०१
विश्वास-प्रस्तुतिः
आत्म᳘न्नग्निं᳘ गृह्णीते चेष्य᳘न्॥
(न्ना) आत्म᳘नो वा᳘ ऽएतम᳘धि जनयति यादृ᳘शाद्वै जा᳘यते तादृ᳘ङ्ङेव᳘ भवति स य᳘दात्मन्न᳘गृहीत्वा ऽग्निं᳘ चिनुया᳘न्मनु᳘ष्यादेव᳘ मनु᳘ष्यं जन᳘येन्म᳘र्त्त्यान्म᳘र्त्यमनपहतपाप्मनो᳘ ऽनपहतपाप्मानम᳘थ य᳘दात्म᳘न्नग्निं᳘ गृहीत्वा᳘ चिनो᳘ति त᳘दग्ने᳘रेवा᳘ध्यग्निं᳘ जन᳘यत्यमृ᳘तादमृ᳘तम᳘पहतपाप्मनो᳘ ऽपहतपाप्मानम्॥
मूलम् - श्रीधरादि
आत्म᳘न्नग्निं᳘ गृह्णीते चेष्य᳘न्॥
(न्ना) आत्म᳘नो वा᳘ ऽएतम᳘धि जनयति यादृ᳘शाद्वै जा᳘यते तादृ᳘ङ्ङेव᳘ भवति स य᳘दात्मन्न᳘गृहीत्वा ऽग्निं᳘ चिनुया᳘न्मनु᳘ष्यादेव᳘ मनु᳘ष्यं जन᳘येन्म᳘र्त्त्यान्म᳘र्त्यमनपहतपाप्मनो᳘ ऽनपहतपाप्मानम᳘थ य᳘दात्म᳘न्नग्निं᳘ गृहीत्वा᳘ चिनो᳘ति त᳘दग्ने᳘रेवा᳘ध्यग्निं᳘ जन᳘यत्यमृ᳘तादमृ᳘तम᳘पहतपाप्मनो᳘ ऽपहतपाप्मानम्॥
मूलम् - Weber
आत्म᳘न्नग्निं᳘ गृह्णीते चेष्य᳘न्॥
आत्म᳘नो वा᳘ एतम᳘धिजनयति यादृ᳘शाद्व जा᳘यते तादृ᳘ङ्ङेव᳘ भवति स य᳘दात्मन्न᳘गृहीत्वाग्निं᳘ चिनुया᳘न्मनु᳘ष्यादेव᳘ मनुष्यं जन᳘येन्म᳘र्त्यान्म᳘र्त्यमनपहतपाप्मनो᳘ ऽनपहतपाप्मानम᳘थ य᳘दात्म᳘न्नग्निं᳘ गृहीत्वा᳘ चिनो᳘ति त᳘दग्ने᳘रेवा᳘ध्यग्निं᳘ जन᳘यत्यमृ᳘तादमृ᳘तम᳘पहतपाप्मनो᳘ ऽपहतपाप्मानम्॥
मूलम् - विस्वरम्
आत्मन्नग्निं गृह्णीते चेष्यन् । आत्मनो वा ऽएतमधि जनयति । यादृशाद्वै जायते- तादृङ्ङेव भवति । स यदात्मन्नगृहीत्वा ऽग्निं चिनुयाद्- मनुष्यादेव मनुष्यं जनयेत्, मर्त्यान्मर्त्यम्, अनपहतपाप्मनो ऽनपहतपाप्मानम् । अथ यदात्मन्नग्निं गृहीत्वा चिनोति- तदग्नेरेवाध्यग्निं जनयति, अमृतादमृतम्, अपहतपाप्मनो ऽपहतपाप्मानम् ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अग्निग्रहणसत्यसामगानपुष्करपर्णोपधानानि पूर्वस्मिन् ब्राह्मणे संग्रहेण विहितानि, इदानीं तानि क्रमेण प्रपञ्चयति- आत्मन्नग्निं गृह्णीते चेष्यन्नित्यादिना । ‘चेष्यन्’ चयनं करिष्यन्नध्वर्युः ‘आत्मन्’ आत्मनि ‘अग्निम्’ ‘गृह्णीते’ मन्त्रेण धारयेत् । आत्मनो वा इत्यादि । अध्वर्युः ‘आत्मनो ऽधि’ अधिः पञ्चम्यर्थानुवादी “अधिपरी अनर्थकौ”- इति (पा. सू. १ । ४ । ९३) पाणिनिस्मरणात् । आत्मनः सकाशात् खल्वध्वर्युः ‘एतम्’ चित्याग्निम् ‘जनयति’ तथा सति लोकस्थितिरीदृशी ‘यादृशाद्’ यादृक्स्वरूपात् खलु मनुष्यादिशरीराद् गर्भो ‘जायते’ स ‘तादृङ्’ तत्सदृश एव निष्पद्यते । सति ह्यग्निग्रहणे ऽध्वर्युरग्न्यात्मको भवति । तादृशादध्वर्योर्जायमानचित्याग्निरपि साक्षादग्निरूपो भवति । तस्मादात्मन्यग्निग्रहणं कर्त्तव्यमित्यर्थः । अगृहीत्वा चयने दोषमुपन्यस्यति- स यदात्मन्निति । ‘सः’ अध्वर्युः ‘यद्’ यद्यात्मन्यग्निग्रहणमकृत्वा ‘अग्निं चिनुयात्’ तदा देवरूपा ऽनापन्नान्मनुष्यशरीरमात्रान्मनुष्यात्मकमेव जनयेत्, कारणानुरूपत्वात् कार्यस्येति भावः । कारणं हि शरीरं मनुष्यजातीयम्; अत एव ‘मर्त्यम्’ मरणशीलम्, अनपहतपाप्मकम्, मरणादिहेतुभूतपापसहितम्, तथाविधाज्जायमानो ऽग्निरपि तादृग्रूपो भवतीति तात्पर्यार्थः । सति त्वग्निग्रहणे ऽभिहितदोषवैपरीत्यमाह- अथ यदिति । तदग्नेरेवेत्यादि । अग्निरूपात्मनः सकाशाज्जनयन्नग्निमेव ‘जनयति’ अमृतरूपस्याग्नेर्धारणादध्वर्युरप्यमृतात्मकः । शिष्टं स्पष्टम् ॥ १ ॥
Eggeling
- Being about to build Agni (the fire-altar), he takes him up into his own self; for from out of his own self he causes him to be born, and wherefrom one is born, suchlike he becomes. Now were he to build up Agni without taking him up into his own self, he would beget man from man, mortal from mortal, one not freed from sin from one not freed from sin; but when he builds up Agni after taking him up into his own self, he causes Agni to be born from Agni, the immortal from the immortal, the sinless from the sinless.
०२
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स᳘ गृह्णाति॥
म᳘यि गृह्णाम्य᳘ग्रे ऽअग्निमि᳘ति त᳘दात्म᳘न्नेवा᳘ग्रे ऽग्निं᳘ गृह्णीते रायस्पो᳘षाय सुप्रजास्त्वा᳘य सुवी᳘र्याये᳘ति त᳘दु स᳘र्व्वा ऽआशि᳘ष ऽआत्म᳘न्गृह्णीते मा᳘मु देव᳘ताः सचन्तामि᳘ति त᳘दु स᳘र्व्वान्देवा᳘नात्म᳘न्गृह्णीते तद्यत्किं᳘ चात्मनो᳘ ऽधिजनयिष्यन्भ᳘वति तत्स᳘र्व्वमात्म᳘न्गृह्णीते स वै ति᳘ष्ठन्नात्म᳘न्नग्निं᳘ गृही᳘त्वा ऽनूपवि᳘श्य चिनोति पशु᳘रेष य᳘दग्निस्त᳘स्मात्पशुस्ति᳘ष्ठन्ग᳘र्भं धि᳘त्वा ऽनूपवि᳘श्य व्वि᳘जायते॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स᳘ गृह्णाति॥
म᳘यि गृह्णाम्य᳘ग्रे ऽअग्निमि᳘ति त᳘दात्म᳘न्नेवा᳘ग्रे ऽग्निं᳘ गृह्णीते रायस्पो᳘षाय सुप्रजास्त्वा᳘य सुवी᳘र्याये᳘ति त᳘दु स᳘र्व्वा ऽआशि᳘ष ऽआत्म᳘न्गृह्णीते मा᳘मु देव᳘ताः सचन्तामि᳘ति त᳘दु स᳘र्व्वान्देवा᳘नात्म᳘न्गृह्णीते तद्यत्किं᳘ चात्मनो᳘ ऽधिजनयिष्यन्भ᳘वति तत्स᳘र्व्वमात्म᳘न्गृह्णीते स वै ति᳘ष्ठन्नात्म᳘न्नग्निं᳘ गृही᳘त्वा ऽनूपवि᳘श्य चिनोति पशु᳘रेष य᳘दग्निस्त᳘स्मात्पशुस्ति᳘ष्ठन्ग᳘र्भं धि᳘त्वा ऽनूपवि᳘श्य व्वि᳘जायते॥
मूलम् - Weber
स᳘ गृह्णाति॥
म᳘यि गृह्णाम्य᳘ग्रे अग्निमि᳘ति त᳘दात्म᳘न्नेवा᳘ग्रे ऽग्निं᳘ गृह्णाति रायस्पो᳘षाय सुप्रजास्त्वा᳘य सुवी᳘र्याये᳘ति त᳘दु स᳘र्वा आशि᳘ष आत्म᳘न्गृह्णीते मा᳘मु देव᳘ताः सचन्तामि᳘ति त᳘दु स᳘र्वान्देवा᳘नात्म᳘न्गृह्णीते तद्यत्किं᳘ चात्मनो᳘ ऽधि जनयिष्यन्भ᳘वति तत्स᳘र्वमात्म᳘न्गृह्णीते स वै ति᳘ष्ठन्नात्म᳘न्नग्निं᳘ गृहीॗत्वानूपवि᳘श्य चिनोति पशु᳘रेष य᳘दग्निस्त᳘स्मात्पशुस्ति᳘ष्ठन्ग᳘र्भं धिॗत्वानूपवि᳘श्य वि᳘जायते॥
मूलम् - विस्वरम्
स गृह्णाति- “मयि गृह्णाम्यग्ने ऽअग्निम्"- इति । तदात्मन्नेवाग्रे ऽग्निं गृह्णीते । “रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय”- इति । तदु सर्वा आशिष आत्मन् गृह्णीते । मामु देवताः सचन्ताम्"- (वा. सं १३ । १) इति । तदु सर्वान्देवानात्मन् गृह्णीते । तद्यत्किंचात्मनो ऽधिजनिष्यन्भवति- तत्सर्वमात्मन् गृह्णीते । स वै तिष्ठन्नात्मन्नाग्निं गृहीत्वा ऽनूपविश्य चिनोति । पशुरेष यदग्निः । तस्मात्पशुस्तिष्ठन् गर्भं धित्वा ऽनूपविश्य विजायते ॥ २ ॥
सायणः
इत्थमग्निग्रहणस्यावश्यकर्त्तव्यतामुपपाद्य समन्त्रकं तद्विधत्ते- स गृह्णातीति । “मयि गृह्णामि” इति ग्रहणमन्त्रः । तत्र ‘मयि’ इत्यस्मच्छब्दश्रवणादात्मन्यग्नेर्ग्रहणं निगदसिद्धमित्याह- तदात्मन्नेवेति । ‘अग्रे’ चयनात्प्राक्काले । द्वितीयभागमनूद्य तस्य तात्पर्यमाह- रायस्पोषायेति । ‘रायस्पोषो’ धनसमृद्धिः, ‘सुप्रजास्त्वम्’ शोभनपुत्रपौत्रादियुक्तत्वम्, शोभनवीर्ययोगः ‘सुवीर्यम्’ । ‘तत्’ तेन मन्त्रभागेनोक्तलक्षणाः ‘सर्वाः आशिषः’ फलानि आत्मनि स्वीकरोति ॥
तृतीयभागमनूद्य व्याचष्टे- मामु देवता इति । यक्ष्यमाणदेवताः ‘माम्’ एव ‘सचन्ताम्’ मदीययज्ञं सेवन्ताम् ‘इति’ एतेन मन्त्रभागेन देवतानामप्यात्मनि ग्रहणं कृतं भवति । तद्यत् किंचेत्यादि । ‘तत्’ प्रागुक्तं ‘यत्’ किमपि मन्त्रप्रतिपाद्यमग्निरायस्पोषादिकम् ‘आत्मना’ जनयितव्यमस्ति ‘तत् सर्वम्’ अनेन मन्त्रेण आत्मनि गृहीतमेव भवतीति । अग्निग्रहणं च तिष्ठता कर्तव्यमिति स्थितिलक्षणं गुणं विधत्ते- स वै तिष्ठन्निति । चयनसमये तूपवेशनं तस्य विधत्ते- अनूपविश्य चिनोतीति । यत्र यत्रेष्टकामुपदधाति तं देशं गत्वा तत्समीपे उपविश्य चिनुयादित्यर्थः । एतदुभयं स्तौति- पशुरेष इति । ‘पशु-’ रूपो हि ‘एषः’ ‘अग्निः’, ‘तस्माद्’ एव हि कारणाद्भवादिलक्षणः ‘पशुस्तिष्ठन्’ एव ‘गर्भं’ धत्ते ‘अनूपविश्य विजायते’ प्रसूते । अतो ऽग्निग्रहणं गर्भधारणभूतत्वात्तिष्ठतैव कार्यम्, चयनं तु प्रसवरूपत्वादुपविष्टेनेति तात्पर्यम् ॥ २ ॥
Eggeling
- He takes him in (by muttering, Vāj. S. X III, 1), ‘Within me I first take Agni,’ he thereby first takes Agni into his own self;–‘for increase of wealth, for healthy progeny, for vigorous manhood!’ and hereby he takes all blessings to himself;–‘and may the deities stand by me!’ and hereby he takes all the gods to himself; and thus he takes into his own self all that he is about to generate from his own self. Having taken Agni
into his own self whilst standing, he builds him up sitting;–Agni is an animal: hence the animal, having received the foetus standing, gives birth after lying down.
०३
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ सत्यᳫँ᳭ सा᳘म गायति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवन्त्सत्य᳘मस्य मु᳘खं करवाम ते᳘ सत्यं᳘ भविष्या᳘मः सत्यं नो᳘ ऽनुवर्त्स्यति सत्यो᳘ नः स का᳘मो भविष्यति य᳘त्कामा ऽएत᳘त्करिष्या᳘मह ऽइ᳘ति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ सत्यᳫँ᳭ सा᳘म गायति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवन्त्सत्य᳘मस्य मु᳘खं करवाम ते᳘ सत्यं᳘ भविष्या᳘मः सत्यं नो᳘ ऽनुवर्त्स्यति सत्यो᳘ नः स का᳘मो भविष्यति य᳘त्कामा ऽएत᳘त्करिष्या᳘मह ऽइ᳘ति॥
मूलम् - Weber
अ᳘थ सत्यᳫं सा᳘म गायति॥
एतद्वै᳘ देवा᳘ अब्रुवन्त्सत्य᳘मस्य मु᳘खं करवाम ते᳘ सत्य᳘म् भविष्या᳘मः सत्यं नो᳘ ऽनुवर्त्स्यति सत्यो᳘ नः स का᳘मो भविष्यति य᳘त्कामा एत᳘त्करिष्या᳘मह इ᳘ति॥
मूलम् - विस्वरम्
अथ सत्यं साम गायति । एतद्वै देवा अब्रुवन्- सत्यमस्य मुखं करवाम, ते सत्यं भविष्यामः, सत्यं नो ऽनुवर्त्स्यति, सत्यो नः स कामो भविष्यति- यत्कामा एतत्करिष्यामह ऽइति ॥ ३ ॥
सायणः
अथ प्राग्विहितं सत्यसाम्नो गानमनूद्य स्तौति- अथ सत्यमिति । ‘एतद्वै’ एतस्मिन्नन्तरे खलु ‘देवाः’ ‘अब्रुवन्’ अस्याग्नेः ‘सत्यम्’ सत्यफलसाधनं ‘साम’ ‘मुखं करवाम’ तथाकरणाच्च वयं ‘सत्यं भविष्यामः’ सत्यभूताः सर्वदा बाधरहिताः स्याम; ‘नः’ अस्मान् ‘सत्यम्’ सत्याभिमानिदेवता ‘अनुवर्त्स्यति’ अनुवर्त्तनं करिष्यति । तथा च ‘नः’ अस्माकं ‘सः’ तादृशः कामः यज्ञफलरूपः ‘सत्यः’ यथार्थो ‘भविष्यति’ । यत् फलं कामयमानाः ‘एतद्’ अग्निचयनात्मकं कर्म ‘करिष्यामहे,’ ‘इति’- शब्दो देवानां कामपरिसमाप्तौ । एवं विचार्य ते देवाः ‘एतत्सत्यं साम पुरस्तादगायन्’ ‘तत्’ तेन सत्यसाम्नो गानेन ‘अस्य’ अग्नेः ‘मुखं सत्यमकुर्वन्’ ततः ‘ते’ देवाः ‘सत्यमभवन्’ सत्यत्वं प्राप्ता इत्यर्थः । व्याख्यातप्रायमन्यत् ॥ ३ ॥ ४ ॥
Eggeling
- He now sings the Satya Sāman 1 (true hymn). For the gods then said, ‘Let us make the truth (satya) his mouth (or beginning): thus we shall become the truth, truth will turn unto us, and true will become that wish of ours for which we are about to perform this rite!’
०४
विश्वास-प्रस्तुतिः
त᳘ ऽएत᳘त्सत्यᳫँ᳭ सा᳘म पुर᳘स्तादगायन्॥
(यँस्त᳘) त᳘दस्य सत्यं मुखमकुर्वंस्ते᳘[[!!]] सत्य᳘मभवन्त्सत्य᳘मेनान᳘न्ववर्त्तत सत्य᳘ ऽएषां स का᳘मो ऽभवद्य᳘त्कामा ऽएतद᳘कुर्वत॥
मूलम् - श्रीधरादि
त᳘ ऽएत᳘त्सत्यᳫँ᳭ सा᳘म पुर᳘स्तादगायन्॥
(यँस्त᳘) त᳘दस्य सत्यं मुखमकुर्वंस्ते᳘[[!!]] सत्य᳘मभवन्त्सत्य᳘मेनान᳘न्ववर्त्तत सत्य᳘ ऽएषां स का᳘मो ऽभवद्य᳘त्कामा ऽएतद᳘कुर्वत॥
मूलम् - Weber
त᳘ एत᳘त्सत्यᳫं सा᳘म पुर᳘स्तादगायन्॥
त᳘दस्य सत्यम् मु᳘खमकुर्वंस्ते᳘ सत्य᳘मभवन्त्सत्य᳘मेनान᳘न्ववर्तत सत्य᳘ एषाᳫं स कामो ऽभवद्य᳘त्कामा एतद᳘कुर्वत॥
मूलम् - विस्वरम्
त ऽएतत्सत्यं साम पुरस्तादगायन् । तदस्य सत्यं मुखमकुर्वन्, ते सत्यमभवन्, सत्यमेनानन्ववर्तत, सत्य एषां स कामो ऽभवत्- यत्कामा एतदकुर्वत ॥ ४ ॥
सायणः
[व्याख्यानं तृतीये]
Eggeling
- They sang that ’true hymn’ at the outset, and thus made the truth his (Agni’s) mouth; and they became the truth; the truth turned unto them, and true became that wish of theirs for which they performed this rite.
०५
विश्वास-प्रस्तुतिः
त᳘थै᳘वैतद्य᳘जमानः॥
(नो) य᳘त्सत्यᳫँ᳭ सा᳘म पुर᳘स्ताद्गा᳘यति त᳘दस्य सत्यं मु᳘खं करोति स᳘ सत्यं᳘ भवति सत्य᳘मेनम᳘नुवर्त्तते स᳘त्यो ऽस्य स का᳘मो भवति य᳘त्काम ऽएत᳘त्कुरुते॥
मूलम् - श्रीधरादि
त᳘थै᳘वैतद्य᳘जमानः॥
(नो) य᳘त्सत्यᳫँ᳭ सा᳘म पुर᳘स्ताद्गा᳘यति त᳘दस्य सत्यं मु᳘खं करोति स᳘ सत्यं᳘ भवति सत्य᳘मेनम᳘नुवर्त्तते स᳘त्यो ऽस्य स का᳘मो भवति य᳘त्काम ऽएत᳘त्कुरुते॥
मूलम् - Weber
त᳘थैॗवैतद्य᳘जमानः॥
य᳘त्सत्यᳫं सा᳘म पुर᳘स्ताद्गा᳘यति त᳘दस्य सत्यम् मु᳘खं करोति स᳘ सत्य᳘म् भवति सत्य᳘मेनम᳘नुवर्तते सॗत्यो ऽस्य स का᳘मो भवति य᳘त्काम एत᳘त्कुरुते॥
मूलम् - विस्वरम्
तथैवैतद्यजमानो यत् सत्यं साम पुरस्ताद्गायति- तदस्य सत्यं मुखं करोति, स सत्यं भवति, सत्यमेनमनुवर्तते, सत्यो ऽस्य स कामो भवति- यत्काम एतत्कुरुते ॥ ५ ॥
सायणः
इत्थं परकृतिमुपन्यस्य प्रकृते योजयति- तथैवेति । यथा देवाः ‘तथैव’ ‘एतद्’ एतर्हि ‘यजमानः’ ‘सत्यं साम’ ‘पुरस्तात्’ पूर्वस्यां दिशि ‘गायति’ इति ‘यद्’ अस्ति ‘तत्’ तेन ‘अस्य’ चित्याग्नेः ‘मुखम्’ ‘सत्यम्’ सर्वदा विद्यमानं ‘करोति’ ‘सः’ यजमानः स्वयमपि तथा करणात् सत्यात्मको ‘भवति’ गतमन्यत् ॥ ५ ॥
Eggeling
- And in like manner when the Sacrificer now, at the outset, sings the ’true hymn,’ he thereby makes the truth his (Agni’s) mouth; and he (himself) becomes the truth; and truth turns unto him; and true becomes that wish of his for which he performs this rite.
०६
विश्वास-प्रस्तुतिः
तद्यत्त᳘त्सत्यम्[[!!]]॥
(मा᳘) आ᳘प ऽएव तदा᳘पो हि वै᳘ सत्यं त᳘स्माद्येना᳘पो य᳘न्ति त᳘त्सत्य᳘स्य रूपमि᳘त्याहुरप᳘ ऽएव त᳘दस्य स᳘र्व्वस्या᳘ग्रमकुर्वंस्त᳘स्माद्य᳘दैवा᳘पो यन्त्य᳘थेदᳫँ᳭ स᳘र्व्वं जायते य᳘दिदं किं᳘ च॥
मूलम् - श्रीधरादि
तद्यत्त᳘त्सत्यम्[[!!]]॥
(मा᳘) आ᳘प ऽएव तदा᳘पो हि वै᳘ सत्यं त᳘स्माद्येना᳘पो य᳘न्ति त᳘त्सत्य᳘स्य रूपमि᳘त्याहुरप᳘ ऽएव त᳘दस्य स᳘र्व्वस्या᳘ग्रमकुर्वंस्त᳘स्माद्य᳘दैवा᳘पो यन्त्य᳘थेदᳫँ᳭ स᳘र्व्वं जायते य᳘दिदं किं᳘ च॥
मूलम् - Weber
तद्यत्त᳘त्सत्य᳘म्॥
आ᳘प एव तदा᳘पो हि वै᳘ सत्यं त᳘स्माद्येना᳘पो य᳘न्ति त᳘त्सत्य᳘स्य रूपमि᳘त्याहुरप᳘ एव त᳘स्य स᳘र्वस्या᳘ग्रमकुर्वंस्त᳘स्माद्य᳘दैवा᳘पो यन्त्य᳘थेदᳫं स᳘र्वं जायते य᳘दिदं किं᳘ च॥
मूलम् - विस्वरम्
तद् यत्तत्सत्यम्- आप एव तत् । आपो हि वै सत्यम् । तस्माद्येनापो यन्ति- तत्सत्यस्य रूपमित्याहुः । अप एव तदस्य सर्वस्याग्रमकुर्वन् । तस्माद्यदैवापो यन्ति- अथेदं सर्वं जायते- यदिदं किं च ॥ ६ ॥
सायणः
सत्यपदस्याभिप्रेतमर्थमाविष्कुर्वन् प्रशंसति- तद्यदिति । ‘तत्’ तत्र ‘तद्’ उक्तविधम् ‘यत्’ ‘सत्यम्’ ‘आप एव’ ‘तत्,’ अप्त्वमेव सत्यपदेनोक्तमित्यर्थः । अपां सत्यरूपतामुपपादयति- आपो हीति । ‘हि’ यस्माद् ‘आपः’ सत्यात्मिकाः ‘तस्माद्’ ‘येन’ भूप्रदेशेन ताः ‘आपः’ ‘यन्ति’ ‘गच्छन्ति’ ‘तत्’ स्थानं सत्यस्य उदकात्मकस्य ब्रह्मणो ‘रूपमित्याहुः’ कथयन्ति ब्रह्मवादिनः । अपां प्रथमसर्गश्च स्मर्यते- “अप एव ससर्जादौ तासु वीर्यमवाकिरत्”- इति (मनुः) । अप एव तदस्येत्यादि । अपां सत्यरूपत्वात्तेन सत्यसाम्नो ऽग्रतो गानेन ‘अस्य’ ‘सर्वस्य’ जगतः ‘अप एवाग्रम्’ मुखम् ‘अकुर्वन्’ देवा इत्यर्थः । अपामग्रकरणस्य फलमाह- तस्मादिति । ‘तस्माद्’ उक्तहेतोः ‘यदैव’ खलु ‘आपः’ वृष्ट्युत्पन्नाः ‘यन्ति’ प्रवहन्ति । ‘अथ’ अनन्तरमेव ‘इदम्’ दृश्यमानमोषधिवनस्पत्यादिरूपम् ‘सर्वम्’ जगदुत्पद्यते । सर्वशब्दस्य संकुचद्वृत्तितां निराचष्टे- यदिदमिति ॥ ६ ॥
Eggeling
- Now that truth is the same as the waters, for the waters are the truth. Hence they say, ‘Whereby 2 the waters flow, that is a form of the truth.’ It is the waters indeed that were made first of this universe: hence when the waters (rains) flow, then everything whatsoever exists is produced here.
०७
विश्वास-प्रस्तुतिः
(दा᳘) अ᳘थ पुष्करपर्णमु᳘पदधाति॥
यो᳘निर्व्वै᳘ पुष्करपर्णं यो᳘निमे᳘वैतदु᳘पदधाति॥
मूलम् - श्रीधरादि
(दा᳘) अ᳘थ पुष्करपर्णमु᳘पदधाति॥
यो᳘निर्व्वै᳘ पुष्करपर्णं यो᳘निमे᳘वैतदु᳘पदधाति॥
मूलम् - Weber
अ᳘थ पुष्करपर्णमु᳘पदधाति॥
यो᳘निर्वै᳘ पुष्करपर्णं यो᳘निमेॗवैतदु᳘पदधाति॥
मूलम् - विस्वरम्
अथ पुष्करपर्णेष्टकोपधानम् ।
अथ पुष्करपर्णमुपदधाति । योनिर्वै पुष्करपर्णम्- योनिमेवैतदुपदधाति ॥ ७ ॥
सायणः
पुष्करपर्णोपधानं विधाय स्तौति- अथ पुष्करपर्णमिति । ‘अथ’- शब्दः सामगानानन्तर्यार्थः । “तमद्भ्य उपोदासृप्तं पुष्करपर्णे विवेद”- (श. प. ७ । ३ । २ । १४) इति अग्न्युपलम्भाधिकरणत्वस्य श्रुतत्वात् पुष्करपर्णस्य योनित्वम् ॥ ७ ॥
Eggeling
- He then puts down a lotus-leaf (in the centre of
the altar-site);–the lotus-leaf is a womb: he hereby puts a womb to it (for Agni to be born from).
०८
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ पुष्करपर्ण᳘मुपद᳘धाति॥
(त्या᳘) आ᳘पो वै पु᳘ष्करं ता᳘सामियं᳘ पर्णं य᳘था ह वा᳘ ऽइदं᳘ पुष्करपर्ण᳘म᳘प्स्वध्या᳘हितमेव᳘मिय᳘म᳘प्स्वध्या᳘हिता᳘[[!!]] सेयं यो᳘निरग्ने᳘रिय᳘ᳫँ᳘ ह्यग्नि᳘रस्यै[[!!]] हि स᳘र्व्वो ऽग्नि᳘श्चीय᳘त ऽइमा᳘मे᳘वैतदु᳘पदधाति ताम᳘नन्तर्हिताᳫँ᳭ सत्यादु᳘पदधातीमां त᳘त्सत्ये प्र᳘तिष्ठापयति त᳘स्मादिय᳘ᳫँ᳘ सत्ये प्र᳘तिष्ठिता त᳘स्माद्विय᳘मेव᳘ सत्य᳘मिय᳘ᳫँ᳘ ह्ये᳘वैषां᳘ लोका᳘नामद्धातमा᳘म्॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ पुष्करपर्ण᳘मुपद᳘धाति॥
(त्या᳘) आ᳘पो वै पु᳘ष्करं ता᳘सामियं᳘ पर्णं य᳘था ह वा᳘ ऽइदं᳘ पुष्करपर्ण᳘म᳘प्स्वध्या᳘हितमेव᳘मिय᳘म᳘प्स्वध्या᳘हिता᳘[[!!]] सेयं यो᳘निरग्ने᳘रिय᳘ᳫँ᳘ ह्यग्नि᳘रस्यै[[!!]] हि स᳘र्व्वो ऽग्नि᳘श्चीय᳘त ऽइमा᳘मे᳘वैतदु᳘पदधाति ताम᳘नन्तर्हिताᳫँ᳭ सत्यादु᳘पदधातीमां त᳘त्सत्ये प्र᳘तिष्ठापयति त᳘स्मादिय᳘ᳫँ᳘ सत्ये प्र᳘तिष्ठिता त᳘स्माद्विय᳘मेव᳘ सत्य᳘मिय᳘ᳫँ᳘ ह्ये᳘वैषां᳘ लोका᳘नामद्धातमा᳘म्॥
मूलम् - Weber
य᳘द्वेव᳘ पुष्करपर्ण᳘मुपद᳘धाति॥
आ᳘पो वै पु᳘ष्करं ता᳘सामिय᳘म् पर्णं य᳘था ह वा᳘ इद᳘म् पुष्करपर्ण᳘मप्स्वध्या᳘हितमेव᳘मिय᳘मप्स्व᳘ध्या᳘हिताॗ सेयं यो᳘निरग्ने᳘रियᳫं ह्य᳘ग्नि᳘रस्यै हि स᳘र्वो ऽग्नि᳘श्चीय᳘त इमा᳘मेॗवैतदु᳘पदधाति ताम᳘नन्तर्हिताᳫं सत्यादु᳘पदधातीमां त᳘त्सत्ये प्र᳘तिष्ठापयति त᳘स्मादिय᳘ᳫं᳘ सत्ये प्र᳘तिष्ठिता त᳘स्माद्विय᳘मेव᳘ सत्य᳘मियᳫं ह्येॗवैषां᳘ लोका᳘नामद्धातमा᳘म्॥
मूलम् - विस्वरम्
यद्वेव पुष्करपर्णमुपदधाति । आपो वै पुष्करम् । तासामियं पर्णम् । यथा ह वा ऽइदं पुष्करपर्णमप्स्वध्याहितम्- एवमियमप्स्वध्याहिता । सेयं योनिरग्नेः । इयं ह्यग्निः । अस्यै हि सर्वो ऽग्निश्चीयते । इमामेवैतदुपदधाति । तामनन्तर्हितां सत्यादुपदधाति । इमां तत्सत्ये प्रतिष्ठापयति । तस्मादियं सत्ये प्रतिष्ठिता । तस्माद्वियमेव सत्यम् । इयं ह्येवैषां लोकानामद्धातमाम् ॥ ८ ॥
सायणः
प्रकारान्तरेण पुष्करपर्णस्याग्नियोनित्वमनुवादपूर्वकं प्रतिपादयति- यद्वेवेति । आपो वै पुष्करमित्यादि । “पुष्करं सर्वतोमुखम्”- (अ. को. १ । १० । ४) इत्यादिनिघण्टुप्रसिद्धिद्योतको ‘वै’- शब्दः । ‘तासाम्’ अपां प्रथमसृष्टानाम् ‘इयम्’ पृथिवी ‘पर्णम्’ पर्णस्थानीया । एतदेव विशदयति- यथा ह वा इति । ‘इदं पुष्करपर्णम्’ पद्मपत्रं यथा खलु ‘अप्स्वध्याहितम्’ उपर्याश्रितं सद् दृश्यते ‘एवमियम्’ पृथिवी ‘अप्सु’ उदकेषु ‘अध्याहिता’ उपर्याश्रिता वर्तते । अत एवोपरिष्टात् “तदपाँ शर आसीत्तत्समहन्यत सा पृथिव्यभवद्”- (श. प. १० । ६ । ५ । २) इत्याम्नास्यते; अतः पुष्करपर्णसाम्यात्पृथिव्याः पुष्करपर्णत्वम् । सेयं योनिरित्यादि । यदिदं पृथिव्यात्मकं पुष्करपर्णं ‘सेयम्’ ‘अग्नेः’ ‘योनिः’ उत्पत्तिकारणम्, अत एव ‘हि’ ‘इयम्’ पृथिवी कार्यकारणयोरभेदाच्चित्याग्निरूपेण वर्त्तते । एतत्तादात्म्यमुपपादयति- अस्यै हि सर्वो ऽग्निश्चीयत इति । “षष्ठ्यर्थे चतुर्थी”- (पा. सू. २ । ३ । ६२ । वा. १ ।) अस्याः पृथिव्याः सम्बन्धिनीभिर्मृन्मयीभिरिष्टकाभिः कृत्स्नः ‘अग्निश्चीयते’ अतः पृथिव्या अग्नेश्च तादात्म्यमुक्तमित्यर्थः । उदीरितरीत्या यतः पुष्करपर्णं पृथिवी, अतस्तदुपधानेन ‘इमामेव’ पृथिवीमुपहितवान् भवतीत्यर्थः । अथैतस्योपधानस्य सत्यसामानन्तर्यमनूद्य स्तौति- तामनन्तर्हितामिति । ‘सत्यात् ’ सत्यसामगानाद् ‘अनन्तर्हिताम्’ अव्यवहितां ‘ताम्’ पुष्करपर्णेष्टकामुपदध्यात् । ‘तत्’ तेनानन्तर्हितत्वेन ‘इमाम्’ पृथिवीं ‘सत्ये’ ‘प्रतिष्ठापयति’ ‘तस्माद्’ एव खलु ‘इयम्’ पृथिवी ‘सत्ये’ ब्रह्मण्यप्त्वोपाधिके ‘प्रतिष्ठिता’ दृश्यते । तस्माद्वियमिति । “उशब्दो ऽवधारणे”- इति । यस्मात् सत्ये प्रतिष्ठिता ‘तस्मादेव’ कारणादधिकरणाधिकर्तव्ययोरभेदोपचारेण ‘इयमेव’ पृथिवी ‘सत्यम्’ । सत्यरूपतामुपपादयति- इयं हीति । ‘एषाम्’ पृथिव्यन्तरिक्षद्युलोकानां मध्ये ऽपि ‘इयमेव’ खलु पृथिवी ‘अद्धातमाम्’ प्रत्यक्षतमाम्, अपारोक्ष्येणावभासमाना दृश्यते, तस्मादस्याः सत्यरूपत्वं बोद्धव्यम् । “किमेत्तिङव्ययधादाम्वद्रव्यप्रकर्षे”- (पा. सू. ५ । ४ । ११) इति आमुप्रत्ययः ॥ ८ ॥
Eggeling
- And, again, why he puts down a lotus-leaf;–the lotus means the waters, and this earth is a leaf thereof: even as the lotus-leaf here lies spread on the water, so this earth lies spread on the waters. Now this same earth is Agni’s womb, for Agni (the fire-altar) is this earth, since thereof the whole Agni is built up: it is this earth he thus lays down. He lays it down so as not to be separated from the truth: he thereby establishes this earth on the truth;–hence this earth is established on the truth; and hence the truth is this earth, for this earth is the most certain of these worlds.
०९
विश्वास-प्रस्तुतिः
(म) अपां᳘ पृष्ठ᳘मसि यो᳘निरग्नेरि᳘ति॥
(त्य) अपा᳘ᳫँ᳘ हीयं᳘ पृष्ठं यो᳘नि᳘र्हीय᳘मग्नेः᳘ समुद्र᳘मभि᳘तः पि᳘न्वमानमि᳘ति समुद्रो᳘ हीमा᳘मभि᳘तः पि᳘न्वते व्व᳘र्धमानो महाँ २॥ ऽआ᳘ च पु᳘ष्कर ऽइ᳘ति व्व᳘र्धमानो महीयस्व पु᳘ष्कर ऽइ᳘त्येत᳘द्दिवो मा᳘त्रया व्वरिम्णा᳘ प्रथस्वे᳘त्यनुवि᳘मार्ष्ट्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘र्नो हैत᳘मन्यो᳘ दिवो᳘ व्वरिमा य᳘न्तुमर्हति द्यौ᳘र्भू᳘त्वैनं यच्छे᳘त्ये᳘वैत᳘दाह स्वराजो᳘पदधाति स्वा᳘राज्य᳘ᳫँ᳘ ह्यपा᳘ᳫँ᳘[[!!]] सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(म) अपां᳘ पृष्ठ᳘मसि यो᳘निरग्नेरि᳘ति॥
(त्य) अपा᳘ᳫँ᳘ हीयं᳘ पृष्ठं यो᳘नि᳘र्हीय᳘मग्नेः᳘ समुद्र᳘मभि᳘तः पि᳘न्वमानमि᳘ति समुद्रो᳘ हीमा᳘मभि᳘तः पि᳘न्वते व्व᳘र्धमानो महाँ २॥ ऽआ᳘ च पु᳘ष्कर ऽइ᳘ति व्व᳘र्धमानो महीयस्व पु᳘ष्कर ऽइ᳘त्येत᳘द्दिवो मा᳘त्रया व्वरिम्णा᳘ प्रथस्वे᳘त्यनुवि᳘मार्ष्ट्यसौ वा᳘ ऽआदित्य᳘ ऽए᳘षो ऽग्नि᳘र्नो हैत᳘मन्यो᳘ दिवो᳘ व्वरिमा य᳘न्तुमर्हति द्यौ᳘र्भू᳘त्वैनं यच्छे᳘त्ये᳘वैत᳘दाह स्वराजो᳘पदधाति स्वा᳘राज्य᳘ᳫँ᳘ ह्यपा᳘ᳫँ᳘[[!!]] सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
अपा᳘म् पृष्ठ᳘मसि यो᳘निरग्नेरि᳘ति॥
अपाॗᳫंॗ हीय᳘म् पृष्ठं यो᳘निॗर्हीय᳘मग्नेः᳘ समुद्र᳘मभि᳘तः पि᳘न्वमानमि᳘ति समुद्रोॗ होमा᳘मभि᳘तः पि᳘न्वते व᳘र्धमानो महां आ᳘ च पु᳘ष्कर इ᳘ति व᳘र्धमानो महीयस्व पु᳘ष्कर इ᳘त्येत᳘द्दिवो मा᳘त्रया वरिम्णा᳘ प्रथस्वे᳘त्यनुवि᳘मार्ष्ट्यसौ वा᳘ आदित्य᳘ एॗषो ऽग्नि᳘र्नो हैत᳘मन्यो᳘ दिवो᳘ वरिमा य᳘न्तुमर्हति द्यौ᳘र्भूॗत्वैनं यछे᳘त्येॗवैत᳘दाह स्वराजो᳘पद्धाति स्वा᳘राज्यᳫं ह्य᳘पा᳘ᳫं᳘ सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“अपां पृष्ठमसि योनिरग्नेः”- इति । अपां हीयं पृष्ठम् । योनिर्हीयमग्नेः । “समुद्रमभितः पिन्वमानम्”- इति । समुद्रो हीमामभितः पिन्वते । “वर्द्धमानो महाँ २ ॥ आ च पुष्करे”- इति । वर्धमानो महीयस्व पुष्कर ऽइत्येतत् । “दिवो मात्रया वरिम्णा प्रथस्व"- (वा. सं. १३ । २) इत्यनुविमार्ष्टि । असौ वा ऽआदित्य एषो ऽग्निः । नो हैतमन्यो दिवो वरिमा यन्तुमर्हति । द्यौर्भूत्वैनं यच्छेत्येवैतदाह । स्वराजोपदधाति । स्वाराज्यं ह्यपाम् । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ ९ ॥
सायणः
अथ तस्मिन्पुष्करपर्णोपधाने मन्त्रं विधाय पदशो व्याचष्टे- अपां पृष्ठमसीति । अपां हीयमिति । ‘इयम्’ पृथिव्युपर्यवस्थानाद् ‘अपाम्’ पृष्ठवत् ‘पृष्ठम्’ अतो हे पुष्करपर्ण ! त्वम् ‘अपाम्’ उदकानां ‘पृष्ठमसि’ पृष्ठभागो भवसि । योनिर्हीयमिति । चित्यस्य ‘अग्नेः’ ‘योनिः’ पृथिवी, इष्टकोपादानत्वात् । हे पुष्करपर्ण । त्वमग्नेस्तादृशी योनिरसीति प्रथमपादार्थः । समुद्रो हीमामिति । ‘इमाम्’ पृथिवीम् ‘अभितः’ सर्वतः पृथिव्याः सर्वासु दिक्षु ‘समुद्रः’ ‘पिन्वते’ सिञ्चति, “पिवि सेचने”- (धा. पा. भ्वा. प. ५९०) इति धातुः । महच्छब्दस्य व्याख्यानम्- महीयस्वेति । “महीङ् 3 वृद्धौ” (धा. पा. कं. आ. ३९) इति धातुः कण्ड्वादिः । अनुविमार्ष्टीति । चतुर्थपादावसाने पुष्करपर्णमुपदधानस्तस्यानुलोम्येन विमार्जनं कुर्यात् । असौ वा आदित्य इत्यादि । चतुर्थपादव्याख्यानम् । नो हैतमन्य इति । द्युलोकव्यतिरिक्तः ‘अन्यो’ ‘वरिमा,’ भाववाचिना तद्वाल्ँलक्ष्यते । उरुतरः पदार्थः । एतमग्निम् ‘नो’ खलु ‘यन्तुमर्हति’ तथा च ‘दिवो मात्रया वरिम्णा’ इति इत्थंभावे तृतीयेति व्याख्यातं भवति; अतो ऽयमर्थः सम्पद्यत इत्याह- द्यौर्भूत्वेति । हे पुष्करपर्ण ! त्वं द्युलोको भूत्वा एतमग्निं ‘यच्छ’ यमयेति तात्पर्यार्थः । छन्दोद्वारेणैतत् प्रशंसति- स्वराजोपदधातीति । उत्तरार्द्धर्चे वैराजपादाभ्यां द्वे ऽअक्षरे अधिके तदाधिक्यं स्वराडाख्यच्छन्दसो लक्षणम् “द्वाभ्यां विराट्स्वराजौ” इति स्मरणात् । स्वायत्तं राजते ईष्टे इति स्वराड्, स्वतन्त्रेश्वरस्तस्य कर्म ‘स्वाराज्यम्’ ‘अपाम्’ ‘हि’ सम्बन्धि यत् स्वाराज्यं तदेव पुष्करपर्णम् । अतस्तस्य स्वराजोपधानं युक्तमिति भावः । सादयित्वा- इत्यादिकं प्रागुक्तार्थम् ॥ ९ ॥
Eggeling
- [He lays it down, with Vāj. S. XIII, 2] ‘The waters’ back thou art, the womb of Agni,’ for this earth is indeed the back of the waters, and the womb of Agni;–‘around the swelling ocean,’ for the ocean indeed swells around this earth;–‘growing great on the lotus,’ that is, ‘growing, flourish thou on the lotus;’–‘spread out with the extent, with the breadth, of the sky!’ with this he strokes along (the leaf),–for this Agni is yonder sun, and no other extent but that of the sky is able to contain him: he thus says (to the leaf), Having become the sky, contain him! He lays it down with a Svarāj verse, for self-rule (svārājya) belongs to the waters. Having ‘settled’ it, he pronounces the Sūdadohas 4 upon it: the significance of this has been explained.
१०
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ रुक्ममु᳘पदधाति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएष᳘ रुक्म᳘ ऽएष᳘ हीमाः स᳘र्व्वाः प्रजा᳘ ऽअतिरो᳘चते रोचो᳘ ह वै त᳘ᳫँ᳘ रुक्म ऽइत्या᳘चक्षते परो᳘क्षं परो᳘क्षकामा हि᳘ देवा᳘ ऽअमु᳘मे᳘वैत᳘दादित्यमु᳘पदधाति स᳘ हिरण्म᳘यो भवति परिमण्डल ऽए᳘कविᳫँ᳭शतिनिर्बाधस्त᳘स्योक्तो ब᳘न्धुरध᳘स्तान्निर्बाधमु᳘पदधाति रश्म᳘यो वा᳘ ऽएत᳘स्य निर्बाधा᳘ अव᳘स्तादु वा᳘ ऽएत᳘स्य रश्म᳘यः॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ रुक्ममु᳘पदधाति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएष᳘ रुक्म᳘ ऽएष᳘ हीमाः स᳘र्व्वाः प्रजा᳘ ऽअतिरो᳘चते रोचो᳘ ह वै त᳘ᳫँ᳘ रुक्म ऽइत्या᳘चक्षते परो᳘क्षं परो᳘क्षकामा हि᳘ देवा᳘ ऽअमु᳘मे᳘वैत᳘दादित्यमु᳘पदधाति स᳘ हिरण्म᳘यो भवति परिमण्डल ऽए᳘कविᳫँ᳭शतिनिर्बाधस्त᳘स्योक्तो ब᳘न्धुरध᳘स्तान्निर्बाधमु᳘पदधाति रश्म᳘यो वा᳘ ऽएत᳘स्य निर्बाधा᳘ अव᳘स्तादु वा᳘ ऽएत᳘स्य रश्म᳘यः॥
मूलम् - Weber
अ᳘थ रुक्भमु᳘पदधाति॥
असौ वा᳘ आदित्य᳘ एष᳘ रुक्भ᳘ एष हीमाः स᳘र्वाः प्रजा᳘ अतिरो᳘चते रोचो᳘ ह वै तं᳘ रुक्भ इत्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवा᳘ अमु᳘मेॗवैत᳘दादित्यमु᳘पदधाति स᳘ हिरण्म᳘यो भवति परिमण्डल ए᳘कविंशतिनिर्बाधस्त᳘स्योक्तो ब᳘न्धुरध᳘स्तान्निर्बाधमु᳘पदधाति रश्म᳘यो वा᳘ एत᳘स्य निर्बाधा᳘ अव᳘स्तादु वा᳘ एत᳘स्य रश्म᳘यः॥
मूलम् - विस्वरम्
अथ रुक्मेष्टकोपधानम् ।
अथ रुक्ममुपदधाति । असौ वा ऽआदित्य एष रुक्मः । एष हीमाः सर्वाः प्रजा अतिरोचते । रोचो ह वै तं रुक्म इत्याचक्षते परोक्षम् । परोक्षकामा हि देवाः । अमुमेवैतदादित्यमुपदधाति । स हिरण्मयो भवति परिमण्डल एकविंशतिनिर्बाधः । तस्योक्तो बन्धुः । अधस्तान्निर्बाधमुपदधाति । रश्मयो निर्बाधाः । अवस्तादु वा ऽएतस्य रश्मयः ॥ १० ॥
सायणः
आकाशात्मना स्तुतस्य पुष्करपर्णस्य मध्ये सूर्यमण्डलात्मना ध्यातव्यस्य रुक्मस्योपधानं विधत्ते- अथ रुक्ममिति । ‘अथ’- शब्दः पुष्करपर्णोपधानानन्तर्यार्थः । रुक्मस्यादित्यात्मकत्वमुपपादयति- एष हीमा इति । ‘एषः’ एव परिदृश्यमानो हि ‘असौ वा आदित्यः’ ‘इमाः’ ‘सर्वाः’ ‘प्रजाः’ ‘अतिरोचते,’ अतो रोचत इति व्युत्पत्त्या रुच्धातोः पचाद्यचि ‘रोच’ इति तस्य नामधेयं सम्पद्यते, तदेव पारोक्ष्येण ‘रुक्म’ इति ब्रुवते परोक्षप्रियत्वाद्देवानामित्यर्थः । रुक्मस्य प्रकृतिद्रव्यमाकृतिविशेषं च दर्शयति- स हिरण्मय इति । ‘सः’ रुक्मः सुवर्णमयः कार्यः । दाण्डिनायनादिसूत्रे (पा. सू. ६ । ४ । १७४) निपातनान्मयटि, हिरण्यशब्दस्यान्त्ययकारलोपः । ‘परिमण्डलः’ वर्त्तुलाकृतिः, ‘एकविंशतिनिर्बाधः’ एकविंशतिसङ्ख्याकैः पुलकैर्युक्तः कार्यः । तस्योक्त इति । ‘तस्य’ एकविंशतिनिर्बाधयोगस्य एकविंशो ह्येष बहिष्टान्निर्बाधं बिभर्ति (श. प. ६ । ७ । १ । २) इत्यादिना स्तुतिः प्रागाम्नातेत्यर्थः । उपधानसमये निर्बाधानामधोभागे ऽवस्थानं यथा भवति तथा कर्त्तव्यमिति विधत्ते- अधस्तान्निर्बाधमिति । तस्य कारणमाह- रश्मयो वा एतस्येति । सूर्यमण्डलस्याधस्ताद्भागे हि ‘रश्मयो’ निःसरन्ति; अतो रश्म्यात्मकानां निर्बाधानामधस्ताद्भागे करणं युक्तमिति भावः ॥ १० ॥
Eggeling
- He then puts the gold plate 5 thereon. Now
this gold plate is yonder sun, for he shines over all the creatures here on earth; and ‘rocas’ (shine) they mystically call ‘rukma’ (gold plate), for the gods love the mystic: he thus lays down yonder sun (on the altar). It is golden, and round, with one and twenty knobs,–the significance of this has been explained. He puts it down with the knobs pointing downward; for the knobs are his (the sun’s) rays, and his rays (shine) downwards.
११
विश्वास-प्रस्तुतिः
(स्तं᳘) तं᳘ पुष्करपर्ण ऽउ᳘पदधाति॥
यो᳘निर्व्वै᳘ पुष्करपर्णं यो᳘नावे᳘वैनमेतत्प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
(स्तं᳘) तं᳘ पुष्करपर्ण ऽउ᳘पदधाति॥
यो᳘निर्व्वै᳘ पुष्करपर्णं यो᳘नावे᳘वैनमेतत्प्र᳘तिष्ठापयति॥
मूलम् - Weber
त᳘म् पुष्करपर्ण उ᳘पदधाति॥
यो᳘निर्वै᳘ पुष्करपर्णं यो᳘नावेॗवैनमेतत्प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
तं पुष्करपर्ण ऽउपदधाति । योनिर्वै पुष्करपर्णम् । योनावेवैनमेतत्प्रतिष्ठापयति ॥ ११ ॥
सायणः
तस्य पुष्करपर्णमध्ये उपधानं विधत्ते- तं पुष्करपर्ण इति । पुष्करपर्णस्य योनिरूपत्वं प्रागुक्तम् ॥ ११ ॥
Eggeling
- He puts it down on the lotus-leaf;–the lotus-leaf is a womb: in the womb he thus places him (Agni).
१२
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ पुष्करपर्ण᳘ ऽउपद᳘धाति॥
प्रतिष्ठा वै᳘ पुष्करपर्ण᳘मियं वै᳘ पुष्करपर्ण᳘मिय᳘मु वै᳘ प्रतिष्ठा यो वा᳘ ऽअस्याम᳘प्रतिष्ठितो᳘ ऽपि दूरे सन्न᳘प्रतिष्ठित ऽएव स᳘ रश्मि᳘भिर्व्वा᳘ ऽए᳘षो ऽस्यां प्र᳘तिष्ठितो ऽस्या᳘मे᳘वैनमेत᳘त्प्रतिष्ठा᳘यां प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ पुष्करपर्ण᳘ ऽउपद᳘धाति॥
प्रतिष्ठा वै᳘ पुष्करपर्ण᳘मियं वै᳘ पुष्करपर्ण᳘मिय᳘मु वै᳘ प्रतिष्ठा यो वा᳘ ऽअस्याम᳘प्रतिष्ठितो᳘ ऽपि दूरे सन्न᳘प्रतिष्ठित ऽएव स᳘ रश्मि᳘भिर्व्वा᳘ ऽए᳘षो ऽस्यां प्र᳘तिष्ठितो ऽस्या᳘मे᳘वैनमेत᳘त्प्रतिष्ठा᳘यां प्र᳘तिष्ठापयति॥
मूलम् - Weber
य᳘द्वेव᳘ पुष्करपर्ण᳘ उपद᳘धाति॥
प्रतिष्ठा वै᳘ पुष्करपर्ण᳘मियं वै᳘ पुष्करपर्ण᳘मिय᳘मु वै᳘ प्रतिष्ठा यो वा᳘ अस्याम᳘प्रतिष्ठितो᳘ ऽपि दूरे सन्न᳘प्रतिष्ठित एव स᳘ रश्मि᳘भिर्वा᳘ एॗषो ऽस्याम् प्र᳘तिष्ठितो ऽस्या᳘मेॗवैनमेत᳘त्प्रतिष्ठा᳘याम् प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
यद्वेव पुष्करपर्ण ऽउपदधाति । प्रतिष्ठा वै पुष्करपर्णम् । इयं वै पुष्करपर्णम् । इयमु वै प्रतिष्ठा । यो वा ऽअस्यामप्रतिष्ठितो ऽपि दूरे सन्- अप्रतिष्ठित एव सः । रश्मिभिर्वा ऽएषो ऽस्यां प्रतिष्ठितः । अस्यामेवैनमेतत्प्रतिष्ठायां प्रतिष्ठापयति ॥ १२ ॥
सायणः
प्रकारान्तरेण पुष्करपर्णे रुक्मोपधानं स्तौति- यद्वेवेति । ‘प्रतिष्ठा’ आस्पदम्, तद्रूपतां पुष्करपर्णस्योपपादयति- इयं वै पुष्करपर्णमिति । यो वा अस्यामित्यादि । ‘यः’ खलु ‘अस्याम्’ पृथिव्याम् ‘अप्रतिष्ठितः’ प्रतिष्ठितो न भवति, स दूरदेशे ‘सन्’ वर्त्तमानो ऽपि ‘अप्रतिष्ठितः’ प्रतिष्ठारहितो निरालम्बन एव भवति । यद्येवमाकाशे वर्त्तमानस्य सूर्यस्य पृथिव्यामनवस्थानादेतेन पुष्करपर्ण उपधानेन ‘एनम्’ रुक्मरूपमादित्यम् ‘अस्याम्’ पृथिवीरूपायामेव ‘प्रतिष्ठायाम्’ ‘प्रतिष्ठापयति’ ॥ १२ ॥
Eggeling
- And, again, why he puts it on the lotus-leaf;–the lotus-leaf is a foundation, for the lotus-leaf is this earth, and this earth is the foundation: he who is not settled on this earth, is unsettled even as one who is far away. Now by means of his rays that (sun) is settled on this earth: he thus settles him (Agni) on this earth, as his foundation.
१३
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ पुष्करपर्ण᳘ ऽउपद᳘धाति॥
(ती᳘) इ᳘न्द्रो वृत्र᳘ᳫँ᳘ हत्वा᳘ नास्तृषी᳘ति म᳘न्यमानो ऽपः प्रा᳘विशत्ता᳘ ऽअब्रवीद्बिभे᳘मि वै पु᳘रं मे कुरुते᳘ति स᳘ यो ऽपाᳫँ᳭ र᳘स ऽआ᳘सीत्त᳘मूर्ध्व᳘ᳫँ᳘ समु᳘दौहंस्ता᳘मस्मै पु᳘रमकुर्वंस्तद्य᳘दस्मै पु᳘रम᳘कुर्वंस्त᳘स्मात्पू᳘ष्करं पू᳘ष्करᳫँ᳭ ह वै तत्पु᳘ष्करमित्या᳘चक्षते परो᳘क्षं परो᳘ ऽक्षकामा हि᳘ देवास्तद्य᳘त्पुष्करपर्ण᳘ ऽउपद᳘धाति य᳘मे᳘वास्मै तमा᳘पो र᳘सᳫँ᳭ समुदौ᳘हन्या᳘मस्मै पु᳘रम᳘कुर्वंस्त᳘स्मिन्ने᳘वैनमेतत्प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ पुष्करपर्ण᳘ ऽउपद᳘धाति॥
(ती᳘) इ᳘न्द्रो वृत्र᳘ᳫँ᳘ हत्वा᳘ नास्तृषी᳘ति म᳘न्यमानो ऽपः प्रा᳘विशत्ता᳘ ऽअब्रवीद्बिभे᳘मि वै पु᳘रं मे कुरुते᳘ति स᳘ यो ऽपाᳫँ᳭ र᳘स ऽआ᳘सीत्त᳘मूर्ध्व᳘ᳫँ᳘ समु᳘दौहंस्ता᳘मस्मै पु᳘रमकुर्वंस्तद्य᳘दस्मै पु᳘रम᳘कुर्वंस्त᳘स्मात्पू᳘ष्करं पू᳘ष्करᳫँ᳭ ह वै तत्पु᳘ष्करमित्या᳘चक्षते परो᳘क्षं परो᳘ ऽक्षकामा हि᳘ देवास्तद्य᳘त्पुष्करपर्ण᳘ ऽउपद᳘धाति य᳘मे᳘वास्मै तमा᳘पो र᳘सᳫँ᳭ समुदौ᳘हन्या᳘मस्मै पु᳘रम᳘कुर्वंस्त᳘स्मिन्ने᳘वैनमेतत्प्र᳘तिष्ठापयति॥
मूलम् - Weber
य᳘द्वेव᳘ पुष्करपर्ण᳘ उपद᳘धाति॥
इ᳘न्द्रो वृत्र᳘ᳫं᳘ हत्वा नास्तृषी᳘ति म᳘न्यमानो ऽपः प्रा᳘विशत्ता᳘ अब्रवीद्बिभे᳘मि वै पु᳘रम् मे कुरुते᳘ति सॗ यो ऽपां र᳘स आ᳘सीत्त᳘मूर्ध्व᳘ᳫं᳘ समु᳘दौहंस्ता᳘मस्मै पु᳘रमकुर्वंस्तद्य᳘दस्मै पु᳘रम᳘कुर्वंस्त᳘स्मात्पू᳘ष्करम् पू᳘ष्करᳫं ह वै तत्पु᳘ष्करमित्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवास्तद्य᳘त्पुष्करपर्ण᳘ उपद᳘धाति य᳘मेॗवास्यैतमा᳘पो र᳘सᳫं समुदौ᳘हन्या᳘मस्मै पु᳘रम᳘कुर्वंस्त᳘स्मिन्नेॗवैनमेतत्प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
यद्वेव पुष्करपर्ण ऽउपदधाति । इन्द्रो वृत्रं हत्वा नास्तृषीति मन्यमानो ऽपः प्राविशत् । ता अब्रवीत्- बिभेमि वै । पुरं मे कुरुतेति । स यो ऽपां रस आसीत्- तमूर्ध्वं समुदौहन् । तामस्मै पुरमकुर्वन् । तद्यदस्मै पुरमकुर्वन्- तस्मात्पूष्करम् । पूष्करं ह वै तत् पुष्करमित्याचक्षते परोक्षम् । परोक्षकामा हि देवाः । तद्यत्पुष्करपर्ण उपदधाति- यमेवास्मै तमापो रसं समुदौहन् । यामस्मै पुरमकुर्वन्- तस्मिन्नेवैनमेतत्प्रतिष्ठापयति ॥ १३ ॥
सायणः
एतदेव रुक्मोपधानस्य पुष्करपर्णाधिकरणत्वमाख्यायिकया पुष्करनामनिर्वचनेन प्रतिष्ठारूपतां ब्रुवन्स्तौति- यद्वेव पुष्करपर्ण इत्यादिना । ‘नास्तृषि’ न खल्वहमद्यापि वृत्रमहिंसिषमिति विपर्यस्तमतिः सन्नित्यर्थः । सः ‘इन्द्रः’ अनन्तरम् ‘अपः प्राविशत्,’ ‘ता अब्रवीत्’ च, अहं वृत्राद् ‘बिभेमि’ बिभ्यतो मम ‘पुरम्’ भयरहितमावासस्थानं हे आपः ! यूयं ‘कुरुत’ आपश्चैतद् वचः श्रुत्वा ‘यः’ स्वकीयः ‘रसः’ प्रातिस्विकः ‘आसीत्,’ ‘तमूर्द्ध्वं समुदौहन्’ समुदक्षिपन् । तमेव रसं पुष्करपर्णात्मना परिणतं निवासस्थानम् ‘अकुर्वन्’ यस्मादेवं पूरक्रियत तस्मात् तस्य पुष्करमिति नाम संपन्नम् । पूः क्रियते ऽनेनेति व्युत्पत्तेः ‘पुष्करम्’ इति प्रयोक्तव्ये ‘पुष्करम्’ इति प्रयोगस्तु पारोक्ष्यकरणायेति संग्रहेणार्थः । एवं पुष्करनामनिर्वचनं कृत्वा प्रकृते योजयति- तद्यत्पुष्करपर्ण इति । ‘अस्मै’ इन्द्राय ‘यमेव तम्’ ‘रसम्’ ‘आपः’ पुरा ‘समुदौहन्’ समुत्क्षिप्तवत्यः, तदनन्तरमस्मा एवेन्द्राय ‘यां’ ‘पुरम्’ पुष्करपर्णात्मिकाम् ‘अकुर्वन्’ ‘तस्मिन्नेव’ उभयरूपे स्वाश्रये रुक्मरूपेणावस्थितमिन्द्रशब्दाभिधेयम् ‘एनम्’ सूर्यम् ‘एतद्’ एतेन ‘प्रतिष्ठापयति’ इत्यर्थः ॥ १३ ॥
Eggeling
- And, again, why he puts it on the lotus-leaf. When Indra had smitten Vr̥tra, he, thinking that he had not laid him low, entered the waters. He said to them, ‘I am afraid: make ye a stronghold for me!’ Now what essence of the waters there was that they gathered upwards (on the surface), and made it a stronghold for him; and because they made (kar) a stronghold (pūḥ) for him, therefore it is ‘pūshkara;’ ‘pūshkara’ being what is mystically called ‘push-kara’ (lotus-leaf), for the gods love the mystic. Now when he puts it (the gold plate) on the lotus-leaf, he then establishes him (Agni) in that essence which the waters gathered together for him (Indra), and in that stronghold which they made for him.
१४
विश्वास-प्रस्तुतिः
ब्र᳘ह्म जज्ञानं᳘ प्रथमं᳘ पुर᳘स्तादि᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो ब्रह्मा᳘ ऽहरहः पुर᳘स्ताज्जायते व्वि᳘ सीमतः᳘ सुरु᳘चो व्वेन᳘ ऽआवरि᳘ति म᳘ध्यं वै᳘ सी᳘मेमे᳘ लोकाः᳘ सुरु᳘चो ऽसा᳘वादित्यो᳘ व्वेनो यद्वै᳘ प्रजि᳘जनिषमाणो᳘ ऽवेनत्त᳘स्माद्वेनस्ता᳘नेष᳘ सीमतो᳘ मध्यतो᳘ व्विवृण्वन्नुदेति[[!!]] स᳘ बु᳘ध्न्या ऽउपमा᳘ ऽअस्य व्विष्ठा ऽइ᳘ति दि᳘शो वा᳘ ऽअस्य बु᳘ध्न्या ऽउपमा᳘ व्विष्ठास्ता᳘ ह्येष᳘ ऽउपविति᳘ष्ठते सत᳘श्च यो᳘निम᳘सतश्च व्वि᳘वरि᳘तीमे वै᳘ लोकाः᳘ सत᳘श्च यो᳘निर᳘सतश्च य᳘च्च ह्य᳘स्ति य᳘च्च न त᳘देभ्य᳘ ऽएव᳘ लोके᳘भ्यो जायते त्रिष्टुभो᳘पदधाति त्रै᳘ष्टभो᳘ ह्येष᳘ सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
ब्र᳘ह्म जज्ञानं᳘ प्रथमं᳘ पुर᳘स्तादि᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो ब्रह्मा᳘ ऽहरहः पुर᳘स्ताज्जायते व्वि᳘ सीमतः᳘ सुरु᳘चो व्वेन᳘ ऽआवरि᳘ति म᳘ध्यं वै᳘ सी᳘मेमे᳘ लोकाः᳘ सुरु᳘चो ऽसा᳘वादित्यो᳘ व्वेनो यद्वै᳘ प्रजि᳘जनिषमाणो᳘ ऽवेनत्त᳘स्माद्वेनस्ता᳘नेष᳘ सीमतो᳘ मध्यतो᳘ व्विवृण्वन्नुदेति[[!!]] स᳘ बु᳘ध्न्या ऽउपमा᳘ ऽअस्य व्विष्ठा ऽइ᳘ति दि᳘शो वा᳘ ऽअस्य बु᳘ध्न्या ऽउपमा᳘ व्विष्ठास्ता᳘ ह्येष᳘ ऽउपविति᳘ष्ठते सत᳘श्च यो᳘निम᳘सतश्च व्वि᳘वरि᳘तीमे वै᳘ लोकाः᳘ सत᳘श्च यो᳘निर᳘सतश्च य᳘च्च ह्य᳘स्ति य᳘च्च न त᳘देभ्य᳘ ऽएव᳘ लोके᳘भ्यो जायते त्रिष्टुभो᳘पदधाति त्रै᳘ष्टभो᳘ ह्येष᳘ सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
ब्र᳘ह्म जज्ञान᳘म् प्रथम᳘म् पुर᳘स्तादि᳘ति॥
असौ वा᳘ आदित्यो ब्रह्मा᳘हरहः पुर᳘स्ताज्जायते वि᳘ सीमतः᳘ सुरु᳘चो वेन᳘ आवरि᳘ति म᳘ध्यं वै᳘ सीॗमेमे᳘ लोकाः᳘ सुरु᳘चो ऽसा᳘वादित्यो᳘ वेनो यद्वै᳘ प्रजि᳘जनिषमाणो᳘ ऽवेनत्त᳘स्माद्वेनस्ता᳘नेष᳘ सीमतो᳘ मध्यतो᳘ विवृण्वन्नु᳘देति स᳘ बुॗध्न्या उपमा᳘ अस्य विष्ठा इ᳘ति दि᳘शो वा᳘ अस्य बुॗध्न्या उपमा᳘ विष्ठास्ताॗ ह्येष᳘ उपविति᳘ष्ठते सत᳘श्च यो᳘निम᳘सतश्च वि᳘वरि᳘तीमे वै᳘ लोकाः᳘ सत᳘श्च यो᳘निर᳘सतश्च य᳘च्च ह्य᳘स्ति य᳘च्च न त᳘देभ्य᳘ एव᳘ लोके᳘भ्यो जायते त्रिष्टुभो᳘पदधाति त्रै᳘ष्टभोॗ ह्येष᳘ सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“ब्रह्म जज्ञानं प्रथमं पुरस्ताद्”- इति । असौ वा ऽआदित्यो- ब्रह्माहरहः पुरस्ताज्जायते । “वि सीमतः सुरुचो वेन आवः”- इति । मध्यं वै सीमा । इमे लोकाः सुरुचः । असावादित्यो वेनः । यद्वै प्रजिजनिषमाणो ऽवेनत्- तस्माद्वेनः । तानेष सीमतो मध्यतो विवृण्वन्नुदेति । “स बुध्न्या उपमा अस्य विष्ठाः”- इति । दिशो वा ऽअस्य बुध्न्या उपमा विष्ठाः । ता ह्येष उपवितिष्ठते । “सतश्च योनिमसतश्च विवः”- (वा० सं० १३ । ३) इति । इमे वै लोकाः सतश्च योनिरसतश्च- यच्च ह्यस्ति, यच्च न । तदेभ्य एव लोकेभ्यो जायते । त्रिष्टुभोपदधाति । त्रैष्टुभो ह्येषः । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ १४ ॥
सायणः
तस्मिन् रुक्मोपधाने मन्त्रं दर्शयति- ब्रह्म जज्ञानमिति 6 । ननु षड्भावविकाररहितमौपनिषदं ‘ब्रह्म’ तत् कथं तस्य जनिक्रियायोगो मन्त्रपदेन प्रतिपाद्यत इत्याशङ्क्य व्याचष्टे- असौ वा आदित्य इति । अत्र प्रादुर्भाव एव जनेरर्थो न तूत्पत्तिः । अयमर्थः- तदुक्तविधं ब्रह्म सगुणं सद् ‘असौ’ द्युलोकस्थ ‘आदित्यो’- भूत्वा प्रत्यहं ‘पुरस्तात्’ पूर्वस्यां दिशि ‘जायते’ उदेति । ‘जज्ञानम्’ इति जनेर्लिटः कानजादेशे (पा. सू. ३ । २ । १०६ ।) रूपम् ॥
द्वितीयपादे क्रमेण पदार्थानाह- मध्ये वा इति । ‘सीमतः’ इति पदे यत् सीमेति प्रातिपदिकं तन्मध्यमाचष्टे । सुष्ठु रोचन्ते सवितृप्रकाशेन दीप्यन्त इति ‘सुरुचः’ पृथिव्यादिलोकाः । “असावादित्यो वेनः”- इति यद् वेनो ऽसावुच्यते, तन्नामनिर्वचनं करोति- यद्वा इति । यस्मात् कारणात्- ‘प्रजिजनिषमाणः’ प्रजनितुं प्रादुर्भवितुमुदेतुमिच्छन् ‘अवेनत्’ कान्तियुक्तो ऽभवत् तस्मात् वेनति दीप्यत इति ‘वेनः’ इति सूर्यस्य नाम सम्पन्नम् । अत एव यास्को ऽप्याह स्म- “वेनो वेनतेः कान्तिकर्मणः”- इति (निरु. १० । ४ । १) । इत्थं पदार्थानुक्त्वा वाक्यार्थमाह- तानेष इति । ‘तान्’ सुरुक्छब्दाभिधेयान् पृथिव्यादिलोकान् ‘एषः’ सूर्यः ‘सीमतो’ ‘मध्यतो’ ‘व्यावः’ व्यावृणोत् उदयेन प्रकाशितवान् । वृणोतेर्लुङि, “मन्त्रे घस”- (पा. सू. २ । ४ । ८०) इत्यादिना च्लेर्लुक् । “छन्दस्यपि दृश्यते”- (पा. सू. ६ । ४ । ७३) इत्याडागमः । एतस्य पदस्योक्तार्थपरतां व्याचष्टे- विवृण्वन्नुदेतीति ॥
तृतीयपादमनूद्य व्याचष्टे- स बुध्न्या इति । बुध्नो मूलं तत्र भवाः “बुध्न्याः’ पादाः ते च ‘अस्य’ सूर्यस्य दिगात्मका रश्मिप्रसरणहेतुत्वात् । ‘ताः’ बुध्न्यशब्दाभिधेया दिशः । उप समीपे स्वगतिभेदेन निर्मिमीत इति ‘उपमाः’ सूर्यः तथा ताः ‘दिशो’ ऽनुलक्ष्य ‘वितिष्ठते’ विविधं पूर्वपश्चिमादिदिग्भेदहेतुत्वेनावतिष्ठत इति ‘विष्ठाः’ । तिष्ठतेर्माङश्च “आतो मनिन्”- (पा. सू. ३ । २ । ७४ ।) इति विच्, एवम्भूतः सूर्यः ‘सतः’ लोकत्रयात्मकस्य भावरूपस्य ‘असतः’ अभावात्मकस्य च ‘योनिम्’ उत्पत्तिस्थानं ‘विवः’ विवृणोति । सदसच्छब्दयोर्भावाभावपरतां व्याचष्टे- यच्च ह्यस्ति यच्च नेति । छन्दोद्वारेण प्रशंसति- त्रिष्टुभेति । त्रैष्टुभो ह्येष इति । “गायत्री वै पृथिवी त्रैष्टुभमन्तरिक्षम्”- (तै. सं. ५ । २ । १) इत्यादिश्रुतेः । द्वितीयस्थानत्वाच्चान्तरिक्षस्य त्रिष्टुप्सम्बन्धः, तत्र संचरत्त्रिष्टुप्छन्दस इन्द्रेण सहोत्पत्तेश्च इन्द्रात्मक एष सूर्यो ऽपि त्रैष्टुभः । सादयित्वेत्यादि- व्याख्यातम् ॥ १४ ॥
Eggeling
- [He puts it down, with Vāj. S. XIII, 3]
‘The Brahman first born in front;’ the Brahman doubtless is yonder sun, and he is born day by day in front (in the east);–‘from the summit 7 he, the longing, overspread the shining,’ the summit doubtless is the middle, the shining ones are these worlds, and the longing one is yonder sun,–he is the longing one inasmuch as he longed to be born; and in rising he overspreads 8 these (worlds) from the summit, from the middle;–‘he (overspread) the nighest extents of the deep,’ his nighest extents of the deep doubtless are the regions, for he (the sun) does extend nigh to them;–’the womb of the existent and of the non-existent did he overspread!’ the womb of the existent and of the non-existent doubtless are these worlds; for both what exists and what does not exist is born from these worlds. He puts it on with a trishṭubh verse, for yonder (sun) is related to the Trishṭubh 9. Having ‘settled’ it, he pronounces the Sūdadohas 10 verse upon it: the significance of this has been explained.
१५
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ पु᳘रुषमु᳘पदधाति॥
स᳘ प्रजा᳘पतिः᳘ सो ऽग्निः स य᳘जमानः स᳘ हिरण्म᳘यो भवति ज्यो᳘तिर्व्वै हि᳘रण्यं ज्यो᳘तिरग्नि᳘रमृ᳘तᳫँ᳭ हि᳘रण्यममृ᳘तमग्निः पु᳘रुषो भवति पु᳘रुषो हि᳘ प्रजा᳘पतिः॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ पु᳘रुषमु᳘पदधाति॥
स᳘ प्रजा᳘पतिः᳘ सो ऽग्निः स य᳘जमानः स᳘ हिरण्म᳘यो भवति ज्यो᳘तिर्व्वै हि᳘रण्यं ज्यो᳘तिरग्नि᳘रमृ᳘तᳫँ᳭ हि᳘रण्यममृ᳘तमग्निः पु᳘रुषो भवति पु᳘रुषो हि᳘ प्रजा᳘पतिः॥
मूलम् - Weber
अ᳘थ पु᳘रुषमु᳘पदधाति॥
स᳘ प्रजा᳘पतिःॗ सो ऽग्निः स य᳘जमानः स᳘ हिरण्म᳘यो भवति ज्यो᳘तिर्वै हि᳘रण्यं ज्यो᳘तिरग्नि᳘रमृ᳘तᳫं हि᳘रण्यममृ᳘तमग्निः पु᳘रुषो भवति पु᳘रुषो हि᳘ प्रजा᳘पतिः॥
मूलम् - विस्वरम्
अथ पुरुषेष्टकोपधानम् ।
अथ पुरुषमुपदधाति । स प्रजापतिः, सो ऽग्निः, स यजमानः । स हिरण्मयो भवति । ज्योतिर्वै हिरण्यम्, ज्योतिरग्निः । अमृतं हिरण्यम्, अमृतमग्निः । पुरुषो भवति । पुरुषो हि प्रजापतिः ॥ १५ ॥
सायणः
रुक्ममध्ये हिरण्मयपुरुषस्योपधानं विधत्ते- अथ पुरुषमिति । स प्रजापतिरित्यादि । ‘सः’ उपधेयः पुरुषः ‘प्रजापतिः’ स्थूलप्रपञ्चाभिमानी विराडात्मकः, ‘सः’ एव ‘अग्निः’ सूक्ष्मप्रपञ्चाभिमानी हिरण्यगर्भात्मकः, यजमानस्य तद्रूपप्राप्तेर्यजमानात्मको ऽपि ‘सः’ इत्यर्थः । तस्य हिरण्यविकृतित्वं विधाय स्तौति- स हिरण्मय इति । ज्योतिर्वा इति । भास्वररूपोपेतत्वाज्ज्योतिरात्मकं हिरण्यम् । तथा ऽत्यन्ताग्निसंयोगे ऽपि समुच्छित्तिविरहाद् ‘अमृतम्’ अमरणस्वभावं ‘हिरण्यम्’ । चीयमानः ‘अग्निः’ अपि एतदुभयात्मक इति हिरण्मयत्वं युक्तमित्यर्थः । पुरुषरूपतामनूद्य प्रतिपादयति- पुरुषो भवतीति । ‘हि’ यस्माच्चित्याग्निरूपेण संस्कर्त्तव्यः ‘प्रजापतिः’ पुरुषविधस्तत्प्रतिरूपत्वाद्धिरण्मयस्योपधेयस्य पुरुषाकृतिर्युक्तेत्यर्थः ॥ १५ ॥
Eggeling
- He then lays the (gold) man thereon,–he is Prajāpati, he is Agni, he is the Sacrificer. He is made of gold, for gold is light, and fire is light; gold is immortality, and fire is immortality. It is a man (purusha), for Prajāpati is the Man.
१६
विश्वास-प्रस्तुतिः
(र्य᳘) य᳘द्वेव पु᳘रुषमुपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्ताद्र᳘म्या तनू᳘र्मध्यत ऽउ᳘दक्रामत्त᳘स्यामेनमुत्क्रान्तायां[[!!]] देवा᳘ ऽअजहुस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेता᳘ᳫँ᳘ र᳘म्यां तनूं᳘ मध्य᳘तो ऽदधुस्त᳘स्यामस्य देवा᳘ ऽअरमन्त तद्य᳘दस्यैत᳘स्याᳫँ᳭ र᳘म्यायां त᳘न्वां देवा ऽअ᳘रमन्त त᳘स्माद्धि᳘रम्यᳫँ᳭ हि᳘रम्यᳫँ᳭ ह वै तद्धि᳘रण्यमित्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवास्त᳘थै᳘वास्मिन्नय᳘मेता᳘ᳫँ᳘ र᳘म्यां तनूं᳘ मध्यतो᳘ दधाति त᳘स्यामस्य देवा᳘ रमन्ते प्राणो वा᳘ ऽअस्य सा᳘ र᳘म्या तनूः᳘ प्राण᳘मे᳘वास्मिन्नेतं᳘ मध्यतो᳘ दधाति॥
मूलम् - श्रीधरादि
(र्य᳘) य᳘द्वेव पु᳘रुषमुपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्ताद्र᳘म्या तनू᳘र्मध्यत ऽउ᳘दक्रामत्त᳘स्यामेनमुत्क्रान्तायां[[!!]] देवा᳘ ऽअजहुस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेता᳘ᳫँ᳘ र᳘म्यां तनूं᳘ मध्य᳘तो ऽदधुस्त᳘स्यामस्य देवा᳘ ऽअरमन्त तद्य᳘दस्यैत᳘स्याᳫँ᳭ र᳘म्यायां त᳘न्वां देवा ऽअ᳘रमन्त त᳘स्माद्धि᳘रम्यᳫँ᳭ हि᳘रम्यᳫँ᳭ ह वै तद्धि᳘रण्यमित्या᳘चक्षते परो᳘ ऽक्षं परो᳘ ऽक्षकामा हि᳘ देवास्त᳘थै᳘वास्मिन्नय᳘मेता᳘ᳫँ᳘ र᳘म्यां तनूं᳘ मध्यतो᳘ दधाति त᳘स्यामस्य देवा᳘ रमन्ते प्राणो वा᳘ ऽअस्य सा᳘ र᳘म्या तनूः᳘ प्राण᳘मे᳘वास्मिन्नेतं᳘ मध्यतो᳘ दधाति॥
मूलम् - Weber
य᳘द्वेव पु᳘रुषमुपद᳘धाति॥
प्रजा᳘पतेर्वि᳘स्रस्ताद्रॗम्या तनू᳘र्मध्यत उ᳘दक्रामत्त᳘स्यामेनमु᳘त्कान्तायां देवा᳘ अजहुस्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेतां᳘ रॗम्यां तनू᳘म् मध्यॗतो ऽदधुस्त᳘स्यामस्य देवा᳘ अरमन्त तद्य᳘दस्यैत᳘स्यां रॗम्यायां तॗन्वां देवा अ᳘रमन्त त᳘स्माद्धि᳘रम्यᳫं हि᳘रम्यᳫं ह वै तद्धि᳘रण्यमित्या᳘चक्षते परो᳘ ऽक्षम् परो᳘ ऽक्षकामा हि᳘ देवास्त᳘थैॗवास्मिन्नय᳘मेतां᳘ रॗम्यां तनू᳘म् मध्यतो᳘ दधाति त᳘स्य:मस्य देवा᳘ रमन्ते प्राणो वा᳘ अस्य सा᳘ रॗम्या तनूः᳘ प्राण᳘मेॗवास्मिन्नेत᳘म् मध्यतो᳘ दधाति॥
मूलम् - विस्वरम्
यद्वेव पुरुषमुपदधाति । प्रजापतेर्विस्रस्ताद्रम्या तनूर्मध्यत उदक्रामत् । तस्यामेनमुत्क्रान्तायां देवा अजहुः । तं यत्र देवाः समस्कुर्वन्- तदस्मिन्नेतां रम्यां तनूं मध्यतो ऽदधुः । तस्यामस्य देवा अरमन्त । तद्यदस्यैतस्यां रम्यायां तन्वां देवा अरमन्त- तस्माद्धिरम्यम् । हिरम्यं ह वै तद्धिरण्यमित्याचक्षते परो ऽक्षम् । परो ऽक्षकामा हि देवाः । तथैवास्मिन्नयमेतां रम्यां तनूं मध्यतो दधाति । तस्यामस्य देवा रमन्ते । प्राणो वा ऽअस्य सा रम्या तनूः । प्राणमेवास्मिन्नेतं मध्यतो दधाति ॥ १६ ॥
सायणः
एतदेव पुरुषोपधानमनूद्य मनःप्राणाद्यात्मकसूक्ष्मशरीरस्थापनरूपेण स्तौति- यद्वेवेति । प्रजापतेर्विस्रस्तादित्यादि । ‘प्रजापतिः’ हि पुरा विस्रस्तशरीरो ऽभूत् । तथाविधात्तस्माद्रमणीया ज्ञानक्रियाशक्तिरूपा सूक्ष्मा ‘तनूः’ ‘मध्यतः’ शरीरमध्याद् ‘उदक्रामत्’ ऊर्द्ध्वं निरगमत् । ‘तस्याम्’ ऊर्ध्वं निष्क्रान्तायां सत्याम् ‘एनम्’ प्रजापतिं चक्षुराद्यभिमानि- ‘देवाः’ आदित्यादयः ‘अजहुः’ अत्यजन् । “ओहाक् त्यागे”- (धा. पा. जु. प. ८) इति धातुः । ‘तं’ तथाविधं प्रजापतिं ‘देवाः’ तत्पुत्राः ‘यत्र’ यस्मिन् प्रदेशे ‘समस्कुर्वन्’ चित्याग्निरूपेण संस्कृतवन्तः । “अडभ्यासव्यवाये ऽपि”- (पा. सू. ६ । १ । १४० । वा. १) इति कात् पूर्वः सुट् । ‘तत्’ तत्र ‘अस्मिन्’ प्रजापतौ ‘एताम्’ निष्क्रान्तां ‘रम्याम्’ ‘तनूम्’ ‘मध्यतो ऽदधुः’ स्थापयाञ्चक्रुः । ‘अस्य’ प्रजापतेः ‘तस्याम्’ तन्वाम् पुरा निष्क्रान्ता इन्द्रियदेवताः ‘अरमन्त’ पुनः प्रविश्यातिष्ठन्नित्यर्थः । उक्तार्थोपजीवनेन हिरण्यनामनिर्वचनं करोति- तद्यदस्येति । ‘एतस्यां’ हितायां स्थापितायां ज्ञानक्रियाशक्त्युपेतत्वेन रमणीयायां तन्वां यस्माद् ‘देवा अरमन्त; तस्मात्’ हिते ऽस्मिन् रमत इति व्युत्पत्त्या ‘हिरम्यम्’ इति नाम सम्पन्नम्, तदेव पारोक्ष्येण हिरण्यमित्युच्यते, पृषोदरादित्वाद्रूपसिद्धिः (पा. सू. ६ । ३ । १०९) इति । अत एव “हिरण्यं कस्मात्”- इति प्रक्रम्योक्तं यास्केन “हितरमणं भवति इति वा” (निरु. २ । २ । २) इति । एवं पुराकल्पमभिधाय प्रकृते योजयति- तथैवास्मिन्नित्यादिना । ‘अयम्’ यजमानः । शिष्टं स्पष्टम् । का पुनरसौ रम्या तनूरिति तामाह- प्राणो वा अस्येति । प्राणापानादिपञ्चवृत्त्यात्मकः क्रियाशक्त्यात्मकः ‘प्राणः’ ‘अस्य’ प्रजापतेरेव ‘रम्या तनूः’ अतस्तत्स्थापनमेव कृतं भवतीत्यर्थः ॥ १६ ॥
Eggeling
- And, again, why he lays down the man. When Prajāpati was relaxed, his pleasing form went out from within; when it had gone out of him, the gods left him. When the gods restored him, they put that pleasing form into him, and the gods were pleased with that (form) of his; and inasmuch as the gods were pleased (ram) with that pleasing (ramya) form of his, it is called ‘hiramya;’ ‘hiramya’ being what is mystically called ‘hiraṇya’ (gold), for the gods love the mystic. And in like manner does this (Sacrificer) now put that pleasing form into him (Agni), and the gods are pleased with that (form) of his. But that pleasing form of his is the vital air: it is that vital air he thus puts into him.
१७
विश्वास-प्रस्तुतिः
त᳘ᳫँ᳘ रुक्म ऽउ᳘पदधाति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएष᳘ रुक्मो᳘ ऽथ य᳘ ऽएष᳘ एत᳘स्मिन्म᳘ण्डले पु᳘रुषः स᳘ ऽएष त᳘मे᳘वैतदु᳘पदधाति॥
मूलम् - श्रीधरादि
त᳘ᳫँ᳘ रुक्म ऽउ᳘पदधाति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएष᳘ रुक्मो᳘ ऽथ य᳘ ऽएष᳘ एत᳘स्मिन्म᳘ण्डले पु᳘रुषः स᳘ ऽएष त᳘मे᳘वैतदु᳘पदधाति॥
मूलम् - Weber
तं᳘ रुक्भ उ᳘पदधाति॥
असौ वा᳘ आदित्य᳘ एष᳘ रुक्भो᳘ ऽथ य᳘ एष᳘ एत᳘स्मिन्म᳘ण्डले पु᳘रुषः स᳘ एष त᳘मेॗवैतदु᳘पदधाति॥
मूलम् - विस्वरम्
तं रुक्म ऽउपदधाति । असौ वा ऽआदित्य एष रुक्मः । अथ य एष एतस्मिन्मण्डले पुरुषः- स एषः । तमेवैतदुपदधाति ॥ १७ ॥
सायणः
तस्य पुरुषोपधानस्याधारविशेषं विधाय स्तौति- तं रुक्म इति । यो ‘रुक्मः’ पुष्करपर्णे उपहितस्तस्य मध्ये ‘तम्’ हिरण्मयं पुरुषमुपदध्यात् । आदित्यमण्डलात्मको ह्येष ‘रुक्मः’ आदित्यमण्डलमध्ये यो हिरण्मयः पुरुष आस्ते । अत एव श्रूयते- “एषो ऽन्तरादित्ये हिरण्मयः पुरुषः”- इति । “हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः”- इति च । स एवैष उपधीयमानो हिरण्मयः पुरुषो रुक्मरूपे आदित्यमण्डले तमेव पुरुषमुपहितवान् भवतीत्यर्थः ॥ १७ ॥
Eggeling
- He lays him on the gold plate, for the gold plate is yonder sun: that same man who is in that (sun’s) disk, it is him he now lays down (on the altar).
१८
विश्वास-प्रस्तुतिः
(त्यु) उत्तानमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवन्य᳘दि वा᳘ ऽइमा᳘वर्वा᳘ञ्चा ऽउपधास्या᳘मः स᳘र्व्वमे᳘वेदं प्र᳘धक्ष्यतो य᳘द्यु प᳘राञ्चौ प᳘राञ्चावेव᳘ तप्स्यतो य᳘द्यु सम्य᳘ञ्चावन्त᳘रै᳘वैता᳘वेतज्ज्यो᳘तिर्भविष्यत्य᳘थो ऽअ᳘न्यो ऽन्य᳘ᳫँ᳘ हिᳫँ᳭सिष्यत ऽइ᳘ति᳘ ते ऽर्वा᳘ञ्चमन्य᳘मुपा᳘दधुः प᳘राञ्चमन्यᳫँ᳭ स᳘ ऽएष᳘ रश्मि᳘भिरर्व्वा᳘ङ् तपति रुक्मः᳘ प्राणै᳘रेष᳘ ऽऊर्ध्वः पु᳘रुषः प्रा᳘ञ्चमु᳘पदधाति प्राङ्ह्ये᳘षो ऽग्नि᳘श्चीय᳘ते॥
मूलम् - श्रीधरादि
(त्यु) उत्तानमु᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवन्य᳘दि वा᳘ ऽइमा᳘वर्वा᳘ञ्चा ऽउपधास्या᳘मः स᳘र्व्वमे᳘वेदं प्र᳘धक्ष्यतो य᳘द्यु प᳘राञ्चौ प᳘राञ्चावेव᳘ तप्स्यतो य᳘द्यु सम्य᳘ञ्चावन्त᳘रै᳘वैता᳘वेतज्ज्यो᳘तिर्भविष्यत्य᳘थो ऽअ᳘न्यो ऽन्य᳘ᳫँ᳘ हिᳫँ᳭सिष्यत ऽइ᳘ति᳘ ते ऽर्वा᳘ञ्चमन्य᳘मुपा᳘दधुः प᳘राञ्चमन्यᳫँ᳭ स᳘ ऽएष᳘ रश्मि᳘भिरर्व्वा᳘ङ् तपति रुक्मः᳘ प्राणै᳘रेष᳘ ऽऊर्ध्वः पु᳘रुषः प्रा᳘ञ्चमु᳘पदधाति प्राङ्ह्ये᳘षो ऽग्नि᳘श्चीय᳘ते॥
मूलम् - Weber
उत्तानमु᳘पदधाति॥
एतद्वै᳘ देवा᳘ अब्रुवन्य᳘दि वा᳘ इमा᳘वर्वा᳘ञ्चा उपधास्या᳘मः स᳘र्वमेॗवेदम् प्र᳘धक्ष्यतो य᳘द्यु प᳘राञ्चौ प᳘राञ्चावेव᳘ तप्स्यतो य᳘द्यु सम्य᳘ञ्चावन्तॗरैॗवैता᳘वेतज्ज्यो᳘तिर्भविष्यत्य᳘थो अॗन्यो ऽन्य᳘ᳫं᳘ हिंसिष्यत इ᳘तिॗ ते ऽर्वा᳘ञ्चमन्य᳘मुपा᳘दधुः प᳘राञ्चमन्यᳫं स᳘ एष᳘ रश्मि᳘भिरर्वा᳘ङ् तपति रुक्भः᳘ प्राणै᳘रेष᳘ ऊर्ध्वः पु᳘रुषः प्रा᳘ञ्चमु᳘पदधाति प्राङ् ह्येॗषो ऽग्नि᳘श्चीय᳘ते॥
मूलम् - विस्वरम्
उत्तानमुपदधाति । एतद्वै देवा अब्रुवन्- यदि वा ऽइमावर्वाञ्चा ऽउपधास्यामः- सर्वमेवेदं प्रधक्ष्यतः । यद्यु पराञ्चौ । पराञ्चावेव तप्स्यतः । यद्यु सम्यञ्चौ । अन्तरैवैतावेतज्ज्योतिर्भविष्यति । अथो ऽअन्यो ऽन्यं हिंसिष्यत इति । ते ऽर्वाञ्चमन्यमुपादधुः, पराञ्चमन्यम् । स एव रश्मिभिर्वाङ् तपति रुक्मः । प्राणैरेष ऊर्ध्वः पुरुषः । प्राञ्चमुपदधाति । प्राङ् ह्येषो ऽग्निश्चीयते ॥ १८ ॥
सायणः
तत्रोपधाने पुरुषस्योपरिमुखत्वं विधत्ते- उत्तानमुपदधातीति । एतदेवोपरिष्टान्मुखत्वमाख्यायिकया प्रतिपादयति- एतद्वै देवा इत्यादिना । ‘यदि’ खलु ‘इमौ’ रुक्मपुरुषौ ‘अर्वाञ्चौ’ अधोमुखौ ‘उपधास्यामः’ उभयोस्तेजसोः संसृष्टत्वेन प्रबलतरौ अधोमुखं ‘सर्वमेवेदम्’ जगत् ‘प्रधक्ष्यतः’ प्रदग्धं करिष्यतः । एतद्दोषपरिहारार्थं ‘यदि’ खलु ‘एतौ’ ‘पराञ्चौ’ पराङ्मुखौ, ऊर्ध्वमुखौ उपधास्यामस्तथा सति ‘पराञ्चावेव’ पराङ्मुखावेव सन्तौ ‘तप्स्यतः’ सूर्यमण्डलाद् ये उपरितना लोकास्तत्रैव सूर्यप्रकाशः स्यान्न त्वधस्तनेषु लोकेष्वित्यर्थः । प्रधक्ष्यत इति प्रपूर्वाद्दहतेर्लृटस्तसादेशः, ‘तप्स्यतः’ इति “तप सन्तापे”- (धा. पा. भ्वा. प. १०१०) इत्यस्मात् । ‘यदि’ तर्हि ‘सम्यञ्चौ’ परस्पराभिमुखौ तौ रुक्मपुरुषावुपदध्यामस्तदा ‘एतावन्तरैव’ एतयोर्मध्ये एव तदीयं ‘ज्योतिर्भविष्यति’ तथा च व्यवधानादुपरितनानधस्तनांश्च लोकान्न प्रकाशयेताम् । ‘अथो’ अपि च ‘अन्योन्यं हिंसिष्यतः’ रुक्मस्य ज्योतिषा पुरुषज्योतिः प्रतिहन्येत, तेन च रुक्मज्योतिरिति परस्परहिंसेत्यर्थः । कथं तर्हि तावुपधेयाविति तत्राह- ते ऽर्वाञ्चमिति । ‘ते’ देवाः ‘अन्यम्’ एकं सूर्यमण्डलात्मकं रुक्मम् ‘अर्वाञ्चम्’ अधस्तान्निर्बाधम् ‘उपादधुः’ ‘अन्यं’ पुरुषं ‘पराञ्चं’ पराङ्मुखमुत्तानमुपादधुरित्यनुषङ्गः । यस्मादेवं तस्मादेष मण्डलात्मकः सूर्यो ‘रश्मिभिः’ किरणैः ‘अर्वाङ्’ अधोमुखः ‘तपति’ । स एव रुक्मात्मकः एषः प्राणात्मको मण्डलान्तरवर्त्ती ‘पुरुषः’ प्राणिनां ‘प्राणैः’ सह ‘ऊर्द्ध्वः’ वर्त्तते । अत एवान्यत्राम्नातम्- “यो ऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति”- (तै. आ. १ । १४ । १) इति । तस्य प्राङ्मुखत्वं विधाय स्तौति- प्राञ्चमिति । ‘तम्’ उत्तानं पुरुषं ‘प्राञ्चम्’ प्राङ्मुखमुपदध्यात् । ‘हि’ यस्मादेव प्राङ्मुखः प्राक्छिरस्कः ‘चीयते’ तस्माद्धिरण्मयपुरुषस्यापि तथात्वं युक्तम् । पुष्करपर्णोपधानं प्रस्तुत्य एतत् सर्वं कात्यायनो ऽप्यसूत्रयत्- “तस्मिन्रुक्ममधःपिण्डं ब्रह्मजज्ञानमिति, उत्तानं प्राञ्चँ हिरण्यपुरुषं तस्मिन् हिरण्यगर्भ इति”- (का. श्रौ. सू. १७ । ७४ । ७५) हिरण्यगर्भो द्रप्सश्चस्कन्देति द्वाभ्यां हिरण्मयपुरुषमुपदध्यादिति सूत्रार्थः ॥ १८ ॥
Eggeling
- He lays him down on his back 11;–for the gods at that time said, ‘If we lay down these two 12 both looking hitherwards, they will burn up everything here; and if (we lay) both so as to be turned away from here, they will give warmth only in the opposite direction; and if facing each other, then there will be light only between those two, and they will injure each other.’ They laid down the one so as to look hitherwards, and the other so as to look away from here: that one (the sun), the gold disk, looking downwards, gives warmth by his rays, and
that man (tends) upward by his vital airs 13. He lays him down (with the head) towards the east, for (with the head) towards the east this Agni (the fire-altar) is built up.
१९
विश्वास-प्रस्तुतिः
हिरण्यगर्भः स᳘मवर्तता᳘ग्र ऽइ᳘ति॥
हिरण्यगर्भो᳘ ह्येष᳘ सम᳘वर्त्तता᳘ग्रे भूत᳘स्य जातः प᳘तिरे᳘क ऽआसीदि᳘त्येष᳘ ह्यस्य[[!!]] स᳘र्वस्य भूत᳘स्य जातः प᳘तिरे᳘क ऽआ᳘सीत्स᳘ दाधार पृथिवीं द्या᳘मुतेमामि᳘त्येष[[!!]] वै दि᳘वं च पृथिवीं᳘ च दाधार क᳘स्मै देवा᳘य हवि᳘षा व्विधेमे᳘ति प्रजा᳘पतिर्व्वै कस्त᳘स्मै हवि᳘षा व्विधेमे᳘त्येत᳘त्॥
मूलम् - श्रीधरादि
हिरण्यगर्भः स᳘मवर्तता᳘ग्र ऽइ᳘ति॥
हिरण्यगर्भो᳘ ह्येष᳘ सम᳘वर्त्तता᳘ग्रे भूत᳘स्य जातः प᳘तिरे᳘क ऽआसीदि᳘त्येष᳘ ह्यस्य[[!!]] स᳘र्वस्य भूत᳘स्य जातः प᳘तिरे᳘क ऽआ᳘सीत्स᳘ दाधार पृथिवीं द्या᳘मुतेमामि᳘त्येष[[!!]] वै दि᳘वं च पृथिवीं᳘ च दाधार क᳘स्मै देवा᳘य हवि᳘षा व्विधेमे᳘ति प्रजा᳘पतिर्व्वै कस्त᳘स्मै हवि᳘षा व्विधेमे᳘त्येत᳘त्॥
मूलम् - Weber
हिरण्यगर्भः स᳘मवर्तता᳘ग्र इ᳘ति॥
हिरण्यगर्भोॗ ह्येष᳘ सम᳘वर्तता᳘ग्रे भूत᳘स्य जातः प᳘तिरे᳘क आसीदि᳘त्येष ह्य᳘स्य स᳘र्वस्य भूत᳘स्य जातः प᳘तिरे᳘क आसीत्स᳘ दाधार पृथिवीं द्या᳘मुॗतेमामि᳘त्येष वै दि᳘वं च पृथिवीं᳘ च दाधार क᳘स्मै देवा᳘य हवि᳘ष विधेमे᳘ति प्रजा᳘ पतिर्वै कस्त᳘स्मै हवि᳘षा विधेमे᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“हिरण्यगर्भः समवर्तताग्रे”- इति । हिरण्यगर्भो ह्येष समवर्त्तताग्रे । “भूतस्य जातः पतिरेक आसीत्”- इति । एष ह्यस्य सर्वस्य भूतस्य जातः पतिरेक आसीत् । “स दाधार पृथिवीं द्यामुतेमाम्”- इति । एष वै दिवं च पृथिवीं च दाधार । “कस्मै देवाय हविषा विधेम”- (वा. सं. १३ । ४) इति । प्रजापतिर्वै कः । तस्मै हविषा विधेमेत्येतत् ॥ १९ ॥
सायणः
प्रथमां पादशो ऽनूद्य व्याचष्टे- हिरण्यगर्भ इत्यादिना । हिरण्यगर्भो ह्येष इति ‘एषः’ हिरण्यपुरुषः सूर्यमण्डलान्तर्वर्ती हिरण्यगर्भः, अपञ्चीकृतभूततत्कार्याभिमानी परमेश्वरो हि हिरण्यगर्भः, स च हिरण्मयाण्डमध्ये गर्भवदवस्थानात् ‘हिरण्यगर्भः’ इत्युच्यते । अयम् ‘अग्रे’ सृष्ट्यादौ हिरण्यगर्भाख्यः प्रजापतिः प्रथमं ‘समवर्त्तत’ प्रथमशरीरी जात इत्यर्थः । अत एवान्यत्र श्रूयते- “स वै शरीरी प्रथमः स वै पुरुष उच्यते”- इति । एष ह्यस्येत्यादि । ‘एषः’ खलु हिरण्यगर्भः ‘अस्य’ ‘सर्वस्य’ भूतभौतिकात्मकस्य कृत्स्नस्य जगतः जातावस्थ एव सन् ‘एकः’ असाधारणः ‘पतिः’ नियन्ता ‘आसीत्’ । एष वै दिवं चेत्यादि । ‘एषः’ खल्वादित्यात्मको हिरण्यगर्भो ‘दिवम्’ द्युलोकं ‘पृथिवीम्’ भूमिं च प्रकाशनवर्षणादिव्यापारेण ‘दाधार’ धृतवान् । कस्मै देवायेति । किंशब्दादिह निरुक्तानिरुक्तकृत्स्नजगदात्मकत्वादीदृग्रूप इति निर्वक्तुमशक्यः प्रजापतिरेवोच्यत इत्याह- प्रजापतिर्वै क इति ॥ १९ ॥
Eggeling
- [He lays him down, with Vāj. S. XIII, 4; R̥k S. X, 121, 1] ‘Hiraṇyagarbha came first into existence,’ for that golden child did come first into existence;–‘born he was the one lord of being;’ for he indeed was born as the one lord of all this being;–‘he upholdeth this earth and the sky,’ for he (the sun) does uphold both the sky and the earth;–’to the god Ka let us do homage by offering!’ Ka (Who?) is Prajāpati: thus, ’let us do homage to Him by offering!’
२०
विश्वास-प्रस्तुतिः
(द्द्र) द्रप्स᳘श्चस्कन्द पृथिवीम᳘नु द्यामि᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ द्रप्सः स दि᳘वं च पृथिवीं᳘ च स्कन्दती᳘त्यमूमि᳘तीमा᳘मिमं᳘ च यो᳘निम᳘नु य᳘श्च पू᳘र्व ऽइ᳘तीमं᳘ च लोक᳘ममुं चे᳘त्येतद᳘थो य᳘च्चेद᳘मेत᳘र्हि चीय᳘ते य᳘च्चादः पू᳘र्वम᳘चीयते᳘ति समानं यो᳘निम᳘नु संच᳘रन्तमिति समान᳘ᳫँ᳘ ह्येष᳘ ऽएतं यो᳘निम᳘नु संच᳘रति द्रप्सं᳘ जुहोम्य᳘नु सप्त हो᳘त्रा ऽइ᳘त्यसौ वा᳘ ऽआदित्यो᳘ द्रप्सो दि᳘शः सप्त हो᳘त्रा अमुं त᳘दादित्यं᳘ दिक्षु प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
(द्द्र) द्रप्स᳘श्चस्कन्द पृथिवीम᳘नु द्यामि᳘ति॥
(त्य) असौ वा᳘ ऽआदित्यो᳘ द्रप्सः स दि᳘वं च पृथिवीं᳘ च स्कन्दती᳘त्यमूमि᳘तीमा᳘मिमं᳘ च यो᳘निम᳘नु य᳘श्च पू᳘र्व ऽइ᳘तीमं᳘ च लोक᳘ममुं चे᳘त्येतद᳘थो य᳘च्चेद᳘मेत᳘र्हि चीय᳘ते य᳘च्चादः पू᳘र्वम᳘चीयते᳘ति समानं यो᳘निम᳘नु संच᳘रन्तमिति समान᳘ᳫँ᳘ ह्येष᳘ ऽएतं यो᳘निम᳘नु संच᳘रति द्रप्सं᳘ जुहोम्य᳘नु सप्त हो᳘त्रा ऽइ᳘त्यसौ वा᳘ ऽआदित्यो᳘ द्रप्सो दि᳘शः सप्त हो᳘त्रा अमुं त᳘दादित्यं᳘ दिक्षु प्र᳘तिष्ठापयति॥
मूलम् - Weber
द्रप्स᳘श्चस्कन्द पृथिवीम᳘नु द्यामि᳘ति॥
असौ वा᳘ आदित्यो᳘ द्रप्सः स दि᳘वं च पृथिवीं᳘ च स्कन्दती᳘त्यमूमि᳘तीमा᳘मिमं᳘ च यो᳘निम᳘नु य᳘श्च पू᳘र्व इ᳘तीमं᳘ च लोक᳘ममुं चे᳘त्येतद᳘थो य᳘च्चेद᳘मेत᳘र्हि चीय᳘ते य᳘च्चादः पू᳘र्वम᳘चीयते᳘ति समानं यो᳘निम᳘नु संच᳘रन्तमिति समाॗनᳫं ह्येप᳘ एतं यो᳘निम᳘नु संच᳘रति द्रप्सं᳘ जुहोम्य᳘नु सप्त हो᳘त्रा इ᳘त्यसौ वा आदित्यो᳘ द्रप्सो दि᳘शः सप्त हो᳘त्रा अमुं त᳘दादित्यं दिक्षु प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
“द्रप्सश्चस्कन्द पृथिवीमनु द्याम्”- इति । असौ वा ऽआदित्यो द्रप्सः । स दिवं पृथिवीं च स्कन्दति । इत्यमूम्, इतीमाम् । “इमं च योनिमनु यश्च पूर्वः”- इति । इमं च लोकममुं चेत्येतत् । यच्चेदमेतर्हि चीयते, यच्चादः पूर्वमचीयतेति । “समानं योनिमनु सञ्चरन्तम्”- इति । समानं ह्येष एतं योनिमनु संचरति । “द्रप्सं जुहोम्यनु सप्त होत्राः”- (वा. सं. १३ । ५) इति । असौ वा ऽआदित्यो द्रप्सः, दिशः सप्त होत्राः । अमुं तदादित्यं दिक्षु प्रतिष्ठापयति ॥ २० ॥
सायणः
द्वितीयामृचमनूद्य व्याचष्टे- द्रप्सश्चस्कन्देति । असौ वा आदित्य इत्यादि । द्रवानुदबिन्दून् किरणैः प्साति भक्षयतीति ‘द्रप्सः,’ ‘असौ’ ‘आदित्यः’ । ‘सः’ ‘दिवं च’ ‘पृथिवीञ्च’ ‘स्कन्दति’ गच्छति शोषयति वा । “स्कन्दिर् गतिशोषणयोः”- (धा. पा. भ्वा. प. १००५) इति धातुः । स्कन्दनप्रकारविशेषमभिनयेन दर्शयति- इत्यमूमितीमामिति । ‘इति’ अनेनोर्ध्वगमनप्रकारेण ‘अमूम्’ दिवं व्याप्नोति । ‘इति’ अनेन प्रकारेणाधोमुखैः किरणैः प्रकाशनेन ‘इमां’ पृथिवीं व्याप्नोतीत्यर्थः ।
द्वितीयपादमनूद्य व्याचष्टे- इमञ्च योनिमिति । ‘इमं’ च आहवनीयाख्यं ‘योनिं’ ‘यश्च पूर्वः’ चितो गार्हपत्याख्यः । तदुभयं द्यावापृथिव्यात्मकमसावादित्यो व्याप्नोतीत्येतदर्थपरतां व्याचष्टे- इमं च लोकमिति । लोकद्वयरूपतामुक्त्वा चितिद्वयरूपतामाह- अथो इति । अपि च ‘एतर्हि’ एतस्मिन् समये ‘यद्’ ‘इदम्’ ‘चीयते’ आहवनीयाख्यं स्थानम्, ‘यच्चादः’ विप्रकृष्टं गार्हपत्याख्यं स्थानं ‘पूर्वमचीयत’ एतदुभयं हिरण्मयपुरुषरूपः सूर्यो व्याप्नोतीत्यर्थः ॥
तृतीयपादमनूद्य व्याचष्टे- समानं योनिमिति । समानं ह्येष इति । ‘एषः’ सूर्यः ‘समानम्’ एकविधम् ‘एतम्’ ‘योनिम्’ स्थानम्, ‘अनु’-लक्ष्य ‘सञ्चरति’, प्राच्यां दिशि उद्यन्नेकेनैव मार्गेण प्रतिदिवसं सञ्चरतीत्यर्थः ॥
चतुर्थपादमनूद्य व्याचष्टे- द्रप्सं जुहोमीति । तं सञ्चरन्तं ‘द्रप्सम्’ प्राच्यां दिश्युद्यन्तं तद्व्यतिरिक्तासु सप्तसु दिक्षु ‘जुहोमि’ प्रतिष्ठापयामि । लक्षणे अनोः कर्मप्रवचनीयत्वम् (पा. सू. १ । ४ । ९०) । “कर्मप्रवचनीययुक्ते द्वितीया”- (पा. सू. २ । ३ । ८) इति होत्राशब्दाद् द्वितीया ॥ २० ॥
Eggeling
- [Vāj. S. XIII, 5; R̥k S. X, 17, 11] ‘The drop leaped along the earth and sky;’ the drop is yonder sun, and he leaps both to the sky and to the earth–thus (in rising) to that (sky), and thus (in setting) to this (earth);–‘along this seat, and that which was afore;’ that is, to this world, and to that one; or this (Āhavanīya altar) which is now being built, and that (Gārhapatya altar) which yonder was built before;–’(the drop) moving along the common seat;’ for he (the sun) moves along that common seat;–’the drop I offer along the seven hotrās;’ the drop is yonder sun; and the seven hotrās are the regions: he thus establishes yonder sun in the regions.
२१
विश्वास-प्रस्तुतिः
द्वा᳘भ्यामुपदधाति[[!!]]॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदु᳘पदधाति त्रिष्टु᳘ब्भ्यां त्रै᳘ष्टुभो᳘[[!!]] ह्येष᳘ सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
द्वा᳘भ्यामुपदधाति[[!!]]॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतदु᳘पदधाति त्रिष्टु᳘ब्भ्यां त्रै᳘ष्टुभो᳘[[!!]] ह्येष᳘ सादयित्वा सू᳘ददोहसा᳘ ऽधिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
द्वा᳘भ्यामु᳘पदधाति॥
द्विपाद्य᳘जमानो य᳘जमानो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतदु᳘पदधाति त्रिष्टु᳘ब्भ्यां त्रै᳘ष्टु᳘भोॗ ह्येष᳘ सादयित्वा सू᳘ददोहसा᳘धिवदति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
द्वाभ्यामुपदधाति । द्विपाद्यजमानः । यजमानो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतदुपदधाति । त्रिष्टुब्भ्याम् । त्रैष्टुभो ह्येषः । सादयित्वा सूददोहसा ऽधिवदति । तस्योक्तो बन्धुः ॥ २१ ॥
सायणः
मन्त्रद्वित्वमनूद्य स्तौति- द्वाभ्यामिति । व्याख्यातचरमेतत् । मन्त्रगतच्छन्दोद्वारेण स्तौति- त्रिष्टुब्भ्यामिति । आदित्यस्य त्रैष्टुभत्वं प्राक्प्रतिपादितम् । सादयित्वेत्यादिकं प्रागुक्तार्थम् ॥ २१ ॥
Eggeling
- With two (verses) he lays him down;–two-footed is the Sacrificer, and the Sacrificer is Agni: as great as Agni is, as great as is his measure, with so much he thus lays him down;–with two trishṭubh
verses, for he (the sun) is related to the Trishṭubh. Having ‘settled’ him, he pronounces the Sūdadohas on him: the significance of this has been explained.
२२
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ सा᳘म गायति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽएतं पु᳘रुषमुपधा᳘य त᳘मेतादृ᳘शमे᳘वापश्यन्य᳘थैतच्छुष्कं[[!!]] फ᳘लक᳘म्॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ सा᳘म गायति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽएतं पु᳘रुषमुपधा᳘य त᳘मेतादृ᳘शमे᳘वापश्यन्य᳘थैतच्छुष्कं[[!!]] फ᳘लक᳘म्॥
मूलम् - Weber
अ᳘थ सा᳘म गायति॥
एतद्वै᳘ देवा᳘ एतम् पु᳘रुषमुपधा᳘य त᳘मेतादृ᳘शमेॗवापश्यन्य᳘थैतछु᳘ष्कं फ᳘लकम्॥
मूलम् - विस्वरम्
चित्रसामगानम् ।
अथ साम गायति । एतद्वै देवा ऽएतं पुरुषमुपधाय तमेतादृशमेवापश्यन्- यथैतच्छुष्कं फलकम् ॥ २२ ॥
सायणः
पुरुषोपधानाङ्गत्वेन सामगानं विधत्ते- अथ साम गायतीति । ‘अथ’- शब्दो हिरण्मयपुरुषोपधानानन्तर्ये । तस्य सामगायनस्य पुरुषगतवीर्याधानहेतुत्वमाख्यायिकया प्रतिपादयति- एतद्वा इत्यादिना । एतस्मिन् खलु समये ‘देवाः’ ‘पुरुषं’ हिरण्मयम् ‘उपधाय’ ‘तम्’ पुरुषम् ‘एतादृशमेव’ एवंरूपमेव ‘अपश्यन्’ । कीदृशमिति तदाह- यथैतदिति । ‘यथा’ खलु ‘एतत्’ ‘शुष्कम्’ नीरसं ‘फलकम्’ काष्ठमयम्, तद्वन्निर्वीर्यमेवापश्यन्नित्यर्थः ॥ २२ ॥
Eggeling
- He then sings a Sāman. For the gods, having laid down that man, then saw him (looking) even suchlike as yonder dry plank.
२३
विश्वास-प्रस्तुतिः
(न्ते) ते ऽब्रुवन्॥
(न्नु᳘) उ᳘प त᳘ज्जानीत य᳘था ऽस्मिन्पु᳘रुषे व्वी᳘र्य्यं[[!!]] द᳘धामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवं᳘स्त᳘दिच्छत य᳘था ऽस्मिन्पुरुषे[[!!]] व्वी᳘र्य्यं[[!!]] द᳘धामे᳘ति॥
मूलम् - श्रीधरादि
(न्ते) ते ऽब्रुवन्॥
(न्नु᳘) उ᳘प त᳘ज्जानीत य᳘था ऽस्मिन्पु᳘रुषे व्वी᳘र्य्यं[[!!]] द᳘धामे᳘ति᳘ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवं᳘स्त᳘दिच्छत य᳘था ऽस्मिन्पुरुषे[[!!]] व्वी᳘र्य्यं[[!!]] द᳘धामे᳘ति॥
मूलम् - Weber
ते ऽब्रुवन्॥
उ᳘प त᳘ज्जानीत य᳘थास्मिन्पु᳘रुषे वीर्यं᳘ द᳘धामे᳘तिॗ ते ऽब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्त᳘दिछत य᳘थास्मिन्पु᳘रुषे वीर्यं᳘ द᳘धामे᳘ति॥
मूलम् - विस्वरम्
ते ऽब्रुवन्- उप तज्जानीत- यथा ऽस्मिन्पुरुषे वीर्यं दधामेति । ते ऽब्रुवन्- चेतयध्वमिति- चितिमिच्छतेति वाव तदब्रुवन् । तदिच्छत- यथा ऽस्मिन्पुरुषे वीर्यं दधामेति ॥ २३ ॥
सायणः
ततः ‘ते’ देवाः अन्यो ऽन्यम् ‘अब्रुवन्’ ‘यथा ऽस्मिन् पुरुषे’ ‘वीर्यम्’ प्राणादिलक्षणं ‘दधाम’ स्थापयाम, तत्प्रकारं हे देवाः ! यूयम् ‘उपजानीत’ । एवमालोच्य ‘ते’ देवाः पुनः ‘अब्रुवन्’ उपज्ञाहेतुत्वेन ‘चेतयध्वमिति’ । एतद्वाक्यं श्रुतिः स्वयं व्याचष्टे- चितिमिच्छतेति । चितिरत्र ज्ञानविशेषः । किमर्थं चेतयध्वमिति प्रार्थ्यत इत्याशङ्क्य तस्य प्रयोजनमुक्तम्- तदिच्छतेति । ‘यथा’ खलु ‘अस्मिन्’ शुष्कफलकवन्नीरसे ‘पुरुषे’ ‘वीर्यम्’ स्थापयाम तमुपायमिच्छतेत्यर्थः ॥ २३ ॥
Eggeling
- They said, ‘Think ye upon this, how we may put vigour into this man!’ They said, ‘Meditate ye (cetay)!’ whereby, doubtless, they meant to say, ‘Seek ye to build up (citim ish)! seek ye how we shall put vigour into this man!’
२४
विश्वास-प्रस्तुतिः
ते᳘ चेत᳘यमानाः॥
(ऽ) एतत्सा᳘मापश्यंस्त᳘दगायंस्त᳘दस्मिन्वी᳘र्य्यमदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति[[!!]] पुरुषे[[!!]] गायति पु᳘रुषे त᳘द्वी᳘र्य्यं दधाति चित्रे᳘ गायति स᳘र्व्वाणि हि᳘ चित्रा᳘ण्यग्निस्त᳘मुपधा᳘य न᳘ पुर᳘स्तात्प᳘रीयान्ने᳘न्मा ऽय᳘मग्नि᳘र्हिन᳘सदिति[[!!]]॥
मूलम् - श्रीधरादि
ते᳘ चेत᳘यमानाः॥
(ऽ) एतत्सा᳘मापश्यंस्त᳘दगायंस्त᳘दस्मिन्वी᳘र्य्यमदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति[[!!]] पुरुषे[[!!]] गायति पु᳘रुषे त᳘द्वी᳘र्य्यं दधाति चित्रे᳘ गायति स᳘र्व्वाणि हि᳘ चित्रा᳘ण्यग्निस्त᳘मुपधा᳘य न᳘ पुर᳘स्तात्प᳘रीयान्ने᳘न्मा ऽय᳘मग्नि᳘र्हिन᳘सदिति[[!!]]॥
मूलम् - Weber
ते᳘ चेत᳘यमानाः॥
एतत्सा᳘मापश्यंस्त᳘दगायंस्त᳘दस्मिन्वीर्य᳘मदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति पु᳘रुषे गायति पु᳘रुषे त᳘द्वीर्यं᳘ दधाति चित्रे᳘ गायति स᳘र्वाणि हि᳘ चित्रा᳘ण्यग्निस्त᳘मुपधा᳘य न᳘ पुर᳘स्तात्प᳘रीयान्ने᳘न्माय᳘मग्नि᳘र्हिन᳘सदि᳘ति॥
मूलम् - विस्वरम्
ते चेतयमाना एतत्सामापश्यन् । तदगायन् । तदस्मिन्वीर्यमदधुः । तथैवास्मिन्नयमेतद्दधाति । पुरुषे गायति । पुरुषे तद्वीर्यं दधाति । चित्रे गायति । सर्वाणि हि चित्राण्यग्निः । तमुपधाय न पुरस्तात्परीयात्- नेन्मा ऽयमग्निर्हिनसदिति ॥ २४ ॥
सायणः
एवं परस्परमालोच्य ‘चेतयमानाः’ मीमांसमानाः ‘ते’ देवाः वीर्याधानार्थम् ‘एतत् सामापश्यन्’ । दृष्ट्वा च ‘तत्’ साम ‘अगायन्’ तेन च ‘अस्मिन्’ हिरण्मयपुरुषे वीर्यम् ‘अस्थापयन्’ । इत्थं सामगायनस्य वीर्याधानहेतुतामाख्यायिकया प्रतिपाद्य तद्दृष्टान्तेनेदानीमपि पुरुषसामगायनस्य तद्धेतुतामाह- तथैवास्मिन्निति । यथा देवाः ‘तथैव अयम्’ यजमानः, सिद्धमन्यत् । पुरुषे गायतीति । ‘पुरुषे’ अन्वारब्धे सति ‘तत्’ साम गातव्यं ‘तत्’ तथा सति तस्मिन् हिरण्मयपुरुषे सामलक्षणं ‘वीर्यम्’ स्थापितवान् भवति । चित्रे गायतीति । चित्रलिङ्गके मन्त्रे “चित्रं देवानाम्”- इत्यादिके । तदुक्तं कर्कभाष्ये- “पुरुषे चित्रे साम गायति”- इति कात्यायनेन पुरुष इति सप्तमीनिर्देशादालब्धे ‘पुरुषे’ ‘चित्रे’ चित्रलिङ्गके मन्त्रे साम ‘गायति’ (का. श्रौ. सू. १७ । ७६) इति । सर्वाणि हीत्यादि । लोके यावन्ति हि ‘चित्राणि’ विचित्ररूपाणि सन्ति तत्सर्वसमुदायरूपश्चित्यः ‘अग्निः’ अतश्चित्रे गानं युक्तमिति । तमुपधायेत्यादि । ‘तम्’ हिरण्मयपुरुषम् ‘उपधाय’ ‘न पुरस्तात् परीयात्’ 14 पूर्वस्यां दिशि नातिक्रामेत् । परिगमने हि अयमग्निः ‘मा हिनसत्’ मा हिंस्याद् नैव बाधेत । हिनस्तेर्लेटि अडागमः (पा. सू. ३ । ४ । ९४) इति ॥ २४ ॥
Eggeling
- Whilst meditating, they saw this Sāman, and sang it, and thereby put vigour into him; and in like manner does this (Sacrificer) thereby put it into him: he sings on the man, he puts vigour into the man;–he sings on the bright one 15, for Agni is all bright things. After he has laid him down, let him not walk round him in front, lest that Agni should injure him.
२५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ सर्पनामैरु᳘पतिष्ठते॥
(त) इमे वै᳘ लोकाः᳘ सर्पास्ते᳘ हाने᳘न स᳘र्व्वेण सर्पन्ति य᳘दिदं किं᳘ च स᳘र्व्वेषामु[[!!]] हैष᳘ देवा᳘नामात्मा य᳘दग्निस्ते᳘ देवा᳘ ऽएत᳘मात्मा᳘नमुपधा᳘याबिभयुर्यद्वै᳘ न ऽइमे᳘ लोका᳘ ऽअने᳘नात्म᳘ना न स᳘र्पेयुरि᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ सर्पनामैरु᳘पतिष्ठते॥
(त) इमे वै᳘ लोकाः᳘ सर्पास्ते᳘ हाने᳘न स᳘र्व्वेण सर्पन्ति य᳘दिदं किं᳘ च स᳘र्व्वेषामु[[!!]] हैष᳘ देवा᳘नामात्मा य᳘दग्निस्ते᳘ देवा᳘ ऽएत᳘मात्मा᳘नमुपधा᳘याबिभयुर्यद्वै᳘ न ऽइमे᳘ लोका᳘ ऽअने᳘नात्म᳘ना न स᳘र्पेयुरि᳘ति॥
मूलम् - Weber
अ᳘थ सर्पनामैरु᳘पतिष्ठत॥
इमे वै᳘ लोकाः᳘ सर्पास्ते᳘ हाने᳘न स᳘र्वेण सर्पन्ति य᳘दिदं किं᳘ च स᳘र्वेषा᳘मु हैष᳘ देवा᳘नामात्मा य᳘दग्निस्ते᳘ देवा᳘ एत᳘मात्मा᳘नमुपधा᳘याबिभयुर्यद्वै᳘ न इमे᳘ लोका᳘ अने᳘नात्म᳘ना न सु᳘र्पेयुरि᳘ति॥
मूलम् - विस्वरम्
अथ सर्पनामैरुपतिष्ठते । इमे वै लोकाः सर्पाः । ते हानेन सर्वेण सर्पन्ति- यदिदं किं च । सर्वेषामु हैष देवानामात्मा- यदग्निः । ते देवा एतमात्मानमुपधाय- अबिभयुः- यद्वै न इमे लोका अनेनात्मना न सर्पेयुरिति ॥ २५ ॥
सायणः
अथ यजमानकर्तृकं पुरुषस्योपस्थानं विधत्ते- अथ सर्पनामैरिति । “नमो ऽस्तु सर्पेभ्यः”- इत्याद्याः सर्पनामाख्या मन्त्राः । सूत्रितं हि- “उपतिष्ठते यजमानो नमो ऽस्त्विति”- (का. श्रौ. सू. १७ । ७८) इति । अथैतत् सर्वनामभिरुपस्थानं लोकत्रयस्थापनहेतुत्वेनाख्यायिकया प्रतिपादयति- इमे वै लोका इत्यादिना । ‘यदिदम्’ लोकत्रयवर्त्ति किमपि प्राणिजातमस्ति, ‘अनेन’ ‘सर्वेण’ सह पृथिव्यादयः ‘ते’ ‘लोकाः’ ‘सर्पन्ति’ तस्मात् सर्पणनिमित्तात् सर्पशब्दाभिधेया लोका इत्यर्थः । तथा चित्याग्निरिति यदस्ति एष एव खलु ‘सर्वेषां’ ‘देवानामात्मा,’ अतस्ते देवाः ‘एतमात्मानम्’ हिरण्मयपुरुषम् ‘उपधायाबिभयुः’ भयं प्राप्ताः । यद्वै न इत्यादिना भयस्वरूपप्रतिपादनम् । यदि खलु ‘नः’ अस्माकम् ‘अनेनात्मना’ सह ‘इमे’ लोकाः ‘न सर्पेयुः’- तर्ह्यस्मदीयस्यात्मनो लोकसम्बन्धविरहादाश्रयो न स्यादित्येवं भीताः ‘ते’ देवाः ‘एतानि’ “नमो ऽस्तु” इत्यादीनि ‘सर्वनामानि’ ‘अपश्यन्’ । दृष्ट्वा च ‘तैः’ उपस्थानं कृतवन्तः । तेन चोपस्थानेन ‘अस्मै’ हिरण्मयपुरुषरूपायाग्नये ‘इमान्’ पृथिव्यादि- ‘लोकान्’ ‘अस्थापयन्’ । ‘तैः’ लोकैः ‘अनमयन्’ वशीकृतवन्तः । ‘यदनमयन्’ इति सर्वनामाख्यानिर्वचनम्, सर्पाणां नमनहेतुत्वाच्च ‘सर्पनामानि’ इत्यर्थः । तथैवैतदित्यादिना ऽऽख्यायिकया सिद्धार्थस्य दार्ष्टान्तिके योजनम्, तच्च व्याख्यातप्रायम् । तथो हास्येति । सर्पनामभिरुपस्थाने सति ‘अस्य’ यजमानस्य ‘एते’ लोकाः ‘एतेन’ चित्याग्निरूपेण आत्मना ‘न सर्पन्ति’ किन्त्ववतिष्ठन्त इत्यर्थः ॥ २५ ॥ २६ ॥
Eggeling
- He (the Sacrificer) then stands by (the gold man) worshipping him with the Sarpanāma (serpent-named) formulas. The serpents doubtless are these worlds, for these glide along (sarp) with everything here whatsoever there is; and Agni is no other than the self (body) of all the gods. They, the gods, having laid down (on the altar) that self of theirs, were afraid lest these worlds should glide away with that self of theirs.
२६
विश्वास-प्रस्तुतिः
त᳘ ऽएता᳘नि सर्पनामा᳘न्यपश्यन्॥
(श्यँस्तै) तैरु᳘पातिष्ठन्त तै᳘रस्मा ऽइमाल्ँ᳘लोका᳘नस्थापयंस्तै᳘रनमयन्यद᳘नमयंस्त᳘स्मात्सर्पनामा᳘नि त᳘थै᳘वैतद्य᳘जमानो य᳘त्सर्पनामै᳘रुपति᳘ष्ठत ऽइमा᳘ने᳘वास्मा ऽएत᳘ल्लोका᳘न्त्स्थाप᳘यतीमाल्ँ᳘लोका᳘न्नमयति त᳘थो हास्यैत᳘ ऽएते᳘नात्म᳘ना न᳘ सर्पन्ति॥
मूलम् - श्रीधरादि
त᳘ ऽएता᳘नि सर्पनामा᳘न्यपश्यन्॥
(श्यँस्तै) तैरु᳘पातिष्ठन्त तै᳘रस्मा ऽइमाल्ँ᳘लोका᳘नस्थापयंस्तै᳘रनमयन्यद᳘नमयंस्त᳘स्मात्सर्पनामा᳘नि त᳘थै᳘वैतद्य᳘जमानो य᳘त्सर्पनामै᳘रुपति᳘ष्ठत ऽइमा᳘ने᳘वास्मा ऽएत᳘ल्लोका᳘न्त्स्थाप᳘यतीमाल्ँ᳘लोका᳘न्नमयति त᳘थो हास्यैत᳘ ऽएते᳘नात्म᳘ना न᳘ सर्पन्ति॥
मूलम् - Weber
त᳘ एता᳘नि सर्पनामा᳘न्यपश्यन्॥
तैरु᳘पातिष्ठन्त तै᳘रस्मा इमां᳘लोका᳘नस्थापयंस्तै᳘रनमयन्यद᳘नमयंस्त᳘स्मात्सर्पनामा᳘नि त᳘थैॗवैतद्य᳘जमानो य᳘त्सर्पनामै᳘रुपति᳘ष्ठत इमा᳘नेवास्मा एत᳘ल्लोका᳘न्त्स्थाप᳘यतीमां᳘लोका᳘न्नमयति त᳘थो हास्यैत᳘ एते᳘नात्म᳘ना न᳘ सर्पन्ति॥
मूलम् - विस्वरम्
त ऽएतानि सर्पनामान्यपश्यन् । तैरुपातिष्ठन्त । तैरस्मा ऽइमाल्ँ लोकानस्थापयन् । तैरनमयन् । यदनमयन् तस्मात्सर्पनामानि । तथैवैतद्यजमानो यत्सर्पनामैरुपतिष्ठते- इमानेवास्मा ऽएतल्लोकान्त्स्थापयति । इमाल्ँ लोकान्नमयति । तथो हास्यैत ऽएतेनात्मना न सर्पन्ति ॥ २६ ॥
सायणः
[व्याख्यानं पञ्चविंशतितमे]
Eggeling
- They saw those Sarpanāma and worshipped with them; by these (verses) they stopped these worlds for him, and caused them to bend themselves; and because they caused them to bend (nam) themselves,
therefore (the formulas are called) Sarpanāma. And in like manner does the Sacrificer, when he stands by worshipping with the Sarpanāma formulas, stop these worlds for him, and cause these worlds to bend themselves; and so they do not glide away with that self of his.
२७
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ सर्पनामै᳘रुपति᳘ष्ठते॥
(त) ऽइमे वै᳘ लोकाः᳘ सर्पा यद्धि किं᳘ च स᳘र्पत्ये᳘ष्वेव त᳘ल्लोके᳘षु सर्पति तद्य᳘त्सर्पनामै᳘रुपति᳘ष्ठते᳘ यै᳘वैषु᳘ लोके᳘षु नाष्ट्रा यो᳘ व्व्यध्वरो या शि᳘मिदा त᳘दे᳘वैतत्स᳘र्व्वᳫँ᳭ शमयति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ सर्पनामै᳘रुपति᳘ष्ठते॥
(त) ऽइमे वै᳘ लोकाः᳘ सर्पा यद्धि किं᳘ च स᳘र्पत्ये᳘ष्वेव त᳘ल्लोके᳘षु सर्पति तद्य᳘त्सर्पनामै᳘रुपति᳘ष्ठते᳘ यै᳘वैषु᳘ लोके᳘षु नाष्ट्रा यो᳘ व्व्यध्वरो या शि᳘मिदा त᳘दे᳘वैतत्स᳘र्व्वᳫँ᳭ शमयति॥
मूलम् - Weber
य᳘द्वेव᳘ सर्पनामै᳘रुपति᳘ष्ठत॥
इमे वै᳘ लोकाः᳘ सर्पा यद्धि किं᳘ च स᳘र्पत्येॗष्वेव त᳘ल्लोके᳘षु सर्पति तद्य᳘त्सर्पनामै᳘रुपति᳘ष्ठतेॗ यैॗवैषु᳘ लोके᳘षु नाष्ट्रा यो᳘ व्यद्वरो या शि᳘मिदा त᳘देॗवैतत्स᳘र्वं शमयति॥
मूलम् - विस्वरम्
यद्वेव सर्पनामैरुपतिष्ठते । इमे वै लोकाः सर्पाः । यद्धि किञ्च सर्पति- एष्वेव तल्लोकेषु सर्पति । तद्यत्सर्पनामैरुपतिष्ठते- यैवैषु लोकेषु नाष्ट्रा, यो व्यध्वरो, या शिमिदा- तदेवैतत्सर्वं शमयति ॥ २७ ॥
सायणः
सर्पनामभिरुपस्थानमनूद्य प्रकारान्तरेण स्तौति- यद्वेवेति । यदिदं ‘किञ्च’ स्थावरजङ्गमात्मकं प्राणिजातमस्ति, तत् सर्वम् ‘एष्वेव’ लोकेषु ‘सर्पति’ चलति अतः सर्पणाधिकरणत्वात् सर्पाः ‘लोकाः’ ‘तत्’ तथा सति सर्पनामाख्यैर्मन्त्रैः ‘उपतिष्ठते’ इति यदस्ति ‘तत्’ तेन ‘एष्वेव’ लोकेषु वर्तमानं नाष्ट्रादिकं ‘शमयति’ । ‘नाष्ट्रा’ नाशकारिणी आसुरी प्रजा ‘व्यध्वरः’ व्यधनशीलो दन्दशूकादिः । ‘शिमिदा’ विषहेतुर्लूतावृश्चिकादिः ॥ २७ ॥
Eggeling
- And, again, why he stands by worshipping with the Sarpanāma formulas;–the serpents are these worlds, for whatever creeps (sarp), creeps in these worlds. Now when he worships with the Sarpanāma formulas–whatever fiend there is in these worlds, whatever devourer, whatever ogress,–all that he thereby appeases.
२८
विश्वास-प्रस्तुतिः
न᳘मो ऽस्तु सर्पे᳘भ्यः॥
(भ्यो) ये के᳘ च पृथिवीम᳘नु। ये᳘ ऽअन्त᳘रिक्षे ये᳘ दिवि ते᳘भ्यः सर्पे᳘भ्यो न᳘म ऽइ᳘ति य᳘ ऽए᳘वैषु᳘ त्रिषु[[!!]] लोके᳘षु सर्पा᳘स्ते᳘भ्य ऽएतन्न᳘मस्करोति॥
मूलम् - श्रीधरादि
न᳘मो ऽस्तु सर्पे᳘भ्यः॥
(भ्यो) ये के᳘ च पृथिवीम᳘नु। ये᳘ ऽअन्त᳘रिक्षे ये᳘ दिवि ते᳘भ्यः सर्पे᳘भ्यो न᳘म ऽइ᳘ति य᳘ ऽए᳘वैषु᳘ त्रिषु[[!!]] लोके᳘षु सर्पा᳘स्ते᳘भ्य ऽएतन्न᳘मस्करोति॥
मूलम् - Weber
न᳘मो ऽस्तु सर्पे᳘भ्यो ये के᳘ च पृथिवीम᳘नु॥
ये᳘ अन्त᳘रिक्षे ये᳘ दिवि ते᳘भ्यः सर्पे᳘भ्यो न᳘म इ᳘ति य᳘ एॗवैषु᳘ त्रिषु᳘ लोके᳘षु सर्पास्ते᳘भ्य एतन्न᳘मस्करोति॥
मूलम् - विस्वरम्
“नमो ऽस्तु सर्पेभ्यो, ये के च पृथिवीमनु, ये ऽअन्तरिक्षे, ये दिवि, तेभ्यः सर्पेभ्यो नमः”- (वा. सं. १३ । ६) इति । य ऽएवैषु त्रिषु लोकेषु सर्पाः- तेभ्य एतन्नमस्करोति ॥ २८ ॥
सायणः
तत्र प्रथमं सर्वनाममन्त्रमनूद्य तात्पर्यं व्याचष्टे- नमो ऽस्त्वित्यादिना । य एवैष्विति । ‘ये’ ‘एवैषु’ ‘त्रिषु’ ‘लोकेषु’ ‘ये’ सर्पणशीलाः दन्दशूकाद्याः प्राणिनः ‘तेभ्य एतन्नमस्करोति’ इति मन्त्रस्य तात्पर्यार्थः । ‘पृथिवीमनु’ इति लक्षणे अनोः कर्मप्रवचनीयत्वम् । (पा. सू. १ । ४ । ८४) (पा. सू. २ । ३ । ८) । मन्त्रार्थो निगदसिद्धः ॥ २८ ॥
Eggeling
- [Vāj. S. XIII, 6-8] ‘Homage be to the serpents, whichever are on earth, and they that are in the air, and they that are in the sky, to those serpents be homage!’ whatever serpents there are in these three worlds to them he thereby does homage.
२९
विश्वास-प्रस्तुतिः
या ऽइ᳘षवो यातुधा᳘नानामि᳘ति॥
यातुधा᳘नप्रेषिता है᳘के दशन्ति ये᳘ वा व्व᳘नस्प᳘तीँ १॥ र᳘नु॥ ये᳘ वा ऽवटे᳘षु शे᳘रते ते᳘भ्यः सर्पे᳘भ्यो न᳘म ऽइ᳘ति ये᳘ चैव व्व᳘नस्प᳘तिषु सर्पा ये᳘ चावटे᳘षु शे᳘रते ते᳘भ्य ऽएतन्न᳘मस्करोति॥
मूलम् - श्रीधरादि
या ऽइ᳘षवो यातुधा᳘नानामि᳘ति॥
यातुधा᳘नप्रेषिता है᳘के दशन्ति ये᳘ वा व्व᳘नस्प᳘तीँ १॥ र᳘नु॥ ये᳘ वा ऽवटे᳘षु शे᳘रते ते᳘भ्यः सर्पे᳘भ्यो न᳘म ऽइ᳘ति ये᳘ चैव व्व᳘नस्प᳘तिषु सर्पा ये᳘ चावटे᳘षु शे᳘रते ते᳘भ्य ऽएतन्न᳘मस्करोति॥
मूलम् - Weber
या इ᳘षवो यातुधा᳘नानामि᳘ति॥
यातुधा᳘नप्रेषिता है᳘के दशन्ति ये᳘ वा व᳘नस्प᳘तीम्र᳘नु ये᳘ वावटे᳘षु शे᳘रते ते᳘भ्यः सर्पे᳘भ्यो न᳘म इति ये चैव व᳘नस्प᳘तिषु सर्पा ये᳘ चावटे᳘षु शे᳘रते ते᳘भ्य एतन्न᳘मस्करोति॥
मूलम् - विस्वरम्
“या इषवो यातुधानानाम्”- इति । यातुधानप्रेषिता हैके दशन्ति । “ये वा वनस्पतीँ ॥ रनु ॥ ये वा ऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः”- (वा. सं. १३ । ७) इति । ये चैव वनस्पतिषु सर्पाः, ये चा ऽवटेषु शेरते, तेभ्य एतन्नमस्करोति ॥ २९ ॥
सायणः
द्वितीयं मन्त्रमनूद्य व्याचष्टे- या इषव इति । यातुधानप्रेषिता इति । ‘यातुधानैः’ राक्षसैः ‘प्रेषिताः’ प्रेरिताः खलु ‘एके’ सर्पाः ‘दशन्ति’ खादन्ति । “दंश दशने”- (धा. पा. भ्वा. प. १०१४) “दंशसञ्जस्वञ्जां शपि”- (पा. सू. ६ । ४ । २५) इति नलोपः । अतस्ते ‘यातुधानानाम्’ ‘इषवो’ बाणाः, ईदृग्विधाश्च ये ‘सर्पाः’ ‘ये वा वनस्पतीरँनु’ ‘अनु’- लक्ष्य वनस्पतिषु वर्त्तन्ते, ‘अवटेषु’ बिलेषु ‘शेरते,’ ‘ये’ सर्पाः ‘तेभ्यः सर्पेभ्यो नमः’ ‘इति’ अनेन मन्त्रेण नमस्कारः क्रियत इत्यर्थः ॥ २९ ॥
Eggeling
- ‘They that are the darts of demons,’ for some (of the serpents), sent by demons, bite;–‘and those on the trees, and those which lie in holes, to those serpents be homage!’ he thereby does homage to the serpents that lie both in trees, and in holes.
३०
विश्वास-प्रस्तुतिः
ये᳘ वा ऽमी᳘ रोचने᳘ दिवः॥
(वो) ये᳘ वा सू᳘र्यस्य रश्मि᳘षु॥ ये᳘षामप्सु स᳘दस्कृतं ते᳘भ्यः सर्पे᳘भ्यो न᳘म ऽइ᳘ति य᳘त्र यत्रैते त᳘दे᳘वैभ्य ऽएतन्न᳘मस्करोति न᳘मो न᳘म ऽइ᳘ति यज्ञो वै न᳘मो यज्ञे᳘नै᳘वैनानेत᳘न्नमस्कारे᳘ण नमस्यति त᳘स्मादु ह᳘ नायज्ञियं᳘ ब्रूयान्न᳘मस्त ऽइ᳘ति य᳘था हैनं ब्रूया᳘द्यज्ञ᳘स्त ऽइ᳘ति तादृक् त᳘त्॥
मूलम् - श्रीधरादि
ये᳘ वा ऽमी᳘ रोचने᳘ दिवः॥
(वो) ये᳘ वा सू᳘र्यस्य रश्मि᳘षु॥ ये᳘षामप्सु स᳘दस्कृतं ते᳘भ्यः सर्पे᳘भ्यो न᳘म ऽइ᳘ति य᳘त्र यत्रैते त᳘दे᳘वैभ्य ऽएतन्न᳘मस्करोति न᳘मो न᳘म ऽइ᳘ति यज्ञो वै न᳘मो यज्ञे᳘नै᳘वैनानेत᳘न्नमस्कारे᳘ण नमस्यति त᳘स्मादु ह᳘ नायज्ञियं᳘ ब्रूयान्न᳘मस्त ऽइ᳘ति य᳘था हैनं ब्रूया᳘द्यज्ञ᳘स्त ऽइ᳘ति तादृक् त᳘त्॥
मूलम् - Weber
ये᳘ वामी᳘ रोचने᳘ दिवो॥
ये᳘ वा सू᳘र्यस्य रश्मि᳘षु ये᳘षामप्सु स᳘दस्कृतं ते᳘भ्यः सर्पे᳘भ्यो न᳘म इ᳘ति य᳘त्र यत्रैते त᳘देॗवैभ्य एतन्न᳘मस्करोति न᳘मो न᳘म इ᳘ति यज्ञो वै न᳘मो यज्ञे᳘नैॗवैनानेत᳘न्नमस्कारे᳘ण नमस्यति त᳘स्मादु हॗ नायज्ञिय᳘ ब्रूयान्न᳘मस्त इ᳘ति य᳘था हैनम् ब्रूया᳘द्यज्ञ᳘स्त इ᳘ति तादृक्त᳘त्॥
मूलम् - विस्वरम्
“ये वा ऽमी रोचने दिवो ये वा सूर्यस्य रश्मिषु ॥ येषामप्सु सदस्कृतं तेभ्यः सर्पेभ्यो नमः”- (वा. सं. १३ । ८) इति । यत्र यत्रैते- तदेवैभ्य एतन्नमस्करोति । नमो नम इति । यज्ञो वै नमः । यज्ञेनैवैनानेतन्नमस्कारेण नमस्यति । तस्मादु ह नायज्ञियं ब्रूयात्- ‘नमस्ते’- इति । यथा हैनं ब्रूयाद् यज्ञस्त इति । तादृक् तत् ॥ ३० ॥
सायणः
तृतीयं सर्पनाममन्त्रमनूद्य मन्त्रत्रयतात्पर्यं व्याचष्टे- ये वा ऽमी इति । सर्वत्र ‘वा’ शब्दश्चार्थे । ‘दिवो’ द्युलोकस्य सम्बन्धिनि ‘रोचने’ रोचमाने स्थाने ‘ये’ च ‘अमी’ सर्पाः ‘सूर्यस्य रश्मिषु’ च ये वर्त्तन्ते, ‘येषां’ सर्पाणाम् ‘अप्सु’ उदकमध्ये ‘सदः’ सदनं स्थानं ‘कृतम्’ अस्ति, ‘तेभ्यः’ सर्पेभ्यो नम इति । यत्र यत्रेत्यादि । मन्त्रत्रयतात्पर्यकथनम् । ‘यत्र यत्र’ देशे ‘एते’ सर्पाः वर्त्तन्ते, ‘तत्’ तत्र ‘एव’ ‘एभ्यः’ सर्वेभ्यो नमो नम इति त्रिष्वपि मन्त्रेषु पठितानां नमःशब्दानां सङ्ग्रहार्था पुनरुक्तिः । ‘नमो नम इति’ पुनः पुनर्नमःशब्दप्रयोगेण एतान्नमस्करोति । नमस्कारं स्तौति- यज्ञो वै नम इति । देवतोद्देशेन द्रव्यत्यागो ‘यज्ञः’ स यथा देवानां प्रीतिकरस्तद्वन्नमस्कारो ऽपीति तस्य यज्ञात्मकता । तथा च यज्ञात्मकेनैव नमस्कारेण ‘एनान्’ सर्पान् ‘नमस्यति’ पूजयति । नमसः पूजायामर्थे “नमो वरिव०”- (पा. सू. ३ । १ । १९) इति क्यच् । प्रासङ्गिकं किञ्चिदाह- तस्मादिति । यस्मादेवं नमस्कारप्रतिपादको नमःशब्दो ऽपि यज्ञात्मकः प्रयुज्यते, ‘तस्माद्’ एव कारणाद् ‘अयज्ञिम्’ यज्ञानर्हं, हे देवदत्त ! नमस्तुभ्यमित्येवं ‘न ब्रूयात्’ । कथं तर्हि ब्रूयात् ? ‘भो देवदत्त ! नमस्ते’ इत्येव ब्रूयात् । तस्य वचनस्य यज्ञियत्वमाविष्करोति- यथा हैनमिति । ‘यथा’ खलु ‘एनम्’ अतिथिं ‘ब्रूयात्’ ‘यज्ञस्ते’ कल्पित इति ‘तादृक्’ तत्सदृशमेव ‘तत्’ नमस्त इति वचनम् ॥ ३० ॥
Eggeling
- ‘Or those that are in the luminous sphere of the sky; or those in the rays of the sun; those by which abode is made in the waters, to those serpents be homage!’ he hereby does homage to them wheresoever they are. He does so by ‘homage, homage,’ for homage is sacrifice (worship): by sacrifice, by homage, he thus worships them. Let him therefore not say ‘homage be to thee,’ to one not worthy of sacrifice, for it
would be just as if he said ‘sacrifice (or, worship) be to thee!’
३१
विश्वास-प्रस्तुतिः
(त्त्रि) त्रिभिरु᳘पतिष्ठते॥
त्र᳘य ऽइमे᳘ लोका ऽअ᳘थो त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मा ऽएत᳘दिमाल्ँ᳘लोका᳘न्त्स्थाप᳘यत्य᳘थो ता᳘वतै᳘वैत᳘दिदᳫँ᳭ स᳘र्वᳫँ᳭ शमयति ति᳘ष्ठन्नु᳘पतिष्ठते ति᳘ष्ठन्तीव वा᳘ ऽइमे᳘ लोका ऽअ᳘थो ति᳘ष्ठन्वै᳘ व्वी᳘र्यवत्तरः[[!!]]॥
मूलम् - श्रीधरादि
(त्त्रि) त्रिभिरु᳘पतिष्ठते॥
त्र᳘य ऽइमे᳘ लोका ऽअ᳘थो त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मा ऽएत᳘दिमाल्ँ᳘लोका᳘न्त्स्थाप᳘यत्य᳘थो ता᳘वतै᳘वैत᳘दिदᳫँ᳭ स᳘र्वᳫँ᳭ शमयति ति᳘ष्ठन्नु᳘पतिष्ठते ति᳘ष्ठन्तीव वा᳘ ऽइमे᳘ लोका ऽअ᳘थो ति᳘ष्ठन्वै᳘ व्वी᳘र्यवत्तरः[[!!]]॥
मूलम् - Weber
त्रिभिरु᳘पतिष्ठते॥
त्र᳘य इमे᳘ लोका अ᳘थो त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मा एत᳘दिमां᳘लोका᳘न्त्स्थाप᳘यत्य᳘थो ता᳘वतैॗवैत᳘दिदम् म᳘र्वं शमयति ति᳘ष्ठन्नु᳘पतिष्ठते ति᳘ष्ठन्तीव वा᳘ इमे᳘ लोका अ᳘थो ति᳘ष्ठन्वै᳘ वीर्य᳘वत्तरः॥
मूलम् - विस्वरम्
त्रिभिरुपतिष्ठते । त्रय ऽइमे लोकाः । अथो त्रिवृदग्निः । यावानग्निर्यावेत्यस्य मात्रा- तावतैवास्मा ऽएतदिमांल्लोकान्त्स्थापयति । अथो तावतैवैतदिदं सर्वं शमयति । तिष्ठन्नुपतिष्ठते । तिष्ठन्तीव वा ऽइमे लोकाः । अथो तिष्ठन् वै वीर्यवत्तरः ॥ ३१ ॥
सायणः
मन्त्रस्य त्रिसंख्यामुपजीव्य स्तौति- त्रिभिरुपतिष्ठत इति । ‘त्रय इमे लोकाः’ पृथिव्यादयः, अतस्तत्संख्यया मन्त्रत्रित्वमित्यर्थः । अथो त्रिवृदग्निरित्यादिना मन्त्रत्रित्वस्य प्रयोजनान्तरप्रतिपादनम् । त्रिवृदग्निरित्यादिकं प्राग्व्याख्यातम् । तावतैवास्मा इति । ‘अस्मै’ हिरण्मयपुरुषाय ‘तावता’ तस्याग्नेः परिमाणेनैव ‘इमान्’ लोकान् ‘एतद्’ एतेनोपस्थानेन ‘स्थापयति’ ‘अथो’ अपि च ‘तावता’ तत्परिमाणेन ‘एव’ ‘इदं सर्वम्’ जगत्तेनोपस्थानेन ‘शमयति’ । तच्चोपस्थानं तिष्ठता कर्त्तव्यमिति स्थितिगुणं विधाय स्तौति- तिष्ठन्नुपतिष्ठत इति । ऊर्द्ध्वाकारेणावस्थानात् ‘तिष्ठन्तीव’ खलु ‘इमे लोकाः’ । ‘अथो’ अपि च उपविष्टात्पुरुषात् ‘तिष्ठन्’ खलु पुरुषो ‘वीर्यवत्तरः’ अतिशयितवीर्यवान्, तस्मादुपस्थानस्य तिष्ठत्कर्तृकता युक्तेत्यर्थः ॥ ३१ ॥
Eggeling
- With three (formulas) he worships,–three are these worlds, and threefold, also, is Agni: as great as Agni is, as great as is his measure, by so much he thus stops these worlds (from moving); and by so much does he appease everything here. Standing he worships, for these worlds stand, as it were; and besides, while standing one is stronger.
३२
विश्वास-प्रस्तुतिः
(रो᳘ ऽथै) अ᳘थैनमुपवि᳘श्याभि᳘जुहोति॥
(त्या᳘) आ᳘ज्येन पञ्चगृहीते᳘न त᳘स्योक्तो ब᳘न्धुः सर्व्व᳘तः परिस᳘र्पᳫँ᳭ स᳘र्व्वाभ्य ऽए᳘वैनमेत᳘द्दिग्भ्यो᳘ ऽन्नेन प्रीणाति॥
मूलम् - श्रीधरादि
(रो᳘ ऽथै) अ᳘थैनमुपवि᳘श्याभि᳘जुहोति॥
(त्या᳘) आ᳘ज्येन पञ्चगृहीते᳘न त᳘स्योक्तो ब᳘न्धुः सर्व्व᳘तः परिस᳘र्पᳫँ᳭ स᳘र्व्वाभ्य ऽए᳘वैनमेत᳘द्दिग्भ्यो᳘ ऽन्नेन प्रीणाति॥
मूलम् - Weber
अ᳘थैनमुपवि᳘श्याभि᳘जुहोति॥
आ᳘ज्येन पञ्चगृहीते᳘न त᳘स्योक्तो ब᳘न्धुः सर्व᳘तः परिस᳘र्पᳫं स᳘र्वाभ्य एॗवैनमेत᳘द्दिग्भ्यो᳘ ऽन्नेन प्रीणाति॥
मूलम् - विस्वरम्
अथैनमुपविश्याभिजुहोति । आज्येन पञ्चगृहीतेन । तस्योक्तो बन्धुः । सर्वतः परिसर्पम् । सर्वाभ्य एवैनमेतद्दिग्भ्यो ऽन्नेन प्रीणाति ॥ ३२ ॥
सायणः
अभिहोमं विधत्ते- अथैनमिति । उपस्थानानन्तर्यम् ‘अथ’- शब्दार्थः । ‘एनम्’ हिरण्मयपुरुषम् ‘अभिजुहोति’ अभितः सर्वासु दिक्षु उपरिहोमेन संस्कुर्यात् । तत्र द्रव्यं विधत्ते 16- आज्येनेति । आहुतिपञ्चकार्थं पञ्चगृहीतमाज्यं स्रुचि गृहीत्वा तेनाभिजुहुयादित्यर्थः । तस्योक्त इति । तस्य पञ्चसङ्ख्यायुक्तत्वस्य स्तावको वाक्यशेषः प्रागाम्नातः (श. सू. ७ । २ । ३ । ९) इत्यर्थः । सर्वतः परिसर्पमिति । ‘सर्वतः’ सर्वासु दिक्षु ‘परिसर्पम्’ तां तां दिशं परिक्रम्य “आभीक्ष्ण्ये णमुल् च”- (पा. सू. ३ । ४ । २२) इति णमुल् । परिसर्पणस्य प्रयोजनमाह- सर्वाभ्य इति । ‘सर्वाभ्यो’ दिग्भ्यः सकाशाद् ‘एनम्’ पुरुषम् । गतमन्यत् ॥ ३२ ॥
Eggeling
- Thereupon, having sat down he offers on (the gold man) with fivefold-taken ghee,–the significance of this has been explained. On each side (of the fire he offers), moving round: he thus gratifies him (Agni) with food from all quarters.
३३
विश्वास-प्रस्तुतिः
य᳘द्वे᳘वैनमभिजुहो᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽएत᳘मात्मा᳘नमुपधा᳘याबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएता᳘न्राक्षोघ्ना᳘न्प्रतिसरा᳘नपश्यन् कृणुष्व पा᳘जः प्र᳘सितिं न᳘ पृथ्वीमि᳘ति राक्षोघ्ना वै᳘ प्रतिसरास्त᳘ ऽएतैः᳘ प्रतिसरैः स᳘र्व्वाभ्यो दिग्भ्यो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएत᳘मात्मा᳘नᳫँ᳭ स᳘मस्कुर्वत त᳘थै᳘वैतद्य᳘जमान ऽएतैः᳘ प्रतिसरैः स᳘र्व्वाभ्यो दिग्भ्यो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ एत᳘मात्मा᳘नᳫँ᳭ सं᳘स्कुरुते॥
मूलम् - श्रीधरादि
य᳘द्वे᳘वैनमभिजुहो᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽएत᳘मात्मा᳘नमुपधा᳘याबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएता᳘न्राक्षोघ्ना᳘न्प्रतिसरा᳘नपश्यन् कृणुष्व पा᳘जः प्र᳘सितिं न᳘ पृथ्वीमि᳘ति राक्षोघ्ना वै᳘ प्रतिसरास्त᳘ ऽएतैः᳘ प्रतिसरैः स᳘र्व्वाभ्यो दिग्भ्यो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएत᳘मात्मा᳘नᳫँ᳭ स᳘मस्कुर्वत त᳘थै᳘वैतद्य᳘जमान ऽएतैः᳘ प्रतिसरैः स᳘र्व्वाभ्यो दिग्भ्यो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ एत᳘मात्मा᳘नᳫँ᳭ सं᳘स्कुरुते॥
मूलम् - Weber
य᳘द्वेॗवैनमभिजुहो᳘ति॥
एतद्वै᳘ देवा᳘ एत᳘मात्मा᳘नमुपधा᳘याबिभयुर्यद्वै᳘ न इम᳘मिह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ एता᳘न्राक्षोघ्ना᳘न्प्रतिसरा᳘नपश्यन्कृणुष्व पा᳘जः प्र᳘सितिं न᳘ पृथ्वीमि᳘ति राक्षोघ्ना वै᳘ प्रतिसरास्त᳘ एतैः᳘ प्रतिसरैः स᳘र्वाभ्यो दिग्भ्यो र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये ऽनाष्ट्र᳘ एत᳘मात्मा᳘नᳫं स᳘मस्कुर्वत त᳘थैॗवैतद्य᳘जमान एतैः᳘ प्रतिसरैः स᳘र्वाभ्यो दिग्भ्यो र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये ऽनाष्ट्र᳘ एत᳘मात्मा᳘नᳫं स᳘ᳫं᳘ स्कुरुते॥
मूलम् - विस्वरम्
यद्वेवैनमभिजुहोति । एतद्वै देवा एतमात्मानमुपधायाबिभयुः- यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । त ऽएतान् राक्षोघ्नान्प्रतिसरानपश्यन् । “कृणुष्व पाजः प्रसितिं न पृथ्वीम्”- (वा० सं० १३ । ९-१३) इति । राक्षोघ्ना वै प्रतिसराः । त ऽएतैः प्रतिसरैः सर्वाभ्यो दिग्भ्यो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र ऽएतमात्मानं समस्कुर्वत । तथैवैतद्यजमान एतैः प्रतिसरैः सर्वाभ्यो दिग्भ्यो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र ऽएतमात्मानं संस्कुरुते ॥ ३३ ॥
सायणः
मन्त्रविध्यर्थमनुवदति- यद्वेवैनमिति । “कृणुष्व पाजः”- इत्याद्यान् राक्षोघ्नान्पञ्च मन्त्रान् विधानुमाख्यायिकामाह- एतद्वै देवा इति । यद्वै न इममिति । ‘नः’ अस्माकम् ‘इमम्’ आत्मानम् ‘इह’ अस्मिन्नवसरे ‘नाष्ट्रा’ ‘रक्षांसि’ ‘यत्’ येनोपायेन ‘न हन्युः’ स उपायः क इति विचारितवन्त इत्यर्थः । राक्षोघ्नान् प्रतिसरानित्यादि । राक्षसान्प्रति अस्त्ररूपेण सरन्ति गच्छन्तीति ‘प्रतिसराः’ ‘कृणुष्व पाजः’ इत्याद्या मन्त्राः । अत एव ते रक्षोहननसम्बन्धाद् ‘राक्षोघ्नाः’ । प्रसिद्धौ ‘वै’- शब्दः, सा च “अस्तासि विध्य रक्षसस्तपिष्ठैः”- इत्यादिमन्त्रवर्णादवसेया । तथैवैतादित्यादिना उक्तार्थदृष्टान्तमुखेनाभिहोममन्त्रविधिः ॥ ३३ ॥
Eggeling
- And, again, why he offers thereon. The gods, having laid down that body of theirs, now were afraid lest the Rakshas, the fiends, should smite that (body) of theirs. They saw those Rakshas-killing counter-charms 17,–(Vāj. S. XIII, 9-13; R̥k S. IV, 4, I-5),
‘Put forth thy power, like a broad army!’ slayers of Rakshas are the counter-charms: having, by means of these counter-charms, repelled the Rakshas, the fiends, in every quarter, they (the gods) restored that body in a place free from danger and devilry; and in like manner this Sacrificer, having, by means of these counter-charms, repelled the Rakshas, the fiends, in every quarter, now restores that body (of Agni) in a place free from danger and devilry.
३४
विश्वास-प्रस्तुतिः
(त ऽ) आ᳘ज्येन जुहोति॥
व्व᳘ज्रो वा ऽआ᳘ज्यं व्व᳘ज्रेणै᳘वैतद्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति पञ्चगृहीते᳘न प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैतद्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्त्याग्नेयी᳘भिरग्निर्वै ज्यो᳘ती रक्षो᳘हा ऽग्नि᳘नै᳘वैतद्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति त्रिष्टु᳘ब्भिर्व्व᳘ज्रो᳘ वै᳘ त्रिष्टुब्व᳘ज्रेणै᳘वैतद्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति सर्व्व᳘तः परिस᳘र्पᳫँ᳭ स᳘र्व्वाभ्य ऽए᳘वैत᳘द्दिग्भ्यो र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति॥
मूलम् - श्रीधरादि
(त ऽ) आ᳘ज्येन जुहोति॥
व्व᳘ज्रो वा ऽआ᳘ज्यं व्व᳘ज्रेणै᳘वैतद्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति पञ्चगृहीते᳘न प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैतद्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्त्याग्नेयी᳘भिरग्निर्वै ज्यो᳘ती रक्षो᳘हा ऽग्नि᳘नै᳘वैतद्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति त्रिष्टु᳘ब्भिर्व्व᳘ज्रो᳘ वै᳘ त्रिष्टुब्व᳘ज्रेणै᳘वैतद्र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति सर्व्व᳘तः परिस᳘र्पᳫँ᳭ स᳘र्व्वाभ्य ऽए᳘वैत᳘द्दिग्भ्यो र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति॥
मूलम् - Weber
आ᳘ज्येन जुहोति॥
व᳘ज्रो वा आ᳘ज्यं व᳘ज्रेणैॗवैतप्र᳘क्षांसि नाष्ट्रा अ᳘पहन्ति पञ्चगृहीते᳘न प᳘ञ्चचितिको ऽग्निः प᳘ञ्च ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैतद्र᳘क्षांसि नाष्ट्रा अ᳘पहन्त्याग्नेयी᳘भिरग्निर्वै ज्यो᳘ती रक्षोॗहाग्नि᳘नैॗवैतद्र᳘क्षांसि नाष्ट्रा अ᳘पहन्ति त्रिष्टु᳘ब्भिर्व᳘ज्रो᳘ वै᳘ त्रिष्टुब्व᳘ज्रेणैॗवैतद्र᳘क्षांसि नाष्ट्रा अ᳘पहन्ति सर्व᳘तः परिस᳘र्पᳫं स᳘र्वाभ्य एॗवैत᳘द्दिग्भ्यो र᳘क्षांसि नाष्ट्रा अ᳘पहन्ति॥
मूलम् - विस्वरम्
आज्येन जुहोति । वज्रो वा ऽआज्यम् । वज्रेणैवैतद्रक्षांसि नाष्ट्रा अपहन्ति । पञ्चगृहीतेन । पञ्चचितिको ऽग्निः । पञ्च ऽर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैतद्रक्षांसि नाष्ट्रा अपहन्ति । आग्नेयीभिः । अग्निर्वै ज्योती रक्षोहा । अग्निनैवैतद्रक्षांसि नाष्ट्रा अपहन्ति । त्रिष्टुब्भिः । वज्रो वै त्रिष्टुप् वज्रेणैवैतद्रक्षांसि नाष्ट्रा अपहन्ति । सर्वतः परिसर्पम्- सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा अपहन्ति ॥ ३४ ॥
सायणः
मन्त्रद्वारा रक्षोहननहेतुतां प्रतिपाद्य द्रव्यमुखेनापि तत् प्रतिपादयति- वज्रो वा इति । “घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्”- (तै. सं. ६ । २ । २) इति तैत्तिरीयके प्रसिद्धं घृतस्य वज्ररूपत्वमत्र ‘वै’- शब्दो द्योतयति । यद्वा आज्यस्याग्निज्वालाहेतुत्वाद्वज्रत्वम् । पञ्चर्त्तवः संवत्सर इति । हेमन्तशिशिरयोः समासाभिप्रायेण । तावतैवैतद्रक्षांसीति । यत्परिमाणविशिष्टश्चित्यो ऽग्निस्तावत्परिमाणेन ‘एतद्’ एतेन कर्मणा ‘नाष्ट्रा’ ‘रक्षांसि’ नाशयति । मन्त्रदेवताद्वारेण प्रशंसति- आग्नेयीभिरिति । अग्निर्देवता यासां ता आग्नेय्यः, “अग्नेर्ढक्”- (पा. सू. ४ । २ । ३३) “टिड्ढाणञ्” (पा. सू. ४ । १ । १५) इति ङीप् । छन्दोद्वारेण स्तौति- त्रिष्टुब्भिरिति । वज्रो वै त्रिष्टुबिति । इन्द्रेण सहोत्पन्नत्वाद्वीर्योपेतात्प्रजापत्यवयवादुत्पत्तेश्च त्रिष्टुभो वज्रत्वम् । परिसर्पणप्रकारं विधित्सुर्विहितं परिसर्पणमनूद्य स्तौति- सर्वतः परिसर्पमिति । उक्तार्थमेतत् ॥ ३४ ॥
Eggeling
- He offers with ghee; for the ghee is a thunderbolt: by the thunderbolt he thus repels the Rakshas, the fiends;–with fivefold-taken (ghee),–of five layers consists the fire-altar; five seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, with so much he thus repels the Rakshas, the fiends;–with (five) verses addressed to Agni, for the Rakshas-killing light is Agni: by Agni he thus repels the Rakshas, the fiends;–with trishṭubh verses,–the Trishṭubh is a thunderbolt: by the thunderbolt he thus repels the Rakshas, the fiends. On each side (he offers) moving round: in every quarter he thus repels the Rakshas, the fiends.
३५
विश्वास-प्रस्तुतिः
पश्चाद᳘ग्नेः प्राङा᳘सीनः॥
(नो᳘ ऽथो) अ᳘थोत्तरतो᳘ दक्षिणा᳘ ऽथ पुर᳘स्तात्प्रत्यङ्ङ᳘थ जघ᳘नेन परी᳘त्य दक्षिणत ऽउ᳘दङ्ङा᳘सीनस्त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳘ ऽथानुपरी᳘त्य पश्चात्प्राङा᳘सीनस्त᳘थो हास्यैतत्प्रा᳘गेव क᳘र्म कृतं᳘ भवति॥
मूलम् - श्रीधरादि
पश्चाद᳘ग्नेः प्राङा᳘सीनः॥
(नो᳘ ऽथो) अ᳘थोत्तरतो᳘ दक्षिणा᳘ ऽथ पुर᳘स्तात्प्रत्यङ्ङ᳘थ जघ᳘नेन परी᳘त्य दक्षिणत ऽउ᳘दङ्ङा᳘सीनस्त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳘ ऽथानुपरी᳘त्य पश्चात्प्राङा᳘सीनस्त᳘थो हास्यैतत्प्रा᳘गेव क᳘र्म कृतं᳘ भवति॥
मूलम् - Weber
पश्चाद᳘ग्नेः प्राङा᳘सीनो॥
ऽथोत्तरतो᳘ दक्षिणा᳘थ पुर᳘स्तात्प्रत्यङ्ङ᳘थ जघ᳘नेन परी᳘त्य दक्षिणत उ᳘दङ्ङा᳘सीनस्त᳘द्दक्षिणावृत्तद्धि᳘ देवत्रा᳘थानुपरी᳘त्य पश्चात्प्राङा᳘सीनस्त᳘थो हास्यैतत्प्रा᳘गेव क᳘र्म कृत᳘म् भवति॥
मूलम् - विस्वरम्
पश्चादग्नेः प्राङासीनः । अथोत्तरतो दक्षिणा । अथ पुरस्तात्प्रत्यङ् । अथ जघनेन परीत्य दक्षिणत उदङ्ङासीनः । तद्दक्षिणावृत् । तद्धि देवत्रा । अथानुपरीत्य पश्चात् प्राङासीनः । तथो हास्यैतत्प्रागेव कर्म कृतं भवति ॥ ३५ ॥
सायणः
पश्चादग्नेः इत्यादिना परिसर्पणप्रकारो निरूप्यते । ‘अग्रे’ प्रथमं ‘पश्चात्’ प्रतीच्यां दिशि प्राङ्मुख उपविष्टः सन् प्रथमेन मन्त्रेण पुरुषमभिजुहोति । ‘अथ’ उत्तरभागे ‘दक्षिणा’- मुख उपविष्टः सन् द्वितीयेन मन्त्रेणाभिजुहोति । ‘अथ पुरस्तात्’ प्राच्यां दिशि ‘प्रत्यङ्’ मुख उपविष्टस्तृतीयेन मन्त्रेण । ‘अथ’ यथेतं प्रतिनिवृत्य ‘जघनेन’ ‘परीत्य’ पुरुषस्य पश्चाद्भागेन परिक्रम्य ‘दक्षिणतः’ दक्षिणस्यां दिशि ‘उदङ्’ मुख उपविष्टश्चतुर्थेन मन्त्रेणाभिजुहोति 18 । तद्दक्षिणावृदिति । एवं क्रियमाणे सति होमस्य प्रादक्षिण्येन वृत्तिरुपपन्ना भवति । ‘तत्’ खलु प्रादक्षिण्यं ‘देवत्रा’ देवसम्बन्धिनि कर्मणि योग्यम् । ‘अथ’ अनन्तरम् ‘अनुपरीत्य’ दक्षिणदिक्सकाशात् प्रतीचीं दिशं गत्वा तत्र ‘प्राङासीनः’ पञ्चमेन मन्त्रेणाभिजुहुयात् 19 । तथैव सति हि ‘अस्य’ यजमानस्य ‘एतद्’ अभिहोमाख्यं कर्म ‘प्राक्’ अपवर्गं ‘कृतम्’ ‘भवति’ इत्यर्थः ॥ ३५ ॥
Eggeling
- Behind the altar (he offers) while seated with his face towards the east; then on the left (north) side (looking) to the south; then in front (looking) to the west; then going round behind, (he offers) on the right (south) side while sitting with his face towards the north. Thus (he moves) to the right, for
that (leads) to the gods. Thereupon, going back, (he offers) while sitting behind, with his face towards the east; and in this way that performance of his takes place towards the east 20.
३६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ स्रु᳘चा ऽउ᳘पदधाति॥
बाहू वै स्रु᳘चौ बाहू᳘ ऽए᳘वास्मिन्नेतत्प्र᳘तिदधाति ते यत्स्रुचौ[[!!]] भ᳘वतः स्रुचौ[[!!]] हि᳘ बाहू᳘ ऽइद᳘मेव᳘ कपु᳘च्छलमयं᳘ दण्डो द्वे᳘ भवतो द्वौ᳘ हीमौ᳘ बाहू᳘ पार्श्वत ऽउ᳘पदधाति पार्श्वतो᳘ हीमौ᳘ बाहू᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ स्रु᳘चा ऽउ᳘पदधाति॥
बाहू वै स्रु᳘चौ बाहू᳘ ऽए᳘वास्मिन्नेतत्प्र᳘तिदधाति ते यत्स्रुचौ[[!!]] भ᳘वतः स्रुचौ[[!!]] हि᳘ बाहू᳘ ऽइद᳘मेव᳘ कपु᳘च्छलमयं᳘ दण्डो द्वे᳘ भवतो द्वौ᳘ हीमौ᳘ बाहू᳘ पार्श्वत ऽउ᳘पदधाति पार्श्वतो᳘ हीमौ᳘ बाहू᳘॥
मूलम् - Weber
अ᳘थ स्रु᳘चा उ᳘पदधाति॥
बाहू वै स्रु᳘चौ बाहू᳘ एॗवास्मिन्नेतत्प्र᳘तिदधाति ते यत्स्रु᳘चौ भ᳘वतः स्रु᳘चौ हि᳘ बाहू᳘ इद᳘मेव᳘ कपु᳘छलमयं᳘ दण्दो द्वे᳘ भवतो द्वौॗ हीमौ᳘ बाहू᳘ पाश्वत उ᳘पदधाति पार्श्वतोॗ हीमौ᳘ बाहू᳟॥
मूलम् - विस्वरम्
अथ स्रुगिष्टकाद्वयोपधानम् ।
अथ स्रुचा उपदधाति । बाहू वै स्रुचौ । बाहू ऽएवास्मिन्नेतत्प्रतिदधाति । ते यत्स्रुचौ भवतः- स्रुचौ हि बाहू- इदमेव कपुच्छलम्, अयं दण्डः । द्वे भवतः । द्वौ हीमौ बाहू । पार्श्वत उपदधाति । पार्श्वतो हीमौ बाहू ॥ ३६ ॥
सायणः
स्रुचोरुपधानं विधत्ते- अथ स्रुचाविति 18 । तत् प्रशंसति- बाहू वा इति । “जुहूर्दक्षिणो हस्त उपभृत सव्यः”- इत्यादिश्रुत्यन्तरप्रसिद्धेः स्रुचोर्बाहुरूपता । तथा सति ‘एतत्’ एतेन स्रुगुपधानेन ‘अस्मिन्’ हिरण्मयपुरुषे ‘बाहू’ एव ‘प्रतिदधाति’ सन्दधाति । स्रुचोर्बाहुरूपताप्रसिद्धिमभिनयेन दर्शयति- इदमेवेति । ‘इदमेव’ हस्ताग्रं प्रसृतिरूपेण दृश्यमानं ‘कपुच्छलं’ स्रुगग्रस्थानीयम् । ‘अयम्’ एव बाहुदण्डः स्रुग् ‘दण्डः’ अतः स्रुग्रूपता ऽनयोः प्रत्यक्षसिद्धेत्यर्थः । द्वित्वमनूद्य स्तौति- द्वे भवत इति । दक्षिणोत्तरपार्श्वयोस्तदुपधानं विधत्ते- पार्श्वत इति । तत्र हेतुमाह- पार्श्वतो हीति ॥ ३६ ॥
Eggeling
- He then lays down two offering-spoons,–the offering-spoons are arms 21: it is his arms he thus restores to him (Agni). And as to why offering-spoons (are laid down), it is because the arms are offering-spoons,–that bowl and the handle are two, for there are two of these arms. He lays them down at the (left and right) sides, for these arms (of ours) are at the sides.
३७
विश्वास-प्रस्तुतिः
कार्ष्मर्यम᳘यीं दक्षिणत ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ नो यज्ञं᳘ दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएत᳘ᳫँ᳘ रक्षोह᳘णं व्व᳘नस्प᳘तिमपश्यन्कार्ष्म᳘र्यं त᳘ ऽएते᳘न व्व᳘नस्प᳘तिना दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञ᳘मतन्वत त᳘थै᳘वैतद्य᳘जमान एते᳘न व्व᳘नस्प᳘तिना दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञं᳘ तनुत ऽआ᳘ज्येन पूर्णा᳘ भवति व्व᳘ज्रो वा ऽआ᳘ज्यं व्व᳘ज्रेणै᳘वैत᳘द्दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति॥
मूलम् - श्रीधरादि
कार्ष्मर्यम᳘यीं दक्षिणत ऽउ᳘पदधाति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ नो यज्ञं᳘ दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएत᳘ᳫँ᳘ रक्षोह᳘णं व्व᳘नस्प᳘तिमपश्यन्कार्ष्म᳘र्यं त᳘ ऽएते᳘न व्व᳘नस्प᳘तिना दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञ᳘मतन्वत त᳘थै᳘वैतद्य᳘जमान एते᳘न व्व᳘नस्प᳘तिना दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञं᳘ तनुत ऽआ᳘ज्येन पूर्णा᳘ भवति व्व᳘ज्रो वा ऽआ᳘ज्यं व्व᳘ज्रेणै᳘वैत᳘द्दक्षिणतो र᳘क्षाᳫँ᳭सि नाष्ट्रा ऽअ᳘पहन्ति॥
मूलम् - Weber
कार्ष्मर्यम᳘यीं दक्षिणत उ᳘पदधाति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ नो यज्ञं᳘ दक्षिणतो र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ एतं᳘ रक्षोह᳘णं व᳘नस्प᳘तिमपश्यन्कार्ष्म᳘र्यं त᳘ एते᳘न व᳘नस्प᳘तिना दक्षिणतो र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये ऽनाष्ट्र᳘ एतं᳘ यज्ञ᳘मतन्वत त᳘थैॗवैतद्य᳘जमान एते᳘न व᳘नस्प᳘तिना दक्षिणतो र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये ऽनाष्ट्र᳘ एतं᳘ यज्ञं᳘ तनुत आ᳘ज्येन पूर्णा᳘ भवति व᳘ज्रो वा आ᳘ज्यं व᳘ज्रेणैॗवैत᳘द्दक्षिणतो र᳘क्षांसि नाष्ट्रा अ᳘पहन्ति॥
मूलम् - विस्वरम्
कार्ष्मर्यमयीं दक्षिणत उपदधाति । एतद्वै देवा अबिभयुः- यद्वै नो यज्ञं दक्षिणतो रक्षांसि नाष्ट्रा न हन्युरिति । त ऽएतं रक्षोहणं वनस्पतिमपश्यन्- कार्ष्मर्यम् । त ऽएतेन वनस्पतिना दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र ऽएतं यज्ञमतन्वत । तथैवैतद्यजमान एतेन वनस्पतिना दक्षिणतो रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्र ऽएतं यज्ञं तनुते । आज्येन पूर्णा भवति । वज्रो वा ऽआज्यम् । वज्रेणैवैतद्दक्षिणतो रक्षांसि नाष्ट्रा अपहन्ति ॥ ३७ ॥
सायणः
तत्र च दक्षिणपार्श्वे उपधेयायाः स्रुचो वृक्षविशेषं विधत्ते- कार्ष्मर्यमयीमिति 22 । कार्ष्मर्यवृक्षेण निर्मिता स्रुक् ‘कार्ष्मर्यमयी’ । स्रुचस्तत्प्रकृतितामाख्यायिकया प्रतिपादयति- एतद्वा इत्यादिना । वनस्पतिमपश्यन्निति । कार्ष्मर्याख्यं ‘वनस्पतिम्’ 23 इति सम्बन्धः । सिद्धमन्यत् । स्रुच आज्येन पूरणं विधाय स्तौति- आज्येन पूर्णा भवतीति ॥ ३७ ॥
Eggeling
- On the right (south) side he lays down one of kārshmarya (gmelina arborea) wood. For at that time the gods were afraid lest the Rakshas, the fiends, should destroy their sacrifice from the south. They saw that Rakshas-killing tree, the Kārshmarya: having by that tree repelled the Rakshas, the fiends, on the south, they spread that sacrifice in a place free from danger and devilry. And in like manner the Sacrificer, having by that tree repelled the Rakshas, the fiends, on the south, now spreads that sacrifice in a place free from danger and devilry. It (the spoon) is filled with ghee;–the ghee is a thunderbolt: it is by the thunderbolt he thus repels the Rakshas, the fiends, on the south.
३८
विश्वास-प्रस्तुतिः
(न्त्य) अथौ᳘दुम्बरीमुत्तरत ऽउ᳘पदधाति॥
(त्यू) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जमे᳘वास्मिन्नेतद्र᳘सं दधाति दध्ना᳘ पूर्णा᳘ भवति र᳘सो वै द᳘धि र᳘समे᳘वास्मिन्नेत᳘द्दधाति॥
मूलम् - श्रीधरादि
(न्त्य) अथौ᳘दुम्बरीमुत्तरत ऽउ᳘पदधाति॥
(त्यू) ऊर्ग्वै र᳘स ऽउदुम्ब᳘र ऽऊ᳘र्जमे᳘वास्मिन्नेतद्र᳘सं दधाति दध्ना᳘ पूर्णा᳘ भवति र᳘सो वै द᳘धि र᳘समे᳘वास्मिन्नेत᳘द्दधाति॥
मूलम् - Weber
अथौ᳘दुम्बरीमुत्तरत उ᳘पदधाति॥
ऊर्ग्वै र᳘स उदुम्ब᳘र ऊ᳘र्जमेॗवास्मिन्नेतद्र᳘सं दधाति दध्ना᳘ पूर्णा᳘ भवति र᳘सो वै द᳘धि र᳘समेॗवास्मिन्नेत᳘द्दधाति॥
मूलम् - विस्वरम्
अथौदुम्बरीमुत्तरत उपदधाति । ऊर्ग्वै रस उदुम्बरः । ऊर्जमेवास्मिन्नेतद्रसं दधाति । दध्ना पूर्णा भवति । रसो वै दधि । रसमेवास्मिन्नेतद्दधाति ॥ ३८ ॥
सायणः
उत्तरपार्श्वे उदुम्बरवृक्षकृतायाः स्रुच उपधानं विधत्ते- अथौदुम्बरीमुत्तरत इति 24 । ऊर्ग्वा इत्यादि । प्रागुक्तार्थम् । उपधानसमये दध्ना तस्याः पूरणं विधाय स्तौति- दध्ना पूर्णा भवतीति । रसो वै दधीति । पयस ओषधिसाररसात्मकत्वाद्दध्नो ऽपि रसात्मकत्वम् ॥ ३८ ॥
Eggeling
- On the left (north) side he then lays down one of udumbara (ficus glomerata) wood; for the Udumbara means strength, life-sap: strength, life-sap he thus puts into him. It is filled with sour
curds,–sour curds are life-sap: it is life-sap he thus puts into him.
३९
विश्वास-प्रस्तुतिः
य᳘द्वेव स्रु᳘चा ऽउपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तस्याग्निस्ते᳘ज ऽआदा᳘य दक्षि᳘णा ऽकर्षत्सो ऽत्रो᳘दरमद्य᳘त्कृ᳘ष्ट्वोद᳘रमत्त᳘स्मात्कार्ष्मर्यो᳘ ऽथास्ये᳘न्द्र ऽओ᳘ज ऽआदायो᳘दङ्ङु᳘दक्रामत्स᳘ ऽउदुम्ब᳘रो ऽभवत्॥
मूलम् - श्रीधरादि
य᳘द्वेव स्रु᳘चा ऽउपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तस्याग्निस्ते᳘ज ऽआदा᳘य दक्षि᳘णा ऽकर्षत्सो ऽत्रो᳘दरमद्य᳘त्कृ᳘ष्ट्वोद᳘रमत्त᳘स्मात्कार्ष्मर्यो᳘ ऽथास्ये᳘न्द्र ऽओ᳘ज ऽआदायो᳘दङ्ङु᳘दक्रामत्स᳘ ऽउदुम्ब᳘रो ऽभवत्॥
मूलम् - Weber
य᳘द्वेव स्रु᳘चा उपद᳘धाति॥
प्रजा᳘पतेर्वि᳘स्रस्तस्याग्निस्ते᳘ज आदा᳘य दक्षिॗणाकर्षत्सो ऽत्रो᳘दरमद्य᳘त्कृॗष्ट्वोद᳘रमत्त᳘स्मात्कार्ष्मर्यो᳘ ऽथास्ये᳘न्द्र ओ᳘ज आदायो᳘दङ्ङ᳘दक्रामत्स᳘ उदुम्ब᳘रो ऽभवत्॥
मूलम् - विस्वरम्
यद्वेव स्रुचा ऽउपदधाति । प्रजापतेर्विस्रस्तस्याग्निस्तेज आदाय दक्षिणा ऽकर्षत् । सो ऽत्रोदरमत् । यत्कृष्ट्वोदरमत्- तस्मात्कार्ष्मर्यः । अथास्येन्द्र ओज आदायोदङ्ङुदक्रामत् । स उदुम्बरो ऽभवत् ॥ ३९ ॥
सायणः
स्रुचोरुपधानमनूद्य तयोर्बाहुरूपतां वक्तुं तावत्तदुपादानयोर्वृक्षयोरुत्पत्तिमाह- यद्वेवेत्यादिना । विश्लिष्टावयवस्य ‘प्रजापतेः तेज आदाय’ गृहीत्वा ‘अग्निः’ दक्षिणतः ‘अकर्षत्’ अनैषीत् ‘सः’ अग्निः ‘अत्र’ अस्मिन् कार्ष्मर्यवृक्षे ‘उदरमत्’ उत्कृष्टमरमत सुखमवात्सीदित्यर्थः । ‘यत्कृष्ट्वा’ इत्यादिना कार्ष्मर्यनामनिरुक्तिः । कृषेर्धातोः रमेश्च कार्ष्मर्यशब्दनिष्पत्तिर्वर्णविकारेण द्रष्टव्या । ‘अथ’ अग्निगमनानन्तरम् ‘अस्य’ विस्रस्तावयवस्य प्रजापतेः सम्बन्धि ‘ओजः’ आन्तरं वीर्यम् ‘इन्द्रः’ ‘आदाय’ स्वीकृत्य ‘उदङ्’ उत्तरामुखः सन्नुत्तरभागे ‘उदक्रामत्’ उत्क्रम्य स ‘उदुम्बरो’ वृक्षो जातः ॥ ३९ ॥
Eggeling
- And, again, why he lays down two offering-spoons. When Prajāpati was relaxed, Agni took his (Prajāpati’s) fiery spirit, and carried it off to the south, and there stopped; and because after carrying (karsh) it off he stopped (ud-ram), therefore the Kārshmarya (sprang up). And Indra took his (Prajāpati’s) vigour and went away to the north: it became the Udumbara tree.
४०
विश्वास-प्रस्तुतिः
(त्ता᳘) ता᳘वब्रवीत्॥
(दु᳘) उ᳘प मे᳘तं प्र᳘ति म ऽएत᳘द्धत्तं ये᳘न मे युव᳘मुद᳘क्रमिष्टमि᳘ति ता᳘भ्यां वै᳘ नौ स᳘र्व्वम᳘न्नं प्र᳘यच्छे᳘ति तौ वै᳘ मा बाहू᳘ भूत्वा प्र᳘पद्येथामि᳘ति तथे᳘ति ता᳘भ्यां वै स᳘र्व्वम᳘न्नं प्रा᳘यच्छत्ता᳘वेनं बाहू᳘ भूत्वा प्रा᳘पद्येतां त᳘स्माद्बाहु᳘भ्यामेवा᳘न्नं क्रिय᳘ते बाहु᳘भ्यामद्यते बाहु᳘भ्याᳫँ᳭ हि स स᳘र्व्वम᳘न्नं प्रा᳘यच्छत्॥
मूलम् - श्रीधरादि
(त्ता᳘) ता᳘वब्रवीत्॥
(दु᳘) उ᳘प मे᳘तं प्र᳘ति म ऽएत᳘द्धत्तं ये᳘न मे युव᳘मुद᳘क्रमिष्टमि᳘ति ता᳘भ्यां वै᳘ नौ स᳘र्व्वम᳘न्नं प्र᳘यच्छे᳘ति तौ वै᳘ मा बाहू᳘ भूत्वा प्र᳘पद्येथामि᳘ति तथे᳘ति ता᳘भ्यां वै स᳘र्व्वम᳘न्नं प्रा᳘यच्छत्ता᳘वेनं बाहू᳘ भूत्वा प्रा᳘पद्येतां त᳘स्माद्बाहु᳘भ्यामेवा᳘न्नं क्रिय᳘ते बाहु᳘भ्यामद्यते बाहु᳘भ्याᳫँ᳭ हि स स᳘र्व्वम᳘न्नं प्रा᳘यच्छत्॥
मूलम् - Weber
ता᳘वब्रवीत्॥
उ᳘प मे᳘तम् प्र᳘ति म एत᳘द्धत्तं ये᳘न मे युव᳘मुद᳘क्रमिष्टमि᳘ति ता᳘भ्यां वै᳘ नौ स᳘र्वम᳘न्नम् प्र᳘यछे᳘ति तौ वै᳘ मा बाहू᳘ भूत्वा प्र᳘पद्येथामि᳘ति तथे᳘ति ता᳘भ्यां वै स᳘र्वम᳘न्नम् प्रा᳘यछत्ता᳘वेनम् बाहू᳘ भूत्वा प्रा᳘पद्येतां त᳘स्माद्बाहु᳘भ्यामेवा᳘न्नं क्रिय᳘ते बाहु᳘भ्यामद्यते बाहु᳘भ्याᳫं हि स स᳘र्वम᳘न्नम् प्रा᳘यछत्॥
मूलम् - विस्वरम्
तावब्रवीत्- ‘उप मेतं, प्रति म ऽएतद्धत्तम्, येन मे युवमुदक्रमिष्टम्’ इति । ‘ताभ्यां वै नौ सर्वमन्नं प्रयच्छ’ इति । ‘तौ वै मा बाहू भूत्वा प्रपद्येथाम्’ इति । तथेति । ताभ्यां वै सर्वमन्नं प्रायच्छत् । तावेनं बाहू भूत्वा प्रापद्येताम् । तस्माद्बाहुभ्यामेवान्नं क्रियते, बाहुभ्यामद्यते । बाहुभ्यां हि स सर्वमन्नं प्रायच्छत् ॥ ४० ॥
सायणः
ततः तौ अग्नीन्द्रौ प्रजापतिः ‘अब्रवीत्’ ‘मा उपेतम्’ मामुपगच्छतम् । ‘एतत्’ मदीयमङ्गं ‘प्रतिधत्तम्’ पुनः सन्धानेन सँस्कुरुतम् । ‘येन’ कारणेन ‘मे’ मदीयशरीरात् ‘युवमुदक्रमिष्टम्’ । ‘इति’ शब्दः प्रजापतिवाक्यपरिसमाप्तौ । ‘ताभ्याम्’ इत्यादि तयोरग्नीन्द्रयोर्वाक्यम् । “युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः”- (पा. सू. ८ । १ । २० ।) इति चतुर्थ्यन्तस्यात्र नौभावः । हे प्रजापते ! ‘ताभ्याम्’ खलु ‘नौ’ आवाभ्यां ‘सर्वमन्नम्’ ‘प्रयच्छ’ तर्ह्यावां त्वामुपगच्छावेति । पुनः प्रजापतिरब्रवीत् । हे अग्नीन्द्रौ ! ‘तो’ युवां ‘बाहू भूत्वा’ ‘मा’ माम् ‘प्रपद्येथाम्’ प्रविशताम् ‘इति’ । ‘तौ’ अपि ‘तथा’ अस्वित्यब्रूताम् । एवं तौ वशीकृत्य प्रतिज्ञातप्रकारेण ‘सर्वमन्नम्’ ‘ताभ्याम्’ प्रजापतिः ‘प्रायच्छत्’ । ‘तौ’ अप्यग्नीन्द्रौ ‘बाहू’ हस्तौ ‘भूत्वा’ ‘एनम्’ प्रजापतिं ‘प्रापद्येताम्’ प्राप्तवन्तौ । ‘हि’ यस्मात् प्रजापतिरुक्तक्रमेण ‘सर्वमन्नम्’ ‘प्रायच्छत्’ ‘तस्माद्’ एव कारणादन्ननिष्पादनमन्नादनं च बाहुकरणकं लोके दृश्यत इत्यर्थः ॥ ४० ॥
Eggeling
- He (Prajāpati) said to those two, ‘Come ye to me, and put back into me that (substance) of mine wherewith ye have gone off!’–‘Well then, bestow thou all food here on us two!’ they said.–‘Well then, join me, becoming these two arms of mine!’–‘So be it!’ He bestowed all food on them, and they joined him, becoming those two arms of his: hence it is by the arms that food is made, and by means of the arms that it is eaten, for he (Prajāpati) bestowed all food on the two arms.
४१
विश्वास-प्रस्तुतिः
(त्स᳘) स᳘ कार्ष्मर्यम᳘यीं दक्षिणत ऽउ᳘पदधाति॥
(त्य) अग्ने᳘ष्ट्वा ते᳘जसा सादयामी᳘ति य᳘दे᳘वास्य त᳘दग्निस्ते᳘ज ऽआदा᳘य दक्षिणा᳘ ऽकर्षत्त᳘दस्मिन्नेतत्प्र᳘तिदधात्यग्नि᳘र्मूर्धा᳘ दिवः᳘ ककुदि᳘त्येष᳘ ऽउ᳘ सो ऽग्नि᳘र्गायत्र्या᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनामेतदु᳘पदधाति घृते᳘न पूर्णा᳘ भवत्याग्नेयं वै᳘ घृतᳫँ᳭ स्वे᳘नै᳘वैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणाति॥
मूलम् - श्रीधरादि
(त्स᳘) स᳘ कार्ष्मर्यम᳘यीं दक्षिणत ऽउ᳘पदधाति॥
(त्य) अग्ने᳘ष्ट्वा ते᳘जसा सादयामी᳘ति य᳘दे᳘वास्य त᳘दग्निस्ते᳘ज ऽआदा᳘य दक्षिणा᳘ ऽकर्षत्त᳘दस्मिन्नेतत्प्र᳘तिदधात्यग्नि᳘र्मूर्धा᳘ दिवः᳘ ककुदि᳘त्येष᳘ ऽउ᳘ सो ऽग्नि᳘र्गायत्र्या᳘ गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनामेतदु᳘पदधाति घृते᳘न पूर्णा᳘ भवत्याग्नेयं वै᳘ घृतᳫँ᳭ स्वे᳘नै᳘वैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणाति॥
मूलम् - Weber
स᳘ कार्ष्मर्यम᳘यीं दक्षिणत उ᳘पदधाति॥
अग्ने᳘ष्ट्वा ते᳘जसा सादयामी᳘ति य᳘देॗवास्य त᳘दग्निस्ते᳘ज आदा᳘य दक्षिणा᳘कर्षत्त᳘दस्मिन्नेतत्प्र᳘तिदधात्यग्नि᳘र्मूर्धा᳘ दिवः᳘ ककुदि᳘त्येष᳘ उॗ सो ऽग्नि᳘र्गायत्र्या᳘ गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनामेतदु᳘पदधाति घृते᳘न पूर्णा᳘ भवत्याग्नेयं वै᳘ घृतᳫं स्वे᳘नैॗवैनमेत᳘द्भागे᳘न स्वे᳘न र᳘मेन प्रीणाति॥
मूलम् - विस्वरम्
स कार्ष्मर्यमयीं दक्षिणत उपदधाति- “अग्नेष्ट्वा तेजसा सादयामि”- (वा. सं. १३ । १३) इति । यदेवास्य तदग्निस्तेज आदाय दक्षिणा ऽकर्षत्- तदस्मिन्नेतत्प्रतिदधाति । “अग्निर्मूर्धा दिवः ककुत्”- (वा. सं. १३ । १४) इति । एष उ सो ऽग्निः । गायत्र्या । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदुपदधाति । घृतेन पूर्णा भवति । आग्नेयं वै घृतम् । स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति ॥ ४१ ॥
सायणः
इत्थं कार्ष्मर्योदुम्बरयोरुत्पत्तिमग्नेरिन्द्रस्य च बाहुरूपतां च प्रतिपाद्य तदुपजीवनेनाग्नेयमन्त्रेण कार्ष्मर्यमय्या उपधानं विधत्ते- स कार्ष्मर्यमयीमिति ‘यत्तेजः’ ‘आदाय’ अग्निः निरगात् तेनाग्नेः सम्बन्धिना प्रजापतिशरीरतेजसा त्वां सादयामीति मन्त्रार्थः । तदस्मिन्नेतदिति । ‘तत्’ तेन मन्त्रेण ‘एतत्’ तेजः ‘अस्मिन्’ चित्याग्निरूपे प्रजापतौ ‘प्रतिदधाति’ संदधाति अथ तस्मिन्नेव कार्ष्मर्यमय्युपधाने मन्त्रान्तरमपि दर्शयति- अग्निर्मूर्द्धेति । एष उ सो ऽग्निरिति । ‘सः’ प्रतिपाद्यो ऽग्निः ‘एषः’ चित्यो ऽग्निरेवेत्यर्थः । अस्य मन्त्रस्य च्छन्दो ऽनूद्य स्तौति- गायत्र्येति । उपदध्यादिति शेषः । गायत्रो ऽग्निरित्यादि गतम् । घृतेन पूरणमनूद्य स्तौति- घृतेन पूर्णेति । घृतस्याग्नेयत्वं प्रागुक्तम् ॥ ४१ ॥
Eggeling
- The kārshmarya one he lays down on the right side, with (Vāj. S. XIII, 13), ‘By Agni’s fiery spirit I settle thee!’–that fiery spirit of his (Prajāpati’s) which Agni then took and carried off to the south, he now puts back into him.–‘Agni, the head, the summit of the sky, he, the lord of the earth, animates the seeds of the waters,’ for Agni indeed is this (spoon). With a Gāyatrī verse (he performs),–Agni is Gāyatra: as great as Agni is, as great as is his measure, with so much he thus lays down that (spoon). It is filled with ghee, for ghee belongs to Agni: with his own share, with his own life-sap he thus gratifies him.
४२
विश्वास-प्रस्तुतिः
(त्य) अथौ᳘दुम्बरीमुत्तरत ऽउ᳘पदधाति॥
(ती᳘) इ᳘न्द्रस्य त्वौ᳘जसा सादयामी᳘ति य᳘दे᳘वास्य तदि᳘न्द्र ऽओ᳘ज ऽआदायो᳘दङ्ङुद᳘क्रामत्त᳘दस्मिन्नेतत्प्र᳘तिदधाति भु᳘वो यज्ञ᳘स्य र᳘जसश्च नेते᳘त्येष᳘ ऽउ स ऽइ᳘न्द्रः सा य᳘दाग्ने᳘य्यग्निकर्म[[!!]] ह्य᳘थ य᳘त्त्रिष्टुप्त्रै᳘ष्टुभो ही᳘न्द्र ऽऐन्द्रा᳘ग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनामेतदु᳘पदधातीन्द्राग्नी वै स᳘र्व्वे देवाः᳘ सर्व्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनामेतदु᳘पदधाति दध्ना᳘ पूर्णा᳘ भवत्यैन्द्रं वै द᳘धि स्वे᳘नै᳘वैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणाति॥
मूलम् - श्रीधरादि
(त्य) अथौ᳘दुम्बरीमुत्तरत ऽउ᳘पदधाति॥
(ती᳘) इ᳘न्द्रस्य त्वौ᳘जसा सादयामी᳘ति य᳘दे᳘वास्य तदि᳘न्द्र ऽओ᳘ज ऽआदायो᳘दङ्ङुद᳘क्रामत्त᳘दस्मिन्नेतत्प्र᳘तिदधाति भु᳘वो यज्ञ᳘स्य र᳘जसश्च नेते᳘त्येष᳘ ऽउ स ऽइ᳘न्द्रः सा य᳘दाग्ने᳘य्यग्निकर्म[[!!]] ह्य᳘थ य᳘त्त्रिष्टुप्त्रै᳘ष्टुभो ही᳘न्द्र ऽऐन्द्रा᳘ग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनामेतदु᳘पदधातीन्द्राग्नी वै स᳘र्व्वे देवाः᳘ सर्व्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनामेतदु᳘पदधाति दध्ना᳘ पूर्णा᳘ भवत्यैन्द्रं वै द᳘धि स्वे᳘नै᳘वैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणाति॥
मूलम् - Weber
अथौ᳘दुम्बरीमुत्तरत उ᳘पदधाति॥
इ᳘न्द्रस्य त्वौ᳘जसा सादयामी᳘ति य᳘देॗवास्य तदि᳘न्द्र ओ᳘ज आदायो᳘दङ्ङुद᳘क्रामत्त᳘दस्मिन्नेतत्प्र᳘तिदधाति भु᳘वो यज्ञ᳘स्य र᳘जसश्च नेते᳘त्येष᳘ उ स इ᳘न्द्रः सा य᳘दाग्नेय्य᳘ग्निकर्म ह्य᳘थ य᳘त्त्रिष्टुप्त्रै᳘ष्टुभो ही᳘न्द्र ऐन्द्राग्नो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनामेतदु᳘पदधातीन्द्राग्नी वै स᳘र्वे देवाः᳘ सर्वदेव᳘त्यो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनामेतदु᳘पदधाति दध्ना᳘ पूर्णा᳘ भवत्यैन्द्रं वै द᳘धि स्वे᳘नैॗवैनमेत᳘द्भागे᳘न स्वे᳘न र᳘सेन प्रीणाति॥
मूलम् - विस्वरम्
अथौदुम्बरीमुत्तरत उपदधाति । “इन्द्रस्य त्वौजसा सादयामि”- (वा. सं. १३ । १४) इति । यदेवास्य तदिन्द्र ओज आदायोदङ्ङुदक्रामत्- तदस्मिन्नेतत्प्रतिदधाति । “भुवो यज्ञस्य रजसश्च नेता”- (वा. सं. १३ । १५) इति । एष उ स इन्द्रः । सा यदाग्नेयी- अग्निकर्म हि । अथ यत्त्रिष्टुप्- त्रैष्टुभो हीन्द्रः । ऐन्द्राग्नो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनामेतदुपदधाति । इन्द्राग्नी वै सर्वे देवाः । सर्वदेवत्यो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनामेतदुपदधाति । दध्ना पूर्णा भवति । ऐन्द्रं वै दधि । स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति ॥ ४२ ॥
सायणः
एवं दक्षिणभागे कार्ष्मर्यमय्युपधानमुक्त्वा तथैवोत्तरभागे औदुम्बर्युपधानमिन्द्रदेवत्येन यजुषा कर्त्तव्यमित्याह- अथौदुम्बरीम् इति । निगदसिद्धो ऽर्थः । ‘अस्मिन्’ औदुम्बर्युपधाने मन्त्रान्तरं विधत्ते- भुवो यज्ञस्येति । एष उ स इन्द्र इति । ‘एषः’ खलु चित्यो ऽग्निः ‘सः’ प्रसिद्धो मन्त्रप्रतिपाद्य ‘इन्द्रः’ । सा यदित्यादि । ‘सा’ “भुवो यज्ञस्येति” ऋक्, यस्माद् ‘आग्नेयी’ अग्निदेवताका तस्माद् ‘इदम्’ अग्निकर्म सम्पन्नम् । कथं तर्हि तस्या ऐन्द्रे औदुम्बरीस्रुगुपधाने विनियोग इत्यत्राह- अथ यत्त्रिष्टुबिति । यस्मात् सा ऋक् त्रिष्टुप्छन्दस्का तस्मादैन्द्रे कर्मणि विनियोक्तुमर्हति; यस्मादिन्द्रस्त्रिष्टुप्छन्दसा सहोत्पन्नः । अभिधावृत्त्या छन्दोद्वारेण च मन्त्रस्योपाधिसिद्धमिन्द्राग्निदेवताकत्वं प्रशंसति- ऐन्द्राग्नो ऽग्निरिति । एतदेव विवृणोति- इन्द्राग्नी वै सर्वे देवा इति । इन्द्रस्याधिपतित्वात्सर्वदेवतात्मत्वम् । अग्नेरपि सर्वान् देवान् प्रति हविषो वहनात्सर्वदेवात्मकता । यद्वा इन्द्रस्य प्राथम्यादग्नेश्चरमभावित्वात्तदन्तरवर्त्तिनः ‘सर्वे देवाः’ इतीन्द्राग्न्योः सर्वदेवतात्मकत्वम् “अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता” इत्यनेन समानन्यायत्वात् । चित्याग्निश्च ‘सर्वदेवत्यः’ सर्वदेवताप्रीतिकरः । यावानग्निरित्यादि । गतम् । दध्ना पूरणमनूद्य स्तौति- दध्ना पूर्णेति । ऐन्द्रं वा इत्यादि । ‘ऐन्द्रम्’ इन्द्रदेवत्यं खलु ‘दधि,’ दर्शयागे इन्द्रं प्रति दध्नो हविष्ट्वेन दीयमानत्वात् । अत एव दर्शयागविधौ श्रूयते- “ऐन्द्रं दध्यमावास्यायाम्”- (तै. स. २ । ५ । २) इति । स्वेन रसेनेति । इन्द्रस्य हि स्वकीयो रसः सान्नाय्यम् । वृत्रवधानन्तरमिन्द्रशरीरान्निर्गतस्य पृथिव्यामोषधिवीरुदात्मना परिणतस्य पशुभिर्भक्षणेनात्मन्याहृतस्येन्द्रसम्बन्धिनो वीर्यस्यैव पयोरूपेण परिणामात्तद्विकृतिभूतं दध्यपि परंपरया इन्द्रस्य स्वकीयो रसः । एतदेव श्रुत्यन्तरे- “इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यम्”- (तै. सं. २ । ५ । ३) इत्यादिना प्रपञ्चितम् । ‘प्रीणाति’ तर्पयति । “प्रीञ् तर्पणे”- (धा. पा. क्र्या. उ. २) इति धातुः ॥ ४२ ॥
Eggeling
- He then lays down the udumbara one on the
left (north) side, with (Vāj. S. XIII, 14), ‘By Indra’s vigour I settle thee!’ that vigour of his (Prajāpati’s) which Indra then took and went away to the north, he now puts back into him.–(Vāj. S. XIII, 15; R̥k S. X, 8, 6), ‘Thou hast become the leader of the sacrifice, and of the sphere to which thou tendest with propitious teams; the light-giving head hast thou lifted to the sky; thy tongue, O Agni, hast thou made the bearer of the offering;’–Indra indeed is this (spoon). And as to its being a verse addressed to Agni, it is because it is the performance of Agni (the fire-altar);–and a trishṭubh one, because Indra is connected with the Trishṭubh; and Agni includes Indra and Agni: as great as Agni is, as great as is his measure, with so much he thus lays it down. Moreover, all the gods are Indra and Agni, and Agni belongs to all the deities: as great as Agni is, as great as is his measure, with so much he thus lays it down. It is filled with sour curds, for sour curds belong to Indra: with his own share, with his own life-sap he thus gratifies him.
४३
विश्वास-प्रस्तुतिः
ता᳘वस्यैता᳘विन्द्राग्नी᳘ ऽएव᳘ बाहू[[!!]]॥
ता᳘वेनं ते᳘जसा च व्वी᳘र्येण च सह प्र᳘पद्येते स᳘ सम्प्रत्यु᳘रः पु᳘रुषमाका᳘श्य य᳘त्राभ्याप्नो᳘ति त᳘दालि᳘ख्यैने ऽउ᳘पदधात्येष᳘ हैत᳘योर्लोकः[[!!]]॥ (अर्धप्रपाठकः)॥
मूलम् - श्रीधरादि
ता᳘वस्यैता᳘विन्द्राग्नी᳘ ऽएव᳘ बाहू[[!!]]॥
ता᳘वेनं ते᳘जसा च व्वी᳘र्येण च सह प्र᳘पद्येते स᳘ सम्प्रत्यु᳘रः पु᳘रुषमाका᳘श्य य᳘त्राभ्याप्नो᳘ति त᳘दालि᳘ख्यैने ऽउ᳘पदधात्येष᳘ हैत᳘योर्लोकः[[!!]]॥ (अर्धप्रपाठकः)॥
मूलम् - Weber
ता᳘वस्यैता᳘विन्द्राग्नी᳘ एव᳘ बाहू᳟॥
ता᳘वेनं ते᳘जसा च वीॗर्येण च सह प्र᳘पद्येते स᳘ सम्प्रत्यु᳘रः पु᳘रुषमाका᳘श्य य᳘त्राभ्याप्नो᳘ति त᳘दालि᳘ख्यैने उ᳘पदधात्येष᳘ हैत᳘योर्लोकः᳟॥
मूलम् - विस्वरम्
तावस्यैताविन्द्राग्नी ऽएव बाहू । तावेनं तेजसा च वीर्येण च सह प्रपद्येते । स सम्प्रत्युरः पुरुषमाकाश्य यत्राभ्याप्नोति तदालिख्यैने ऽउपदधाति । एष हैतयोर्लोकः ॥ ४३ ॥
सायणः
तावस्यैतावित्यादि । ‘तौ’ तथाविधौ ‘एतौ’ ‘इन्द्राग्नी’ ‘एव’ ‘अस्य’ प्रजापतेः ‘बाहू’ अभूताम् । भूत्वा च ‘तौ’ ‘तेजसा’ अग्निसम्बन्धिना प्रकाशेनेन्द्रसम्बन्धिना ‘वीर्येण’ च ‘सह प्रपद्येते’ प्राप्नुतः । स्रुचोरुपधाने च स्थानविशेषमाह- स सम्प्रतीति । ‘सः’ अध्वर्युरुपहितस्य हिरण्मयपुरुषस्य ‘उरः’ ‘सम्प्रति’ उरःप्रदेशेन समानं स्रुचावुपदध्यात् । तत्कथमिति चेदुच्यते- तं ‘पुरुषमाकाश्य’ अभिज्ञाय ‘यत्र’ यस्मिन्स्थाने उपहितं स्रुग्द्वयं तदुरः-प्रदेशम् ‘अभ्याप्नोति’ ‘तत्’ तत्र ‘आलिख्य’ चिह्नं कृत्वा ‘एने’ स्रुचावुपदध्यात् । ‘एषः’ यदुरोदेशः खलु ‘एतयोः’ बाहुसंस्तुतयोः ‘लोकः’ स्थानमित्यर्थः ॥ ४३ ॥
Eggeling
- Indra and Agni indeed are those two arms of his (Prajāpati’s): they join him with fiery spirit and vigour. Where he (the Sacrificer) touches (the ground with his arms), whilst viewing intently the gold man with his breast close to him 25, there he
(the Adhvaryu) makes a mark and lays down those (spoons); for that is the place of those two (arms).
४४
विश्वास-प्रस्तुतिः
(स्ते) ते है᳘के तिर᳘श्च्या ऽउ᳘पदधति॥
तिर्य᳘ञ्चौ वा᳘ ऽइमौ᳘ बाहू ऽइ᳘ति न त᳘था कुर्यात्प्रा᳘च्यावेवो᳘पदध्यात्प्रा᳘ङ्ह्ये᳘षो ऽग्नि᳘श्चीयते᳘ ऽथो ऽएवं वै᳘ बाहू᳘ व्वीर्य᳘वत्तरौ ते ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना᳘ हीमौ᳘ बाहू[[!!]]॥
मूलम् - श्रीधरादि
(स्ते) ते है᳘के तिर᳘श्च्या ऽउ᳘पदधति॥
तिर्य᳘ञ्चौ वा᳘ ऽइमौ᳘ बाहू ऽइ᳘ति न त᳘था कुर्यात्प्रा᳘च्यावेवो᳘पदध्यात्प्रा᳘ङ्ह्ये᳘षो ऽग्नि᳘श्चीयते᳘ ऽथो ऽएवं वै᳘ बाहू᳘ व्वीर्य᳘वत्तरौ ते ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना᳘ हीमौ᳘ बाहू[[!!]]॥
मूलम् - Weber
ते है᳘के तिर᳘श्च्या उ᳘पदधति॥
तिर्य᳘ञ्चौ वा᳘ इमौ᳘ बाहू इ᳘ति न त᳘था कुर्यात्प्रा᳘च्यावेवो᳘पदध्यात्प्राॗङ् ह्येॗषो ऽग्नि᳘श्चीयते᳘ ऽथो एवं वै᳘ बाहू᳘ वीर्य᳘वत्तरौ ते ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘धिवदति ना᳘नाॗ हीमौ᳘ बाहू᳟॥
मूलम् - विस्वरम्
ते हैके तिरश्च्या ऽउपदधति । तिर्यञ्चौ वा ऽइमौ बाहू इति । न तथा कुर्यात् । प्राच्यावेवोपदध्यात् । प्राङ् ह्येषो ऽग्निश्चीयते । अथो ऽएवं वै बाहू वीर्यवत्तरौ । ते नानोपदधाति । नाना सादयति । नाना सूददोहसा ऽधिवदति । नाना हीमौ बाहू ॥ ४४ ॥
सायणः
तयोस्तिर्यगग्रतयोपधानं पूर्वपक्षयति- ते हैक इति । “तिरश्च्यावेके” (का. श्रौ. सू. १७ । ८६) । ‘तिरश्च्यौ’ तिर्यगग्रे । तिर्यञ्चौ वा इति । तत्रोपपत्तिकथनम् । तदेतत्प्रतिषिध्य प्रागग्रत्वं सिद्धान्तयति- न तथा कुर्यादित्यादिना । तत्रोपपत्तिं कथयति- प्राङ् ह्येष इति । प्राक्छिरस्कः खलु ‘एषो ऽग्निश्चीयते’ तदवयवयोर्बाहुसंस्तुतयोः स्रुचोरपि प्रागग्रतैव युक्तेति भावः । ‘अथो’ अपि च ‘एवम्’ प्रागग्रौ प्रसारितावेव खलु ‘बाहू’ ‘वीर्यवत्तरौ’ अतिशयेन वीर्यवन्तौ । स्थापनसादनाधिवदनानां पृथक्त्वं विधाय स्तौति- ते नानोपदधातीति । स्पष्टो ऽर्थः ॥ ४४ ॥
Eggeling
- Now some lay them down sideways (from south to north), saying, ‘Sideways run these two arms (of ours).’ Let him not do so, but let him lay them with the bowl towards the front (east), for this Agni (altar) is built with the head towards the front; and, besides, in this way the arms are stronger. Separately he lays them down, separately he ‘settles’ them, and separately he pronounces the Sūdadohas verse on them; for separate are these two arms.
४५
विश्वास-प्रस्तुतिः
त᳘दाहुः᳘॥
(र्नै) नैत᳘स्य पुरुषस्य[[!!]] बाहू᳘ कुर्यादेतौ वा᳘ ऽअस्य बाहू ये᳘ ऽएते स्रु᳘चौ ने᳘दतिरेच᳘यानी᳘ति स वै᳘ कुर्या᳘दे᳘वैतौ वा᳘ ऽअस्य बाहू अ᳘न्वेते स्रु᳘चाव᳘थो ऽएतौ᳘ पक्षाव᳘थो या᳘न्येत᳘स्मिन्नग्नौ᳘ रूपा᳘ण्युपधास्यन् भवति यान्त्स्तो᳘मान्या᳘नि पृष्ठा᳘नि या᳘नि च्छ᳘न्दाᳫँ᳭स्येत᳘योरेव सा सं᳘स्कृतिरेत᳘योर्व्वृ᳘द्धिस्त᳘स्मादु कुर्या᳘दे᳘वैत᳘स्य पु᳘रुषस्य बाहू[[!!]]॥
मूलम् - श्रीधरादि
त᳘दाहुः᳘॥
(र्नै) नैत᳘स्य पुरुषस्य[[!!]] बाहू᳘ कुर्यादेतौ वा᳘ ऽअस्य बाहू ये᳘ ऽएते स्रु᳘चौ ने᳘दतिरेच᳘यानी᳘ति स वै᳘ कुर्या᳘दे᳘वैतौ वा᳘ ऽअस्य बाहू अ᳘न्वेते स्रु᳘चाव᳘थो ऽएतौ᳘ पक्षाव᳘थो या᳘न्येत᳘स्मिन्नग्नौ᳘ रूपा᳘ण्युपधास्यन् भवति यान्त्स्तो᳘मान्या᳘नि पृष्ठा᳘नि या᳘नि च्छ᳘न्दाᳫँ᳭स्येत᳘योरेव सा सं᳘स्कृतिरेत᳘योर्व्वृ᳘द्धिस्त᳘स्मादु कुर्या᳘दे᳘वैत᳘स्य पु᳘रुषस्य बाहू[[!!]]॥
मूलम् - Weber
त᳘दाहुः॥
नैत᳘स्य पु᳘रुषस्य बाहू᳘ कुर्यादेतौ वा᳘ अस्य बाहू ये᳘ एते स्रु᳘चौ ने᳘दतिरेच᳘यानी᳘ति स वै᳘ कुर्या᳘देॗवैतौ वा᳘ अस्य बाहू अ᳘न्वेते स्रु᳘चाव᳘थो एतौ᳘ पक्षाव᳘थो या᳘न्येत᳘स्मिन्नग्नौ᳘ रूपा᳘ण्युपधास्यन्भ᳘वति यान्त्स्तो᳘मान्या᳘नि पृष्ठा᳘नि या᳘नि छ᳘न्दांस्येत᳘योरेव सा स᳘ᳫं᳘स्कृतिरेत᳘योर्वृ᳘द्धिस्त᳘स्मादु कुर्या᳘देॗवैत᳘स्य पु᳘रुषस्य बाहू᳟॥
मूलम् - विस्वरम्
तदाहुः- नैतस्य पुरुषस्य बाहू कुर्यात् । एतौ वा ऽअस्य बाहू- ये ऽएते स्रुचौ- नेदतिरेचयानीति । स वै कुर्यादेव । एतौ वा ऽअस्य बाहू- अन्वेते स्रुचौ । अथो ऽएतौ पक्षौ । अथो यान्येतस्मिन्नग्नौ रूपाण्युपधास्यन्भवति, यान् स्तोमान्, यानि पृष्ठानि, यानि च्छन्दांसि- एतयोरेव सा संस्कृतिः, एतयोर्वृद्धिः । तस्मादु कुर्यादेव- एतस्य पुरुषस्य बाहू ॥ ४५ ॥
सायणः
उपहितस्य हिरण्मयपुरुषस्य स्रुग्त्र्यतिरिक्तबाहुकरणं पूर्वपक्षयति- तदाहुर्नैतस्येति । ‘एतस्य’ उपहितस्य हिरण्मयपुरुषस्य । एतौ वा अस्येति । ‘ये एते स्रुचौ’ उपहिते, ते च खलु ‘अस्य बाहू’ स्रुग्व्यतिरिक्तबाह्वोरपि करणे ऽधिकाङ्गता स्यात् । ‘नेदतिरेचयानि’ नैवातिरिक्तं करवाणीति पूर्वपक्षिणो ऽभिप्रायः । ‘स वै कुर्यादेव’ इत्यादिः सिद्धान्तः । ‘सः’ खल्वध्वर्युः स्रुग्व्यतिरिक्तावपि पुरुषस्य बाहू ‘कुर्यादेव’ । तत्र हेतुमाह- एतौ वा अस्येति । ‘अस्य’ पुरुषस्य सम्बन्धिनौ ‘बाहू’ अनुलक्ष्य ‘एते स्रुचौ’ उपधातव्ये । अतो न तत्प्रतिनिधिरिति तयोरनिवृत्तिः । बाह्वोः सद्भावं प्रकारान्तरेणोपपादयति- अथो एताविति । ‘अथो’ अपि च ‘एतौ’ बाहू ‘पक्षौ’ पक्षात्मनश्चित्याग्नेः पक्षस्थानीयौ । संस्कारस्य संस्कार्यमन्तरेणानुपपत्तेः संस्कार्यौ बाहू अवश्यं कर्त्तव्यावित्याह- अथो यान्येतस्मिन्नित्यादिना । ‘रूपाणि’ अग्निरूपाणि पशुशीर्षादीनि । स्तोमास्त्रिवृत्पञ्चदशादयः । बृहद्रथन्तरादीनि ‘पृष्ठानि’ । छन्दांसि गायत्र्यादीनि । एते च स्तोमादयः स्वस्वलिङ्गैर्मन्त्रैरिष्टकारूपेणोपधेयाः । यान्येतानि पशुशीर्षादीनि तानि सर्वाण्यध्वर्युः ‘उपधास्यन् भवति’ ‘एतयोरेव’ पक्षसंस्तुतयोर्बाह्वोः ‘सा संस्कृतिः’ गुणोत्कर्षहेतुः संस्कारः ‘एतयोर्वृद्धिः’ अभिवृद्धिहेतुः । तस्मादित्यादि स्पष्टम् ॥ ४५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे चतुर्थे ऽध्याये प्रथमं ब्राह्मणम् ॥ (७ । ४ । १) ॥
Eggeling
- As to this they say, ‘Let him make no arms to this (gold) man 26, lest he should cause him to be redundant; for these two spoons are (in lieu of) his arms.’ Let him nevertheless make (him with arms), for those two spoons are (merely) after the manner of the two arms. Moreover, those two (arms of Agni) are wings; and whatever forms, whatever stomas, whatever pr̥shṭḥas, whatever metres he will be applying to that fire-altar, that will be the perfection, that will be the growth of those two: let him therefore make arms to that (gold) man.
-
363:1 Probably Sāma-v. S. I, 99 (R̥k S. I, 69, 4), ‘O Agni, lord of bovine food, child of strength, grant unto us, O knower of beings, great glory!’ See Weber, Ind. Stud. XII, p. 148, note 2. ↩︎
-
363:2 ? Or, in that (or because, yena) the waters flow,–that is to say, the flowing of the waters (rain, &c.) is a manifestation of eternal truth. ↩︎
-
सिद्धान्तकौमुद्यां तु “महीङ् पूजायाम्” इति दृश्यते । ↩︎
-
364:1 See p. 301, note 3. ↩︎
-
364:2 Viz., the one the Sacrificer wore round his neck during the initiation period. See VI, 7, 1, 1 seq. ↩︎
-
तस्मिन्रुक्ममधः पिण्डं ब्रह्म जज्ञानमिति । का० श्रौ० सू० । १७ । ७४ । ↩︎
-
366:1 ‘Sīmataḥ’ would rather seem to mean ‘from the boundary line,’ but the author here takes ‘sīman’ in the sense of (sīmanta) ‘hair-line, parting of the hair, crown of the head (Scheitel).’ ↩︎
-
366:2 In the Sanskrit participial (or gerundial) construction, the relation between the primary and secondary notions is usually the reverse of ours,–thus ‘he rises in overspreading.’ ↩︎
-
366:3 It is usually with Indra that the Trishṭubh metre is connected–see part i, introduction, p. xviii; Śat. Br. IX, 4, 3, 7 (cf. VIII, 5, 1, 10)–the Trishṭubh being also the emblem of the nobility (III, 4, 1, 10). ↩︎
-
366:4 See p. 301, note 3. ↩︎
-
367:1 Professor Weber, Ind. Stud. XIII, p. 249, takes ‘uttānam’ in the sense of ‘standing erect,’ with his face towards the east; but this surely must be a mistake. ↩︎
-
367:2 Viz. both the gold plate (the sun), which was laid down with the embossed or front side downwards, and the gold man. ↩︎
-
368:1 Cf. VI, 7, 1, 11, where it is said that the immortal part of the vital air of man streams out by upward breathings. Cf. p. 359, n. 1. ↩︎
-
पूर्वेणापरीत्यातः । का० श्रौ० सू० १७ । ७७ । ↩︎
-
369:1 That is, he sings the Kitra-sāman, Sāma-v. I, 169 (Vāj. S. XXVII, 39), ‘With what favour will the bright one, the ever-growing friend, be with us; with what mightiest host?’ ↩︎
-
उपविश्य पंचगृहीतं जुहोति पुरुषे कृणुष्व पाज इति प्रत्यृचं प्रतिदिशं परिसर्पम् । का. श्रौ. सू. १७ । ७९ । ↩︎
-
371:1 See p. 53, note 2. In the present instance, the sacrificial formulas themselves constitute these charms. The five verses, only the first pāda of the first of which is given in the text, are as follows:– ↩︎
-
पश्चात्प्रथमांत्ये । का० श्रौ० सू० १७ । ८१ । ↩︎
-
373:1 The order in which he offers would thus be,–west, north, east, (then going back along the north and west sides) south, west. ↩︎
-
373:2 They are indeed of an arm’s length, with bowls of the shape and size of the hand, see part i, p. 67, note 2. ↩︎
-
कार्ष्मर्यमयीं दक्षिणतः पाणिमात्रपुष्करां बाहुमात्रीं पादमात्रीं वा सामर्थ्यात् घृतपूर्णामग्नेष्ट्वेति । का. श्रौ. सू. १७ । ८४ । ↩︎
-
काष्मर्यः, काश्मरी, श्रीपर्णी, गम्भारिः इति समानार्थाः । ‘कुम्भेर’ ‘खम्भारी’ इति प्रसिद्धो वृक्षविशेषः । ↩︎
-
एवमौदुंबरीमुत्तरतो दधिपूर्णामिंद्रस्य त्वेति । का० श्रौ० सू० १७ । ८७ । ↩︎
-
375:1 There seems to be considerable difference of opinion between Kātyāyana and Sāyaṇa regarding this point of the ceremonial. The gold man lies stretched out on his back with his head towards the east. According to Kātyāyana, XVII, 4, 10, he (the Sacrificer) is to lie down so as to cover the gold man, but without actually touching him with his breast, and at the extreme end of where the arms touch (the ground) he is to make two marks, where the spoons are then to be laid down with the bowl towards the east. Sāyaṇa, on the other hand, explains–‘Let the Adhvaryu lay down the two spoons close to the breast of the laid-down gold man. Having beheld (i.e. recognised)–or, whilst beholding (?)–that man, where-ever the laid-down pair of spoons reaches his breast there, having made a mark, let him lay down the two spoons: that part of the breast doubtless is the place of those two (spoons, or gods?) extolled as the arms.’ Perhaps the text of this comment is somewhat corrupt. The ceremony is apparently intended to symbolise the identification of the Sacrificer with the sacrificial man, or the sacrifice itself: The Sacrificer lies down so as to rest on his forearms; the spoons being afterwards laid down on the marks left by the fore-arms (and naturally running in an easterly direction).–For Professor Weber’s view, see p. 367, note 1. ↩︎
-
376:1 That is to say, Let it be a gold statuette without arms. ↩︎