०१

विश्वास-प्रस्तुतिः

स्वयमातृण्णामु᳘पदधाति॥
(ती) इयं वै᳘ स्वयमातृ᳘ण्णेमा᳘मे᳘वैतदु᳘पदधाति ताम᳘नन्तर्हितां पु᳘रुषादु᳘पदधात्य᳘न्नं वै᳘ स्वयमातृ᳘ण्णेयं वै᳘ स्वयमातृ᳘ण्णेय᳘मु वा ऽअ᳘न्नमस्याᳫँ᳭ हि स᳘र्व्वम᳘न्नं पच्यते᳘ ऽनन्तर्हितमे᳘वास्मादेतद᳘न्नं दधात्यु᳘त्तरामुत्तरमे᳘वास्मादेतद᳘न्नं[[!!]] दधाति॥

मूलम् - श्रीधरादि

स्वयमातृण्णामु᳘पदधाति॥
(ती) इयं वै᳘ स्वयमातृ᳘ण्णेमा᳘मे᳘वैतदु᳘पदधाति ताम᳘नन्तर्हितां पु᳘रुषादु᳘पदधात्य᳘न्नं वै᳘ स्वयमातृ᳘ण्णेयं वै᳘ स्वयमातृ᳘ण्णेय᳘मु वा ऽअ᳘न्नमस्याᳫँ᳭ हि स᳘र्व्वम᳘न्नं पच्यते᳘ ऽनन्तर्हितमे᳘वास्मादेतद᳘न्नं दधात्यु᳘त्तरामुत्तरमे᳘वास्मादेतद᳘न्नं[[!!]] दधाति॥

मूलम् - Weber

स्वयमातृणामु᳘पदधाति॥
इयं वै᳘ स्वयमातृॗणेमा᳘मेॗवैतदु᳘पदधाति ताम᳘नन्तर्हिताम् पु᳘रुषादु᳘पदधात्य᳘न्नं वै स्वयमातृॗणेयं वै स्वयमातृॗणेय᳘मु वा अ᳘न्नमस्याᳫं हि स᳘र्वम᳘न्नम् पच्यते᳘ ऽनन्तर्हितमेॗवास्मादेतद᳘न्न दधात्यु᳘त्तरामु᳘त्तरमेवास्मादेतद᳘न्नं दधाति॥

मूलम् - विस्वरम्

अथ स्वयमातृण्णेष्टकोपधानम् ।

स्वयमातृण्णामुपदधाति । इयं वै स्वयमातृण्णा । इमामेवैतदुपदधाति । तामनन्तर्हितां पुरुषादुपदधाति । अन्नं वै स्वयमातृण्णा । इयं वै स्वयमातृण्णा । इयमु वा ऽअन्नम् । अस्यां हि सर्वपन्नं पच्यते । अनन्तर्हितमेवास्मादेतदन्नं दधाति । उत्तराम् । उत्तरमेवास्मादेतदन्नं दधाति ॥ १ ॥

सायणः

गते ब्राह्मणे रुक्माद्युपधानं विहितम्, अथास्मिन् ब्राह्मणे स्वयमातृण्णादूर्वेष्टकाद्युपधानं विधास्यते । कात्यायनः- “स्वयमातृण्णां पुरुषे शर्करां छिद्राम्”- (का. श्रौ. सू. १७ । ८७) इति । पुरुषप्रयत्नमन्तरेण या स्वत एव च्छिद्रयुक्ता शर्करा क्षुद्रपाषाणविशेषः सा स्वयमातृण्णा, तां हिरण्मयपुरुषे उपदध्यात् । तदेतद्विधत्ते- स्वयमातृण्णामुपदधातीति । स्वयमातृण्णाख्यामिष्टकामुपदध्यादिति विधिरुन्नेयः, यथा “औदुम्बरो यूपो भवति” इति । तत्र हि भवतीत्यस्य वर्त्तमानापदेशत्वात्प्रत्यक्षविधित्वासम्भवे ऽपि “ऊर्ग्वा उदुम्बरः” इत्याद्यर्थवादकृतस्तुत्या विधिरुन्नीयत इति निर्णीतम् । ननु “ऊर्ग्वा उदुम्बरः”- इत्यादेर्यूपोदुम्बरस्य फलाभिधायकत्वात्कथमर्थवादत्वमिति चेन्न- अविहितस्य फलामिधानायोगाद्विहितस्येति वक्तव्यम् । विधिश्च तस्यार्थवादत्वमन्तरेण न सम्भवतीति । अतो ऽत्रापि ‘इयं वा’ इत्याद्यर्थवादस्य वर्त्तमानापदेशत्वादुन्नेतव्यो विधिः । एवमन्यत्रापि वर्त्तमानापदेशेषु विधिष्वयमेव न्यायो द्रष्टव्यः । तस्याः स्वयमातृण्णायाः पृथिवीविकारत्वात्तदुपधानेन पृथिव्युपधानमेव सम्पादिनं भवतीत्याह- इयं वा इति । यदुक्तं सूत्रे पुरुष इति तद्विधत्ते- तामनन्तर्हितामिति । ‘ताम्’ इष्टकां ‘पुरुषादनन्तर्हिताम्’ अव्यवहितां तत्सम्बद्धामुपदध्यादित्यर्थः । पुरुषसम्बद्धत्त्वेनोपधानं प्रशंसति- अन्नं वा इति । पृथिव्यां व्रीह्यादीनां सर्वेषामन्नानां पच्यमानत्वादन्नरूपा पृथिवी, ‘स्वयमातृण्णा’ च पृथिवीत्युक्तम् । अतश्च पुरुषसम्बद्धेनोपधानेन तस्मिन् ‘अन्नम्’ एव निहितवान् भवति । अनन्तर्हितामित्युक्तत्वात् क्वचित् तत्पार्श्वे संश्लेषेणाप्यव्यवधानमुपपद्यत इत्यत आह- उत्तरामिति । ‘उत्तराम्’ पुरुषस्योपर्यवस्थितां, विधेयविशेषणमेतत्; अत एव सूत्रे ‘पुरुषे’ इति सप्तम्योपधानाधिकरणत्वमुक्तम् । उत्तरमेवास्मादिति । ‘अस्मात्’ पुरुषाद् ‘उत्तरम्’ उपर्यवस्थितम् अन्नं करोति । पुरुषस्य मुखे दधातीति भावः ॥ १ ॥

Eggeling
  1. He puts a Svayam-ātr̥ṇṇā (naturally-perforated brick) on (the gold man);–the (first) naturally-perforated one being this earth, he thus puts this earth thereon. He puts it on so as not to be separate from the man; for the naturally-perforated one means food, and the naturally-perforated one means this earth, and this earth is food, since it is on her that all food ripens: he thus places food close to him (the man, Agni). Upon (the man he puts it): he thus places the food upon him 1.

०२

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ स्वयमातृण्णा᳘मुपद᳘धाति॥
प्राणो वै᳘ स्वयमातृण्णा᳘ प्राणो᳘ ह्ये᳘वैत᳘त्स्वय᳘मात्म᳘न ऽआतृन्ते᳘ प्राण᳘मेवैतदु᳘पदधाति ताम᳘नन्तर्हितां पु᳘रुषादु᳘पदधाति प्राणो वै᳘ स्वयमातृ᳘ण्णेयं वै स्वयमातृ᳘ण्णेय᳘मु वै᳘ प्राणो यद्धि किं᳘ च प्रा᳘णीयं तत्स᳘र्वं बिभर्त्त्य᳘नन्तर्हितमे᳘वास्मादेत᳘त्प्राणं᳘ दधात्युत्तरामु᳘त्तरमे᳘वास्मादेत᳘त्प्राणं᳘ दधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ स्वयमातृण्णा᳘मुपद᳘धाति॥
प्राणो वै᳘ स्वयमातृण्णा᳘ प्राणो᳘ ह्ये᳘वैत᳘त्स्वय᳘मात्म᳘न ऽआतृन्ते᳘ प्राण᳘मेवैतदु᳘पदधाति ताम᳘नन्तर्हितां पु᳘रुषादु᳘पदधाति प्राणो वै᳘ स्वयमातृ᳘ण्णेयं वै स्वयमातृ᳘ण्णेय᳘मु वै᳘ प्राणो यद्धि किं᳘ च प्रा᳘णीयं तत्स᳘र्वं बिभर्त्त्य᳘नन्तर्हितमे᳘वास्मादेत᳘त्प्राणं᳘ दधात्युत्तरामु᳘त्तरमे᳘वास्मादेत᳘त्प्राणं᳘ दधाति॥

मूलम् - Weber

य᳘द्वेव᳘ स्वयमातृणा᳘मुपद᳘धाति॥
प्राणो वै᳘ स्वयमातृणा᳘ प्राणोॗ ह्येॗवैत᳘त्स्वय᳘मात्मन आतृन्त्ते᳘ प्राण᳘मेवैतदु᳘पदधाति ताम᳘नन्तर्हिताम् पु᳘रुषादु᳘पदधाति प्राणो वै᳘ स्वयमातृॗणेयं वै स्वयमातृॗणेय᳘मु वै᳘ प्राणो यद्धि किं᳘ च प्राॗणीयं तत्स᳘र्वम् बिभर्त्य᳘नन्तर्हितमेॗवास्मादेत᳘त्प्राणं᳘ दधात्युत्तरा᳘मु᳘त्तरमेॗवास्मादेत᳘त्प्राणं᳘ दधाति॥

मूलम् - विस्वरम्

यद्वेव स्वयमातृण्णामुपदधाति । प्राणो वै स्वयमातृण्णा । प्राणो ह्येवैतत्स्वयमात्मन आतृन्ते । प्राणमेवैतदुपदधाति । तामनन्तर्हितां पुरुषादुपदधाति । प्राणो वै स्वयमातृण्णा । इयं वै स्वयमातृण्णा । इयमु वै प्राणः । यद्धि किं च प्राणीयं- तत्सर्वं बिभर्ति । अनन्तर्हितमेवास्मादेतत् प्राणं दधाति । उत्तराम् । उत्तरमेवास्मादेतत्प्राणं दधाति ॥ २ ॥

सायणः

विहितां स्वयमातृण्णामनूद्य प्राणात्मना स्तौति- यद्वेवेति । ‘स्वयमातृण्णामुपदधाति’ इति ‘यद्’ अस्ति तत्कारणमुच्यत इत्यर्थः । ‘प्राणो ह्येवैतत् स्वयमात्मन आतृन्ते’ इति स्वयमातृण्णायाः प्राणत्वोपपादनम् । ‘प्राणो’- नाम शरीरान्तर्वर्तमानो वायुः, स ‘हि’ ‘आत्मनः’ अर्थे ‘स्वयमातृन्ते’ आतर्दनं कुरुते, शरीरान्तर्गतनाडीष्ववकाशं कृत्वा प्रवर्त्तते । अथ वा ‘आत्मनः’ शरीरस्यान्तः ‘आतृन्ते’ इति योजना । ‘आतृन्ते’ इति “उतृदिर् हिंसानादरयोः” (धा. पा. रु. उ. ९) इत्यस्माद्रौधादिकाल्लटि रूपम् । अतः स्वयमातर्दनसामान्यात्स्वयमातृण्णायाः प्राणात्मत्वमित्यर्थः । विहितमव्यवधानमनुवदन् न केवलं स्वयमातर्दनसामान्यादेव प्राणत्वम्, अपि तु पूर्वोक्तपृथिवीत्वप्रणाल्या ऽपि प्राणत्वमस्या विद्यत इति दर्शयति- तामनन्तर्हितामित्यादिना । यत् किञ्चिन्मनुष्यपशुपक्षिसरीसृपादिकं प्राणिजातमस्ति, ‘तत्-सर्वम्’ पृथिवी ‘बिभर्त्ति’ खलु, अनेन पृथिव्याः प्राणात्मकत्वमुपपादितम् । स्पष्टमन्यत् ॥ २ ॥

Eggeling
  1. And, again, why he puts on a naturally-perforated one;–the naturally-perforated (brick) is the breath (or vital air), for the breath thus bores itself (svayam ātr̥ntte) through the body: it is breath he thus bestows on it. He puts it so as not to be separate from the man; for the naturally-perforated one is the breath, and the naturally-perforated one is this earth, and this earth is the breath, since this earth bears everything that breathes: he thus puts the breath so as not to be separate from him. Upon (the man he places the brick): he thus puts the breath upon him 1.

०३

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ स्वयमातृण्णा᳘मुपद᳘धाति॥
प्रजापतिं[[!!]] व्वि᳘स्रस्तं देव᳘ता ऽआदा᳘य व्व्यु᳘दक्रामंस्ता᳘सु व्युत्क्रा᳘मन्तीषु प्रतिष्ठा᳘मभिपद्यो᳘पाविशत्॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ स्वयमातृण्णा᳘मुपद᳘धाति॥
प्रजापतिं[[!!]] व्वि᳘स्रस्तं देव᳘ता ऽआदा᳘य व्व्यु᳘दक्रामंस्ता᳘सु व्युत्क्रा᳘मन्तीषु प्रतिष्ठा᳘मभिपद्यो᳘पाविशत्॥

मूलम् - Weber

य᳘द्वेव᳘ स्वयमातृणा᳘मुपद᳘धाति॥
प्रजा᳘पतिं वि᳘स्रस्तं देव᳘ता आदा᳘य व्यु᳘दक्रामंस्ता᳘सु व्युत्क्रा᳘मन्तीषु प्रतिष्ठा᳘मभिपद्यो᳘पाविशत्॥

मूलम् - विस्वरम्

यद्वेव स्वयमातृण्णामुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामन् । तासु व्युत्क्रामन्तीषु प्रतिष्ठामभिपद्योपाविशत् ॥ ३ ॥

सायणः

अथ पुनरपि तामेवेष्टकां विस्रस्तावयवस्य प्रजापतेः प्रतिष्ठारूपेण प्रशंसति- यद्वेवेति । पूर्वं प्रजापतिः प्रजाः सृष्ट्वा विस्रस्ताङ्गो ऽभूत्, तादृशं तं ‘प्रजापतिम्’ अवयवशः ‘आदाय’ देवाः ‘व्युदक्रामन्’ । ततस्तेषु व्युत्क्रामत्सु स प्रजापतिः प्रतिष्ठारूपमङ्गं स्वयम् ‘अभिपद्य’ गृहीत्वा ‘उपाविशत्,’ तदेतत् प्राक् प्रपञ्चेनोक्तम्- “प्रजापतिः प्रजा असृजत स प्रजाः सृष्ट्वा सर्वमाजिमित्वा व्यस्रँसत तस्माद्विस्रस्तात् प्राणो मध्यत उदक्रामत्”- (श. प. ६ । १ । २ । १२) इत्यादिना । प्रजापतेः प्रजासर्जनेन विश्लथावयवत्वं तैत्तिरीयके ऽप्याम्नातम्- “प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत”- इति ॥ ३ ॥

Eggeling
  1. And, again, why he puts thereon the naturally-perforated one. The deities, taking up the disjointed Prajāpati, separated; and, having obtained a resting-place in them, thus separated, he settled down.

०४

विश्वास-प्रस्तुतिः

(त्स) स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ताय᳘) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या सा᳘ प्रति᳘ष्ठैषा सा᳘ प्रथमा᳘ स्वयमातृण्णा तद्य᳘देताम᳘त्रोप᳘दधाति य᳘दे᳘वास्यै᳘षा ऽऽत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेतामत्रो᳘पदधाति[[!!]]॥

मूलम् - श्रीधरादि

(त्स) स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रᳫँ᳭सत॥
(ताय᳘) अय᳘मेव स᳘ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या सा᳘ प्रति᳘ष्ठैषा सा᳘ प्रथमा᳘ स्वयमातृण्णा तद्य᳘देताम᳘त्रोप᳘दधाति य᳘दे᳘वास्यै᳘षा ऽऽत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेतामत्रो᳘पदधाति[[!!]]॥

मूलम् - Weber

स यः स᳘ प्रजा᳘पतिर्व्य᳘स्रंसत॥
अय᳘मेव सॗ यो ऽय᳘मग्नि᳘श्चीयते᳘ ऽथ या सा᳘ प्रतिॗष्ठैषा सा᳘ प्रथमा᳘ स्वयमातृणा तद्य᳘देताम᳘त्रोप᳘दधाति य᳘देॗवास्यैॗषात्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेता᳘मत्रो᳘पदधाति॥

मूलम् - विस्वरम्

स यः स प्रजापतिर्व्यस्रंसत- अयमेव सः- यो ऽयमग्निश्चीयते । अथ या सा प्रतिष्ठा- एषा सा वमा स्वयमातृण्णा । तद्यदेता मत्रोपदधाति- यदेवास्यैषा ऽऽत्मनः- तदस्मिन्नेतत्प्रतिदधाति ! स्मादेतामत्रोपदधाति ॥ ४ ॥

सायणः

स य इति । सः’ प्रजानां स्रष्टा ‘यः’ ’ प्रजापतिः विस्रस्तो ऽभूत्, सः ‘अयमेव’ यः एष इष्टकासघातरूप ‘अग्निश्वीयते’ । अथ या’ च ‘सा’ प्रजापतिना प्राप्ता प्रतिष्ठा,’ सा एषा इदानीमुपधीयमाना ‘प्रथमा स्वयमातृष्णा’ । प्रथममध्यमोत्तमासु तिसृष्वपि चितिषु तिस्रः स्वयम तृण्णा उपधीयन्ते, अतो ऽत्र प्रथमेति विशेषणम् । तद्यदिति । यतः ‘एताम्’ इष्टकाम् ‘अत्र’ पुरुषे ‘उपदधाति तत्’ तेनास्य पुरुषरूपस्य प्रजापतेः ‘आत्मनः स्वस्य यद् एतत् प्रतिष्ठालक्षणमङ्गम् । एषेति लिव्यत्यय (पा. सू. ३ । १ । ८५) । ‘तदस्मिन्’ प्रजापतावेव ‘एतत्’ एतेन निहितवान् भवति । तस्माद्’ अस्मिन्पुरुषे उपदध्यात् ॥ ४ ॥

Eggeling
  1. Now that Prajāpati who became disjointed is this very Agni (fire-altar) that is now being built up; and that resting-place (or, foundation) is this first

naturally-perforated (brick);–thus when he now puts it on, he thereby puts upon this (altar-site) that (foundation 2) which there was for his body: that is why he now puts it on.

०५

विश्वास-प्रस्तुतिः

तां वै᳘ प्रजा᳘पतिनो᳘पदधाति॥
प्रजा᳘पति᳘र्ह्ये᳘वैत᳘त्स्वय᳘मात्म᳘नः प्रत्य᳘धत्त ध्रु᳘वा ऽसी᳘ति स्थि᳘रा ऽसी᳘त्येतद᳘थो प्र᳘तिष्ठिता ऽसी᳘ति धरुणे᳘ति प्रतिष्ठा वै᳘ धरु᳘णमा᳘स्तृता व्विश्व᳘कर्मणे᳘ति प्रजा᳘पतिर्वै᳘ व्विश्व᳘कर्मा तेना᳘स्तृता ऽसी᳘त्येतन्मा᳘ त्वा समुद्र ऽउ᳘द्वधीन्मा᳘ सुपर्ण ऽइ᳘ति रुक्मो वै᳘ समुद्रः पुरुषः[[!!]] सुपर्णस्तौ᳘ त्वा मो᳘द्वधिष्टामि᳘त्येतद᳘व्यथमाना पृथिवीं᳘ दृᳫँ᳭हे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

तां वै᳘ प्रजा᳘पतिनो᳘पदधाति॥
प्रजा᳘पति᳘र्ह्ये᳘वैत᳘त्स्वय᳘मात्म᳘नः प्रत्य᳘धत्त ध्रु᳘वा ऽसी᳘ति स्थि᳘रा ऽसी᳘त्येतद᳘थो प्र᳘तिष्ठिता ऽसी᳘ति धरुणे᳘ति प्रतिष्ठा वै᳘ धरु᳘णमा᳘स्तृता व्विश्व᳘कर्मणे᳘ति प्रजा᳘पतिर्वै᳘ व्विश्व᳘कर्मा तेना᳘स्तृता ऽसी᳘त्येतन्मा᳘ त्वा समुद्र ऽउ᳘द्वधीन्मा᳘ सुपर्ण ऽइ᳘ति रुक्मो वै᳘ समुद्रः पुरुषः[[!!]] सुपर्णस्तौ᳘ त्वा मो᳘द्वधिष्टामि᳘त्येतद᳘व्यथमाना पृथिवीं᳘ दृᳫँ᳭हे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

तां वै᳘ प्रजा᳘पतिनो᳘पदधाति॥
प्रजा᳘पतिॗर्ह्येॗवैत᳘त्स्वय᳘मात्म᳘नः प्रत्य᳘धत्त ध्रुॗवासी᳘ति स्थिॗरासी᳘त्येतद᳘थो प्र᳘तिष्ठितासी᳘ति धरुणे᳘ति प्रतिष्ठा वै᳘ धरु᳘णमा᳘स्तृता विश्व᳘कर्मणे᳘ति प्रजा᳘पतिर्वै᳘ विश्व᳘कर्मा तेना᳘स्तृतासी᳘त्येतन्मा᳘ त्वा समुद्र उ᳘द्वधीन्मा᳘ सुपर्ण इ᳘ति रुक्भो वै᳘ समुद्रः पु᳘रुषः सुपर्णस्तौ᳘ त्वा मो᳘द्वधिष्टामि᳘त्येतद᳘व्यथमाना पृथिवीं᳘ दृंहे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

तां वै प्रजापतिनोपदधाति । प्रजापतिर्ह्येवैतत्स्वयमात्मनः प्रत्यधत्त । “ध्रुवा ऽसि”- इति । स्थिरा ऽसीत्येतत् । अथो प्रतिष्ठिता ऽसि- इति । “धरुणा”- इति । प्रतिष्ठा वै धरुणम् । “आस्तृता विश्वकर्मणा”- इति । प्रजापतिर्वै विश्वकर्मा । तेनास्तृता ऽसीत्येतत् । “मा त्वा समुद्र उद्वधीन्मा सुपर्णः”- इति । रुक्मो वै समुद्रः, पुरुषः सुपर्णः । तौ त्वा मोद्वधिष्टामित्येतत् । “अव्यथमाना पृथिवीं दृंह”- (वा. सं. १३ । १६) इति । यथैव यजुस्तथा बन्धुः ॥ ५ ॥

सायणः

विहिते उपधाने मन्त्रं विधत्ते- तां वै प्रजापतिनोपदधातीत्यादिना । अत्र “ध्रुवा ऽसि धरुणा ऽऽस्तृता,” “प्रजापतिष्ट्वा सादयतु” “भूरसि भूमिरसि” इति तिसृभिर्ऋग्भिः “विश्वस्मै प्राणाय” इति यजुषा च एषा स्वयमातृण्णेष्टकोपधीयते; अतः प्रजापतिशब्देन तद्विशिष्टं मन्त्रं लक्षयित्वा तेन लक्षितलक्षणया ते सर्वे मन्त्रा लक्ष्यन्ते । ‘प्रजापतिर्हेवैतत्स्वयमात्मनः प्रत्यधत्त’ इत्यनेन लक्षितलक्षणाविवक्षाकारणमुच्यते । यतः ‘प्रजापतिः’ ‘स्वयमात्मनः’ ‘एतत्’ प्रतिष्ठालक्षणमङ्गम् ‘प्रत्यधत्त’, अतस्तत्प्रतिष्ठात्मकस्वयमातृण्णोपधानमन्त्रे ऽपि तत्सम्बन्धप्रतीतिर्यथा स्यादिति प्रजापतिनोपदध्यादित्युक्तम् । प्रथमामृचं व्याचष्टे- ध्रुवा ऽसीति । ‘स्थिरा ऽसीत्येतद्’ इति ‘ध्रुवा ऽसि’ इत्यस्य व्याख्यानम् । ‘अथो प्रतिष्ठा ऽसीति’ एतदपि ‘ध्रुवा ऽसि’ इत्यस्यैव विवरणम् । धरुणेति प्रतीकमादाय व्याचष्टे- प्रतिष्ठा वै धरुणमिति । सर्वस्याधारभूतेत्यर्थः । आस्तृता विश्वकर्मणेत्यस्य व्याख्यानम्- प्रजापतिर्वै विश्वकर्मेति । विश्वस्य कृत्स्नप्रपञ्चस्य कर्म सृष्टिलक्षणमस्यास्तीति विश्वकर्मशब्देन ‘प्रजापतिः’ अभिधीयते; ‘तेन’ ‘आस्तृता’ आच्छादितोपहिता ‘इति’ एतदुक्तं भवति । रुक्मो वै समुद्रः पुरुषः सुपर्ण इति । अत्र पुष्करपर्णे रुक्मं निधाय तत्र च हिरण्मयपुरुषमवस्थाप्य तस्योपरि स्वयमातृण्णोपधानं कर्त्तव्यम् । अतश्च ‘मा त्वा समुद्र उद्वधीन्मा सुपर्णः’ ‘इति’ अनेन- आधारभूतौ रुक्मपुरुषौ तव हिंसां मा कार्ष्टाम्, किन्त्वानुकूल्येनाङ्गीकुरुतामित्येतदुच्यते । यथैव यजुस्तथा बन्धुः इत्यनेन यथा मन्त्रस्तथैव व्याख्यानम् । ‘अव्यथमाना पृथिवीं दृँह’ ‘इति’ एष मन्त्रभागः स्पष्टार्थ इत्युच्यते ॥ ५ ॥

Eggeling
  1. He puts it on by means of Prajāpati, for Prajāpati thereby took back to himself (that foundation) of his body. [Vāj. S. XIII, 16] ‘Steady thou art,’ that is, ‘Firm thou art, or established thou art;’–‘supporting,’ for that which supports is a foundation;–’laid down by Viśvakarman;’ Viśvakarman is Prajāpati, thus, ’laid down by that one;’–‘May the ocean, may the bird not injure thee!’ the ocean doubtless is the gold plate, and the bird is the man: thus, ‘May those two not injure thee!’–‘Not shaking, steady thou the earth!’ as the text, so the meaning.

०६

विश्वास-प्रस्तुतिः

प्रजा᳘पतिष्ट्वा सादयत्वि᳘ति॥
प्रजा᳘पति᳘र्ह्येतां᳘ प्रथमां चि᳘तिम᳘पश्यदपां᳘ पृष्ठे᳘ समुद्रस्ये᳘मन्नि᳘त्यपा᳘ᳫँ᳘ हीयं᳘ पृष्ठ᳘ᳫँ᳘ समुद्र᳘स्य᳘ हीयमे᳘मा व्व्य᳘चस्वतीं प्र᳘थस्वतीमि᳘ति व्व्य᳘चस्वती च᳘ हीयं प्र᳘थस्वती च प्र᳘थस्व पृथिव्य᳘सी᳘ति प्र᳘थस्व पृथिवी᳘ चासी᳘त्येतत्॥

मूलम् - श्रीधरादि

प्रजा᳘पतिष्ट्वा सादयत्वि᳘ति॥
प्रजा᳘पति᳘र्ह्येतां᳘ प्रथमां चि᳘तिम᳘पश्यदपां᳘ पृष्ठे᳘ समुद्रस्ये᳘मन्नि᳘त्यपा᳘ᳫँ᳘ हीयं᳘ पृष्ठ᳘ᳫँ᳘ समुद्र᳘स्य᳘ हीयमे᳘मा व्व्य᳘चस्वतीं प्र᳘थस्वतीमि᳘ति व्व्य᳘चस्वती च᳘ हीयं प्र᳘थस्वती च प्र᳘थस्व पृथिव्य᳘सी᳘ति प्र᳘थस्व पृथिवी᳘ चासी᳘त्येतत्॥

मूलम् - Weber

प्रजा᳘पतिष्ट्वा सादयत्वि᳘ति॥
प्रजा᳘पतिॗर्ह्येता᳘म् प्रथमां चि᳘तिम᳘पश्यदपा᳘म् पृष्ठे᳘ समुद्रस्ये᳘मन्नि᳘त्यपाॗᳫंॗ हीय᳘म् पृष्ठ᳘ᳫं᳘ समुद्र᳘स्यॗ हीयमे᳘म व्य᳘चस्वतीम् प्र᳘थस्वतीमि᳘ति व्य᳘चस्वती चॗ हीयम् प्र᳘थस्वती च प्र᳘थस्व पृथिव्य᳘सी᳘ति प्र᳘थस्व पृथिवी᳘ चासी᳘त्येतत्॥

मूलम् - विस्वरम्

“प्रजापतिष्ट्वा सादयतु”- इति । प्रजापतिर्ह्येतां प्रथमां चितिमपश्यत् । “अपां पृष्ठे समुद्रस्येमन्”- इति । अपां हीयं पृष्ठम् । समुद्रस्य हीयमेमा । “व्यचस्वतीं प्रथस्वतीम्”- इति । व्यचस्वती च हीयं प्रथस्वती च । “प्रथस्व पृथिव्यसि"- (वा. सं. १३ । १७) इति । प्रथस्व पृथिवी चासीत्येतत् ॥ ६ ॥

सायणः

अथ द्वितीयामृचं व्याचष्टे- प्रजापतिष्ट्वेति । यतः ‘प्रजापतिः’ ‘एताम्’ ‘प्रथमाम्’ ‘चितिम्’ अपश्यत् अतः ‘प्रजापतिष्ट्वा सादयत्विति ‘मन्त्र आह । अपामाच्छादकत्वादियं पृथिवी ‘अपां पृष्ठे’ तथा ‘समुद्रस्य’ अपि ‘एमन्’ एमा “इण् गतौ”- (धा. पा. अ. प. २६) इत्यस्मात् “अन्येभ्यो ऽपि दृश्यन्ते”- (पा. सू. ३ । २ । ७५) इति मनिन्प्रत्ययः । ‘समुद्रस्य’ इति कृद्योगे कर्मणि षष्ठी (पा. सू. २ । ३ । ६५) । ‘समुद्रस्य एमा’ समुद्रं प्राप्तेत्यर्थः । परितः समुद्रेण वलयितत्वात् । ‘एमन्’ इति सप्तम्येकवचनस्य “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इत्यादिना लुकि सति रूपम् । ‘इयम्’ पृथिवी ‘व्यचस्वती’ व्यञ्चनवती, अभिव्यक्तियुक्ता, ‘प्रथस्वती’ विस्तारयुक्ता चेत्येतत् प्रत्यक्षसिद्धम् । स्वयमातृण्णा च पृथिव्यात्मिका, अतश्च ‘व्यचस्वतीम्’ ‘प्रथस्वतीम्’ इति मन्त्र आह । प्रथस्व पृथिवी चासीत्येतदिति । यतस्त्वं ‘पृथिव्यसि’ अतः ‘प्रथस्व’ इत्येतदुक्तं भवतीत्यर्थः । पृथिवीशब्दस्य प्रथनप्रवृत्तिनिमित्तकत्वं तैत्तिरीयके श्रूयते- “तत्पुष्करपर्णे ऽप्रथयत् यदप्रथयत्तत्पृथिव्यै पृथिवित्वम्”- (तै. सं.) ॥ ६ ॥

Eggeling
  1. [Vāj. S. XIII, 17] ‘May Prajāpati settle thee’–for Prajāpati saw this first layer 3;–‘on the back of the waters, on the way of the ocean,’ the back of the waters doubtless is this earth, and the way of the ocean is this earth;–’thee, the wide, the broad one!’ for this earth is both wide and broad;–‘broaden thou: thou art the broad one!’ that is, ‘broaden thou, and thou art the broad (earth, pr̥thivī).’

०७

विश्वास-प्रस्तुतिः

(द्भू᳘) भू᳘रसी᳘ति॥
भू᳘र्हीयं भू᳘मिरसी᳘ति भू᳘मि᳘र्हीयम᳘दितिरसी᳘तीयं वा ऽअ᳘दितिरिय᳘ᳫँ᳘[[!!]] हीदᳫँ᳭ स᳘र्व्वं द᳘दते व्विश्व᳘धाया ऽइ᳘त्यस्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्वᳫँ᳭ हितं व्वि᳘श्वस्य भु᳘वनस्य धर्त्री᳘ति स᳘र्व्वस्य भु᳘वनस्य धर्त्री᳘त्येत᳘त्पृथिवीं᳘ यच्छ पृथिवीं᳘ दृᳫँ᳭ह पृथिवीं मा᳘ हिᳫँ᳭सीरि᳘त्यात्मा᳘नं यच्छात्मा᳘नं दृᳫँ᳭हात्मा᳘नं मा᳘ हिᳫँ᳭सीरि᳘त्येतत्॥

मूलम् - श्रीधरादि

(द्भू᳘) भू᳘रसी᳘ति॥
भू᳘र्हीयं भू᳘मिरसी᳘ति भू᳘मि᳘र्हीयम᳘दितिरसी᳘तीयं वा ऽअ᳘दितिरिय᳘ᳫँ᳘[[!!]] हीदᳫँ᳭ स᳘र्व्वं द᳘दते व्विश्व᳘धाया ऽइ᳘त्यस्या᳘ᳫँ᳘ हीदᳫँ᳭ स᳘र्वᳫँ᳭ हितं व्वि᳘श्वस्य भु᳘वनस्य धर्त्री᳘ति स᳘र्व्वस्य भु᳘वनस्य धर्त्री᳘त्येत᳘त्पृथिवीं᳘ यच्छ पृथिवीं᳘ दृᳫँ᳭ह पृथिवीं मा᳘ हिᳫँ᳭सीरि᳘त्यात्मा᳘नं यच्छात्मा᳘नं दृᳫँ᳭हात्मा᳘नं मा᳘ हिᳫँ᳭सीरि᳘त्येतत्॥

मूलम् - Weber

भू᳘रसी᳘ति॥
भूॗर्हीयम् भू᳘मिरसी᳘ति भू᳘मिॗर्हीयम᳘दितिरसी᳘तीयं वा अ᳘दितिरिॗयᳫं हीदᳫं स᳘र्वं द᳘दते विश्व᳘धाया इ᳘त्यस्याॗᳫंॗ हीदᳫं स᳘र्वᳫं हितं वि᳘श्वस्य भु᳘वनस्य धर्त्री᳘ति स᳘र्वस्य भु᳘वनस्य धर्त्री᳘त्येत᳘त्पृथिवीं᳘ यछ पृथिवीं᳘ दृंह पृथिवीम् मा᳘ हिंसीरि᳘त्यात्मा᳘नं यछात्मा᳘नं दृंहात्मा᳘नम् मा᳘ हिंसीरि᳘त्येतत्॥

मूलम् - विस्वरम्

“भूरसि"- इति । भूर्हीयम् । “भूमिरसि"- इति । भूमिर्हीयम् । “अदितिरसि”- इति । इयं वा ऽअदितिः । इयं हीदं सर्वं ददते । “विश्वधायाः"- इति । अस्यां हीदं सर्वं हितम् । “विश्वस्य भुवनस्य धर्त्री"- इति । सर्वस्य भुवनस्य धर्त्रीत्येतत् । “पृथिवीं यच्छ पृथिवीं दृंह पृथिवीं मा हिंसीः”- (वा. सं. १३ । १८) इति । आत्मानं यच्छ, आत्मानं दृंह, आत्मानं मा हिंसीरित्येतत् ॥ ७ ॥

सायणः

अथ तृतीयामृचं व्याचष्टे- भूरसीति । भूमिरसीति भूमिर्हीयमिति । ‘इयम्’ पृथिवी, यतः सर्वेषां सुखानि भावयतीति ‘भूः,’ अस्याः सकाशादिदं सर्वमविज्ञातमभूदिति भूमिश्च; अत एव श्रुतिः- “अभूद्वा इयमिति तद्भूम्यै भूमित्वम्”- इति । तस्माद्भूरसि भूमिरसीत्यभिधत्ते । ‘इयं हीदं सर्वं ददते’ इत्यनेनादितित्वोपपादनम्- ‘इयम्’ पृथिवी ‘इदम्’ ‘सर्वम्’ भोग्यवस्तुजातं ‘ददते’ तस्माददितिः । “दद दाने”- (धा. पा. भ्वा. आ. १७) इत्यस्माददितिशब्दो निष्पन्नो द्रष्टव्यः । विश्वं सर्वमस्यां निहितमिति ‘विश्वधायाः’ । सर्वस्य भुवनस्येति । भुवनशब्देनात्र भुवनवर्त्तिपदार्थजातं लक्ष्यते, ततश्च सर्वस्य भुवनवर्त्तिपदार्थजातस्य धारयित्रीत्येतदुक्तं भवति, पृथिवीरूपत्वादात्मनः ‘पृथिवीं यच्छ’ इत्यादिना ऽऽत्मन एव नियमनादिकं क्रियतामित्युच्यत इत्याह- आत्मानं यच्छेत्यादिना ॥ ७ ॥

Eggeling
  1. [Vāj. S. XIII, 18] ‘Thou art the earth (bhū),’ for this is the earth;–’thou art the ground (bhūmi),’ for this is the ground;–‘Thou art Aditi,’–Aditi is this earth, for this earth gives (dad)

everything here;–’the all-containing,’ for on this earth everything is contained;–‘supporter of all the world,’ that is, supporter of the whole world;–‘sustain the earth, steady the earth, injure not the earth!’ that is, sustain thyself, steady thyself, injure, not thyself!

०८

विश्वास-प्रस्तुतिः

(द्वि᳘) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्व्याना᳘योदानाये᳘ति प्राणो वै᳘ स्वयमातृण्णा स᳘र्व्वस्मा ऽउ वा᳘ ऽएत᳘स्मै प्राणः᳘ प्रतिष्ठा᳘यै चरि᳘त्राये᳘तीमे वै᳘ लोकाः᳘ स्वयमातृण्णा ऽइम᳘ ऽउ लोकाः᳘ प्रतिष्ठा᳘ चरि᳘त्रमग्नि᳘ष्ट्वा ऽभि᳘पात्वि᳘त्यग्नि᳘ष्ट्वा ऽभि᳘गोपायत्वि᳘त्येत᳘न्मह्या᳘ स्वस्त्ये᳘ति महत्या᳘ स्वस्त्ये᳘त्येत᳘च्छर्दि᳘षा शं᳘तमेने᳘ति य᳘च्छर्दिः शं᳘तमं तेने᳘त्येत᳘त्सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुर᳘थ सा᳘म गायति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - श्रीधरादि

(द्वि᳘) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्व्याना᳘योदानाये᳘ति प्राणो वै᳘ स्वयमातृण्णा स᳘र्व्वस्मा ऽउ वा᳘ ऽएत᳘स्मै प्राणः᳘ प्रतिष्ठा᳘यै चरि᳘त्राये᳘तीमे वै᳘ लोकाः᳘ स्वयमातृण्णा ऽइम᳘ ऽउ लोकाः᳘ प्रतिष्ठा᳘ चरि᳘त्रमग्नि᳘ष्ट्वा ऽभि᳘पात्वि᳘त्यग्नि᳘ष्ट्वा ऽभि᳘गोपायत्वि᳘त्येत᳘न्मह्या᳘ स्वस्त्ये᳘ति महत्या᳘ स्वस्त्ये᳘त्येत᳘च्छर्दि᳘षा शं᳘तमेने᳘ति य᳘च्छर्दिः शं᳘तमं तेने᳘त्येत᳘त्सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुर᳘थ सा᳘म गायति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - Weber

वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्याना᳘योदानाये᳘ति प्राणो वै᳘ स्वयमातृणा स᳘र्वस्मा उ वा᳘ एत᳘स्मै प्राणः᳘ प्रतिष्ठा᳘यै चरि᳘त्राये᳘तीमे वै᳘ लोकाः᳘ स्वयमातृणा इम᳘ उ लोकाः᳘ प्रतिष्ठा᳘ चरि᳘त्रमग्नि᳘ष्ट्वाभि᳘पात्वि᳘त्यग्नि᳘ष्ट्वाभि᳘गोपायत्वि᳘त्येत᳘न्मह्या᳘ स्वस्त्ये᳘ति महत्या᳘ स्वस्त्ये᳘त्येत᳘च्छर्दि᳘षा शं᳘तमेने᳘ति य᳘च्छर्दिः शं᳘तमं तेने᳘त्येत᳘त्सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुर᳘थ सा᳘म गायति त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - विस्वरम्

“विश्वस्मै प्राणायापानाय व्यानायोदानाय”- इति । प्राणो वै स्वयमातृण्णा सर्वस्मा ऽउ वा ऽएतस्मै प्राणः । “प्रतिष्ठायै चरित्राय”- इति । इमे वै लोकाः स्वयमातृण्णाः । इम ऽउ लोकाः प्रतिष्ठा चरित्रम् । “अग्निष्ट्वा ऽभिपातु"- इति । अग्निष्ट्वा ऽभिगोपायत्वित्येतत् । “मह्या स्वस्त्या”- इति । महत्या स्वस्त्येत्येतत् । “छर्दिषा शंतमेन”- (वा. सं. १३ । १९) इति । यच्छर्दिः शंतमं- तेनेत्येतत् । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः । अथ साम गायति । तस्योपरि बन्धुः ॥ ८ ॥

सायणः

अथ यजुर्मन्त्रं व्याचष्टे- विश्वस्मै प्राणायेति । एक एव प्राणवायुर्वृत्तिभेदात्प्राणापानव्यानोदानसमानशब्दैरभिधीयते । “प्राणो ह्येवैतत् स्वयमात्मन आतृन्ते”- इति स्वयमातृण्णायाः प्राणत्वमुक्तम् (श. प. ७ । ४ । २ । २) । ‘सर्वस्मा उ वा एतस्मा’ इति षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२, वा. १) सर्वस्य खल्वेतस्य प्राणिसंघस्य प्राण एवाशास्यो भवति, अतः सर्वस्यापि प्राणादिस्थैर्यार्थं तवोपधानमिति यावत् । इमे वै लोका इति । तिस्रः ‘स्वयमातृण्णाः’ पृथिव्यन्तरिक्षद्युलोकात्मिका ‘इमे’ खलु ‘लोकाः’ ‘प्रतिष्ठा’ सर्वप्राणिनामाधारः, ‘चरित्रम्’ इति प्रत्येकविवक्षयैकवचनम्, नियतलिङ्गत्वान्नपुंसकलिङ्गम् । ततश्च प्रथमायाः स्वयमातृण्णायाः पृथिव्यात्मकत्वात्- सर्वेषामाधारभूताय संसारसाधनभूताय चास्मै लोकाय तवोपधानम् । गोपायत्वित्येतदिति । पृथिव्यभिमानिदेवतात्वादग्निस्त्वां गोपायत्वित्येतदुक्तम् । यच्छर्दिः शन्तमं तेनेत्येतदिति । ‘शन्तमम्’ अतिशयेन सुखकरं ‘यच्छर्दिः’ तेजो ऽस्ति 4 ‘तेन’ इति । मन्त्रार्थस्तु- हे स्वयमातृण्णे ! स्थिरा ऽसि, सर्वेषां प्रतिष्ठा ऽसि, प्रजापतिनोपहिता ऽसि, तादृशीं त्वां रुक्मो ‘मोद्वधीत्’ । तथा हिरण्मयपुरुषश्च त्वां मोद्वधीत् । तथा सती ‘अव्यथमाना’ त्वं ‘पृथिवीम्’ दृढीकुरु । किञ्च ‘प्रजापतिः’ अपामाच्छादके समुद्रं प्राप्तवति भूप्रदेशे ‘व्यवस्वतीम् विस्तारवतीं त्वां सादयतु यतस्त्वं ‘पृथिव्यसि,’ अतः ‘प्रथस्व’ विस्तारवती भव । किञ्च त्वं सर्वेषां सुखानां भावयित्र्यसि, सर्वेषां चोत्पत्तिस्थानमसि, सर्वस्यापि भोग्यवस्तुनो दात्र्यसि, कृत्स्नस्यापि भुवनवर्त्तिपदार्थजातस्य धारयित्र्यसि । तादृशी त्वं पृथिवीरूपमात्मानं नियच्छ दृढीकुरु । मा च हिंसीः । प्रयोजनमन्तरेण त्वां नोपदधे, किन्तु सर्वस्यापि प्राणिनः स्थैर्यार्थं त्वामुपदधामि । त्वाञ्चाग्निः ‘मह्या’ ‘महत्या,’ टिलोपश्छान्दसः । ‘स्वस्त्या’ अविनाशेन सुखातिशयसम्पादकेन तेजसा च ‘गोपायतु’ ‘तया देवतया’ ‘अङ्गिरस्वत्’ अङ्गिरसा तुल्या ‘ध्रुवा’ स्थिरा ‘सीद’ उपविशेति कृत्स्नमन्त्रार्थः । अथ “तया देवतया” इत्यनेन मन्त्रेण सादयित्वा । “ता अस्य” इत्यनेनाधिवदेदित्याह- सादयित्वेति । अत्र सूत्रम्- “नित्ये सादनसूददोहसा उपधानादुत्तरे तया देवतया ता अस्येति”- (का. श्रौ. सू. १७ । २१३) इति । सादनाधिवदनमन्त्रयोर्व्याख्यानं प्रागुक्तमित्याह- तस्योक्तो बन्धुरिति । तत्रास्मिन्काण्डे “प्राणो वै सूददोहाः”- (श. प. ७ । १ । १ । २६) इत्यादिना ऽधिवदनमन्त्रो व्याख्यातः । षष्ठकाण्डे “स उपदधाति तया देवतयेति वाग्वै सा देवता" इत्यादिना व्याख्यातः सादनमन्त्रः ॥ ८ ॥

Eggeling
  1. [Vāj. S. XIII, 19] ‘For all breathing, out-breathing, through-breathing, and up-breathing;’ for the naturally-perforated (brick) is the breath, and the breath serves for all that;–‘for a resting-place, for a moving-place;’ the naturally-perforated (bricks) are these worlds 5, and these worlds are the resting-place, the moving-place;–‘May Agni guard thee’–that is, may Agni protect thee!–‘with mighty well-being!’ that is, with great well-being;–‘with the safest roof,’ that is, with whatever roof (abode) is the safest. Having ‘settled’ it 6, he pronounces the Sūdadohas 7 on it: the meaning of this has been explained. He then sings a Sāman: the meaning of this (will be explained) further on.

०९

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दाहुः॥
कथ᳘मेष पुरुषः[[!!]] स्वयमातृण्णया᳘ ऽनभिनिहितो भवतीत्य᳘न्नं वै᳘ स्वयमातृण्णा᳘ प्राणः᳘ स्वयमातृण्णा᳘ ऽनभिनिहितो वै पुरुषो᳘ ऽन्नेन[[!!]] च प्राणे᳘न च॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दाहुः॥
कथ᳘मेष पुरुषः[[!!]] स्वयमातृण्णया᳘ ऽनभिनिहितो भवतीत्य᳘न्नं वै᳘ स्वयमातृण्णा᳘ प्राणः᳘ स्वयमातृण्णा᳘ ऽनभिनिहितो वै पुरुषो᳘ ऽन्नेन[[!!]] च प्राणे᳘न च॥

मूलम् - Weber

त᳘दाहुः॥
कथमेप पु᳘रुषः स्वयमातृणया᳘नभिनिहितो भवतीत्य᳘न्नं वै᳘ स्वयमातृणा᳘ प्राणः᳘ स्वयमातृणानभिनिहितो व् ऐ पु᳘रुषो᳘ ऽन्नेन च प्राणे᳘न च॥

मूलम् - विस्वरम्

तदाहुः- कथमेष पुरुषः स्वयमातृण्णया ऽनभिनिहितो भवतीति । अन्नं वै स्वयमातृण्णा, प्राणः स्वयमातृण्णा । अनभिनिहितो वै पुरुषः- अन्नेन च प्राणेन च ॥ ९ ॥

सायणः

अथ स्वयमातृण्णायां सामगानं विधाय तत्प्रयोजनकथनलक्षणं व्याख्यानमुपरिष्टाद्वक्ष्यत इति दर्शयति- अथेत्यादिना । अस्यां प्रथमायां स्वयमातृण्णायां ‘भूः’ इति व्याहृत्या साम गायेत्, अत एव सूत्रम्- “भूरित्येतस्याँ साम गायति”- (का. श्रौ. सू. १७ । ८८) इति । तद्व्याख्यानं तु “अथ स्वयमातृण्णासु सामानि गायति”- इत्यादिनोत्तरत्राष्टमकाण्डावसाने प्रपञ्च्यते (श. प. ८ । ७ । ४ । १) । लोके हि पुरुषस्योपरि पाषाणे निहिते ऽस्य महानुपरोधो जायते, अतो ऽत्र स्वयमातृण्णायाः पाषाणात्मकत्वात्तदुपधानेन पुरुषः कथमनभिनिहितो भवतीति प्रश्नपूर्वकं स्वयमातृण्णाया अन्नप्राणात्मकत्वात्तयोश्चोपरोधहेतुताभावात् प्रत्युतानुकूलत्वात् तत्संन्निधाने ऽपि पुरुषो नाभिनिहित एव भवति इत्याह- तदाहुरित्यादिना ॥ ९ ॥

Eggeling
  1. Here now they say, ‘How is it that that (gold) man is not held (weighed) down by the naturally-perforated (brick) 8?’ Well, the naturally-perforated (brick) is food and breath; and man is not held down either by food or by his breath.

१०

विश्वास-प्रस्तुतिः

(चा᳘) अ᳘थ दूर्व्वेष्टकामु᳘पदधाति॥
पश᳘वो वै᳘ दूर्व्वेष्टका᳘ पशू᳘ने᳘वैतदुपदधाति[[!!]] तद्यै᳘र᳘दो ऽग्निर᳘नन्तर्हितैः पशु᳘भिरुपैत्त᳘ ऽएते ता᳘ने᳘वैतदु᳘पदधाति ताम᳘नन्तर्हिताᳫँ᳭[[!!]] स्वयमातृण्णा᳘या ऽउ᳘पदधातीयं वै᳘ स्वयमातृण्णा᳘ ऽनन्तर्हितांस्त᳘दस्यै᳘ पशू᳘न्दधात्यु᳘त्तरामु᳘त्तरांस्त᳘दस्यै᳘ पशू᳘न्दधाति॥

मूलम् - श्रीधरादि

(चा᳘) अ᳘थ दूर्व्वेष्टकामु᳘पदधाति॥
पश᳘वो वै᳘ दूर्व्वेष्टका᳘ पशू᳘ने᳘वैतदुपदधाति[[!!]] तद्यै᳘र᳘दो ऽग्निर᳘नन्तर्हितैः पशु᳘भिरुपैत्त᳘ ऽएते ता᳘ने᳘वैतदु᳘पदधाति ताम᳘नन्तर्हिताᳫँ᳭[[!!]] स्वयमातृण्णा᳘या ऽउ᳘पदधातीयं वै᳘ स्वयमातृण्णा᳘ ऽनन्तर्हितांस्त᳘दस्यै᳘ पशू᳘न्दधात्यु᳘त्तरामु᳘त्तरांस्त᳘दस्यै᳘ पशू᳘न्दधाति॥

मूलम् - Weber

अ᳘थ दूर्वेष्टकामु᳘पदधाति॥
पश᳘वो वै᳘ दूर्वेष्टका᳘ पशू᳘नेॗवैतदु᳘पदधाति तद्यै᳘रॗदो ऽग्निर᳘नन्तर्हितैः पशु᳘भिरुपैत्त᳘ एते ता᳘नेॗवैतदु᳘पदधाति ता᳘मनन्तर्हिताᳫं स्वयमातृणा᳘या उ᳘पदधातीयं वै᳘ स्वयमातृणा᳘नन्तर्हितांस्त᳘दस्यै᳘ पशू᳘न्दधात्यु᳘त्तरामु᳘त्तरांस्त᳘दस्यै᳘ पशू᳘न्दधाति॥

मूलम् - विस्वरम्

अथ दूर्वेष्टकोपधानम् ।

अथ दूर्वेष्टकामुपदधाति । पशवो वै दूर्वेष्टका । पशूनेवैतदुपदधाति । तद्यैरदो ऽग्निरनन्तर्हितैः पशुभिरुपैत्- त ऽएते । तानेवैतदुपदधाति । तामनन्तर्हितां स्वयमातृण्णाया उपदधाति । इयं वै स्वयमातृण्णा । अनन्तर्हितांस्तदस्यै पशून्दधाति । उत्तराम् । उत्तरांस्तदस्यै पशून्दधाति ॥ १० ॥

सायणः

स्वयमातृण्णेष्टकोपधानानन्तरं दूर्वेष्टकोपधानं विधत्ते- अथेति । ‘इष्टका’ शब्दो मृन्मयेष्टकासु मुख्यः, दूर्वायां तूपधानसामान्याद्गौणः । पशुपुष्टिसाधनत्वेन दुर्वाणामपि पशुत्वात्तदुपधानेन पशूनामेवोपधानं कृतं भवतीत्याह- पशवो वा इति । यदुक्तम्- ‘पशूनेवैतदुपदधाति’ इति तत् किं साधारणपशुविषयं ? नेत्याह- तद्यैरद इति । ‘अदः’ पुरस्तात् ‘अग्निः’ ‘अनन्तर्हितैः’ अव्यवहितैः, स्वस्य तेष्वनुप्रवेशादनन्तर्हितत्वम्, तादृशैर्यैः पञ्चभिः ‘पशुभिः’ अन्यत्रोपजगाम, ते पशवः ‘एते’ दूर्वेष्टकात्मका इत्यर्थः । अग्निः पशून् प्रविश्यान्यत्र जगामेत्येतत् “स एतान् पञ्च पशून् प्राविशद्” इत्यादिना (श. प. ६ । २ । १ । ४) षष्ठकाण्डे प्रपञ्चेनोक्तम् । ‘उपदधाति’ इति सामान्येन विधानात्स्थानविशेषं विधाय प्रशंसति- तामनन्तर्हितामित्यादिना । “तामनन्तर्हिता पुरुषादुपदधाति”- (श. प. ७ । ४ । २ । १) इति स्वयमातृण्णेष्टकास्थानविधिव्याख्यानेनैव कृतव्याख्यानमेतत् ॥ १० ॥

Eggeling
  1. He then lays the Darya-brick 9 thereon;–the Dūrvā-brick being cattle; it is with cattle he

thus endows it: these are the same cattle together with which Agni on that former occasion approached 10; it is them he now puts thereon. He lays it down immediately on the naturally-perforated (brick); the naturally-perforated (brick) being this earth, he thus places the cattle immediately on this earth. Upon (the brick he places it): upon this earth he thereby places cattle.

११

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ दूर्व्वेष्टकामुपद᳘धाति[[!!]]॥
प्रजा᳘पतेर्व्वि᳘स्रस्तस्य या᳘नि लो᳘मान्य᳘शीयन्त ता᳘ ऽइमा ऽओ᳘षधयो ऽभवन्न᳘थास्मात्प्राणो᳘ मध्यत ऽउ᳘दक्रामत्त᳘स्मिन्नु᳘त्क्रान्ते ऽपद्यत᳘॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ दूर्व्वेष्टकामुपद᳘धाति[[!!]]॥
प्रजा᳘पतेर्व्वि᳘स्रस्तस्य या᳘नि लो᳘मान्य᳘शीयन्त ता᳘ ऽइमा ऽओ᳘षधयो ऽभवन्न᳘थास्मात्प्राणो᳘ मध्यत ऽउ᳘दक्रामत्त᳘स्मिन्नु᳘त्क्रान्ते ऽपद्यत᳘॥

मूलम् - Weber

य᳘द्वेव᳘ दूर्वेष्टकामु᳘पदधाति॥
प्रजा᳘पतेर्वि᳘स्रस्तस्य या᳘नि लो᳘मान्य᳘शीयन्त ता᳘ इमा ओ᳘षधयो ऽभवन्न᳘थास्मात्प्राणो᳘ मध्यत उ᳘दक्रामत्त᳘स्मिन्नु᳘त्क्रान्ते ऽपद्यत॥

मूलम् - विस्वरम्

यद्वेव दूर्वेष्टकामुपदधाति । प्रजापतेर्विस्रस्तस्य यानि लोमान्यशीयन्त- ता इमा ओषधयो ऽभवन् । अथास्मात्प्राणो मध्यत उदक्रामत् । तस्मिन्नुत्क्रान्ते ऽपद्यत ॥ ११ ॥

सायणः

विहितमुपधानमनूद्यौषधीनां दूर्वायाश्चोत्पत्तिप्रदर्शनपूर्वकं तदुपधानेनैव क्षत्रमन्याः सर्वौषधीः प्राणं रसं चोपहितवान् भवतीति स्तौति- यद्वेवेत्यादिना । अशीयन्तेति । अपतन्नित्यर्थः ॥ ११ ॥

Eggeling
  1. And, again, why he lays down the Dūrvā-brick. The hair of Prajāpati which were lying on the ground when he was disjointed became these herbs. The vital air then went out from within him, and, that having gone out, he fell down.

१२

विश्वास-प्रस्तुतिः

सो ऽब्रवीत्॥
(द) अयं वाव᳘ मा ऽधूर्व्वीदि᳘ति यद᳘ब्रवीद᳘धूर्व्वीन्मे᳘ति त᳘स्माद्धू᳘र्व्वा धू᳘र्व्वा ह वै तां दूर्व्वेत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवास्त᳘देत᳘त्क्षत्रं᳘ प्राणो᳘ ह्येष र᳘सो लो᳘मान्यन्या ऽओ᳘षधय ऽएता᳘मुपद᳘धत्स᳘र्व्वा ऽओ᳘षधीरु᳘पदधाति॥

मूलम् - श्रीधरादि

सो ऽब्रवीत्॥
(द) अयं वाव᳘ मा ऽधूर्व्वीदि᳘ति यद᳘ब्रवीद᳘धूर्व्वीन्मे᳘ति त᳘स्माद्धू᳘र्व्वा धू᳘र्व्वा ह वै तां दूर्व्वेत्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवास्त᳘देत᳘त्क्षत्रं᳘ प्राणो᳘ ह्येष र᳘सो लो᳘मान्यन्या ऽओ᳘षधय ऽएता᳘मुपद᳘धत्स᳘र्व्वा ऽओ᳘षधीरु᳘पदधाति॥

मूलम् - Weber

सो ऽब्रवीत्॥
अयं वाव᳘ माधूर्वीदि᳘ति यद᳘ब्रवीद᳘धूर्वीन्मे᳘ति त᳘स्माद्धू᳘र्वा धू᳘र्वा ह वै तां दूर्वेत्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवास्त᳘देत᳘त्क्षत्र᳘म् प्राणोॗ ह्येष र᳘सो लो᳘मान्यन्या ओ᳘षधय एता᳘मुपद᳘धत्स᳘र्वा ओ᳘षधीरु᳘पदधाति॥

मूलम् - विस्वरम्

सो ऽब्रवीत्- अयं वाव मा ऽधूर्वीदिति । यदब्रवीदधूर्वीन्मेति- तस्माद्धूर्वा । धूर्वा ह वै तां दूर्वेत्याचक्षते परो ऽक्षम् । परो ऽक्षकामा हि देवाः । तदेतत्क्षत्रम् । प्राणो ह्येष रसः- लोमान्यन्या ओषधयः । एतामुपदधत्सर्वा ओषधीरुपदधाति ॥ १२ ॥

सायणः

सो ऽब्रवीदिति । ‘अयम्’ एव प्राणो माम् ‘अधूर्वीद्’ अहिंसीदिति प्रजापतिः ‘अब्रवीत्’ यदब्रवीन्मामधूर्वीदिति ‘तस्माद्’ एष प्राणो नाम्ना ‘धूर्वा’ अभूत् । ननु धूर्वा न दूर्वा भवितुमर्हति तत्कथं दुर्वेत्युच्यत इत्यत आह- धूर्वा ह वै तामिति । ‘धूर्वा’ शब्दः पचाद्यजन्तः, लोके ऽपि यत्किञ्चिन्नामधेयविशिष्टं पुरुषं गौरवार्थं भ्राता पितेत्येवं परोक्षेण व्यपदिशन्ति तद्वद्देवा अपीत्यर्थः । तदेतदिति । यतः ‘एषः’ दूर्वाप्राणात्मको ‘रसः’ । प्राणस्य रसात्मकत्वं श्रूयते- “प्राणो हि वा ऽअङ्गानाँ रसः” (श. प. १४ । १ । १ । २१)- इति । ‘एषः’ इति पुल्ँलिङ्गत्वं प्राणरसापेक्षम्; अतः ‘तदेतद्’ दूर्वा ‘क्षत्त्रम्’ प्रधानम्, ‘क्षत्त्र’- शब्देनात्र प्राधान्यं लक्ष्यते । ‘तदेतत्’ इत्यपि नपुंसकलिङ्गं क्षत्रशब्दापेक्षम् । तथा सति लोम्न प्राणानुविधायित्वात्प्राणरसात्मिकामेतां दूर्वेष्टकामुपदधत् लोमात्मिकाः ‘सर्वाः’ अपि ओषधीरुपदधाति ॥ १२॥

Eggeling
  1. He said, ‘Verily, this (vital air) has undone me!’ and because he said, ‘it has undone (dhūrv) me,’ hence (the name) ‘dhūrvā;’ ‘dhūrvā’ doubtless being what is mystically called ‘dūrvā,’ for the gods love the mystic. That (dūrvā grass) is the ruling power (Kshatra), for it is this vital sap, the breath; and the other plants are the hair: in laying down that (dūrvā plant) he lays down all (kinds of) plants.

१३

विश्वास-प्रस्तुतिः

तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्॥
(र्व्वंस्त᳘) त᳘दस्मिन्नेतं᳘ प्राणᳫँ᳭ र᳘सं मध्य᳘तो ऽदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति ताम᳘नन्तर्हिताᳫँ᳭ स्वयमातृण्णा᳘य ऽउ᳘पदधातीयं वै᳘ स्वयमातृण्णा᳘ ऽनन्तर्हितास्त᳘दस्या ऽओ᳘षधीर्द्दधात्यु᳘त्तरामु᳘त्तरास्त᳘दस्या ऽओ᳘षधीर्द्दधाति सा᳘ स्यात्स᳘मूला सा᳘ग्रा कृत्स्न᳘तायै य᳘था स्वयमातृण्णा᳘यामु᳘पहिता भू᳘मिं प्राप्नुया᳘देवमुपदध्यादस्या᳘ᳫँ᳘[[!!]] ह्ये᳘वैता जा᳘यन्त ऽइमाम᳘नुप्ररो᳘हन्ति॥

मूलम् - श्रीधरादि

तं य᳘त्र देवाः᳘ सम᳘स्कुर्वन्॥
(र्व्वंस्त᳘) त᳘दस्मिन्नेतं᳘ प्राणᳫँ᳭ र᳘सं मध्य᳘तो ऽदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति ताम᳘नन्तर्हिताᳫँ᳭ स्वयमातृण्णा᳘य ऽउ᳘पदधातीयं वै᳘ स्वयमातृण्णा᳘ ऽनन्तर्हितास्त᳘दस्या ऽओ᳘षधीर्द्दधात्यु᳘त्तरामु᳘त्तरास्त᳘दस्या ऽओ᳘षधीर्द्दधाति सा᳘ स्यात्स᳘मूला सा᳘ग्रा कृत्स्न᳘तायै य᳘था स्वयमातृण्णा᳘यामु᳘पहिता भू᳘मिं प्राप्नुया᳘देवमुपदध्यादस्या᳘ᳫँ᳘[[!!]] ह्ये᳘वैता जा᳘यन्त ऽइमाम᳘नुप्ररो᳘हन्ति॥

मूलम् - Weber

तं य᳘त्र देवाः᳘ सम᳘स्कुर्वम्॥
स्त᳘दस्मिन्नेत᳘म् प्राणं र᳘सम् मध्यॗतो ऽदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति ताम᳘नन्तर्हिताᳫं स्वयमातृणा᳘य उ᳘पदधातीयं वै᳘ स्वयमातृणा᳘नन्नर्हितास्त᳘दस्या ओ᳘षधीर्दधात्यु᳘त्तरामु᳘त्तरास्त᳘दस्या ओ᳘षधीर्दधाति सा᳘ स्यात्स᳘मूला सा᳘ग्रा कृत्स्न᳘तायै य᳘था स्वयमातृणा᳘यामु᳘पहिता भू᳘मिम् प्राप्नुया᳘देवमु᳘पदध्यादस्याॗᳫंॗ ह्येॗवैता जा᳘यन्त इमाम᳘नु प्ररो᳘हन्ति॥

मूलम् - विस्वरम्

तं यत्र देवाः समस्कुर्वन्- तदस्मिन्नेतं प्राणं रसं मध्यतो ऽदधुः । तथैवास्मिन्नयमेतद्दधाति । तामनन्तर्हितां स्वयमातृण्णाया उपदधाति । इयं वै स्वयमातृण्णा । अनन्तर्हितास्तदस्या ऽओषधीर्दधाति । उत्तराम् । उत्तरास्तदस्या ऽओषधीर्दधाति । सा स्यात्समूला साग्रा । कृत्स्नतायै । यथा स्वयमातृण्णा यामुपहिता भूमिं प्राप्नुयात्;- एवमुपदध्यात् । अस्यां ह्येवैता जायन्ते, इमामनुप्ररोहन्ति ॥ १३ ॥

सायणः

किञ्च- ‘यत्र’ यदा ‘देवाः’ ‘तम्’ प्रजापतिं चयनसंस्कारेण संस्कृतवन्तः, तदा ‘अस्मिन्’ प्रजापतौ ‘मध्यतो’ मध्ये सप्तम्यर्थे तसिः ‘प्राणं रसम्’ ‘अदधुः’ स्थापितवन्तः । ‘तथैव’ ‘अयम्’ अध्वर्युः ‘एतद्’ एतेन दूर्वेष्टकोपधानेन प्राणं रसं निहितवान् भवतीत्यर्थः । “तामनन्तर्हिताम्” इत्यादिकस्यार्थस्तु व्यक्त एव । उपधातव्यायाः दूर्वेष्टकाया लक्षणमाह- सा स्यादिति । ‘कृत्स्नतायै’ संपूर्णत्वाय अच्छिन्नमूलाग्रं हि संपूर्णमन्यूनं भवति, अतो मूलाग्रवती कार्या । उपधाने विशेषमाह- यथेति । अत्र कात्यायनः- “मूलाग्रवती दूर्वां तस्यां पुरस्तादभिप्राप्ताम्”- (का. श्रौ. सू. १७ । ९०) इति । दूर्वेष्टकायाः पुरस्ताद् भूमिसंस्पर्शेनोपधान इमां दूर्वामनुलक्ष्यैता ओषधयो भूमौ प्ररोहेयुरित्याह- अस्याँ ह्येवैता इति ॥ १३ ॥

Eggeling
  1. When the gods restored him, they put that life-sap, the breath, inside him; and in like manner does this (Sacrificer) now put it into him. He lays it down immediately on the naturally-perforated (brick); the naturally-perforated one being this earth, he thus places the plants immediately on this earth. Upon (the brick he lays it): upon this earth he thus places the plants. It should be with root and top, for completeness’ sake. Let him lay it on in such manner that while lying on the naturally-perforated (brick) it touches the ground (with its

tops) 11, for on this earth those (plants) spring up, and along her they grow.

१४

विश्वास-प्रस्तुतिः

का᳘ण्डात्काण्डात्प्ररो᳘हन्ती॥
प᳘रुषः परुषस्परी᳘ति का᳘ण्डात्काण्डा᳘द्ध्येषा प᳘र्व्वणः पर्व्वणः प्ररो᳘हत्येवा᳘ नो दूर्व्वे प्र᳘तनु सह᳘स्रेण शते᳘न चे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - श्रीधरादि

का᳘ण्डात्काण्डात्प्ररो᳘हन्ती॥
प᳘रुषः परुषस्परी᳘ति का᳘ण्डात्काण्डा᳘द्ध्येषा प᳘र्व्वणः पर्व्वणः प्ररो᳘हत्येवा᳘ नो दूर्व्वे प्र᳘तनु सह᳘स्रेण शते᳘न चे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - Weber

का᳘ण्डात्काण्डात्प्ररो᳘हन्ती॥
प᳘रुषः-परुषस्परी᳘ति का᳘ण्डात्काण्डाॗद्ध्येषा प᳘र्वणः-पर्वणः प्ररो᳘हत्येवा᳘ नो पूर्वे प्र᳘तनु सह᳘स्रेण शते᳘न चे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥

मूलम् - विस्वरम्

“काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि”- इति । काण्डात्काण्डाद्ध्येषा पर्वणः पर्वणः प्ररोहति । “एवा नो दुर्वे प्रतनु सहस्रेण शतेन च”- (वा. सं. १३ । २०) इति । यथैव यजुस्तथा बन्धुः ॥ १४ ॥

सायणः

“काण्डात्” इति “या शतेन”- इति च द्वाभ्यामपीयमिष्टकोपधीयते; तत्र प्रथममन्त्रे पूर्वार्धस्यार्थः प्रत्यक्षसिद्ध इति दर्शयति- काण्डात्काण्डादिति । द्वितीयार्द्धं तु निगदव्याख्यातमित्याह- एवा नो दूर्व इत्यादिना । काण्डशब्दः स्तम्बवाची, परुःशब्दः पर्ववचनः । यावन्तः ‘काण्डाः’ स्तम्बा विद्यन्ते तत्रैकैकस्मात् स्तम्बात् प्रकर्षेणोत्पद्यमाना एकस्मिन्नपि स्तम्बे यावन्ति ‘परूंषि’ पर्वाणि विद्यन्ते तेष्वेकैकस्मात् ‘पर्वणः’ परितः प्रकर्षेणोत्पद्यमाना । अथवा काण्डशब्देन पर्वणोर्मध्यवर्ती दण्ड उच्यते । ‘काण्डात् काण्डात्’ सर्वस्मात् काण्डादित्यर्थः । ‘परुषः परुषः’ सर्वस्मात्पर्वणः । हे ‘दूर्वे !’ येषु काण्डेषु यानि सर्वाणि पर्वाणि विद्यन्ते तेभ्यः सर्वेभ्यो ऽपि परित ‘प्ररोहन्ती’ भवसीत्यर्थः । ‘एवा’ एवं यथा त्वं भवसि एवं ‘नः’ अस्मान् ‘शतेन’ ‘सहस्रेण’ च शतसहस्रसङ्ख्याकैः पुत्रादिभि ‘प्रतनु’ विस्तारयेति प्रथमस्यार्थः ॥ १४ ॥

Eggeling
  1. He lays it on, with (Vāj. S. XIII, 20-21), ‘Growing up joint by joint, knot by knot;’ for joint by joint, and knot by knot that (grass) does grow up;–‘so do thou prolong us, O Dūrvā (plant), by a thousand, and a hundred (descendants)!’ as the text, so its meaning.

१५

विश्वास-प्रस्तुतिः

(र्य्या᳘) या᳘ शते᳘न प्रतनो᳘षि॥
सह᳘स्रेण व्विरो᳘हसी᳘ति शते᳘न᳘ ह्येषा᳘ प्रतनो᳘ति सह᳘स्रेण व्विरो᳘हति त᳘स्यास्ते देवीष्टके व्विधे᳘म हवि᳘षा व्वयमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुर्द्वा᳘भ्यामु᳘पदधाति त᳘स्योक्तो ब᳘न्धुः सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र्य्या᳘) या᳘ शते᳘न प्रतनो᳘षि॥
सह᳘स्रेण व्विरो᳘हसी᳘ति शते᳘न᳘ ह्येषा᳘ प्रतनो᳘ति सह᳘स्रेण व्विरो᳘हति त᳘स्यास्ते देवीष्टके व्विधे᳘म हवि᳘षा व्वयमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुर्द्वा᳘भ्यामु᳘पदधाति त᳘स्योक्तो ब᳘न्धुः सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

या᳘ शते᳘न प्रतनो᳘षि॥
सह᳘स्रेण विरो᳘हसी᳘ति शते᳘नॗ ह्येषा᳘ प्रतनो᳘ति सह᳘स्रेण विरो᳘हति त᳘स्यास्ते देवीष्टके विधे᳘म हवि᳘षा वयमि᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुर्द्वा᳘भ्यामु᳘पदधाति त᳘स्योक्तो ब᳘न्धुः सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“या शतेन प्रतनोषि, सहस्रेण विरोहसि”- इति । शतेन ह्येषा प्रतनोति, सहस्रेण विरोहति । “तस्यास्ते देवीष्टके विधेम हविषा वयम्”- (वा. सं. १३ । २१) इति । यथैव यजुस्तथा बन्धुः । द्वाभ्यामुपदधाति तस्योक्तो बन्धुः । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ १५ ॥

सायणः

प्रथममन्त्रवद् द्वितीयमन्त्रे ऽपि पूर्वार्धस्यार्थः प्रत्यक्षसिद्धः; उत्तरार्धं तु निगदन्याख्यातमिति व्याचष्टे- या शतेनेत्यादिना । हे दुर्वे ! ‘या’ त्वं काण्डानां ‘शतेन’ आत्मानं विस्तारयसि, अङ्कुराणां ‘सहस्रेण’ विविधं प्रादुर्भवसि । हे देवि ! द्योतमाने ‘इष्टके’ ‘तस्यास्ते’ ‘वयम्’ ‘हविषा विधेम’ परिचरेमेति द्वितीयस्यार्थः ॥

उपधानमन्त्रगतामर्थसिद्धां द्वित्वसङ्ख्यामनुवदति- द्वाभ्यामुपदधातीति । द्वित्वसङ्ख्याप्रशंसालक्षणं व्याख्यानं “द्वाभ्यामभिजुहोति द्विपाद्यजमानो यजमानो ऽग्निः” इत्यादिना- (श. प. ६ । ४ । १ । १२) प्रागुक्तमित्याह- तस्योक्तो बन्धुरिति । ‘सादयित्वा’ इत्यादिकं तु व्याख्यातम् ॥ १५ ॥

Eggeling
  1. ‘Thou that spreadest by a hundred, and branchest out by a thousand (shoots);’ for by a hundred (shoots) it spreads, and by a thousand it branches out;–’to thee, O divine brick, we will do homage by offering;’ as the text, so the meaning. With two (verses) he puts it on: the meaning of this has been explained. Having ‘settled’ it, he pronounces the Sūdadohas upon it: the meaning of this has been explained.

१६

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ द्वि᳘यजुषमु᳘पदधाति॥
(ती) इन्द्राग्नी᳘ ऽअकामयेताᳫँ᳭ स्वर्गं᳘ लोक᳘मियावे᳘ति ता᳘वेतामि᳘ष्टकामपश्यतां द्वि᳘यजुषमिमा᳘मेव तामुपादधातां[[!!]] ता᳘मुपधा᳘यास्यै᳘ प्रतिष्ठा᳘यै[[!!]] स्वर्गं᳘ लोक᳘मैतां त᳘थै᳘वैतद्य᳘जमानो यद्द्वि᳘यजुषमुपद᳘धाति ये᳘न रूपे᳘ण यत्क᳘र्म कृ᳘त्वेन्द्राग्नी᳘ स्वर्गं᳘ लोकमै᳘तां ते᳘न रूपे᳘ण तत्क᳘र्म कृत्वा᳘ स्वर्गं᳘ लोक᳘मयानी᳘ति सा यद्द्वि᳘यजुर्ना᳘म द्वे᳘ ह्येतां᳘ देव᳘ते ऽअ᳘पश्यतां य᳘द्वेव द्वि᳘यजुषमुपद᳘धाति य᳘जमानो वै द्वि᳘यजुः॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ द्वि᳘यजुषमु᳘पदधाति॥
(ती) इन्द्राग्नी᳘ ऽअकामयेताᳫँ᳭ स्वर्गं᳘ लोक᳘मियावे᳘ति ता᳘वेतामि᳘ष्टकामपश्यतां द्वि᳘यजुषमिमा᳘मेव तामुपादधातां[[!!]] ता᳘मुपधा᳘यास्यै᳘ प्रतिष्ठा᳘यै[[!!]] स्वर्गं᳘ लोक᳘मैतां त᳘थै᳘वैतद्य᳘जमानो यद्द्वि᳘यजुषमुपद᳘धाति ये᳘न रूपे᳘ण यत्क᳘र्म कृ᳘त्वेन्द्राग्नी᳘ स्वर्गं᳘ लोकमै᳘तां ते᳘न रूपे᳘ण तत्क᳘र्म कृत्वा᳘ स्वर्गं᳘ लोक᳘मयानी᳘ति सा यद्द्वि᳘यजुर्ना᳘म द्वे᳘ ह्येतां᳘ देव᳘ते ऽअ᳘पश्यतां य᳘द्वेव द्वि᳘यजुषमुपद᳘धाति य᳘जमानो वै द्वि᳘यजुः॥

मूलम् - Weber

अ᳘थ द्वि᳘यजुषमु᳘पदधाति॥
इन्द्राग्नी᳘ अकामयेताᳫं स्वर्गं᳘ लोक᳘मियावे᳘ति ता᳘वेतामि᳘ष्टकामपश्यतां द्वि᳘यजुषमिमा᳘मेव तामु᳘पादधातां ता᳘मुपधा᳘यास्यै प्र᳘तिष्ठा᳘यै स्वर्गं᳘ लोक᳘मैतां त᳘थैॗवैतद्य᳘जमानो यद्द्वि᳘यजुषमुपद᳘धाति ये᳘न रूपे᳘ण यत्क᳘र्म कृॗत्वेन्द्राग्नी᳘ स्वर्गं᳘ लोकमै᳘तां ते᳘न रूपे᳘ण तत्क᳘र्म कृत्वा᳘ स्वर्गं᳘ लोक᳘मयानी᳘ति सा यद्द्वि᳘यजुर्ना᳘म द्वेॗ ह्येतां᳘ देव᳘ते अ᳘पश्यतां य᳘द्वेव द्वि᳘यजुषमुपद᳘धाति य᳘जमानो वै द्वि᳘यजुः॥

मूलम् - विस्वरम्

अथ द्वियजुरिष्टकोपधानम् ।

अथ द्वियजुषमुपदधाति । इन्द्राग्नी ऽअकामयेताम्- स्वर्गं लोकमियावेति । तावेतामिष्टकामपश्यतां- द्वियजुषम् । इमामेव तामुपादधाताम् । तामुपधायास्यै प्रतिष्ठायै स्वर्गं लोकमैताम् । तथैवैतद्यजमानो यद्द्वियजुषमुपदधाति- येन रूपेण; यत्कर्म कृत्वा, इन्द्राग्नी स्वर्गं लोकमैतां, तेन रूपेण तत्कर्म कृत्वा स्वर्गं लोकमयानीति । सा यद्द्वियजुर्नाम- द्वे ह्येतां देवते ऽअपश्यताम् । यद्वेव द्वियजुषमुपदधाति- यजमानो वै द्वियजुः ॥ १६ ॥

सायणः

कात्यायनः- “यास्त इति द्वियजुषम्” (का. श्रौ. सू. १७ । ९२) इति । “यास्ते अग्ने सूर्ये रुचः,” “या वो देवाः” इति द्वाभ्यां द्वियजुर्नामेष्टकामुपदध्यादिति सूत्रार्थः, तदेतद्विधत्ते- अथेति । विहितामिष्टकां यजमानस्य स्वर्गप्राप्तिसाधनत्वेन प्रशंसति- इन्द्राग्नी इत्यादिना । स्पष्टमेतत् । इमामेवेति । ‘ताम्’ आत्मना दृष्टाम् ‘इमाम्’ अस्माभिरधिष्ठीयमानामिष्टकाम् ‘एव’ उपादधाताम्‘ ‘ताम्’ ‘उपधाय’ ‘अस्यै प्रतिष्ठायै” “षष्ठ्यर्थे चतुर्थी”- (पा. सू. २ । ३ । ६२ । वा. १) इति । अस्याः प्रतिष्ठायाः सकाशात् सोपानवदिमामारुह्य ‘स्वर्गं लोकम्’ प्राप्नुतामित्यर्थः । तथैवैतदिति । ‘यजमानो द्वियजुषमुपदधाति’ इति ‘यत्’ ‘एतत्तथैव’ इन्द्राग्निदेवतावदेव । तदेव दर्शयति- येनेति । ‘येन’ प्रकारेण ‘यत् कर्म’ ‘कृत्वा’ ‘इन्द्राग्नी स्वर्गं लोकं’ प्राप्नुताम् । ‘तेन’ एव प्रकारेण ‘तत्कर्म कृत्वा’ अहमपि ‘स्वर्गं’ ‘लोकम्’ प्राप्तवानीति ‘यजमानो द्वियजुषमुपदधाति’ तस्मादेषा स्वर्गप्राप्तिसाधनमिति भावः । प्रकृताया इष्टकायाः द्वियजुरिति नामधेयप्राप्तिं दर्शयति- सा यदिति । यतः ‘एताम्’ ‘द्वे’ ‘देवते’ इन्द्राग्नी ‘अपश्यताम्’ तस्माद् ‘द्वियजुर्नाम’ इयमिष्टकेत्यर्थः । ननु देवताद्वयदर्शनात्कथं द्वियजुरिति नाम स्यादिति चेदुच्यते- यतो द्वे देवते एतामपश्यताम्, अत एव द्वाभ्यां यजुर्भ्यामुपधीयते, तथा सति यजुर्द्वयेनोपधानस्यापि देवताद्वयदर्शनोपाधिकत्वाद् द्वियजुरिति नामधेयस्यापि देवताद्वयदर्शनमेव निमित्तमित्यभिप्रायः । ननु “यास्ते अग्ने”- “या वो देवाः”- इत्यनयोर्मन्त्रयोर्ऋग्व्यवस्थया पठितत्वात् कथं यजुःशब्देन तदभिधानमिति । एवं तर्ह्यत्र यजुःशब्देन मन्त्रमात्रं लक्ष्यते । ऋक्सामयजुषां लक्षणं जैमिनिना दर्शितम् । “तेषामृक् यत्रार्थवशेन पादव्यवस्था, गीतिषु सामाख्या, शेषे यजुःशब्दः”- (जै. सू. २ । १ । ११ । ३५ ३७) इति । एतदेवान्यत्र सङ्गृहीतमभियुक्तैः- “नर्क्सामयजुषां लक्ष्म साङ्कर्यादिति शङ्किते । पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसङ्करः” इति । अथ वा मन्त्रे एव यजुःशब्दव्यवहारो दृश्यते । यथा- “तस्यास्ते देवीष्टके विधेम हविषा वयम्”- इति- “यथैव यजुस्तथा बन्धुः” इत्येत्रमादौ । अथ तामेवेष्टकां यजमानात्मना प्रशंसति- यद्वेवेति । द्वियजुषो यजमानात्मकत्वात्तदुपधानेन यजमानमेवास्मिंल्लोके ऽर्पितवान् भवतीत्यर्थः ॥ १६ ॥

Eggeling
  1. He then puts down a Dviyajus 12 (brick). Indra and Agni desired, ‘May we go to the heavenly world!’ They saw that dviyajus brick, even this earth, and laid it down; and having laid it down, they went to the heavenly world from that foundation. In like manner when this Sacrificer lays down a dviyajus (brick), (he does so) thinking, ‘I want to go to the heavenly world by the same means (rūpa), by performing the same rite by which Indra and Agni went to the heavenly world!’ And as to its being called ‘dviyajus,’ it is because two deities saw it. And as to why he lays down a dviyajus one: the dviyajus doubtless is the Sacrificer.

१७

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘दसा᳘वेव य᳘जमानो᳘ यो ऽसौ᳘ हिरण्म᳘यः पु᳘रुषो᳘ ऽथ कतम᳘दस्येद᳘ᳫँ᳘ रूपमि᳘ति दै᳘वो वा᳘ ऽअस्य स᳘ ऽआत्मा᳘ मनु᳘षो ऽयं तद्यत्स᳘ हिरण्म᳘यो भ᳘वत्यमृ᳘तं वा᳘ अस्य त᳘द्रूपं᳘ देवरूप᳘ममृ᳘तᳫँ᳭ हि᳘रण्यम᳘थ य᳘दियं᳘ मृदः᳘ कृता भ᳘वति मानुष᳘ᳫँ᳘ ह्यस्येद᳘ᳫँ᳘ रूपम्[[!!]]॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दाहुः॥
(र्य्य᳘) य᳘दसा᳘वेव य᳘जमानो᳘ यो ऽसौ᳘ हिरण्म᳘यः पु᳘रुषो᳘ ऽथ कतम᳘दस्येद᳘ᳫँ᳘ रूपमि᳘ति दै᳘वो वा᳘ ऽअस्य स᳘ ऽआत्मा᳘ मनु᳘षो ऽयं तद्यत्स᳘ हिरण्म᳘यो भ᳘वत्यमृ᳘तं वा᳘ अस्य त᳘द्रूपं᳘ देवरूप᳘ममृ᳘तᳫँ᳭ हि᳘रण्यम᳘थ य᳘दियं᳘ मृदः᳘ कृता भ᳘वति मानुष᳘ᳫँ᳘ ह्यस्येद᳘ᳫँ᳘ रूपम्[[!!]]॥

मूलम् - Weber

त᳘दाहुः॥
य᳘दसा᳘वेव य᳘जमानोॗ यो ऽसौ᳘ हिरण्म᳘यः पु᳘रुषो᳘ ऽथ कतम᳘दस्येदं᳘ रूपमि᳘ति दै᳘वो वा᳘ अस्य स᳘ आत्मा᳘ मनुॗषो ऽयं तद्यत्स᳘ हिरण्म᳘यो भ᳘वत्यमृ᳘तं वा᳘ अस्य त᳘द्रूपं᳘ देवरूप᳘ममृ᳘तᳫं हि᳘रण्यम᳘थ य᳘दिय᳘म् मृदः᳘ कृता भ᳘वति मानुष᳘ᳫं᳘ ह्यस्येदं᳘ रूप᳘म्॥

मूलम् - विस्वरम्

तदाहुः- यदसावेव यजमानो- यो ऽसौ हिरण्मयः पुरुषः- अथ कतमदस्येदं रूपमिति । दैवो वा ऽअस्य स आत्मा, मानुषो ऽयम् । तद्यत्स हिरण्मयो भवति- अमृतं वा ऽअस्य तद्रूपं देवरूपम्, अमृतं हिरण्यम् । अथ यदियं मृदः कृता भवति,- मानुषं ह्यस्येदं रूपम् ॥ १७ ॥

सायणः

द्वियजुषो यजमानत्वोक्त्या लब्धोदयां याज्ञिकानां जिज्ञासामवतारयति- तदाहुरित्यादिना । अथ कतमदिति । ‘अथ’ ‘अस्य’ यजमानस्य ‘इदं’ द्वियजुर्नाम एतत् ‘कतमत्’ ‘रूपं’ स्वरूपमिति । रूपत्वापेक्षया नपुंसकत्वम् । उक्तस्योत्तरमाह- दैवो वा इति । ‘सः’ हिरण्मयः ‘पुरुषः’ ‘अस्य’ यजमानस्य देवत्वप्रयुक्तः ‘आत्मा’ शरीरम् । यद्द्वियजुरिष्टका सः मनुष्यत्वप्रयुक्त आत्मेत्यर्थः । हिरण्मयत्वात् पुरुषस्य देवशरीरत्वम्, मृन्मयत्वाद् द्वियजुषो मानुषशरीरात्मत्वम्, (तत्) प्रतिपादयति- तद्यदित्यादिना । देवरूपमिति । यतः ‘देवरूपम्’ अतो ऽस्य यजमानस्य ‘तद्रूपम्’ ‘अमृतं’ खलु । विलायने ऽप्यविनश्वरत्वाद्विरण्यस्यामृतत्वम् । मानुषँ हीति । इदं द्वियजुर्लक्षणं स्वरूपं यतो ‘मानुषम्’ अतः ‘इयं मृदः कृता भवति’ पार्थिवी भवति । मानुषाणां पार्थिवत्वादित्यर्थः ॥ १७ ॥

Eggeling
  1. Here now they say, ‘If (the dviyajus) is that same Sacrificer who is that gold man, which then is that (real) form of his?’ Well, that (gold man) is his divine body, and this (brick) is his human one. As to that gold man, that is his immortal form, his divine form; gold being immortal. And as to this (brick) being made of clay, it is because this is his human form.

१८

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स य᳘दमू᳘मे᳘वोपदध्या᳘त्॥
(न्ने) नेमा᳘मपशिᳫँ᳭ष्या᳘त्क्षिप्रे᳘ हास्मा᳘ल्लोकाद्य᳘जमानः प्रे᳘याद᳘थ य᳘दिमा᳘मपशिन᳘ष्टि य᳘दे᳘वास्येदं᳘ मानुष᳘ᳫँ᳘ रूपं त᳘दस्यैतद᳘पशिनष्टि त᳘थो हाने᳘नात्म᳘ना स᳘र्व्वमा᳘युरेति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स य᳘दमू᳘मे᳘वोपदध्या᳘त्॥
(न्ने) नेमा᳘मपशिᳫँ᳭ष्या᳘त्क्षिप्रे᳘ हास्मा᳘ल्लोकाद्य᳘जमानः प्रे᳘याद᳘थ य᳘दिमा᳘मपशिन᳘ष्टि य᳘दे᳘वास्येदं᳘ मानुष᳘ᳫँ᳘ रूपं त᳘दस्यैतद᳘पशिनष्टि त᳘थो हाने᳘नात्म᳘ना स᳘र्व्वमा᳘युरेति॥

मूलम् - Weber

स य᳘दमू᳘मेॗवोपदध्यात्॥
नेमा᳘मपशिंष्या᳘त्क्षिप्रे᳘ हास्मा᳘ल्लोकाद्य᳘जमानः प्रे᳘यादथ य᳘दिमा᳘मपशिन᳘ष्टि य᳘देॗवास्येद᳘म् मानुषं᳘ रूपं त᳘दस्यैतद᳘पशिनष्टि त᳘थो हाने᳘नात्म᳘ना स᳘र्वमा᳘युरेति॥

मूलम् - विस्वरम्

स यदमूमेवोपदध्यात्- नेमामपशिंष्यात् । क्षिप्रे हास्माल्लोकाद्यजमानः प्रेयात् । अथ यदिमामशिनष्टि- यदेवास्येदं मानुषं रूपम्- तदस्यैतदपशिनष्टि । तथो हानेनात्मना सर्वमायुरेति ॥ १८ ॥

सायणः

द्वियजुष उपधानस्यान्वयव्यतिरेकयोर्गुणदोषप्रदर्शनेनावश्यकत्वमाह- स यदित्यादिना । ‘अमूम्’ हिरण्मयपुरुषलक्षणामिष्टकाम् ‘एव’ ‘उपदध्यात्’ । नेमामिति । ‘इमाम्’ द्वियजुर्लक्षणामपि तदानीमेव चेदुपदध्यात् ‘नापशिंष्यात्’ नावशेषयेत्, तर्हि मानुषशरीररूपद्वियजुरिष्टकाया अपरिशेषणात् क्षिप्रकाल एव ‘अस्माल्लोकाद्यजमानः प्रेयात्,’ एतस्यास्तदानीमनुपधानेनावशेषणे तु ‘अनेन’ द्वियजुर्लक्षणेन मानुषशरीरेणास्मिंल्लोके यजमानः कृत्स्नम् ‘आयुरेति’ इत्यर्थः ॥ १८ ॥

Eggeling
  1. Now were he only to lay down that (golden man), and not to let this dviyajus (brick) remain 13, the Sacrificer surely would quickly pass away from this world; but now that he allows this (brick) to remain, he thereby leaves to him this human form of his; and so he attains with this body the full (measure of) life.

१९

विश्वास-प्रस्तुतिः

स य᳘न्नानूपदध्यात्[[!!]]॥
(न्न᳘) न᳘ हैतं दै᳘वमात्मा᳘नमनुप्र᳘जानीयाद᳘थ य᳘दनूपद᳘धाति त᳘थो हैतं दै᳘वमात्मा᳘नमनुप्र᳘जानाति ताम᳘नन्तर्हितां दूर्व्वेष्टका᳘या ऽउ᳘पदधाति पश᳘वो वै᳘ दूर्व्वेष्टका य᳘जमानं त᳘त्पशु᳘षु प्र᳘तिष्ठापयति॥

मूलम् - श्रीधरादि

स य᳘न्नानूपदध्यात्[[!!]]॥
(न्न᳘) न᳘ हैतं दै᳘वमात्मा᳘नमनुप्र᳘जानीयाद᳘थ य᳘दनूपद᳘धाति त᳘थो हैतं दै᳘वमात्मा᳘नमनुप्र᳘जानाति ताम᳘नन्तर्हितां दूर्व्वेष्टका᳘या ऽउ᳘पदधाति पश᳘वो वै᳘ दूर्व्वेष्टका य᳘जमानं त᳘त्पशु᳘षु प्र᳘तिष्ठापयति॥

मूलम् - Weber

स यॗन्नानूपदध्या᳘त्॥
न᳘ हैतं दै᳘वमात्मा᳘नमनुप्र᳘जानीयाद᳘थ य᳘दनूपद᳘धाति त᳘थो हैतं दै᳘वमात्मा᳘नमनुप्र᳘जानाति ताम᳘नन्तर्हितां दूर्वेष्टका᳘या उ᳘पदधाति पश᳘वो वै᳘ दूर्वेष्टका य᳘जमानं त᳘त्पशु᳘षु प्र᳘तिष्ठापयति॥

मूलम् - विस्वरम्

स यन्नानूपदध्यात्- न हैतं दैवमात्मानमनुप्रजानीयात् । अथ यदनूपदधाति- तथो हैतं दैवमात्मानमनुप्रजानाति । तामनन्तर्हितां दूर्वेष्टकाया उपदधाति । पशवो वै दूर्वेष्टका । यजमानं तत्पशुषु प्रतिष्ठापयति ॥ १९ ॥

सायणः

अथास्या इष्टकायाः हिरण्मयपुरुषसमीपे सर्वथा ऽनुपधाने दोषप्रदर्शनपूर्वकं तत्रोपधाने गुणं दर्शयति- स यदित्यादिना । समीपे ऽनुपधाने सति असम्बन्धाद्यजमानः स्वकीयं देवरूपमनुक्रमेण ‘न’ ‘प्रजानीयात्’ । उपधाने तु प्रजानीयात् । अथ तामेवेष्टकां दूर्वेष्टकासंस्पर्शेनोपदध्यादित्याह- तामनन्तर्हितामिति ॥ १९ ॥

Eggeling
  1. And were he not to put it on after (the gold man), he assuredly would not afterwards find out that divine body 14; but now that he puts it on thereafter, he does so afterwards find out that divine body. He lays it down close to the dūrvā-brick the dūrvā-brick being cattle, he thus establishes the Sacrificer in (the possession of) cattle.

२०

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
कथ᳘मस्यैता᳘वात्मा᳘नौ प्राणे᳘न सं᳘तताव᳘व्यवच्छिन्नौ भ᳘वत ऽइ᳘ति प्राणो वै᳘ स्वयमातृण्णा᳘ प्राणो᳘ दूर्व्वेष्टका य᳘जमानो द्वि᳘यजुः स यद᳘नन्तर्हिताᳫँ᳭ स्वयमातृण्णा᳘यै दूर्व्वेष्टका᳘मुपद᳘धाति प्राणे᳘नैव त᳘त्प्राणᳫँ᳭ सं᳘तनोति सं᳘दधात्य᳘थ यद᳘नन्तर्हितां दूर्व्वेष्टका᳘यै द्वि᳘यजुषमुपद᳘धाति प्राणो वै᳘ दूर्व्वेष्टका य᳘जमानो द्वि᳘यजुरेव᳘मु हास्यैता᳘वात्मा᳘नौ प्राणे᳘न सं᳘तताव᳘व्यवच्छिन्नौ भवतः॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
कथ᳘मस्यैता᳘वात्मा᳘नौ प्राणे᳘न सं᳘तताव᳘व्यवच्छिन्नौ भ᳘वत ऽइ᳘ति प्राणो वै᳘ स्वयमातृण्णा᳘ प्राणो᳘ दूर्व्वेष्टका य᳘जमानो द्वि᳘यजुः स यद᳘नन्तर्हिताᳫँ᳭ स्वयमातृण्णा᳘यै दूर्व्वेष्टका᳘मुपद᳘धाति प्राणे᳘नैव त᳘त्प्राणᳫँ᳭ सं᳘तनोति सं᳘दधात्य᳘थ यद᳘नन्तर्हितां दूर्व्वेष्टका᳘यै द्वि᳘यजुषमुपद᳘धाति प्राणो वै᳘ दूर्व्वेष्टका य᳘जमानो द्वि᳘यजुरेव᳘मु हास्यैता᳘वात्मा᳘नौ प्राणे᳘न सं᳘तताव᳘व्यवच्छिन्नौ भवतः॥

मूलम् - Weber

त᳘दाहुः॥
कथ᳘मस्यैता᳘वात्मा᳘नौ प्राणे᳘न सं᳘तताव᳘व्यवछिन्नौ भ᳘वत इ᳘ति प्राणो वै᳘ स्वयमातृणा᳘ प्राणो᳘ दूर्वेष्टका य᳘जमानो द्वि᳘यजुः स यद᳘नन्तर्हिताᳫं स्वयमातृणा᳘यै दूर्वेष्टका᳘मुपद᳘धाति प्राणे᳘णैव त᳘त्प्राणᳫं सं᳘तनोति सं᳘दधात्य᳘थ यद᳘नन्तर्हितां दूर्वेष्टका᳘यै द्वि᳘यजुषमुपद᳘धाति प्राणो वै᳘ दूर्वेष्टका य᳘जमानो द्वि᳘यजुरेव᳘मु हास्यैता᳘वात्मा᳘नौ प्राणे᳘न सं᳘तताव᳘व्यवछिन्नौ भवतः॥

मूलम् - विस्वरम्

तदाहुः- कथमस्यैतावात्मानौ प्राणेन सन्ततावव्यवच्छिन्नौ भवत इति । प्राणो वै स्वयमातृण्णा । प्राणो दूर्वेष्टका । यजमानो द्वियजुः । स यदनन्तर्हितां स्वयमातृण्णायै दूर्वेष्टकामुपदधाति- प्राणेनैव तत्प्राणं सन्तनोति; सन्दधाति । अथ यदनन्तर्हितां दूर्वेष्टकायै द्वियजुषमुपदधाति- प्राणो वै दूर्वेष्टका, यजमानो द्वियजुः- एवम् हास्यैतावात्मानौ प्राणेन सन्ततावव्यवच्छिन्नौ भवतः ॥ २० ॥

सायणः

ययमानस्य हिरण्मयपुरुषो दैवं शरीरं द्वियजुस्तु मानुषमित्युक्तम्; तयोर्मध्ये स्वयमातृण्णादूर्वेष्टकयोरुपधानेन व्यवधानाच्छरीरद्वयस्यापि प्राणेन कथमव्यवच्छेद इति याज्ञिकानां प्रश्नमवतारयति- तदाहुरिति । ‘सन्ततौ’ इत्यस्यैव विवरणम्- ‘अव्यवच्छिन्नौ’ इति । उक्तस्योत्तरं दर्शयति- प्राणो वा इत्यादिना । “प्राणो वै स्वयमातृण्णा प्राणो ह्येवैतत्स्वयमात्मन आतृन्ते”- इति स्वयमातृण्णायाः प्राणत्वमुक्तम् (श. प. ७ । ४ । २ । २) “अथास्मात् प्राणो मध्यत उदक्रामत्”- इत्यादिना प्राणरस एव दूर्वा ऽभूदित्यप्युक्तम् (श. प. ७ । ४ । २ । ११) ‘सन्तनोति’ इत्येतदेव विवृणोति- सन्दधातीति । स्पष्टमन्यत् ॥ २० ॥

Eggeling
  1. Here now they say, ‘How do those two bodies of his come to be connected together by the breath, and not severed?’ Well, the naturally-perforated (brick) is the breath, and the dūrvā-brick is the breath, and the dviyajus (-brick) is the Sacrificer:

and inasmuch as he lays down the dūrvā-brick close to the naturally-perforated one, he thereby connects and joins breath with breath; and inasmuch as he lays down the dviyajus one close to the dūrvā-brick–the dūrvā-brick being the breath, and the dviyajus the Sacrificer–those two bodies of his (the human one and the divine one) thus become connected together by the breath, and not severed.

२१

विश्वास-प्रस्तुतिः

(तो) या᳘स्ते ऽअग्ने सू᳘र्य्ये रु᳘चः॥
(चो) या᳘ वो देवाः सू᳘र्य्ये रु᳘च ऽइ᳘ति रु᳘चᳫँ᳭ रु᳘चमि᳘त्यमृतत्वं वै रु᳘गमृतत्व᳘मे᳘वास्मिन्नेत᳘द्दधाति द्वा᳘भ्यामु᳘पदधाति त᳘स्योक्तो ब᳘न्धुर᳘थो द्वय᳘ᳫँ᳘[[!!]] ह्ये᳘वैत᳘द्रूपं मृच्चा᳘पश्च सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(तो) या᳘स्ते ऽअग्ने सू᳘र्य्ये रु᳘चः॥
(चो) या᳘ वो देवाः सू᳘र्य्ये रु᳘च ऽइ᳘ति रु᳘चᳫँ᳭ रु᳘चमि᳘त्यमृतत्वं वै रु᳘गमृतत्व᳘मे᳘वास्मिन्नेत᳘द्दधाति द्वा᳘भ्यामु᳘पदधाति त᳘स्योक्तो ब᳘न्धुर᳘थो द्वय᳘ᳫँ᳘[[!!]] ह्ये᳘वैत᳘द्रूपं मृच्चा᳘पश्च सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

या᳘स्ते अग्ने सू᳘र्ये रु᳘चो॥
या᳘ वो देवाः सू᳘र्ये रु᳘च इ᳘ति रु᳘चं रु᳘चमि᳘त्यमृतत्वं वै रु᳘गमृतत्व᳘मेॗवास्मिन्नेत᳘द्दधाति द्वा᳘भ्यामु᳘पदधाति त᳘स्योक्तो ब᳘न्धुर᳘थो द्वॗयᳫं ह्येॗवैत᳘द्रूपम् मृच्चा᳘पश्च सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“यास्ते ऽअग्ने सूर्ये रुचः”- “या वो देवाः सूर्ये रुचः”- (वा० सं० १३ । २२, २३) इति । चं रुचमिति- अमृतत्वं वै रुक् । अमृतत्वमेवास्मिन्नेतदधाति । द्वाभ्यामुपदधाति । तस्योक्तो बन्धुः । अथो द्वयं ह्येवैतद्रूपम्- मृच्चापश्च । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ २१ ॥

सायणः

द्वियजुष उपधाने मन्त्रौ विधत्ते- यास्ते अग्ने इति । “यास्ते अग्ने सूर्ये रुचो” “या वो देवाः सूर्ये रुचः”- इत्येताभ्यां मन्त्राभ्यां द्वियजुषमुपदध्यादित्यर्थः । मन्त्रयोः पुनः पुना रुक्पदप्रयोगस्याभिप्रायमाह- रुचं रुचमिति । ‘अस्मिन्’ इति । यजमाने इत्यर्थः । मन्त्रयोस्त्वयमर्थः- है अग्ने ! ‘ते’ तव ‘सूर्ये’ सूर्यमण्डले या ‘रुचो’ दीप्तयो ‘रश्मिभिः’ रश्मिरूपेण ‘दिवमातन्वन्ति’ सर्वतो व्याप्नुवन्ति । रात्रौ या अग्नेर्दीप्तयस्ता एव सूर्योदयकाले सूर्यरश्मयो भवन्ति । एतच्च तैत्तिरीयके ऽग्निहोत्रब्राह्मणे समाम्नातम्- “उद्यन्तं वावादित्यमग्निरनुसमारोहति”- (तै. ब्रा. २ । २ । १०) इति । ‘ताभिः सर्वाभिः’ दीप्तिभिः ‘नः’ अस्मत्सम्बन्धिने ‘जनाय’ यजमामलक्षणाय ‘रुचे’ ‘कृधि’ प्रकाशं कुरु, ‘रुचे’ (पा. सू. ३ । १ । ८५) इति विभक्तिव्यत्ययः, रुचमित्यर्थः । नस्कृधीति “कः करत्करति” (पा. सू. ८ । ३ । ५०) इत्यादिना विसर्जनीयस्य सकारः । हे देवाः ! ‘वः’ युष्माकं सम्बन्धिन्यः सूर्यमण्डले वर्त्तमानाः ‘या रुचः’ दीप्तयः सन्ति, ‘ताभिः सर्वाभिः’ दीप्तिभिः हे- ‘इन्द्राग्नी’ हे- ‘बृहस्पते’ ! त्रयो ऽपि यूयं ‘नः’ अस्मत्सम्बन्धिने यजमानाय ‘रुचं धत्त’ प्रकाशं सम्पादयत । ननु चायं मन्त्रो ऽध्वर्युणा पठ्यते । ततश्च रुचं नो धत्तेति लिङ्गेन मन्त्रमुच्चारयितुरध्वर्योरेव तत्फलं युज्यते; अतो ‘न’ इति पदं किमित्युपचरितमिति चेन्न-यजेतेत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते । न च परिक्रीतस्याध्वर्योर्दक्षिणातिरिक्तफलसम्बन्धो न्याय्यः । तस्माच्छ्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम्, तस्माद्यजमानेन पाठ्येषु “आयुर्दा अग्ने ऽस्यायुर्मे देहि" इत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानमेव । तथैवाध्वर्युणा पाठ्यषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव । द्वाभ्यामित्यादिकं पूर्वं व्याख्यातम् । प्रकारान्तरेणापि द्वित्वं प्रशंसति- अथो द्वयमिति । द्विविधं रूपमस्तीति तदुपधानमन्त्रयोरपि द्वित्वमुपपद्यत इत्यर्थः । व्याख्यातमुत्तरं वाक्यम् ॥ २१ ॥

Eggeling
  1. [He lays down the dviyajus brick, with Vāj. S. XIII, 22, 23] ‘O Agni, what lights of thine in the sun overspread the sky by their beams, with all those help us to light and to people!–O ye gods, what lights of yours are in the sun, and what lights are in kine and horses, O Indra and Agni, with all those bestow light upon us, O Br̥haspati!’ for ’light’ he prays each time: light being immortality, it is immortality he thus bestows on him (Agni, and the Sacrificer). With two (verses) he lays it down: the significance of this has been explained. And, moreover, it is because that material form (of the brick) is a twofold one, (consisting as it does of) clay and water. Having ‘settled’ it, he pronounces the Sūdadohas upon it: the significance of this has been explained.

२२

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ रेतःसि᳘चा ऽउ᳘पदधाति॥
(ती) इमौ वै᳘ लोकौ᳘ रेतःसि᳘चाविमौ᳘ ह्येव᳘ लोकौ रे᳘तः सिञ्च᳘त ऽइतो वा᳘ ऽअय᳘मूर्ध्वᳫँ᳭ रे᳘तः सिञ्चति धूम᳘ᳫँ᳘ सा ऽमु᳘त्र व्वृ᳘ष्टिर्भवति ता᳘मसा᳘वमु᳘तो व्वृ᳘ष्टिं त᳘दिमा ऽअ᳘न्तरेण प्रजाः प्र᳘जायन्ते त᳘स्मादिमौ᳘ लोकौ᳘ रेतःसि᳘चौ॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ रेतःसि᳘चा ऽउ᳘पदधाति॥
(ती) इमौ वै᳘ लोकौ᳘ रेतःसि᳘चाविमौ᳘ ह्येव᳘ लोकौ रे᳘तः सिञ्च᳘त ऽइतो वा᳘ ऽअय᳘मूर्ध्वᳫँ᳭ रे᳘तः सिञ्चति धूम᳘ᳫँ᳘ सा ऽमु᳘त्र व्वृ᳘ष्टिर्भवति ता᳘मसा᳘वमु᳘तो व्वृ᳘ष्टिं त᳘दिमा ऽअ᳘न्तरेण प्रजाः प्र᳘जायन्ते त᳘स्मादिमौ᳘ लोकौ᳘ रेतःसि᳘चौ॥

मूलम् - Weber

अ᳘थ रेतःसि᳘चा उ᳘पदधाति॥
इमौ वै᳘ लोकौ᳘ रेतःसि᳘चाविमौॗ ह्येव᳘ लोकौ रे᳘तः सिञ्च᳘त इतो वा᳘ अय᳘मूर्ध्वं रे᳘तः सिञ्चति धूॗमᳫं सामु᳘त्र वृ᳘ष्टिर्भवति ता᳘मसा᳘वमु᳘तो वृ᳘ष्टिं त᳘दिमा अ᳘न्तरेण प्र᳘जायन्ते त᳘स्मादिमौ᳘ लोकौ᳘ रेतःसि᳘चौ॥

मूलम् - विस्वरम्

अथ रेतःसिगिष्टकाद्वयोपधानम् ।

अथ रेतःसिचा ऽउपदधाति । इमौ वै लोकौ रेतःसिचौ । इमौ ह्येव लोकौ रेतः सिञ्चतः- इतो वा ऽअयमूर्ध्वं रेतः सिञ्चति धूमम्, सा ऽमुत्र वृष्टिर्भवति । तामसावमुतो वृष्टिम् । तदिमा अन्तरेण प्रजाः प्रजायन्ते- तस्मादिमौ लोकौ रेतःसिचौ ॥ २२ ॥

सायणः

अथ रेतःसिङ्नामधेययोरिष्टकयोरुपधानं विधत्ते- अथ रेतःसिचा इति 15 । “लोपः शाकल्यस्य” (पा. सू. ८ । ३ । १९ ।) इति वकारलोपः । विहिते इष्टके पृथिवीद्युलोकात्मना प्रशंसति- इमौ वै लोकावित्यादिना । तत्रानयोर्लोकयोः रेतःसिक्त्वप्रतिपिपादयिषयोक्तम्- इमौ वै लोकाविति । तद्रेतःसेचनमनयोः प्रत्यक्षसिद्धमित्याह- इमौ ह्येवेति । इतो वा अयमित्यादिना तदेव प्रत्यक्षत्वं दर्शयति- ‘अयम्’ लोकः ‘इतः’ अस्मात् प्रदेशाद् धूमलक्षणं ‘रेतः’ ‘सिञ्चति’ ‘सा’ धूमः ‘अमुत्र’ द्युलोके ‘वृष्टिर्भवति’ सेति स्त्रीलिङ्गं वृष्ट्यपेक्षम्, धूमस्य मेघकारणत्वात्, तद्द्वारा वृष्टिकारणत्वाद्धूमो वृष्टिरिति कारणे कार्यत्वोपचारः । ‘तां’ ‘वृष्टिम्’ ‘असौ’ द्युलोको ऽमुष्मात् प्रदेशात् सिञ्चति तस्मादनयोर्लोकयोर्मध्ये वृष्टिपरिणतान्नद्वारा प्रजाः प्रजायन्ते । श्रूयते हि- “अन्नाद्वै प्रजाः प्रजायन्ते”- (तै. उ. २ वल्ली) इति । अन्यत्राप्युक्तम्- “वृष्टेरन्नं ततः प्रजाः"- (मनु. ३ । ७६) इति । ‘तस्मादिमौ’ लोकौ ‘रेतःसिचौ’ रेतःसिचोरनयोर्लोकयो रूपेणानुसन्धानादिष्टके अपि रेतःसिचावित्युच्येते ॥ २२ ॥

Eggeling
  1. He then lays down two Retaḥsic (seed-shedding bricks);–the seed-shedders doubtless are these two worlds, for these two worlds do shed seed;–this (terrestrial world) sheds seed upwards from here (in the form of) smoke; it becomes rain in yonder world, and that rain yonder world (sheds) from above: hence (creatures) are born within these two worlds, and therefore these two worlds are seed-shedders.

२३

विश्वास-प्रस्तुतिः

व्विराड्ज्यो᳘तिरधारयदि᳘ति॥
(त्य) अयं वै᳘ लोको᳘ व्विराट् स᳘ ऽइम᳘मग्निं ज्यो᳘तिर्धारयति स्वराड्ज्यो᳘तिरधारयदि᳘त्यसौ वै᳘ लोकः᳘ स्वरा᳘ट् सो ऽमु᳘मादित्यं ज्यो᳘तिर्धारयति व्विराड्व᳘हेमौ᳘ लोकौ᳘ स्वरा᳘ट् च नानो᳘पदधाति ना᳘ना᳘ हीमौ[[!!]] लोकौ᳘ सकृ᳘त्सादयति समानं त᳘त्करोति त᳘स्मादु हान᳘योर्लोक᳘योर᳘न्ताः समा᳘यन्ति॥

मूलम् - श्रीधरादि

व्विराड्ज्यो᳘तिरधारयदि᳘ति॥
(त्य) अयं वै᳘ लोको᳘ व्विराट् स᳘ ऽइम᳘मग्निं ज्यो᳘तिर्धारयति स्वराड्ज्यो᳘तिरधारयदि᳘त्यसौ वै᳘ लोकः᳘ स्वरा᳘ट् सो ऽमु᳘मादित्यं ज्यो᳘तिर्धारयति व्विराड्व᳘हेमौ᳘ लोकौ᳘ स्वरा᳘ट् च नानो᳘पदधाति ना᳘ना᳘ हीमौ[[!!]] लोकौ᳘ सकृ᳘त्सादयति समानं त᳘त्करोति त᳘स्मादु हान᳘योर्लोक᳘योर᳘न्ताः समा᳘यन्ति॥

मूलम् - Weber

विराड्ज्यो᳘तिरधारयदि᳘ति॥
अयं वै᳘ लोको᳘ विराट् स᳘ इम᳘मग्निं ज्यो᳘तिर्धारयति स्वराड्ज्यो᳘तिरधारयदि᳘त्यसौ वै᳘ लोकः᳘ स्वराट् सो मु᳘मादित्यं ज्यो᳘तिर्धारयति विराड्व᳘हेमौ᳘ लोकौ᳘ स्वरा᳘ट्च नानो᳘पदधाति ना᳘नाॗ हीमौ᳘ लोकौ᳘ सकृ᳘त्सादयति समानं त᳘त्करोति त᳘स्मादु हान᳘योर्लोक᳘योर᳘न्ताः समा᳘यन्ति॥

मूलम् - विस्वरम्

“विराड्ज्योतिरधारयत्”- इति । अयं वै लोको विराट् । स इममग्निं ज्योतिर्धारयति । “स्वराड्ज्योतिरधारयत्”- इति । असौ वै लोकः स्वराट् । सो ऽमुमादित्यं ज्योतिर्धारयति । विराड्वहेमौ लोकौ, स्वराट् च । नानोपदधाति । नाना हीमौ लोकौ । सकृत्सादयति । समानं तत्करोति । तस्मादु हानयोर्लोकयोरन्ताः समायन्ति ॥ २३ ॥

सायणः

तत्र प्रथमाया उपधाने मन्त्रं विधाय व्याचष्टे- विराड्ज्योतिरिति । ‘अयम्’ ‘लोकः’ पृथिवी, ‘विराट्’- शब्देनाभिधीयते । ‘स’ च ‘इमम्’ अस्मदादीनां प्रत्यक्षमग्निरूपं ‘ज्योतिर्धारयति,’ प्रथमा रेतःसिग्भूलोकात्मिकेत्युक्तम् । तस्मात् प्रथमरेतःसिगात्मको विराट्शब्दाभिधेयो भूलोको ऽग्निरूपं ‘ज्योतिर्धारयति’ । स्वराड्ज्योतिरिति । द्वितीयोपधानमन्त्रः, सो ऽप्येवमेव व्याख्येयः । ‘अनयोर्लोकयोः’ विराट्स्वराट्शब्दाभिधेयत्वमेवोपपादयति- विराड्वहेमाविति । विविधं राजत इति ‘विराट्’ । स्वयमेव राजत इति ‘स्वराट्’ । तयोः पृथक्पृथङ्मन्त्रेणोपधानमाह- नानोपदधातीति । यतः ‘इमौ’ ‘लोकौ’ ‘नाना’ पृथग्भूतौ, तस्मात्तदात्मिकयोरिष्टकयोरुपधानं पृथक्पृथङ्मन्त्रेण कर्त्तव्यमित्यर्थः । उपधानमन्त्रवत्सादनमन्त्रस्यापि पार्थक्येन प्राप्तावाह- सकृदिति 16 । “तया देवतया ऽङ्गिरस्वद्ध्रुवा सीद”- इत्ययं सादनमन्त्रस्तमेकवारमुच्चार्य सादयेत् । न तु प्रतीष्टकमित्यर्थः । तेन तदुपधानं ‘समानम्’ ‘करोति’ ‘तस्माद्’ ‘अनयोर्लोकयोरन्ताः’ प्रान्ताः ‘समायन्ति’ परस्परं संबद्धा भवन्ति । अन्तरिक्षभागा हि पृथिवीभागैः सम्बध्यन्त इत्येतत् प्रत्यक्षसिद्धमेव ॥ २३ ॥

Eggeling
  1. [He lays them down, with Vāj. S. XIII, 24]

‘The wide-ruling one contained the light;’ the wide-ruling ones doubtless is this (terrestrial) world: it contains this fire, the light.–‘The self-ruling one contained the light,’ the self-ruling 17 one doubtless is yonder world: it contains yonder sun, the light. And the wide-ruling one and the self-ruling one being these two worlds, he lays them down separately, for separate are these two worlds. He ‘settles’ them once: he thereby makes them one and the same (or, joined together), whence the ends of these two worlds meet.

२४

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ रेतःसि᳘चा ऽउपद᳘धाति॥
(त्या) आण्डौ वै᳘ रेतःसि᳘चौ य᳘स्य᳘ ह्याण्डौ भ᳘वतः स᳘ ऽएव रे᳘तः सिञ्चति व्विराड्ज्यो᳘तिरधारयत्स्वराड् ज्यो᳘तिरधारयदि᳘ति व्विरा᳘ड्व᳘हेमा᳘वाण्डौ᳘ स्वरा᳘ट् च ता᳘वेतज्ज्यो᳘तिर्धारयतो रे᳘त ऽएव᳘ प्र᳘जातिमेव [[!!]] नानो᳘पदधाति ना᳘ना᳘ होमा᳘वाण्डौ᳘ सकृ᳘त्सादयति समानं त᳘त्करोति त᳘स्मात्समान᳘सम्बन्धनौ ते ऽअ᳘नन्तर्हिते द्वि᳘यजुष ऽउ᳘पदधाति य᳘जमानो वै द्वि᳘यजुर᳘नन्तर्हितौ तद्य᳘जमानादाण्डौ᳘ दधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ रेतःसि᳘चा ऽउपद᳘धाति॥
(त्या) आण्डौ वै᳘ रेतःसि᳘चौ य᳘स्य᳘ ह्याण्डौ भ᳘वतः स᳘ ऽएव रे᳘तः सिञ्चति व्विराड्ज्यो᳘तिरधारयत्स्वराड् ज्यो᳘तिरधारयदि᳘ति व्विरा᳘ड्व᳘हेमा᳘वाण्डौ᳘ स्वरा᳘ट् च ता᳘वेतज्ज्यो᳘तिर्धारयतो रे᳘त ऽएव᳘ प्र᳘जातिमेव [[!!]] नानो᳘पदधाति ना᳘ना᳘ होमा᳘वाण्डौ᳘ सकृ᳘त्सादयति समानं त᳘त्करोति त᳘स्मात्समान᳘सम्बन्धनौ ते ऽअ᳘नन्तर्हिते द्वि᳘यजुष ऽउ᳘पदधाति य᳘जमानो वै द्वि᳘यजुर᳘नन्तर्हितौ तद्य᳘जमानादाण्डौ᳘ दधाति॥

मूलम् - Weber

य᳘द्वेव᳘ रेतःसि᳘चा उपद᳘धाति॥
आण्डौ वै᳘ रेतःसि᳘चौ य᳘स्यॗ ह्याण्डौ भ᳘वतः स᳘ एव रे᳘तः सिञ्चति विराड्ज्यो᳘तिरधारयत्स्वराड्ज्यो᳘तिरधारयदि᳘ति विराड्व᳘हेमा᳘वाण्डौ᳘ स्वरा᳘ट्च ता᳘वेतज्ज्यो᳘तिर्धारयतो रे᳘त एव᳘ प्रजा᳘पतिमेव नानो᳘पदधाति ना᳘नाॗ होमा᳘वाण्डौ᳘ सकृ᳘त्सादयति समानं त᳘त्करोति त᳘स्मात्समान᳘सम्बन्धनौ ते अ᳘नन्तर्हिते द्वि᳘यजुष उ᳘पदधाति य᳘जमानो वै द्वि᳘यजुर᳘नन्तर्हितौ तद्य᳘जमानादाण्डौ᳘ दधाति॥

मूलम् - विस्वरम्

यद्वेव रेतःसिचा ऽउपदधाति । आण्डौ वै रेतःसिचौ । यस्य ह्याण्डौ भवतः- स एव रेतः सिञ्चति । “विराड्ज्योतिरधारयत्स्वराड्ज्योतिरधारयत्”- इति । विराड्वहेमावाण्डौ स्वराट् च । तावेतज्ज्योतिर्धारयतो रेत एव, प्रजातिमेव । नानोपदधाति । नाना हीमावाण्डौ । सकृत्सादयति । समानं तत् करोति । तस्मात्समानसम्बन्धनौ । ते ऽअनन्तर्हिते द्वियजुष उपदधाति । यजमानो वै द्वियजुः । अनन्तर्हितौ तद्यजमानादाण्डौ दधाति ॥ २४ ॥

सायणः

अथ तदेवेष्टकाद्वयमाण्डात्मना स्तौति- यद्वेवेति । अण्डशब्दात् स्वार्थिको ऽण्-प्रत्ययः । ‘आण्डौ’ इति पुरुषसम्बन्धिनी बीजे उच्येते । ‘यस्य ह्याण्डौ भवतः’ इत्यादिना आण्डयो रेतःसिक्त्वं प्रतिपादितम् । विराड्वहेमाविति । आण्डयोः प्रजोत्पादनसामर्थ्याद्विराट्त्वं च प्रत्यक्षमित्यर्थः । ‘प्रजाति’- शब्देन प्रजोत्पादनमभिधीयते, रेतसः प्रजातेश्च प्रजा लक्ष्यन्त इति तत्प्रकाशकत्वाज्योतिष्ट्वमित्यवगन्तव्यम् । समानसम्बन्धनाविति । एकरूपसम्बन्धनावित्यर्थः । प्रकृतयोरिष्टकयोः स्थानविशेषमाह- ते ऽअनन्तर्हिते इति । द्वियजुषोः समीपे ऽव्यवधानेनोपधानं किमर्थमित्यत आह- यजमानो वा इति ॥ २४ ॥

Eggeling
  1. And, again, why he lays down two seed-shedders; the seed-shedders are the testicles, for only he who has testicles sheds seed. ‘The wide-ruling one contained the light;–the self-ruling one contained the light,’ he says; for the wide-ruling and the self-ruling ones are the testicles: they contain that light, the seed, Prajāpati. He lays them down separately, for separate are these testicles. He ‘settles’ them once: he thereby makes them one and the same, whence they have a common connecting-part. He lays them down close to the dviyajus (brick) 18: the dviyajus being the Sacrificer, he thus puts the testicles together with the Sacrificer.

२५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्विश्व᳘ज्योतिषमु᳘पदधाति॥
(त्य) अग्निर्वै᳘ प्रथमा᳘ व्विश्व᳘ज्योतिरग्नि᳘र्ह्ये᳘वास्मिल्ँ᳘लोके व्वि᳘श्वं ज्यो᳘तिरग्नि᳘मे᳘वैतदु᳘पदधाति ताम᳘नन्तर्हिताᳫँ᳭ रेतःसि᳘ग्भ्यामु᳘पदधातीमौ वै᳘ लोकौ᳘ रेतःसि᳘चाव᳘नन्तर्हितं त᳘दाभ्यां᳘ लोका᳘भ्यामग्निं᳘ दधात्यन्त᳘रेवो᳘पदधात्यन्त᳘रेव᳘ हीमौ᳘ लोका᳘वग्निः[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्विश्व᳘ज्योतिषमु᳘पदधाति॥
(त्य) अग्निर्वै᳘ प्रथमा᳘ व्विश्व᳘ज्योतिरग्नि᳘र्ह्ये᳘वास्मिल्ँ᳘लोके व्वि᳘श्वं ज्यो᳘तिरग्नि᳘मे᳘वैतदु᳘पदधाति ताम᳘नन्तर्हिताᳫँ᳭ रेतःसि᳘ग्भ्यामु᳘पदधातीमौ वै᳘ लोकौ᳘ रेतःसि᳘चाव᳘नन्तर्हितं त᳘दाभ्यां᳘ लोका᳘भ्यामग्निं᳘ दधात्यन्त᳘रेवो᳘पदधात्यन्त᳘रेव᳘ हीमौ᳘ लोका᳘वग्निः[[!!]]॥

मूलम् - Weber

अ᳘थ विश्व᳘ज्योतिषमु᳘पदधाति॥
अग्निर्वै᳘ प्रथमा विश्व᳘ज्योतिरग्निॗर्ह्येॗवास्मिं᳘लोके वि᳘श्वं ज्यो᳘तिरग्नि᳘मेॗवैतदु᳘पदधाति ताम᳘नन्तर्हितां रेतःसि᳘ग्भ्यामु᳘पदधातीमौ वै लोकौ᳘ रेतःसि᳘चाव᳘नन्तर्हितं त᳘दाभ्यां᳘ लोका᳘भ्यामग्निं᳘ दधात्यन्त᳘रेवो᳘पदधात्यन्त᳘रेवॗ हीमौ᳘ लोका᳘वग्निः᳟॥

मूलम् - विस्वरम्

अथ विश्वज्योतिरिष्टकोपधानम् ।

अथ विश्वज्योतिषमुपदधाति । अग्निर्वै प्रथमा विश्वज्योतिः । अग्निर्ह्येवास्मिंल्लोके विश्वं ज्योतिः । अग्निमेवैतदुपदधाति । तामनन्तर्हितां रेतःसिग्भ्यामुपदधाति । इमौ वै लोकौ रेतःसिचौ । अनन्तर्हितं तदाभ्यां लोकाभ्यामग्निं दधाति । अन्तरेवोपदधाति । अन्तरेव हीमौ लोकावग्निः ॥ २५ ॥

सायणः

रेतःसिचोरुपधानानन्तरं विश्वज्योतिराख्याया इष्टकाया उपधानं विधाय तामग्न्यात्मना स्तौति- अथेति । स्वयमातृण्णा इव विश्वज्योतिषो ऽपि तिस्रो विद्यन्ते, अतो ऽत्र ‘प्रथमा’ इति विशेषणम् । ‘अस्मिल्ँ लोके’ भुवि यत्किञ्चन ‘ज्योतिः’ अस्ति, तत् सर्वमग्निमयम् ‘एव’ इति । ‘अग्निर्विश्वज्योतिः’- इति तदात्मकत्वेनानुसन्धानादिष्टका ऽपि विश्वज्योतिः, अतस्तदुपधाने ऽग्निमेवोपहितवान् भवतीति । विधत्ते- तामनन्तर्हितामिति । ‘ताम्’ विश्वज्योतिषं ‘रेतःसिग्भ्याम्’ ‘अनन्तर्हिताम्’ अव्यवहितां तत्संस्पर्शेनोपदध्यात् । तथा सति रेतःसिचोः पृथिवीद्युलोकात्मकत्वात् ताभ्यामव्यवहितमेव ‘अग्निं दधाति’ । क्वचित्पार्श्वे ऽपि तत्संस्पर्शेनोपधाने ऽव्यवधानमुपपद्यत इत्यत आह- अन्तरेवेति । अन्तरेव हीति । ‘अन्तरा’ ‘इव’ इति पदविभागः । ‘इव’- शब्द एवकारार्थः । “अन्तरान्तरेणयुक्ते”- (पा. सू. २ । ३ । ४ ।) इत्यनेन ‘इमौ’ इति द्वितीया । अनयोर्लोकयोर्मध्ये पृथिव्या उपरि अन्तरिक्षे खल्वग्निः प्रकाशते तस्मान्मध्यत उपधानम् ॥ २५ ॥

Eggeling
  1. He then lays down a Viśvajyotis (all-light brick) 19;–the first ‘all-light’ (brick) 20 is Agni, for Agni

is all the light in this (terrestrial) world: it is Agni he thus lays down. He lays it down close to the seed-shedding ones,–the seed-shedding ones being these two worlds, he thus places Agni together with these two worlds. He lays it down between (the two Retaḥsic 21), for Agni (the fire) is within these two worlds.

२६

विश्वास-प्रस्तुतिः

(र्य᳘) य᳘द्वेव᳘ व्विश्व᳘ज्योतिषमुपद᳘धाति॥
प्रजा वै᳘ व्विश्व᳘ज्योतिः प्रजा᳘ ह्येव व्वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमे᳘वैतदु᳘पदधाति ताम᳘नन्तर्हिताᳫँ᳭ रेतःसि᳘ग्भ्यामु᳘पदधात्याण्डौ वै᳘ रेतःसि᳘चाव᳘नन्तर्हितां त᳘दाण्डा᳘भ्यां प्र᳘जातिं दधात्यन्त᳘रेवो᳘पदधात्यन्त᳘रेव᳘ ह्याण्डौ᳘ प्रजाः᳘ प्रजा᳘यन्ते॥

मूलम् - श्रीधरादि

(र्य᳘) य᳘द्वेव᳘ व्विश्व᳘ज्योतिषमुपद᳘धाति॥
प्रजा वै᳘ व्विश्व᳘ज्योतिः प्रजा᳘ ह्येव व्वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमे᳘वैतदु᳘पदधाति ताम᳘नन्तर्हिताᳫँ᳭ रेतःसि᳘ग्भ्यामु᳘पदधात्याण्डौ वै᳘ रेतःसि᳘चाव᳘नन्तर्हितां त᳘दाण्डा᳘भ्यां प्र᳘जातिं दधात्यन्त᳘रेवो᳘पदधात्यन्त᳘रेव᳘ ह्याण्डौ᳘ प्रजाः᳘ प्रजा᳘यन्ते॥

मूलम् - Weber

य᳘द्वेव᳘ विश्व᳘ज्योतिषमुपद᳘धाति॥
प्रजा वै᳘ विश्व᳘ज्योतिः प्रजाॗ ह्येव वि᳘श्वं ज्यो᳘तिः प्रज᳘ननमेॗवैतदु᳘पदधाति ताम᳘नन्तर्हितां रेतःसि᳘ग्भ्यामु᳘पदधात्याण्डौ वै᳘ रेतःसि᳘चाव᳘नन्तर्हितां त᳘दाण्डा᳘भ्याम् प्र᳘जातिं दधात्यन्तरेवो᳘पदधात्यन्त᳘रेवॗ ह्याण्डौ᳘ प्रजाः᳘ प्रजा᳘यन्ते॥

मूलम् - विस्वरम्

यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः । प्रजा ह्येव विश्वं ज्योतिः । प्रजननमेवैतदुपदधाति । तामनन्तर्हितां रेतःसिग्भ्यामुपदधाति । आण्डौ वै रेतःसिचौ । अनन्तर्हितां तदाण्डाभ्यां प्रजातिं दधाति । अन्तरेवोपदधाति । अन्तरेव ह्याण्डौ प्रजाः प्रजायन्ते ॥ २६ ॥

सायणः

अथैतामिष्टकां प्रजात्मना ऽपि प्रशंसति- यद्वेवेति । ‘प्रजा’ हि ‘विश्वज्योतिः’ यतः प्रजा ज्ञानशक्त्या सर्वान् पदार्थान् प्रकाशयति तस्मात् ‘प्रजा विश्वं ज्योतिः’ इत्येतदपरोक्षम् । अतः प्रजा विश्वज्योतिः । तथा सति ‘एतद्’ इष्टकोपधानेन ‘प्रजननम्’ प्रजोत्पादनम् ‘एव’ उपहितवान् भवति । प्रजायाः प्रजोत्पादनस्य कार्यकारणभावादभेदविवक्षयैवमुक्तम् । रेतःसिचोराण्डत्वाद्विश्वज्योतिषश्च प्रजात्वात्ताभ्यामव्यवहितत्वेन मध्यत उपधाने प्रजोत्पादनमेवाण्डयोर्निहितं भवतीति दर्शयति- तामनन्तर्हितामिति । अन्तरेव ह्याण्डाविति । आण्डयोर्मध्यत एव रेतोनिर्गमनद्वारत्वात्तत एव ‘प्रजाः’ ‘प्रजायन्ते’ ॥ २६ ॥

Eggeling
  1. And, again, why he lays down an ‘all-light’ (brick);–the ‘all-light’ (brick) is progeny, for progeny is all the light: he thus lays generative power (into Agni). He lays it down so as not to be separated from the seed-shedding (bricks),–the seed-shedders being the testicles, he thus makes the generative power inseparable from the testicles. He lays it down between (those two), for within the testicles progeny is produced.

२७

विश्वास-प्रस्तुतिः

प्रजा᳘पतिष्ट्वा सादयत्वि᳘ति॥
प्रजा᳘पति᳘र्ह्येतां᳘ प्रथमां चि᳘तिम᳘पश्यत्पृष्ठे᳘ पृथिव्या ज्यो᳘तिष्मतीमि᳘ति पृष्ठे᳘ ह्ययं᳘ पृथिव्यै ज्यो᳘तिष्मानग्निः[[!!]]॥

मूलम् - श्रीधरादि

प्रजा᳘पतिष्ट्वा सादयत्वि᳘ति॥
प्रजा᳘पति᳘र्ह्येतां᳘ प्रथमां चि᳘तिम᳘पश्यत्पृष्ठे᳘ पृथिव्या ज्यो᳘तिष्मतीमि᳘ति पृष्ठे᳘ ह्ययं᳘ पृथिव्यै ज्यो᳘तिष्मानग्निः[[!!]]॥

मूलम् - Weber

प्रजा᳘पतिष्ट्वा सादयत्वि᳘ति॥
प्रजा᳘पतिॗर्ह्येता᳘म् प्रथमां चि᳘तिम᳘पश्यत्पृष्ठे᳘ पृथिव्या ज्यो᳘तिष्मतीमि᳘ति पृष्ठे ह्य᳘य᳘म् पृथिव्यै ज्यो᳘तिष्मानग्निः᳟॥

मूलम् - विस्वरम्

“प्रजापतिष्ट्वा सादयतु”- इति । प्रजापतिर्ह्येतां प्रथमां चितिमपश्यत् । “पृष्ठे पृथिव्या ज्योतिष्मतीम्”- इति । पृष्ठे ह्ययं पृथिव्यै ज्योतिष्मानग्निः ॥ २७ ॥

सायणः

अथ तस्मिन्नुपधाने मन्त्रं विदधानो व्याचष्टे- प्रजापतिष्ट्वेत्यादिना 22 । यतः ‘प्रजापतिः’ ‘एताम्’ ‘प्रथमाम् चितिमपश्यत्,’ अतः ‘प्रथमाम्’ विश्वज्योतिषं ‘प्रजापतिष्ट्वा सादयत्विति’ मन्त्रेणोपदध्यादित्यर्थः । पृष्ठे ह्ययमिति । पृथिव्यै इति । षष्ठ्यर्थे चतुर्थी- (पा. सू. २ । ३ । ६२ । वा. १ ।) । यतश्च ‘पृथिव्याः’ ‘पृष्ठे’ उपरि ‘अग्निर्ज्योतिष्मान्’ “विश्वज्योतिश्चाग्निः”- इत्युक्तम् “अग्निर्वै प्रथमा विश्वज्योति”- इति । अतः ‘पृष्ठे पृथिव्या ज्योतिष्मतीम्’ इति मन्त्रवचनम् ॥ २७ ॥

Eggeling
  1. [He lays it down, with Vāj. S. XIII, 24] ‘May Prajāpati settle thee’–for Prajāpati saw this first layer 23;–‘on the back of the earth, thee the brilliant one!’ for on the back of the earth this brilliant Agni indeed is.

२८

विश्वास-प्रस्तुतिः

(र्व्वि᳘) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्व्यानाये᳘ति प्राणो वै᳘ व्विश्व᳘ज्योतिः स᳘र्वस्मा ऽउ वा᳘ ऽएत᳘स्मै प्राणो व्वि᳘श्वं ज्यो᳘तिर्यच्छे᳘ति स᳘र्व्वं ज्यो᳘तिर्यच्छे᳘त्येत᳘दग्निष्टे᳘ ऽधिपतिरि᳘त्यग्नि᳘मे᳘वास्या ऽअ᳘धिपतिं करोति सादयित्वा सूददोहसा᳘ ऽधिवदति[[!!]] त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(र्व्वि᳘) व्वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्व्यानाये᳘ति प्राणो वै᳘ व्विश्व᳘ज्योतिः स᳘र्वस्मा ऽउ वा᳘ ऽएत᳘स्मै प्राणो व्वि᳘श्वं ज्यो᳘तिर्यच्छे᳘ति स᳘र्व्वं ज्यो᳘तिर्यच्छे᳘त्येत᳘दग्निष्टे᳘ ऽधिपतिरि᳘त्यग्नि᳘मे᳘वास्या ऽअ᳘धिपतिं करोति सादयित्वा सूददोहसा᳘ ऽधिवदति[[!!]] त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

वि᳘श्वस्मै प्राणा᳘यापाना᳘य॥
व्यानाये᳘ति प्राणो वै᳘ विश्व᳘ज्योतिः स᳘र्वस्मा उ एत᳘स्मै प्राणो वि᳘श्वं ज्यो᳘तिर्यछे᳘ति स᳘र्वं ज्यो᳘तिर्यछे᳘त्येत᳘दग्निष्टे᳘ ऽधिपतिरि᳘त्यग्नि᳘मेॗवास्या अ᳘धिपतिं करोति सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“विश्वस्मै प्राणायापानाय व्यानाय”- इति । प्राणो वै विश्वज्योतिः । सर्वस्मा ऽउ वा ऽएतस्मै प्राणः । “विश्वं ज्योतिर्यच्छ”- इति । सर्वं ज्योतिर्यच्छेत्येतत् । “अग्निष्टे ऽधिपतिः" (वा. सं. १३ । २४) इति । अग्निमेवास्या अधिपतिं करोति । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ २८ ॥

सायणः

प्राणो वा इति । विद्यमान एव प्राणे सर्वेषामिन्द्रियाणां स्वस्वविषयप्रकाशकत्वात् प्राणस्य विश्वज्योतिष्ट्वम् । सर्वस्मा उ वा एतस्मै इति । सर्वस्य खल्वेतस्य लोकस्य । पूर्ववच्चतुर्थी (पा. सू. २। ३ । ६२ । वा. १ ।) । ‘प्राणः’ आशास्यो भवतीति शेषः । अपानो व्यानश्चेति प्राण एव वृत्तिभेदभिन्नः । प्राणस्य विश्वज्योतिष्ट्वात् ‘विश्वस्मै’ सर्वस्य लोकस्य प्राणादिस्थैर्यार्थं तवोपधानमिति मन्त्रभाग आह । ‘सर्वं ज्योतिः’ इति विश्वशब्दार्थविवरणम् । ‘अग्निष्टे ऽधिपतिः’ ‘इति’ एतन्मन्त्रभागकथनेन ‘अग्निमेव’ ‘अस्याः’ विश्वज्योतिषः ‘अधिपतिं करोति’ । हे विश्वज्योतिः ! ‘पृथिव्याः पृष्ठे’ उपरि ‘ज्योतिष्मतीम्’ ज्योतिषां युक्तां त्वां ‘प्रजापतिः सादयतु’ स्थापयतु । किमर्थमिति तत्राह- विश्वस्मा इति । ‘विश्वस्य’ सर्वलोकस्य ‘प्राणायापानाप व्यानाय’ प्राणादिव्यापारार्थम् । किञ्च ‘विश्वम्’ समस्तं ‘ज्योतिः’ तेजो ‘यच्छ’ नियच्छ अस्मदायत्तं कुरु, ‘ते’ तव ‘अग्निः’ ‘अधिपतिः,’ अतः सः त्वां परेभ्यो ‘गोपायतु’ इति कृत्स्नमन्त्रस्यार्थः ॥ २८ ॥

Eggeling
  1. ‘For all breathing, out-breathing, through-breathing,’–the all-light (brick) is breath, and breath is (necessary) for this entire universe;–‘give all the light!’ that is, ‘give the whole light;’–‘Agni is thine over-lord,’ he thus makes Agni the over-lord of this earth. Having ‘settled’ it 24, he

pronounces the Sūdadohas upon it: the significance of this has been explained.

२९

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ ऽर्त᳘व्ये ऽउ᳘पदधाति॥
(त्यृ) ऋत᳘व ऽएते य᳘दृत᳘व्ये ऽऋतू᳘ने᳘वैतदु᳘पदधाति म᳘धुश्च मा᳘धवश्च व्वा᳘सन्तिकावृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदु᳘पदधाति द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ ऽर्त᳘व्ये ऽउ᳘पदधाति॥
(त्यृ) ऋत᳘व ऽएते य᳘दृत᳘व्ये ऽऋतू᳘ने᳘वैतदु᳘पदधाति म᳘धुश्च मा᳘धवश्च व्वा᳘सन्तिकावृतू ऽइ᳘ति ना᳘मनी ऽएनयोरेते ना᳘मभ्यामे᳘वैने ऽएतदु᳘पदधाति द्वे ऽइ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥

मूलम् - Weber

अ᳘थ ऽर्तॗव्ये उ᳘पदधाति॥
ऋत᳘व एते य᳘दृतॗव्ये ऋतू᳘नेॗवैतदु᳘पदधाति म᳘धुश्च मा᳘धवश्च वा᳘सन्तिकावृतू इ᳘ति ना᳘मनी एनयोरेते ना᳘मभ्यामेॗवैने एतदु᳘पदधाति द्वे इ᳘ष्टके भवतो द्वौ हि मा᳘सावृतुः᳘ सकृ᳘त्सादयत्ये᳘कं त᳘दृतुं᳘ करोति॥

मूलम् - विस्वरम्

अथ ऋतव्येष्टकाद्वयोपधानम् ।

अथ ऽर्तव्ये ऽउपदधाति । ऋतव एते यदृतव्ये । ऋतूनेवैतदुपदधाति । मधुश्च माधवश्च वासन्तिकावृतू"- (वा० सं० १३ । २५) इति । नामनी ऽएनयोरेते । नामभ्यामेवैने ऽएतदुपदधाति । इष्टके भवतः । द्वौ हि मासावृतुः । सकृत्सादयति । एकं तदृतुं करोति ॥ २९ ॥

सायणः

अथ ऋतव्याख्ययोरिष्टकयोरुपधानं विधत्ते- अथेति 25ऋतव्ये इति । “वाय्वृतुपित्रुषसो यत्”- (पा. सू. ४ । २ । ३१ ।) इति देवतार्थे यत्प्रत्ययः, “यचि भम्”- (पा. सू. १ । ४ । १८) इति भसंज्ञायाम् “ओर्गुणः"- (पा. सू. ६ । ४ । १४६ ।) इति गुणः, “वान्तो यि प्रत्यये”- (पा. सू. ६ । १ । ७९ ।) इति अवादेशः । ऋतुदेवत्येष्टकोपधानेन भवतीत्याह- ऋतव एत इति । ऋतव्ययोरुपधाने मन्त्रं विधाय व्याचष्टे- मधुश्चेति । मधुमाधवशब्दाभ्यां चैत्रवैशाखावुच्येते । ‘वासन्तिकौ’ इति “वसन्ताच्च”- (पा. सू. ४ । ३ । २० ।) इति ठक्प्रत्ययः । ऋतुशब्दो मासद्वये मुख्यः, अत्र तदवयवभूते मासे उपचाराद्वर्त्तते । मधुश्च माधवश्चेत्येतौ वसन्तसम्बन्धिनौ ‘ऋतू’ मासौ, अतश्च तद्देवत्यत्वेन तदात्मिके वामुपदधामीत्यर्थः । नामनी इत्यादिना मधुमाधवशब्दोपयोगं दर्शयति । ननु स्वयमातृण्णादिवदेकैकस्या इष्टकाया उपधानं विहाय किमिति द्वयोरुपधानमिति ? तत्राह- द्वे इष्टके इति । इष्टकयोर्द्वित्वे ऽपि सकृत्सादनेनैकमेवर्तुं सम्पादयतीत्याह- सकृदिति ॥ २९ ॥

Eggeling
  1. He then lays down two R̥tavya (seasonal bricks);–the two seasonal (bricks) being the same as the seasons, it is the seasons he thus lays down. [Vāj. S. XIII, 25] ‘Madhu and Mādhava, the two spring seasons,’–these are the names of those two: it is thus by their names that he lays them down. There are two (such) bricks, for two months are a season. He ‘settles’ them once 26: he thereby makes (the two months) one season.

३०

विश्वास-प्रस्तुतिः

तद्य᳘देते ऽअ᳘त्रोपद᳘धाति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘रिम᳘ ऽउ लोकाः᳘ संव्वत्सरस्त᳘स्याय᳘मेव᳘ लोकः᳘ प्रथमा चि᳘तिरय᳘मस्य लोको᳘ व्वसन्त᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति॥

मूलम् - श्रीधरादि

तद्य᳘देते ऽअ᳘त्रोपद᳘धाति॥
संव्वत्सर᳘ ऽए᳘षो ऽग्नि᳘रिम᳘ ऽउ लोकाः᳘ संव्वत्सरस्त᳘स्याय᳘मेव᳘ लोकः᳘ प्रथमा चि᳘तिरय᳘मस्य लोको᳘ व्वसन्त᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति॥

मूलम् - Weber

तद्य᳘देते अ᳘त्रोपद᳘धाति॥
संवत्सर᳘ एॗषो ऽग्नि᳘रिम᳘ उ लोकाः᳘ संवत्सरस्त᳘स्याय᳘मेव᳘ लोकः᳘ प्रथमा चि᳘तिरय᳘मस्य लोको᳘ वसन्त᳘ ऋतुस्तद्य᳘देते अ᳘त्रोपद᳘धाति य᳘देॗवास्यैते᳘ आत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते अत्रो᳘पदधाति॥

मूलम् - विस्वरम्

तद्यदेते ऽअत्रोपदधाति । संवत्सर एषो ऽग्निः । इम उ लोकाः संवत्सरः । तस्यायमेव लोकः प्रथमा चितिः । अयमस्य लोको वसन्त ऋतुः । तद्यदेते ऽअत्रोपदधाति- यदेवास्यैते ऽआत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेते ऽअत्रोपदधाति ॥ ३० ॥

सायणः

प्रथमायां चितौ तदुपधानस्य कारणमाह- तद्यदित्यादिना । ‘एते’ ऋतव्ये ‘अत्र’ प्रथमायां चितौ ‘उपदधाति’ इति यत्, तत्र कारणमुच्यते- ‘एषः’ चीयमानः ‘अग्निः’ ‘संवत्सरः’ संवत्सरात्मकः, अग्नेः संवत्सरात्मकत्वं संवत्सरमुखायां सम्भृत्योत्पादनीयत्वात् । चीयमानस्याग्नेः प्रजापतिरूपत्वं प्रागुक्तम् । “स यः स प्रजापतिर्व्यस्रँसतायमेव स यो ऽयमग्निश्चीयते"- इति (श. प. ७ । १ । २ । ९) स च प्रजापतिः सर्वलोककारणत्वेन तदात्मकः । संवत्सर एषो ऽग्निरिति । तस्य संवत्सरात्मकत्वोक्तेश्च ‘संवत्सर इमे लोकाः’ खलु । तस्येति । ‘तस्य’ संवत्सराग्निसर्वलोकात्मकस्य प्रजापतेरयमेव लोकः, पृथिवी प्रथमा चितिः । वसन्तर्तुश्च प्राथम्यसादृश्यादस्य संवत्सरात्मकस्य प्रजापतेरवयवभूतो ऽयं लोकः, अतश्चात्र प्रथमायां चितौ एते ऋतव्ये च वसन्तर्त्तुदेवत्यत्वेन तदात्मिके ‘उपदधातीति’ यत्, तेन ‘यदेवास्य’ प्रजापतेः ‘आत्मनः’ स्वस्यैतदिष्टकाद्वयलक्षणं यदङ्गमस्ति ‘तदस्मिन्’ अवयवे प्रथमचितिलक्षणे ‘एतद्’ एतेन पुनः ‘प्रतिदधाति’ ‘तस्मादेते’ प्रथमायां चितावुपदध्यात् ॥ ३० ॥

Eggeling
  1. And as to why he now lays down these two;–this Agni (fire-altar) is the year, and the year is these worlds; the first layer is this (terrestrial) world thereof, and the spring season also is this world thereof; and when he now lays down those two (bricks), he thereby puts back into him (Agni-Prajāpati) what those two (the first layer and the spring) are to that body of his 27: this is why he now lays down those two (bricks).

३१

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वैते ऽअ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरे᳘षो ऽग्निः᳘ संव्वत्सर᳘ ऽउ प्रजा᳘पतिस्त᳘स्य प्रति᳘ष्ठैव᳘ प्रथमा चि᳘तिः प्रति᳘ष्ठो ऽअस्य व्वसन्त᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति ते ऽअ᳘नन्तर्हिते व्विश्व᳘ज्योतिष ऽउ᳘पदधाति प्रजा वै᳘ व्विश्व᳘ज्योतिर᳘नन्तर्हितास्त᳘त्प्रजा᳘ ऽऋतु᳘भ्यो दधाति त᳘स्मात्प्रजा᳘ ऽऋतू᳘ने᳘वानुप्र᳘जायन्त ऽऋतु᳘भि᳘र्ह्येव ग᳘र्भे स᳘न्तᳫँ᳭ सम्प᳘श्यन्त्यृतु᳘भिर्जातम्[[!!]]॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वैते ऽअ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरे᳘षो ऽग्निः᳘ संव्वत्सर᳘ ऽउ प्रजा᳘पतिस्त᳘स्य प्रति᳘ष्ठैव᳘ प्रथमा चि᳘तिः प्रति᳘ष्ठो ऽअस्य व्वसन्त᳘ ऽऋतुस्तद्य᳘देते ऽअ᳘त्रोपद᳘धाति य᳘दे᳘वास्यैते᳘ ऽआत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते ऽअत्रो᳘पदधाति ते ऽअ᳘नन्तर्हिते व्विश्व᳘ज्योतिष ऽउ᳘पदधाति प्रजा वै᳘ व्विश्व᳘ज्योतिर᳘नन्तर्हितास्त᳘त्प्रजा᳘ ऽऋतु᳘भ्यो दधाति त᳘स्मात्प्रजा᳘ ऽऋतू᳘ने᳘वानुप्र᳘जायन्त ऽऋतु᳘भि᳘र्ह्येव ग᳘र्भे स᳘न्तᳫँ᳭ सम्प᳘श्यन्त्यृतु᳘भिर्जातम्[[!!]]॥

मूलम् - Weber

य᳘द्वेॗवैते अ᳘त्रोपद᳘धाति॥
प्रजा᳘पतिरेॗषो ऽग्निः᳘संवत्सर᳘ उ प्रजा᳘पतिस्त᳘स्य प्रतिॗष्ठैव᳘ प्रथमा चि᳘तिः प्रतिॗष्ठो अस्य वसन्त᳘ ऋतुस्तद्य᳘देते अ᳘त्रोपद᳘धाति य᳘देॗवास्यैते᳘ आत्म᳘नस्त᳘दस्मिन्नेतत्प्र᳘तिदधाति त᳘स्मादेते अत्रो᳘पदधाति ते अ᳘नन्तर्हिते विश्व᳘ज्योतिष उ᳘पदधाति प्रजा वै᳘ विश्व᳘ज्योतिर᳘नन्तर्हितास्त᳘त्प्रजा᳘ ऋतु᳘भ्यो दधाति त᳘स्मात्प्रजा᳘ ऋतू᳘नेॗवानुप्र᳘जायन्त ऋतु᳘भिॗर्ह्येव ग᳘र्भे स᳘न्तᳫं सम्प᳘श्यन्त्युतु᳘भिर्जात᳘म्॥

मूलम् - विस्वरम्

यद्वेवैते ऽअत्रोपदधाति । प्रजापतिरेषो ऽग्निः । संवत्सर उ प्रजापतिः । तस्य प्रतिष्ठैव प्रथमा चितिः । प्रतिष्ठो ऽअस्य वसन्त ऋतुः । तद्यदेते ऽअत्रोपदधाति । यदेवास्यैते ऽआत्मनः- तदस्मिन्नेतत्प्रतिदधाति । तस्मादेते ऽअत्रोपदधाति । ते ऽअनन्तर्हिते विश्वज्योतिष उपदधाति । प्रजा वै विश्वज्योतिः । अनन्तर्हितास्तत्प्रजा ऋतुभ्यो दधाति । तस्मात्प्रजा ऋतूनेवानुप्रजायन्ते । ऋतुभिर्ह्येव गर्भे सन्तं पश्यन्ति- ऋतुभिर्जातम् ॥ ३१ ॥

सायणः

अथ पुनस्ते एव ऋतव्ये प्रजापतेः प्रतिष्ठात्मना स्तौति- यद्वेवैते इति । प्रतिष्ठो ऽअस्य वसन्त ऋतुरिति । ‘प्रतिष्ठा उ’ इति पदविभागः; “आद्गुणः”- (पा. सू. ६ । १ । ८७)। उकारस्य “निपात एकाजनाङ्” (पा. सू. १ । १ । १४) इति प्रगृह्यसंज्ञायाम्- “प्लुतप्रगृह्या अचि नित्यम्”- (पा. सू. ६ । १ । १२५ ।) इति प्रकृतिभावात् प्रतिष्ठो अस्य इत्यत्र “एङः पदान्तादति”- (पा. सू. ६ । १ । १०९) इति पूर्वरूपत्वं न भवति । वसन्तर्तोः संवत्सरप्रथमावयवत्वात् प्रतिष्ठात्वम् । यत्रावयवे प्रतितिष्ठति सा प्रतिष्ठा, यथा पुरुषः पादयोः प्रतितिष्ठति तद्वत् संव्वत्सरो ऽपि वसन्तर्तौ प्रतितिष्ठति । प्रथमायाश्चितेस्तूत्तरचितिलक्षणान् प्रजापतेरवयवान् प्रत्याधारत्वात्प्रतिष्ठात्वम् । अतश्च प्रथमायां चितौ प्रकृतयोरिष्टकयोरुपधाने प्रजापतेः स्वस्य वसन्तर्तुदेवत्यत्वेन तदात्मकैतदिष्टकाद्वयलक्षणं यत्प्रतिष्ठारूपमङ्गमस्ति तदस्मिन्नेतेन प्रतिनिहितवान् भक्तीत्यर्थः ॥

अथानयोरिष्टकयोरुपधानस्य स्थानविशेषं विधाय प्रशंसति- ते अनन्तर्हिते इति । अनन्तर्हितास्तदिति । ‘तत्’ तेन ‘प्रजाः’ ‘ऋतुभ्यः’ ‘अनन्तर्हिताः’ अव्यवहिताः ‘दधाति’ ऋतुषु प्रतिष्ठापयतीत्यर्थः । तदेव दर्शयति- तस्मादिति । यत एवम् ‘तस्मात्प्रजाः’ ‘ऋतूनेव’ अभिलक्ष्य ‘प्रजायन्ते’ ‘गर्भे’ अपि विद्यमानं जन्तुम् ‘ऋतुभिर्ह्येव सम्पश्यन्ति’ ऋतूनां कालात्मकत्वात् कालस्य च सदातनत्वेन सर्वोत्पत्तिमन्निमित्तत्वादजातावस्था जायमानावस्था जातावस्था च तत्रैव सम्पद्यत इति भावः ॥ ३१ ॥

Eggeling
  1. And, again, why he now lays down these two;–this Agni is Prajāpati, and Prajāpati is the year; the first layer is his foundation, and the spring season also is his foundation;–thus when he now lays down these two (bricks), he thereby puts back into him what those two are to that body of his: this is why he now lays down those two (bricks). He lays them down close to the ‘all-light’ brick: the ‘all-light’ brick being progeny, he thus lays progeny close together with the seasons; whence progeny is produced in accordance with the seasons, for by seasons people compute (the age of man)

whilst in the state of embryo, and by seasons when he is born.

३२

विश्वास-प्रस्तुतिः

(म) अथा᳘षाढामु᳘पदधाति॥
(ती) इयं वा ऽअ᳘षाढेमा᳘मे᳘वैतदु᳘पदधाति तां᳘ पूर्वार्ध ऽउ᳘पदधाति प्रथमा᳘ हीयम᳘सृज्यत॥

मूलम् - श्रीधरादि

(म) अथा᳘षाढामु᳘पदधाति॥
(ती) इयं वा ऽअ᳘षाढेमा᳘मे᳘वैतदु᳘पदधाति तां᳘ पूर्वार्ध ऽउ᳘पदधाति प्रथमा᳘ हीयम᳘सृज्यत॥

मूलम् - Weber

अथा᳘षाढामु᳘पदधाति॥
इयं वा अ᳘षाढेमा᳘मेॗवैतदु᳘पदधाति ता᳘म् पूर्वार्ध उ᳘पदधाति प्रथमाॗ हीयम᳘सृज्यत॥

मूलम् - विस्वरम्

अथ अषाढेष्टकोपधानम् ।

अथाषाढामुपदधाति । इयं वा ऽअषाढा । इमामेवैतदुपदधाति । तां पूर्वार्द्ध उपदधाति । प्रथमा हीमसृज्यत ॥ ३२ ॥

सायणः

विधत्ते- अथेति । ‘अथ’ ऋतव्येष्टकोपधानानन्तरम् अषाढा ऽभिधामिष्टकामुपदध्यात् । अषाढायाः मृन्मयेष्टकात्वात्तदुपधाने पृथिव्युपधानमेव सम्पादितं भवतीत्याह- इयं वा इति । तस्या अषाढाया उपधानं चयनस्थलस्य पूर्वभागे कर्तव्यमित्याह- तां पूर्वार्द्ध इति । ननु किमर्थमस्याः पूर्वार्द्ध उपधानमिति तत्राह- प्रथमेति । ‘इयम्’ अषाढा उखाया ‘प्रथमा’ पूर्वा ‘असृज्यत’ खलु ॥ ३२ ॥

Eggeling
  1. He then lays down the Ashāḍḥā (invincible brick) 28,–the ‘invincible one’ being this earth, it is this earth he thus lays down. He puts it on the fore-part (of the altar-site), for this earth was created first.

३३

विश्वास-प्रस्तुतिः

सा यद᳘षाढा ना᳘म॥
देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ ऽअस्पर्धन्त ते᳘ देवा᳘ ऽएतामि᳘ष्टकामपश्यन्न᳘षाढामिमा᳘मेव तामु᳘पादधत ता᳘मुपधाया᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्व्यानस्मात्स᳘र्व्वस्मादसहन्त यद᳘सहन्त त᳘स्माद᳘षाढा त᳘थै᳘वैतद्य᳘जमान ऽएता᳘मुपधा᳘य दिष᳘न्तं भ्रा᳘तृव्व्यमस्मात्स᳘र्व्वस्मात्सहते॥

मूलम् - श्रीधरादि

सा यद᳘षाढा ना᳘म॥
देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ ऽअस्पर्धन्त ते᳘ देवा᳘ ऽएतामि᳘ष्टकामपश्यन्न᳘षाढामिमा᳘मेव तामु᳘पादधत ता᳘मुपधाया᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्व्यानस्मात्स᳘र्व्वस्मादसहन्त यद᳘सहन्त त᳘स्माद᳘षाढा त᳘थै᳘वैतद्य᳘जमान ऽएता᳘मुपधा᳘य दिष᳘न्तं भ्रा᳘तृव्व्यमस्मात्स᳘र्व्वस्मात्सहते॥

मूलम् - Weber

सा यद᳘षाढा ना᳘म॥
देवाश्चा᳘सुराश्चोभ᳘ये प्राजापत्या᳘ अस्पर्धन्त ते᳘ देवा᳘ एतामि᳘ष्टकामपश्यन्न᳘षाढामिमा᳘मेव तामु᳘पादधत ता᳘मुपधाया᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्यानस्मात्स᳘र्वस्मादसहन्त यद᳘सहन्त त᳘स्माद᳘षाढा त᳘थैॗवैतद्य᳘जमान एता᳘मुपधा᳘य दिष᳘न्तम् भ्रा᳘तृव्यमस्मात्स᳘र्वस्मात्सहते॥

मूलम् - विस्वरम्

सा यदषाढा नाम । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त । ते देवा एतामिष्टकामपश्यन् अषाढाम् । इमामेव तामुपादधत । तामुपधायासुरान्त्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त । यदसहन्त- तस्मादषाढा । तथैवैतद्यजमान एतामुपधाय द्विषन्तं भातृव्यमस्मात्सर्वस्मात्सहते ॥ ३३ ॥

सायणः

प्रकृताया इष्टकाया अषाढेति नामधेयप्राप्तिप्रदर्शनपूर्वकमुपधानोपयोगं दर्शयति- सा यदषाढा नामेत्यादिना । पुरा खलु ‘देवाश्चासुराश्च’ ‘प्राजापत्याः’ प्रजापतेपत्यभूताः, पत्युत्तरपदत्वाद् “दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः” (पा. सू. ४ । १ । ८५) इत्यनेना ऽपत्यार्थे ण्यप्रत्ययः । ‘ते’ एते ‘उभये’ अपि स्पर्द्धामकुर्वन्, ततः ‘ते देवाः’ केनोपायेनासुराञ्जयेमेति विचार्य ‘एताम्’ अषाढाभिधाम् ‘इष्टकाम्’ तदुपायत्वेन ‘अपश्यन्’ । दृष्ट्वा च ‘तामिमाम्’ इष्टकामुपहितवन्तः । ततः ‘तामुपधायासुरान्’ ‘सपत्नान्’ वैरिणः ‘भ्रातृव्यान्’ इति सपत्नशब्दार्थविवरणम् । भ्रातृशब्दात् “व्यन् सपत्ने”- (पा. सू. ४ । १ । १४५) इति सपत्नार्थे व्यनो विधानात् । तानसुरान् ‘अस्मात्’ ‘सर्वस्मात्’ स्थानाद् ‘असहन्त’ निराकुर्वन् यथैतेषु लोकेष्ववस्थानं न लभन्ते तथा पर्यबीभवन्नित्यर्थः । यत एतया ऽसुरान् ‘असहन्त’ तस्माद् ‘अषाढा’ इति नामधेयम् । अत्रासुराणां सहनकथनेन स्वेषामसहनमर्थतः प्राप्तमतश्चैतस्या इष्टकायाः स्वेषामसहनं प्रत्यपि कारणत्वादसहनसाधनत्वेनाषाढेत्युच्यते । “साढ्यै साढा साढेति निगमे”- (पा. सू. ६ । ३ । ११३) इति ‘साढा’ शब्दो निपातितः । ततो नञ्समासः (पा. सू. ३ । १ । ८५) । व्यत्ययेन मूर्द्धन्यादेशः । तथैवैतदिति । यथैव देवा अषाढामुपधाय असुरान्निराकुर्वन् । ‘तथैव’ यजमानः ‘एतामुपधाय’ ‘द्विषन्तम्’ द्वेषं कुर्वन्तं ‘भ्रातृव्यमस्मात्सर्वस्मात्’ प्रदेशान्निराकुरुते ॥ ३३ ॥

Eggeling
  1. And as to its being called Ashāḍḥā. The gods and the Asuras, both of them sprung from Prajāpati, strove together. The gods saw this invincible brick, even this earth; they put it on (the altar); and having put it on, they conquered (and drove) the Asuras, the enemies, the rivals, from this universe; and inasmuch as (thereby) they conquered (asahanta), it is called Ashāḍḥā. In like manner the Sacrificer, after putting on that (brick), conquers (and drives) his spiteful rival from this universe (or, from everything here).

३४

विश्वास-प्रस्तुतिः

य᳘द्वेवा᳘षाढामुपद᳘धाति॥
व्वाग्वा ऽअ᳘षाढा व्वा᳘चैव त᳘द्देवा ऽअ᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्व्यानस्मात्स᳘र्व्वस्मादसहन्त त᳘थै᳘वैतद्य᳘जमानो व्वा᳘चैव᳘ द्विष᳘न्तं भ्रा᳘तृव्व्यमस्मात्स᳘र्व्वस्मात्सहते व्वा᳘चमेव त᳘द्देवा ऽउ᳘पादधत त᳘थै᳘वैतद्य᳘जमानो व्वा᳘चमेवो᳘पधत्ते᳘॥

मूलम् - श्रीधरादि

य᳘द्वेवा᳘षाढामुपद᳘धाति॥
व्वाग्वा ऽअ᳘षाढा व्वा᳘चैव त᳘द्देवा ऽअ᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्व्यानस्मात्स᳘र्व्वस्मादसहन्त त᳘थै᳘वैतद्य᳘जमानो व्वा᳘चैव᳘ द्विष᳘न्तं भ्रा᳘तृव्व्यमस्मात्स᳘र्व्वस्मात्सहते व्वा᳘चमेव त᳘द्देवा ऽउ᳘पादधत त᳘थै᳘वैतद्य᳘जमानो व्वा᳘चमेवो᳘पधत्ते᳘॥

मूलम् - Weber

य᳘द्वेवा᳘षाढामुपद᳘धाति॥
वाग्वा अ᳘षाढा वाॗचैव त᳘द्दैवा अ᳘सुरान्त्सप᳘त्नान्भ्रा᳘तृव्यानस्मात्स᳘र्वस्मादसहन्त त᳘थैॗवैतद्य᳘जमानो वाॗचैव᳘ द्विष᳘न्तम् भ्रा᳘तृव्यमस्मात्स᳘र्वस्मात्सहते वा᳘चमेव त᳘द्देवा उ᳘पादधत त᳘थैॗवैतद्य᳘जमानो वा᳘चमेवो᳘पधत्ते॥

मूलम् - विस्वरम्

यद्वेवाषाढामुपदधाति । वाग्वा ऽअषाढा । वाचैव तद्देवा असुरान्त्सपत्नान्भ्रातृव्यानस्मात्सर्वस्मादसहन्त । तथैवैतद्यजमानो वाचैव द्विषन्तं भ्रातृव्यमस्मात्सर्वस्मात्सहते । वाचमेव तद्देवा उपादधत । तथैवैतद्यजमानो वाचमेवोपधत्ते ॥ ३४ ॥

सायणः

अथ तामेवेष्टकां वागात्मना ऽपि प्रशंसति- यद्वेवेति । वाचैव तद्देवा इत्यादिना वाग्रूपत्वमषाढायाः प्रतिपाद्यते । यतो ‘देवाः’ निर्भर्त्सनादिविशिष्टया ‘वाचैव’ ‘असुरान्’ ‘असहन्त’ तस्मान्निराकरणसाधनत्वसाधर्म्याद् ‘अषाढा’ वाक् खल्वित्यर्थः । तथैवेति । यतो देवाः वाचा ऽसुरानसहन्त, ततो देववदेव ‘यजमानः’ अपि ‘वाचैव’ ‘द्विषन्तम्’ ‘भ्रातृव्यमस्मात्सर्वस्मात् सहते’ । यतो ऽषाढा उक्तन्यायेन वागात्मिका, अत एतेनाषाढोपधानेन ‘वाचमेव’ ‘उपादधत’ ‘देवाः’ तथैव यजमानो वाचमेवोपधत्ते ॥ ३४ ॥

Eggeling
  1. And, again, why he lays down the Ashāḍḥā. The Ashāḍḥā is speech, and by speech 29 the gods then indeed conquered (and drove) the Asuras, the enemies, the rivals, from this universe; and in like manner the Sacrificer, by means of speech, conquers (and drives) his spiteful rival from this universe: it was speech the gods then laid down (or bestowed on Agni), and in like manner the Sacrificer now lays down speech.

३५

विश्वास-प्रस्तुतिः

सेयं᳘ व्वामभृ᳘त्॥
(त्प्रा) प्राणा वै᳘ व्वामं यद्धि किं᳘ च प्रा᳘णीयं तत्स᳘र्व्वं बिभर्त्ति ते᳘नेयं᳘ व्वामभृद्वा᳘ग्घ᳘ त्वेव᳘ व्वामभृ᳘त्प्राणा वै᳘ व्वामं᳘ व्वाचि वै᳘ प्राणेभ्यो᳘ ऽन्नं धीयते त᳘स्माद्वा᳘ग्वामभृत्[[!!]]॥

मूलम् - श्रीधरादि

सेयं᳘ व्वामभृ᳘त्॥
(त्प्रा) प्राणा वै᳘ व्वामं यद्धि किं᳘ च प्रा᳘णीयं तत्स᳘र्व्वं बिभर्त्ति ते᳘नेयं᳘ व्वामभृद्वा᳘ग्घ᳘ त्वेव᳘ व्वामभृ᳘त्प्राणा वै᳘ व्वामं᳘ व्वाचि वै᳘ प्राणेभ्यो᳘ ऽन्नं धीयते त᳘स्माद्वा᳘ग्वामभृत्[[!!]]॥

मूलम् - Weber

सेयं᳘ वामभृ᳘त्॥
प्राणा वै᳘ वामं यद्धि किं᳘ च प्राॗणीयं तत्स᳘र्वम् बिभर्ति ते᳘नेयं᳘ वामभृद्वा᳘ग्घॗ त्वेव᳘ वाभृ᳘त्प्राणा वै᳘ वामं᳘ वाचि वै᳘ प्राणेभ्यो᳘ ऽन्नं धीयते त᳘स्माद्वा᳘ग्वामभृ᳘त्॥

मूलम् - विस्वरम्

सेयं वामभृत् । प्राणा वै वामम् । यद्धि किं च प्राणि । इयं तत्सर्वं बिभर्ति । तेनेयं वामभृत् । वाग्घ त्वेव वामभृत् । प्राणा वै वामम् । वाचि वै प्राणेभ्यो ऽन्नं धीयते । तस्माद्वाग्वामभृत् ॥ ३५ ॥

सायणः

यदुक्तमियं वा अषाढेत्यषाढायाः पृथिव्यात्मकत्वं तदुपजीव्यास्या अषाढाया इष्टकायाः वामभृत्संज्ञाप्राप्तिं दर्शयति- सेयमिति । वामं वननीयं वस्तु । ‘प्राणाः’ सर्वैराशास्यमानत्वात् वामं वस्तु । यत्किञ्चित् ‘प्राणि’ प्राणवदर्थजातमस्ति, तत्सर्वम् ‘इयम्’ पृथिवी ‘बिभर्ति’ खलु । अतश्च वामशब्देन प्राणानामभिधानात् प्राणानां तद्वतां चाभेदविवक्षया ‘इयम्’ पृथिवी ‘वामभृत्’ संज्ञेति तदात्मिकाप्यषाढा वामभृत्संज्ञेत्यर्थः । “वाग्वा अषाढा”- इति यदुक्तं वागात्मत्वं तदप्युपजीव्यैतत्संज्ञालाभमाह- वाग्घ त्वेवेति । ‘वाचि वै’ इत्यत्र वाक्- शब्देन वागिन्द्रियस्थानं मुखं लक्ष्यते, प्राणानुविधायित्वात् । प्राणशब्देन च श्रोत्रादीनीन्द्रियाणि, ‘प्राणेभ्यो’ ऽर्थे ‘वाचि’ मुखे ‘अन्नं’ ‘धीयते’ निधीयते ‘तस्माद्वाग्वामभृद्’ इति तदात्मिका ऽषाढा ऽपि “वामभृत्” इत्यभिधीयते ॥ ३५ ॥

Eggeling
  1. This earth is the bearer of what is desirable; for–the desirable being the vital airs–this earth bears everything that breathes, and for that reason this earth is the bearer of what is desirable. But

speech (the mouth) also indeed is the bearer of what is desirable; for the desirable is the vital airs, and for the (channels of) the vital airs food is put into the mouth: therefore speech is the bearer of what is desirable.

३६

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘ ऽएते स᳘र्व्वे प्राणा यद᳘षाढा॥
तां᳘ पूर्वार्ध ऽउ᳘पदधाति पुर᳘स्तात्त᳘त्प्राणा᳘न्दधाति त᳘स्मादिमे᳘ पुर᳘स्तात्प्राणास्ता᳘न्नान्य᳘या य᳘जुष्मत्ये᳘ष्टकया पुर᳘स्तात्प्रत्यु᳘पदध्यादेत᳘स्यां चि᳘तौ ने᳘त्प्राणा᳘नपिद᳘धानी᳘ति॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘ ऽएते स᳘र्व्वे प्राणा यद᳘षाढा॥
तां᳘ पूर्वार्ध ऽउ᳘पदधाति पुर᳘स्तात्त᳘त्प्राणा᳘न्दधाति त᳘स्मादिमे᳘ पुर᳘स्तात्प्राणास्ता᳘न्नान्य᳘या य᳘जुष्मत्ये᳘ष्टकया पुर᳘स्तात्प्रत्यु᳘पदध्यादेत᳘स्यां चि᳘तौ ने᳘त्प्राणा᳘नपिद᳘धानी᳘ति॥

मूलम् - Weber

त᳘ एते स᳘र्वे प्राणा यद᳘षाढा॥
ता᳘म् पूर्वार्ध उ᳘पदधाति पुर᳘स्तात्त᳘त्प्राणा᳘न्दधाति त᳘स्मादिमे᳘ पुर᳘स्तात्प्राणास्ताॗन्नान्य᳘या य᳘जुष्मत्ये᳘ष्टकया पुर᳘स्तात्प्रत्यु᳘पदध्यादेत᳘स्यां चि᳘तौ ने᳘त्प्राणा᳘नपिद᳘धानीति॥

मूलम् - विस्वरम्

त ऽएते सर्वे प्राणाः- यदषाढा । तां पूर्वार्ध ऽउपदधाति । पुरस्तात्तत्प्राणान्दधाति । तस्मादिमे पुरस्तात्प्राणाः । तान्नान्यया यजुष्मत्येष्टकया पुरस्तात्प्रत्युपदध्यात्- एतस्यां चितौ- नेत्प्राणानपि- दधानीति ॥ ३६ ॥

सायणः

सेयमित्यादिनोक्तप्रकारेण निष्पन्नमर्थमाह- त एत इति । “सेयम्” इत्यादिना तु अषाढाया आधिभौतिकप्राणात्मकत्वमुक्तम्, “वाग्घ त्वेव” इत्यादिना- तु आध्यात्मिकप्राणात्मकत्वम्, ततश्च ‘अषाढा’ इति ‘यद्’ एषा ‘ते सर्वे प्राणाः’ आध्यात्मिकत्वाधिभौतिकत्वादिभेदेनोभयविधा अपि प्राणा इत्यर्थः । ‘त एते’ इति, प्राणा इत्येतदपेक्षया लिङ्गवचने । उक्तमषाढाया उभयविधप्राणात्मकत्वमुपजीव्य तस्याः पूर्वभागे उपधानमुपपादयति- तां पूर्वार्ध इति । तस्मादिति । ‘पुरस्तात्’ पूर्वभागे मुख इत्यर्थः । ‘इमे’ इत्यभिनयेन निर्द्देशः, ‘तस्मात्’ पूर्वार्द्ध उपधानान्मुखे ‘इमे प्राणाः’ अवतिष्ठन्त इति शेषः । अषाढायाः पूर्वभागे मन्त्रवत्या इष्टकाया उपधानं निवारयति- तान्नान्ययेति । ‘पुरस्तात्’ आषाढां प्रति ‘अन्यया’ ‘यजुष्मत्या’ मन्त्रवत्या ‘इष्टकया’ उपधानं न सम्पादयेत् । एतस्यां चिताविति तत्र हेतुरुच्यते । ‘नेत्’ इति निपातः परिभये वर्तते (या. नि. १ । ३ । ५) । अषाढायाः प्राणात्मकत्वात् एतस्यां प्रथमायां चितौ तस्याः पुरस्तान्मन्त्रवदिष्टकोपधाने तद्व्यवधानात् प्राणानेवापिहितवान् भवतीति परिभयेन नोपदध्यादित्यर्थः ॥ ३६ ॥

Eggeling
  1. Now the Ashāḍḥā is the same as those vital airs; he lays it down in the fore-part (of the altar): he thus bestows (on Agni the organs of) the vital airs in front; whence there are here (organs of) the vital airs in front (of the body). Let him not in this layer enclose this (Ashāḍḥā) in front by any other brick which has a special prayer of its own, lest he close up (the organs of) the vital airs.

३७

विश्वास-प्रस्तुतिः

य᳘द्वप᳘स्याः प᳘ञ्च पुर᳘स्तादुपद᳘धाति[[!!]]॥
(त्य᳘) अ᳘न्नं वा ऽआपो᳘ ऽनपिहिता वा ऽअ᳘न्नेन प्राणास्ताम᳘नन्तर्हितामृत᳘व्याभ्यामु᳘पदधात्यृतु᳘षु तद्वा᳘चं प्र᳘तिष्ठापयति᳘ सेयं व्वा᳘गृतु᳘षु प्र᳘तिष्ठिता व्वदति॥

मूलम् - श्रीधरादि

य᳘द्वप᳘स्याः प᳘ञ्च पुर᳘स्तादुपद᳘धाति[[!!]]॥
(त्य᳘) अ᳘न्नं वा ऽआपो᳘ ऽनपिहिता वा ऽअ᳘न्नेन प्राणास्ताम᳘नन्तर्हितामृत᳘व्याभ्यामु᳘पदधात्यृतु᳘षु तद्वा᳘चं प्र᳘तिष्ठापयति᳘ सेयं व्वा᳘गृतु᳘षु प्र᳘तिष्ठिता व्वदति॥

मूलम् - Weber

य᳘द्वपॗस्याः प᳘ञ्च पुर᳘स्तादु᳘पदधाति॥
अ᳘न्नं वा आपो᳘ ऽनपिहिता वा अ᳘न्नेन प्राणास्ताम᳘नन्तर्हितामृतॗव्याभ्यामु᳘पदधात्यृतु᳘षु तद्वा᳘चम् प्र᳘तिष्ठापयतिॗ सेयं वा᳘गृतु᳘षु प्र᳘तिष्ठिता वदति॥

मूलम् - विस्वरम्

यद्वपस्याः पञ्च पुरस्तादुपदधाति । अन्नं वा ऽआपः । अनपिहिता वा ऽअन्नेन प्राणाः । तामनन्तर्हितामृतव्याभ्यामुपदधाति । ऋतुषु तद्वाचं प्रतिष्ठापयति । सेयं वागृतुषु प्रतिष्ठिता वदति ॥ ३७ ॥

सायणः

ननु यदि समन्त्रकाणामिष्टकानामुपधाने प्राणापिधानम्, तर्हि अपस्यानां मन्त्रविशिष्टानामिष्टकानामुपधानेन तत्कस्मान्न भवतीत्यत आह- यद्वपस्या इति । अपस्यानामन्नात्मकत्वं तद्विधायकब्राह्मणे ऽभिधास्यते । (श. प. ७ । ५ । २ । ६०) आपश्चान्नात्मिकास्तत्कारणत्वात् । अन्नेन तु प्राणानामपिधानं न सम्भवति, अन्नोपजीवित्वात् प्राणानाम् । अतश्चान्नात्मकत्वादपस्यानां समन्त्रकाणामप्युपधानं न विरुध्यत इति भावः । अथ तस्या ऋतव्ययोः समीपे उपधानं विधाय स्तौति- तामनन्तर्हितामिति । सेयं वागृतुषु प्रतिष्ठिता वदतीति । ‘ऋतुषु’ अवस्थितेषु प्राणिषु ‘प्रतिष्ठिता वदति’ इत्यर्थः ॥ ३७ ॥

Eggeling
  1. And as to why he lays down in front five Apasyās 30,–water (ap) is food, and by food (the organs of) the vital airs are not closed up. He lays down (the Ashāḍḥā) close to the two seasonal ones: he thereby establishes speech in the seasons, and hence speech (the mouth) speaks here, firmly established in the seasons.

३८

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य᳘) य᳘त्प्रजा᳘ व्विश्व᳘ज्योतिर्व्वाग᳘षाढा᳘ ऽथ क᳘स्माद᳘न्तरेण ऽर्त᳘व्ये ऽउ᳘पदधाती᳘ति संव्वत्सरो वा᳘ ऽऋत᳘व्ये संव्वत्सरे᳘ण त᳘त्प्रजा᳘भ्यो व्वा᳘चमन्त᳘र्दधाति त᳘स्मात्संव्वत्सरवेला᳘यां प्रजा व्वा᳘चं प्र᳘वदन्ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य᳘) य᳘त्प्रजा᳘ व्विश्व᳘ज्योतिर्व्वाग᳘षाढा᳘ ऽथ क᳘स्माद᳘न्तरेण ऽर्त᳘व्ये ऽउ᳘पदधाती᳘ति संव्वत्सरो वा᳘ ऽऋत᳘व्ये संव्वत्सरे᳘ण त᳘त्प्रजा᳘भ्यो व्वा᳘चमन्त᳘र्दधाति त᳘स्मात्संव्वत्सरवेला᳘यां प्रजा व्वा᳘चं प्र᳘वदन्ति॥

मूलम् - Weber

त᳘दाहुः॥
य᳘त्प्रजा विश्व᳘ज्योतिर्वाग᳘षाढा᳘य क᳘स्माद᳘न्तरेण ऽर्तव्ये उ᳘पदधाती᳘ति संवत्सरो वा᳘ ऋत᳘व्ये संवत्सरे᳘ण त᳘त्प्रजा᳘भ्यो वा᳘चमन्त᳘र्दधाति त᳘स्मात्संवत्सरवेला᳘याम् प्रजा वा᳘चम् प्र᳘वदन्ति॥

मूलम् - विस्वरम्

तदाहुः- यत्प्रजा विश्वज्योतिः, वागषाढा, अथ कस्मादन्तरेण ऽर्तव्ये ऽउपदधातीति । संवत्सरो वा ऽऋतव्ये । संवत्सरेण तत्प्रजाभ्यो वाचमन्तर्दधाति । तस्मात्संवत्सरवेलायां प्रजा वाचं प्रवदन्ति ॥ ३८ ॥

सायणः

“प्रजा वै विश्वज्योतिः” इति विश्वज्योतिषः प्रजात्वमुक्तम्, “वाग्वा अषाढा”- इति आषाढाया वाक्त्वं प्रतिपादित्तम्; ततश्च विश्वज्योतिषः समीपे ऽषाढाया उपधाने सति प्रजासु वागुपहिता भवति । तदकृत्वा तयोर्मध्ये किमर्थमृतव्ययोरुपधानं कृतमित्याशङ्क्य तत्कारणमाह- तदाहुरिति । संवत्सरो वा ऋतव्ये इति । “ऋतव एते यदृतव्ये”- (श. प. ७ । ४ । २ । २९) इति ऋतव्ययोर्ऋत्वात्मकत्वात्सम्भूय सर्वेषामृतूनां संवत्सरात्मकत्वाद् ‘ऋतव्ये संवत्सरः’ ततश्चर्त्तव्ययोरन्तरोपधाने ‘संवत्सरेण’ ‘प्रजाभ्यो’ ‘वाचं’ व्यवहितां करोति, ‘तस्माद्’ इदानीमुत्पत्तेरुपरि ‘संवत्सरवेलायां’ संवत्सरे गते सति पश्चात् ‘प्रजाः’ ‘वाचम्’ ‘प्रवदन्ति’ ॥ ३८ ॥

Eggeling
  1. Here now they say, ‘If the Viśvajyotis (brick) is progeny, and the Ashāḍḥā speech, why does he put the two seasonal ones between them?’ Well, the seasonal ones being the year, he thus separates speech from progeny by the year, and hence children utter speech at the time (or age) of a year.

३९

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘षाढा ऽसि स᳘हमाने᳘ति॥
(त्य᳘) अ᳘सहन्त ह्येत᳘या देवा ऽअ᳘सुरान्त्स᳘हस्वा᳘रातीः स᳘हस्व पृतनायत ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः सह᳘स्रवीर्या ऽसि[[!!]]] सा᳘ मा जिन्वे᳘ति स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्ववीर्या ऽसि सा᳘ मा जिन्वे᳘त्येत᳘त्सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘षाढा ऽसि स᳘हमाने᳘ति॥
(त्य᳘) अ᳘सहन्त ह्येत᳘या देवा ऽअ᳘सुरान्त्स᳘हस्वा᳘रातीः स᳘हस्व पृतनायत ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः सह᳘स्रवीर्या ऽसि[[!!]]] सा᳘ मा जिन्वे᳘ति स᳘र्व्वं वै᳘ सह᳘स्रᳫँ᳭ स᳘र्व्ववीर्या ऽसि सा᳘ मा जिन्वे᳘त्येत᳘त्सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - Weber

अ᳘षाढासि स᳘हमाने᳘ति॥
अ᳘सहन्त ह्येत᳘या देवा अ᳘सुरान्त्स᳘हस्वा᳘रातीः स᳘हस्व पृतनायत इ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः सह᳘स्रवीॗर्यासि सा᳘ मा जिन्वे᳘ति स᳘र्वं वै᳘ सह᳘स्रᳫं स᳘र्ववीर्यासि सा मा जिन्वे᳘त्येत᳘त्सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

“अषाढा ऽसि सहमाना”- इति । असहन्त या देवा असुरान् । “सहस्वारातीः सहस्व पृतनायतः”- इति । यथैव यजुस्तथा बन्धुः । “सहस्रवीर्या ऽसि सा मा जिन्व”- (वा. सं. १३ । २६) इति । सर्वं वै सहस्रम् । सर्ववीर्या ऽसि । सा मा जिन्वेत्येतत् । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ ३९ ॥

सायणः

प्रकृताया इष्टकाया उपधाने मन्त्रं विदधानो व्याचष्टे- अषाढा ऽसीत्यादिना 31 । यतो ‘देवाः’ ‘एतया’ इष्टकया ‘असुरान्’ ‘असहन्त’ निराकुर्वन् । अतः सहनसाधनत्वादषाढा ऽसीति मन्त्र आह । ‘सहस्रवीर्या ऽसि’- इत्यत्र सहस्रशब्देनापरिमितसङ्ख्या विवक्षितेति दर्शयति- सर्वं वै सहस्रमिति । हे इष्टके ! त्वम् ‘सहमाना’ असुराणां निराकर्त्री, अतो नाम्ना अषाढा ऽसि, तस्माद् ‘अरातीः’ अदानशीलान् शत्रून् ‘सहस्व’ परिभावय । किं च ये पूर्वं विरोधिनो न भवन्ति इतः परं पृतनां संग्राममिच्छन्ति ते पृतनायन्तः पृतनाशब्दस्याकारलोपाभावश्छान्दसः । तानपि परिभावय । किं च त्वं ‘सहस्रवीर्या ऽसि’ अपरिमितसङ्ख्याकवीर्यविशिष्टा ऽसि । अनेन विशेषणेन शत्रुनिराकरणसामर्थ्यमुपपादितम् । सा त्वं ‘मा’ मां ‘जिन्व’ प्रीणीहीति मन्त्रार्थः ॥ ३९ ॥

Eggeling
  1. [He lays down the Ashāḍḥā, with Vāj. S. XIII, 26] ‘Thou art Ashāḍḥā, the conquering,’ for the gods thereby conquered the Asuras,–‘conquer the enemies! conquer the hostile!’ as the text, so the meaning;–’thou hast a thousand energies: do thou speed me!’ a thousand means

all: thus, ’thou hast all energies, do thou speed me!’ When he has ‘settled’ it, he pronounces the Sūdadohas on it: the significance of this has been explained.

४०

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दाहुः॥
क᳘स्मादभिस्वयमातृण्ण᳘मन्या ऽइ᳘ष्टका ऽउपधीय᳘न्ते प्रा᳘च्य ऽएता ऽइ᳘ति द्वौ वै यो᳘नी ऽइ᳘ति ब्रूयाद्देवयोनि᳘रन्यो᳘ मनुष्ययोनि᳘रन्यः᳘ प्राची᳘नप्रजनना वै᳘ देवाः᳘ प्रतीची᳘नप्रजनना मनु᳘ष्यास्तद्य᳘देताः प्रा᳘चीरुपद᳘धाति देवयोने᳘रे᳘वैतद्य᳘जमानं प्र᳘जनयति॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दाहुः॥
क᳘स्मादभिस्वयमातृण्ण᳘मन्या ऽइ᳘ष्टका ऽउपधीय᳘न्ते प्रा᳘च्य ऽएता ऽइ᳘ति द्वौ वै यो᳘नी ऽइ᳘ति ब्रूयाद्देवयोनि᳘रन्यो᳘ मनुष्ययोनि᳘रन्यः᳘ प्राची᳘नप्रजनना वै᳘ देवाः᳘ प्रतीची᳘नप्रजनना मनु᳘ष्यास्तद्य᳘देताः प्रा᳘चीरुपद᳘धाति देवयोने᳘रे᳘वैतद्य᳘जमानं प्र᳘जनयति॥

मूलम् - Weber

त᳘दाहुः॥
क᳘स्मादभिस्वयमातृण᳘मन्या इ᳘ष्टका उपधीय᳘न्ते प्रा᳘च्य एता इ᳘ति द्वे वै यो᳘नी इ᳘ति ब्रूयाद्देवयोनि᳘रन्यो᳘ मनुष्ययोनि᳘रन्यः᳘ प्राची᳘नप्रजनना वै᳘ देवाः᳘ प्रतीची᳘नप्रजनना मनुॗष्यास्तद्य᳘देताः प्रा᳘चीरुपद᳘धाति देवयोने᳘रेॗवैतद्य᳘जमानम् प्र᳘जनयति॥

मूलम् - विस्वरम्

तदाहुः- कस्मादभिस्वयमातृण्णमन्या इष्टका उपधीयन्ते- प्राच्य एता इति । द्वौ वै योनी ऽइति ब्रूयात्- देवयोनिरन्यः, मनुष्ययोनिरन्यः । प्राचीनप्रजनना वै देवाः, प्रतीचीनप्रजनना मनुष्याः । तद्यदेताः प्राचीरुपदधाति- देवयोनेरेवैतद्यजमानं प्रजनयति ॥ ४० ॥

सायणः

अथ दूर्वेष्टकादीनां स्वयमातृण्णायाः प्राग्भाग उपधाने कारणमाह- तदाहुरिति । ‘अभिस्वयमातृण्णम्’ स्वयमातृण्णाम् अभिलक्ष्य स्वयमातृण्णाया उपरिभाग इत्यर्थः । “लक्षणेनाभिप्रती आभिमुख्ये”- (पा. सू. २ । १ । १४) इत्यव्ययीभावसमासः । अन्या इष्टकाः उपरि वक्ष्यमाणाः उपधीयन्ते, ‘एताः’ दूर्वेष्टकादयस्तु तस्याः प्राच्य उपधीयन्त इति यदस्ति तत्रोत्तरमाह- द्वौ वै योनी इति । ‘देवयोनिरन्यो’ ‘मनुष्ययोनिरन्यः’ इति यदुक्तमन्यत्वं तदाह- प्राचीनेति । प्राचीने पूर्वभागे प्रजननमुत्पत्तिस्तत्कारणं वा येषां ते, तथोक्ताः । मनुष्याः तु ‘प्रतीचीनप्रजननाः,’ ततश्च ‘एताः’ इष्टकाः स्वयमातृण्णायाः ‘प्राचीः’ प्रागपवर्गाः ‘उपदधाति’ इति यत् तेन ‘देवयोनेरेव’ एनं ‘यजमानम्’ उत्पादयति । दूर्वेष्टकादीनामुत्तरोत्तरपूर्वभावेनोपधानं कात्यायनेनोक्तम्- “पूर्वां पूर्वामुत्तराः”- (का. श्रौ. सू. १७ । ९१) इति ॥ ४० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे चतुर्थे ऽध्याये द्वितीयं ब्राह्मणम् ॥ (७-४-२) ॥ वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्च सीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरभूपालसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये सप्तमकाण्डे चतुर्थो ऽध्यायः समाप्तः ॥ ७-४ ॥

Eggeling
  1. Here now they say, ‘Why are those other bricks placed in front of the naturally-perforated one?’ Let him say, There are two wombs (birthplaces)–the one being the womb of the gods, the other the womb of men: the gods have their birthplace in the east, and men in the west; and when he lays down those (bricks) in front, he thereby causes the Sacrificer to be born from the womb of the gods.

  1. 377:1 ? Viz. inasmuch as the food is introduced into the body from above. It might also mean, he makes the food superior to the body, inasmuch as the body cannot exist without it. Similarly as regards the breath in the next paragraph. ↩︎ ↩︎

  2. 378:1 The ‘pratishṭḥā’ (basis) of the bird-shaped Agni includes the parts on which the bird stands or sits, viz. the feet, and the hind-part of the body. Sāyaṇa, on the other hand, takes it to mean the ‘puṁliṅga,’ which seems very improbable. ↩︎

  3. 378:2 See VI, 2, 3, 1. ↩︎

  4. महीधरस्तु- ‘शन्तमेन’ अत्यन्तसुखकारिणा ‘छर्दिषा’ गृहेणेति व्याचख्यौ । तच्च निघण्टौ (३ । ४ । १८) द्रष्टव्यम् ↩︎

  5. 379:1 See p. 155, note 8. ↩︎

  6. 379:2. That is, by adding the formula, ‘By that deity, Aṅgiras-like, lie thou steady!’ ↩︎

  7. 379:3 See p. 301, note 3. ↩︎

  8. 379:4 That is to say, How will he (the Sacrificer) be able to rise upwards to heaven, when that brick is lying on him? ↩︎

  9. 379:5 See p. 187, note 3. ↩︎

  10. 380:1 See VI, 2, 3, 2. ↩︎

  11. 381:1 The root is to lie on the brick from which (as representing the earth) it is supposed to have sprung; the tops then spreading along the ground. ↩︎

  12. 381:2 This brick is placed close beside the svayamātr̥ṇṇā (naturally-perforated one) in front (east) of it, on the ‘anūka’ or spine. ↩︎

  13. 382:1 The verb ‘apa-śish’ is taken similarly by Sāyaṇa (avaśeshayet); whilst the St. Petersburg dictionary assigns to it the meaning ’to omit, leave out’ (weglassen), which can hardly be correct (? misprint for übriglassen). It might, however, possibly be taken in the sense of ‘vi-śish,’ to specify, to single out. ↩︎

  14. 382:2 That is to say, he would not, after quitting his mortal body, know or find out that divine body with which he wishes to invest himself. ↩︎

  15. व्विराट्स्वराडिति रेतःसिचौ प्रतिमंत्रम् । का. श्रौ. सू. १७ । ९४ । ↩︎

  16. एकचोदनास्वेकदेशायु तंत्रेण । का० श्रौ० सू० । १६ । २१६ । ↩︎

  17. 384:1 Or, the wide-shining . . . the self-shining one. ↩︎

  18. 384:2 The two Retaḥsic bricks are laid down immediately in front (east) of the Dviyajus one, one on each side of the ‘spine,’ which thus coincides with their line of separation. ↩︎

  19. 384:3 See VI, 5, 3, 3. ↩︎

  20. 384:4 As in the case of the Svayamātr̥ṇṇās (naturally-perforated bricks, see pp. 155, note 8; 187, note 2), so there are three Viśvajyotis or ‘all-light’ bricks, placed in the first, third, and fifth layers of the altar, and representing the light (or ruling deity) of the respective world represented by the svayamātr̥ṇṇā of the same layer. ↩︎

  21. 385:1 In reality the Viśvajyotis brick is not placed between the two Retaḥsic, but in front of the line separating them from each other. ↩︎

  22. प्रजापतिरिति विश्वज्योतिषम् । का. श्रौ. सू. १७ । ९५ । ↩︎

  23. 385:2 He ‘saw’ the first naturally-perforated brick, which, as the central brick of the first layer, represents the latter, as well as the lowest of the three worlds, the earth. See VI, 2, 3, 1. ↩︎

  24. 385:3 Viz. by adding, ‘by that deity, Aṅgiras-like, lie thou steady!’ ↩︎

  25. ऋतव्व्ये मधुश्च माधवश्चेति । का. श्रौ. सू. १७ । ९६ । ↩︎

  26. 386:1 That is, he pronounces the sādana-formula once only. ↩︎

  27. 386:2 Viz. its foundation. ↩︎

  28. 387:1 See VI, 5, 3, 1-2. ↩︎

  29. 387:2 Viz. by threats, vituperation, &c., Sāy. ↩︎

  30. 388:1 See VII, 5, 2, 40 seq. ↩︎

  31. अषाढा ऽसीत्यषाढाम् । का. श्रौ. सू. १७ । ९७ । ↩︎