०१

विश्वास-प्रस्तुतिः

आप्या᳘नवतीभ्यामभिमृ᳘श्य॥
प्रत्ये᳘त्यातिथ्ये᳘न प्र᳘चरत्यातिथ्ये᳘न प्रच᳘र्य प्रवर्ग्योपस᳘द्भ्यां प्र᳘चरति प्रवर्ग्योपस᳘द्भ्यां प्रचर्या᳘थैतां च᳘र्मणि चि᳘तिᳫँ᳭ सम᳘वशमयन्ति तद्यच्च᳘र्मणि च᳘र्म वै᳘ रूप᳘ᳫँ᳘ रूपा᳘णामु᳘पाप्त्यै लोमतो लो᳘म वै᳘ रूप᳘ᳫँ᳘ रूपा᳘णामु᳘पाप्त्यै रो᳘हिते रो᳘हिते ह स᳘र्व्वाणि रूपा᳘णि स᳘र्व्वेषाᳫँ᳭ रूपा᳘णामुपाप्त्या ऽआ᳘नडुहे ऽग्नि᳘रेष[[!!]] य᳘दनड्वा᳘नग्निरूपा᳘णामु᳘पाप्त्यै प्राची᳘नग्रीवे तद्धि᳘ देवत्रा[[!!]]॥

मूलम् - श्रीधरादि

आप्या᳘नवतीभ्यामभिमृ᳘श्य॥
प्रत्ये᳘त्यातिथ्ये᳘न प्र᳘चरत्यातिथ्ये᳘न प्रच᳘र्य प्रवर्ग्योपस᳘द्भ्यां प्र᳘चरति प्रवर्ग्योपस᳘द्भ्यां प्रचर्या᳘थैतां च᳘र्मणि चि᳘तिᳫँ᳭ सम᳘वशमयन्ति तद्यच्च᳘र्मणि च᳘र्म वै᳘ रूप᳘ᳫँ᳘ रूपा᳘णामु᳘पाप्त्यै लोमतो लो᳘म वै᳘ रूप᳘ᳫँ᳘ रूपा᳘णामु᳘पाप्त्यै रो᳘हिते रो᳘हिते ह स᳘र्व्वाणि रूपा᳘णि स᳘र्व्वेषाᳫँ᳭ रूपा᳘णामुपाप्त्या ऽआ᳘नडुहे ऽग्नि᳘रेष[[!!]] य᳘दनड्वा᳘नग्निरूपा᳘णामु᳘पाप्त्यै प्राची᳘नग्रीवे तद्धि᳘ देवत्रा[[!!]]॥

मूलम् - Weber

आप्या᳘नवतीभ्यामभिमृ᳘श्य॥
प्रत्ये᳘त्यातिथ्ये᳘न प्र᳘चरत्यातिथ्ये᳘न प्रच᳘र्य प्रवर्ग्योपस᳘द्भ्याम् प्र᳘चरति प्रवर्ग्योपस᳘द्भ्याम् प्रचर्या᳘थैतां च᳘र्मणि चि᳘तिᳫं सम᳘वशमयन्ति तद्यच्च᳘र्मणि च᳘र्म वै᳘ रूपं᳘ रूपा᳘णामु᳘पाप्त्यै लोमतो लो᳘म वै᳘ रूपं᳘ रूपा᳘णामु᳘पाप्त्यै रो᳘हिते रो᳘हिते ह स᳘र्वाणि रूपा᳘णि स᳘र्वेषां रूपा᳘णामु᳘पाप्त्या आ᳘नडुहे ऽग्निरेष य᳘दनड्वा᳘नग्निरूपा᳘णामु᳘पाप्त्यै प्राची᳘नग्नीवे तद्धि᳘ देवत्रा᳟॥

मूलम् - विस्वरम्

आप्यानवतीभ्यामभिमृश्य, प्रत्येत्य, आतिथ्येन प्रचरति । आतिथ्येन प्रचर्य, प्रवर्ग्योपसद्भ्यां प्रचरति । प्रवर्ग्योपसद्भ्यां प्रचर्य, अथैतां चर्मणि चितिं समवशमयन्ति । तद्यच्चर्मणि । चर्म वै रूपम् । रूपाणामुपाप्त्यै । लोमतः । लोम वै रूपम् । रूपाणामुपाप्त्यै । रोहिते । रोहिते ह सर्वाणि रूपाणि । सर्वेषां रूपाणामुपाप्त्यै । आनडुहे । अग्निरेषः- यदनड्वान् । अग्निरूपाणामुपाप्त्यै । प्राचीनग्रीवे । तद्धि देवत्रा ॥ १ ॥

सायणः

एवमाहवनीयदेशस्य संस्कारसमनन्तरं कर्त्तव्यं प्राकृतं प्रयोगजातमनुक्रामन् प्रागुक्तयोः आग्निकसौमिकयोः कर्मणोर्व्यतिषङ्गं दर्शयति- आप्यानवतीभ्यामित्यादिना । ‘प्रत्येत्य’ उत्तरवेदिदेशात् प्राग्वंशं प्रत्यागत्येत्यर्थः । अन्यन्निगदव्याख्यातम् । प्रथमप्रवर्ग्योपसदन्तं कर्त्तव्यमिति समुदायार्थः । अनन्तरमाग्निकस्य कर्मणः प्रवेशं दर्शयति- अथैतामिति । ‘अथ’- शब्दः प्रथमोपसदानन्तर्ये । ‘आनडुहे’ लोहिते ‘चर्मणि’ ‘एताम्’ प्रथम- ‘चितिम्’ प्रथमचित्यर्थमिष्टकासमूहम् ‘समवशमयन्ति’ सम्यग्घृतावोक्षणेन तप्तानामिष्टकानां शमनं कुर्युरित्यर्थः । तस्य शमनस्य चर्माधिकरणतां स्तौति- तद्यच्चर्म्मणि चर्म वै रूपमिति । चर्मसम्बन्धिनां लोम्नां नानावर्णोपेतत्वादसृगादीनामान्तरधातूनां त्वचा ऽऽच्छादने सति रूपकरणत्वेन चर्मणो रूपात्मकता । अतश्च तस्मिन्निष्टकानिधानं सर्वेषाम् ‘रूपाणाम्’ प्राप्त्यै सम्पद्यत इत्यर्थः । तच्च लोमप्रदेशे कर्त्तव्यमिति विधाय स्तौति- लोमत इति । लौहित्यगुणं चर्मणो विधाय स्तौति- रोहित इति । एतत् सर्वं कात्यायनेनापि सूत्रितम्- “आतिथ्यशेषाद्योपसदः कृत्वा रोहिते चर्मण्यानडुहे ऽन्तःपात्यस्य पुरस्तादिष्टकाः करोति प्रथमचितेः”- (का. श्रौ. सू. १७ । ६१) इति । लोहितवर्णेषु लोमसु सूक्ष्ममध्याग्रभेदेन शुक्लादीनि ‘सर्वाणि’ ‘रूपाणि’ दृश्यन्त इत्यर्थः । चर्मणो ऽनडुद्विकारतां विधाय स्तौति- आनडुह इति । अनो वहतीत्यनड्वान्, तथाविधस्य बलीवर्दस्याग्निरूपत्वं प्रागाम्नातम् । “अग्निदग्धमिवैषां वहं भवति” (श. प. १ । १ । २ । ९) इति । अग्निरूपाणामिति । चित्यस्याग्नेः सम्बन्धीनि यानि रूपाणि, तेषां मध्ये ‘अनड्वान्’ अप्येकं रूपम्, अतस्तत्सम्बन्धिनश्चर्मण आस्तरणेन तेषाम् ‘अग्निरूपाणाम्’ उक्तवक्ष्यमाणानां कार्त्स्येन प्राप्त्यर्थः सम्पद्यत इत्यर्थः । स्तरणे प्रकारविशेषं विधत्ते- प्राचीनग्रीव इति । प्राचीनाप्रागायता ग्रीवा यस्य तत्तथोक्तम् । एतच्च विधेयविशेषणम् । चर्मणः प्राचीनग्रीवता यथा भवति तथा स्तृणीयादित्यर्थः । तद्धि देवत्रेति । ‘तद्धि’ प्राग्दिक्सम्बन्धित्वं ‘देवत्रा’ देवेषु योग्यम्, तस्या दिशो देवैरात्मीयभागत्वेन स्वीकृतत्वात् । अत एव हि तैत्तिरीयके श्रूयते- “देवमनुष्या दिशो व्यभजन्त प्राची देवाः” (तै. सं. ६ । १ । १ । १ ।) इति । ‘देवत्रा’- इति- “देवमनुष्यपुरुष”- इत्यादिना (पा. सू. ५ । ४ । ५६) सप्तम्यर्थे ‘त्रा’- प्रत्ययः ॥ १ ॥

Eggeling
  1. Having smoothed (the sand) down with the two verses containing (the verb) ’to grow,’ and returned (to the hall) he proceeds with the guest offering. Having performed the guest offering, he proceeds with the Pravargya and the Upasad 1. Having performed the Pravargya and the Upasad, they appease that (first) layer on the (red ox-)skin. And as to why on a skin: for the obtainment of the forms, the skin being outward form;–on the hairy side: for the obtainment of the forms, hair being outward form;–on a ruddy (skin): for the obtainment of all forms, all forms (colours being contained) in the ruddy;–on (the skin) of an ox: for the obtainment of Agni’s forms, the ox being the same as Agni;–on (the skin spread) with the neck towards the east, for that (tends) godward.

०२

विश्वास-प्रस्तुतिः

तद᳘ग्रेण गा᳘र्हपत्यम्॥
(म) अन्तर्व्वेद्यु᳘त्तरलोम प्राची᳘नग्रीवमु᳘पस्तृणाति त᳘देतां चि᳘तिᳫँ᳭ सम᳘वशमयन्त्य᳘थ प्रो᳘क्षति तद्य᳘त्प्रोक्ष᳘ति शुद्ध᳘मे᳘वैतन्मे᳘ध्यं करोत्या᳘ज्येन तद्धि᳘ शुद्धं मे᳘ध्यम᳘थो ऽअ᳘नभ्यारोहाय न हि किं᳘च᳘नान्य᳘द्धविरा᳘ज्येन प्रोक्ष᳘न्ति तूष्णीम᳘निरुक्तं वै तद्य᳘त्तूष्णीᳫँ᳭ स᳘र्व्वं वा ऽअ᳘निरुक्तᳫँ᳭ स᳘र्व्वेणै᳘वैत᳘च्छुद्धं मे᳘ध्यं करोत्य᳘थो ऽअ᳘नभ्यारोहाय न हि किं᳘ च᳘नान्य᳘द्धवि᳘स्तूष्णीं᳘ प्रोक्ष᳘न्ति॥

मूलम् - श्रीधरादि

तद᳘ग्रेण गा᳘र्हपत्यम्॥
(म) अन्तर्व्वेद्यु᳘त्तरलोम प्राची᳘नग्रीवमु᳘पस्तृणाति त᳘देतां चि᳘तिᳫँ᳭ सम᳘वशमयन्त्य᳘थ प्रो᳘क्षति तद्य᳘त्प्रोक्ष᳘ति शुद्ध᳘मे᳘वैतन्मे᳘ध्यं करोत्या᳘ज्येन तद्धि᳘ शुद्धं मे᳘ध्यम᳘थो ऽअ᳘नभ्यारोहाय न हि किं᳘च᳘नान्य᳘द्धविरा᳘ज्येन प्रोक्ष᳘न्ति तूष्णीम᳘निरुक्तं वै तद्य᳘त्तूष्णीᳫँ᳭ स᳘र्व्वं वा ऽअ᳘निरुक्तᳫँ᳭ स᳘र्व्वेणै᳘वैत᳘च्छुद्धं मे᳘ध्यं करोत्य᳘थो ऽअ᳘नभ्यारोहाय न हि किं᳘ च᳘नान्य᳘द्धवि᳘स्तूष्णीं᳘ प्रोक्ष᳘न्ति॥

मूलम् - Weber

तद᳘ग्रेण गा᳘र्हपत्यम्॥
अन्तर्वेद्यु᳘त्तरलोम प्राची᳘नग्नीवमु᳘पस्तृणाति त᳘देतां चि᳘तिᳫं समवशमयन्त्य᳘थ प्रो᳘क्षति तद्य᳘त्प्रोक्ष᳘ति शुद्ध᳘मेॗवैतन्मे᳘ध्यं करोत्या᳘ज्येन तद्धि᳘ शुद्धम् मे᳘ध्यम᳘थो अ᳘नभ्यारोहाय न हि किं᳘ च᳘नान्य᳘द्धविरा᳘ज्येन प्रोक्ष᳘न्ति तूष्णीम᳘निरुक्तं वै तद्य᳘त्तूष्णीᳫं स᳘र्वं वा अ᳘निरुक्तᳫं स᳘र्वेणैॗवैत᳘छुद्धम् मे᳘ध्यं करोत्य᳘थो अ᳘नभ्यारोहाय न हि किं᳘ चॗनान्य᳘द्धवि᳘स्तूष्णी᳘म् प्रोक्ष᳘न्ति॥

मूलम् - विस्वरम्

तदग्रेण गार्हपत्यमन्तर्वेद्युत्तरलोम प्राचीनग्रीवमुपस्तृणाति । तदेतां चितिं समवशमयन्ति । अथ प्रोक्षति । तद्यत्प्रोक्षति- शुद्धमेवैतन्मेध्यं करोति । आज्येन । तद्धि शुद्धं मेध्यम् । अथो ऽअनभ्यारोहाय । न हि किञ्चनान्यद्धविराज्येन प्रोक्षन्ति । तूष्णीम् । अनिरुक्तं वै तद्- यत्तूष्णीम् । सर्वं वा ऽअनिरुक्तम् । सर्वेणैवैतच्छुद्धं मेध्यं करोति । अथो ऽअनभ्यारोहाय । न हि किञ्चनान्यद्धविस्तूष्णीं प्रोक्षन्ति ॥ २ ॥

सायणः

उदीरितलक्षणस्य चर्मणो देशविशेषे स्तरणं विधत्ते- तदग्रेणेति । ‘गार्हपत्यम्’ अग्रेण’ गार्हपत्यचितेरदूरेण पूर्वभागे महावेदिमध्ये ‘तत्’ चर्म उदीरितविशेषणविशिष्टम् ‘उपस्तृणाति’ । ‘तत्’ तत्र ‘एताम्’ प्रथमचितिं प्रथमचितेः पर्याप्तमिष्टकासंघं ‘समवशमयन्ति’ संशान्तौष्ण्यं कुर्युः । आज्येन प्रोक्षणं विधत्ते- अथेति 2 । औष्ण्यसंशमनानन्तरं ताम् ‘चितिम्’ आज्येन ‘प्रोक्षति’ प्रकर्षेण सिञ्चति । तदेतदनूद्य स्तौति- तद्यदिति । तस्मिन् प्रोक्षणे द्रव्यं विधत्ते- आज्येनेति । प्रोक्षतीत्यनुषङ्गः । तद्धि शुद्धमिति । ‘तत्’ खल्वाज्यम् ‘शुद्धम्’ “तेजो वै घृतम्”- इत्यादिश्रुत्या तस्य तेजोरूपत्वप्रतिपादनात्, पुरोडाशादिहविःशुद्धिहेतुत्वाच्च । अत एव ‘मेध्यम्’ मेधार्हम् । ‘अथो’ अपि च ‘अनभ्यारोहाय’ अभ्यारोहणमतिक्रमणम् ‘आज्येन’ प्रोक्षणमनतिक्रमणाय श्रैष्ठ्याय सम्पद्यते, एतदेव दर्शयति- न हीति । इष्टकाभ्यो ऽन्यच्चरुपुरोडादिकं किमपि हविर्न ह्याज्यकरणकेन प्रोक्षणेन संस्क्रियते, उदकेनैव हि तस्य प्रोक्षणम् । अब्विलक्षणेन तेजोरूपेणाज्येनेष्टकानां प्रोक्षणं चितेः पादसंस्पर्शविरहरूपानभ्यारोहणाय भवतीत्यर्थः । प्रोक्षणस्यामन्त्रकत्वं विधाय स्तौति- तूष्णीमिति । अनिरुक्तं वा- इत्यादि गतम् । न हि अन्यत्र तूष्णीं प्रोक्षणमस्ति, अतस्तद्वैलक्षण्येनेष्टकाप्रोक्षणस्य सर्वात्मकानिरुक्तत्वसम्पादनं तस्य चित्याग्नेरनतिक्रमणीयत्वाय कल्पत इत्यर्थः ॥ २ ॥

Eggeling
  1. He spreads it in front of the Gārhapatya, on the Vedi, with the hairy side upwards, and the neck towards the east: thereon they appease that layer. Now he sprinkles (the bricks);–when he sprinkles, he thereby makes it pure, sacrificially clean;–with clarified butter (he sprinkles), for that is pure, sacrificially clean; and also with the view of its being unsurpassed 3, for no other sacrificial food is sprinkled with ghee;–silently (he sprinkles), for what is (done) silently is undefined, and the undefined is everything: by means of everything he thus makes it pure, and sacrificially clean; and also with the view of its being unsurpassed, for no other sacrificial food is sprinkled silently.

०३

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ प्रोक्ष᳘ति॥
हविर्व्वा᳘ ऽएतत्त᳘देत᳘दभि᳘घारयति यद्वै᳘ हवि᳘र᳘भ्यक्तं[[!!]] य᳘दभि᳘घारितं तज्जुष्टं[[!!]] तन्मे᳘ध्यमा᳘ज्येना᳘ज्येन हि᳘ हवि᳘रभिघार᳘यन्ति तूष्णीं᳘ तूष्णीᳫँ᳭ हि᳘ हवि᳘रभिघार᳘यन्ति दर्भैस्ते हि᳘ शुद्धा मे᳘ध्या ऽअ᳘ग्रैर᳘ग्रᳫँ᳭ हि᳘ देवा᳘नाम्॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ प्रोक्ष᳘ति॥
हविर्व्वा᳘ ऽएतत्त᳘देत᳘दभि᳘घारयति यद्वै᳘ हवि᳘र᳘भ्यक्तं[[!!]] य᳘दभि᳘घारितं तज्जुष्टं[[!!]] तन्मे᳘ध्यमा᳘ज्येना᳘ज्येन हि᳘ हवि᳘रभिघार᳘यन्ति तूष्णीं᳘ तूष्णीᳫँ᳭ हि᳘ हवि᳘रभिघार᳘यन्ति दर्भैस्ते हि᳘ शुद्धा मे᳘ध्या ऽअ᳘ग्रैर᳘ग्रᳫँ᳭ हि᳘ देवा᳘नाम्॥

मूलम् - Weber

य᳘द्वेव᳘ प्रोक्ष᳘ति॥
हविर्वा᳘ एतत्त᳘देत᳘दभि᳘घारयति यद्वै᳘ हवि᳘रभ्य᳘क्तं य᳘दभि᳘घारितं तज्जु᳘ष्टं तन्मे᳘ध्यमा᳘ज्येना᳘ज्येन हि᳘ हविरभिघार᳘यन्ति तूष्णीं᳘ तूष्णीᳫं हि᳘ हवि᳘रभिघार᳘यन्ति दर्भैस्ते हि᳘ शुद्धा मे᳘ध्या अ᳘ग्रैर᳘ग्रᳫं हि᳘ देवा᳘नाम्॥

मूलम् - विस्वरम्

यद्वेव प्रोक्षति । हविर्वा ऽएतत् । तदेतदभिघारयति । यद्वै हविरभ्यक्तं, यदभिघारितं- तज्जुष्टं, तन्मेध्यम् । आज्येन । आज्येन हि हविरभिघारयन्ति । तूष्णीम् । तृष्णीं हि हविरभिघारयन्ति । दर्भैः । ते हि शुद्धा मेध्याः । अग्रैः । अग्रं हि देवानाम् ॥ ३ ॥

सायणः

अथैतत् प्रोक्षणमनूद्य हविष्ट्वसम्पादनद्वारा स्तौति- यद्वेवेति । हविर्वा इत्यादि । ‘यत्’ तदिष्टकारूपम् ‘हविः’ खलु हविरिव देवानां तृप्तिकरम्; अतः ‘तदेतत्’ इष्टकारूपं हविराज्यप्रोक्षणेन ‘अभिघारयति’ अभितो घृतधारया सिञ्चति । तस्य प्रयोजनमाह- यद्वा इति । ‘यत्’ खलु पुरोडाशादिकम् ‘हविः’ अभितः सर्वतः आज्येन अक्तं सिक्तं ‘यत्’ च ‘अभिघारितम्’ उपरि घृतधारया संस्कृतम् ‘तज्जुष्टम्’ देवैः सेवितुं योग्यम्, अत एव ‘तन्मेध्यम्’ यज्ञार्हम् । आज्यकरणकत्वमनूद्य स्तौति- आज्येनेति । हविषां हि पाकसमये सुशृतत्वे सति ‘आज्येन’ खल्वभिघारणं क्रियते । अतो ऽत्रापि ‘आज्येन’ प्रोक्षणं युक्तमिति । अमन्त्रकृत्यतामनूद्य स्तौति- तूष्णीमिति । आज्यप्रोक्षणे करणविशेषं विधाय स्तौति- दर्भैरिति । ‘दर्भैः’ करणभूतैराज्याभ्यक्तैस्तत्प्रोक्षणं कर्त्तव्यमित्यर्थः । ते हि शुद्धा इति । “अत इमे दर्भास्ता हैता अनापूयिता आपः”- इति (श. प. १ । १ । ३ । ५) श्रुतेः तेषां शुद्धत्वम् । तत्राप्यग्रभागैः कर्त्तव्यमिति विधायोपपादयति- अग्रैरिति । अग्रं हीति । दर्भेषु ह्यग्रभागो देवानां सम्बन्धी, अत एवान्यत्राम्नातम्- “यत्परुषि दिनं तद्देवानाम्, यदन्तरा तन्मनुष्याणाम्, यत् समूलं तत् पितृणाम्” इति ॥ ३ ॥

Eggeling
  1. And, again, why he sprinkles,–this (layer of bricks) is sacrificial food, and as such he bastes it 4; for whatever sacrificial food is buttered, and basted, that is palatable and sacrificially clean. With ghee (he bastes it), for sacrificial food is basted with ghee; silently (he does so), for silently sacrificial food is basted;–by means of stalks of Kuśa grass, for these are pure, and sacrificially clean;–by means of the tops, for the top is sacred to the gods.

०४

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य᳘) य᳘त्प्रथमा᳘मेव चि᳘तिं प्रोक्ष᳘ति कथ᳘मस्यैष स᳘र्व्वो ऽग्निः प्रो᳘क्षितो भ᳘वति कथं च᳘र्मणि प्र᳘णीतः कथम᳘श्वप्रणीत ऽइ᳘ति य᳘देवा᳘त्र स᳘र्व्वासां चि᳘तीनामि᳘ष्टकाः प्रोक्ष᳘त्येव᳘मु हास्यैष स᳘र्व्वो ऽग्निः प्रो᳘क्षितो भ᳘वत्येवं च᳘र्मणि प्र᳘णीत ऽएवम᳘श्वप्रणीत ऽउ᳘द्यच्छन्त्येतां चि᳘तिम्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य᳘) य᳘त्प्रथमा᳘मेव चि᳘तिं प्रोक्ष᳘ति कथ᳘मस्यैष स᳘र्व्वो ऽग्निः प्रो᳘क्षितो भ᳘वति कथं च᳘र्मणि प्र᳘णीतः कथम᳘श्वप्रणीत ऽइ᳘ति य᳘देवा᳘त्र स᳘र्व्वासां चि᳘तीनामि᳘ष्टकाः प्रोक्ष᳘त्येव᳘मु हास्यैष स᳘र्व्वो ऽग्निः प्रो᳘क्षितो भ᳘वत्येवं च᳘र्मणि प्र᳘णीत ऽएवम᳘श्वप्रणीत ऽउ᳘द्यच्छन्त्येतां चि᳘तिम्॥

मूलम् - Weber

त᳘दाहुः॥
य᳘त्प्रथमा᳘मेव चि᳘तिम् प्रोक्ष᳘ति कथ᳘मस्यैष स᳘र्वो ऽग्निः प्रो᳘क्षितो भ᳘वति कथं च᳘र्मणि प्र᳘णीतः कथम᳘श्वप्रणीत इ᳘ति य᳘देवा᳘त्र स᳘र्वासां चि᳘तीनामि᳘ष्टकाः प्रोक्ष᳘त्येव᳘मु हास्यैष स᳘र्वो ऽग्निः प्रो᳘क्षितो भ᳘वत्येवं च᳘र्मणि प्र᳘णीत एवम᳘श्वप्रणीत उ᳘द्यछन्त्येतां चि᳘तिम्॥

मूलम् - विस्वरम्

तदाहुः- यत्- प्रथमामेव चितिं प्रोक्षति । कथमस्यैष सर्वो ऽग्निः प्रोक्षितो भवति, कथं चर्मणि प्रणीतः, कथमश्वप्रणीत इति । यदेवात्र सर्वासां चितीनामिष्टकाः प्रोक्षति- एवमु हास्यैष सर्वो ऽग्निः प्रोक्षितो भवति । एवं चर्मणि प्रणीतः । एवमश्वप्रणीतः । उद्यच्छन्त्येतां चितिम् ॥ ४ ॥

सायणः

प्रथमचितिप्रोक्षणसमये द्वितीयतृतीयादिचित्यर्थानामिष्टकानां प्रोक्षणं विधित्सुर्ब्रह्मवादिनां प्रश्नमवतारयति- तदाहुरिति । ‘प्रथमामेव’ इत्येवकारेण प्रोक्षणस्यान्ययोगव्यावृत्तिः सूच्यते । एवं प्रथमचितेरेव प्रोक्षणात् सप्तचित्यात्मक ‘एषो ऽग्निः’ ‘अस्य’ यजमानस्य ‘कथम्’ ‘प्रोक्षितो’ ‘भवति ?’ न ह्येकदेशप्रोक्षणे कृत्स्नो ऽग्निः प्रोक्षणसंस्कारसंस्कृतो भवतीत्यर्थः । तथा प्रागुक्ता ऽनडुच्चर्मणि द्वितीयादिचितीनां प्रणयनं ‘कथम्’ ? अश्वसहितं प्रणयनं च ‘कथम् ?’ सिद्ध्यतीति त्रयः प्रश्नाः । अस्योत्तरमाह- यदेवात्रेति । ‘अत्र’ अस्मिन् समये ‘सर्वासां चितीनाम्’ सम्बन्धिनीः ‘इष्टकाः’ आज्येन दर्भाग्रैः ‘प्रोक्षति’ ‘इति’ ‘यद्’ अस्ति, ‘एवमु’ अनेन प्रकारेणैव खलु ‘अस्य’ यजमानस्य ‘एषः’ ‘सर्वः’ सप्तचितिकः ‘अग्निः प्रोक्षितो भवति’ । एवमेव चर्माधिकरणप्रणयनमश्वसहितं प्रणयनं चास्मादेव प्रोक्षणात् सिध्यतीत्यर्थः 5 । अथ चर्मण्यवस्थितानां प्रथमचित्यर्थानामिष्टकानामुद्यमनं विधत्ते- उद्यच्छन्तीति । चर्मणः सकाशादिष्टका उद्गृह्णन्ति यजमानपरिचारकाः ॥ ४ ॥

Eggeling
  1. As to this they say, ‘When he sprinkles only the first layer, how does that whole fire-altar of his come to be sprinkled, how does it come to be led forward on the skin, and how led forward by the horse 6?’ Inasmuch as in this (layer) he (symbolically) 7 sprinkles the bricks of all the layers; and

thus indeed that whole fire-altar of his comes to be sprinkled, and led forward on the skin, and led forward by the horse. They lift up this (first) layer 8.

०५

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थाहाग्नि᳘भ्यः प्रह्रिय᳘माणेभ्यो᳘ ऽनुब्रूही᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘नुपप्रैष्यत᳘ ऽएतं᳘ यज्ञं᳘ तᳫँ᳭स्य᳘मानान्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ अजिघाᳫँ᳭सन्न᳘ यक्ष्यध्वे न᳘ यज्ञं᳘ तᳫँ᳭स्यध्व ऽइ᳘ति ते᳘भ्य ऽएता᳘नग्नी᳘नेता ऽइ᳘ष्टका व्व᳘ज्रान्क्षुर᳘पवीन्कृत्वा प्रा᳘हरंस्तै᳘रेनानस्तृण्वत ता᳘न्त्स्तृत्वा᳘ ऽभये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञ᳘मतन्वत॥ (काण्डस्यार्धम्)॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थाहाग्नि᳘भ्यः प्रह्रिय᳘माणेभ्यो᳘ ऽनुब्रूही᳘ति॥
(त्ये) एतद्वै᳘ देवा᳘नुपप्रैष्यत᳘ ऽएतं᳘ यज्ञं᳘ तᳫँ᳭स्य᳘मानान्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ अजिघाᳫँ᳭सन्न᳘ यक्ष्यध्वे न᳘ यज्ञं᳘ तᳫँ᳭स्यध्व ऽइ᳘ति ते᳘भ्य ऽएता᳘नग्नी᳘नेता ऽइ᳘ष्टका व्व᳘ज्रान्क्षुर᳘पवीन्कृत्वा प्रा᳘हरंस्तै᳘रेनानस्तृण्वत ता᳘न्त्स्तृत्वा᳘ ऽभये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञ᳘मतन्वत॥ (काण्डस्यार्धम्)॥

मूलम् - Weber

अ᳘थाहाग्नि᳘भ्यः प्रह्रिय᳘माणेभ्यो᳘ ऽनुब्रूही᳘ति॥
एतद्वै᳘ देवा᳘नुपप्रैष्यत᳘ एतं᳘ यज्ञं᳘ तंस्य᳘मानान्र᳘क्षांसि नाष्ट्रा᳘ अजिघांसन्न᳘ यक्ष्यध्वे न᳘ यज्ञं तंस्यध्व इ᳘ति ते᳘भ्य एता᳘नग्नी᳘नेता इ᳘ष्टका व᳘ज्रान्क्षुर᳘पवीन्कृत्वा प्रा᳘हरंस्तै᳘रेनानस्तृण्वत ता᳘न्त्स्तृत्वा᳘भये ऽनाष्ट्रा᳘ एत᳘ यज्ञ᳘मतन्वत॥

मूलम् - विस्वरम्

अथाह- अग्निभ्यः प्रह्रियमाणेभ्यो ऽनुब्रूहीति । एतद्वै देवानुपप्रैष्यत एतं यज्ञं तंस्यमानान्रक्षांसि नाष्ट्रा अजिघांसन्- न यक्ष्यध्ये, न यज्ञं तंस्यध्व ऽइति । तेभ्य एतानग्नीनेता इष्टका वज्रान् क्षुरपवीन् कृत्वा प्राहरन् । तैरेनानस्तृण्वत । तान्त्स्तृत्वा ऽभये ऽनाष्ट्र ऽएतं यज्ञमतन्वत ॥ ५ ॥

सायणः

अथाहवनीयदेशं प्रति नयनं विधित्सुस्तदर्थं होतारमुद्दिश्याध्वर्योः सम्प्रैषवचनं विधत्ते 9- अथाहेति । ‘अग्निभ्यः प्रह्रियमाणेभ्यो ऽनुब्रूहीति’ सम्प्रैषमध्वर्युर्ब्रूयात् । बहुवचनान्तेनाग्निशब्देनाग्न्यवयवाश्चितयो विवक्षिताः । आहवनीयदेशं प्रति प्राचीनं ह्रियमाणेभ्य इष्टकारूपेभ्यो ऽग्न्यवयवेभ्यः हे होतरनुब्रूहि इति संप्रैषार्थः । तच्चानुवचनं होतुराश्वलायनेन दर्शितम् “प्रेषितः पुरीष्यासं चितये ऽन्वाह” इति प्रक्रम्य “पुरीष्यासो अग्नय इति त्रिरुपांशु सप्रणवाम्” इति । एतच्चाग्रे एकीयमतत्वेनोपन्यस्य पक्षान्तरमन्याम्नास्यते- “आग्नेयीरन्वाह” (श. प. ७ । ३ । २ । ९) इति संप्रैषानन्तरं प्रथमचित्यर्थानामिष्टकानां पूर्वस्यां दिशि हरणं विधित्सुस्तदाख्यायिकया स्तौति- एतद्वै देवानिति । ‘एतत्’ एतस्मिन् समये ‘रक्षांसि’ रक्षोरूपाः ‘नाष्ट्रा’ नाशकारिण्यः प्रजाः ‘देवान्’ ‘अजिघांसन्’ हन्तुमैच्छन् । कथम्भूतान् ‘प्रैष्यतः’ प्राचीनमाहवनीयं देशं गन्तुमुद्युक्तान्, ‘एतम्’ अग्निचयनात्मकम् ‘यज्ञम्’ ‘तंस्यमानान्’ विस्तारयिष्यमाणान् । जिघांसूनामभिप्रायमाह- न यक्ष्यध्व इति । हे देवाः ! यूयम् ‘न’ ‘यक्ष्यध्वे’ यागं न करिष्यथ, तथा ‘यज्ञम्’ ‘न’ ‘तंस्यध्वे’ न विस्तारयिष्यथ ‘इति’ अनेनाभिप्रायेण । एवं दुष्टाभिप्रायेभ्यो रक्षोभ्यः ‘एतान्’ चितिरूपान् ‘अग्नीन्’ ‘एताः’ तदवयवभूता ‘इष्टकाः’ द्वितीयाबहुवचनमेतत् । ‘क्षुरपवीन्’ क्षुरवत्तीक्ष्णधारोपेतान् ‘वज्रान् कृत्वा’ ‘प्राहरन्’ पूर्वादिदिगवस्थितानि तानि रक्षांसि लक्षीकृत्य प्रहृतवन्तः । ‘तैः’ इष्टकारूपैर्वज्रैः ‘एनान्’ असुरान् ‘अस्तृण्वत’ अहिंसन् ‘तान्त्स्तृत्वा’ हिंसित्वा ‘अभये’ भयरहिते ‘अनाष्ट्रे’ नाशकरहिते ‘एतं यज्ञम्’ विस्तारितवन्तः ॥ ५ ॥

Eggeling
  1. He (the Adhvaryu) then says (to the Hotr̥), ‘Recite to the fires being led forward!’ For at that time when the gods were setting out to spread the sacrifice, the Rakshas, the fiends, sought to smite them, saying, ‘Ye shall not sacrifice! ye shall not spread the sacrifice!!’ Having made those fires, those bricks, to be sharp-edged thunderbolts, they hurled these at them, and laid them low thereby; and having laid them low, they spread that sacrifice in a place free from danger and devilry.

०६

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएत᳘त्क्रियते॥
य᳘द्देवा ऽअ᳘कुर्व्व᳘न्निदं नु ता᳘नि र᳘क्षाᳫँ᳭सि देवै᳘रेवो᳘पहतानि य᳘त्त्वेत᳘त्करो᳘ति य᳘द्देवा ऽअ᳘कुर्वंस्त᳘त्करवाणीत्य᳘थो य᳘देव र᳘क्षो यः᳘ पाप्मा ते᳘भ्य ऽएता᳘नग्नी᳘नेता ऽइ᳘ष्टका व्व᳘ज्रान्क्षुर᳘पवीन्कृत्वा प्र᳘हरति तै᳘रेनान्त्स्तृणुते ता᳘न्त्स्तृत्वा᳘ ऽभये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञं᳘ तनुते॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएत᳘त्क्रियते॥
य᳘द्देवा ऽअ᳘कुर्व्व᳘न्निदं नु ता᳘नि र᳘क्षाᳫँ᳭सि देवै᳘रेवो᳘पहतानि य᳘त्त्वेत᳘त्करो᳘ति य᳘द्देवा ऽअ᳘कुर्वंस्त᳘त्करवाणीत्य᳘थो य᳘देव र᳘क्षो यः᳘ पाप्मा ते᳘भ्य ऽएता᳘नग्नी᳘नेता ऽइ᳘ष्टका व्व᳘ज्रान्क्षुर᳘पवीन्कृत्वा प्र᳘हरति तै᳘रेनान्त्स्तृणुते ता᳘न्त्स्तृत्वा᳘ ऽभये ऽनाष्ट्र᳘ ऽएतं᳘ यज्ञं᳘ तनुते॥

मूलम् - Weber

तद्वा᳘ एत᳘त्क्रियते॥
य᳘द्देवा अ᳘कुर्वन्निदं नु ता᳘नि र᳘क्षांसि देवै᳘रेवो᳘पहतानि यॗत्त्वेत᳘त्करो᳘ति य᳘द्देवा अ᳘कुर्वंस्त᳘त्करवाणीत्य᳘थो य᳘देव र᳘क्षो यः᳘ पाप्मा ते᳘भ्य एता᳘नग्नी᳘नेता इ᳘ष्टका व᳘ज्रान्क्षुर᳘पवीन्कृत्वा प्र᳘हरति तै᳘रेनान्त्स्तृणुते ता᳘न्त्स्तृत्वा᳘भये ऽनाष्ट्रा᳘ एतं᳘ यज्ञं᳘ तनुते॥

मूलम् - विस्वरम्

तद्वा ऽएतत्क्रियते- यद्देवा अकुर्वन् । इदं नु तानि रक्षांसि देवैरेवापहतानि । यत्त्वेतत्करोति- यद्देवा अकुर्वन्- तत्करवाणीति । अथो यदेव रक्षः, यः पाप्मा- तेभ्य एतानग्नीनेता इष्टका वज्रान् क्षुरपवीन्कृत्वा प्रहरति । तैरेनान्त्स्तृणुते । तान्त्स्तृत्वा ऽभये ऽनाष्ट्र ऽएतं यज्ञं तनुते ॥ ६ ॥

सायणः

एवमाख्यायिकया इष्टकाहरणस्य रक्षोनिरसने हेतुतामुक्त्वा प्रकृते योजयति- तद्वा एतदिति । ‘तत्’ खलु ‘एतत्’ देवैः कृतमिष्टकानां प्रहरणमत्र ‘क्रियते’ यजमानैरनुष्ठीयते । किं पुनस्तदेतदित्याह- यद्देवा इति । देवैरेव रक्षसां निरस्तत्वादिदानींतनयजमानकर्तृकमिष्टकानां प्रहरणं केवलं तदनुकरणार्थमित्याह- इदं न्वित्यादिना । ‘इदं नु’ इदानीं खलु यज्ञविरोधीनि ‘तानि’ ‘रक्षांसि’ ‘देवैरेवापहतानि’ बाधितानि, अतो ‘यद्देवाः’ पूर्वम् ‘अकुर्वन्’ ‘तद्’ इदानीमहमपि ‘करवाणीति’ तदनुकरणमेवेदानीन्तनेष्टकाप्रहरणस्य प्रयोजनमित्यर्थः । निरस्तसजातीनां रक्षसां पाप्मनां च विद्यमानत्वात् तन्निरसनहेतुत्वमपि सम्भवतीति पक्षान्तरमाह- अथ यदेवेति । पक्षान्तरद्योतको ऽथशब्दः । ‘यदेव रक्षो, यः पाप्मा’ इति च जातावेकवचनम्; बहुत्वस्य श्रुतत्वात् । तेभ्य एतानित्यादि पूर्ववद्योज्यम् । अस्माच्चार्थवादादिष्टकाः पुरस्ताद्धरेदिति विधिरुन्नेतव्यः ॥ ६ ॥

Eggeling
  1. Now, what the gods did is done here,–even now those Rakshas are indeed smitten by the gods themselves; and when he nevertheless does this, it is because he thinks, ‘I must do what the gods did.’ And so, having made those fires, those bricks, to be sharp-edged thunderbolts, he hurls them at whatever Rakshas, whatever evildoers there may be, and lays them low thereby; and having laid them low, he spreads the sacrifice in a place free from danger and devilry.

०७

विश्वास-प्रस्तुतिः

तद्य᳘दग्नि᳘भ्य ऽइ᳘ति॥
बह᳘वो᳘ ह्येते ऽग्न᳘यो य᳘देताश्चि᳘तयो᳘ ऽथ य᳘त्प्रह्रिय᳘माणेभ्य ऽइ᳘ति प्र हि ह᳘रति॥

मूलम् - श्रीधरादि

तद्य᳘दग्नि᳘भ्य ऽइ᳘ति॥
बह᳘वो᳘ ह्येते ऽग्न᳘यो य᳘देताश्चि᳘तयो᳘ ऽथ य᳘त्प्रह्रिय᳘माणेभ्य ऽइ᳘ति प्र हि ह᳘रति॥

मूलम् - Weber

तद्य᳘दग्नि᳘भ्य इ᳘ति॥
बह᳘वोॗ ह्येते ऽग्न᳘यो य᳘देताश्चि᳘तयो᳘ ऽथ य᳘त्प्रह्रिय᳘माणेभ्य इ᳘ति प्र हि ह᳘रति॥

मूलम् - विस्वरम्

तद् यदग्निभ्य इति । बहवो ह्येते ऽग्नयो यदेताश्चितयः । अथ यत्प्रह्रियमाणेभ्य इति । प्र हि हरति ॥ ७ ॥

सायणः

संप्रैषं व्याचष्टे- तद्यदग्निभ्य इति । नन्वेक एव चित्यो ऽग्निः, कथमस्य बहुत्वमित्याशङ्क्याह- बहवो हीति । सप्तचित्यभिप्रायेण बहुवचनम् । तासामग्न्येकदेशत्वादग्निशब्दाभिधेयता । ‘अथ’ ‘प्रह्रियमाणेभ्य इति’ पदमनूद्य निर्वक्ति- प्र हीति । ‘हि’ यस्मात् अध्वर्युरिमा इष्टकाः ‘प्रहरति’ पुरस्तादाहवनीयदेशं प्रापयति । अतः प्राचीनं ह्रियन्त इति प्रह्रियमाणास्ते ऽग्नय उच्यन्त इत्यर्थः ॥ ७ ॥

Eggeling
  1. And as to why (he recites) to the fires,–it is because there are here many fires, to wit, those layers; and as to (his reciting) to them being led forward (pra-har), it is because he hurls (pra-har) them forward (as thunderbolts).

०८

विश्वास-प्रस्तुतिः

तद्धैके᳘ ऽन्वाहुः॥
पुरी᳘ष्यासो ऽअग्न᳘यः प्रावणे᳘भिः सजो᳘षस ऽइ᳘ति प्रायणरूपं न त᳘था कुर्यादाग्नेयी᳘रेव᳘ गायत्रीः का᳘मवतीर᳘नुब्रूयादा᳘ ते व्वत्सो म᳘नो यमत्तु᳘भ्यं ता᳘ ऽअङ्गिरस्त᳘माग्निः᳘ प्रिये᳘षु धा᳘मस्वि᳘ति॥

मूलम् - श्रीधरादि

तद्धैके᳘ ऽन्वाहुः॥
पुरी᳘ष्यासो ऽअग्न᳘यः प्रावणे᳘भिः सजो᳘षस ऽइ᳘ति प्रायणरूपं न त᳘था कुर्यादाग्नेयी᳘रेव᳘ गायत्रीः का᳘मवतीर᳘नुब्रूयादा᳘ ते व्वत्सो म᳘नो यमत्तु᳘भ्यं ता᳘ ऽअङ्गिरस्त᳘माग्निः᳘ प्रिये᳘षु धा᳘मस्वि᳘ति॥

मूलम् - Weber

तद्धैके᳘ ऽन्वाहुः॥
पुरीॗष्यासो अग्न᳘यः प्रावण᳘भिः सजो᳘षस इ᳘ति प्रायणरूपं न त᳘था कुर्यादाग्नेयी᳘रेव᳘ गायत्रीः का᳘मवतीर᳘नुब्रूयादा᳘ ते वत्सो म᳘नो यमत्तु᳘भ्यं ता᳘ अङ्गिरस्तमाग्निः᳘ प्रिये᳘षु धा᳘मस्वि᳘ति॥

मूलम् - विस्वरम्

तद्धैके ऽन्वाहुः- “पुरीष्यासो ऽअग्नयः प्रावणेभिः सजोषसः”- इति प्रायणरूपम् । न तथा कुर्यात् । आग्नेयीरेव गायत्रीः कामवतीरनुब्रूयात् । “आ ते वत्सो मनो यमत्; तुभ्यं ता अङ्गिरस्तम; अग्निः प्रियेषु धामसु”- (वा० सं० १२ । ११५-११७) इति ॥ ८ ॥

सायणः

तत्र होत्रा ऽनुवक्तव्यामृचमेकीयमतेनोपन्यस्य व्याचष्टे- तद्धैक इति । ‘तत्’ तत्र खलु ‘एके’ केचन ऋक्छाखाध्यायिनः “पुरीष्यासो ऽअग्नयः" (ऋ. सं. अष्ट. ३ व. २२ अ. १) इत्येतामृचम् अन्वाहुः । तत्र पुरीषशब्दस्य पशुपर्यायत्वात् ‘पुरीष्यास’ इत्यस्य पशव्यास इति व्याख्यानम् । पशुभ्यो हिता इत्यर्थः । प्रावणेभिरिति पदस्यार्थमाह- प्रायणरूपमिति । प्रायणस्य प्रगमनकर्मप्रवृत्तेः प्रापणेभिरिति । शब्दोपेतं पदं सूचकं रूपमित्यर्थः । एतदेकीयमतं प्रतिषिध्य स्वमतमाह- न तथा कुर्यादिति । ‘आग्रेयीः’ अग्निदेवताकाः, ‘कामवतीः’ कामशब्दोपेताः ‘गायत्रीः’ गायत्रीछन्दस्का एव ऋचः ‘ब्रूयात्’, काः पुनस्ता इति ता आह- आ ते वत्स इत्यादिना ॥ ८ ॥

Eggeling
  1. Now some recite (Vāj. S. XII, 50), ‘The Agnis Purīshyas, together with those of the streams,’–a form of starting 10. Let him not do so; let him recite gāyatrī verses addressed to Agni, and relating to (objects of) desire: (Vāj. S. XII, 115; R̥k S. VIII, II, 7), ‘Hither may Vatsa lead thy mind even from the highest seat, O Agni, with the song desirous of thee!’–(Vāj. S. XII, 116; R̥k S. VIII, 43,18), ‘To thee, O Agni, best of Aṅgiras, all good homesteads have laid themselves out for (the obtainment of) their desire.’–(Vāj. S. XII, 117), ‘Agni, the one all-ruler, shineth in the beloved homes, the (object of) desire of all that is and shall be.’

०९

विश्वास-प्रस्तुतिः

(त्या) आग्नेयीर᳘न्वाह॥
(हा) अग्निरूपा᳘णामु᳘पाप्त्यै का᳘मवताः का᳘मानामु᳘पाप्त्यै गायत्री᳘र्गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति तिस्र᳘स्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति ताः᳘ सप्त स᳘म्पद्यन्ते सह᳘ त्रिरनूक्ता᳘भ्याᳫँ᳭ सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवत्युपाᳫँ᳭श्व᳘न्वाह रे᳘तो वा ऽअ᳘त्र यज्ञ᳘ ऽउपाᳫँ᳭शु वै रे᳘तः सिच्यते पश्चा᳘दनुब्रुवन्न᳘न्वेति च्छ᳘न्दोभिरे᳘वैत᳘द्यज्ञं᳘ पश्चा᳘दभिर᳘क्षन्नेति॥

मूलम् - श्रीधरादि

(त्या) आग्नेयीर᳘न्वाह॥
(हा) अग्निरूपा᳘णामु᳘पाप्त्यै का᳘मवताः का᳘मानामु᳘पाप्त्यै गायत्री᳘र्गाय᳘त्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति तिस्र᳘स्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेतद्रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति ताः᳘ सप्त स᳘म्पद्यन्ते सह᳘ त्रिरनूक्ता᳘भ्याᳫँ᳭ सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवत्युपाᳫँ᳭श्व᳘न्वाह रे᳘तो वा ऽअ᳘त्र यज्ञ᳘ ऽउपाᳫँ᳭शु वै रे᳘तः सिच्यते पश्चा᳘दनुब्रुवन्न᳘न्वेति च्छ᳘न्दोभिरे᳘वैत᳘द्यज्ञं᳘ पश्चा᳘दभिर᳘क्षन्नेति॥

मूलम् - Weber

आग्नेयीर᳘न्वाह॥
अग्निरूपा᳘णामु᳘पाप्त्य का᳘मवतीः का᳘मानामु᳘पाप्त्यै गायत्री᳘र्गायॗत्रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चति तिस्र᳘स्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेतद्रे᳘तो भूत᳘ᳫं᳘ सिञ्चति ताः᳘ सप्त स᳘म्पद्यन्ते सह᳘ त्रिरनूक्ता᳘भ्याᳫं सप्त᳘चितिको ऽग्निः᳘ सप्त᳘ ऽर्त᳘वः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवत्युपांश्व᳘न्वाह रे᳘तो वा अ᳘त्र यज्ञ᳘ उपांशु वै रे᳘तः सिच्यते पश्चा᳘दनुब्रुवन्न᳘न्वेति छ᳘न्दोभिरेॗवैत᳘द्यज्ञ᳘म् पश्चा᳘दभिर᳘क्षन्नेति॥

मूलम् - विस्वरम्

आग्नेयीरन्वाह- अग्निरूपाणामुपाप्त्यै । कामवतीः- कामानामुपाप्त्यै । गायत्रीः । गायत्रो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्रेतोभूतं सिञ्चति । तिस्रः । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्रेतोभूतं सिञ्चति । ताः सप्त सम्पद्यन्ते । सह त्रिरनूक्ताभ्याम् । सप्तचितिको ऽग्निः । सप्त ऽर्तवः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावित्यस्य मात्रा- तावत्तद्भवति । उपांश्वन्वाह । रेतो वा ऽअत्र यज्ञः । उपांशु वै रेतः सिच्यते । पश्चादनुन्ब्रुवन्नन्वेति । छन्दोभिरेवैतद्यज्ञं पश्चादभिरक्षन्नेति ॥ ९ ॥

सायणः

आग्नेयीत्यादिधर्मानवयुत्यानूद्य स्तौति- आग्नेयीरन्वाहेति । देवतारूपेणाग्निना तत्सम्बन्धिनां सर्वेषाम् ‘रूपाणाम्’ उपाप्तिर्भवतीत्यर्थः । तथा तासामृचां कामशब्दोपेतत्वात् सर्वकामोपाप्तिरपि भवति । रेतोभूतं सिञ्चतीति । अस्यामवस्थायाम् ‘रेतः’- संस्तुतानां सिकतानां निवपनाद्रेतोरूपापन्नः खल्वयं चित्यो ऽग्निस्तादृशं ‘सिञ्चति’ अङ्गप्रत्यङ्गयुक्तं संस्करोतीत्यर्थः । ऋचां त्रित्वमनूद्य स्तौति- तिस्र इति । निगदसिद्धमेतत् । ताः सप्तेत्यादि । ‘ताः’ तिस्र ऋचः ‘सप्त’- संख्याकाः ‘सम्पद्यन्ते’ । सम्पत्तिप्रकारमाह- सहेति । ‘त्रिः’ त्रिवारम् ‘अनूक्ताभ्याम्’ आद्योत्तमाभ्यां सह सप्तसङ्ख्या सम्पद्यत इत्यर्थः । सप्तर्त्तवः संवत्सर इति । वसन्ताद्याः षट् संसर्प्पांहस्पतिलक्षणः सप्तम ऋतुः । अनुवचने उपांशुस्वरं विधाय स्तौति- उपाँश्वन्वाहेति । यथा पार्श्वस्था जना न शृण्वन्ति तथा ऽनुब्रूयादित्यर्थः । ‘अत्र’ अस्मिन् समये रेतोरूपः खलु ‘यज्ञः’ ‘रेतः’- सेचनस्योपांशुत्वं परैरज्ञायमानतया कर्त्तव्यत्वं लोके प्रसिद्धम्, तस्मादनुवचनमुपांशु कर्त्तव्यमित्यर्थः । अनुवचनसमये होतुरनुगमनं विधत्ते- अनुब्रुवन्नन्वेतीति । अनुवचनं कुर्वन् होता स्वयमपीष्टकाः ‘अन्वेति’ अनुगच्छति । सर्वेषु छन्दःसु गायत्र्या अन्तर्भावात्तदन्तर्भूतैः ‘छन्दोभिरेवैतद्’ एतेनानुगमनेन ‘यज्ञम्’ पृष्ठतः ‘अभिरक्षन्’ अभितः सर्वतो रक्षःप्रभृतिभ्यो गोपायन् ‘एति’ ॥ ९ ॥

Eggeling
  1. Verses addressed to Agni he recites for the obtainment of Agni’s forms;–and such as relate to desire, for the obtainment of his desires;–Gāyatrī ones,–Agni is Gāyatra: as great as Agni is, as great as is his measure, with so much he thus pours him forth as seed;–with three (verses),–Agni is threefold: as great as Agni is, as great as is his measure, with so much he thus pours him forth as seed. These (three), with the (first and last verses) recited thrice, amount to seven,–of seven layers consists the fire-altar 11, seven seasons are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great does this become. He recites in a low voice, for here in the sacrifice seed is (cast), and seed is cast silently. He (the Hotr̥) marches reciting behind (the bricks carried by the attendants); he thus marches, defending the sacrifice by the metres from behind.

१०

विश्वास-प्रस्तुतिः

(त्य) अथा᳘श्वᳫँ᳭ शुक्लं᳘ पुर᳘स्तान्नयन्ति॥
(न्त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएतं व्व᳘ज्रमपश्यन्नमु᳘मे᳘वादित्य᳘मसौ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्वस्त᳘ ऽएते᳘न व्व᳘ज्रेण पुर᳘स्ताद्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्रे᳘ स्वस्ति स᳘माश्नुवत त᳘थै᳘वैतद्य᳘जमान ऽएते᳘न व्व᳘ज्रेण पुर᳘स्ताद्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्रे᳘ स्वस्ति स᳘मश्नुत ऽआ᳘गच्छन्त्यग्निं᳘ दक्षिणतः पु᳘च्छस्य चि᳘तिमुपनि᳘दधत्युत्तरतो᳘ ऽश्वमा᳘क्रमयन्ति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘श्वᳫँ᳭ शुक्लं᳘ पुर᳘स्तान्नयन्ति॥
(न्त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ ऽएतं व्व᳘ज्रमपश्यन्नमु᳘मे᳘वादित्य᳘मसौ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्वस्त᳘ ऽएते᳘न व्व᳘ज्रेण पुर᳘स्ताद्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्रे᳘ स्वस्ति स᳘माश्नुवत त᳘थै᳘वैतद्य᳘जमान ऽएते᳘न व्व᳘ज्रेण पुर᳘स्ताद्र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘भये ऽनाष्ट्रे᳘ स्वस्ति स᳘मश्नुत ऽआ᳘गच्छन्त्यग्निं᳘ दक्षिणतः पु᳘च्छस्य चि᳘तिमुपनि᳘दधत्युत्तरतो᳘ ऽश्वमा᳘क्रमयन्ति॥

मूलम् - Weber

अथा᳘श्वं शुक्ल᳘म् पुर᳘स्तान्नयन्ति॥
एतद्वै᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘ एतं व᳘ज्रमपश्यन्नमु᳘मेॗवादित्य᳘मसौ वा᳘ आदित्य᳘ एषो᳘ ऽश्वस्त᳘ एते᳘न व᳘ज्रेण पुर᳘स्ताद्र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये ऽनाष्ट्रे᳘ स्वस्ति स᳘माश्नुवत त᳘थैॗवैतद्य᳘जमान एते᳘न व᳘ज्रेण पुर᳘स्ताद्र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘भये ऽनाष्ट्रे᳘ स्वस्ति स᳘मश्नुत आ᳘गघन्त्यग्निं᳘ दक्षिणतः पु᳘छस्य चि᳘तिमुपनि᳘दधत्युत्तरतो᳘ ऽश्वमा᳘क्रमयन्ति॥

मूलम् - विस्वरम्

अथाश्वं शुक्लं पुरस्तान्नयन्ति । एतद्वै देवा अबिभयुः- यद्वै न इह रक्षांसि नाष्ट्रा न हन्युरिति । त ऽएतं वज्रमपश्यन्- अमुमेवादित्यम् । असौ वा ऽआदित्य एषो ऽश्वः । त ऽएतेन वज्रेण पुरस्ताद्रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्रे स्वस्ति समाश्नुवत । तथैवैतद्यजमान एतेन वज्रेण पुरस्ताद्रक्षांसि नाष्ट्रा अपहत्याभये ऽनाष्ट्रे स्वस्ति समश्नुते । आगच्छन्त्यग्निम् । दक्षिणतः पुच्छस्य चितिमुपनिदधति । उत्तरतो ऽश्वमाक्रमयन्ति ॥ १० ॥

सायणः

इष्टकाहरणसमये श्वेतस्याश्वस्य पुरतो नयनं विधत्ते- अथाश्वमिति 12 । अश्वस्यादित्यरूपवज्रात्मकत्वं कथयँस्तस्य पुरस्तान्नयनं यज्ञविघातकरक्षोनिबर्हणहेतुत्वेन स्तौति- एतद्वा इत्यादिना । यद्वै न इति । ‘नः’ अस्मानित्यर्थः । असौ वा आदित्य एषो ऽश्व इति । विराड्रूपस्य प्रजापतेश्चन्द्रसूर्यौ हि चक्षुषी, अश्वश्च तदीयाच्चक्षुष उत्पन्नः । तथा च श्रूयते- “प्रजापतेरक्ष्यश्वयत्तत्परापतत्ततो ऽश्वः समभवत्”- (श. प . १३ । ३ । १ । १) इति । अत एव तैत्तिरीये ऽपि श्रूयते- “अमुमादित्यमश्वं श्वेतं भूतं दक्षिणामनयन्”- इति (तै. ब्रा. १ । ६ । ८) । स्वस्ति समाश्नुवतेति । ‘स्वस्ति’ अविनाशरूपं क्षेमं सम्यगाप्नुवन्नित्यर्थः । अन्यद् व्याख्यातप्रायम् । अग्निक्षेत्रसमीपगमनं विधत्ते- आगच्छन्त्यग्निमिति 13 । अश्वप्रमुखास्ते ऋत्विग्यजमाना इष्टकाभिः सहाग्निसमीपमागच्छेयुः, आगत्य चाग्नि- ‘पुच्छस्य’ दक्षिणभागे चर्मणा हृताम् ‘चितिम्’ ‘उपनिदधति’ चित्यर्थमानीता इष्टकाः स्थापयन्तीत्यर्थः । तस्याग्निपुच्छस्योत्तरभागेन तम् ‘अश्वम्’ ‘आक्रमयन्ति’ आक्रमयेयुः । आक्रमणानन्तरं पुनस्तमश्वमग्नेरुत्तरार्धेन अग्निक्षेत्रस्य उत्तरभागे परिश्रिदाख्याः शर्कराः अन्तरेण परिश्रितामग्नेश्च मध्यप्रदेशे ‘प्राञ्चम्’ प्राङ्मुखम् ‘नयन्ति’ ‘तत्’ तेन ‘प्राच्यै’ “षष्ठ्यर्थे चतुर्थी”- (पा. सू. २ । ३ । ६२ । वा. १) प्राचीदिक्सम्बन्धिनं ‘पाप्मानम्’ आदित्यात्मकाश्वलक्षणेन वज्रेण ‘अपहन्ति’ हिनस्ति । पुनः ‘तम्’ अश्वं पूर्वस्यां दिशि, अग्नेः परिश्रितां च मध्ये ‘दक्षिणा’ दक्षिणतो निहितमुखमित्यर्थः । “दक्षिणादाच्”- (पा. सू. ५ । ३ । ३६ ।) गतमन्यत् । “तं प्रत्यञ्चम्” इत्यादावेवं योज्यम् । एवं चतसृषु दिक्ष्वाक्रमणेन ‘सर्वाभ्य एव’ दिग्भ्यो ‘रक्षांसि’ विनाश्यानन्तरम् ‘एनम्’ अश्वम् ‘उदञ्चं’ ‘प्राञ्चं’ प्रागुदङ्मुखमित्यर्थः । ‘प्रसृजति’ विमुञ्चति । ‘तस्य’ प्रागुदक्त्वस्य स्तावको वाक्यशेषः प्रागाम्नात इत्यतिदिशति- तस्योक्त इति । एवं हि प्रागाम्नातम्- “एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची”- इत्यादि (श. प. ब्रा. ६ । ४ । ४ । २२) ॥ १० ॥ ११ ॥

Eggeling
  1. And in front they lead a white horse. For at that time the gods were afraid lest the Rakshas, the fiends, should smite them here. They saw that thunderbolt, even yonder sun; for that horse is yonder sun: having driven off the Rakshas, the fiends, in front, by that thunderbolt, they obtained well-being in a place free from danger and devilry. They arrive at the (site of) the fire-altar; south of the tail (of the altar) they set down the layer (of bricks); from the north they make the horse step (on the site of the altar).

११

विश्वास-प्रस्तुतिः

त᳘मुत्तरार्धे᳘नाग्नेः[[!!]]॥
(र᳘) अ᳘न्तरेण परिश्रि᳘तः प्रा᳘ञ्चं नयन्ति तत्प्रा᳘च्यै दिशः᳘ पाप्मा᳘नम᳘पहन्ति तं᳘ दक्षिणा तद्द᳘क्षिणायै दिशः᳘ पाप्मा᳘नम᳘पहन्ति तं᳘ प्रत्य᳘ञ्चं त᳘त्प्रती᳘च्यै दिशः᳘ पाप्मा᳘नम᳘पहन्ति तमु᳘दञ्चं तदु᳘दीच्यै दिशः᳘ पाप्मा᳘नम᳘पहन्ति स᳘र्व्वाभ्य ऽए᳘वैत᳘द्दिग्भ्यो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘थैनमु᳘दञ्चं प्रा᳘ञ्चं प्र᳘सृजति त᳘स्योक्तो ब᳘न्धुः॥ (शतम् ४१००)॥

मूलम् - श्रीधरादि

त᳘मुत्तरार्धे᳘नाग्नेः[[!!]]॥
(र᳘) अ᳘न्तरेण परिश्रि᳘तः प्रा᳘ञ्चं नयन्ति तत्प्रा᳘च्यै दिशः᳘ पाप्मा᳘नम᳘पहन्ति तं᳘ दक्षिणा तद्द᳘क्षिणायै दिशः᳘ पाप्मा᳘नम᳘पहन्ति तं᳘ प्रत्य᳘ञ्चं त᳘त्प्रती᳘च्यै दिशः᳘ पाप्मा᳘नम᳘पहन्ति तमु᳘दञ्चं तदु᳘दीच्यै दिशः᳘ पाप्मा᳘नम᳘पहन्ति स᳘र्व्वाभ्य ऽए᳘वैत᳘द्दिग्भ्यो र᳘क्षाᳫँ᳭सि नाष्ट्रा᳘ ऽअपहत्या᳘थैनमु᳘दञ्चं प्रा᳘ञ्चं प्र᳘सृजति त᳘स्योक्तो ब᳘न्धुः॥ (शतम् ४१००)॥

मूलम् - Weber

त᳘मुत्तराधे᳘नाग्नेः᳟॥
अ᳘न्तरेण परिश्रि᳘तः प्रा᳘ञ्चं नयन्ति तत्प्रा᳘च्यै दिशः᳘ पाप्मा᳘नम᳘पहन्ति तं᳘ दक्षिणा तद्द᳘क्षिणायै दिशः᳘ पाप्मा᳘नम᳘पहन्ति त᳘म् प्रत्य᳘ञ्चं त᳘त्प्रती᳘च्यै दिशः᳘ पाप्मा᳘नम᳘पहन्ति तमु᳘दञ्चं तदु᳘दीच्यै दिशः᳘ पाप्मा᳘नम᳘पहन्ति स᳘र्वाभ्य एॗवैत᳘द्दिग्भ्यो र᳘क्षांसि नाष्ट्रा᳘ अपहत्या᳘थैनमु᳘दञ्चम् प्रा᳘ञ्चम् प्र᳘सृजति त᳘स्योक्तो ब᳘न्धुः॥

मूलम् - विस्वरम्

तमुत्तरार्धेनाग्नेः- अन्तरेण परिश्रितः प्राञ्चं नयन्ति । तत्- प्राच्यै दिशः पाप्मानमपहन्ति । तं दक्षिणा । तद्दक्षिणायै दिशः पाप्मानमपहन्ति । तं प्रत्यञ्चम् । तत् प्रतीच्यै दिशः पाप्मानमपहन्ति । तमुदञ्चम् । तदुदीच्यै दिशः पाप्मानमपहन्ति । सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा अपहत्य- अथैनमुदञ्चं प्राञ्चं प्रसृजति । तस्योक्तो बन्धुः ॥ ११ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. They lead it eastward on the left (north) side of the altar, inside the enclosing-stones, whereby they ward off evil from the eastern region; then southward, whereby they ward off evil from the south; then westward, whereby they ward off evil from the western region; then northward, whereby they ward off evil from the northern region. Having thus warded off the Rakshas, the fiends, from all the regions, he sets it (the horse) free towards northeast: the significance of this has been explained.

१२

विश्वास-प्रस्तुतिः

(स्तं᳘) तं᳘ प्रत्य᳘ञ्चं य᳘न्तम्॥
(मे) एतां चि᳘तिम᳘वघ्रापयत्यसौ᳘ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्व ऽइमा᳘ ऽउ स᳘र्व्वाः प्रजा या᳘ ऽइमा ऽइ᳘ष्टकास्तद्य᳘दवघ्राप᳘यत्यसा᳘वेव त᳘दादित्य᳘ ऽइमाः᳘ प्रजा᳘ ऽअभि᳘जिघ्रति त᳘स्मादु हैतत्स᳘र्व्वो ऽस्मी᳘ति मन्यते प्रजा᳘पतेर्व्वी᳘र्येण तद्य᳘त्प्रत्य᳘ञ्चं य᳘न्तमवघ्राप᳘यति प्रत्य᳘ङ्ह्ये᳘वैष य᳘न्निमाः स᳘र्व्वाः प्रजा᳘ ऽअभिजि᳘घ्रति॥

मूलम् - श्रीधरादि

(स्तं᳘) तं᳘ प्रत्य᳘ञ्चं य᳘न्तम्॥
(मे) एतां चि᳘तिम᳘वघ्रापयत्यसौ᳘ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्व ऽइमा᳘ ऽउ स᳘र्व्वाः प्रजा या᳘ ऽइमा ऽइ᳘ष्टकास्तद्य᳘दवघ्राप᳘यत्यसा᳘वेव त᳘दादित्य᳘ ऽइमाः᳘ प्रजा᳘ ऽअभि᳘जिघ्रति त᳘स्मादु हैतत्स᳘र्व्वो ऽस्मी᳘ति मन्यते प्रजा᳘पतेर्व्वी᳘र्येण तद्य᳘त्प्रत्य᳘ञ्चं य᳘न्तमवघ्राप᳘यति प्रत्य᳘ङ्ह्ये᳘वैष य᳘न्निमाः स᳘र्व्वाः प्रजा᳘ ऽअभिजि᳘घ्रति॥

मूलम् - Weber

त᳘म् प्रत्य᳘ञ्चं य᳘न्तम्॥
एतां चि᳘तिम᳘वघ्रापयत्यसौ᳘ वा᳘ आदित्य᳘ एषो᳘ ऽश्व इमा᳘ उ स᳘र्वाः प्रजा या᳘ इमा इ᳘ष्टकास्तद्य᳘दवघ्राद᳘यत्यसा᳘वेव त᳘दादित्य᳘ इमाः᳘ प्रजा᳘ अभि᳘जिघ्रति त᳘स्मादु हैतत्स᳘र्वो ऽस्मी᳘ति मन्यते प्रजा᳘पतेर्वीॗर्येण तद्य᳘त्प्रत्य᳘ञ्चं य᳘न्तमवघ्राप᳘यति प्रत्यङ् ह्येॗवैष य᳘न्निमाः स᳘र्वाः प्रजा᳘ अभिजि᳘घ्रति॥

मूलम् - विस्वरम्

तं प्रत्यञ्चं यन्तमेतां चितिमवघ्रापयति । असौ वा ऽआदित्य एषो ऽश्वः । इमा उ सर्वाः प्रजाः- या इमा इष्टकाः । तद्यदवघ्रापयति- असावेव तदादित्य इमाः प्रजा अभिजिघ्रति । तस्मादु हैतत्सर्वो ऽस्मीति मन्यते- प्रजापतेर्वीर्येण । तद्यत्प्रत्यञ्चं यन्तमवघ्रापयति- प्रत्यङ् ह्येवैष यन्निमाः सर्वाः प्रजा अभिजिघ्रति ॥ १२ ॥

सायणः

तस्याश्वस्य प्रत्यङ्मुखनयनसमये चितेरवघ्रापणं विधत्ते 14- तं प्रत्यञ्चमिति । पुच्छस्य दक्षिणतो निहिताम् ‘एताम्’ ‘चितिम्’ ‘प्रत्यञ्चम्’ प्रत्यङ्मुखम् ‘यन्तम्’ गच्छन्तमश्वम् ‘अवघ्रापयति’ यथा सो ऽश्वश्चितिम् अभिजिघ्रति तथा तं प्रेरयेदित्यर्थः । “घ्रा गन्धोपादाने” (धा. पा. भ्वा. प. ९५१) इत्यस्माण्णिचि “अर्तिह्नी” (पा. सू. ७ । ३ । ३६) इत्यादिना पुक् ॥

तदेतदिष्टकानामादित्ये ऽवघ्रापणं प्रजासु प्राणप्रतिष्ठापनहेतुत्वेन स्तौति- असौ वा आदित्य इत्यादिना । अश्वस्यादित्यात्मकत्वमुक्तम् (श. प. ७ । ३ । २ । १०) । ‘इमाः’ परिदृश्यमाना देवतिर्यङ्मनुष्यादिरूपाः ‘सर्वाः’ ‘प्रजाः’ ईदृक्प्रजारूपा ‘इष्टकाः’ बहुत्वसाम्यात् । असावेवेत्यादि । ‘तत्’ तेनाश्वकर्तृकेष्टकावघ्राणेन ‘असौ’ द्युलोकस्थः ‘आदित्यः’ एव ‘इमाः’ ‘प्रजाः’ प्राणात्मकैः स्वरश्मिभिः ‘अभिजिघ्रति’ अवघ्राणं करोति, ‘तस्माद्’ एव कारणाद् ‘एतद्’ इदानीम् ‘सर्वः’ जनः अस्मिंल्लब्धात्मको भवामि ‘इति मन्यते’ स्वात्मसत्तामवगच्छति । केन रूपेण ? ‘प्रजापतेः’ विराडात्मनः ‘वीर्येण’ । प्रत्यङ् ह्येवैष इति । ‘प्रत्यङ्’ मुखः ‘एवैषः’ सूर्यो-‘यन्’ गच्छन् ‘इमाः सर्वाः प्रजाः’ स्वरश्मिभिः ‘अभिजिघ्रति’ । ‘हि’ यस्मादेवं प्रत्यङ्मुखेन गच्छता ऽश्वेन चितेरवघ्रापणं युक्तमित्यर्थः ॥ १२ ॥

Eggeling
  1. Whilst it goes westward he makes it smell (kiss) that layer (of bricks);–that horse is yonder sun, and those bricks are the same as all these creatures (on earth): thus even as he makes (the horse) smell, so yon sun kisses these creatures 15. And hence, by Prajāpati’s power, every one now thinks, ‘I am!’ And as to why he makes it smell while going westward, it is because, whilst going (from east) to west, that (sun) kisses all these creatures.

१३

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वावघ्राप᳘यति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्व ऽइम᳘ ऽउ लोका᳘ ऽएताः᳘ स्वयमातृण्णास्तद्य᳘दवघ्राप᳘यत्यसा᳘वेव त᳘दादित्य᳘ ऽइमां᳘ल्लोकान्त्सू᳘त्रे समा᳘वयते तद्यत्तत्सू᳘त्रमुप᳘रि त᳘स्य ब᳘न्धुः॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वावघ्राप᳘यति॥
(त्य) असौ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्व ऽइम᳘ ऽउ लोका᳘ ऽएताः᳘ स्वयमातृण्णास्तद्य᳘दवघ्राप᳘यत्यसा᳘वेव त᳘दादित्य᳘ ऽइमां᳘ल्लोकान्त्सू᳘त्रे समा᳘वयते तद्यत्तत्सू᳘त्रमुप᳘रि त᳘स्य ब᳘न्धुः॥

मूलम् - Weber

य᳘द्वेॗवावघ्राप᳘यति॥
असौ वा᳘ आदित्य᳘ एषो᳘ ऽश्व इम᳘ उ लोका᳘ एताः᳘ स्वयमातृणास्तद्य᳘दवघ्राप᳘यत्यसा᳘वेव त᳘दादित्य᳘ इमां᳘लोकान्त्सू᳘त्रे समा᳘वयते तद्यत्तत्सू᳘त्रमुप᳘रि त᳘स्य ब᳘न्धुः॥

मूलम् - विस्वरम्

यद्वेवावप्राघ्रायति । असौ वा आदित्य एषो ऽश्वः । इम उ लोका एताः स्वयमातृण्णाः । तद्यदवघ्रापयति- असावेव तदादित्य इमांल्लोकान्त्सूत्रे समावयते । तद्यत्तत्सूत्रम्- उपरि तस्य बन्धुः ॥ १३ ॥

सायणः

अथैतदवघ्रापणं लोकत्रयसमावपने हेतुत्वेन स्तौति- यद्वेवेत्यादिना । याः ‘एताः’ उपधास्यमानास्तिस्रः स्वयमातृण्णाख्याः शर्कराः क्षुद्रपाषाणाः पृथिव्यादिलोकत्रयात्मिकास्ताः ‘तत्’ तथा सति अश्वेन ‘अवघ्रापयति’ इति यदस्ति ‘तत्’ तेन ‘असौ’ ‘आदित्यः’ एव ‘इमान्’ पृथिव्यादि-‘लोकान्’ स्वरश्म्यात्मके ‘सूत्रे’ मणिवत् ‘समावयते’ सम्यक्प्रोतान् करोति । “वेञ् तन्तुसन्ताने”- (धा. पा. भ्वा. उ. १०३१) इति धातुः । यदेतत् सूत्रं तस्य प्रतिपादको वाक्यशेष उपरिष्टादाम्नास्यत इत्यर्थः ॥ १३ ॥

Eggeling
  1. And, again, why he makes it smell;–that horse is yonder sun, and those naturally-perforated (bricks) are these worlds; and even as he makes it smell, so yonder sun strings these worlds to himself on a thread 16. And as to that thread, the significance of that (will be explained) further on.

१४

विश्वास-प्रस्तुतिः

(र्य᳘) य᳘द्वे᳘वावघ्राप᳘यति॥
(त्य) अग्नि᳘र्देवे᳘भ्य ऽउ᳘दक्राम᳘त्सो ऽपः प्रा᳘विशत्ते᳘ देवाः᳘ प्रजा᳘पतिमब्रुवंस्त्व᳘मिमम᳘न्विच्छ स तु᳘भ्यᳫँ᳭ स्वा᳘य पित्र᳘ ऽआवि᳘र्भविष्यती᳘ति तम᳘श्वः शुक्लो᳘ भूत्वा᳘ ऽन्वैच्छत्त᳘मद्भ्य᳘ ऽउपोदा᳘सृप्तं पुष्करपर्णे᳘ व्विवेद त᳘मभ्यवेक्षां᳘चक्रे स᳘ हैनमु᳘दुवोष त᳘स्माद᳘श्वः शुक्ल ऽउ᳘दुष्टमुख ऽइवा᳘थो ह दुरक्षो भा᳘वुकस्त᳘मु वा᳘ ऽऋ᳘त्वेव हिᳫँ᳭सि᳘त्वेव मेने त᳘ᳫँ᳘ होवाच व्व᳘रं ते ददामी᳘ति॥

मूलम् - श्रीधरादि

(र्य᳘) य᳘द्वे᳘वावघ्राप᳘यति॥
(त्य) अग्नि᳘र्देवे᳘भ्य ऽउ᳘दक्राम᳘त्सो ऽपः प्रा᳘विशत्ते᳘ देवाः᳘ प्रजा᳘पतिमब्रुवंस्त्व᳘मिमम᳘न्विच्छ स तु᳘भ्यᳫँ᳭ स्वा᳘य पित्र᳘ ऽआवि᳘र्भविष्यती᳘ति तम᳘श्वः शुक्लो᳘ भूत्वा᳘ ऽन्वैच्छत्त᳘मद्भ्य᳘ ऽउपोदा᳘सृप्तं पुष्करपर्णे᳘ व्विवेद त᳘मभ्यवेक्षां᳘चक्रे स᳘ हैनमु᳘दुवोष त᳘स्माद᳘श्वः शुक्ल ऽउ᳘दुष्टमुख ऽइवा᳘थो ह दुरक्षो भा᳘वुकस्त᳘मु वा᳘ ऽऋ᳘त्वेव हिᳫँ᳭सि᳘त्वेव मेने त᳘ᳫँ᳘ होवाच व्व᳘रं ते ददामी᳘ति॥

मूलम् - Weber

य᳘द्वेॗवाघ्राप᳘यति॥
अग्नि᳘र्देवे᳘भ्य उ᳘दक्रामॗत्सो ऽपः प्रा᳘विशत्ते᳘ देवाः᳘ प्रजा᳘पतिमब्रुवंस्त्व᳘मिमम᳘न्विछ स तु᳘भ्यᳫं स्वा᳘य पित्र᳘ आवि᳘र्भविष्यती᳘ति तम᳘श्वः शुक्लो᳘ भूत्वा᳘न्वैछत्त᳘मद्भ्य᳘ उपोदा᳘सृप्तम् पुष्करपर्णे विवेद त᳘मभ्यवेक्षां᳘ चक्रे स᳘ हैनमु᳘दुवोष त᳘स्मादुवोष त᳘स्माद᳘श्वः शुक्ल उ᳘दुष्टमुख इवा᳘था ह दुरक्षो भा᳘वुकस्त᳘मु वा᳘ ऋॗत्वेव हिंसिॗत्वेव मेते त᳘ᳫं᳘ होवाच व᳘रं ते ददामी᳘ति॥

मूलम् - विस्वरम्

यद्वेवावघ्रापयति । अग्निर्देवेभ्य उदक्रामत् । सो ऽपः प्राविशत् । ते देवाः प्रजापतिमब्रुवन्- त्वमिममन्विच्छ, स तुभ्यं स्वाय पित्र ऽआविर्भविष्यतीति । तमश्वः शुक्लो भूत्वा ऽन्वैच्छत् । तमद्भ्य उपोदासृप्तं पुष्करपर्णे विवेद । तमभ्यवेक्षाञ्चक्रे- स हैनमुदुवोष । तस्मादश्वः शुक्ल उदुष्टमुख इव । अथो ह दुरक्षो भावुकः । तमु वा ऽऋत्वेव हिंसित्वेव मेने । तमु होवाच- वरं ते ददामीति ॥ १४ ॥

सायणः

अथैतदेवाश्वकर्तृकमवघ्राणमनूद्याश्वलक्षणेनैव प्रजापतिना रूपेण निलीयमानस्याग्नेश्चेतव्यस्य लाभो नान्येनेत्याख्याकिया स्तौति- यद्वेवेत्यादिना । स्वाय पित्र इति । जात्याख्यायां वर्त्तमानत्वादस्य स्वशब्दस्य सर्वनामसञ्ज्ञा पर्युदस्ता, “स्वमज्ञातिधनाख्यायाम्”- इति (पा. सू. १ । १ । ३५) । अतः सर्वनामकार्यं न क्रियते । तमश्वः शुक्ल इत्यादि । इत्थं देवैरभ्यर्थितः प्रजापतिः शुक्लवर्णः ‘अश्वो भूत्वा’ स्वपुत्रमप्सु निलीनं ‘तम्’ अग्निम् ‘अन्वैच्छत्’ अन्विष्टवान् । अन्विष्टम् ‘तम्’ अग्निम् ‘अद्भ्यः’ सकाशात् ‘उपोदासृप्तम्’ उपनिष्क्रान्तं पद्मिनीपत्रे स्थितम् ‘विवेद’ लेभे, ‘तम्’ अभिगम्य ‘अवेक्षाञ्चक्रे’ ईक्षितवान्, स खल्वग्निः ‘एनम्’ अश्वरूपिणं प्रजापतिम् ‘उदुवोष’ ददाह । “उष दाहे”- (धा. पा. भ्वा. प. ६९७) इत्यस्माल्लिट्; एवं यस्मादुदुवोष ‘तस्मात्’ कारणाच्छुक्लवर्णः ‘अश्वः’ ‘उदुष्टमुखः’ ‘इव’ उत्क्षिप्तमुख इव लोके दृश्यते । ‘अथो’ खलु तस्मादेवाग्निदाहात् सो ऽश्वो ‘दुरक्षो भावुकः’ दुष्टे अक्षिणी यस्यासौ दुरक्षः, “बहुव्रीहौ सक्थ्यक्ष्णोः” (पा. सू. ५ । ४ । ११३ ।) इत्यस्मात् षच् समासान्तः । दुष्टाक्षिभ्यां युक्तो भवितुं शीलवान् भवतीत्यर्थः । ‘तम्’ अश्वरूपिणमेव प्रजापतिम् ‘ऋत्वेव’ अर्त्ति गमयित्वेव ‘हिंसित्वेव’ हिंसनं कृत्वेव, ‘इव’- शब्दो वाक्यालङ्कारे । अतिहिंसयोरपारमार्थ्यद्योतको वा । न ह्यश्वसम्बन्धिहिंसादिना परमार्थतः प्रजापतेर्हिंसा भवतीत्यभिप्रायः । एवमश्वं दाहेन हिंसित्वा पश्चान्मदीयः प्रजापतिरेवायमश्वरूपेण स्थित इति ‘मेने’ ज्ञातवान् । अथ च भीतः सन् ‘तम्’ अश्वरूपिणं प्रजापतिम् ‘उवाच’ हे प्रजापते ! तुभ्यं ‘वरम्’ अभिलषितमर्थम् ‘ददामि’ प्रयच्छानि ‘इति’ ॥ १४ ॥

Eggeling
  1. And, again, why he makes it smell; Agni went away from the gods; he entered the water. The gods said to Prajāpati, ‘Go thou in search of him: to thee, his own father, he will reveal himself.’ He became a white horse, and went in search of him. He found him on a lotus leaf, having crept forth from the water. He eyed him, and he (Agni) scorched him: hence the white horse has, as it were, a scorched mouth 17, and indeed is apt to become weak-eyed. He (Agni) thought he had hit and hurt him, and said to him, ‘I grant thee a boon!’

१५

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
य᳘स्त्वा ऽने᳘न रूपे᳘णान्विच्छा᳘द्विन्दा᳘देव᳘ त्वा स ऽइ᳘ति स यो᳘ हैनमेते᳘न रूपे᳘णान्विच्छ᳘ति व्विन्द᳘ति हैनं वित्त्वा᳘ है᳘वैनं चिनुते॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
य᳘स्त्वा ऽने᳘न रूपे᳘णान्विच्छा᳘द्विन्दा᳘देव᳘ त्वा स ऽइ᳘ति स यो᳘ हैनमेते᳘न रूपे᳘णान्विच्छ᳘ति व्विन्द᳘ति हैनं वित्त्वा᳘ है᳘वैनं चिनुते॥

मूलम् - Weber

स᳘ होवाच॥
य᳘स्त्वाने᳘न रूपे᳘णान्विछा᳘द्विन्दा᳘देव᳘ त्वा स इ᳘ति स यो᳘ हैनमेते᳘न रूपे᳘णान्विछ᳘ति विन्द᳘ति हैनं वित्त्वा᳘ हैॗवैनं चिनुते॥

मूलम् - विस्वरम्

स होवाच- यस्त्वा ऽनेन रूपेणान्विच्छाद्- विन्दादेव त्वा स इति । स यो हैनमेतेन रूपेणान्विच्छति- विन्दति हैनम् । वित्त्वा हैवैनं चिनुते ॥ १५ ॥

सायणः

‘सः’ खलु ‘उवाच’ प्रजापतिः, ‘अनेन’ अश्वेन मदीयरूपेण ‘यो’- यजमानस्त्वाम् ‘अन्विच्छात्’ अन्विच्छेत् । लेट् आडागमः । स यजमानस्त्वाम् ‘विन्दादेव’ लभेतैव । एतं वरमहं वृणे इत्यर्थः । स यो हैनमित्यादिना आख्यायिकासिद्धस्यार्थस्य प्रकृते योजनम् । ‘एनम्’ अग्निम् ‘एतेन’ अश्वरूपेण ‘वित्त्वा’ लब्ध्वेत्यर्थः । स्पष्टमन्यत् ॥ १५ ॥

Eggeling
  1. He (Prajāpati) said, ‘Whoever shall seek thee in that form (of a white horse), shall find thee!’ And, accordingly, he who seeks him (Agni) in that form, finds him; and having found him, he then builds him up.

१६

विश्वास-प्रस्तुतिः

स᳘ शुक्लः᳘ स्यात्॥
(त्त᳘) त᳘द्ध्येत᳘स्य रूपं य᳘ ऽएष त᳘पति य᳘दि शुक्लं न᳘ व्विन्देदप्य᳘शुक्लः स्याद᳘श्व᳘स्त्वेव᳘ स्याद्यद्य᳘श्वं न᳘ व्विन्देद᳘प्यनड्वा᳘नेव᳘ स्यादाग्नेयो वा᳘ ऽअनड्वा᳘नग्नि᳘रु स᳘र्व्वेषां पाप्म᳘नामपहन्ता[[!!]]॥

मूलम् - श्रीधरादि

स᳘ शुक्लः᳘ स्यात्॥
(त्त᳘) त᳘द्ध्येत᳘स्य रूपं य᳘ ऽएष त᳘पति य᳘दि शुक्लं न᳘ व्विन्देदप्य᳘शुक्लः स्याद᳘श्व᳘स्त्वेव᳘ स्याद्यद्य᳘श्वं न᳘ व्विन्देद᳘प्यनड्वा᳘नेव᳘ स्यादाग्नेयो वा᳘ ऽअनड्वा᳘नग्नि᳘रु स᳘र्व्वेषां पाप्म᳘नामपहन्ता[[!!]]॥

मूलम् - Weber

स᳘ शुक्लः᳘ स्यात्॥
तद्ध्येत᳘स्य रूपं य᳘ एष त᳘पति य᳘दि शुक्लं न विन्देदप्य᳘शुक्लः स्याद᳘श्वॗस्त्वेव᳘ स्याद्यद्य᳘श्वं न᳘ विन्देद᳘प्यनड्वा᳘नेव᳘ स्यादाग्नेयो वा᳘ अनड्वा᳘नग्नि᳘रु स᳘र्वेषाम् पाप्म᳘नामपहन्ता᳟॥

मूलम् - विस्वरम्

स शुक्लः स्यात् । तद्ध्येतस्य रूपम्- य एष तपति । यदि शुक्लं न विन्देद्- अप्यशुक्लः स्यात् । अश्वस्त्वेव स्यात् । यद्यश्वं न विन्देद्- अप्यनड्वानेव स्यात् । आग्नेयो वा ऽअनड्वान् । अग्निरु सर्वेषां पाप्मनामपहन्ता ॥ १६ ॥

सायणः

तस्याश्वस्य वर्णनियमं विधाय स्तौति- स शुक्लः स्यादिति । ‘तत्’ खलु शौक्ल्यम् ‘एतस्य’ सूर्यस्य ‘रूपम्’ ‘य एषः’ परिदृश्यमानः सन्नन्तरिक्षे रश्मिभिः ‘तपति;’ अतस्तत्सारूप्याय शुक्लवर्ण एवाश्वो नेतव्य इत्यर्थः । तदसम्भवे वर्णान्तरविशिष्टो ऽपि स्यादित्याह- यदि शुक्लमिति । शुक्लाभावे लोहितश्यामादिवर्णविशिष्टो भवेत्, स च तादृशः । ‘अश्वस्त्वेव’ कर्त्तव्यः । अश्वासम्भवे पक्षान्तरमप्याह- यद्यश्वमिति 18 । नन्वनडुहः सूर्यात्मकवज्ररूपत्वाभावात् पापहननरूपाश्वकार्यकरत्वं कथं स्यादित्याशङ्क्याह- आग्नेयो वा इति । अग्निसमीपे निर्वापार्थं स्थितस्थानसो वहनाद् ‘अनड्वान्’ अग्निदेवताकः । ‘अग्निः’ अपि ‘सर्वेषां पाप्मनाम्’ रक्षसां च ‘अपहन्ता’ बाधकः; अतस्तथाविधाग्निदेवताकत्वादनड्वानप्यश्ववत् रक्षांसि पाप्मनश्च विनाशयितुं शक्नोतीत्यर्थः ॥ १६ ॥

Eggeling
  1. It should be a white (horse), for that is a form of him (the sun) who burns yonder. If he cannot obtain a white one, one that is not white might do; but a horse it should be. If he cannot obtain a horse, even an ox might do, for the ox is of Agni’s nature, and Agni is the repeller of all evils.

१७

विश्वास-प्रस्तुतिः

(न्ता ऽथा᳘) अथा᳘तो ऽधिरो᳘हणस्यैव[[!!]]॥
तᳫँ᳭ है᳘के पुर᳘स्तात्प्रत्य᳘ञ्चम᳘धिरोहन्ति पश्चा᳘द्वा प्रा᳘ञ्चं न त᳘था कुर्यात्पशु᳘रेष य᳘दग्निर्यो वै᳘ पशुं᳘ पुर᳘स्तात्प्रत्य᳘ञ्चमधिरो᳘हति व्विषा᳘णाभ्यां त᳘ᳫँ᳘ हन्त्य᳘थ यः᳘ पश्चात्प्रा᳘ञ्चं पद्भ्यां त᳘मात्म᳘ने᳘वैनमा᳘रोहेद्यं वा᳘ ऽआत्म᳘ना पशु᳘मारो᳘हन्ति स᳘ पारयति स न᳘ हिनस्त्युत्तरतो यᳫँ᳭ हि कं᳘ च पशु᳘मारो᳘हन्त्युत्तरत᳘ ऽए᳘वैनमा᳘रोहन्त्यारु᳘ह्याग्निमौ᳘त्तरवेदिकं[[!!]] क᳘र्म कृ᳘त्वा ऽऽत्म᳘न्नग्निं᳘ गृह्णीत ऽआत्म᳘न्नग्निं᳘ गृहीत्वा᳘ सत्यᳫँ᳭ सा᳘म गायति पुष्करपर्णमु᳘पदधाति तस्यातः[[!!]]॥

मूलम् - श्रीधरादि

(न्ता ऽथा᳘) अथा᳘तो ऽधिरो᳘हणस्यैव[[!!]]॥
तᳫँ᳭ है᳘के पुर᳘स्तात्प्रत्य᳘ञ्चम᳘धिरोहन्ति पश्चा᳘द्वा प्रा᳘ञ्चं न त᳘था कुर्यात्पशु᳘रेष य᳘दग्निर्यो वै᳘ पशुं᳘ पुर᳘स्तात्प्रत्य᳘ञ्चमधिरो᳘हति व्विषा᳘णाभ्यां त᳘ᳫँ᳘ हन्त्य᳘थ यः᳘ पश्चात्प्रा᳘ञ्चं पद्भ्यां त᳘मात्म᳘ने᳘वैनमा᳘रोहेद्यं वा᳘ ऽआत्म᳘ना पशु᳘मारो᳘हन्ति स᳘ पारयति स न᳘ हिनस्त्युत्तरतो यᳫँ᳭ हि कं᳘ च पशु᳘मारो᳘हन्त्युत्तरत᳘ ऽए᳘वैनमा᳘रोहन्त्यारु᳘ह्याग्निमौ᳘त्तरवेदिकं[[!!]] क᳘र्म कृ᳘त्वा ऽऽत्म᳘न्नग्निं᳘ गृह्णीत ऽआत्म᳘न्नग्निं᳘ गृहीत्वा᳘ सत्यᳫँ᳭ सा᳘म गायति पुष्करपर्णमु᳘पदधाति तस्यातः[[!!]]॥

मूलम् - Weber

अथा᳘तो ऽधिरो᳘हणस्यैव᳟॥
तᳫं है᳘के पुर᳘स्तात्प्रत्य᳘ञ्चम᳘धिरोहन्ति पश्चा᳘द्वा प्रा᳘ञ्चं न त᳘था कुर्यात्पशु᳘रेष य᳘दग्निर्यो वै᳘ पशु᳘म् पुर᳘स्तात्प्रत्य᳘ञ्चमधिरो᳘हति विषा᳘णाभ्यां त᳘ᳫं᳘ हन्त्य᳘थ यः᳘ पश्चात्प्रा᳘ञ्चम् पद्भ्यां त᳘मात्म᳘नेॗवैनमा᳘रोहेद्यं वा᳘ आत्म᳘ना पशु᳘मारो᳘हन्ति स᳘ पारयति स न᳘ हिनस्त्युत्तरतो यᳫं हि कं᳘ च पशु᳘मारोह᳘न्त्युत्तरत᳘ एॗवैनम्मा᳘रोहन्त्यारु᳘ह्याग्निमौ᳘त्तरवेदिकं क᳘र्म कृॗत्वात्म᳘न्नग्निं᳘ गृह्णीत आत्मन्नग्निं᳘ गृहीत्वा᳘ सत्यᳫं सा᳘म गायति पुष्करपर्णमु᳘पदधाति तस्या᳘तः॥

मूलम् - विस्वरम्

अथातो ऽधिरोहणस्यैव । तं हैके पुरस्तात्प्रत्यञ्चमधिरोहन्ति । पश्चाद्वा प्राञ्चम् । न तथा कुर्यात् । पशुरेषः- यदग्निः । यो वै पशुं पुरस्तात्प्रत्यञ्चमधिरोहति- विषाणाभ्यां तं हन्ति । अथ यः पश्चात्प्राञ्चं- पद्भ्यां तम् । आत्मनैवैनमारोहेत् । यं वा ऽआत्मना पशुमारोहन्ति- स पारयति । स न हिनस्ति । उत्तरतः । यं हि कं च पशुमारोहन्ति- उत्तरत एवैनमारोहन्ति । आरुह्याग्निमौत्तरवेदिकं कर्म कृत्वा, आत्मन्नग्निं गृह्णीते । आत्मन्नग्निं गृहीत्वा सत्यं साम गायति । पुष्करपर्णमुपदधाति । तस्यातः ॥ १७ ॥

सायणः

अग्निक्षेत्रस्याधिरोहणे प्रकारविशेषं विधित्सुः 19 प्रस्तौति- अथात इति । यतो ऽध्वर्युणा आहुतिप्रदानसमये ऽग्निक्षेत्रस्याधिरोहणमपेक्षितम्, अतः कारणाद् ‘अथ’ अनन्तरम् ‘अधिरोहणस्यैव’ अधिरुपर्यर्थः । अग्निक्षेत्रस्योपरि पादनिधानलक्षणं क्रमणमधिरोहणं तस्यैव विचारः क्रियत इति शेषः । तत्रैकीयं मतमुपन्यस्यति- तँ हैक इति । पुरस्तात्प्रत्यञ्चमिति । पूर्वभागे ‘प्रति’- मुखमञ्चन्तम्, आत्माभिमुख्येन स्थितमग्निं मुखप्रदेशे ‘अधिरोहन्ति’ इत्येकः पक्षः । ‘पश्चाद्वा’ इति पक्षान्तरम् । पश्चाद्भागे पुच्छभागे ‘प्राञ्चम्’ प्रकर्षेणाञ्चन्तमनभिमुखमग्निमारोहन्तीत्यर्थः । ‘न तथा’ ‘कुर्यात्’ इत्येतस्य पक्षद्वयस्य निषेधः । पक्षद्वये ऽपि दोषमाह- पशुरेष इति । ‘अग्निः’ इति ‘यद्’ अस्ति स पशुरूपः, ‘यः’ खलु ‘पशुं पुरस्तात्’ पूर्वभागे ‘प्रति’-मुखम् ‘अञ्चन्तम्’ अधिरोहति, तं पशुः ‘विषाणाभ्याम्’ शृङ्गाभ्याम् ‘हन्ति’ । ‘अथ’ एतद्दोषपरिहाराय ‘यः’ पश्चाद्भागे ‘प्राञ्चम्’ प्रकर्षेणाञ्चन्तम् ‘अधिरोहति’ ‘तम्’ अनभिमुखं सन्तं पशुमारोहन्तं पुरुषं स पशुः ‘पद्भ्याम्’ पाश्चात्त्यपादाभ्यामाहन्ति । यद्येवं पूर्वपश्चिमभागयोरुभयत्राप्यारोहणे दोषः, कथं तर्हि तदारोहणं कर्त्तव्यमिति तत्राह- आत्मनैवेति । शिरःप्रदेशं पादप्रदेशं च विहाय ‘आत्मना’आत्मभागेन मध्यप्रदेशेनैव ‘एनम्’ अध्वर्युः ‘आरोहेत्’ लौकिकस्यापि पशोर्मध्यदेहेनैवारोहणं यतो दृश्यत इत्याह- यं वा इति । ‘यम्’ खलु ‘पशुम्’ अश्वादिकम् ‘आत्मना’ शिरःपुच्छदेशौ विहाय मध्यदेशेन ‘आरोहन्ति,’ ‘सः’ पशुस्तान् ‘पारयति’ पारं गन्तव्यावधिं प्रापयति; ‘न’ च ‘हिनस्ति’ आरूढं पुरुषं न व्यथयति । एवमग्नेरप्यधिरोहणमात्मभागे कर्त्तव्यमिति विहितम्; तत्राप्युत्तरतः कर्त्तव्यमिति विधत्ते- उत्तरत इति । पुच्छस्योत्तरभागे उत्तरपक्षस्य च सन्धौ तदधिरोहणं कर्त्तव्यम् । लोकप्रसिद्धिरप्येवमेवेत्याह- यं हि कञ्चेति । ‘यम्’ ‘कम्’ अपि अश्वादिलक्षणम् ‘पशुमारोहन्ति’ लौकिकाः ‘उत्तरतः’ वामभागतः ‘एवैनमारोहन्ति’ । आरोहणानन्तरं प्राकृतवैकृतपदार्थानामनुष्ठाने क्रमविशेषमनुक्रामति- आरुह्याग्निमिति । आरोहणानन्तरम् ‘औत्तरवेदिकम्’ उत्तरवेदिसंस्काररूपं यत् कर्मजातमस्ति, तत् ‘कृत्वा’ इत्यर्थः । तच्च कात्यायनेन विशदमुक्तम्- “पशुवत्, उत्तरवेदिप्रोक्षणाद्यासम्भारनिवपनात्कृत्वा”- (का. श्रौ. सू. १७ । ७० । ७१) इति । तदनन्तरम् ‘आत्मन्’ अध्वर्युः स्वात्मनि स्वकीयमग्निं ‘गृह्णीते’ यथा बहिश्चित्याग्निप्रदेशे न निष्क्रामति, तथा “मयि गृह्णामि” इति- (वा. सं. १३ । १) मन्त्रजपेन स्वात्मनि धारयेदित्यर्थः । तदुक्तं कात्यायनेन- “उत्तरवेदिमपरेण तिष्ठन् यजमानो मयि गृह्णामीति जपति”- (का. श्रौ. सू. १७ । ७१) । अग्निग्रहणानन्तरं यत् ‘सत्यं साम’ इति प्रसिद्धं सामवेदे, तद्यजमानो गायेत् 20 । पुष्करपर्णस्योपधानं 21 विधत्ते- पुष्करपर्णमुपदधातीति । तस्यात इति । ‘तस्य’ पुष्करपर्णोपधानस्य ‘अतः’ अस्माद् ब्राह्मणादुत्तरस्मिन् ब्राह्मणे (श. प. ७ । ४ । १ । ७)- “योनिर्वै पुष्करपर्णम्”- इत्यादिना वाक्यशेषेण स्तुतिः करिष्यत इत्यर्थः ॥ १७ ॥

Eggeling
  1. Now, then, as to the mounting 22 (of the altar). Now some mount it from the front (east) towards the back, or from the back towards the front: let him not do so; for that Agni (the fire-altar) is an animal; and if one mounts an animal (ox) from the front towards the back, it strikes him with its horns; and if he mounts it from the back towards the front, it does so with its feet. Let him mount it only by the middle body 23; for the animal which people mount by the (middle) body, carries them forward, and does not hurt them. From the left (north) side (he should mount it), for any animal which people mount they mount from the left side. By mounting the (body of the) altar from the left side, and performing the work connected with the Uttara-vedi, he takes hold of Agni in the (middle) body (or, into himself); and having taken Agni into his own self, he sings the ’true hymn.’ He puts a lotus-leaf on (the altar): thereof further on.

१८

विश्वास-प्रस्तुतिः

(तो᳘ ऽथै) अ᳘थैत᳘ᳫँ᳘ साये᳘ भूते᳘ ऽश्वं प᳘रिणयन्ति॥
(न्त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रमकुर्वन्नमु᳘मे᳘वादित्य᳘मसौ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्वस्त᳘थै᳘वास्मा ऽअय᳘मेतं व्व᳘ज्रमभिगोप्ता᳘रं करोति॥

मूलम् - श्रीधरादि

(तो᳘ ऽथै) अ᳘थैत᳘ᳫँ᳘ साये᳘ भूते᳘ ऽश्वं प᳘रिणयन्ति॥
(न्त्ये) एतद्वै᳘ देवा᳘ ऽअबिभयुर्यद्वै᳘ न ऽइम᳘मिह र᳘क्षाᳫँ᳭सि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रमकुर्वन्नमु᳘मे᳘वादित्य᳘मसौ वा᳘ ऽआदित्य᳘ ऽएषो᳘ ऽश्वस्त᳘थै᳘वास्मा ऽअय᳘मेतं व्व᳘ज्रमभिगोप्ता᳘रं करोति॥

मूलम् - Weber

अ᳘थैत᳘ᳫं᳘ साये᳘ भूते᳘ ऽश्वम् प᳘रिणयन्ति॥
एतद्व᳘ देवा᳘ अबिभयुर्यद्वै᳘ न इम᳘मिह र᳘क्षांसि नाष्ट्रा न᳘ हन्युरि᳘ति त᳘स्मा एतं व᳘ज्रमभिगोप्ता᳘रमकुर्वन्नमु᳘मेॗवादित्य᳘मसौ वा᳘ आदि᳘त्य एषो᳘ ऽश्वस्त᳘थैॗवास्मा अय᳘मेतं व᳘ज्रमभिगोप्ता᳘रं करोति॥

मूलम् - विस्वरम्

अथैतं साये भूते ऽश्वं परिणयन्ति । एतद्वै देवा अबिभयुः । यद्वै न इममिह रक्षांसि नाष्ट्रा न हन्युरिति । तस्मा ऽएतं वज्रमभिगोप्तारमकुर्वन्- अमुमेवादित्यम् । असौ वा ऽआदित्य एषो ऽश्वः । तथैवास्मा ऽअयमेतं वज्रमभिगोप्तारं करोति ॥ १८ ॥

सायणः

सायंकाले कर्त्तव्यं विधत्ते- अथैतमिति । ‘अथ’ पुष्करपर्णोपधानानन्तरम् ‘एतम्’ ‘अश्वम्’ ‘साये भूते’ अह्नो ऽवसाने जाते सति ‘परिणयन्ति’ अग्निक्षेत्रं परित आवर्त्तयन्ति, “षो ऽन्तकर्मणि”- (धा. पा. दि. प. ४१ ।) इत्यस्मात् (पा. सू. ३ । १ । १४१) णप्रत्ययतः सायशब्दः । अथैतदश्वस्य परितो नयनं यज्ञविघातकरक्षोनिमित्ताद्भयाद्रक्षणहेतुत्वेन स्तौति- एतद्वै देवा इति । एतं वज्रमिति । अश्वात्मकं वज्रमित्यर्थः । ‘अभिगोप्तारम्’ अभितः सर्वासु दिक्षु रक्षितारम् । अमुमेवादित्यमिति । अमुष्मिन्नाकाशे दृश्यमानम् ‘आदित्यम्’ आदित्यात्मकमश्वम् । अश्वस्य आदित्यात्मकता प्रागुक्ता (श. प. ७ । ३ । २ । १०) । इदानीमप्याह- ‘असौ वा आदित्यः’ इति । तथैवास्मा इति । यथा सूर्यो राक्षसाद्यज्ञस्याभिगोप्ता तेनैव प्रकारेणायमध्वर्युः ‘अस्मै’ चेष्यमाणायाग्नये ‘एतम्’ अश्वात्मकम् ‘वज्रम्’ सिद्धमन्यत् ॥ १८ ॥

Eggeling
  1. Now that horse they lead about when evening is closing in; for at that time the gods were afraid lest the Rakshas, the fiends, should there smite that (Agni, or altar) of theirs. They made that thunderbolt, to wit, yonder sun, his protector, for that horse is yonder sun; and in like manner does this one now make that thunderbolt his (Agni’s) protector.

१९

विश्वास-प्रस्तुतिः

तं वा ऽउ᳘पास्तमयमादित्य᳘स्य प᳘रिणयति॥
(त्ये) एष वा᳘ ऽअस्य प्रत्य᳘क्षं दि᳘वा गोप्ता᳘ भवति रात्रिसाचयान्यु[[!!]] वै र᳘क्षाᳫँ᳭सि रा᳘त्र्या ऽए᳘वास्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रं करोति सर्व्व᳘तः प᳘रिणयति सर्व्व᳘त ऽए᳘वास्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रं करोति त्रिष्कृ᳘त्वः प᳘रिणयति त्रिव्वृ᳘तमे᳘वास्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रं करोत्य᳘थैनमु᳘दञ्चं प्रा᳘ञ्चं प्र᳘सृजति त᳘स्योक्तो ब᳘न्धुर᳘थ स पु᳘नर्विप᳘ल्ययते त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - श्रीधरादि

तं वा ऽउ᳘पास्तमयमादित्य᳘स्य प᳘रिणयति॥
(त्ये) एष वा᳘ ऽअस्य प्रत्य᳘क्षं दि᳘वा गोप्ता᳘ भवति रात्रिसाचयान्यु[[!!]] वै र᳘क्षाᳫँ᳭सि रा᳘त्र्या ऽए᳘वास्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रं करोति सर्व्व᳘तः प᳘रिणयति सर्व्व᳘त ऽए᳘वास्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रं करोति त्रिष्कृ᳘त्वः प᳘रिणयति त्रिव्वृ᳘तमे᳘वास्मा ऽएतं व्व᳘ज्रमभिगोप्ता᳘रं करोत्य᳘थैनमु᳘दञ्चं प्रा᳘ञ्चं प्र᳘सृजति त᳘स्योक्तो ब᳘न्धुर᳘थ स पु᳘नर्विप᳘ल्ययते त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - Weber

तं वा उ᳘पास्तमयमादित्य᳘स्य प᳘रिणयति॥
एष वा᳘ अस्य प्रत्य᳘क्षं दि᳘वा गोप्ता᳘ भवति रात्रिसाचया᳘न्यु वै र᳘क्षांसि रा᳘त्र्या एॗवास्मा एतं व᳘ज्रमभिगोप्ता᳘रं करोति सर्व᳘तः प᳘रिणयति सर्व᳘त एॗवास्मा एतं व᳘ज्रमभिगोप्ता᳘रं करोति त्रिष्कृ᳘त्वः प᳘रिणयति त्रिवृ᳘तमेॗवास्मा एतं व᳘ज्रमभिगोप्ता᳘रं करोत्य᳘थैनमु᳘दञ्चम् प्रा᳘ञ्चम् प्र᳘सृजति त᳘स्योक्तो ब᳘न्धुर᳘थ स पु᳘नर्विप᳘ल्ययते त᳘स्योप᳘रि ब᳘न्धुः॥

मूलम् - विस्वरम्

तं वा उपास्तमयमादित्यस्य परिणयति । एष वा अस्य प्रत्यक्षं दिवा गोप्ता भवति । रात्रिसाचयान्यु वै रक्षांसि । रात्र्या एवास्मा ऽएतं वज्रमभिगोप्तारं करोति । सर्वतः परिणयति । सर्वत एवास्मा ऽएतं वज्रमभिगोप्तारं करोति । त्रिष्कृत्वः परिणयति । त्रिवृतमेवास्मा ऽएतं वज्रमभिगोप्तारं करोति । अथैनमुदञ्चं प्राञ्चं प्रसृजति, तस्योक्तो बन्धुः । अथ स पुनर्विपल्ययते- तस्योपरि बन्धुः ॥ १९ ॥

सायणः

सायङ्काले ऽप्यस्तमयात्प्रागेवाश्वपरिणयनस्य कर्त्तव्यतामाह- तं वा इति । ‘आदित्यस्यास्तमयमुप’ अस्तमयस्य समीपे आदित्ये विद्यमाने सत्येवेति यावत् । एष वा अस्येत्यादि । ‘एषः’ खलु आदित्यः ‘अस्य’ चीयमानस्याग्नेः ‘दिवा’ अह्नि ‘प्रत्यक्षम्’ ‘गोप्ता भवति’ । रात्रिं सचन्ते समवयन्तीति ‘रात्रिसाचयानि’ रात्रौ सञ्चरणशीलानि खलु ‘रक्षांसि’ तादृश्याः ‘रात्र्याः’ ‘एव’ सकाशाद् ‘अस्मै’ चित्याग्नये ‘एतम्’ अश्वात्मकं ‘वज्रम्’ परोरजआदित्यात्मकम् अभितो रक्षितारं ‘करोति’ । परिणयतीति परिशब्देन सूचितमर्थं स्तोतुमाविष्करोति- सर्वत इति । ‘सर्वतः’ सर्वासु दिक्षु । परिणयनक्रियायास्त्रिरावृत्तिं विधाय स्तौति- त्रिष्कृत्व इति । त्रिवृतमेवास्मा इति । ‘त्रिवृतम्’ त्रिगुणितम् । अथैनमुदञ्चमित्यादि । ‘अथ’ त्रिष्कृत्वः- परिणयनानन्तरम् ‘एनम्’ अश्वं ‘प्राञ्चं’ ‘उदञ्चम्’ विसृजेत् । तस्य च स्तावको वाक्यशेषः प्राक् समाम्नात इत्यर्थः । तस्याश्वस्य पुनः प्रयोगं विधत्ते- अथ स पुनरिति । ‘सः’ अश्वः ‘पुनः’ ‘विपल्ययते’ विपरिवर्त्तते, उपचारकाले कर्मणो ऽङ्गभावं प्रतिपद्यत इत्यर्थः । “अय गतौ”- (धा. पा. भ्वा. आ. ४७६) इत्यस्माल्लिट् । “उपसर्गस्यायतौ"- इति (पा. सू. ८ । २ । १९) लत्वम् । तस्याश्वपर्यावर्त्तनस्योपरिष्टात् प्रयोजनमभिधास्यत इत्यर्थः ॥ १९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे तृतीया ऽध्याये द्वितीयं ब्राह्मणम् ॥ (७-३-२) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये सप्तमकाण्डे तृतीयो ऽध्यायः समाप्तः ॥ ७-३ ॥

Eggeling
  1. He leads it about towards the setting of the sun; for he (the sun) is manifestly his protector by day; and the Rakshas are the associates of the

night: for the night he thus makes that thunderbolt his protector. He leads it about on every side: on every side he thus makes that thunderbolt his protector. Thrice he leads it about: he thus makes that thunderbolt his (Agni’s) threefold protector. He then lets it loose towards north-west: the purport of this has been explained. It afterwards returns (to the sacrificial ground): the purport of this (will be explained) further on.


  1. 355:2 See part ii, p. 104. ↩︎

  2. आज्ये न्यज्य कुशाग्राणि तूष्णीं प्रोक्षति । का. श्रौ. सू. १७ । ६४ । ↩︎

  3. 356:1 Literally, for not surmounting. ↩︎

  4. 356:2 See part i, p. 192, note 1. ↩︎

  5. इतरासां च । स्वयमातृण्णामत्या च । का. श्रौ. सू. १७ । ६२-६३ । ↩︎

  6. 356:3 On the leading forward of the fire, and laying it down on the foot-print of a horse, see II, 1, 4, 23 seq. ↩︎

  7. 356:4 According to Kāty. XVII, 3, 18-19 some ritualists would seem to put the (yajushmatī) bricks of all the layers on the skin. . But perhaps this is merely a wrong interpretation of this passage of the Brāhmaṇa; though the three ’naturally-perforated’ bricks are probably placed together. ↩︎

  8. 357:1 The Adhvaryu’s attendants take up the ox-skin with the bricks for the first layer lying on it. ↩︎

  9. अग्निभ्यः प्रह्रियमाणेभ्यो ऽनुवाचयति । का. श्रौ. सू. १७ । ६५ । ↩︎

  10. 358:1 See VII, 1, 1, 25. ↩︎

  11. 358:2 See p. 249, note 3. ↩︎

  12. श्वेते ऽश्वे पुरस्तात्तिष्ठति । का. श्रौ. सू. १७ । ६४ । ↩︎

  13. त्रिरुक्तायामश्वपूर्व्वां चितिँ हृत्वा पुच्छाद्दक्षिणां निदधाति । का. श्रौ. सू. १७ । ६६ । ↩︎

  14. प्रत्यंचमागतं चितिमवघ्राप्य । का. श्रौ. सू. १७ । ७० । ↩︎

  15. 359:1 According to Sāyaṇa, it is by his rays (identified with the vital airs of living beings) that the sun kisses (or puts himself in contact with) the creatures (and animates them); so that every one feels that he is ’labdhātmaka,’ or has obtained ‘a self,’ or life and being. ↩︎

  16. 360:1 That is, he passes a thread through them (as through pearls), fastened to himself. Regarding this Thread, or spiritual bond, holding together all sentient existences of the universe, see XIV, 6, 7, 2 seq. ↩︎

  17. 360:2 That is, according to Sāyaṇa, a reddish mouth. ↩︎

  18. श्वेताभावे ऽश्वेते ऽश्वाभावे ऽनुडुहि । का. श्रौ. सू. १७ । ६४ । ↩︎

  19. तीर्थेनाश्वमारोहयत्युत्तरपक्षमपरेण । पुरस्तात्पश्चाद्धैके । अनुयजुःकृष्टं परिणयत्युत्तरतः प्रथमम् । का. श्रौ. सू. १७ । ६७-६९ । ↩︎

  20. सत्यसाम गायति । का० श्रौ० सू० १० । ७२ । ↩︎

  21. पुष्करपर्णमुपदधाति स्तंबे पूर्व्ववत् । का. श्रौ. सू. १७ । ७३ । ↩︎

  22. 361:1 That is, as to the way in which the priests and sacrificer are to step on the body of the altar-site, when coming from outside. ↩︎

  23. 361:2 That is to say, from sideways as in getting on the saddle of a horse. ↩︎