᳘ व्वाचो व्वृ᳘षा प्राणो᳘ मिथुन᳘म्॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ कूर्म्म᳘मुपद᳘धाति॥
प्राणो वै᳘ कूर्म्मः᳘ प्राणो᳘ हीमाः स᳘र्व्वाः प्रजाः᳘ करो᳘ति प्राण᳘मे᳘वैतदु᳘पदधाति तं᳘ पुर᳘स्तात्प्रत्य᳘ञ्चमु᳘पदधाति पुर᳘स्तात्त᳘त्प्रत्य᳘ञ्चं प्राणं᳘ दधाति त᳘स्मात्पुर᳘स्तात्प्रत्य᳘ङ् प्राणो᳘ धीयते पु᳘रुषमभ्या᳘वृत्तं य᳘जमाने त᳘त्प्राणं᳘ दधाति दक्षिणतो᳘ ऽषाढायै प्राणो वै᳘ कूर्म्मो व्वाग᳘षाढा प्राणो वै᳘ व्वाचो व्वृ᳘षा प्राणो᳘ मिथुन᳘म्॥
मूलम् - Weber
य᳘द्वेव᳘ कूर्म᳘मुपद᳘धाति॥
प्राणो वै᳘ कूर्मः᳘ प्राणोॗ हीमाः स᳘र्वाः प्रजाः᳘ करो᳘ति प्राण᳘मेॗवैतदु᳘पदधाति त᳘म् पुर᳘स्तात्प्रत्य᳘ञ्चमु᳘पदधाति पुर᳘स्तात्त᳘त्प्रत्य᳘ञ्चम् प्राणं᳘ दधाति त᳘स्मात्पुर᳘स्तात्प्रत्य᳘ङ् प्राणो᳘ धीयते पु᳘रुषमभ्या᳘वृत्तं य᳘जमाने त᳘त्प्राणं᳘ दधाति दक्षिणतो᳘ ऽषाढायै प्राणो वै᳘ कूर्मो वाग᳘षाढा प्राणो वै᳘ वाचो वृ᳘षा प्राणो᳘ मिथुन᳘म्॥
मूलम् - विस्वरम्
यद्वेव कूर्ममुपदधाति । प्राणो वै कूर्मः । प्राणो हीमाः सर्वाः प्रजाः करोति । प्राणमेवैतदुपदधाति । तं पुरस्तात्प्रत्यञ्चमुपदधाति । पुरस्तात्तत्प्रत्यञ्चं प्राणं दधाति । तस्मात्पुरस्तात्प्रत्यङ्प्राणो धीयते । पुरुषमभ्यावृत्तम् । यजमाने तत्प्राणं दधाति । दक्षिणतो ऽषाढायै । प्राणो वै कूर्मः, वागषाढा । प्राणो वै वाचो वृषा । प्राणो मिथुनम् ॥ ७ ॥
सायणः
अथ तमेव कूर्मं प्राणात्मना ऽपि स्तौति- यद्वेवेति । प्राणो हीमा इति । ‘प्राणः’ खलु ‘इमाः’ ‘सर्वाः प्रजाः करोति’ प्राणिभिरेव प्रजानामुत्पादनात्, अतश्च कर्त्तव्यत्वसामान्यात् ‘प्राणः’ ‘कूर्मः’ इति तदुपधाने प्राणस्यैवोपधानं भवति । तं पुरस्तादित्यादिनोक्तं प्राणात्मकत्वमुपजीव्य पुरस्तात्प्रत्यङ्मुखत्वेनोपधानमुपपाद्यते- तस्मादिति । यत एवं ‘तस्मात्’ कारणात् ‘पुरस्तात्’- मुखः प्राणवायुः ‘प्रत्यङ्’- मुखत्वेन ‘धीयते’ ध्रियते । कूर्मस्य प्राणात्मकत्वाद्धिरण्मयपुरुषाभिमुख्येन तस्योपधाने पुरुषस्य यजमानरूपत्वाद्यजमाने प्राणनिधानं भवतीत्याह- पुरुषमभ्यावृत्तमिति । कूर्मस्य प्राणत्वादषाढाया वाक्त्वम्, तस्य दक्षिणत उपधानं युज्यत इति दर्शयति- दक्षिणत इति । स्त्रीत्वसामान्यादषाढायाः वागात्मकत्वम् । ‘प्राणः’ ‘वाचो’ ‘वृषा’ पतिः खलु, प्राणोपजीवनेन वाचः प्रवृत्तेः । अतः ‘प्राणो’ वागित्युभयमपि ‘मिथुनम्’ । एवं च वागात्मिकाया अषाढाया दक्षिणभागे प्राणात्मकस्य कूर्मस्योपधानमुपपन्नमित्यर्थः ॥ ७ ॥
Eggeling
- And, again, why he puts down a tortoise;–the tortoise (kūrma) is the breath, for the breath makes (kar) all these creatures: it is breath he thus puts into him (Agni). He puts it down in front looking towards the back: he thus puts in the breath in front tending towards the back; whence the breath is taken in from the front backwards. [He puts it down so as to be] turned towards the (gold) man: he thus puts breath into the Sacrificer. South of the Ashāḍḥā (he puts it), for the tortoise is breath, and the Ashāḍḥā speech; and the breath (prāṇa, masc.) is the male, the mate, of speech (vāc, fem.).
०८
विश्वास-प्रस्तुतिः
(म) अपां ग᳘म्भन्त्स्तीदे᳘ति॥
(त्ये) एत᳘द्धापां ग᳘म्भिष्ठं य᳘त्रैष᳘ ऽएतत्त᳘पति मा᳘ त्वा सू᳘र्य्यो ऽभि᳘ताप्सी᳘न्मा ऽग्नि᳘र्व्वैश्वानर ऽइ᳘ति᳘ मैव᳘ त्वा सू᳘र्य्यो हिᳫँ᳭सी᳘न्मो ऽअग्नि᳘र्व्वैश्वानर ऽइ᳘त्येतद᳘च्छिन्नपत्राः प्रजा᳘ ऽअनु᳘वीक्षस्वे᳘तीमा वै स᳘र्व्वाः प्रजा या᳘ ऽइमा ऽइ᳘ष्टकास्ता ऽअ᳘रिष्टा ऽअ᳘नार्ता ऽअनु᳘वीक्षस्वे᳘त्येतद᳘नु त्वा दिव्या व्वृ᳘ष्टिः सचतामि᳘ति य᳘थै᳘वैनं दिव्या व्वृ᳘ष्टिरनुस᳘चेतैव᳘मेत᳘दाह॥
मूलम् - श्रीधरादि
(म) अपां ग᳘म्भन्त्स्तीदे᳘ति॥
(त्ये) एत᳘द्धापां ग᳘म्भिष्ठं य᳘त्रैष᳘ ऽएतत्त᳘पति मा᳘ त्वा सू᳘र्य्यो ऽभि᳘ताप्सी᳘न्मा ऽग्नि᳘र्व्वैश्वानर ऽइ᳘ति᳘ मैव᳘ त्वा सू᳘र्य्यो हिᳫँ᳭सी᳘न्मो ऽअग्नि᳘र्व्वैश्वानर ऽइ᳘त्येतद᳘च्छिन्नपत्राः प्रजा᳘ ऽअनु᳘वीक्षस्वे᳘तीमा वै स᳘र्व्वाः प्रजा या᳘ ऽइमा ऽइ᳘ष्टकास्ता ऽअ᳘रिष्टा ऽअ᳘नार्ता ऽअनु᳘वीक्षस्वे᳘त्येतद᳘नु त्वा दिव्या व्वृ᳘ष्टिः सचतामि᳘ति य᳘थै᳘वैनं दिव्या व्वृ᳘ष्टिरनुस᳘चेतैव᳘मेत᳘दाह॥
मूलम् - Weber
अपां ग᳘म्भन्त्स्तीदे᳘ति॥
एत᳘द्धापां ग᳘म्भिष्ठं य᳘त्रैष᳘ एतत्त᳘पति मा᳘ त्वा सू᳘र्यो ऽभि᳘ताप्सीॗन्माग्नि᳘र्वैश्वानर इ᳘तिॗ मैव᳘ त्वा सू᳘र्यो हिंसीॗन्मो अग्नि᳘र्वैश्वानर इ᳘त्येतद᳘छिन्नपत्राः प्रजा᳘ अनुॗवीक्षस्वे᳘तीमा वै स᳘र्वाः प्रजा या᳘ इमा इ᳘ष्टकास्ता अ᳘रिष्टा अ᳘नार्ता अनुॗवीक्षस्वे᳘त्येतद᳘नु त्वा दिव्या वृ᳘ष्टिः सचतामि᳘ति य᳘थैॗवैनं दिव्या वृ᳘ष्टिरनुस᳘चेतैव᳘मेत᳘दाह॥
मूलम् - विस्वरम्
“अपां गम्भन्त्स्सीद”- इति । एतद्धापां गम्भिष्ठम्- यत्रैष एतत्तपति । “मा त्वा सूर्यो ऽभिताप्सीन्मा ऽग्निर्वैश्वानरः”- इति । मैव त्वा सूर्यो हिंसीद्, मो ऽअग्निर्वैश्वानर इत्येतत् । “अच्छिन्नपत्राः प्रजा अनुवीक्षस्व”- इति । इमा वै सर्वाः प्रजाः- या इमा इष्टकाः । ता अरिष्टा अनार्त्ता अनुवीक्षस्वेत्येतत् । “अनु त्वा दिव्या वृष्टिः सचताम्”- (वा. सं. १३ । ३०) इति । यथैवैनं दिव्या वृष्टिरनुसचेत- एवमेतदाह ॥ ८ ॥
सायणः
अथ तदुपधाने मन्त्रं विदधानो व्याचष्टे- अपाङ्गम्भन्नित्यादिना । यत्रेति । ‘यत्र’ स्थाने ‘एषः’ सूर्यः ‘एतत्’ तपनं करोति । ‘एतत्’ खलु ‘अपाम्’ ‘गम्भिष्ठम्’ गम्भीरतमं ह्नद इत्यर्थः । सूर्यस्य वृष्टिहेतुत्वात्तस्यावस्थानप्रदेशस्य ह्नदत्यमुच्यते । ततश्च कूर्मस्य अपामन्तरेवावस्थानाद् ‘अपाम्’ ‘गम्भन्’ सूर्यावस्थानसमीपदेशलक्षणे ऽपां ह्नदे ‘सीद’ उपविशेति मन्त्र आह । ‘गम्भन्’ इति गम्भीरशब्दस्य छान्दसो गम्भन्नादेशः । तत उत्तरस्याः सप्तम्याः “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इत्यादिना लुकि रूपम् । गम्भिष्ठमिति गम्भन्शब्दादतिशायने (पा. सू. ५ । ३ । ५५) इष्ठनि कृते “टेः"- (पा. सू. ६ । ४ । १४३) इति टिलोपे कृते रूपम् । “मा त्वा सूर्यो ऽभिताप्सीन्मा ऽग्निर्वैश्वानरः” इत्यत्राभिताप्सीदित्येतत्पदार्थमाह- मैव त्वेति । अच्छिन्नपत्रा इति । ‘पत्र’ शब्देनात्रावयवो लक्ष्यते, तेनात्र अच्छिन्नावयवा इत्यर्थः । ‘या इमाः’ उपहिताः ‘इष्टकास्ताः इमा एव सर्वाः प्रजाः’ खलु, इष्टकानां प्राजापत्यात्मकत्वेन प्रजापतेश्च सर्वप्रजाकारणत्वेन तदात्मकत्वादित्यर्थः । ‘रिष्ट’- शब्देनानिष्टं व्याधिप्रभृतिकमुच्यते । तद्रहिता ‘अरिष्टाः’ तस्यैव विवरणम्- अनार्त्ता इति । तथा सति अच्छिन्नपत्राः प्रजा अनुवीक्षस्व इत्यनेन एतदुपहितेष्टकारूपाः प्रजाः यथा ‘अरिष्टा अनार्त्ताः’ भवन्ति तथा ताः ‘अनुवीक्षस्व’ अनुपालयेत्येतदुक्तं भवतीत्यर्थः ॥
यथैवैनमिति । ‘एनम्’ कूर्मम् ‘अनु’-लक्ष्य ‘यथैव’ ‘दिव्या वृष्टिः’ सम्बध्नीयात्, ‘एवम्’ अनेनाभिप्रायेण ‘एतद्’ “अनु त्वा” इत्यादिकम् ‘आह’ ॥ ८ ॥
Eggeling
- [He sets it down, with Vāj. S. XIII, 30-32] Seat thee in the depth of the waters for that indeed is the deepest (place) of the (heavenly) waters where yonder (sun) burns;–’lest the sun, lest Agni Vaiśvānara should scorch thee!’ that is, lest the Sun, lest Agni Vaiśvānara injure thee;–‘Overlook the creatures with unbroken wings,’ that is, overlook all these uninjured, unharmed creatures, that is, these bricks;–‘may
heaven’s rain favour thee!’ this he says in order that the rain of heaven may favour him.
०९
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘थैनमेजयति॥
त्री᳘न्त्समुद्रान्त्स᳘मसृपत्स्वर्गानि᳘तीमे वै त्र᳘यः समुद्राः᳘ स्वर्गा᳘ लोकास्ता᳘नेष᳘ कूर्म्मो᳘ भृ᳘त्वा ऽनुस᳘ᳫँ᳘ससर्पापां प᳘तिर्व्वृषभ ऽइ᳘ष्टकानामि᳘त्यपा᳘ᳫँ᳘ ह्येष प᳘तिर्व्वृषभ ऽइ᳘ष्टकानां पु᳘रीषं व्व᳘सानः सुकृत᳘स्य लोक ऽइ᳘ति पश᳘वो वै पु᳘रीषं पशून्व᳘सानः सुकृत᳘स्य लोक ऽइ᳘त्येतत्त᳘त्र गच्छ य᳘त्र पू᳘र्वे प᳘रेता ऽइ᳘ति त᳘त्र गच्छ य᳘त्रैते᳘न पू᳘र्व्वे क᳘र्मणेयुरि᳘त्येत᳘त्॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘थैनमेजयति॥
त्री᳘न्त्समुद्रान्त्स᳘मसृपत्स्वर्गानि᳘तीमे वै त्र᳘यः समुद्राः᳘ स्वर्गा᳘ लोकास्ता᳘नेष᳘ कूर्म्मो᳘ भृ᳘त्वा ऽनुस᳘ᳫँ᳘ससर्पापां प᳘तिर्व्वृषभ ऽइ᳘ष्टकानामि᳘त्यपा᳘ᳫँ᳘ ह्येष प᳘तिर्व्वृषभ ऽइ᳘ष्टकानां पु᳘रीषं व्व᳘सानः सुकृत᳘स्य लोक ऽइ᳘ति पश᳘वो वै पु᳘रीषं पशून्व᳘सानः सुकृत᳘स्य लोक ऽइ᳘त्येतत्त᳘त्र गच्छ य᳘त्र पू᳘र्वे प᳘रेता ऽइ᳘ति त᳘त्र गच्छ य᳘त्रैते᳘न पू᳘र्व्वे क᳘र्मणेयुरि᳘त्येत᳘त्॥
मूलम् - Weber
अ᳘थैनमेजयति॥
त्री᳘न्त्समुद्रान्त्स᳘मसृपत्स्वर्गानि᳘तीमे वै त्र᳘यः समुद्राः᳘ स्वर्गा᳘ लोकास्ता᳘नेष᳘ कूर्मो᳘ भूॗत्वानुस᳘ᳫं᳘ससर्पापाम् प᳘तिर्वृषभ इ᳘ष्टकानामि᳘त्यपाॗᳫंॗ ह्येष प᳘तिर्वृषभ इ᳘ष्टकानाम् पु᳘रीषं व᳘सानः सुकृत᳘स्य लोक इ᳘ति पश᳘वो वै पु᳘रीषम् पशून्व᳘सानः सुकृत᳘स्य लोक इ᳘त्येतत्त᳘त्र गछ य᳘त्र पू᳘र्वे प᳘रेता इ᳘ति त᳘त्र गछ य᳘त्रैते᳘न पू᳘र्वे क᳘र्मणेयुरि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
अथैनमेजयति । “त्रीन्त्समुद्रान्त्समसृपत् स्वर्गान्”- इति । इमे वै त्रयः समुद्राः स्वगा लोकाः । तानेष कूर्मो भूत्वा ऽनुसंससर्प । “अपां पतिर्वृषभ इष्टकानाम्”- इति । अपां ह्येष पतिर्वृषभ इष्टकानाम् । “पुरीषं वसानः सुकृतस्य लोके"- इति । पशवो वै पुरीषम् । पशून् वसानः सुकृतस्य लोक इत्येतत् । “तत्र गच्छ यत्र पूर्वे परेताः”- (वा. सं. १३ । ३१) इति । तत्र गच्छ यत्रैतेन पूर्वे कर्मणेयुरित्येतत् ॥ ९ ॥
सायणः
“अपां गम्भन्” “त्रीन् समुद्रान्” “मही द्यौः” इति त्रिभिर्मन्त्रैरयं कूर्म उपधीयते, तत्र मध्यमेन तं चालयन्नुपदध्यात् । अत एव कात्यायनः- “अपां गम्भन्निति तिसृभिः, घट्टयति मध्यमया”- (का. श्रौ. सू. १७ ।१०० । १०१) इति । तदेतद्दर्शयन् व्याचष्टे- अथेति । ‘एजयति’ कम्पयति, “एजृ कम्पने”- (धा. पा. भ्वा. आ. २३४ ।) इति धातुः । इमे इति । ये ‘इमे’ ‘त्रयः समुद्राः’ समुद्रवन्ति समुद्गच्छन्ति इति ‘समुद्रा लोकाः’ ‘स्वर्गाः’ सुखहेतुभूताः ‘तानेषः’ प्रजापतिः ‘कूर्मो भूत्वा’ ‘अनुसंससर्प’ प्रजापतेर्लोकत्रयात्मकत्वात्, “स एष इम एव लोकाः”- इत्यादिना कूर्मस्य लोकत्रयात्मकत्वाभिधानात्प्रजापतिः कूर्मरूपेण लोकान् ‘अनुसंससर्प’ इत्ययमन्त्राभिसन्धिः । अपां पतित्वं कूर्मस्य तत्रैव सर्वदा ऽवस्थानात् । वृषभशब्देन श्रैष्ठ्यं लक्ष्यते, तच्च लोकत्रयात्मकत्वादिना द्रष्टव्यम् । अथवा इष्टकात्मनां स्त्रीणां वृषभः पुमान् । पुरीषशब्देन ‘पशवो’ ऽभिधीयन्ते, तान् ‘वसानः’ आच्छादयन् यजमानस्य सम्पादयन्नित्यर्थः । अथवा इष्टकारूपान् ‘पशून्’ आच्छादयन्निति । पूर्वमुपहिताः कूर्मा एतेनोपधानलक्षणेन कर्मणा ‘यत्र’ ‘परेताः’ मृत्वा प्राप्नुवन् ‘तत्र गच्छ’ इत्येतदुक्तं भवति ॥ ९ ॥
Eggeling
- He then makes it move 6, with, ‘Over the heaven-reaching three oceans he crept,’ the three heaven-reaching oceans doubtless are these worlds, and over them he crept in the shape of a tortoise;–’the lord of waters, the bull of the bricks,’ for he (the tortoise) indeed is the lord of waters, and the bull of the bricks;–‘induing the covering of him, the well-made, in the world,’ the covering (purīsha) means the cattle: thus, entering the (form of the) cattle of the well-made (Agni) in the world;–‘go thither whither the former have passed away!’ that is, go thither whither by this performance former (tortoises) went.
१०
विश्वास-प्रस्तुतिः
(न्म) मही द्यौः᳘ पृथिवी᳘ च न ऽइ᳘ति॥
महती द्यौः᳘ पृथिवी᳘ च न ऽइ᳘त्येत᳘दिमं᳘ यज्ञं᳘ मिमिक्षतामि᳘तीमं᳘ यज्ञ᳘मवतामि᳘त्येत᳘त्पिपृतां᳘ नो भ᳘रीमभिरि᳘ति बिभृतां᳘ नो भ᳘रीमभिरि᳘त्येत᳘द्द्यावापृथि᳘व्ययोत्तमयो᳘पदधाति[[!!]] द्यावापृथि᳘व्यो हि᳘ कूर्म्मः᳘॥
मूलम् - श्रीधरादि
(न्म) मही द्यौः᳘ पृथिवी᳘ च न ऽइ᳘ति॥
महती द्यौः᳘ पृथिवी᳘ च न ऽइ᳘त्येत᳘दिमं᳘ यज्ञं᳘ मिमिक्षतामि᳘तीमं᳘ यज्ञ᳘मवतामि᳘त्येत᳘त्पिपृतां᳘ नो भ᳘रीमभिरि᳘ति बिभृतां᳘ नो भ᳘रीमभिरि᳘त्येत᳘द्द्यावापृथि᳘व्ययोत्तमयो᳘पदधाति[[!!]] द्यावापृथि᳘व्यो हि᳘ कूर्म्मः᳘॥
मूलम् - Weber
मही द्यौः᳘ पृथिवी᳘ च न इ᳘ति॥
महती द्यौः᳘ पृथिवी᳘ च न इ᳘त्येत᳘दिमं᳘ यज्ञ᳘म् मिमिक्षतामि᳘तीमं᳘ यज्ञ᳘मवतामि᳘त्येत᳘त्पिपृतां᳘ नो भ᳘रीमभिरि᳘ति बिभृतां᳘ नो भ᳘रीमभिरि᳘त्येत᳘द्द्यावापृथिव्य᳘यो᳘त्तमयो᳘पदधाति द्यावापृथिॗव्यो हि᳘ कूर्मः᳟॥
मूलम् - विस्वरम्
“मही द्यौः पृथिवी च नः”- इति । महती द्यौः पृथिवी च न इत्येतत् । “इमं यज्ञं मिमिक्षताम्”- इति । इमं यज्ञमवतामित्येतत् । “पिपृतां नो भरीमभिः”- (वा. सं. १३ । ३२) इति । बिभृतां नो भरीमभिरित्येतत् । द्यावापृथिव्ययोत्तमयोपदधाति । द्यावापृथिव्यो हि कूर्मः ॥ १० ॥
सायणः
मही द्यौरित्यत्र महीपदस्य विवक्षितमर्थमाह- महतीति । द्वितीयपादे ‘मिमिक्षताम्’ इत्यस्यावनमर्थ इति दर्शयति- इमं यज्ञमवतामित्येतदिति । अनेकार्थत्वाद्धातूनां मिमिक्षतिरत्रावने वर्त्तते ॥
तृतीयपादे पिपृतामित्यस्यार्थमाह- बिभृतामिति । मन्त्रार्थस्तु हे कूर्म ! ‘त्वम्’ ‘अपां’ गम्भीरतरे देशे उपविश, तत्र सीदन्तं त्वां सूर्यो मा ऽभितपतु । वैश्वानरः सर्वेषामुदरस्थः सर्वात्मा च सर्वज्ञो ऽग्निरपि मा ऽभितपतु । तथाविधस्त्वमनवखण्डितावयवा इष्टकारूपाः प्रजा अनुवीक्षस्व । त्वां दिव्या वृष्टिश्चानुसम्बध्नीतामिति प्रथमस्यार्थः ॥
हे कूर्म ! त्वं त्रीन् सुखहेतुभूतान् लोकान् ‘समसृपत्’ संसृप्तो ऽसि । व्यत्ययेन तिबादेशः, लृदित्त्वाच्च्लेरङादेशः (पा. सू. ३ । १ । ५५) । स त्वम् ‘अपां पतिः’ ‘इष्टकानां’ च ‘वृषभः,’ अतस्त्वां ब्रवीमि ‘पुरीषम्’ इष्टकारूपान्पशून् ‘वसानः’ आच्छादयन् ‘सुकृतस्य’ सुष्ठु सम्पादितस्याग्नेः ‘लोके’ स्थाने स्थित्वा ‘तत्र गच्छ’ ‘एतेन’ कर्मणा ‘पूर्वे’ कूर्माः ‘यत्र परेताः’ मृत्वा प्राप्नुवन्निति द्वितीयस्यार्थः ॥
“मही द्यौः” इति मन्त्रस्तु प्रागेव व्याख्यातः । अन्तिममन्त्रस्य द्यावापृथिव्यत्वं प्रशंसति- द्यावापृथिव्ययेति । तस्य यदधरं कपालमयँ स लोकः"- (श. प. ७ । ५ । १ । २) इत्यादिना कूर्मस्याधस्तनोपरितनयोः कपालयोर्द्यावापृथिवीरूपत्वस्योक्तत्वात् ‘कूर्मो द्यावापृथिव्यः’ । अतस्तदुपधाने उत्तमाया ऋचो द्यावापृथिव्यत्वं प्रशस्तमिति यावत् । ‘द्यावापृथिव्य’ शब्दस्तु “द्यावापृथिवीशुनासीर”- (पा. सू. ४ । २ । ३२) इत्यादिसूत्रेण देवतार्थे यत्प्रत्ययान्तः ॥ १० ॥
Eggeling
- ‘The mighty sky and the earth,’ that is, the great sky and the earth;–‘shall mix (prepare) this our sacrifice!’ that is, shall favour this sacrifice;–’they shall fill us with nourishments!’ that is, they shall nourish us with nourishments! With the last (verse) relating to heaven and earth he puts it down, for the tortoise represents heaven and earth.
११
विश्वास-प्रस्तुतिः
(स्त्रि) त्रिभिरु᳘पदधाति॥
त्र᳘य ऽइमे᳘ लोका ऽअ᳘थो त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदु᳘पदधाति त्रिभि᳘र᳘भ्यनक्ति[[!!]] तत्षट् त᳘स्योक्तो ब᳘न्धुर᳘वका ऽअध᳘स्ताद्भ᳘वन्त्य᳘वका ऽउप᳘रिष्टादा᳘पो वा ऽअ᳘वका ऽअपा᳘मे᳘वैनमेत᳘न्मध्यतो᳘ दधाति सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(स्त्रि) त्रिभिरु᳘पदधाति॥
त्र᳘य ऽइमे᳘ लोका ऽअ᳘थो त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदु᳘पदधाति त्रिभि᳘र᳘भ्यनक्ति[[!!]] तत्षट् त᳘स्योक्तो ब᳘न्धुर᳘वका ऽअध᳘स्ताद्भ᳘वन्त्य᳘वका ऽउप᳘रिष्टादा᳘पो वा ऽअ᳘वका ऽअपा᳘मे᳘वैनमेत᳘न्मध्यतो᳘ दधाति सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
त्रिभिरु᳘पदधाति॥
त्र᳘य इमे लोका अ᳘थो त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतदु᳘पदधाति त्रिभि᳘रभ्य᳘नक्ति तत्षट्त᳘स्योक्तो ब᳘न्धुर᳘वका अध᳘स्ताद्भ᳘वन्त्य᳘वका उप᳘रिष्टादा᳘पो वा अ᳘वका अपा᳘मेॗवैनमेत᳘न्मध्यतो᳘ दधाति सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
त्रिभिरुपदधाति । त्रय इमे लोकाः । अथो त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदुपदधाति । त्रिभिरभ्यनक्ति । तत् षट् । तस्योक्तो बन्धुः । अवका अधस्ताद्भवन्ति । अवका उपरिष्टात् । आपो वा ऽअवकाः । अपामेवैनमेतन्मध्यतो दधाति । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ ११ ॥
सायणः
उपधानमन्त्राणां त्रित्वसङ्ख्यामनूद्य प्रशंसति- त्रिभिरिति । ‘इमे’ पृथिव्यादयो ‘लोकास्त्रयः’ कूर्मश्च लोकत्रयात्मकः; ततश्च तदुपधानं त्रिभिर्मन्त्रैः सम्पाद्यते । अपि च अग्निस्त्रिवृत्स्तोमात्मकः, अग्नेस्त्रिवृत्त्वमेकस्मादेव सहोत्पत्तेः । तथा च श्रूयते- “स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवता ऽन्वसृज्यत”- (तै. सं. ७ । १ । १) इति । आहवनीयादिभेदेन वा ऽग्नेस्त्रिवृत्त्वम् । अथवा षष्ठकाण्डे रुद्रादिनवनामधेयाभिधेयत्वादग्नेस्त्रिवृत्त्वमुक्तम् (श. प. १ । ३ । १० । १८) । तथा सति अत्रोपधानमन्त्राणां त्रित्वाद् ‘अग्निर्यावान्’ यत्परिमाणविशिष्टः । अस्य च ‘मात्रा’ अवयवः ‘यावती’ यत्परिमाणविशिष्टा ‘तावता’ तत्परिमाणविशिष्टेन रूपेण ‘एतद्’ उपधानं सम्पादितं भवति । अभ्यञ्जनमन्त्राणामुपधानमन्त्राणां च सङ्ख्यां सम्भूय प्रशंसति- त्रिभिरभ्यनक्तीति । ‘तत्’ तथा सति ‘षट्’- सङ्ख्या सम्पद्यते । तत्सङ्ख्यासम्पादनस्य तु प्रशंसारूपं व्याख्यानं “षड् वा ऋतवः” इत्यादिना प्रागुक्तमित्यर्थः । कूर्मस्याधस्तादुपरिष्टाच्चावकाः स्थापयेदित्याह- अवका इति । ‘अवका’ शैवलम् । अवकास्थापनं किमर्थमित्यत आह- आपो वा इति । ‘अवकाः’ अप्सु जायन्त इति कार्यकारणभेदाविवक्षया आपो ऽप्यवकाः, अतश्चैतेनावकास्थापनेन ‘अपामेव’ ‘मध्यतः’ ‘एनम्’ कूर्मं निहितवान्भवति । ‘सादयित्वा’ इत्यादिकं तु प्रागेव व्याख्यातम् ॥ ११ ॥
Eggeling
- With three (formulas) he puts it on (the altar);–three are these worlds, and threefold is Agni: as great as Agni is, as great as is his measure, by so much he thus puts it on. With three (formulas) he anoints it; that makes six: the significance of this (number) has been explained. There are avakā-plants 7 below and avakā-plants above (the
tortoise),–the avakā-plant means water: he thus places it in the midst of water. Having ‘settled’ it, he pronounces the Sūdadohas upon it: the significance of this has been explained.
१२
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थोलूखलमुसले ऽउ᳘पदधाति॥
व्वि᳘ष्णुरकामयतान्नादः᳘ स्यामि᳘ति स᳘ ऽएते ऽइ᳘ष्टके ऽअपश्यदुलूखलमुसले ते ऽउ᳘पाधत्त ते᳘ ऽउपधा᳘यान्ना᳘दो ऽभवत्त᳘थै᳘वैतद्य᳘जमानो य᳘दुलूखलमुसले᳘ ऽउपद᳘धाति ये᳘न रूपे᳘ण यत्क᳘र्म कृत्वा व्वि᳘ष्णुरन्नादो᳘ ऽभवत्ते᳘न रूपे᳘ण तत्क᳘र्म कृ᳘त्वा ऽन्ना᳘दो ऽसानी᳘ति त᳘देतत्स᳘र्व्वम᳘न्नं य᳘दुलूखलमुसले᳘ ऽउलूखलमुसला᳘भ्या᳘ᳫँ᳘ ह्येवा᳘न्नं क्रिय᳘त ऽउलूखलमुसला᳘भ्यामद्यते॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थोलूखलमुसले ऽउ᳘पदधाति॥
व्वि᳘ष्णुरकामयतान्नादः᳘ स्यामि᳘ति स᳘ ऽएते ऽइ᳘ष्टके ऽअपश्यदुलूखलमुसले ते ऽउ᳘पाधत्त ते᳘ ऽउपधा᳘यान्ना᳘दो ऽभवत्त᳘थै᳘वैतद्य᳘जमानो य᳘दुलूखलमुसले᳘ ऽउपद᳘धाति ये᳘न रूपे᳘ण यत्क᳘र्म कृत्वा व्वि᳘ष्णुरन्नादो᳘ ऽभवत्ते᳘न रूपे᳘ण तत्क᳘र्म कृ᳘त्वा ऽन्ना᳘दो ऽसानी᳘ति त᳘देतत्स᳘र्व्वम᳘न्नं य᳘दुलूखलमुसले᳘ ऽउलूखलमुसला᳘भ्या᳘ᳫँ᳘ ह्येवा᳘न्नं क्रिय᳘त ऽउलूखलमुसला᳘भ्यामद्यते॥
मूलम् - Weber
अ᳘थोलूखलमुसले उ᳘पदधाति॥
वि᳘ष्णुरकामयतान्नादः᳘ स्यामि᳘ति स᳘ एते इ᳘ष्टके अपश्यदुलूखलमुसले ते उ᳘पाधत्त ते᳘ उपधा᳘यान्नाॗदो ऽभवत्त᳘थैॗवैतद्य᳘जमानो य᳘दुलूखलमुसले᳘ उपद᳘धाति ये᳘न रूपे᳘ण यत्क᳘र्म कृत्वा वि᳘ष्णुरन्नादो᳘ ऽभवत्ते᳘न रूपे᳘ण तत्क᳘र्म कृॗत्वान्नाॗदो ऽसानी᳘ति त᳘देतत्स᳘र्वम᳘न्नं य᳘दुलूखलमुसले᳘ उलूखलमुसला᳘भ्याॗᳫंॗ ह्येवा᳘न्नं क्रिय᳘त उलूखलमुसला᳘भ्यामद्यते॥
मूलम् - विस्वरम्
अथोलूखलमुसलेष्टकोपधानम् ।
अथोलूखलमुसले ऽउपदधाति । विष्णुरकामयत- अन्नादः स्यामिति । स एते ऽइष्टके ऽअपश्यत्- उलूखलमुसले । ते ऽउपाधत्त । ते ऽउपधायान्नादो ऽभवत् । तथैवैतद्यजमानो यदुलूखलमुसले उपदधाति, येन रूपेण यत्कर्म कृत्वा विष्णुरन्नादो ऽभवत्- तेन रूपेण तत्कर्म कृत्वा ऽन्नादो ऽसानीति । तदेतत्सर्वमन्नम्- यदुलूखलमुसले । उलूखलमुसलाभ्यां ह्येवान्नं क्रियते । उलूखलमुसलाभ्यामद्यते ॥ १२ ॥
सायणः
कूर्मोपधानानन्तरमुलूखलमुसलयोरुपधानं विधत्ते- अथेति । विहितमुलूखलमुसलयोरुपधानमन्नादत्वसाधनतया प्रशंसति- विष्णुरित्यादिना । ‘येन रूपेण’ प्रकारेण ‘यत् कर्म कृत्वा’ ‘विष्णुः’ ‘अन्नादो ऽभवत्,’ तेन प्रकारेण ‘तत् कर्म कृत्वा ऽहमप्यन्नादो ऽसानि’ इत्यभिप्रायेण यजमानः ‘उलूखलमुसले उपदधाति’ यतः, अतो यथैव विष्णुरभूत्, ‘तथैव’ ‘एतद्’ एतेन ‘यजमानः’ अप्यन्नादो भवतीत्यर्थः । अन्नादनसाधनता कथमनयोरिति तदुपपादयति- तदेतदिति । यत उलूखलमुसलाभ्यामन्नं क्रियते, ताभ्यां व्रीह्यादीनां वितुषीकरणाद् वितुषीकृतानामेवान्नत्वाद् ‘अन्नम्’ अपि ‘उलूखलमुसलाभ्यां क्रियते,’ अतश्च ‘उलूखलमुसले’ इति यत्, एतत्कृत्स्नम् ‘अन्नम्’ तथा सति अन्नादनसाधनता ऽनयोरुपपद्यत इति भावः ॥ १२ ॥
Eggeling
- He then puts down a mortar and pestle. Vishṇu desired, ‘May I be an eater of food!’ He saw these two bricks, the mortar and pestle. He placed them on (the altar); and by placing them thereon, he became an eater of food. In like manner, when the Sacrificer now places a mortar and pestle thereon, (he does so) thinking, ‘I want to be an eater of food by the same means (rūpa), by performing the same rite by which Vishṇu became an eater of food.’ Now the mortar and pestle mean all (kinds of) food; for by the mortar and pestle food is prepared, and by means of them it is eaten.
१३
विश्वास-प्रस्तुतिः
ते᳘ रेतःसि᳘चोर्व्वे᳘लयो᳘पदधाति॥
पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ ऽए᳘वास्मिन्नेतद᳘न्नं दधात्यु᳘त्तरे ऽउ᳘त्तरमे᳘वास्मादेतद᳘न्नं दधात्यरत्निमा᳘त्रे ऽरत्निमात्राद्ध्य᳘न्नमद्य᳘ते॥
मूलम् - श्रीधरादि
ते᳘ रेतःसि᳘चोर्व्वे᳘लयो᳘पदधाति॥
पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ ऽए᳘वास्मिन्नेतद᳘न्नं दधात्यु᳘त्तरे ऽउ᳘त्तरमे᳘वास्मादेतद᳘न्नं दधात्यरत्निमा᳘त्रे ऽरत्निमात्राद्ध्य᳘न्नमद्य᳘ते॥
मूलम् - Weber
ते᳘ रेतःसि᳘चोर्वे᳘लयो᳘पदधाति॥
पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ एॗवास्मिन्नेतद᳘न्नं दधात्यु᳘त्तरे उ᳘त्तरमेॗवास्मादेतद᳘न्नं दधात्यरत्निमाॗत्रे ऽरत्निमात्राद्ध्य᳘न्नमद्य᳘ते॥
मूलम् - विस्वरम्
ते रेतःसिचोर्वेलयोपदधाति । पृष्टयो वै रेतःसिचौ । मध्यमु पृष्टयः । मध्यत एवास्मिन्नेतदन्नं दधाति । उत्तरे । उत्तरमेवास्मादेतदन्नं दधाति । अरत्निमात्रे । अरत्निमात्राद्ध्यन्नमद्यते ॥ १३ ॥
सायणः
अनयोः स्थानविशेषं विधाय स्तौति- ते इति । रेतःसिचौ इष्टकाविशेषौ (७ । ४ । २ । २२) प्राग्विहितौ, तयोः ‘वेलया’ प्रान्तेन सप्तम्यर्थे तृतीया । अत एव कात्यायनः- “रेतःसिग्वेलायामरत्निमात्रश्रुतेः”- (का. श्रौ. सू. १७ । ९३ ।) इति । तत्रैते उपदध्यात्, यतो ‘रेतःसिचौ’ पृष्टयः पृष्टिशब्देन कटिपार्श्वस्थावस्थिविशेषावुच्येते । अवयवापेक्षया बहुत्वम् । रेतःसेचनसाधनत्वसामान्याद्रेतःसिचोः पृष्टिरूपता । शरीरमध्ये ऽवस्थानात् ‘पृष्ट्यो मध्यं’ हि, अतश्च तत्प्रान्ते ऽनयोरुपधानान्मध्यभाग एव ‘अस्मिन्’ प्रजापतौ चीयमानाग्निरूपे ‘एतदन्नम्’ निहितवान् भवति । दिगन्तरे ऽपि रेतःसिचोरुपधानं सम्भवेदित्यत आह- उत्तर इति । स्वयमातृण्णाया उत्तरप्रदेशे ऽपि प्रमाणविशेषमाह- अरत्निमात्र इति । लोके हि अरत्निमात्रप्रदेशादन्नमादायाभ्यवह्रियते । अतश्चान्नरूपयोरनयोरुपधानं तावति प्रदेशे कर्तव्यम् । “उलूखलमुसले स्वयमातृण्णामुत्तरेणारत्निमात्रे"- (का. श्रौ. सू. १७ । १०२) इति हि सूत्रम् ॥ १३ ॥
Eggeling
- He puts them down at the distance of the two retaḥsic 8,–the retaḥsic being the ribs, and the ribs being the middle: he thus puts food into the middle of him (Agni);–on the north (upper) side (of the central brick): he thus puts the food upon him;–at the distance of a cubit, for from a cubit’s distance food is (taken by the hand and) eaten.
१४
विश्वास-प्रस्तुतिः
प्रादेशमात्रे᳘ भवतः॥
प्रादेशमात्रो वै ग᳘र्भो व्वि᳘ष्णुर᳘न्नमेत᳘दात्म᳘संमितमे᳘वास्मिन्नेतद᳘न्नं दधाति य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - श्रीधरादि
प्रादेशमात्रे᳘ भवतः॥
प्रादेशमात्रो वै ग᳘र्भो व्वि᳘ष्णुर᳘न्नमेत᳘दात्म᳘संमितमे᳘वास्मिन्नेतद᳘न्नं दधाति य᳘दु वा᳘ ऽआत्म᳘संमितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - Weber
प्रादेशमात्रे᳘ भवतः॥
प्रादेशमात्रो वै ग᳘र्भो वि᳘ष्णुर᳘न्नमेत᳘दात्म᳘सम्मितमेॗवास्मिन्नेतद᳘न्नं दधाति य᳘दु वा᳘ आत्म᳘सम्मितम᳘न्नं त᳘दवति तन्न᳘ हिनस्ति यद्भू᳘यो हिन᳘स्ति तद्यत्क᳘नीयो न त᳘दवति॥
मूलम् - विस्वरम्
प्रादेशमात्रे भवतः । प्रादेशमात्रो वै गर्भो विष्णुः । अन्नमेतद् । आत्मसंमितमेवास्मिन्नेतदन्नं दधाति । यदु वा ऽआत्मसंमितमन्नं- तदवति, तन्न हिनस्ति । यद्भूयो- हिनस्ति तद् । यत्कनीयोन तदवति ॥ १४ ॥
सायणः
प्रकृते उलूखलमुसले प्रादेशमात्रे कर्त्तव्ये इत्याह- प्रादेशमात्रे भवत इति (का. श्रौ. सू. १७ । १०२) । परिमाणविशेषोपादाने कारणमाह- प्रादेशमात्रो वा इति । ‘विष्णुः’ यज्ञश्चीयमानाग्निरूपः, तदानीमनिष्पन्नत्वेन गर्भः खलु, अतो यज्ञः ‘प्रादेशमात्रः’ लोके गर्भाणां तावत्प्रमाणत्वात् । उलूखलमुसलं चान्नम्, “तदेतत् सर्वमन्नम्”- इत्युक्तत्वात् । ततश्च ‘अस्मिन्’ ‘गर्भ’-रूपे विष्णौ एतेनात्मसदृशप्रमाणमेव ‘अन्नम्’ ‘दधाति’ । अन्नस्यात्मानुरूपप्रमाणपरिग्रहे को लाभस्तदतिक्रमे वा को दोष इत्यत आह- यदु वा इत्यादि । ‘आत्मसम्मितमन्नम्’ आत्मानं रक्षति न तु हन्ति । ‘यत्’ तु ततो ऽधिकं न्यूनं वा ‘तत्’ तथा न करोति । अल्पस्य बलाङ्गपोषानाधायकत्वादधिकस्य च दुर्ज्जरत्वेन पीडाकरत्वादित्यर्थः । ‘हिनस्ति’ इति “हिसि हिंसायाम्”- (धा. पा. रु. प. १९) इत्यस्य रौधादिकस्य तिपि (पा. सू. ३ । ४ । ७८) श्नमि (पा. सू. ३ । १ । ७८) “श्नान्नलोपः”- (पा. सू. ६ । ४ । २३) इति नकारलोपे रूपम् । अल्पशब्दात् (पा. सू. ५ । ३ । ५७) ईयसुनि “युवाल्पयोः” (पा. सू. ५ । ३ । ६४) इत्यादिना कन्नादेशे ‘कनीयः’ इति भवति ॥ १४ ॥
Eggeling
- They measure a span, for Vishṇu, when an embryo, was a span long; and these (mortar and pestle) being food, he thus puts food into him (Agni-Vishṇu) proportionate to his body. And indeed the food which is proportionate to the body satisfies,
and does no harm; but that which is excessive does harm; and that which is too little does not satisfy.
१५
विश्वास-प्रस्तुतिः
(त्यौ᳘) औ᳘दुम्बरे भवतः॥
(ऽ) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जमे᳘वास्मिन्नेतद्र᳘सं दधात्य᳘थो स᳘र्व्व ऽएते व्व᳘नस्प᳘तयो य᳘दुदुम्ब᳘र ऽएते᳘ ऽउपद᳘धत्स᳘र्वान्व᳘नस्प᳘तीनु᳘पदधाति रेतःसि᳘चोर्व्वे᳘लयेमे वै᳘ रेतःसि᳘चावन᳘योस्तद्व᳘नस्प᳘तीन्दधाति त᳘स्मादन᳘योर्व्व᳘नस्प᳘तयश्च᳘तुःस्रक्ति भवति च᳘तस्रो वै दि᳘शः स᳘र्व्वासु त᳘द्दिक्षु व्व᳘नस्प᳘तीन्दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु व्व᳘नस्प᳘तयो म᳘ध्ये सं᳘गृहीतं भवत्युलूखलरूप᳘तायै॥
मूलम् - श्रीधरादि
(त्यौ᳘) औ᳘दुम्बरे भवतः॥
(ऽ) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जमे᳘वास्मिन्नेतद्र᳘सं दधात्य᳘थो स᳘र्व्व ऽएते व्व᳘नस्प᳘तयो य᳘दुदुम्ब᳘र ऽएते᳘ ऽउपद᳘धत्स᳘र्वान्व᳘नस्प᳘तीनु᳘पदधाति रेतःसि᳘चोर्व्वे᳘लयेमे वै᳘ रेतःसि᳘चावन᳘योस्तद्व᳘नस्प᳘तीन्दधाति त᳘स्मादन᳘योर्व्व᳘नस्प᳘तयश्च᳘तुःस्रक्ति भवति च᳘तस्रो वै दि᳘शः स᳘र्व्वासु त᳘द्दिक्षु व्व᳘नस्प᳘तीन्दधाति त᳘स्मात्स᳘र्व्वासु दिक्षु व्व᳘नस्प᳘तयो म᳘ध्ये सं᳘गृहीतं भवत्युलूखलरूप᳘तायै॥
मूलम् - Weber
औ᳘दुम्बरे भवतः॥
ऊर्ग्वै र᳘स उदुम्ब᳘र ऊ᳘र्जमेॗवास्मिन्नेतद्र᳘सं दधात्य᳘थो स᳘र्व एते व᳘नस्प᳘तयो य᳘दुदुम्ब᳘र एते᳘ उपद᳘धत्स᳘र्वान्व᳘नस्प᳘तीनु᳘पदधाति रेतःसि᳘चोर्वे᳘लयेमे वै᳘ रेतःसि᳘चावन᳘योस्तद्व᳘नस्प᳘तीन्दधाति त᳘स्मादन᳘योर्व᳘नस्प᳘तयश्च᳘तुःस्रक्ति भवति च᳘तस्रो वै दि᳘शः स᳘र्वासु त᳘द्दिक्षु व᳘नस्प᳘तीन्दधाति त᳘स्मात्स᳘र्वासु दिक्षु व᳘नस्प᳘तयो म᳘ध्ये सं᳘गृहीतम् भवत्युलूखलरूप᳘तायै॥
मूलम् - विस्वरम्
औदुम्बरे भवतः । ऊर्ग्वै रस उदुम्बरः । ऊर्जमेवास्मिन्नेतद्रसं दधाति । अथो सर्व ऽएते वनस्पतयो- यदुदुम्बरः । एते ऽउपदधत्सर्वान्वनस्पतीनुपदधाति । रेतःसिचोर्वेलया । इमे वै रेतःसिचौ । अनयोस्तद्वनस्पतीन्दधाति । तस्मादनयोर्वनस्पतयः । चतुःस्रक्ति भवति । चतस्रो वै दिशः । सर्वासु तद्दिक्षु वनस्पतीन्दधाति । तस्मात्सर्वासु दिक्षु वनस्पतयः । मध्ये सङ्गृहीतं भवति- उलूखलरूपतायै ॥ १५ ॥
सायणः
अनयोर्वृक्षविशेषं विधाय स्तौति- औदुम्बरे भवत इति । ‘औदुम्बरे’ उदुम्बरविकारौ ततो निष्पन्ने ‘भवतः’ बिल्वादित्वाद्विकारे (पा. सू. ४ । ३ । १३६) इति अण्- प्रत्ययः । ‘उदुम्बरः’ ‘ऊर्क्’ बलकरो ‘रसः’ खलु । उदुम्बरस्य ऊर्ग्रूपत्वं तैत्तिरीयके श्रूयते- “देवा वा ऊर्जं व्यभजन्त तत उदुम्बर उदतिष्ठत्”- (तै. सं. १ । २ । ५) इति । तथा चैतेन ‘अस्मिन्’ प्रजापतौ ‘ऊर्जमेव’ ‘रसम्’ निदधाति । सर्ववनस्पतीनामुपधानसिद्ध्यर्थमुदुम्बरस्य सर्ववनस्पतिरूपतामाह- अथो सर्व एत इति । ‘एते’ उलूखलमुसले ‘उपदधत्’ उपदधानः ‘सर्वान् वनस्पतीन्’ उपहितवान् भवति । रेतःसिग्वेलायामुपधानेन द्यावापृथिव्योर्वनस्पत्युपधानं प्रतिपादयति- रेतःसिचोर्वेलयेति । ‘इमे’ द्यावापृथिव्यौ खलु, ‘रेतःसिचौ’ इष्टके ‘तत्’ तेन ‘अनयोः’ द्यावापृथिव्योः ‘वनस्पतीन्’ उपहितवान् भवति । ‘तस्माद्’ हेतोर्द्यावापृथिव्योः ‘वनस्पतयः’ सन्तीति शेषः । उलूखलस्य चतुष्कोणत्वाभिधानेन सर्वदिक्षु वनस्पत्युपधानमाह- चतुःस्रक्तीति । चतस्रः स्रक्तयः कोणा यस्य तदिदं ‘चतुःस्रक्ति’ तथा ‘मध्ये सङ्गृहीतम्’ मध्यप्रदेशे सङ्कुचितम् । किमर्थम्- ‘उलूखलरूपतायै’ एवंरूपं हि लोके प्रसिद्धमुलूखलम्, एतस्मादेव च वाक्यशेषादुलूखलमेव चतुःस्रक्ति मध्यसङ्गृहीतं च भवति न मुसलम् । तथा च वक्ष्यते “तद्वृत्तमिव भवति” (श. प. ७ । ५ । १ । ३८) इति ॥ १५ ॥
Eggeling
- They are made of Udumbara wood;–the Udumbara (ficus glomerata) being strength, life-sap, he thus puts strength, life-sap into him. And, again, the Udumbara being all the trees, by putting on those two, he puts all trees on (the altar). At the distance of the two retaḥsic (bricks, he places the mortar and pestle),–the ‘seed-shedders’ being these two (worlds 9), he thus puts the trees in these two (worlds), and hence there are trees in these two (worlds). It (the mortar) is four-cornered,–there being four quarters, he thus places trees in all the quarters; whence there are trees in all the quarters. It is contracted in the middle, to give it the form of a (real) mortar.
१६
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वोलूखलमुसले᳘ ऽउपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तात्प्राणो᳘ मध्यत ऽउ᳘दचिक्रमिषत्तम᳘न्नेनागृह्णात्त᳘स्मात्प्राणो᳘ ऽन्नेन गृहीतो यो᳘ ह्येवा᳘न्नम᳘त्ति स प्रा᳘णिति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वोलूखलमुसले᳘ ऽउपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तात्प्राणो᳘ मध्यत ऽउ᳘दचिक्रमिषत्तम᳘न्नेनागृह्णात्त᳘स्मात्प्राणो᳘ ऽन्नेन गृहीतो यो᳘ ह्येवा᳘न्नम᳘त्ति स प्रा᳘णिति॥
मूलम् - Weber
य᳘द्वेॗवोलूखलमुसले᳘ उपद᳘धाति॥
प्रजा᳘पतेर्वि᳘स्रस्तात्प्राणो᳘ मध्यत उ᳘दचिक्रमिषत्तम᳘न्नेनागृह्णात्त᳘स्मात्प्राणो᳘ ऽन्नेन गृहीतो योॗ ह्येवा᳘न्नम᳘त्ति स प्रा᳘णिति॥
मूलम् - विस्वरम्
यद्वेवोलूखलमुसले ऽउपदधाति । प्रजापतेर्विस्रस्तात्प्राणो मध्यत उदचिक्रमिषत् । तमन्नेनागृह्णात् । तस्मात्प्राणो ऽन्नेन गृहीतः । यो ह्येवान्नमत्ति- स प्राणिति ॥ १६ ॥
सायणः
अथ विश्लिष्टावयवस्य प्रजापतेः प्राणमन्नमूर्जमस्मिन्नग्नौ प्रतिनिधातुमितिहासमाह- यद्वेवेति । ‘मध्यतो’ मध्यप्रदेशात् ‘प्राणः’ अशेषवृत्तिर्वायुः ‘उदचिक्रमिषत्’ उत्क्रमितुमैच्छत् । ‘तम्’ प्राणमुत्क्रमितुमिच्छन्तम् ‘अन्नेन’ अदनीयेन ‘अगृह्णात्’ गृहीतवान्, प्रजापतिरिति शेषः । ‘तस्मात्’ कारणात् ‘प्राणः’ ‘अन्नेन गृहीतः’ । उक्तमेवार्थं प्रसिद्ध्या द्रढयति- यो ह्येवेति । ‘यो’ ‘हि’ अत्ता ‘अन्नम्’ अदनीयम् ‘अत्ति’ भक्षयति, ‘सः’ ‘प्राणिति’ चेष्टते ॥ १६ ॥
Eggeling
- And, again, why he places a mortar and pestle thereon. From Prajāpati, when relaxed, the breath wanted to go out from within. He kept it back by means of food: hence the breath is kept back by food, for he who eats food, breathes.
१७
विश्वास-प्रस्तुतिः
प्राणे᳘ गृही᳘ते᳘ ऽस्माद᳘न्नमु᳘दचिक्रमिषत्त᳘त्प्राणे᳘नागृह्णात्त᳘स्मात्प्राणेना᳘न्नं गृहीतं यो᳘ ह्येव प्रा᳘णिति सो᳘ ऽन्नमत्ति॥
मूलम् - श्रीधरादि
प्राणे᳘ गृही᳘ते᳘ ऽस्माद᳘न्नमु᳘दचिक्रमिषत्त᳘त्प्राणे᳘नागृह्णात्त᳘स्मात्प्राणेना᳘न्नं गृहीतं यो᳘ ह्येव प्रा᳘णिति सो᳘ ऽन्नमत्ति॥
मूलम् - Weber
प्राणे᳘ गृहीॗतेॗ ऽस्माद᳘न्नमु᳘दचिक्रमिषत्त᳘त्प्राणे᳘नागृह्णात्तस्मात्प्राणेना᳘न्नं गृहीतं योॗ ह्येव प्रा᳘णिति सो᳘ ऽन्नमत्ति॥
मूलम् - विस्वरम्
प्राणे गृहीते ऽस्मादन्नमुदचिक्रमिषत्- तत्प्राणेनागृह्णात् । तस्मात्प्राणेनान्नं गृहीतम् । यो ह्येव प्राणिति- सो ऽन्नमत्ति ॥ १७ ॥
सायणः
सिद्धे प्राणग्रहणे ऽन्नस्योत्क्रमणेच्छामाह- प्राणे गृहीत इति । ‘अस्मात्’ प्रजापतेः ‘अन्नम्’ कर्त्तृ उत्क्रमितुमैच्छत्, ‘तद्’ अन्नम् ‘प्राणेन’ साधनेन ‘अगृह्णात्’ प्रजापतिः । तस्मादित्यादि- पूर्ववद् व्याख्येयम् ॥ १७ ॥
Eggeling
- The breath being kept back, the food wanted to go out of him. He kept it back by means of the breath: hence food is kept back by the breath, for he who breathes, eats food.
१८
विश्वास-प्रस्तुतिः
(त्त्ये) एत᳘योरुभ᳘योर्गृहीत᳘योः॥
(र) अस्मादूर्गु᳘दचिक्रमिषत्ता᳘मेता᳘भ्यामुभा᳘भ्यामगृह्णात्त᳘स्मादेता᳘भ्यामुभा᳘भ्यामू᳘र्ग्गृहीता यो᳘ ह्येवा᳘न्नम᳘त्ति स प्रा᳘णिति त᳘मूर्जयति॥
मूलम् - श्रीधरादि
(त्त्ये) एत᳘योरुभ᳘योर्गृहीत᳘योः॥
(र) अस्मादूर्गु᳘दचिक्रमिषत्ता᳘मेता᳘भ्यामुभा᳘भ्यामगृह्णात्त᳘स्मादेता᳘भ्यामुभा᳘भ्यामू᳘र्ग्गृहीता यो᳘ ह्येवा᳘न्नम᳘त्ति स प्रा᳘णिति त᳘मूर्जयति॥
मूलम् - Weber
एत᳘योरुभ᳘योर्गृहीत᳘योः॥
अस्मादूर्गु᳘दचिक्रमिषत्ता᳘मेता᳘भ्यामुभा᳘भ्यामगृह्णात्त᳘स्मादेता᳘भ्यामुभा᳘भ्यामू᳘र्ग्गृहीता योॗ ह्येवा᳘न्नम᳘त्ति स प्रा᳘णिति त᳘मूर्जयति॥
मूलम् - विस्वरम्
एतयोरुभयोर्गृहीतयोः- अस्मादूर्गुदचिक्रमिषत् । तामेताभ्यामुभाभ्यामगृह्णात् । तस्मादेताभ्यामुभाभ्यामूर्ग्गृहीता । यो ह्येवान्नमत्ति- स प्राणिति- तमूर्जयति ॥ १८ ॥
सायणः
एतयोरुभयोः प्राणान्नयोर्वशीकृतयोः ‘ऊर्क्’ बलम् ‘उदचिक्रमिषत्’ “ऊर्ज बलप्राणनयोः”- (धा. पा. चु. उ. १६ ।) इति धातुः । ऊर्जयति बलयतीति ‘ऊर्क्’ बलम् । यद्वा बलहेतुरन्नरसो ऽपि ऊर्गित्यभिधीयते (निघं. २ । ७ । १६) ‘ताम्’ ऊर्जम् ‘एताभ्याम्’ ‘उभाभ्याम्’ ‘प्राणान्नाभ्याम्’ ‘अगृह्णात्’ प्रजापतिः । तस्मादन्नप्राणाभ्यां सा ‘ऊर्क्’ ‘गृहीता’ वशीकृता । ‘यो ह्येव’ इत्यादि पूर्ववद् व्याख्येयम् । तमूर्जयतीति । ‘तम्’ अत्तारं पुरुषम् ‘ऊर्जयति’ बलयति भुक्तमन्नं कर्तृ इति शेषः । ऊर्ग्ग्रहणानन्तरमुच्चिक्रमिषन्तावन्नप्राणौ ‘ऊर्जा ऽगृह्णात्’ । यँहीति । ऊर्ग् बलं ‘यमेवोर्जयति’ बलयति ‘स’ चेष्टते, ‘सो ऽन्नमत्ति’ च ॥ १८ ॥ १९ ॥
Eggeling
- Those two being kept back, strength wanted to go out of him. He kept it back by those two: hence strength is kept back by those two; for he who eats food, breathes; and to him it gives strength.
१९
विश्वास-प्रस्तुतिः
(त्यू) ऊर्जि᳘ गृहीता᳘याम्॥
(म) अस्मादेते᳘ ऽउभे ऽउ᳘दचिक्रमिषतां ते᳘ ऽऊ᳘र्जा ऽगृह्णात्त᳘स्मादेते᳘ ऽउभे᳘ ऊर्जा᳘ गृहीते य᳘ᳫँ᳘ ह्ये᳘वोर्ज᳘यति स प्रा᳘णिति सो᳘ ऽन्नमत्ति॥
मूलम् - श्रीधरादि
(त्यू) ऊर्जि᳘ गृहीता᳘याम्॥
(म) अस्मादेते᳘ ऽउभे ऽउ᳘दचिक्रमिषतां ते᳘ ऽऊ᳘र्जा ऽगृह्णात्त᳘स्मादेते᳘ ऽउभे᳘ ऊर्जा᳘ गृहीते य᳘ᳫँ᳘ ह्ये᳘वोर्ज᳘यति स प्रा᳘णिति सो᳘ ऽन्नमत्ति॥
मूलम् - Weber
ऊर्जि᳘ गृहीता᳘याम्॥
अस्मादेते᳘ उभे उ᳘दचिक्रमिषतां ते᳘ ऊॗर्जागृह्णात्त᳘स्मादेते᳘ उभे᳘ ऊर्जाॗ यᳫं ह्येॗवोर्ज᳘यति स प्रा᳘णिति सो᳘ ऽन्नमत्ति॥
मूलम् - विस्वरम्
ऊर्जि गृहीतायामस्मादेते ऽउभे ऽउदचिक्रमिषताम् । ते ऽऊर्जा ऽगृह्णात् । तस्मादेते ऽउभे ऊर्जा गृहीते । यं ह्येवोर्जयति- स प्राणिति- सो ऽन्नमत्ति ॥ १९ ॥
सायणः
[व्याख्यानं अष्टादशे]
Eggeling
- Strength being kept back, those two wanted
to go out of him. He kept them back by means of strength: hence those two are kept back by strength; for he to whom one gives strength, breathes and eats food.
२०
विश्वास-प्रस्तुतिः
ता᳘न्येता᳘न्य᳘न्यो ऽन्ये᳘न गृहीता᳘नि॥
ता᳘न्य᳘न्यो ऽन्ये᳘न गृही᳘त्वा ऽऽत्मन्प्रा᳘पादयत त᳘देतद᳘न्नं प्रप᳘द्यमानᳫँ᳭ स᳘र्व्वे देवा᳘ ऽअनुप्रा᳘पद्यन्ता᳘न्नजीवन᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्व्वम्॥
मूलम् - श्रीधरादि
ता᳘न्येता᳘न्य᳘न्यो ऽन्ये᳘न गृहीता᳘नि॥
ता᳘न्य᳘न्यो ऽन्ये᳘न गृही᳘त्वा ऽऽत्मन्प्रा᳘पादयत त᳘देतद᳘न्नं प्रप᳘द्यमानᳫँ᳭ स᳘र्व्वे देवा᳘ ऽअनुप्रा᳘पद्यन्ता᳘न्नजीवन᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्व्वम्॥
मूलम् - Weber
ता᳘न्येता᳘न्यॗन्यो ऽन्ये᳘न गृहीता᳘नि॥
ता᳘न्यॗन्यो ऽन्ये᳘न गृहीॗत्वात्मन्प्रा᳘पादयत त᳘देतद᳘न्नम् प्रप᳘द्यमानᳫं स᳘र्वे देवा᳘ अनुप्रा᳘पद्यन्ता᳘न्नजीवन᳘ᳫं᳘ हीदᳫं स᳘र्वम्॥
मूलम् - विस्वरम्
तान्येतान्यन्यो ऽन्येन गृहीतानि । तान्यन्यो ऽन्येन गृहीत्वा ऽऽत्मन्प्रापादयत । तदेतदन्नं प्रपद्यमानं सर्वे देवा अनुप्रापद्यन्त । अन्नजीवनं हीदं सर्वम् ॥ २० ॥
सायणः
यतस्तावत् ‘तानि’ सर्वाणि ‘अन्योन्येन’ गृहीतानि ततः ‘तान्’ ‘अन्योन्येन गृहीत्वा’ प्रजापतिरात्मनि ‘प्रापादयत’ प्रापयत् । आत्मन्निति “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९ ।) इत्यादिना सप्तम्या लुक् । यदिदं ‘सर्वम्’ इन्द्रियजातम् ‘अन्नजीवनम्’ अन्नमेव जीवनं यस्य तदन्नजीवनम्, तदभावे सर्वेषां स्वस्वव्यापारासमर्थत्वात् । अतो ऽस्मिन् प्रजापतौ ‘प्रपद्यमानम्’ ‘अन्नम्’ ‘सर्वे देवाः’ इन्द्रियाणि प्रपन्नान्यभूवन् ॥ २० ॥
Eggeling
- Those (energies) thus were kept back by one another. Having kept them back by one another, he (Prajāpati) caused them to enter his own self; and that food having entered, all the gods entered along with it; for everything here lives on food.
२१
विश्वास-प्रस्तुतिः
त᳘देष श्लो᳘को᳘ ऽभ्युक्तः॥
(स्त) तद्वै स᳘ प्रा᳘णो ऽभवदि᳘ति तद्धि स᳘ प्राणो᳘ ऽभवन्महा᳘न्भूत्वा᳘ प्रजा᳘पतिरि᳘ति महान् हि स तद᳘भवद्य᳘देनमेते᳘ देवाः प्रा᳘पद्यन्त भु᳘जो भुजि᳘ष्या व्वित्त्वे᳘ति प्राणा वै भुजो᳘ ऽन्नं भुजि᳘ष्या ऽएतत्स᳘र्व्वं व्वित्त्वे᳘त्येतद्य᳘त्प्राणान्प्रा᳘णयत्पुरी᳘त्यात्मा वै पूर्यद्वै᳘ प्राणान्प्रा᳘णयत्त᳘स्मात्प्राणा᳘ देवा ऽअ᳘थ य᳘त्प्रजा᳘पतिः प्रा᳘णयत्त᳘स्मादु प्रजा᳘पतिः प्राणो यो वै स᳘ प्राण᳘ ऽएषा सा᳘ गायत्र्य᳘थ यत्तद᳘न्नमेष स व्वि᳘ष्णुर्देवता᳘ ऽथ या सो᳘र्गेष स᳘ ऽउदुम्ब᳘रः᳘॥
मूलम् - श्रीधरादि
त᳘देष श्लो᳘को᳘ ऽभ्युक्तः॥
(स्त) तद्वै स᳘ प्रा᳘णो ऽभवदि᳘ति तद्धि स᳘ प्राणो᳘ ऽभवन्महा᳘न्भूत्वा᳘ प्रजा᳘पतिरि᳘ति महान् हि स तद᳘भवद्य᳘देनमेते᳘ देवाः प्रा᳘पद्यन्त भु᳘जो भुजि᳘ष्या व्वित्त्वे᳘ति प्राणा वै भुजो᳘ ऽन्नं भुजि᳘ष्या ऽएतत्स᳘र्व्वं व्वित्त्वे᳘त्येतद्य᳘त्प्राणान्प्रा᳘णयत्पुरी᳘त्यात्मा वै पूर्यद्वै᳘ प्राणान्प्रा᳘णयत्त᳘स्मात्प्राणा᳘ देवा ऽअ᳘थ य᳘त्प्रजा᳘पतिः प्रा᳘णयत्त᳘स्मादु प्रजा᳘पतिः प्राणो यो वै स᳘ प्राण᳘ ऽएषा सा᳘ गायत्र्य᳘थ यत्तद᳘न्नमेष स व्वि᳘ष्णुर्देवता᳘ ऽथ या सो᳘र्गेष स᳘ ऽउदुम्ब᳘रः᳘॥
मूलम् - Weber
त᳘देष श्लो᳘कोॗ ऽभ्युक्तः॥
तद्वै स᳘ प्राॗणो ऽभवदि᳘ति तद्धि स᳘ प्राणो᳘ ऽभवन्महा᳘ भूत्वा᳘ प्रजा᳘पतिरि᳘ति महान्हि स तद᳘भवद्य᳘देनमेते᳘ देवाः प्रा᳘पद्यन्त भु᳘जो भुजि᳘ष्या वित्त्वे᳘ति प्राणा वै भुजो᳘ ऽन्नम् भुजि᳘ष्या एतत्स᳘र्वं वित्त्वे᳘त्ये तद्य᳘त्प्राणान्प्रा᳘णयत्पुरी᳘त्यात्मा वै पूर्यद्वै᳘ प्राणान्प्रा᳘णयत्त᳘स्मात्प्राणा᳘ देवा अ᳘थ य᳘त्प्रजा᳘पतिः प्रा᳘णयत्त᳘स्मादु प्रजा᳘पतिः प्राणो यो वै स᳘ प्राण᳘ एषा सा᳘ गायत्र्य᳘थ यत्तद᳘न्नमेष स वि᳘ष्णुर्देवता᳘थ या सो᳘ ऽर्गेष स᳘ उदुम्ब᳘रः॥
मूलम् - विस्वरम्
तदेष श्लोको ऽभ्युक्तः । “तद्वै स प्राणो ऽभवत्”- इति । तद्धि स प्राणो ऽभवत् । “महान्भूत्वा प्रजापतिः”- इति । महान् हि स तदभवत् । यदेनमेते देवाः प्रापद्यन्त । “भुजो भुजिष्या वित्त्वा”- इति । प्राणा वै भुजः, अन्नं भुजिष्या । एतत्सर्वं वित्त्वेत्येतत् । “यत्प्राणान्प्राणयत् पुरि”- इति । आत्मा वै पूः । यद्वै प्राणान्प्राणयत्- तस्मात्प्राणा देवाः । अथ यत् प्रजापतिः प्राणयत्- तस्मादु प्रजापतिः प्राणः । यो वै स प्राणः- एषा सा गायत्री । अथ यत् तदन्नम्- एष स विष्णुर्देवता । अथ या सोर्क् । एष स उदुम्बरः ॥ २१ ॥
सायणः
उक्ते ऽर्थे कञ्चिन्मन्त्रं संवादयति- तदेष इति । ‘तत्’ तत्रार्थे ‘एषः’ वक्ष्यमाणः ‘श्लोकः’ मन्त्रः ‘अभ्युक्तः’ मन्त्रः- “तद्वै स प्राणो ऽभवन्महान्भूत्वा प्रजापतिः । भुजो भुजिष्या वित्त्वा यत्प्राणान् प्राणयत्पुरि”- इति । तमेतं मन्त्रं पादशो विभज्य व्याचष्टे- तद्वा इति । ‘तद्धि’ तदा अन्नलाभाय स वै खलु ‘प्राणो ऽभवत्’ । प्राणशब्देनेन्द्रियाण्युच्यन्ते । ततश्च सेन्द्रियो ऽभूदित्यर्थः । महान्भूत्वेति । यदा ‘एनम्’ प्रजापतिम् ‘एते देवाः’ इन्द्रियाणि ‘प्रापद्यन्त’ तदा ‘सः’ महानभूत् खलु । भुजो भुजिष्या वित्त्वेति । भोगसाधनत्वेन भुजः प्राणा उच्यन्ते, ‘भुजिष्या’ शब्देन भोग्यत्वाद् ‘अन्नम्’ । तद् एतत् सर्वं वित्त्वा लब्ध्वेत्येतदुक्तं भवति । यत्प्राणानिति । ‘पुरि’ आत्मनि शरीरे ‘प्राणान्’ ‘प्राणयत्’ स्वस्वव्यापारसमर्थानकरोत् । यत एवं ‘प्राणयत्’ ‘देवाः’ इन्द्रियाणि प्राण्यन्त इति व्युत्पत्त्या ‘प्राणाः’ अभूवन् । ‘अथ प्रजापतिः’ तान् ‘प्राणयद्’ इति ‘यत्,’ तस्मात्प्रजापतिः अपि प्राणः अभूत् । अत्र प्राणनप्रयोजकत्वात् प्रजापतेः प्राणत्वमुक्तम् । एतावता तदेतदन्नं प्रपद्यमानं सर्वे देवा अनुप्रापद्यन्त, अन्नजीवनं हीदं सर्वमित्ययमर्थः संवादप्रदर्शनेनोपपादितो भवति । “प्रजापतेर्विस्रस्ताद्”- इत्याद्युपक्रमेण प्रकृते किमायातमित्यत आह- यो वा इत्यादि । ‘सः’ पूर्वोक्तः प्रजापतिसम्बन्धी ‘यः प्राणः’ अस्ति ‘सैषा गायत्री’ “विष्णोः कर्माणि” इत्यत्र यद्गायत्र्यात्मकं छन्दः ‘सः प्राणः’ इत्यर्थः । प्रकृतोपधानमन्त्रसन्निहितत्वादेषेति परामृश्यते । सैषेति लिङ्गं विधेयापेक्षम् । उत्तरत्राप्येवं द्रष्टव्यम् । प्राणो वृत्तिभेदेन त्रेधा भिद्यते गायत्र्यपि पादभेदेन । अतः सादृश्यात् ‘प्राणो गायत्री’ इत्युक्तम् । अथ यत्प्रजापतिसम्बन्धि ‘अन्नम्’ अस्ति ‘स एष विष्णुर्देवता’ विष्णुरिति यज्ञो ऽभिधीयते । भोगसाधनत्वसामान्यादन्नस्य विष्णुरूपत्वम् । ‘अथ या सा ऊर्क्’ ‘स एष उदुम्बरः’ उदुम्बरस्य वलकररसत्वादूर्गात्मकत्वम् ॥ २१ ॥
Eggeling
- It is thereto that this verse applies,–‘Then, indeed, he became that breath,’–for that breath he then indeed became;–‘having become the great Prajāpati,’–for great he indeed then became, when those gods entered him;–‘having obtained the benefits, the beneficial,’–the benefits doubtless are the vital airs (breaths), and the beneficial are the food: thus, having obtained all that;–‘when he breathed the breaths in the stronghold;’–the stronghold doubtless is the self (body), and inasmuch as he breathed the breaths, the gods are the breaths; and inasmuch as Prajāpati breathed, the breath also is Prajāpati; and verily he who is that breath, he is that Gāyatrī;–and as to that food, that is Vishṇu, the deity; and as to that strength, that is the Udumbara (tree).
२२
विश्वास-प्रस्तुतिः
सो ऽब्रवीत्॥
(द) अयं वाव᳘ मा स᳘र्व्वस्मात्पाप्म᳘न ऽउ᳘दभार्षीदि᳘ति यद᳘ब्रवीदु᳘दभार्षीन्मे᳘ति त᳘स्मादुदुम्भ᳘र ऽउदुम्भ᳘रो ह वै त᳘मुदुम्ब᳘र ऽइत्या᳘चक्षते परो᳘क्षं परो᳘क्षकामा हि᳘ देवा᳘ ऽउरु᳘ मे ऽकरदि᳘ति त᳘स्मादुरू᳘करमुरू᳘करᳫँ᳭ ह वै त᳘दुलू᳘खलमित्या᳘चक्षते परो᳘क्षं परो᳘क्षकामा हि᳘ देवाः᳘ सैषा स᳘र्व्वेषां प्राणा᳘नां यो᳘निर्य᳘दुलू᳘खलᳫँ᳭ शि᳘रो वै᳘ प्राणा᳘नां यो᳘निः॥
मूलम् - श्रीधरादि
सो ऽब्रवीत्॥
(द) अयं वाव᳘ मा स᳘र्व्वस्मात्पाप्म᳘न ऽउ᳘दभार्षीदि᳘ति यद᳘ब्रवीदु᳘दभार्षीन्मे᳘ति त᳘स्मादुदुम्भ᳘र ऽउदुम्भ᳘रो ह वै त᳘मुदुम्ब᳘र ऽइत्या᳘चक्षते परो᳘क्षं परो᳘क्षकामा हि᳘ देवा᳘ ऽउरु᳘ मे ऽकरदि᳘ति त᳘स्मादुरू᳘करमुरू᳘करᳫँ᳭ ह वै त᳘दुलू᳘खलमित्या᳘चक्षते परो᳘क्षं परो᳘क्षकामा हि᳘ देवाः᳘ सैषा स᳘र्व्वेषां प्राणा᳘नां यो᳘निर्य᳘दुलू᳘खलᳫँ᳭ शि᳘रो वै᳘ प्राणा᳘नां यो᳘निः॥
मूलम् - Weber
सो ऽब्रवीत्॥
अयं वाव᳘ मा स᳘र्वस्मात्पाप्म᳘न उ᳘दभार्षीदि᳘ति यद᳘ब्रवीदु᳘दभार्षीन्मे᳘ति त᳘स्मादुपुम्भ᳘र उदुम्भ᳘रो ह वै त᳘मुदुम्ब᳘र इत्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवा᳘ उरु᳘ मे करदि᳘ति त᳘स्मादुरु᳘करमुरु᳘करᳫं ह वै त᳘दुलू᳘खलमित्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवाःॗ सैषा स᳘र्वेषाम् प्राणा᳘नां यो᳘निर्य᳘दुलू᳘खलं शि᳘रो वै᳘ प्राणा᳘नां यो᳘निः॥
मूलम् - विस्वरम्
सो ऽब्रवीत् । अयं वाव मा सर्वस्मात्पाप्मन उदभार्षीदिति । यदब्रवीदुदभार्षीन्मेति- तस्मादुदुम्भरः । उदुम्भरो ह वै तमुदुम्बर इत्याचक्षते- परो ऽक्षम् । परोक्षकामा हि देवाः । उरु मे ऽकरदिति- तस्मादुरूकरम् । उरूकरं ह वै तदुलूखलमित्याचक्षते । परो ऽक्षम्- परोक्षकामा हि देवाः । सैषा सर्वेषां प्राणानां योनिः- यदुलूखलम् । शिरो वै प्राणानां योनिः ॥ २२ ॥
सायणः
उदुम्बरोलूखलशब्दौ निर्वक्ति- सो ऽब्रवीदिति । ‘सर्वस्मात्पाप्मनः’ कृच्छ्रान्माम् ‘अयम्’ हि ‘उदभार्षीद्’ उद्धृतवान् ‘इति’ ‘सः’ प्रजापतिः ‘अब्रवीत्’ । कृच्छ्रादुद्धरणं चास्यान्नप्राणयोरवरोधकत्वात् । अतश्चोदभार्षीन्मामिति ‘यदब्रवीत्’ ‘तस्माद्’ ऊर्क् ‘उदुम्भरो ऽभूत्’ । अत एवमुक्तत्वादयम् ‘उदुम्भरः’ तमेव देवाः ‘उदुम्बरः’ इति ‘परोक्षम् आचक्षते’ । पारोक्ष्येणाभिधानं गौरवाय कल्प्यत इति देवानां परोक्षकामत्वम् । तथा मे ‘उरु’ अधिकम् ‘अकरद्’ अकार्षीदिति यदब्रवीत् ‘तस्मादुरूकरम्’ देवा ‘उलूखलम्’ इति परोक्षमाचक्षते । उदुम्बरस्योर्गात्मकत्वादुलूखलस्य चौदुम्बरत्वादुरुकरणं पाप्मन उदभार्षीद् इत्युक्तं च सम्पद्यते । उदुम्बरोलूखलशब्दौ पृषोदरादित्वाद् भरतेः करोतेश्च व्युत्पादनीयौ । अकरदिति “कृमृदृरुहिभ्यश्छन्दसि” (पा. सू. ३ । १ । ५९) इति च्लेरङादेशः । “ऋदृशो ऽङि गुणः”- (पा. सू. ७ । ४ । १६) प्रकृतमुलूखलं शिरोरूपेण प्रशंसति- सैषेत्यादिना । ‘शिरः’ ‘सर्वेषाम् प्राणानाम्’ इन्द्रियाणां ‘योनिः’ खलु । मुखस्यापि शिरःप्रदेशत्वात् तत्रैव सर्वेन्द्रियाणामुत्पत्तिः । तथा सति ‘उलूखलम्’ इति ‘यत्’ सैषा ऽपि सर्वेषाम् ‘प्राणानां’ ‘योनिः’ भवति ॥ २२ ॥
Eggeling
- He said, ‘Verily this one has lifted me from out of all evil;’ and because he said he has lifted me out (udabhārshīt),’ hence (the name) ‘udumbhara;’–‘udumbhara’ doubtless being what is mystically called Udumbara, for the gods love the mystic. ‘Wide space (uru) shall it make (karat) for me!’ he said, hence ‘urukara;’ ‘urukara’ doubtless being what is mystically called ‘ulūkhala’ (the mortar); for the gods love the mystic. Now that mortar is
the birth-place of all breaths; and the birth-place of the breaths being the head-
२३
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘त्प्रादेशमात्रं᳘ भवति॥
प्रादेशमात्र᳘मिव हि शि᳘रश्च᳘तुःस्रक्ति भवति च᳘तुःस्रक्तीव हि शि᳘रो म᳘ध्ये संगृहीतं[[!!]] भवति मध्ये[[!!]] संगृहीत᳘मिव हि शि᳘रः॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘त्प्रादेशमात्रं᳘ भवति॥
प्रादेशमात्र᳘मिव हि शि᳘रश्च᳘तुःस्रक्ति भवति च᳘तुःस्रक्तीव हि शि᳘रो म᳘ध्ये संगृहीतं[[!!]] भवति मध्ये[[!!]] संगृहीत᳘मिव हि शि᳘रः॥
मूलम् - Weber
त᳘त्प्रादेशमात्र᳘म् भवति॥
प्रादेशमात्र᳘मिव हि शि᳘रश्च᳘तुःस्रक्ति भवति च᳘तुःस्रक्तीव हि शि᳘रो म᳘ध्ये संगृहीत᳘म् भवति म᳘ध्ये संगृहीत᳘मिव हि शि᳘रः॥
मूलम् - विस्वरम्
तत् प्रादेशमात्रं भवति । प्रादेशमात्रमिव हि शिरः । चतुःस्रक्ति भवति । चतुःस्रक्तीव हि शिरः मध्ये सङ्गृहीतं भवति । मध्ये सङ्गृहीतमिव हि शिरः ॥ २३ ॥
सायणः
उलूखलस्य शिरःसाधर्म्यसम्पादनादेतदुपपद्यत इत्येतत्प्रदर्श्यते- तदिति । ‘तद्’ उलूखलम् ‘प्रादेशमात्रम्’ ‘चतुःस्रक्ति’ ‘मध्ये’ च संगृहीतं ‘भवति’ । शिरो ऽपि तथैवेति सर्वप्राणियोनित्वमुलूखलस्योपपद्यत इत्यर्थः ॥ २३ ॥
Eggeling
- It (the mortar) is of the measure of a span, for the head is, as it were, of the measure of a span;–four-cornered, for the head is, as it were, four-cornered;–contracted in the middle, for the head is, as it were, contracted in the middle.
२४
विश्वास-प्रस्तुतिः
(स्तं) तं य᳘त्र देवाः᳘ सम᳘स्कुर्व्वन्॥
(र्व्वंस्त᳘) त᳘दस्मिन्नेतत्स᳘र्व्वं मध्य᳘तो ऽदधुः प्राणम᳘न्नमू᳘र्जं त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति रेतःसि᳘चोर्व्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ ऽए᳘वास्मिन्नेतत्स᳘र्व्वं दधाति॥
मूलम् - श्रीधरादि
(स्तं) तं य᳘त्र देवाः᳘ सम᳘स्कुर्व्वन्॥
(र्व्वंस्त᳘) त᳘दस्मिन्नेतत्स᳘र्व्वं मध्य᳘तो ऽदधुः प्राणम᳘न्नमू᳘र्जं त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति रेतःसि᳘चोर्व्वे᳘लया पृष्ट᳘यो वै᳘ रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ ऽए᳘वास्मिन्नेतत्स᳘र्व्वं दधाति॥
मूलम् - Weber
तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्॥
त᳘दस्मिन्नेतत्स᳘र्वम् मध्यॗतो ऽदधुः प्राणम᳘न्नमू᳘र्जं त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति रेतःसि᳘चोर्वे᳘लया पृष्ट᳘यो वै रेतःसि᳘चौ म᳘ध्यमु पृष्ट᳘यो मध्यत᳘ एॗवास्मिन्नेतत्स᳘र्वं दधाति॥
मूलम् - विस्वरम्
तं यत्र देवाः समस्कुर्वन्- तदस्मिन्नेतत्सर्वं मध्यतो ऽदधुः- प्राणमन्नमूर्जम् । तथैवास्मिन्नयमेतद्दधाति । रेतःसिचोर्वेलया । पृष्टयो वै रेतःसिचौ, मध्यमु पृष्टयः । मध्यत एवास्मिन्नेतत्सर्वं दधाति ॥ २४ ॥
सायणः
उपसंहरति- तं यत्र देवा इति । ‘यत्र’ यदा ‘देवाः’ ‘तम्’ प्रजापतिं संस्कृतवन्तः । ‘तद्’ एतस्मिन् ‘प्राणमन्नमूर्जम्’ इति ‘एतत् सर्वम्’ मध्यप्रदेशे निहितवन्तः । तस्मात् ‘तथैव’ ‘अयं’ यजमानो ऽपि अनेनोपधानेनैतत् सर्वं सम्पादयति । ‘रेतःसिचोः’ पृष्टिरूपेण मध्यत्वात् तत्समीपदेश उपधाने देवा यथा ‘मध्यतो ऽदधुः’ तथैवास्मिन् ‘मध्यत एव’ ‘सर्वम्’ निदधाति ॥ २४ ॥
Eggeling
- Now when the gods restored him (Prajāpati-Agni), they put all that inside him–breath, food, strength; and in like manner this (Sacrificer) now puts that into him. At the distance of the two retaḥsic (he places it),–the retaḥsic being the ribs, and the ribs the middle, it is thus in the middle of (or, inside) him that he puts all that.
२५
विश्वास-प्रस्तुतिः
व्वि᳘ष्णोः क᳘र्माणि पश्यते᳘ति॥
व्वी᳘र्यं[[!!]] वै क᳘र्म व्वि᳘ष्णोर्व्वी᳘र्याणि पश्यते᳘त्येतद्य᳘तो व्रता᳘नि पस्पश ऽइत्य᳘न्नं वै᳘ व्व्रतं यतो᳘ ऽन्नᳫँ᳭ स्पाशयां᳘चक्र ऽइ᳘त्येतदि᳘न्द्रस्य यु᳘ज्यः सखेती᳘न्द्रस्य᳘ ह्येष यु᳘ज्यः स᳘खा द्विदेव᳘त्ययो᳘पदधाति द्वे᳘ ह्युलूखलमुसले᳘ सकृ᳘त्सादयति समानं त᳘त्करोति समान᳘ᳫँ᳘[[!!]] ह्येतद᳘न्नमेव᳘ सादयित्वा सूददोहसा᳘ ऽधिवदति[[!!]] त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
व्वि᳘ष्णोः क᳘र्माणि पश्यते᳘ति॥
व्वी᳘र्यं[[!!]] वै क᳘र्म व्वि᳘ष्णोर्व्वी᳘र्याणि पश्यते᳘त्येतद्य᳘तो व्रता᳘नि पस्पश ऽइत्य᳘न्नं वै᳘ व्व्रतं यतो᳘ ऽन्नᳫँ᳭ स्पाशयां᳘चक्र ऽइ᳘त्येतदि᳘न्द्रस्य यु᳘ज्यः सखेती᳘न्द्रस्य᳘ ह्येष यु᳘ज्यः स᳘खा द्विदेव᳘त्ययो᳘पदधाति द्वे᳘ ह्युलूखलमुसले᳘ सकृ᳘त्सादयति समानं त᳘त्करोति समान᳘ᳫँ᳘[[!!]] ह्येतद᳘न्नमेव᳘ सादयित्वा सूददोहसा᳘ ऽधिवदति[[!!]] त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
वि᳘ष्णोः क᳘र्माणि पश्यते᳘ति॥
वीर्यं᳘ वै क᳘र्म वि᳘ष्णोर्वीॗर्याणि पश्यते᳘त्येतद्य᳘तो व्रता᳘नि पस्पश इत्य᳘न्नं वै᳘ व्रतं यतो᳘ ऽन्नᳫं स्पाशयां᳘ चक्र इ᳘त्येतदि᳘न्द्रस्य यु᳘ज्यः सखेती᳘न्द्रस्यॗ ह्येष यु᳘ज्यः स᳘खा द्विदेव᳘त्ययो᳘पदधाति द्वेॗह्युलूखलमुमले᳘ सकृ᳘त्सादयति समानं त᳘त्करोति समाॗनᳫं ह्येतद᳘न्नमेव᳘ सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“विष्णोः कर्माणि पश्यत"- इति । वीर्यं वै कर्म, विष्णोर्वीर्याणि पश्यतेत्येतत् । “यतो व्रतानि पस्पशे"- इति । अन्नं वै व्रतम् । यतो ऽन्नं स्पाशयांचक्र ऽइत्येतत् । “इन्द्रस्य युज्यः सखा”- (वा. सं. १३ । ३३)- इति । इन्द्रस्य ह्येष युज्यः सखा । द्विदेवत्ययोपदधाति । द्वे ह्युलूखलमुसले । सकृत्सादयति । समानं तत्करोति । समानं ह्येतत्- अन्नमेव । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ २५ ॥
सायणः
विहिते उलूखलमुसलयोरुपधाने मन्त्रं विदधानो व्याचष्टे- विष्णोः कर्माणि इति । ‘कर्म’- शब्देन वीर्यं विवक्ष्यते, अतश्च हे जनाः ! ‘विष्णोः’ यज्ञस्य ‘वीर्याणि’ ‘पश्यतेत्येतद्’ उक्तं भवति । यत इति । ‘यतो’ वीर्यतः व्रतशब्देनान्नमुच्यते, अन्नानि ‘पस्पशे’ ‘स्पाशयाञ्चक्रे’ स्पर्शयमानश्च स्वजनैर्लम्भयामासेत्यर्थः । “स्पश बाधनस्पर्शनयोः”- (धा. पा. भ्वा. प. ९१२) इति धातुः । इन्द्रस्येति । ‘एषः’ यज्ञः ‘इन्द्रस्य’ ‘युज्यो’ योग्यः ‘सखा’ हि, तस्य तृप्तिहेतुत्वात् । अतः ‘इन्द्रस्य युज्यः सखा’ इत्युक्तमित्यर्थः । उलूखलमुसलयोर्द्वित्वात्तदुपधानमन्त्रस्य द्विदेवत्यत्वमुपपन्नमिति दर्शयति- द्विदेवत्ययेति । उलूखलमुसलयोः सादनं पृथगेव कर्त्तव्यमित्यत आह- सकृदिति । यत् एतदुलूखलं मुसलं चान्नरूपेण समानमेव, अतः सादनमपि सकृदेव कर्त्तव्यमिति । अनेनैव लिङ्गेनोपधानमन्त्रस्यावृत्तिर्ज्ञाप्यते । यदि युगपदुपधानं स्यात्, सकृत्सादनं नोच्येतेति । उत्तरवाक्यं व्याख्यातम् ।
अत्र कात्यायनः- “उलूखलमुसले स्वयमातृण्णामुत्तरेणारत्निमात्र औदुम्बरे प्रादेशमात्रे चतुरस्रमुलूखलं मध्यसङ्गृहीतमूर्ध्वं वृत्तं मुसलं दक्षिणमुलूखलाद्विष्णोः कर्माणीति"- (का. श्रौ. सू. १७ । १०२) इति ॥ २५ ॥
Eggeling
- [He sets them down 10, with Vāj. S. XIII, 33; R̥k S. I, 22, 191 ‘See ye the deeds of Vishṇu’–deed doubtless means power: thus, see ye the powers of Vishṇu;–‘whereby he beheld the sacred ordinances,’–ordinance means food: thus, whereby he did behold the food;–‘Indra’s allied friend,’ for he is indeed Indra’s allied friend. With a (verse) relating to two deities he sets them down, for the mortar and pestle are two. Once he ‘settles’ them: he thereby makes them one and the same; for one and the same is that food. Having ‘settled’ it, he pronounces the Sūdadohas on it: the significance of this has been explained.
२६
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थोखामु᳘पदधाति॥ यो᳘निर्व्वा ऽउखा यो᳘निमे᳘वैतदु᳘पदधाति ता᳘मुलू᳘खल ऽउ᳘पदधात्यन्त᳘रिक्षं वा᳘ ऽउलू᳘खलं यद्वै किं᳘ चास्या᳘ ऽऊर्ध्व᳘मन्त᳘रिक्षमेव तन्म᳘ध्यं वा᳘ ऽअन्त᳘रिक्षं मध्यतस्तद्यो᳘निं दधाति त᳘स्मात्स᳘र्व्वेषां भूता᳘नां मध्यतो यो᳘निर᳘पि व्व᳘नस्प᳘तीनाम्॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थोखामु᳘पदधाति॥ यो᳘निर्व्वा ऽउखा यो᳘निमे᳘वैतदु᳘पदधाति ता᳘मुलू᳘खल ऽउ᳘पदधात्यन्त᳘रिक्षं वा᳘ ऽउलू᳘खलं यद्वै किं᳘ चास्या᳘ ऽऊर्ध्व᳘मन्त᳘रिक्षमेव तन्म᳘ध्यं वा᳘ ऽअन्त᳘रिक्षं मध्यतस्तद्यो᳘निं दधाति त᳘स्मात्स᳘र्व्वेषां भूता᳘नां मध्यतो यो᳘निर᳘पि व्व᳘नस्प᳘तीनाम्॥
मूलम् - Weber
अ᳘थोखामु᳘पदधाति यो᳘निर्वा उखा यो᳘निमेॗवैतदु᳘पदधाति ता᳘मुलू᳘खल उ᳘पदधात्यन्त᳘रिक्षं वा᳘ उलू᳘खलं यद्वै किं᳘ चास्या᳘ ऊर्ध्व᳘मन्त᳘रिक्षमेव तन्म᳘ध्यं वा᳘ अन्त᳘रिक्षम् मध्यतस्तद्यो᳘निं दधाति त᳘स्मात्स᳘र्वेषाम् भूता᳘नाम् मध्यतो यो᳘निर᳘पि व᳘नस्प᳘तीनाम्॥
मूलम् - विस्वरम्
अथ उखेष्टकोपधानम् ।
अथोखामुपदधाति । योनिर्वा ऽउखा । योनिमेवैतदुपदधाति । तामुलूखल ऽउपदधाति । अन्तरिक्षं वा ऽउलूखलम् । यद्वै किञ्चास्या ऊर्ध्वम्- अन्तरिक्षमेव तत् । मध्यं वा ऽअन्तरिक्षम् । मध्यतस्तद्योनिं दधाति । तस्मात्सर्वेषां भूतानां मध्यतो योनिः- अपि वनस्पतीनाम् ॥ २६ ॥
सायणः
उलूखलमुसलोपधानानन्तरमुखाया उपधानं विधत्ते- अथेति- (का. श्रौ. सू. १७ । १०३) । इष्टकाचितिषु निधास्यमानस्याग्नेरुखायां कृत्वोत्पादनादुखायाः योनित्वेन तदुपधाने योनेरेवोपधानं भवतीत्याह- योनिर्वा इति । विहितमुपधानमुलूखले कर्तव्यमित्याह- तामिति । तत्रोपधानं प्रशंसति- अन्तरिक्षं वा इति । ‘यत् किम्’ अपि वस्त्वस्याः पृथिव्याः ‘ऊर्ध्वम्’ उपर्यवस्थितम् तत्सर्वं ‘अन्तरिक्षम्’ ‘एव’ । अन्तरिक्षं च द्यावापृथिव्योरन्तराले ऽवस्थानात् ‘मध्यम्’ हि, ततश्चोलूखलस्यापि पृथिव्या उपर्यवस्थानेन मध्यभूतान्तरिक्षात्मकत्वात्तत्रोपधाने मध्यभागे एव योनेरुपधानं भवति । मध्यत इति । “सार्वविभक्तिकस्तसिः”- इति सप्तम्यर्थे तसिः । दृष्टानुसारेणोक्तमर्थं प्रमाणयति- तस्मादिति । ‘वनस्पतीनामपि’ बीजानां मध्यभागं भित्त्वोत्पन्नत्वान् ‘मध्यतो योनिः’ इत्यर्थः ॥ २६ ॥
Eggeling
- He then places the fire-pan thereon,–the fire-pan is a womb: a womb (birth-place) he thus gives to him (Agni). He places it on the mortar,–the mortar is the air, and everything that is above this
earth is air; and the air is the middle: he thus places the womb in the middle; whence the womb of all beings, even of trees 11, is in the middle.
२७
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वोखा᳘मुपद᳘धाति॥
यो वै स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सतैषा᳘ सो᳘खेमे वै᳘ लोका᳘ ऽउ᳘खेमे᳘ लोकाः᳘ प्रजा᳘पतिस्ता᳘मुलू᳘खल ऽउ᳘पदधाति त᳘देनमेत᳘स्मिन्त्स᳘र्व्वस्मिन्प्र᳘तिष्ठापयति प्राणे᳘ ऽन्न ऽऊर्ज्य᳘थो ऽएत᳘स्मादे᳘वैनमेतत्स᳘र्व्वस्माद᳘नन्तर्हितं दधाति॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वोखा᳘मुपद᳘धाति॥
यो वै स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सतैषा᳘ सो᳘खेमे वै᳘ लोका᳘ ऽउ᳘खेमे᳘ लोकाः᳘ प्रजा᳘पतिस्ता᳘मुलू᳘खल ऽउ᳘पदधाति त᳘देनमेत᳘स्मिन्त्स᳘र्व्वस्मिन्प्र᳘तिष्ठापयति प्राणे᳘ ऽन्न ऽऊर्ज्य᳘थो ऽएत᳘स्मादे᳘वैनमेतत्स᳘र्व्वस्माद᳘नन्तर्हितं दधाति॥
मूलम् - Weber
य᳘द्वेॗवोखा᳘मुपद᳘धाति॥
यो वै स᳘ प्रजा᳘पतिर्व्य᳘स्रंससतैषाॗ सोॗखेमे वै᳘ लोका उॗखेमे᳘ लोकाः᳘ प्रजा᳘पतिस्ता᳘मुलू᳘खल उ᳘पदधाति त᳘देनमेत᳘स्मिन्त्स᳘र्वस्मिन्प्र᳘तिष्ठापयति प्राणे᳘ ऽन्न ऊर्ज्य᳘थो एत᳘स्मादेॗवैनमेतत्स᳘र्वस्माद᳘नन्तर्हितं दधाति॥
मूलम् - विस्वरम्
यद्वेवोखामुपदधाति । यो वै स प्रजापतिर्व्यस्रंसत- एषा सोखा । इमे वै लोका उखा । इमे लोकाः प्रजापतिः । तामुलूखल ऽउपदधाति । तदेनमेतस्मिन्त्सर्वस्मिन्प्रतिष्ठापयति- प्राणे ऽन्न ऽऊर्जि । अथो ऽएतस्मादेवैनमेतत्सर्वस्मादनन्तर्हितं दधाति ॥ २७ ॥
सायणः
अथोखायाः प्राजापत्यात्मकत्वेनोलूखल उपधानं प्रशंसति- यद्वेवोखामिति । ‘सः’ इति प्रजासर्जनेनावयवविश्लेषदशापन्नः परामृश्यते । ‘सः’ यः ‘प्रजापतिर्व्यस्रंसत’ विस्रस्तावयवो ऽभूत्, ‘सा उखा’ । सेति स्त्रीलिङ्गमुखापेक्षया । अत एव प्रजापतेरेतल्लोकत्रयात्मकत्वादुखा ऽपि ‘इमे’ पृथिव्यादयो ‘लोकाः’ । तथा सति प्रजापत्यात्मिकाया उखाया उलूखल उपधानेन विस्रस्ताङ्गं प्रजापतिम् ‘एतस्मिन्’ ‘सर्वस्मिन्’ ‘प्रतिष्ठापयति’ । तदेव प्रदर्श्यते- प्राणे ऽन्न ऊर्ज्जीति । उलूखलस्यौदुम्बरत्वेन तस्य चान्नरसात्मकत्वादन्नरसेन च प्राणानां धारणात् प्राणात्मकत्वमनुसन्धेयम् । प्राणान्नोर्जां परस्परं ग्रहणमुक्तम् । न केवलं प्रतिष्ठापनमात्रम् । अपि व्यवधानेन तत्सम्बद्धमेव कुर्यादित्याह- अथो इति ॥ २७ ॥
Eggeling
- And, again, why he places the fire-pan thereon;–that same Prajāpati who became disjointed doubtless is this same fire-pan, for the fire-pan is these worlds, and Prajāpati is these worlds. He places it on the mortar: he thereby establishes him (Prajāpati) in all that–breath, food, strength; and thus he places him se as not to be separated from all that.
२८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोपशयां᳘ पिष्ट्वा[[!!]]॥
लोकभा᳘जमुखां᳘ कृत्वा᳘ पुर᳘स्तादुखा᳘या ऽउपनि᳘वपत्येष᳘ हैत᳘स्यै लोकस्त᳘थो हास्यैषा᳘ ऽनन्तरिता भवति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोपशयां᳘ पिष्ट्वा[[!!]]॥
लोकभा᳘जमुखां᳘ कृत्वा᳘ पुर᳘स्तादुखा᳘या ऽउपनि᳘वपत्येष᳘ हैत᳘स्यै लोकस्त᳘थो हास्यैषा᳘ ऽनन्तरिता भवति॥
मूलम् - Weber
अ᳘थोपशया᳘म् पिष्ट्वा᳟॥
लोकभा᳘जमुखां᳘ कृत्वा᳘ पुर᳘स्तादुखा᳘या उपनि᳘वपत्येष᳘ हैत᳘स्यै लोकस्त᳘थो हास्यैषा᳘नन्तरिता भवति॥
मूलम् - विस्वरम्
अथोपशयां पिष्ट्वा लोकभाजमुखां कृत्वा पुरस्तादुखाया उपनिवपति । एष हैतस्यै लोकः । तथो हास्यैषा ऽनन्तरिता भवति ॥ २८ ॥
सायणः
उपशया नामोखाभेदे सति तत्प्रतिसंधानार्थं प्रागवशेषिता मन्त्रसंस्कृता मृत्, तां चूर्णीकृत्योखायाः पुरोभागे निदध्यादित्याह- अथेति । ‘उखां’ ‘लोकभाजं’ स्थानभाजमुलूखलभाजिनीं ‘कृत्वा’ इत्यर्थः । उखाभेदप्रतिसन्धानार्थत्वादुपशयायास्तत्पुरोभागे ऽवकाशः । अतस्तत्रोपनिवापेन स्वावकाशस्याव्यवहिता भवतीत्याह- एष हैतस्या इति ॥ २८ ॥
Eggeling
२९
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
कथ᳘मस्यैषा᳘ पक्वा᳘ शृतो᳘पहिता भवती᳘ति य᳘देव य᳘जुष्कृता तेना᳘थो यद्वै किं᳘ चैत᳘मग्निं᳘ व्वैश्वानर᳘मुपनिग᳘च्छति त᳘त ऽएव त᳘त्पक्व᳘ᳫँ᳘ शृतमुपहितं[[!!]] भवति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
कथ᳘मस्यैषा᳘ पक्वा᳘ शृतो᳘पहिता भवती᳘ति य᳘देव य᳘जुष्कृता तेना᳘थो यद्वै किं᳘ चैत᳘मग्निं᳘ व्वैश्वानर᳘मुपनिग᳘च्छति त᳘त ऽएव त᳘त्पक्व᳘ᳫँ᳘ शृतमुपहितं[[!!]] भवति॥
मूलम् - Weber
त᳘दाहुः॥
कथ᳘मस्यैषा᳘ पक्वा᳘ शृतो᳘पहिता भवती᳘तिं य᳘देव य᳘जुष्कृता तेना᳘थो यद्वै किं᳘ चैत᳘मग्निं᳘ वैश्वानर᳘मुपनिग᳘छति त᳘त एव त᳘त्पक्वं᳘ शृतमु᳘पहितम् भवति॥
मूलम् - विस्वरम्
तदाहुः- कथमस्यैषा पक्वा शृतोपहिता भवतीति । यदेव यजुष्कृता, तेन । अथो यद्वै किं चैतमग्निं वैश्वानरमुपनिगच्छति- तत एव तत्- पक्वं शृतमुपहितं भवति ॥ २९ ॥
सायणः
इष्टकोपधानप्रदेशे पक्वानामेवोपधानादुपशयायाश्चापक्वत्वात् कथमत्रोपधानं युज्यत इति याज्ञिकानां जिज्ञासामवतारयति- तदाहुरिति । अस्येति । उपधानप्रदेशावकाशस्येत्यर्थः । शृतेति पाकविशेषाभिधानात् ‘पक्वा’ ‘शृता’ इति न पुनरुक्तिः । अथवा पाकेन शृता सतीत्यर्थः । एतस्योत्तरं द्वेधा दर्शयति- यदेवेत्यादिना । एषोपशया नाम ‘यजुष्कृता’ इति ‘यत्,’ ‘तेन’ असौ पक्वा शृता च भवति । मन्त्रेणाहृतैव मृदुपशया क्रियते, अतश्चास्या मन्त्रेण निष्पादनादेव पाकसम्पत्तिरित्यर्थः । किञ्च ‘यत्’ किञ्चिदपि वस्तु ‘एतं’ ‘वैश्वानरमग्निम्’ इष्टकोपधानस्थलात्मकं प्राप्नोति, ‘तत्’ सर्वं ‘ततः’ ‘एव’ तत्प्राप्तेरेव ‘पक्वं’ ‘शृतं’ सदेव ‘उपहितं भवति’ ॥ २९ ॥
Eggeling
- Here now they say, ‘How does that (remainder) of his come to be put on as cooked, as baked?’–In that it is prepared with a sacrificial formula; and, moreover, whatever comes in contact with Agni Vaiśvānara even thereby comes to be put on as something cooked, as baked.
३०
विश्वास-प्रस्तुतिः
ध्रु᳘वा ऽसि धरुणे᳘ति॥
त᳘स्योक्तो ब᳘न्धुरितो᳘ जज्ञे प्रथम᳘मेभ्यो यो᳘निभ्यो ऽअ᳘धि जात᳘वेदा ऽइ᳘त्येते᳘भ्यो हि यो᳘निभ्यः प्रथमं᳘ जात᳘वेदा ऽअ᳘जायत स᳘ गायत्र्या᳘ त्रिष्टु᳘भा ऽनुष्टु᳘भा च देवे᳘भ्यो हव्व्यं᳘ व्वहतु प्रजानन्नि᳘त्येतैर्वा᳘ ऽएष छ᳘न्दोभिर्देवे᳘भ्यो हव्व्यं᳘ व्वहति प्रजान᳘न्॥
मूलम् - श्रीधरादि
ध्रु᳘वा ऽसि धरुणे᳘ति॥
त᳘स्योक्तो ब᳘न्धुरितो᳘ जज्ञे प्रथम᳘मेभ्यो यो᳘निभ्यो ऽअ᳘धि जात᳘वेदा ऽइ᳘त्येते᳘भ्यो हि यो᳘निभ्यः प्रथमं᳘ जात᳘वेदा ऽअ᳘जायत स᳘ गायत्र्या᳘ त्रिष्टु᳘भा ऽनुष्टु᳘भा च देवे᳘भ्यो हव्व्यं᳘ व्वहतु प्रजानन्नि᳘त्येतैर्वा᳘ ऽएष छ᳘न्दोभिर्देवे᳘भ्यो हव्व्यं᳘ व्वहति प्रजान᳘न्॥
मूलम् - Weber
ध्रुॗवासि धरुणे᳘ति॥
त᳘स्योक्तो ब᳘न्धुरितो᳘ जज्ञे प्रथम᳘मेभ्यो यो᳘निभ्यो अ᳘धि जात᳘वेदा इ᳘त्येते᳘भ्यो हि यो᳘निभ्यः प्रथमं᳘ जात᳘वेदा अ᳘जायत स᳘ गायत्र्या᳘ त्रिष्टु᳘भानुष्टु᳘भा च देवे᳘भ्यो हव्यं᳘ वहतु प्रजानन्नि᳘त्येतैर्वा᳘ एष छ᳘न्दोभिर्देवे᳘भ्यो हव्यं᳘ वहति प्रजान᳘न्॥
मूलम् - विस्वरम्
“ध्रुवा ऽसि धरुणा”- इति । तस्योक्तो बन्धुः । “इतो जज्ञे प्रथममेभ्यो योनिभ्यो ऽअधि जातवेदाः”- इति । एतेभ्यो हि योनिभ्यः प्रथमं जातवेदा अजायत । “स गायत्र्या त्रिष्टुभा ऽनुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन्”- (वा० सं० १३ । ३४) इति । एतैर्वा ऽएष छन्दोभिर्देवेभ्यो हव्यं वहति प्रजानन् ॥ ३० ॥
सायणः
उखोपधाने “ध्रुवा ऽसि" इति “इषे राये” इति च द्वौ मन्त्रौ विदधानो व्याचष्टे- ध्रुवा ऽसीत्यादिना । ‘ध्रुवा ऽसि धरुणा’ इत्यस्य व्याख्यानं “ध्रुवा ऽसीति स्थिरा ऽसि”- (श. प. ७ । ४ । २ । ५) इत्यादिना प्रागुक्तम् । एतेभ्य इति । प्रथमतो यदुखाया जनयित्वा पश्चाद् ‘एतेभ्यो’ ‘योनिभ्यो’ लोकेभ्यो ‘जातवेदा अजायत’, अतश्चामुमर्थम् ‘इतः’ इत्यादिमन्त्रभागो ब्रूत इत्यर्थः । ‘एतैः’ गायत्र्यादिभिः ‘छन्दोभिः’ सह ‘एषः’ अग्निः स्वाधिकारं ‘प्रजानन्’ ‘हव्यम्’ ‘वहति’ खलु । छन्दसां हविर्वहनं तैत्तिरीयके श्रूयते- “छन्दांसि देवेभ्यो ऽपाक्रामन्न वो ऽभागानि हव्यं वक्ष्याम इति”- इति (तै. सं. ५ । १ । १) ॥ ३० ॥
Eggeling
- [He sets the fire-pan down, with Vāj. S. XIII, 34-35] ‘Steady thou art, supporting,’ the meaning of this has been explained 14;–‘from here he was at first born, from these wombs, the knower of beings;’ for from these wombs the knower of beings (Agni) was indeed born at first;–‘by the Gāyatrī, the Trishṭubh, and the Anushṭubh, may he, the knowing, bear the offering to the gods!’–by means of these metres he, the knowing, indeed bears the offering to the gods.
३१
विश्वास-प्रस्तुतिः
(न्नि) इषे᳘ राये᳘ रमस्व॥
स᳘हसे द्युम्न᳘ ऽऊर्जे ऽअ᳘पत्याये᳘त्येत᳘स्मै स᳘र्व्वस्मै रमस्वे᳘त्येत᳘त्सम्रा᳘डसि स्वरा᳘डसी᳘ति सम्रा᳘ट् च ह्येष᳘ स्वरा᳘ट् च सारस्वतौ त्वो᳘त्सौ प्रा᳘वतामि᳘ति म᳘नो वै स᳘रस्वान्वाक्स᳘रस्वत्येतौ᳘ सारस्वता ऽउ᳘त्सौ तौ᳘ त्वा प्रा᳘वतामि᳘त्येतद्द्वा᳘भ्यामु᳘पदधाति त᳘स्योक्तो ब᳘न्धुर᳘थो द्वय᳘ᳫँ᳘[[!!]] ह्ये᳘वैत᳘द्रूपं मृच्चा᳘पश्च सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(न्नि) इषे᳘ राये᳘ रमस्व॥
स᳘हसे द्युम्न᳘ ऽऊर्जे ऽअ᳘पत्याये᳘त्येत᳘स्मै स᳘र्व्वस्मै रमस्वे᳘त्येत᳘त्सम्रा᳘डसि स्वरा᳘डसी᳘ति सम्रा᳘ट् च ह्येष᳘ स्वरा᳘ट् च सारस्वतौ त्वो᳘त्सौ प्रा᳘वतामि᳘ति म᳘नो वै स᳘रस्वान्वाक्स᳘रस्वत्येतौ᳘ सारस्वता ऽउ᳘त्सौ तौ᳘ त्वा प्रा᳘वतामि᳘त्येतद्द्वा᳘भ्यामु᳘पदधाति त᳘स्योक्तो ब᳘न्धुर᳘थो द्वय᳘ᳫँ᳘[[!!]] ह्ये᳘वैत᳘द्रूपं मृच्चा᳘पश्च सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
इषे᳘ राये᳘ रमस्व॥
स᳘हसे द्युम्न᳘ ऊर्जे अ᳘पत्याये᳘त्येत᳘स्मै स᳘र्वस्मै रमस्वे᳘त्येत᳘त्सम्रा᳘डसि स्वरा᳘डसी᳘ति सम्रा᳘ट्चॗ ह्येष᳘ स्वरा᳘ट्च सारस्वतौ त्वो᳘त्सौ प्रा᳘पवतामि᳘ति म᳘नो वै स᳘रस्वान्वाक्स᳘रस्वत्येतौ᳘ सारस्वता उ᳘त्सौ तौ᳘ त्वा प्रा᳘वतामि᳘त्येतद्द्वा᳘भ्यामु᳘पदधाति त᳘स्योक्तो ब᳘न्धुर᳘थो द्वॗयᳫं ह्येॗवैत᳘द्रूपम् मृच्चा᳘ पश्च सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“इषे राये रमस्व सहसे द्युम्न ऽऊर्जे ऽअपत्याय”- इति । एतस्मै सर्वस्मै रमस्वेत्येतत् । “सम्राडसि स्वराडसि”- इति । सम्राट् च ह्येष स्वराट् च । “सारस्वतौ त्वोत्सौ प्रावताम्”- (वा० सं० १३ । ३५) इति । मनो वै सरस्वान् । वाक्सरस्वती । एतौ सारस्वता ऽउत्सौ । तौ त्वा प्रावतामित्येतत् । द्वाभ्यामुपदधाति । तस्योक्तो बन्धुः । अथो द्वयं ह्येवैतद्रूपम्- मृच्चापश्च । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ ३१ ॥
सायणः
“इषे राये” इत्यादिना ‘इट्प्रभृतिभ्यः’ सर्वेभ्यो ‘रमस्व’ इत्येतदुक्तं भवतीति व्याचष्टे- एतस्मा इति । यत इयमुखा सम्यग्राजते स्वयमेव राजते च, अतः ‘सम्राडसि’ ‘स्वराडसि’ इति मन्त्रभागो ब्रूते इति व्याचष्टे- सम्राट् च हीति । सारस्वताविति । ‘सरस्वान् मनः’ उच्यते, ‘सरस्वती’ च ‘वाक्’ । ‘एतौ सारस्वतौ’ इति । स्वार्थिको ऽण् प्रत्ययः । ‘उत्सौ’ वारिप्रवाहौ वाङ्मनसात्मकौ । मनसस्तावत् सर्वशास्त्रार्थपरिज्ञानरसाधारत्वाद् वाचश्च तत्प्रतिपादनरसाधारत्वादुत्सत्वमनयोः । ‘तौ’ ‘त्वा’ ‘प्रावताम्’ पालयतामभिज्ञानवदनव्यापाराभ्यामित्यर्थः । हे उखे ! त्वं ‘ध्रुवा ऽसि’ स्थिरा ऽसि ‘धरुणा’ धारिणी चासि । ‘जातवेदाः’ ‘इतः’ त्वत्तः सकाशात् ‘प्रथमम्’ ‘अधिजज्ञे’ पश्चाद् ‘एभ्यो’ लोकेभ्यो ऽधिजातः ‘सः’ तथाविधो ‘जातवेदाः’ गायत्र्यादिभिश्छन्दोभिः सह स्वाधिकारं ‘प्रजानन्’ ‘देवेभ्यो’ ‘हव्यं’ हविः ‘वहतु’ धारयतु । किंच त्वम् ‘इषे’ अन्नाय ‘राये’ धनाय ‘सहसे’ बलाय ‘धुम्ने’ द्युम्नं यशः तस्मै ‘ऊर्जे’ पयोदध्याद्युपसेचनाय ‘अपत्याय’ पुत्रार्थं च ‘रमस्व’ तत्सर्वं सम्पादयितुमभिरतिं कुरु । त्वं सम्यग्राजमाना ऽसि । स्वेनैव राजमाना ऽसि । त्वां च वाङ्मनसरूपौ ‘उत्सौ’ प्रकर्षेण पालयतामिति मन्त्रद्वयस्यार्थः । अत्र कात्यायनः- “उलूखल उखां कृत्वोपशयां पिष्ट्वा न्युप्य पुरस्ताद् ध्रुवा ऽसीत्युखाम् “- (का. श्रौ. सू. १७ । १०३) । अत्र “अथोपशयां पिष्ट्वा” इत्यादिश्रुतिक्रमेणानुष्ठानमुपशयोपनिवापोत्तरकालं च मन्त्रवचनम् । उपधानमन्त्रयोर्द्वित्वसंख्याया व्याख्यानं प्रागुक्तमित्याह- द्वाभ्यामिति । अद्भिरेव सिक्तया मृदा कृतत्वादुखायां मृच्चापश्चेति द्विविधं रूपमस्ति, अतश्च तदुपधानमन्त्रयोर्द्वित्वमुपपद्यत इत्याह- अथो इति । उत्तरवाक्यं तु व्याख्यातम् ॥ ३१ ॥
Eggeling
- ‘For sap, for wealth, do thou rest, for might in glory, for strength, for offspring!’ that is, for all that do thou rest!–‘all-ruling thou art, self-ruling thou art!’ for both all-ruling and self-ruling he (Agni) indeed is;–‘may the two Sārasvata wells cheer thee!’ Sarasvat (m.) is the Mind, and Sarasvatī (f.) Speech,–these two are the Sārasvata wells: thus, may these two cheer thee! With two (formulas) he sets it down: the significance of this has been explained; and, moreover, twofold is that form, (consisting as it does of) clay and water. Having ‘settled’ it, he pronounces the Sūdadohas on it: the significance of this has been explained.
३२
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थैनामभि᳘जुहोति॥
(त्ये) एतद्वा᳘ ऽअस्यामेतत्पू᳘र्वᳫँ᳭ रे᳘तः सिक्तं᳘ भवति सि᳘कतास्त᳘देत᳘दभि᳘करोति त᳘स्माद्यो᳘नौ रे᳘तः सिक्त᳘मभि᳘क्रियत ऽआ᳘ज्येन जुहोति स्रुवे᳘ण स्वाहाकारे᳘ण द्वा᳘भ्यामाग्नेयी᳘भ्यां गायत्री᳘भ्यां त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थैनामभि᳘जुहोति॥
(त्ये) एतद्वा᳘ ऽअस्यामेतत्पू᳘र्वᳫँ᳭ रे᳘तः सिक्तं᳘ भवति सि᳘कतास्त᳘देत᳘दभि᳘करोति त᳘स्माद्यो᳘नौ रे᳘तः सिक्त᳘मभि᳘क्रियत ऽआ᳘ज्येन जुहोति स्रुवे᳘ण स्वाहाकारे᳘ण द्वा᳘भ्यामाग्नेयी᳘भ्यां गायत्री᳘भ्यां त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
अ᳘थैनामभि᳘जुहोति॥
एतद्वा᳘ अस्यामेतत्पू᳘र्वं रे᳘तः सिक्त᳘म् भवति सि᳘कतास्त᳘देत᳘दभि᳘करोति त᳘स्माद्यो᳘नौ रे᳘तः सिक्त᳘मभि᳘क्रियत आ᳘ज्येन जुहोति स्रुवे᳘ण स्वाहाकारे᳘ण द्वा᳘भ्यामाग्नेयी᳘भ्यां गायत्री᳘भ्यां त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
उखोपरि होमः ।
अथैनामभिजुहोति । एतद्वा ऽअस्थामेतत्पूर्वं रेतः सिक्तं भवति- सिकताः । तदेतदभिकरोति । तस्माद्योनौ रेतः सिक्तमभिक्रियते । आज्येन जुहोति स्रुवेण स्वाहाकारेण द्वाभ्यामाग्नेयीभ्यां गायत्रीभ्याम् । तस्योक्तो बन्धुः ॥ ३२ ॥
सायणः
उपधानानन्तरमुखाया उपरि होमं विधत्ते 15- अथेति । अभिहोमस्योपयोगमाह- एतद्वा इति । भिन्नं वाक्यमेतत् । एतत् खलु समभूत् । तदेवाह- अस्यामेतत्पूर्वं रेतः सिक्तं भवति सिकता इति । ‘पूर्वम्’ ‘अस्याम्’ उखायाम् ‘एतद्रेतः सिक्तं भवति’ ‘सिकतास्तदेतद्’ इति निर्द्दिष्टप्रदर्शनम् । अग्न्युद्वापसमनन्तरमेव ह्युखायाः सिकताभिः पूरितत्वात् । तद् रेतः एतेनाभिहोमेन ‘अभिकरोति’ अभिवर्द्धयति । यत एवम्, ‘तस्माद्’ इदानीं ‘योनौ’ ‘सिक्तं रेतः’ ‘अभिक्रियते’ अवयविरूपेण क्रियत इत्यर्थः । विहितो ऽभिहोमः ‘आज्येन’ ‘स्रुवेण’ ‘स्वाहाकारेण’ ‘द्वाभ्याम्’ ‘आग्नेयीभ्याम्’ ‘गायत्रीभ्याम्’ कर्त्तव्य इत्याह- आज्येनेत्यादिना । आज्यस्रुवाद्यर्थवादस्तु प्रागुक्तः (श. प. ६ । ३ । ३ । १८-२१) इत्याह- तस्योक्तो बन्धुरिति ॥ ३२ ॥
Eggeling
- He then offers upon it;–now seed was poured into it before, (in the shape of) sand 16; that he now
fashions 17, whence the seed injected into the womb is fashioned. He offers with the dipping-spoon, with ‘Hail!’ with two Gāyatrī verses relating to Agni: the significance of this has been explained.
३३
विश्वास-प्रस्तुतिः
(र᳘) अ᳘ग्ने युक्ष्वा हि ये त᳘व॥
युक्ष्वा हि᳘ देवहू᳘तमानि᳘ति युक्त᳘वतीभ्यामिद᳘मे᳘वैतद्यो᳘नौ रे᳘तो युनक्ति त᳘स्माद्यो᳘नौ रे᳘तो युक्तं न नि᳘ष्पद्यते॥
मूलम् - श्रीधरादि
(र᳘) अ᳘ग्ने युक्ष्वा हि ये त᳘व॥
युक्ष्वा हि᳘ देवहू᳘तमानि᳘ति युक्त᳘वतीभ्यामिद᳘मे᳘वैतद्यो᳘नौ रे᳘तो युनक्ति त᳘स्माद्यो᳘नौ रे᳘तो युक्तं न नि᳘ष्पद्यते॥
मूलम् - Weber
अ᳘ग्ने युक्ष्वा हि ये त᳘व॥
युक्ष्वा हि᳘ देवहू᳘तमानि᳘ति युक्त᳘वतीभ्यामिद᳘मेॗवैतद्यो᳘नौ रे᳘तो युनक्ति त᳘स्माद्यो᳘नौ रे᳘तो युक्तं न नि᳘ष्पद्यते॥
मूलम् - विस्वरम्
“अग्ने युक्ष्वा हि ये तव, युक्ष्वा हि देवहूतमान्”- (वा. सं. १३ । ३६-३७) इति युक्तवतीभ्याम् । इदमेवैतद्योनौ रेतो युनक्ति । तस्माद्योनौ रेतो युक्तं न निष्पद्यते ॥ ३३ ॥
सायणः
द्वाभ्यामित्यादिना उक्ते ऋचौ प्रदर्शयन् तयोर्युजिधातुसम्बन्धं प्रशंसति- अग्ने युक्ष्वा हीति । ‘युक्तवतीभ्याम्’ युजिधातुमतीभ्यामित्यर्थः । ‘एतद्’ एतेनोपधानमन्त्रयोर्युजिधातुसम्बन्धेन ‘योनौ’ सिक्तं ‘रेतो’ ‘युनक्ति’ नियच्छति, ‘तस्माद्’ इदानीं ‘योनौ सिक्तं रेतः’ अपत्योत्पादनार्हं ‘युक्तं’ सत् ‘न निष्पद्यते’ न निष्पतति, तत्रैवावतिष्ठत इत्यर्थः । मन्त्रयोरर्थस्तु- हे अग्ने देव ! देवनादिगुणविशिष्ट ! ‘तव ये अश्वासः’ अश्वाः ‘साधवः’ जातिगुणसमन्विताः सन्ति । ‘अश्वासः’ इति “आज्जसेरसुक्” (पा. सू. ७ । १ । ५०) तान् ‘युक्ष्वा हि’ युङ्क्ष्व “बहुलं छन्दसि” (पा. सू. २ । ४ । ७६) इति विकरणस्य लुक् । “द्व्यचो ऽतस्तिङः” (पा. सू. ६ । ३ । १३५) इति दीर्घः । एवं च सति ते अश्वाः ‘मन्यवे’ यज्ञार्थम् ‘अरम्’ अलं त्वां ‘वहन्ति’ वक्ष्यन्ति वर्तमानसामीप्ये भविष्यदर्थे लट् (पा. सू. ३ । ३ । १३१) हे अग्ने ! देवहूतमान् देवानाह्वयन्तीति देवह्वः, क्विबन्तस्य संप्रसारणे कृते रूपम् । अतिशयेन देवह्वो देवहूतमास्तान् अश्वान् ‘नियुक्ष्व‘ क इव ‘रथीरिव’ रथिक इव, इकारो मत्वर्थीयः । हि यस्माद् एवम्, अत ‘सदः’ सदसि विभक्तिव्यत्ययः (पा. सू. ३ । १ । ८५) इति । ‘पूर्व्यः’ अग्र्यः ‘होता’ सन्निषीदेति शेषः ॥ ३३ ॥
Eggeling
- [Vāj. S. XIII, 36-37; R̥k S. VI, 16, 43 VIII, 75,1] ‘O Agni, harness those good steeds of thine: they draw equal to thy mettle!–Like a chariot-fighter, harness thou the steeds, the best callers of the gods, O Agni! take thy seat as the old Hotr̥!’ with two (verses) containing the (verb) ‘yuj’ (to harness, fasten),–he thus settles that seed injected into the womb, whence the seed settled in the womb does not escape.
३४
विश्वास-प्रस्तुतिः
स य᳘दि संव्वत्सर᳘भृतः स्यात्[[!!]]॥
(द᳘) अ᳘थाभि᳘जुहुयात्स᳘र्व्वं वै तद्य᳘त्संव्वत्सरभृतः स᳘र्व्वं तद्य᳘दभिजुहोत्य᳘थ यद्य᳘संव्वत्सर᳘भृतः स्यादु᳘पैव᳘ तिष्ठेता᳘सर्व्वं वै तद्यद᳘संव्वत्सरभृतो᳘ ऽसर्व्वं तद्य᳘दुपति᳘ष्ठते ऽभि᳘ त्वेव᳘ जुहुयात्॥
मूलम् - श्रीधरादि
स य᳘दि संव्वत्सर᳘भृतः स्यात्[[!!]]॥
(द᳘) अ᳘थाभि᳘जुहुयात्स᳘र्व्वं वै तद्य᳘त्संव्वत्सरभृतः स᳘र्व्वं तद्य᳘दभिजुहोत्य᳘थ यद्य᳘संव्वत्सर᳘भृतः स्यादु᳘पैव᳘ तिष्ठेता᳘सर्व्वं वै तद्यद᳘संव्वत्सरभृतो᳘ ऽसर्व्वं तद्य᳘दुपति᳘ष्ठते ऽभि᳘ त्वेव᳘ जुहुयात्॥
मूलम् - Weber
स य᳘दि संवत्सर᳘भृतः स्या᳘त्॥
अ᳘थाभि᳘जुहुयात्स᳘र्वं वै त् अद्य᳘त्संवत्सरभृतः स᳘र्वं तद्य᳘दभिजुहीत्य᳘थ यद्य᳘संवत्सरभृतः स्यादु᳘पैव᳘ तिष्ठेता᳘सर्वं वै तद्यद᳘संवत्सरभृतो᳘ ऽसर्वं तद्य᳘दुपति᳘ष्ठते ऽभिॗ त्वेव᳘ जुहुयात्॥
मूलम् - विस्वरम्
स यदि संवत्सरभृतः स्यात्- अथाभिजुहुयात् । सर्वं वै तद्- यत्संवत्सरभृतः । सर्वं तद्- यदभिजुहोति । अथ यद्यसंवत्सरभृतः स्याद्- उपैव तिष्ठेत । असर्वं वै तद्- यदसंवत्सरभृतः । असर्वं तद्- यदुपतिष्ठते । अभि त्वेव जुहुयात् ॥ ३४ ॥
सायणः
उखायामग्नेः संवत्सरभरणमसंवत्सरभरणं वेति पक्षद्वयमस्ति तत्र प्रथमे ऽभिहोम इत्याह- स यदीति । ‘सः’ अग्निः ‘यदि’ उखायां ‘संवत्सरभृतः स्यात्’ ‘अथ’ एतस्याम् ‘अभिजुहुयात्’ संवत्सरस्य सर्वावच्छेदकत्वात् ‘संवत्सरभृतः’ अपि सर्वात्मकः । अभिहोमश्च सर्वंस्तेन कृत्स्नतायाः सम्पादनात् । अतः संवत्सरभरणपक्षे ऽभिहोमो युज्यत इति । असंवत्सरभरणपक्षे किं कर्त्तव्यमिति, तत्राह- स यदीति । असंवत्सरभृतस्य पूर्वोक्तविपर्ययेणासर्वात्मकत्वादुपस्थानस्य चाहोमात्मकत्वेनानुकल्पत्वमित्यसर्वात्मकत्वात्तस्मिन् पक्षे तदेतदेव युक्तमित्याह- असर्वं वा इति । अस्मिन् पक्षे ऽभिहोमं विकल्पेनाह- अभि त्वेव जुहुयादिति । ‘एव’ कारो ऽत्र विकल्पद्योतकः । “उपस्थानं वा ऽसंवत्सरभृतिनः”- इति हि कात्यायनसूत्रम् (का. श्रौ. सू. १७ । १०५) संवत्सरभृतिनो होमो न तूपस्थानम् । इतरस्य तु विकल्पः, उपस्थानं होमो वेति सिद्धो ऽर्थः ॥ ३४ ॥
Eggeling
- If (the fire in the pan) has been carried about for a year 18, in that case he should now offer; for (the fire) which has been carried about for a year is everything, and that also whereon he offers is everything. But if it has not been carried about for a year, let him only stand by (worshipping) it; for (the fire) which has not been carried about for a year is not everything; and that by which he stands (worshipping) is not everything. Let him nevertheless offer thereon.
३५
विश्वास-प्रस्तुतिः
(त्प) पशु᳘रेष य᳘दग्निः[[!!]]॥
सो᳘ ऽत्रैव स᳘र्व्वः कृत्स्नः सं᳘स्कृतस्तस्या᳘वाङ् प्राणः᳘ स्वयमातृण्णा श्रो᳘णी द्वि᳘यजुः पृष्ट᳘यो रेतःसि᳘चौ की᳘कसा व्विश्व᳘ज्योतिः क᳘कुदमृत᳘व्ये ग्रीवा ऽअ᳘षाढा शि᳘रः कूर्मो ये᳘ कूर्मे᳘ प्राणा ये᳘ शीर्ष᳘न्प्राणास्ते ते॥
मूलम् - श्रीधरादि
(त्प) पशु᳘रेष य᳘दग्निः[[!!]]॥
सो᳘ ऽत्रैव स᳘र्व्वः कृत्स्नः सं᳘स्कृतस्तस्या᳘वाङ् प्राणः᳘ स्वयमातृण्णा श्रो᳘णी द्वि᳘यजुः पृष्ट᳘यो रेतःसि᳘चौ की᳘कसा व्विश्व᳘ज्योतिः क᳘कुदमृत᳘व्ये ग्रीवा ऽअ᳘षाढा शि᳘रः कूर्मो ये᳘ कूर्मे᳘ प्राणा ये᳘ शीर्ष᳘न्प्राणास्ते ते॥
मूलम् - Weber
पशु᳘रेष य᳘दग्निः᳟॥
सो᳘ ऽत्रैव स᳘र्वः कृत्स्नः स᳘ᳫं᳘स्कृतस्तस्या᳘वाङ् प्राणः᳘ स्वयमातृणा श्रो᳘णी द्वि᳘यजुः पृष्ट᳘यो रेतःसि᳘चौ की᳘कसा विश्व᳘ज्योतिः क᳘कुदमृतॗव्ये ग्रीवा अ᳘षाढा शि᳘रः कूर्मो ये᳘ कूर्मे᳘ प्राणा ये᳘ शीर्ष᳘न्प्राणास्ते ते॥
मूलम् - विस्वरम्
पशुरेष यदग्निः । सो ऽत्रैव सर्वः कृत्स्नः संस्कृतः । तस्यावाङ् प्राणः स्वयमातृण्णा । श्रोणी द्वियजुः । पृष्टयो रेतःसिचौ । कीकसा विश्वज्योतिः । ककुदमृतव्ये । ग्रीवा अषाढा । शिरः कूर्मः । ये कूर्मे प्राणाः- ये शीर्षन्प्राणास्ते ते ॥ ३५ ॥
सायणः
अथ चित्याग्नेः स्वयमातृण्णादिषु त्रयोदशस्विष्टकासु कृत्स्नपश्वाकारत्वं सम्पादयितुम् “एतान् पञ्च पशून् प्राविशत्, स एते पञ्च पशवो ऽभवत्”- (श. प. । ६ । २ । १ । ३) इत्युक्तमग्नेः पश्वात्मकत्वम् । स पश्वाकारो ऽग्निरत्रैवोखान्ते स्वयमातृण्णादाविष्टकाकलापे सर्वः कृत्स्नः संस्कृतः कथमित्यपेक्षायां तमिष्टकाकलापभङ्गत्वेन सम्पादयति- तस्यावाङ्प्राण इत्यादिना । ‘स्वयमातृण्णा’ इष्टका ‘तस्य’ पश्वाकारस्याग्नेः ‘अवाङ्प्राणः’ अपानाख्यः, पश्चाद्भागस्थितिसामान्यात् । ‘द्वियजुः’ इष्टका ‘श्रोणी’ कटी, तदानन्तर्यात् । ‘रेतःसिचौ’ इष्टके पृष्टयः महान्ति पार्श्वास्थीनि । ‘विश्वज्योतिः’ इष्टका ‘कीकसाः’ ह्रस्वपार्श्वास्थीनि । ‘ऋतव्ये’ ‘ककुदम्’ गलप्रदेशतः पश्चात्पृष्ठदेशे ऽवस्थित उन्नतावयवः । ‘अषाढा’ ‘ग्रीवाः’ कन्धराः । ‘कूर्मः’ ‘शिरः’ । ‘कूर्मे ये’ प्राणास्ते, ‘शीर्षन्’ शीर्ष्णि ‘ये’ ‘प्राणास्ते’ चक्षुरादय इत्यर्थः ॥ ३५ ॥
Eggeling
- Now that Agni is an animal, and even now he is (being) made up whole and complete: the naturally-perforated (brick) is his lower vital air, the
dviyajus the hip, the two retaḥsic the ribs, the viśvajyotis the breast-bone, the two seasonal ones the back, the ashāḍḥā the neck, the tortoise the head, and the vital airs in the tortoise are those vital airs in the head.
३६
विश्वास-प्रस्तुतिः
तं वा᳘ ऽएत᳘म्॥
(मि) इत᳘ ऽऊर्ध्वं प्रा᳘ञ्चं चिनोत्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘रमुं त᳘दादित्य᳘मित᳘ ऽऊर्ध्वं प्रा᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्य᳘ ऽइत᳘ ऽऊर्ध्वः प्रा᳘ङ्धीयते॥
मूलम् - श्रीधरादि
तं वा᳘ ऽएत᳘म्॥
(मि) इत᳘ ऽऊर्ध्वं प्रा᳘ञ्चं चिनोत्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘रमुं त᳘दादित्य᳘मित᳘ ऽऊर्ध्वं प्रा᳘ञ्चं दधाति त᳘स्मादसा᳘वादित्य᳘ ऽइत᳘ ऽऊर्ध्वः प्रा᳘ङ्धीयते॥
मूलम् - Weber
तं वा एत᳘म्॥
इत᳘ ऊर्ध्वम् प्रा᳘ञ्चं चिनोत्यसौ वा᳘ आदित्य᳘ एॗषो ऽग्नि᳘रमु त᳘दादित्य᳘मित ऊर्ध्वम् प्रा᳘ञ्चं दधाति त᳘स्मादसावादित्य᳘ इत᳘ ऊर्ध्वः प्रा᳘ङ् धीयते॥
मूलम् - विस्वरम्
तं वा ऽएतमित ऊर्ध्वं प्राञ्चं चिनोति । असौ वा ऽआदित्य एषो ऽग्निः । अमुं तदादित्यमित ऊर्ध्वं प्राञ्चं दधाति । तस्मादसावादित्य इत ऊर्ध्वः प्राङ् धीयते ॥ ३६ ॥
सायणः
एवमग्नेः कृत्स्नरूपत्वं प्रतिपाद्यादित्यरूपत्वमूर्ध्वचयनेन प्रतिपादयति- तं वा एतमिति । ‘तम्’ ‘एतम्’ चित्यमग्निम् ‘इतः’ अवाचः प्राणादारभ्य आशिरस ‘ऊर्ध्वम्’ प्रागपवर्गं ‘चिनोति’ । किमतः इत्येकेनांशेनादित्यतामाह- असौ वा आदित्य एषो ऽग्निरिति । अमुं तदिति । ‘इतो’- लोकाद् भूराख्याद् ‘अमुम्’ ‘आदित्यम्’ ‘ऊर्द्ध्वम्’ ‘प्राञ्चम्’ प्रागञ्चनं ‘दधाति’ स्थापयति । ‘तस्माद्’ एव यज्ञानुकरणात् ‘असावादित्यः’ ‘इतः पृथिवीलोकाद् ‘ऊर्द्ध्वः’ ‘प्राङ् धीयते’ धार्यते लोकैरिति शेषः ॥ ३६ ॥
Eggeling
- Now that (Agni) he builds upwards from here (as flying) towards the east, and that Agni being yonder sun, he thereby places yonder sun upwards from here in the east; whence yonder sun is placed upwards from here in the east.
३७
विश्वास-प्रस्तुतिः
(ते᳘ ऽथै) अ᳘थैनं प्रसलव्या᳘वर्तयति॥
(त्य) अमुं त᳘दादित्यं᳘ प्रसलव्या᳘वर्त्तयति त᳘स्मादसा᳘वादित्य᳘ ऽइमां᳘ल्लोका᳘न्प्रसल᳘व्यनुपर्यै᳘ति[[!!]]॥
मूलम् - श्रीधरादि
(ते᳘ ऽथै) अ᳘थैनं प्रसलव्या᳘वर्तयति॥
(त्य) अमुं त᳘दादित्यं᳘ प्रसलव्या᳘वर्त्तयति त᳘स्मादसा᳘वादित्य᳘ ऽइमां᳘ल्लोका᳘न्प्रसल᳘व्यनुपर्यै᳘ति[[!!]]॥
मूलम् - Weber
अ᳘थैनम् प्रसलव्या᳘वर्तयति॥
अमुं त᳘दादित्य᳘ प्रसलव्या᳘वर्तयति त᳘स्मादसा᳘वादित्य᳘ इमां᳘लोका᳘न्प्रसलव्य᳘नुपर्यै᳘ति॥
मूलम् - विस्वरम्
अथैनं प्रसलव्यावर्तयति । अमुं तदादित्यं प्रसलव्यावर्तयति । तस्मादसावादित्य इमांल्लोकान्प्रसलव्यनुपर्यैति ॥ ३७ ॥
सायणः
अथ प्रदक्षिणावर्त्तनं विधत्ते- अथैनमिति । ‘अथ’ अनन्तरम् ‘एनम्’ आदित्यभूतं स्वयमातृण्णाद्यात्मकमग्निं ‘प्रसलवि’ प्रदक्षिणम् ‘आवर्त्तयति’ आवर्त्तते । अषाढां पूर्वार्द्ध उपधाय तस्या दक्षिणतः कूर्ममुपदधाति, ततः स्वयमातृण्णाया उत्तरत उलूखलमुसले, तत्रैवोखामुपदधातीत्येवमावर्त्तयति । ‘तत्’ तेन प्रदक्षिणावर्तनेन ‘अमुमादित्यम्’ प्रदक्षिणमावर्त्तयति, ‘तस्माद्’ यज्ञानुकरणाद् ‘असावादित्य इमान् लोकान्’ तथैव संचरति ॥ ३७ ॥
Eggeling
- He then turns him towards the right 19,–he thereby turns yonder sun towards the right, whence yonder sun moves round these worlds (from left) to right.
३८
विश्वास-प्रस्तुतिः
(त्यु) उद᳘रमुखा[[!!]]॥
यो᳘निरुलू᳘खलमु᳘त्तरोखा भ᳘वत्य᳘धरमुलू᳘खलमु᳘त्तर᳘ᳫँ᳘[[!!]] ह्युद᳘रम᳘धरा यो᳘निः शिश्नं मु᳘सलं त᳘द्वृत्त᳘मिव भवति व्वृत्त᳘मिव हि᳘ शिश्नं त᳘द्दक्षिणत ऽउ᳘पदधाति दक्षिणतो वै व्वृ᳘षा यो᳘षामु᳘पशेते य᳘दु पशोः सं᳘स्कृतस्या᳘न्नं त᳘द्दूर्व्वेष्टका त᳘स्य वा᳘ ऽएतस्यो᳘त्तरो᳘ ऽर्ध ऽउदा᳘हिततरो भवति पशुरेष[[!!]] य᳘दग्निस्त᳘स्मात्पशोः सु᳘हितस्यो᳘त्तरः कुक्षिरु᳘न्नततरो भवति॥
मूलम् - श्रीधरादि
(त्यु) उद᳘रमुखा[[!!]]॥
यो᳘निरुलू᳘खलमु᳘त्तरोखा भ᳘वत्य᳘धरमुलू᳘खलमु᳘त्तर᳘ᳫँ᳘[[!!]] ह्युद᳘रम᳘धरा यो᳘निः शिश्नं मु᳘सलं त᳘द्वृत्त᳘मिव भवति व्वृत्त᳘मिव हि᳘ शिश्नं त᳘द्दक्षिणत ऽउ᳘पदधाति दक्षिणतो वै व्वृ᳘षा यो᳘षामु᳘पशेते य᳘दु पशोः सं᳘स्कृतस्या᳘न्नं त᳘द्दूर्व्वेष्टका त᳘स्य वा᳘ ऽएतस्यो᳘त्तरो᳘ ऽर्ध ऽउदा᳘हिततरो भवति पशुरेष[[!!]] य᳘दग्निस्त᳘स्मात्पशोः सु᳘हितस्यो᳘त्तरः कुक्षिरु᳘न्नततरो भवति॥
मूलम् - Weber
उद᳘रमुखा᳟॥
यो᳘निरुलू᳘खलमु᳘त्तरोखा भ᳘वत्यधरमुलू᳘खलमु᳘त्तॗरᳫं ह्युद᳘रम᳘धरा यो᳘निः शिश्नम् मु᳘सलं त᳘द्वृत्त᳘मिव भवति वृत्त᳘मिव हि᳘ शिश्नं त᳘द्दक्षिणत उ᳘पदधाति दक्षिणतो वै वृ᳘षा यो᳘षामु᳘पशेते य᳘दु पशोः स᳘ᳫं᳘स्कृतस्या᳘न्नं त᳘द्दूर्वेष्टका त᳘स्य वा᳘ एतस्यो᳘त्तरो᳘ ऽर्ध उदा᳘हिततरो भवति पशु᳘रेष य᳘दग्निस्त᳘स्मात्पशोः सु᳘हितस्यो᳘त्तरः कुक्षिरु᳘न्नततरो भवति॥
मूलम् - विस्वरम्
उदरमुखा । योनिरुलूखलम् । उत्तरोखा भवति- अधरमुलूखलम् । उत्तरं ह्युदरम्- अधरा योनिः । शिश्नं मुसलम् । तद्वृत्तमिव भवति; वृत्तमिव हि शिश्नम् । तद् दक्षिणत उपदधाति । दक्षिणतो वै वृषा योषामुपशेते । यदु पशोः संस्कृतस्यान्नम्- तद्दूर्वेष्टका । तस्य वा ऽएतस्योत्तरो ऽर्ध उदाहिततरो भवति । पशुरेषः- यदग्निः । तस्मात्पशोः सुहितस्योत्तरः कुक्षिरुन्नततरो भवति ॥ ३८ ॥
सायणः
प्रकारान्तरेण उलूखलमुसलयोरौत्तराधर्यं प्रशंसति- उदरमुखेति । उखायाः सकाशादग्नेरुत्पत्तेः ‘उखा’ ‘उदरम्’ ‘उलूखलं’ तु हविर्निष्पादनाद् ‘योनिः’ । तथा च लोके उदरयोन्योरौत्तराधर्यादनयोरपि तदात्मकयोरौत्तराधर्यमुपपन्नमित्यर्थः । मुसलस्योलूखलदक्षिणभाग उपधानं सोपपत्तिकमाह- शिश्नमिति । शिश्नस्य वृत्ताकारतया तदाकारत्वेन ‘मुसलम्’ अपि ‘शिश्नम्’ । तथाविधं ‘तद्’ उलूखलस्य दक्षिणभाग उपदध्यात् । लोके दक्षिणभागे ‘वृषा’ वर्षणसमर्थः पुरुषो ‘योषामुपशेते’ । अतश्चास्यापि वर्षणसमर्थत्वेन वृषत्वादुलूखलस्य योनित्वेन स्त्रीत्वाद्दक्षिणभागे ऽस्योपधानमुपपन्नम् । उक्तमेवाग्नेः पशुरूपत्वं प्रकारान्तरेण द्रढयति- यदु पशोरिति । ‘अग्निः’ इति यदेष पशुः खलु, तथैव प्रागुक्तत्वात् । अतश्च ‘पशोः’ अग्निरूपस्य ‘संस्कृतस्य’ पश्ववयवसम्पादनाय निष्पादितस्य ‘यद्’ ‘अन्नम्’ ‘तद्दूर्वेष्टका’ । तस्मात् ‘तस्य’ दूर्वेष्टकारूपेणान्नेन ‘सुहितस्य’ ‘एतस्य’ अग्निरूपस्य ‘पशोः’ उत्तरभागः ‘उदाहिततरः’ उन्नततरो ‘भवति’ । उत्तरभाग एवोलूखलमुसलाद्युपधानात् । उक्तमर्थं प्रमाणयति- तस्मादिति । यतो ऽग्निरूपस्य ‘पशोः’ दूर्वेष्टकान्नत्वेन सुहिततरस्योत्तरभाग उन्नततरो ऽभूत्, ‘तस्माद्’ इदानीमपि लोके तृणाभ्यवहारेण तृप्तस्य ‘पशोरुत्तरः कुक्षिरुन्नततरो भवति’ ॥ ३८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे पञ्चमे ऽध्याये प्रथमं ब्राह्मणम् ॥ (७-५-१) ॥
Eggeling
- The fire-pan is the belly, the mortar the womb;–the fire-pan is above, and the mortar below; for the belly is above, and the womb below. The pestle is the śiśna; it is round-like, for the śiśna is round-like. He places it to the right (south of the mortar), for the male lies on the right side of the female. And what food there is for the consecrated animal, that is the dūrvā-brick. The left (north) side of that (Agni or altar) is more raised,–that Agni is an animal, and hence the left side of the belly of a well-filled beast is more raised (than the right side).
-
389:1 See VI, 1, 1, 12. ↩︎
-
कूर्मं दधिमधुघृतैरनक्ति मधु व्वाता इति । का. श्रौ. सू. १७ । ९९ । ↩︎
-
390:1 That is to say, each Vedic text is identical with the deity to which it is addressed. Cf. VI, 5, 1, 2. ↩︎
-
अरत्निमात्रे ऽषाढां दक्षिणेनावकासूपरिष्टाच्च पुरुषमभिमुखम् । का. श्रौ. सू. १७ । १०० । ↩︎
-
391:1 While the bricks generally measure a pāda or foot square, the cubit measures about two feet. ↩︎
-
392:1 He sets the tortoise down with three verses; and in muttering the second verse he makes it move while he still holds it in his hand. ↩︎
-
392:2 Blyxa octandra, a grassy plant growing in marshy land (’lotus-flower,’ Weber, Ind. Stud. XIII, p. 250). ↩︎
-
393:1 The mortar and pestle are to be placed as far north of the central (naturally-perforated) brick, as the two retaḥsic lie in front (towards the east) of it. This distance is ascertained by means of a cord stretched across the bricks hitherto laid down (from the Svayamātr̥ṇṇā to the Ashāḍḥā), and knots made in the cord over the centre of the respective bricks. ↩︎
-
394:1 I do not see what else could here be referred to than the heaven and the earth (cf. VII, 4, 2, 22), though in that case one might rather expect ‘imau (lokau)’ instead of ‘ime.’ Possibly, however, the earth and atmosphere may be intended. ↩︎
-
396:1 The mortar, according to the commentaries to Katy., is partly dug into the ground, with the open part upwards; the pestle being then placed to the right (south) of it. ↩︎
-
397:1 Viz., according to Sāyaṇa, because they spring from the germ in the centre of the fruit. ↩︎
-
397:2 ? Or, of it (the fire-pan). There is some uncertainty regarding this item of the ceremonial. Kātyāyana’s rule (XVII, 5, 4)–‘Having placed the Ukhā (pan) on the mortar, pounded the remainder of clay, and thrown it down in front, with the text “Dhruvā asi,” (of) the Ukhā’–is evidently intentionally vague. Mahīdhara (on Vāj. S. XIII, 34) gives the following interpretation of it,–‘Having first silently placed the Ukhā on the mortar, then pounded the remaining clay, and thrown it down on the ground in front of the Ukhā, let him place the Ukhā thereon with two formulas.’ According to this, the Ukhā would only temporarily be placed on the mortar, its proper and permanent place (loka) being on the powdered clay in front (to the east) of the mortar. The text of the Brāhmaṇa, as it stands, however, cannot possibly be construed so as to accord with Mahīdhara’s interpretation. This would require some such reading as,–athopaśayām pishṭvā, purastād ukhāyā upanivapya lokabhājam ukhām karoti. See, however, paragraph 38 below, which evidently applies to the permanent position of the pan. ↩︎
-
397:3 For the genitive ‘asya’ (viz. lokasya) with ‘antarita’–instead of the more usual ablative–see VI, 2, 2, 38, ‘prāṇasya tad antariyāt.’ ↩︎
-
398:1 VII. 4, 2, 5. ↩︎
-
अग्ने युक्ष्वा हीति प्रत्यृचँ स्रुवाहुती जुहोति । का. श्रौ. सू. १७ । १०४ । ↩︎
-
398:2 See VII, 1, 1, 41. ↩︎
-
399:1 The verb ‘abhi-kr̥’ is here taken in the sense of ‘vi-kr̥’ (he gives form to it); and in that sense I would now take it at II, 3; I, 4, ‘he fashions (gives human shape to) that embryo,’ instead of ‘he benefits that embryo.’ The St. Petersburg dictionary proposes the meaning, ’to do something with reference to (or, for the benefit of).’ The proper German meaning would rather seem to be ‘bearbeiten.’ The preposition ‘abhi’ is probably used here with reference to the ‘abhi-juhoti.’ ↩︎
-
399:2 See p. 269, note 3. ↩︎
-
400:1 ? Viz. by filling up the vacant spaces of the altar from left to right. ↩︎