०१
विश्वास-प्रस्तुतिः
चितो गा᳘र्हपत्यो भ᳘वति॥
(त्य᳘) अ᳘चित ऽआहवनीयो᳘ ऽथ रा᳘जानं क्रीणात्ययं वै᳘ लोको गा᳘र्हपत्यो द्यौ᳘राहवनीयो᳘ ऽथ᳘ यो ऽयं᳘ व्वायुः प᳘वत ऽएष सो᳘म ऽएतं त᳘दिमौ᳘ लोकाव᳘न्तरेण दधाति त᳘स्मादेष᳘ इमौ᳘ लोकाव᳘न्तरेण पवते॥
मूलम् - श्रीधरादि
चितो गा᳘र्हपत्यो भ᳘वति॥
(त्य᳘) अ᳘चित ऽआहवनीयो᳘ ऽथ रा᳘जानं क्रीणात्ययं वै᳘ लोको गा᳘र्हपत्यो द्यौ᳘राहवनीयो᳘ ऽथ᳘ यो ऽयं᳘ व्वायुः प᳘वत ऽएष सो᳘म ऽएतं त᳘दिमौ᳘ लोकाव᳘न्तरेण दधाति त᳘स्मादेष᳘ इमौ᳘ लोकाव᳘न्तरेण पवते॥
मूलम् - Weber
चितो गा᳘र्हपत्यो भवति॥
अ᳘चित आहवनीयो᳘ ऽथ रा᳘जानं क्रीणात्ययं वै᳘ लोको गा᳘र्हपत्यो द्यौ᳘राहवनीयो᳘ ऽथॗ यो ऽयं᳘ वायुः प᳘वत एष सो᳘म एतं त᳘दिमौ᳘ लोकाव᳘न्तरेण दधाति त᳘स्मादेष᳘ इमौ᳘ लोकाव᳘न्तरेण पवते॥
मूलम् - विस्वरम्
सोमक्रयणम् ।
चितो गार्हपत्यो भवति- अचित आहवनीयः- अथ राजानं क्रीणाति । अयं वै लोको गार्हपत्योद्यौराहवनीयः । अथ यो ऽयं वायुः पवते- एष सोमः । एतं तदिमौ लोकावन्तरेण दधाति । तस्मादेष इमौ लोकावन्तरेण पवते ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अथ साग्निचित्ये क्रतौ सोमक्रयणस्य कालं विधाय स्तौति- चितो गार्हपत्य इति । गार्हपत्याहवनीयचयनयोर्मध्यकाले चोदकप्राप्तः सोमक्रयः कर्त्तव्य इत्यर्थः । सोमस्य गार्हपत्याहवनीययोर्मध्ये ऽवस्थानं लोकत्रयरूपेणोपपादयति- अयं वै लोक इति । भूलोकस्वर्लोकात्मकौ गार्हपत्याहवनीयौ । ‘यो ऽयं वायुः पवते,’ ‘एषः’ एव क्रीयमाणः- ‘सोमः’; तत्क्रयस्य गार्हपत्यचयनादूर्द्ध्वमाहवनीयचयनात् पूर्वमेतस्मिन् समये ऽनुष्ठानात् ‘एतं’ सोमात्मकं वायुम् ‘इमौ लोकावन्तरेण’ अनयोर्लोकयोर्मध्ये ‘दधाति’ स्थापयति । “अन्तरान्तरेण युक्ते” (पा. सू. २ । ३ । ४ ।) इति द्वितीया । यस्मादेव वायुसंस्तुतः सोमो मध्ये क्रीयते, तस्मादेव दृश्यमानो ‘वायुः’ ‘इमौ लोकौ’ भूलोकस्वर्लोकौ ‘अन्तरेण’ ‘पवते’ परिवर्त्तते ॥ १ ॥
Eggeling
- Built is the Gārhapatya, unbuilt the Āhavanīya; he then buys the king (Soma): the Gārhapatya being this (terrestrial) world, the Āhavanīya the sky, and Soma he that blows yonder, he thus places him (Vāyu, the wind) between these two worlds; and hence he blows between these two worlds.
०२
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ चिते गा᳘र्हपत्ये᳘॥
(त्ये᳘ ऽचि) अचित ऽआहवनीये᳘ ऽथ[[!!]] रा᳘जानं क्रीणा᳘त्यात्मा वा᳘ ऽअग्निः᳘ प्राणः सो᳘म ऽआत्मंस्त᳘त्प्राणं᳘ मध्यतो᳘ दधाति त᳘स्मादय᳘मात्म᳘न्प्राणो᳘ मध्यतः॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ चिते गा᳘र्हपत्ये᳘॥
(त्ये᳘ ऽचि) अचित ऽआहवनीये᳘ ऽथ[[!!]] रा᳘जानं क्रीणा᳘त्यात्मा वा᳘ ऽअग्निः᳘ प्राणः सो᳘म ऽआत्मंस्त᳘त्प्राणं᳘ मध्यतो᳘ दधाति त᳘स्मादय᳘मात्म᳘न्प्राणो᳘ मध्यतः॥
मूलम् - Weber
य᳘द्वेव᳘ चिते गा᳘र्हपत्ये॥
अ᳘चित आहवनीये᳘ ऽथ रा᳘जानं क्रीणा᳘त्यात्मा वा᳘ अग्निः᳘ प्राणः सो᳘म आत्मंस्त᳘त्प्राण᳘म् मध्यतो᳘ दधाति त᳘स्मादय᳘मात्म᳘न्प्राणो᳘ मध्यतः॥
मूलम् - विस्वरम्
यद्वेव चिते गार्हपत्ये- अचित ऽआहवनीये- अथ राजानं क्रीणाति । आत्मा वा ऽअग्निः, प्राणः सोमः । आत्मंस्तत्प्राणं मध्यतो दधाति । तस्मादयमात्मन्प्राणो मध्यतः ॥ २ ॥
सायणः
इत्थं सोमक्रयस्य मध्ये ऽनुष्ठानमधिलोकं स्तुत्वा अध्यात्ममपि स्तौति- यद्वेवेति । आत्मा वा अग्निरिति । गार्हपत्याहवनीयचित्यात्मकः ‘अग्निः’ ‘आत्मा’ विस्रस्तावयवस्य प्रजापतेः शरीरम् । तन्मध्यवर्ती प्राणवायुः ‘सोमः’; अतस्तस्य गार्हपत्याहवनीयचयनयोर्मध्ये क्रीयमाणत्वात् ‘आत्मन्’ आत्मनि शरीरे ‘प्राणमेव मध्यतो दधाति’ धारयति । ‘तस्मात्’ एव कारणात् पञ्चवृत्त्यात्मकः ‘अयं प्राणः’ सर्वप्राणिनाम् ‘आत्मन्’ आत्मनि शरीरे ‘मध्यतः’ दृश्यते ॥ २ ॥
Eggeling
- And as to why he buys the king when the Gārhapatya is built, and the Āhavanīya unbuilt,–Agni is the body, and Soma the vital air: he thus places the vital air in the middle of the body, and hence that vital air is in the middle of the body.
०३
विश्वास-प्रस्तुतिः
(तो) य᳘द्वेव᳘ चिते गा᳘र्हपत्ये॥
(त्ये᳘ ऽचि) अ᳘चित ऽआहवनीये᳘ ऽथ रा᳘जानं क्रीणा᳘त्यात्मा वा᳘ ऽअग्नी र᳘सः सो᳘म ऽआत्मा᳘नं तद्र᳘सेना᳘नुषजति त᳘स्मादय᳘मान्त᳘मे᳘वात्मा र᳘सेना᳘नुषक्तः॥
मूलम् - श्रीधरादि
(तो) य᳘द्वेव᳘ चिते गा᳘र्हपत्ये॥
(त्ये᳘ ऽचि) अ᳘चित ऽआहवनीये᳘ ऽथ रा᳘जानं क्रीणा᳘त्यात्मा वा᳘ ऽअग्नी र᳘सः सो᳘म ऽआत्मा᳘नं तद्र᳘सेना᳘नुषजति त᳘स्मादय᳘मान्त᳘मे᳘वात्मा र᳘सेना᳘नुषक्तः॥
मूलम् - Weber
य᳘द्वेव᳘ चिते गा᳘र्हपत्ये॥
अ᳘चित आहवनीये᳘ ऽथ रा᳘जानं क्रीणा᳘त्यात्मा वा᳘ अग्नी र᳘सः सो᳘म आत्मा᳘नं तद्र᳘सेना᳘नुषजति त᳘स्मादय᳘मान्त᳘मेॗवात्मा र᳘सेना᳘नुषक्तः॥
मूलम् - विस्वरम्
यदेव चिते गार्हपत्ये- अचित ऽआहवनीये- अथ राजानं क्रीणाति । आत्मा वा ऽअग्नि, रसः सोमः । आत्मानं तद्रसेनानुषजति । तस्मादयमान्तमेवात्मा रसेनानुषक्तः ॥ ३ ॥
सायणः
राजक्रयस्य मध्ये ऽनुष्ठानमनूद्य कृत्स्नशरीरे रसानुषङ्गहेतुत्वेनापि स्तौति- यद्वेवेति । रसः सोम इति । अभिषवादिसंस्कारसंस्कृतो हि सोमः सुत्यादिवसे रसात्मको भवति; शरीरसंस्तुतयोर्गार्हपत्याहवनीयचयनयोर्मध्ये रसात्मकस्य तस्या ऽनुप्रवेशात् ‘आत्मानम्’ शरीरम् आप्यायनहेतुना ‘रसेनानुषजति’ अनुषक्तमनुस्यूतं करोति । ‘तस्माद्’ एव कारणाद् ‘अयमात्मा’ देहः ‘आन्तम्’ शिरःप्रभृति पादपर्यन्तं ‘रसेन’ ‘अनुषक्तः’ व्याप्तो दृश्यते ॥ ३ ॥
Eggeling
- And, again, why he buys the king when the Gārhapatya is built, and the Āhavanīya unbuilt,–Agni is the body, and Soma is the life-sap: he thus supplies the body with life-sap, and hence this body (of ours) is supplied with life-sap from end to end.
०४
विश्वास-प्रस्तुतिः
(क्तो) रा᳘जानं क्रीत्वा᳘ पर्युह्य[[!!]]॥
(ह्या᳘) अ᳘थास्मा ऽआतिथ्य᳘ᳫँ᳘ हविर्नि᳘र्व्वपति त᳘स्य हविष्कृ᳘ता व्वा᳘चं व्वि᳘सृजते᳘ ऽथ वा᳘ ऽएतद्व्य᳘तिषजत्यध्वरकर्म᳘ चाग्निकर्म᳘ च क᳘र्मणः समान᳘तायै समान᳘मिदं क᳘र्मासदि᳘ति॥
मूलम् - श्रीधरादि
(क्तो) रा᳘जानं क्रीत्वा᳘ पर्युह्य[[!!]]॥
(ह्या᳘) अ᳘थास्मा ऽआतिथ्य᳘ᳫँ᳘ हविर्नि᳘र्व्वपति त᳘स्य हविष्कृ᳘ता व्वा᳘चं व्वि᳘सृजते᳘ ऽथ वा᳘ ऽएतद्व्य᳘तिषजत्यध्वरकर्म᳘ चाग्निकर्म᳘ च क᳘र्मणः समान᳘तायै समान᳘मिदं क᳘र्मासदि᳘ति॥
मूलम् - Weber
रा᳘जानं क्रीत्वा᳘ पर्यु᳘ह्य॥
अ᳘थास्मा आतिथ्य᳘ᳫं᳘ हविर्नि᳘र्वपति त᳘स्य हविष्कृ᳘ता वा᳘चं वि᳘सृजते᳘ ऽथ वा᳘ एतद्व्य᳘तिषजत्यध्वरकर्म᳘ चाग्निकर्म᳘ च क᳘र्मणः समान᳘तायै समान᳘मिदं क᳘र्मासदि᳘ति॥
मूलम् - विस्वरम्
सोमातिथ्यम् ।
राजानं क्रीत्वा पर्युह्य- अथास्मा ऽआतिथ्यं हविर्निर्वपति । तस्य हविष्कृता वाचं विसृजते ॥-
सौमिकाग्निकव्यतिषजनम् ।
अथ वा ऽएतद्व्यतिषजति- अध्वरकर्म च, अग्निकर्म च- कर्मणः समानतायै । समानमिदं कर्मासदिति ॥ ४ ॥
सायणः
आतिथ्यहविष्कृदन्ते आहवनीयचितिसंस्कारं विधित्सुः, ततः प्राक्तनं चोदकप्राप्तं प्रयोगजातमनुक्रामति- राजानं क्रीत्वेति । क्रयानन्तरम्, क्रीतस्य तस्य परिवहणं कृत्वा ऽपि अनन्तरम्, ‘अस्मै’ सोमाय ‘आतिथ्यम्’ पूजार्हं ‘हविः’ प्रकृतिवत् ‘निर्वपति’; ‘तस्य’ कर्मणः सम्बन्धिना ‘हविष्कृता’ “हविष्कृदेहि ३”- (वा. सं. १ । १५) इति मन्त्रेण प्राङ्नियमितां ‘वाचम्’ ‘विसृजते’ (श. प. १ । १ । ४ । ११) । अस्मिन् समये आहवनीयचितिसंस्कारं विधित्सुस्तदुपोद्धातत्वेन सौमिकाग्निकयोः कर्मणोः परस्परं व्यतिषङ्गं विधत्ते- अथ वा इति । ‘अथ’ खलु ‘एतद्’ एवं कुर्वन्नध्वर्युः ‘व्यतिषजति’ व्यतिषक्तं परस्परं संसृष्टं करोति । “षञ्ज सङ्गे”- (धा. पा. भ्वा. प. १०१२) इत्यस्माल्लटि “दंशसञ्जस्वञ्जां शपि”- (पा. सू. ६ । ४ । २५ ।) इत्यनुनासिकलोपः । किं तदिति तदाह- अध्वरेति । व्यतिषङ्गस्य प्रयोजनमाह- कर्मण इति । सौमिकाग्निकभेदेन द्विविधस्य कर्मणः ‘समानतायै’ एकीभवनार्थम् । ननु व्यतिषङ्गमात्रात् कथमनयोरैक्यसिद्धिः, तत्राह- समानमिदमिति । ‘इदम्’ अनुष्ठीयमानं सौमिकमाग्निकं च ‘कर्म’ ‘समानम्’ एकम् ‘असद्’ भवेत् ‘इति’ अनेनाभिप्रायेण तदुभयं व्यतिषजति; न खलु व्यतिषङ्गमन्तरेणानयोरैक्यसिद्धिरिति भावः ॥ ४ ॥
Eggeling
- Having bought the king, and driven him about, he then takes out the material for the guest-meal. With the Havishkr̥t of that (ceremony) he releases speech. And in this way 1 he interlinks the performance
of the (Soma) sacrifice and the performance of the fire (altar) for the purpose of unity of performance, thinking, ‘Uniform shall be this performance!’
०५
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ व्यतिष᳘जति॥
(त्या) आत्मा वा᳘ ऽअग्निः᳘ प्रा᳘णो ऽध्वर᳘ ऽआत्मंस्त᳘त्प्राणं᳘ मध्यतो᳘ दधाति त᳘स्मादय᳘मात्म᳘न्प्राणो᳘ मध्यतः[[!!]]॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ व्यतिष᳘जति॥
(त्या) आत्मा वा᳘ ऽअग्निः᳘ प्रा᳘णो ऽध्वर᳘ ऽआत्मंस्त᳘त्प्राणं᳘ मध्यतो᳘ दधाति त᳘स्मादय᳘मात्म᳘न्प्राणो᳘ मध्यतः[[!!]]॥
मूलम् - Weber
य᳘द्वेव᳘ व्यतिष᳘जति॥
आत्मा वा᳘ अग्निः᳘ प्राॗणो ऽध्वर᳘ आत्मंस्त᳘त्प्राण᳘म् मध्यतो᳘ दधाति त᳘स्मादय᳘मात्म᳘न्प्राणो᳘ मध्यतः᳟॥
मूलम् - विस्वरम्
यद्वेव व्यतिषजति । आत्मा वा ऽअग्निः, प्राणो ऽध्वरः । आत्मंस्तत् प्राणं मध्यतो दधाति । तस्मादयमात्मन्प्राणो मध्यतः ॥ ५ ॥
सायणः
एतद्व्यतिषजनमनूद्य स्तौति- यद्वेवेति । प्राणो ऽध्वर इति । ‘अध्वरः’ सोमयागः प्राणस्थानीयः, ‘आत्मन्’ आत्मनि ‘मध्यतः’ मध्ये ‘तत्’ ‘प्राणम्’ स्थापयति । ‘तस्मादयं प्राणः’ शरीरमध्ये, वर्तत इति शेषः । तथा- रसो ऽध्वर इति । ‘अध्वरः’ सोमयागो रसस्थानीयः, सर्वप्रकृतित्वात् । गतमन्यत् । वाग्विसर्जनानन्तरमाहवनीयसमीपदेशगमनं विधत्ते- अथाहवनीयस्यार्द्धमैतीति । अर्द्धशब्दो देशवाची । ‘आहवनीयस्य’ अग्नेः यत् स्थानं कर्षणादिसंस्कारसंस्कृतम्, हविष्कृदाह्वानानन्तरम्, तत् स्थानमागच्छेदित्यर्थः ॥ ५ ॥ ६ ॥
Eggeling
- And, again, why he interlinks them,–Agni (the fire-altar) is the body, and the (Soma) sacrifice is the vital air: he thus places the vital air in the midst of the body, and hence that vital air is in the middle of the body.
०६
विश्वास-प्रस्तुतिः
(तो) य᳘द्वेव᳘ व्यतिष᳘जति॥
(त्या) आत्मा वा᳘ ऽअग्नी र᳘सो ऽध्वर᳘ ऽआत्मा᳘नं तद्र᳘सेना᳘नुषजति त᳘स्मादय᳘मान्त᳘मे᳘वा ऽऽत्मा र᳘सेना᳘नुषक्तो᳘ ऽथाहवनी᳘यस्या᳘र्धमै᳘ति॥
मूलम् - श्रीधरादि
(तो) य᳘द्वेव᳘ व्यतिष᳘जति॥
(त्या) आत्मा वा᳘ ऽअग्नी र᳘सो ऽध्वर᳘ ऽआत्मा᳘नं तद्र᳘सेना᳘नुषजति त᳘स्मादय᳘मान्त᳘मे᳘वा ऽऽत्मा र᳘सेना᳘नुषक्तो᳘ ऽथाहवनी᳘यस्या᳘र्धमै᳘ति॥
मूलम् - Weber
य᳘द्वेव᳘ व्यतिष᳘जति॥
आत्मा वा᳘ अग्नी र᳘सो ऽध्वर᳘ आत्मानं तद्र᳘सेना᳘नुषजति त᳘स्मादय᳘मान्त᳘मेॗवात्मा र᳘सेना᳘नुषक्तो᳘ ऽथाहवनी᳘यस्या᳘र्धमै᳘ति॥
मूलम् - विस्वरम्
यद्वेव व्यतिषजति । आत्मा वा ऽअग्निः, रसो ऽध्वरः । आत्मानं तद्रसेनानुषजति । तस्मादयमान्तमेवात्मा रसेनानुषक्तः । अथाहवनीयस्यार्धमैति ॥ ६ ॥
सायणः
[व्याख्यानं पञ्चमे]
Eggeling
- And, again, why he interlinks them,–Agni is the body, and the (Soma) sacrifice is the vital sap: he thus supplies the body with vital sap, and hence this body is supplied with vital sap from end to end. He then returns to the site of the Āhavanīya.
०७
विश्वास-प्रस्तुतिः
तद्धै᳘के॥
(क ऽ) उभय᳘त्रैव᳘ पलाशशा᳘खया व्व्यु᳘दूहन्त्युभय᳘त्र वै᳘ चिनोती᳘ति न त᳘था कुर्यादवस्य᳘ति वाव गा᳘र्हपत्येनोर्ध्व᳘ ऽए᳘वाहवनी᳘येन रोहति त᳘स्मात्त᳘था न᳘ कुर्यात्॥
मूलम् - श्रीधरादि
तद्धै᳘के॥
(क ऽ) उभय᳘त्रैव᳘ पलाशशा᳘खया व्व्यु᳘दूहन्त्युभय᳘त्र वै᳘ चिनोती᳘ति न त᳘था कुर्यादवस्य᳘ति वाव गा᳘र्हपत्येनोर्ध्व᳘ ऽए᳘वाहवनी᳘येन रोहति त᳘स्मात्त᳘था न᳘ कुर्यात्॥
मूलम् - Weber
तद्धै᳘के॥
उभय᳘त्रैव᳘ पलाशशा᳘खया व्यु᳘दूहन्त्युभय᳘त्र वै᳘ चिनोती᳘ति न त᳘था कुर्यादवस्य᳘ति वाव गा᳘र्हपत्येनोर्ध्व᳘ एॗवाहवनी᳘येन रोहति त᳘स्मात्त᳘था न᳘ कुर्यात्॥
मूलम् - विस्वरम्
तद्धैके- उभयत्रैव पलाशशाखया व्युदूहन्ति । उभयत्र वै चिनोतीति । न तथा कुर्यात् । अवस्यति वाव गार्हपत्येन, ऊर्ध्व एवाहवनीयेन रोहति । तस्मात्तथा न कुर्यात् ॥ ७ ॥
सायणः
गार्हपत्यस्थानवदाहवनीयस्थानस्यापि पलाशशाखया व्युदूहनमेकीयमतेनोपन्यस्य दूषयति- तद्धैक इति । ‘तत्’ तत्र ‘उभयत्रैव’ गार्हपत्ये आहवनीये च ‘एके’ शाखिनः ‘पलाशशाखया’ व्युदूहनं मार्जनं कुर्वन्ति । ‘उभयत्र’ खलु ‘चिनोति’ ‘इति’ तत्र हेतुः । व्युदूहनस्य चयनार्थत्वादाहवनीयचितावपि तत् कर्तव्यमित्यर्थः ॥
तदेतन्निराकरोति- न तथेति । प्रतिज्ञातमर्थमुपपादयति- अवस्यति वावेति । गार्हपत्यचयनेन हि यं प्रदेशमध्यवस्यति । अध्यवसानसमये भूशोधनार्थं व्युदूहनमपेक्षितम्, अथ पुनरारोहणसमये आहवनीयचयनेनाप्यूर्द्ध्वः सन्नारोहति, ‘तस्मात्’ तत् ‘न’ कर्त्तव्यमित्यर्थः ॥ ७ ॥
Eggeling
- Now some sweep with the palāśa branch on both occasions 2, saying, ‘Surely, on both occasions he builds (an altar).’ Let him, however, not do so; for by (building) the Gārhapatya he settles, and by the Āhavanīya he rises upwards: therefore let him not do so.
०८
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ गा᳘र्हपत्य ऽए᳘वोषान्निव᳘पति᳘॥
नाहवनी᳘ये ऽयं वै᳘ लोको गा᳘र्हपत्यः पश᳘व ऽऊ᳘षा ऽअस्मिंस्त᳘ल्लोके᳘ पशू᳘न्दधाति त᳘स्मादि᳘मे ऽस्मिल्ँ᳘लोके᳘ पशवः[[!!]]॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ गा᳘र्हपत्य ऽए᳘वोषान्निव᳘पति᳘॥
नाहवनी᳘ये ऽयं वै᳘ लोको गा᳘र्हपत्यः पश᳘व ऽऊ᳘षा ऽअस्मिंस्त᳘ल्लोके᳘ पशू᳘न्दधाति त᳘स्मादि᳘मे ऽस्मिल्ँ᳘लोके᳘ पशवः[[!!]]॥
मूलम् - Weber
अ᳘थ गा᳘र्हपत्य एॗवोषान्निव᳘पति॥
नाहवनी᳘ये ऽयं वै᳘ लोको गा᳘र्हपत्यः पश᳘व ऊ᳘षा अस्मिंस्त᳘ल्लोके᳘ पशू᳘न्दधाति त᳘स्मादिॗमे ऽस्मिं᳘लोके᳘ पश᳘वः॥
मूलम् - विस्वरम्
अथ गार्हपत्य ऽएवोषान्निवपति, नाहवनीये । अयं वै लोको गार्हपत्यः, पशव ऊषाः । अस्मिंस्तल्लोके पशून्दधाति । तस्मादिमे ऽस्मिंल्लोके पशवः ॥ ८ ॥
सायणः
गार्हपत्यचितिवत् प्रसक्तमूषाणां निवपनमपि तत्रैव कर्त्तव्यमिति निगमयति-अथ गार्हपत्य एवेति । एवकारव्यवच्छेद्यमाह- नाहवनीय इति । अत्र हेतुमाह- अयं वै लोक इति । भूरिति व्याहृत्या आहितत्वाद् गार्हपत्यो भूलोकात्मकः; “भूर्भुव इत्येतावतैव गार्हपत्यमादधाति” इति हि ब्राह्मणम् (श. प. २ । १ । ४ । १४) ऊषरप्रदेशस्य पशुभिर्लिह्यमानत्वादूषाणां पश्वात्मकत्वम् ॥ ८ ॥
Eggeling
- And only on the Gārhapatya (site) he throws saline soil, not on the Āhavanīya; for the Gārhapatya is this (terrestrial) world, and saline soil means cattle: he thus bestows cattle on this world, whence there are cattle in this world.
०९
विश्वास-प्रस्तुतिः
(वो᳘ ऽथा) अ᳘थाहवनी᳘य ऽएव᳘ पुष्करपर्ण᳘मुपद᳘धाति॥
न गा᳘र्हपत्य ऽआ᳘पो वै᳘ पुष्करपर्णं द्यौ᳘राहवनी᳘यो दिवि त᳘दपो᳘ दधात्युभय᳘त्र सि᳘कता नि᳘वपति रे᳘तो वै सि᳘कता ऽउभय᳘त्र वै व्वि᳘क्रियते ऽस्माद्रे᳘तसो᳘ ऽधि वि᳘क्रियाता ऽइ᳘ति॥
मूलम् - श्रीधरादि
(वो᳘ ऽथा) अ᳘थाहवनी᳘य ऽएव᳘ पुष्करपर्ण᳘मुपद᳘धाति॥
न गा᳘र्हपत्य ऽआ᳘पो वै᳘ पुष्करपर्णं द्यौ᳘राहवनी᳘यो दिवि त᳘दपो᳘ दधात्युभय᳘त्र सि᳘कता नि᳘वपति रे᳘तो वै सि᳘कता ऽउभय᳘त्र वै व्वि᳘क्रियते ऽस्माद्रे᳘तसो᳘ ऽधि वि᳘क्रियाता ऽइ᳘ति॥
मूलम् - Weber
अ᳘थाहवनी᳘य एव᳘ पुष्करपर्ण᳘मुपद᳘धाति॥
न गा᳘र्हपत्य आ᳘पो वै᳘ पुष्करपर्णं द्यौ᳘राहवनी᳘यो दिवि त᳘दपो᳘ दधात्युभय᳘त्र सि᳘कता नि᳘वपति रे᳘तो वै सि᳘कता उभय᳘त्र वै वि᳘क्रियते त᳘स्माद्रे᳘तसो᳘ ऽधि वि᳘क्रियाता इ᳘ति॥
मूलम् - विस्वरम्
अथाहवनीय एव पुष्करपर्णमुपदधाति, न गार्हपत्ये । आपो वै पुष्करपर्णम्, द्यौराहवनीयः । दिवि तदपो दधाति । उभयत्र सिकता निवपति । रेतो वै सिकताः । उभयत्र वै विक्रियते । अस्माद्रेतसो ऽधि विक्रियाता ऽइति ॥ ९ ॥
सायणः
अथाहवनीये प्रतिनियतं विधास्यमानं पुष्करपर्णोपधानमनूद्य प्रतिनियतफलप्रतिपादनेन स्तौति- अथाहवनीय एवेति । अवधारणफलमाह- न गार्हपत्य इति । अत्र हेतुमाह- आपो वा इति । पुष्करपर्णस्याप्सु जननात्तदबात्मकमित्यर्थः । द्यौराहवनीय इति । सुवरिति- व्याहृत्याहितत्वाद् आहवनीयो द्युलोकात्मकः । ‘तत्’ तत्र पुष्करपर्णोपधानेन द्युलोके ‘अपः’ उदकानि वृष्ट्युपादानत्वेन स्थापयतीत्यर्थः ॥
गार्हपत्यवदाहवनीये ऽपि सिकतानिवपनं कर्त्तव्यमिति विधत्ते- उभयत्रेति । तदेतदुपपादयति- रेतो वा इति । सितभास्वरत्वादिरूपसाम्यात् सिकतानां रेतस्त्वम्; ‘उभयत्र’ गार्हपत्यस्थान आहवनीयस्थाने च चितिरूपेण चित्यो ऽग्नि; ‘विक्रियते’ विशिष्टरूपवान् क्रियते । विक्रियमाणश्चासौ ‘अस्मात्’ सिकतालक्षणाद् ‘रेतसः’ ‘अधि’ उपरि ‘विक्रियातै’ विक्रियेत, विकृतिं भजेत ‘इति’ अनेनाभिप्रायेण उभयत्र सिकतानां निवपनम् ॥ ९ ॥
Eggeling
- And only on the Āhavanīya (site) he places a lotus leaf, not on the Gārhapatya; for the lotus leaf means water, and the Āhavanīya the sky: he thus places the waters (vapours) in the sky. On both he
scatters sand; for sand means seed, and in both (fire-altars) fashioning (of Agni) takes place: ‘May he be fashioned from out of that seed!’ thus he thinks.
१०
विश्वास-प्रस्तुतिः
ता ना᳘नाम᳘न्त्राभ्यां नि᳘वपति॥
मनुष्यलोको वै गा᳘र्हपत्यो देवलोक᳘ ऽआहवनी᳘यो ना᳘नो वा᳘ ऽएतद्यद्दै᳘वं च मानुषं᳘ च द्रा᳘घीयसा म᳘न्त्रेणा ऽऽहवनी᳘ये निव᳘पति ह्र᳘सीयसा गा᳘र्हपत्ये द्रा᳘घीयो हि᳘ देवायुषᳫँ᳭ ह्र᳘सीयो मनुष्यायुषᳫँ᳭ स पू᳘र्वाः परिश्रि᳘द्भ्यो गा᳘र्हपत्ये सि᳘कता नि᳘वपति रे᳘तो वै सि᳘कता ऽअस्माद्रे᳘तसो᳘ ऽधीमा व्वि᳘क्रियान्ता ऽइ᳘ति॥
मूलम् - श्रीधरादि
ता ना᳘नाम᳘न्त्राभ्यां नि᳘वपति॥
मनुष्यलोको वै गा᳘र्हपत्यो देवलोक᳘ ऽआहवनी᳘यो ना᳘नो वा᳘ ऽएतद्यद्दै᳘वं च मानुषं᳘ च द्रा᳘घीयसा म᳘न्त्रेणा ऽऽहवनी᳘ये निव᳘पति ह्र᳘सीयसा गा᳘र्हपत्ये द्रा᳘घीयो हि᳘ देवायुषᳫँ᳭ ह्र᳘सीयो मनुष्यायुषᳫँ᳭ स पू᳘र्वाः परिश्रि᳘द्भ्यो गा᳘र्हपत्ये सि᳘कता नि᳘वपति रे᳘तो वै सि᳘कता ऽअस्माद्रे᳘तसो᳘ ऽधीमा व्वि᳘क्रियान्ता ऽइ᳘ति॥
मूलम् - Weber
ता ना᳘ना म᳘न्त्राभ्यां नि᳘वपति॥
मनुष्यलोको वै गा᳘र्हपत्यो देवलोक᳘ आहवनी᳘यो ना᳘नो वा᳘ एतद्यद्दै᳘वं च मानुषं᳘ च द्रा᳘घीयसा म᳘न्त्रेणाहवनी᳘ये निव᳘पति ह्र᳘सीयसा गा᳘र्हपत्ये द्रा᳘घीयो हि᳘ देवायुषᳫं ह्र᳘सीयो मनुष्यायुषᳫं स पूर्वाः परिश्रि᳘द्भ्यो गा᳘र्हपत्ये सि᳘कता नि᳘वपति रे᳘तो वै सि᳘कता अस्माद्रे᳘तसो᳘ ऽदीमा वि᳘क्रियान्ता इ᳘ति॥
मूलम् - विस्वरम्
ता नानामन्त्राभ्यां निवपति । मनुष्यलोको वै गार्हपत्यो, देवलोक आहवनीयः । नानो वा ऽएतद्- यद्दैवं च मानुषं च । द्राघीयसा मन्त्रेणाहवनीये निवपति, ह्रसीयसा गार्हपत्ये । द्राघीयो हि देवायुषम्, ह्रसीयो मनुष्यायुषम् । स पूर्वाः परिश्रिद्भ्यो गार्हपत्ये सिकता निवपति । रेतो वै सिकताः । अस्माद्रेतसो ऽधीमा विक्रियान्ता ऽइति ॥ १० ॥
सायणः
उभयत्र मन्त्रभेदं विधाय स्तौति- ता नानामन्त्राभ्यामिति । ‘ताः’ सिकताः भिन्नमन्त्राभ्यामित्यर्थः । “अग्नेर्भस्मासि” इति मन्त्रेण (वा. सं. १२ । ४६) गार्हपत्ये सिकतानिवपनं विहितम् 3 (श. प. ७ । १ । १ । ११), “अग्ने तव श्रवो वयः” (श. प. ७ । ३ । १ । २९) इत्याहवनीये सिकतानिवपनस्य मन्त्रो विधास्यते । एवं नानामन्त्रत्वमनूद्य स्तूयते- गार्हपत्याहवनीययोर्भूलोकस्वर्लोकात्मकत्वं क्रमेण प्रतिपादितम् । नानो वा एतदिति । ‘दैवम्’ देवसम्बन्धि, ‘मानुषम्’ मनुष्यसम्बन्धि च यदेतत् स्थानद्वयम्, तदेतन्नानैव खलु विभिन्नमेव । मन्त्रं दैर्घ्यह्रस्वत्वाभ्यां स्तौति- द्राघीयसेति । “अग्ने तव श्रवः” इति मन्त्रः । (वा. सं १२ । १०६) “अग्नेर्भस्मासि” इति मन्त्रापेक्षया ‘द्राघीयान्’ अतिशयेन दीर्घः; दीर्घशब्दादीयसुनि “प्रियस्थिर” (पा. सू. ६-४-१५७) इत्यादिना दीर्घशब्दस्य द्राघादेशः । तेन ‘मन्त्रेण’ आहवनीये सिकता निवपति । ‘ह्रसीयसा’ ह्रस्वतरेण “अग्नेर्भस्मासि” इति मन्त्रेण । मन्त्रगतं द्राघीयस्त्वं ह्रसीयस्त्वं च प्रतिपादयति- द्राघीयो हीति । दीर्घतमं हि ‘देवायुषम्’ देवानामायुर्जीवितम् ‘ह्रसीयः’ ह्रस्वतमं स्वल्पम् हि ‘मनुष्यायुषम्’ मनुष्यजीवितम्, अतो देवलोकमनुष्यलोकसंस्तुतयोराहवनीयगार्हपत्ययोस्तादृङ्मंत्रसम्बन्धो युक्त इत्यर्थः ॥
गार्हपत्यचयने सिकतानिवपनस्य परिश्रितां पूर्वभावित्वमनूद्य स्तौति- स पूर्वा इति । तथा निवपने कारणमाह- रेतो वै सिकता इति । ‘अस्मात्’ सिकतारूपात् ‘रेतसः’ ‘अधि’ उपरि ‘इमाः’ परिश्रितो ‘विक्रियान्तै’ विशिष्टरूपाः कृता भवेयुः । अन्यथा हि निरुपादानत्वात् परिश्रितां विक्रिया न स्यादिति भावः ॥ १० ॥
Eggeling
- He scatters it with two different formulas; for the Gārhapatya is the world of men, and the Āhavanīya is the world of the gods, and different indeed are the divine and the human. With the longer formula he scatters it on the Āhavanīya, and with the shorter one on the Gārhapatya, for longer is the life of the gods, and shorter the life of men. On the Gārhapatya he scatters the sand before (the setting up of) the enclosing-stones; for sand is seed: ‘May these be fashioned from out of that seed!’ thus he thinks.
११
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य) यद्यो᳘निः परिश्रि᳘तो रे᳘तः सि᳘कता ऽअ᳘थ पू᳘र्वाः परिश्रि᳘द्भ्यो गा᳘र्हपत्ये सि᳘कता निव᳘पति कथ᳘मस्यैतद्रेतो᳘ ऽपरासिक्तं प᳘रिगृहीतं भवतीत्यु᳘ल्बं वा ऽऊ᳘षास्तद्यदू᳘षान्पू᳘र्वान्निव᳘पत्येते᳘नो हास्यैतदु᳘ल्बेन रेतो᳘ ऽपरासिक्तं प᳘रिगृहीतं भवत्य᳘थाहवनी᳘ये परिश्रि᳘तो ऽभि᳘मन्त्रयते त᳘स्योक्तो ब᳘न्धुर᳘थ सि᳘कता नि᳘वपति रे᳘तो वै सि᳘कता ऽएत᳘यो ऽअस्यैतद्यो᳘न्या रेतो᳘ ऽपरासिक्तं प᳘रिगृहीतं भवति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य) यद्यो᳘निः परिश्रि᳘तो रे᳘तः सि᳘कता ऽअ᳘थ पू᳘र्वाः परिश्रि᳘द्भ्यो गा᳘र्हपत्ये सि᳘कता निव᳘पति कथ᳘मस्यैतद्रेतो᳘ ऽपरासिक्तं प᳘रिगृहीतं भवतीत्यु᳘ल्बं वा ऽऊ᳘षास्तद्यदू᳘षान्पू᳘र्वान्निव᳘पत्येते᳘नो हास्यैतदु᳘ल्बेन रेतो᳘ ऽपरासिक्तं प᳘रिगृहीतं भवत्य᳘थाहवनी᳘ये परिश्रि᳘तो ऽभि᳘मन्त्रयते त᳘स्योक्तो ब᳘न्धुर᳘थ सि᳘कता नि᳘वपति रे᳘तो वै सि᳘कता ऽएत᳘यो ऽअस्यैतद्यो᳘न्या रेतो᳘ ऽपरासिक्तं प᳘रिगृहीतं भवति॥
मूलम् - Weber
त᳘दाहुः॥
यद्यो᳘निः परिश्रि᳘तो रे᳘तः सि᳘कता अ᳘थ पू᳘र्वाः परिश्रि᳘द्भ्यो गा᳘र्हपत्ये सि᳘कता निव᳘पति कथ᳘मस्यैतद्रेतो᳘ ऽपरासिक्तम् प᳘रिगृहीतम् भवतीत्यु᳘ल्बं वा ऊ᳘षास्तद्यदू᳘षान्पू᳘र्वान्निव᳘पत्येते᳘नो हास्यैतदु᳘ल्बेन रेतो᳘ ऽपरासिक्तम् प᳘रिगृहीतम् भवत्य᳘थाहवनी᳘ये परिश्रि᳘तो ऽभि᳘मन्त्रयते त᳘स्योक्तो ब᳘न्धुर᳘थ सि᳘कता नि᳘वपति रे᳘तो वै सि᳘कता एत᳘यो अस्यैतद्यो᳘न्या रेतो᳘ ऽपरासिक्तम् प᳘रिगृहीतम् भवति॥
मूलम् - विस्वरम्
तदाहुः- यद्योनिः परिश्रितः, रेतः सिकताः । अथ पूर्वाः परिश्रिद्भ्यो गार्हपत्ये सिकता निवपति । कथमस्यैतद्रेतो ऽपरासिक्तं परिगृहीतं भवतीति । उल्बं वा ऽऊषाः । तद्यदूषान्पूर्वान्निवपति- एतेनो हास्यैतदुल्बेन रेतो ऽपरासिक्तं परिगृहीतं भवति । अथाहवनीये परिश्रितो ऽभिमन्त्रयते । तस्योक्तो बन्धुः । अथ सिकता निवपति । रेतो वै सिकताः । एतयो ऽअस्यैतद्योन्या रेतो ऽपरासिक्तं परिगृहीतं भवति ॥ ११॥
सायणः
सिकतानिवपनस्य परिश्रितां पूर्वत्वे दोषं दर्शयति- तदाहुरिति । ‘तत्’ तत्र विषये ‘आहुः’ चोदयन्ति ब्रह्मवादिनः- योनौ हि रेतः सिच्यते, परिश्रितश्च योनिसंस्तुताः; तथा सति ‘अस्य’ अग्नेः ‘एतत्’ सिकतारूपं ‘रेतः’ ‘अपरासिक्तम्’ आधारादन्यत्र सिक्तम्; परिश्रिद्रूपयोन्यभावात्- कथं परिगृहीतं परिवेष्टितं भवतीत्यस्य चोद्यस्य परिहारमाह- उल्बं वा ऊषा इति । गर्भस्यान्तर्वेष्टनमुल्बम्, तत्संस्तुता ऊषाः; तेषां पूर्वनिवपनात् तदनन्तरं न्युप्तं सिकतारूपं ‘रेतः’ तेनोल्बेन ‘अपरासिक्तम्’ गर्भाशयादन्यत्र सिक्तम् ‘परिगृहीतम्, परिवेष्टितं च ‘भवति’ ॥
आहवनीयचितौ तु सिकतानिवपनात्पूर्वं परिश्रिद्भिः परिश्रयणमभिप्रेत्य तदभिमन्त्रणं विधत्ते- अथाहवनीय इति । गार्हपत्यचयनादाहवनीयचितेर्वैलक्षण्यद्योतकः ‘अथ’ शब्दः । आहवनीयचितौ सिकतानिवपनात् पूर्वं परिश्रित्संज्ञकान् शर्करापरपर्यायान् क्षुद्रपाषाणानभिमन्त्रयते- “चितः स्थेति” मन्त्रेण, सूत्रितं हि- “आहवनीयपरिश्रितो ऽभिमन्त्रयते चितः स्थेति”- (का. श्रौ. १७ । ५३) इति । परिश्रिद्विधिशेषमर्थवादवाक्यं प्रागाम्नातम्- “योनिर्वै परिश्रितः” इत्यादिकमतिदिशति- तस्योक्त इति । ‘तस्य’ परिश्रयणस्य विधिशेष उक्तः ॥
सिकतानिवपनं विधाय स्तौति- अथ सिकता निवपतीति । ‘अथ’ परिश्रयणानन्तरम् । रेतो वा इत्याद्युक्तार्थम् ॥ ११ ॥
Eggeling
- As to this they say, ‘If the enclosing-stones are the womb, and the sand is seed, and the sand is strown on the Gārhapatya before (the setting up of) the enclosing-stones, how, then, is that seed of his not shed aside, (but) is received (by the womb)?’ Well, the saline soil is the amnion, and inasmuch as he strews first the saline soil, that seed of his is not shed aside, but is received by that amnion. He now addresses the enclosing-stones on the Āhavanīya: the meaning of this has been explained 4. He then scatters sand: sand being seed, that seed of his is not shed aside, but is received also by that womb.
१२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाहवनी᳘य ऽए᳘वाप्या᳘नवतीभ्यामभिमृश᳘ति॥
न गा᳘र्हपत्ये ऽयं वै᳘ लोको गा᳘र्हपत्यः स्वर्गो᳘ लोक᳘ ऽआहवनी᳘यो᳘ ऽद्धो वा᳘ ऽअय᳘मस्मिल्ँ᳘लोके᳘ जातो य᳘जमानः स्वर्ग᳘ ऽएव᳘ लोके᳘ प्रजिजनयिषित᳘व्यस्तद्य᳘दाहवनी᳘य ऽए᳘वाप्या᳘नवतीभ्यामभिमृश᳘ति न गा᳘र्हपत्ये स्वर्ग᳘ ऽए᳘वैनं त᳘ल्लोके प्र᳘जनयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाहवनी᳘य ऽए᳘वाप्या᳘नवतीभ्यामभिमृश᳘ति॥
न गा᳘र्हपत्ये ऽयं वै᳘ लोको गा᳘र्हपत्यः स्वर्गो᳘ लोक᳘ ऽआहवनी᳘यो᳘ ऽद्धो वा᳘ ऽअय᳘मस्मिल्ँ᳘लोके᳘ जातो य᳘जमानः स्वर्ग᳘ ऽएव᳘ लोके᳘ प्रजिजनयिषित᳘व्यस्तद्य᳘दाहवनी᳘य ऽए᳘वाप्या᳘नवतीभ्यामभिमृश᳘ति न गा᳘र्हपत्ये स्वर्ग᳘ ऽए᳘वैनं त᳘ल्लोके प्र᳘जनयति॥
मूलम् - Weber
अ᳘थाहवनी᳘य एॗवाप्या᳘नवतीभ्यामभिमृश᳘ति॥
न गा᳘र्हपत्ये ऽयं वै᳘ लोको गा᳘र्हपत्यः स्वर्गो᳘ लोक᳘ आहवनी᳘योॗ ऽद्धो वा᳘ अय᳘मस्मिं᳘लोके᳘ जातो य᳘जमानः स्वर्ग᳘ एव᳘ लोके᳘ प्रजिजनयिषित᳘व्यस्तद्य᳘दाहवनी᳘य एॗवाप्या᳘नवतीभ्यामभिमृश᳘ति न गा᳘र्हपत्ये स्वर्ग᳘ एॗवैनं त᳘ल्लोके प्र᳘जनयति॥
मूलम् - विस्वरम्
अथाहवनीय ऽएवाप्यानवतीभ्यामभिमृशति, न गार्हपत्ये । अयं वै लोको गार्हपत्यः, स्वर्गो लोक आहवनीयः । अद्धो वा ऽअयमस्मिंल्लोके जातो यजमानः, स्वर्ग ऽएव लोके प्रजिजनयिषितव्यः । तद्यदाहवनीय ऽएवाप्यानवतीभ्यामभिमृशति, न गार्हपत्ये- स्वर्ग ऽएवैनं तल्लोके प्रजनयति ॥ १२ ॥
सायणः
न्युप्तानां सिकतानां समन्त्रकमभिमर्शनं विधत्ते- अथाहवनीय इति 5 । आहवनीयस्थाने न्युप्तानामेव सिकतानाम् ‘आप्यायनवतीभ्याम्’ आप्यायतिधातुनिष्पन्नशब्दयुक्ताभ्याम्, “आप्यायस्व, सन्ते”- (वा. सं. १२ । ११२-११३) इत्येताभ्यामृग्भ्यामभिमर्शनं कर्त्तव्यमित्यर्थः । अवधारणफलमाह- न गार्हपत्य इति । एतदेवोपपादयति- अयं वा इत्यादिना । ‘अस्मिल्ँ लोके जातः’ ‘अयम्’ ‘यजमानः’- इत्ययमर्थः । ‘अद्धा’ प्रत्यक्षसिद्धः, न यत्नसम्पाद्यः ‘स्वर्गे लोके एव’ हि ‘प्रजिजनयिषितव्यः’ प्रजनयितुं प्रकर्षेणोत्पादयितुमिष्टः, अतः स्वर्गलोकसंस्तुते ‘गार्हपत्ये’ तत्र स्वभावत एव जातत्वादिति भावः ॥ १२ ॥
Eggeling
- And only on the Āhavanīya he strokes it (even) with two (verses) containing (the verb) ’to grow 6,’ not on the Gārhapatya; for the Gārhapatya is this (terrestrial) world, and the Āhavanīya is the heavenly world; and this Sacrificer, being indeed
born in this world, is really intended to be born in the heavenly world: when he strokes (the sand) even on the Āhavanīya with two (verses) containing (the verb) ’to grow,’ and not on the Gārhapatya, he causes him to be born in the heavenly world.
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ लोगेष्टका ऽउ᳘पदधाति॥
इमे वै᳘ लोका᳘ ऽए᳘षो ऽग्निर्दि᳘शो लोगेष्टका᳘ ऽएषु त᳘ल्लोके᳘षु दि᳘शो दधाति त᳘स्मादिमा᳘ ऽएषु᳘ लोके᳘षु दि᳘शः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ लोगेष्टका ऽउ᳘पदधाति॥
इमे वै᳘ लोका᳘ ऽए᳘षो ऽग्निर्दि᳘शो लोगेष्टका᳘ ऽएषु त᳘ल्लोके᳘षु दि᳘शो दधाति त᳘स्मादिमा᳘ ऽएषु᳘ लोके᳘षु दि᳘शः॥
मूलम् - Weber
अ᳘थ लोगेष्टका उ᳘पदधाति॥
इमे वै᳘ लोका᳘ एॗषो ऽग्निर्दि᳘शो लोगेष्टका᳘ एषु त᳘ल्लोके᳘षु दि᳘शो दधाति त᳘स्मादिमा᳘ एषु᳘ लोके᳘षु दि᳘शः॥
मूलम् - विस्वरम्
अथ लोगेष्टकोपधानम् ।
अथ लोगेष्टका उपदधाति । इमे वै लोका एषो ऽग्निः । दिशो लोगेष्टकाः । एषु तल्लोकेषु दिशो दधाति । तस्मादिमा एषु लोकेषु दिशः ॥ १३ ॥
सायणः
अथ लोगेष्टकानामुपधानं विधत्ते- अथेति 7 । तदेतत् प्रशंसति- इमे वै लोका इति । ‘इमे’ खलु ये पृथिव्यादयस्त्रयो ‘लोकाः’ । ‘एषः’ एव खलु ‘अग्निः’ । लोकसंस्तुताभिः स्वयमातृण्णाभिर्युक्तत्वाल्लोकत एव सिद्धाः लोष्टरूपा इष्टकाः लोकेष्टकाः, परोक्षं ‘लोगेष्टका’ इत्युच्यन्ते । तथाविधत्वं च तैत्तिरीये आम्नायते- “दिग्भ्यो लोष्टान् समस्यति, दिशामेव वीर्यमवरुध्य”- (तै. सं. ५ । २ । ५ । ६) इति लोकसम्बन्धिन्यः प्राच्यादिदिशः ता लोकेष्टकाः । अतस्तदुपधानेन ‘एषु’ एव लोकेषु ता एव ‘दिशः’ स्थापयति । ‘तस्मात्’ एव कारणात् ‘इमाः’ प्राच्यादि- ‘दिशः’ ‘एषु लोकेषु’ दृश्यन्ते ॥ १३ ॥
Eggeling
- He now puts clod-bricks thereon 8,–that fire-altar is these worlds, and the clod-bricks are the regions: he thus places the regions into these worlds; whence there are those regions in these worlds.
१४
विश्वास-प्रस्तुतिः
(शो) बा᳘ह्येनाग्निमा᳘हरति॥
(त्या) आप्ता वा᳘ ऽअस्य ता दि᳘शो या᳘ ऽएषु लोकेष्व᳘थ या᳘ ऽइमाल्ँ᳘लोकान्प᳘रेण दि᳘शस्ता᳘ ऽअस्मिन्नेत᳘द्दधाति॥ (अर्धप्रपाठकः॥)
मूलम् - श्रीधरादि
(शो) बा᳘ह्येनाग्निमा᳘हरति॥
(त्या) आप्ता वा᳘ ऽअस्य ता दि᳘शो या᳘ ऽएषु लोकेष्व᳘थ या᳘ ऽइमाल्ँ᳘लोकान्प᳘रेण दि᳘शस्ता᳘ ऽअस्मिन्नेत᳘द्दधाति॥ (अर्धप्रपाठकः॥)
मूलम् - Weber
बा᳘ह्येनाग्निमा᳘हरति॥
आप्ता वा᳘ अस्य ता दि᳘शो या᳘ एषु लोकेष्व᳘थ या᳘ इमां᳘लोकान्प᳘रेण दि᳘शस्ता᳘ अस्मिन्नेत᳘द्दधाति॥
मूलम् - विस्वरम्
बाह्येनाग्निमाहरति । आप्ता वा ऽअस्य ता दिशो- या एषु लोकेषु । अथ या इमांल्लोकान् परेण दिशः- ता अस्मिन्नेतद्दधाति ॥ १४ ॥
सायणः
वेदेर्बाह्यदेशेनेष्टकानामाहरणं विधाय स्तौति- बाह्येनाग्निमिति । ‘अग्निं’ ‘बाह्येन’ अग्निक्षेत्राद्बाह्यदेशेनैता इष्टकाः ‘आहरति’ । आप्ता वा इत्यादि । ‘अस्य’ अग्नेः यजमानस्य वा ‘ता दिशः’ ‘आप्ताः’ प्राप्ताः । ‘याः’ इमाः ‘एषु’ लोकेषु दृश्यन्ते । ‘अथ’ ‘याः’ ‘दिशः’ ‘इमान् लोकान्’ ‘परेण’ एभ्यो लोकेभ्यो बहिर्वर्त्तन्ते, ‘अस्मिन्’ अग्नौ ‘एतत्’ एतेन बाह्यदेशादाहरणेन ‘दधाति’ धारयति ॥ १४ ॥
Eggeling
- He takes them from outside the (site of the) fire-altar; for those regions which are in these worlds are already possessed by him (Agni); and he now bestows on him those regions which are beyond these worlds.
१५
विश्वास-प्रस्तुतिः
बहिर्व्वेदे᳘रियं व्वै व्वे᳘दिः॥
(रा) आप्ता वा᳘ ऽअस्य ता दि᳘शो या᳘ ऽअस्याम᳘थ या᳘ ऽइमां प᳘रेण दि᳘शस्ता᳘ ऽअस्मिन्नेत᳘द्दधाति॥
मूलम् - श्रीधरादि
बहिर्व्वेदे᳘रियं व्वै व्वे᳘दिः॥
(रा) आप्ता वा᳘ ऽअस्य ता दि᳘शो या᳘ ऽअस्याम᳘थ या᳘ ऽइमां प᳘रेण दि᳘शस्ता᳘ ऽअस्मिन्नेत᳘द्दधाति॥
मूलम् - Weber
बहिर्वेदे᳘रियं वै वे᳘दिः॥
आप्ता वा᳘ अस्य ता दि᳘शो या᳘ अस्याम᳘थ या᳘ इमाम् प᳘रेण दि᳘शस्ता᳘ अस्मिन्नेत᳘द्दधाति॥
मूलम् - विस्वरम्
बहिर्वेदेः । इयं वै वेदिः । आप्ता वा ऽअस्य ता दिशो- या अस्याम् । अथ या इमां परेण दिशः- ता अस्मिन्नेतद्दधाति ॥ १५ ॥
सायणः
आहरणस्याग्निक्षेत्रापेक्षया बहिर्देशसम्बन्धः, वेद्यपेक्षया ऽपि तथात्वं विधत्ते- बहिर्वेदेरिति । अग्नेर्लोकत्रयात्मकत्वात्ततो बहिराहरणम् लोकत्रयाद् बहिरवस्थितानां दिशामाप्तिहेतुरित्युक्तम्; इदानीं तु वेदेर्भूमिरूपत्वादस्या बहिरवस्थिताः यावत्यो दिशः, तासां प्राप्त्यर्थं वेदिबाह्यदेशादाहरणमित्यभिप्रेतो ऽर्थः । अथ या इमां परेणेति । ‘अस्याः’ पृथिव्याः ‘परेण’ परस्ताद्, बहिरित्यर्थः । “एनबन्यतरस्याम्”- इति (५ । ३ । ३५) परशब्दादेनप्, “एनपा द्वितीया”- (पा. सू. २ । ३ । ३१) ॥ १५ ॥
Eggeling
- From outside the Vedi (he takes them);–the Vedi being this (earth), and those regions which are on this (earth) being already possessed by him, he now bestows on him those regions which are beyond this (earth).
१६
विश्वास-प्रस्तुतिः
य᳘द्वेव᳘ लोगेष्टका᳘ ऽउपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तस्य स᳘र्व्वा दि᳘शो रसो᳘ ऽनु व्य᳘क्षरत्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेता᳘भिर्लोगेष्टका᳘भिस्तᳫँ᳭ र᳘समदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥
मूलम् - श्रीधरादि
य᳘द्वेव᳘ लोगेष्टका᳘ ऽउपद᳘धाति॥
प्रजा᳘पतेर्व्वि᳘स्रस्तस्य स᳘र्व्वा दि᳘शो रसो᳘ ऽनु व्य᳘क्षरत्तं य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्त᳘दस्मिन्नेता᳘भिर्लोगेष्टका᳘भिस्तᳫँ᳭ र᳘समदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥
मूलम् - Weber
य᳘द्वेव᳘ लोगेष्टका᳘ उपद᳘धाति॥
प्रजा᳘पतेर्वि᳘स्रस्तस्य स᳘र्वा दि᳘शो रसो᳘ ऽनु व्य᳘क्षरत्त य᳘त्र देवाः᳘ सम᳘स्कुर्वंस्तदस्मिन्नेता᳘भिर्लोगेष्टका᳘भिस्तं र᳘समदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति॥
मूलम् - विस्वरम्
यद्वेव लोगेष्टका उपदधाति । प्रजापतेर्विस्रस्तस्य सर्वा दिशो रसो ऽनु व्यक्षरत् । तं यत्र देवाः समस्कुर्वन्- तदस्मिन्नेताभिर्लोगेष्टकाभिस्तं रसमदधुः । तथैवास्मिन्नयमेतद्दधाति ॥ १६ ॥
सायणः
विहितं लोकेष्टकोपधानमनूद्य प्रकारान्तरेण स्तौति- यद्वेवेति । ‘विस्रस्तस्य’ विस्रस्तावयवस्येत्यर्थः । ‘सर्वाः’ प्राच्यादि-‘दिशः’ अनुलक्ष्य तदीयो ‘रसः’ ‘व्यक्षरत्’ विविधमस्रवत् ‘यत्र’ यस्मिन् देशे ‘तम्’ तथाविधं प्रजापतिं ‘देवाः’ ‘समस्कुर्वन्’ चित्याग्निरूपेण संस्कृतवन्तः । “अडभ्यासव्यवाये ऽपि”- (पा. सू. ६ । १ । १४० वा. १) इति कात् पूर्वः सुट् । तत्र ‘अस्मिन्’ अग्न्यात्मके प्रजापतौ ‘एताभिर्लोगेष्टकाभिः तं रसम्,’ ‘अदधुः’ स्थापितवन्तः एवमेव ‘अस्मिन्’ अग्नौ ‘अयम्’ यजमानो ऽपि ‘एतद्’ रसं ‘दधाति’ धारयति, लोकेष्टकोपधानेनेत्यर्थः ॥ १६ ॥
Eggeling
- And, again, why he puts clod-bricks thereon,–when Prajāpati was disjointed, his vital sap flowed over all the regions (or, in all directions); and when the gods restored him 9 they, by means of these clod-bricks, put into him that vital sap; and in like manner does this one now put that vital sap into him.
१७
विश्वास-प्रस्तुतिः
बा᳘ह्येनाग्निमा᳘हरति॥
(त्या) आप्तो वा᳘ ऽअस्य स र᳘सो य᳘ ऽएषु[[!!]] लोकेष्व᳘थ य᳘ ऽइमाल्ँ᳘लोकान् प᳘राङ्र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधाति॥
मूलम् - श्रीधरादि
बा᳘ह्येनाग्निमा᳘हरति॥
(त्या) आप्तो वा᳘ ऽअस्य स र᳘सो य᳘ ऽएषु[[!!]] लोकेष्व᳘थ य᳘ ऽइमाल्ँ᳘लोकान् प᳘राङ्र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधाति॥
मूलम् - Weber
बा᳘ह्येनाग्निमा᳘हरति॥
आप्तो वा᳘ अस्य स र᳘सो य᳘ एषु᳘ लोकेष्व᳘थ य᳘ इमां᳘लोकान्प᳘राङ्र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधाति॥
मूलम् - विस्वरम्
बाह्येनाग्निमाहरति । आप्तो वा ऽअस्य स रसः- य एषु लोकेषु । अथ य इमांल्लोकान्पराङ्रसो ऽत्यक्षरत्- तमस्मिन्नेतद्दधाति ॥ १७ ॥
सायणः
आहरणस्याग्निबाह्यत्वमनूद्य स्तौति- बाह्येनेति । पूर्ववदेनप् (पा. सू. ५ । ३ । ३५) अत एव ‘अग्निम्’ इति द्वितीया (२ । ३ । ३१) । अग्नेर्बाह्यदेशेनेत्यर्थः । आप्तो वा अस्येत्यादि । “आप्ता वा अस्य ता दिशः” इत्यादिवद् व्याख्येयः । इमांल्लोकान्पराङ्रस इति । ‘इमान्’ पृथिव्यादिलोकान् विहाय परागतो रस इत्यर्थः ॥ १७ ॥
Eggeling
- He takes them from outside (the site of) the fire-altar; for the vital sap which is in these worlds is already possessed by him (Agni), and he now puts
into him that vital sap which flowed away beyond these worlds 10.
१८
विश्वास-प्रस्तुतिः
बहिर्व्वेदे᳘रियं वै व्वे᳘दिः॥
(रा) आप्तो वा᳘ ऽअस्य स र᳘सो᳘ यो ऽस्याम᳘थ य᳘ ऽइमां प᳘राङ्र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्ने᳘तद्दधाति॥
मूलम् - श्रीधरादि
बहिर्व्वेदे᳘रियं वै व्वे᳘दिः॥
(रा) आप्तो वा᳘ ऽअस्य स र᳘सो᳘ यो ऽस्याम᳘थ य᳘ ऽइमां प᳘राङ्र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्ने᳘तद्दधाति॥
मूलम् - Weber
बहिर्वेदे᳘रियं वै वे᳘दिः॥
आप्तो वा᳘ अस्य स र᳘सोॗ यो ऽस्याम᳘थ य᳘ इमाम् प᳘राङ्र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्ने᳘तद्दधाति॥
मूलम् - विस्वरम्
बहिर्वेदः । इयं वै वेदिः । आप्तो वा ऽअस्य स रसः- यो ऽस्याम् । अथ य इमां पराङ्रसो ऽत्यक्षरत्- तमस्मिन्नेतद्दधाति ॥ १८ ॥
सायणः
बहिर्वेदेरित्येतदपि अनूद्य पृथिवीसकाशाद् बहिर्भूतरसस्थापनहेतुत्वेन स्तौति- बहिर्वेदेरिति । आहरतीति शेषः । एतदपि पूर्ववद् व्याख्यातप्रायम् । इमां पराङिति । इमामतिक्रम्य परागतो रस इत्यर्थः ॥ १८ ॥
Eggeling
- From outside the Vedi (he takes them),–the Vedi being this (earth), and that vital sap which is in this (terrestrial) world being already possessed by him, he now puts into him the vital sap which flowed beyond this (earth).
१९
विश्वास-प्रस्तुतिः
स्फ्येना᳘हरति॥
व्व᳘ज्रो वै स्फ्यो᳘ व्वी᳘र्यं[[!!]] वै व्व᳘ज्रो व्वि᳘त्तिरियं᳘ व्वी᳘र्येण वै व्वि᳘त्तिं व्विन्दते॥
मूलम् - श्रीधरादि
स्फ्येना᳘हरति॥
व्व᳘ज्रो वै स्फ्यो᳘ व्वी᳘र्यं[[!!]] वै व्व᳘ज्रो व्वि᳘त्तिरियं᳘ व्वी᳘र्येण वै व्वि᳘त्तिं व्विन्दते॥
मूलम् - Weber
स्फ्येना᳘हरति॥
व᳘ज्रो वै स्फ्यो᳘ वीर्यं᳘ वै व᳘ज्रो वि᳘त्तिरियं᳘ वीॗर्येण वै वि᳘त्तिं विन्दते॥
मूलम् - विस्वरम्
स्फ्येनाहरति । वज्रो वै स्फ्यः। वीर्यं वै वज्रः । वित्तिरियम् । वीर्येण वै वित्तिं विन्दते ॥ १९ ॥
सायणः
इत्थं लोकेष्टकानामाहरणे अग्नेर्वेदेश्च बाह्यो देशो विहितः, अथ तत्र साधनं विधाय स्तौति- स्फ्येनेति । वज्रो वै स्फ्य इति । त्रेधा भग्नस्य वज्रस्यांशत्वात् स्फ्यस्य वज्रात्मकता । तथा हि तैत्तिरीयकम्- “इन्द्रो वृत्राय वज्रं प्राहरत्, स त्रेधा व्यभवत्, स्फ्यस्तृतीयँ रथस्तृतीयं यूपस्तृतीयम्” (तै. सं ५ । २ । ६ । १-२) 11 इति । वृत्रासुरवधहेतुत्वात् स वज्रो वीर्यात्मकः । ‘इयम्’ वेदिलक्षणा भूमिः ‘वित्तिः’ लब्धव्या धनरूपा, तथा च स्फ्येनाहरन् वज्ररूपेण ‘वीर्येण’ एव ‘वित्तिम्’ लब्धव्यां भूमिं ‘विन्दते’ लभते ॥ १९ ॥
Eggeling
- He takes them with the sacrificial (wooden) sword,–the sword is a thunderbolt, and the thunderbolt means force, and this (earth) means wealth: by force he thus obtains wealth.
२०
विश्वास-प्रस्तुतिः
स᳘ पुर᳘स्तादा᳘हरति॥
मा᳘ मा हिᳫँ᳭सीज्जनिता यः᳘ पृथिव्या ऽइ᳘ति प्रजा᳘पतिर्व्वै᳘ पृथिव्व्यै᳘ जनिता मा᳘ मा हिᳫँ᳭सीत्प्रजा᳘पतिरि᳘त्येतद्यो᳘ वा दि᳘वᳫँ᳭ सत्य᳘धर्मा व्व्या᳘नडि᳘ति यो᳘ वा दि᳘वᳫँ᳭ सत्य᳘धर्मा᳘ ऽसृजते᳘त्येतद्य᳘श्चाप᳘श्चन्द्राः᳘ प्रथमो᳘ जजाने᳘ति मनु᳘ष्या वा ऽआ᳘पश्चन्द्रा यो᳘ मनु᳘ष्यान्प्रथमो᳘ ऽसृजते᳘त्येतत्क᳘स्मै देवा᳘य हवि᳘षा व्विधेमे᳘ति प्रजा᳘पतिर्वै कस्त᳘स्मै हवि᳘षा व्विधेमे᳘त्येतत्ता᳘माहृत्या᳘न्तरेण परिश्रि᳘त ऽआत्मन्नु᳘पदधाति स यः प्रा᳘च्यां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो प्रा᳘चीमे᳘वास्मिन्नेतद्दि᳘शं दधाति॥
मूलम् - श्रीधरादि
स᳘ पुर᳘स्तादा᳘हरति॥
मा᳘ मा हिᳫँ᳭सीज्जनिता यः᳘ पृथिव्या ऽइ᳘ति प्रजा᳘पतिर्व्वै᳘ पृथिव्व्यै᳘ जनिता मा᳘ मा हिᳫँ᳭सीत्प्रजा᳘पतिरि᳘त्येतद्यो᳘ वा दि᳘वᳫँ᳭ सत्य᳘धर्मा व्व्या᳘नडि᳘ति यो᳘ वा दि᳘वᳫँ᳭ सत्य᳘धर्मा᳘ ऽसृजते᳘त्येतद्य᳘श्चाप᳘श्चन्द्राः᳘ प्रथमो᳘ जजाने᳘ति मनु᳘ष्या वा ऽआ᳘पश्चन्द्रा यो᳘ मनु᳘ष्यान्प्रथमो᳘ ऽसृजते᳘त्येतत्क᳘स्मै देवा᳘य हवि᳘षा व्विधेमे᳘ति प्रजा᳘पतिर्वै कस्त᳘स्मै हवि᳘षा व्विधेमे᳘त्येतत्ता᳘माहृत्या᳘न्तरेण परिश्रि᳘त ऽआत्मन्नु᳘पदधाति स यः प्रा᳘च्यां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो प्रा᳘चीमे᳘वास्मिन्नेतद्दि᳘शं दधाति॥
मूलम् - Weber
स᳘ पुर᳘स्तादा᳘हरति॥
मा᳘ मा हिंसीज्जनिता यः᳘ पृथिव्या इ᳘ति प्रजा᳘पतिर्वै᳘ पृथिव्यै᳘ जनिता मा᳘ मा हिंसीत्प्रजा᳘पतिरि᳘त्येतद्यो᳘ वा दि᳘वᳫं सत्य᳘धर्मा व्या᳘नडि᳘ति यो᳘ वा दि᳘वᳫं सत्य᳘धर्मा᳘सृजते᳘त्येतद्य᳘श्चाप᳘श्चन्द्राः᳘ प्रथमो᳘ जजाने᳘ति मनुॗष्या वा आ᳘पश्चन्द्रा यो᳘ मनुॗष्यान्प्रथमो᳘ ऽसृजते᳘त्येतत्क᳘स्मै देवा᳘य हवि᳘षा विधेमे᳘ति प्रजा᳘पतिर्वै कस्त᳘स्मै हवि᳘षा विधेमे᳘त्येतत्ता᳘माहृत्या᳘न्तरेण परिश्रि᳘त आत्मन्नु᳘पदधाति स यः प्रा᳘च्यां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो प्रा᳘चीमेॗवास्मिन्नेतद्दि᳘शं दधाति॥
मूलम् - विस्वरम्
स पुरस्तादाहरति । “मा मा हिंसीजनिता यः पृथिव्याः”- इति । प्रजापतिर्वै पृथिव्यै जनिता । मा मा हिंसीत्प्रजापतिरित्येतत् । “यो वा दिवं सत्यधर्मा व्यानट्”- इति । यो वा दिवं सत्यधर्मा ऽसृजतेत्येतत् । “यश्चापश्चन्द्राः प्रथमो जजान”- इति । मनुष्या वा ऽआपश्चन्द्राः । यो मनुष्यान्प्रथमो ऽसृजतेत्येतत् । “कस्मै देवाय हविषा विधेम”- (वा. सं. १२ । १०२) इति । प्रजापतिर्वै कः । तस्मै हविषा विधेमेत्येतत् । तामाहृत्य, अन्तरेण परिश्रित आत्मन्नुपदधाति । स यः प्राच्यां दिशि रसो ऽत्यक्षरत्- तमस्मिन्नेतद्दधाति । अथो प्राचीमेवास्मिन्नेतद्दिशं दधाति ॥ २० ॥
सायणः
अथ पूर्वस्माद्दिग्भागादाहरणं समन्त्रकं विधत्ते- स पुरस्तादाहरतीति । ‘पुरस्तात्’ पूर्वस्याः दिशः सकाशाल्लोकेष्टकां स्फ्येन ‘आहरति’ पञ्चम्यर्थे अस्तातिः (पा. सू. ५ । ३ । २७) । मा मा हिंसीदिति । तन्मन्त्रः । ‘यः’ ‘पृथिव्याः’ ‘जनिता’ जनयिता सः ‘मा’ मां’ मा हिंसीत्’ मा वधिष्ट । य इति सर्वनाम्ना कृत्स्नजगत्कारणत्वेन प्रसिद्धः प्रजापतिरेव प्रतिपाद्यत इत्याह- प्रजापतिर्वा इति । ‘पृथिव्यै’ इति षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ । सू. वा. १) । ‘जनिता’ जनयिता “जनिता मन्त्रे” इति (पा. सू. ६ । ४ । ५३) निपातनाण्णिलोपः । उक्तमर्थं योजयति- मा मा हिंसीत् प्रजापतिरित्येतदिति ॥
द्वितीयपादमनूद्य तत्र व्यानडिति क्रियापदस्यार्थमाह- यो वा दिवमिति । ‘सत्यधर्मा’ सत्यो ऽवितथो धर्मः धारणशक्तिर्यस्य तादृशो ‘यः’ ‘दिवं’ ‘व्यानट्’ व्याप्नोत् । व्यापनमत्र सर्जनमेवेत्याह- असृजतेत्येतदिति । मनुष्या वा इत्यादि । ‘चन्द्राः’ आह्लादिकाः । ‘आपः’ रेतोरूपाः । अनेन च कारणवाचिशब्देन कार्यभूता मनुष्या एवोच्यन्त इत्यर्थः । अत एव छान्दोग्ये समाम्नातम्- “पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति”- (छां. उ. ५ । ९ । १) इति । पर्यवसितमर्थमाह- मनुष्यान् प्रथम इति । सर्वप्राणिभ्यः पूर्वमुत्पन्नत्वात् प्रजापतिरेव प्रथमः । अत एवाम्नातम्- “हिरण्यगर्भः समवर्त्तताग्रे”- (वा. सं. १३ । ४) इति ॥
चतुर्थपादमनूद्य तत्र ‘किं’- शब्दस्यार्थमाह- प्रजापतिर्वै क इति । निरुक्तानिरुक्तरूपत्वेनानिर्द्धारितस्वरूपत्वात् किंशब्दः प्रजापतेर्वाचक इत्यर्थः । एवंभूतो यः ‘तस्मै देवाय’ “क्रियाग्रहणमपि कर्त्तव्यम्” इति (पा. सू. १ । ४ । ३२ । सू. वा. १) कर्मणः सम्प्रदानत्वाच्चतुर्थी । तं देवं ‘हविषा’ ‘विधेम’ परिचरेमेति, विदधातिः परिचरणार्थः ॥
एवमाहृताया इष्टकायाः स्थानविशेषे उपधानं विधत्ते- तामाहृत्येति । परिश्रित्सञ्ज्ञानामुपहितानां शर्कराणामभ्यन्तरदेशे आत्मनि तामुपदध्यात् स्थापयेत् । तस्य प्रयोजनमाह- स य इति । ‘स यः’ प्रसिद्धो यो ‘रसः’ विस्रस्तात् प्रजापतिशरीरात् ‘प्राच्याम्’ ‘दिशि’ ‘अत्यक्षरत्’ अतिक्रम्य स्रुतो ऽभवत् । एतेनोपधानेन, ‘तम्’ एव रसम् ‘अस्मिन्’ प्रजापतिरूपे ऽग्नौ पुनः स्थापयति । ‘अथो’ अपि च ‘प्राचीं’ दिक्सम्बन्धात्तामेव दिशम् ‘अस्मिन्’ स्थापितवान् भवति ॥ २० ॥
Eggeling
- From the front side he brings one, with (Vāj. S. XII, 102), ‘May he not injure me who is the begetter of the Earth!’–the begetter of the Earth doubtless is Prajāpati (the lord of creatures and generation): thus, ‘May Prajāpati not injure me!’–‘Or he of true ordinances who hath pervaded the sky,’ that is, ‘Or he of true ordinances who has created the sky;’–‘Or he who first begat the shining waters,’–the shining waters doubtless are the men: thus, ‘he who first created men;’–‘To the god Ka (who?) let us do homage by offering!’ Ka doubtless is Prajāpati, thus, ‘To him let us do homage by offering!’ Having brought it he puts it on the body (of the altar-site) inside the enclosing-stones: he thereby puts into him (Agni) what vital sap had flowed away from him in the eastern direction, and also the eastern region itself he bestows upon him.
२१
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ दक्षिण᳘तः॥
(तो ऽभ्या᳘) अभ्या᳘वर्त्तस्व पृथिवि यज्ञे᳘न प᳘यसा सहे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुर्व्वपा᳘न्ते ऽअग्नि᳘रिषितो᳘ ऽअरोहदि᳘ति यद्वै किं᳘ चास्या᳘ᳫँ᳘ सा ऽस्यै᳘ व्वपा ता᳘मग्नि᳘रिषित᳘ ऽउपा᳘दीप्तो रोहति ता᳘माहृत्या᳘न्तरेण पक्षसंधि᳘मात्मन्नु᳘पदधाति स यो द᳘क्षिणायां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो द᳘क्षिणामे᳘वास्मिन्नेतद्दि᳘शं दधाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ दक्षिण᳘तः॥
(तो ऽभ्या᳘) अभ्या᳘वर्त्तस्व पृथिवि यज्ञे᳘न प᳘यसा सहे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुर्व्वपा᳘न्ते ऽअग्नि᳘रिषितो᳘ ऽअरोहदि᳘ति यद्वै किं᳘ चास्या᳘ᳫँ᳘ सा ऽस्यै᳘ व्वपा ता᳘मग्नि᳘रिषित᳘ ऽउपा᳘दीप्तो रोहति ता᳘माहृत्या᳘न्तरेण पक्षसंधि᳘मात्मन्नु᳘पदधाति स यो द᳘क्षिणायां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो द᳘क्षिणामे᳘वास्मिन्नेतद्दि᳘शं दधाति॥
मूलम् - Weber
अथ दक्षिण᳘तः॥
अभ्या᳘वर्तस्व पृथिवि यज्ञे᳘न प᳘यसा सहे᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुर्वपां᳘ ते अग्नि᳘रिषितो᳘ अरोहदि᳘ति यद्वै किं᳘ चास्याᳫं सास्यै᳘ वपा ता᳘मग्निरिषित᳘ उपा᳘दीप्तो रोहति ता᳘माहृत्या᳘न्तरेण पक्षसंधि᳘मात्मन्नु᳘पदधाति स यो द᳘क्षिणायां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो द᳘क्षिणामेॗवास्मिन्नेतद्दि᳘शं दधाति॥
मूलम् - विस्वरम्
अथ दक्षिणतः- “अभ्यावर्त्तस्व पृथिवि यज्ञेन पयसा सह”- इति । यथैव यजुस्तथा बन्धुः । “वपान्ते ऽअग्निरिषितो ऽअरोहत्”- (वा. सं. १२ । १०३) इति । यद्वै किं चास्याम्- सा ऽस्यै वपा । तामग्निरिषित उपादीप्तो रोहति । तामाहृत्यान्तरेण पक्षसन्धिमात्मन्नुपदधाति । स यो दक्षिणायां दिशि रसो ऽत्यक्षरत्- तमस्मिन्नेतद्दधाति । अथो दक्षिणामेवास्मिन्नेतद्- दिशं दधाति ॥ २१ ॥
सायणः
दक्षिणस्या दिश आहरणं समन्त्रकं विधत्ते- अथ दक्षिणत इति । पञ्चम्यर्थे तसिल् (पा. सू. ५ । ३ । ७) आहरतीति शेषः । अथवा पूर्वदिग्भागाद्यदाहरणम्, तदनन्तरं दक्षिणस्या दिशः सकाशाल्लोकेष्टकामाहरतीत्यर्थः । “अभ्यावर्त्तस्य” इति तन्मन्त्रः । पूर्वार्द्धस्य निगदव्याख्यातत्वमाह- यथैव यजुस्तथा बन्धुरिति । यजुर्वाक्यं यथैव श्रूयते तादृगेव तद्व्याख्यापकं ब्राह्मणवाक्यम्; अतः स्पष्टार्थत्वान्न पृथग्व्याख्यायत इत्यर्थः ॥
उत्तरार्द्धमनूद्य तत्र वपाशब्दस्यार्थमाह- यद्वै किञ्चेति । ‘अस्यां’ पृथिव्यां यदेव किंचिद् वस्तु तरुगुल्मादिकं दृश्यते, सैव ‘अस्यै’ ‘वपा’ विधेया । सेति नपुंसकलिङ्गार्थो निर्द्देशः । षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ सू. वा. १) । अयमर्थः- हे पृथिवि ! ‘यज्ञेन’ यागसाधनेन ‘पयसा’ पयोलक्षणेन ‘रसेन’ सह अस्मदभिमुखमावर्त्तस्व । ‘इषितः’ प्रेरितो दीप्तो ऽयमग्निस्त्वदीयं तरुगुल्मादिरूपम् ‘आरोहति’ अधितिष्ठति । आहृतायास्तस्याः स्थानविशेषे उपधानं विधत्ते- तामाहृत्येति । ‘ताम्’ लोकेष्टकां दक्षिणदिग्भागाद्बहिर्वेदेः- ‘आहृत्य’ ‘पक्षसन्धिमन्तरेण’ दक्षिणपक्षस्य आत्मभागस्य च यः सन्धिप्रदेशः, तस्याभ्यन्तरे आत्मभागे स्थापयेदित्यर्थः । अनेनापि पूर्ववद्रसस्थापनं दिक्स्थापनञ्चात्र कृतं भवतीत्याह- स यो दक्षिणायामिति ॥ २१ ॥
Eggeling
- Then (he fetches a clod) from the south, with (Vāj. S. XII, 103), ‘Turn hither, O Earth, with
sacrifice, with milk!’ as the text, so the meaning;–‘Agni, sent forth, hath mounted thy skin;’ whatsoever is on this (earth) that is her skin; and that (skin) Agni mounts, when sent forth, when blazing forth. Having brought it he puts it on the body (of the altar) inside the junction of the (right) wing (and the body): he thereby puts into him (Agni) what vital sap had flowed from him in the southern direction, and also the southern region itself he bestows upon him.
२२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ पश्चात्[[!!]]॥
(द᳘) अ᳘ग्ने य᳘त्ते शुक्रं य᳘च्चन्द्रं य᳘त्पूतं य᳘च्च यज्ञि᳘यमि᳘तीयं वा᳘ ऽअग्नि᳘रस्यै त᳘दाह त᳘द्देवे᳘भ्यो भरामसी᳘ति त᳘दस्मै दै᳘वाय क᳘र्मणे हराम ऽइ᳘त्येतत्ता᳘माहृत्या᳘न्तरेण पुच्छसन्धि᳘मात्मन्नु᳘पदधाति स यः᳘ प्रती᳘च्यां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो प्रती᳘चीमे᳘वास्मिन्नेतद्दि᳘शं दधाति स न᳘ सम्प्रति᳘ पश्चादा᳘हरेन्ने᳘द्यज्ञपथाद्र᳘समाह᳘राणी᳘तीत᳘ ऽइवा᳘हरति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ पश्चात्[[!!]]॥
(द᳘) अ᳘ग्ने य᳘त्ते शुक्रं य᳘च्चन्द्रं य᳘त्पूतं य᳘च्च यज्ञि᳘यमि᳘तीयं वा᳘ ऽअग्नि᳘रस्यै त᳘दाह त᳘द्देवे᳘भ्यो भरामसी᳘ति त᳘दस्मै दै᳘वाय क᳘र्मणे हराम ऽइ᳘त्येतत्ता᳘माहृत्या᳘न्तरेण पुच्छसन्धि᳘मात्मन्नु᳘पदधाति स यः᳘ प्रती᳘च्यां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो प्रती᳘चीमे᳘वास्मिन्नेतद्दि᳘शं दधाति स न᳘ सम्प्रति᳘ पश्चादा᳘हरेन्ने᳘द्यज्ञपथाद्र᳘समाह᳘राणी᳘तीत᳘ ऽइवा᳘हरति[[!!]]॥
मूलम् - Weber
अ᳘थ पश्चा᳘त्॥
अ᳘ग्ने य᳘त्ते शुक्रं य᳘च्चन्द्रं य᳘त्पूतं य᳘च्च यज्ञि᳘यमि᳘तीयं वा᳘ अग्नि᳘रस्यै त᳘दाह त᳘द्देवे᳘भ्यो भरामसी᳘ति त᳘दस्मै दै᳘वाय क᳘र्मणे हराम इ᳘त्येतत्ता᳘माहृत्या᳘न्तरेण पुछसंधि᳘मात्मन्नु᳘पदधाति स यः᳘ प्रती᳘च्यां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो प्रती᳘चीमे᳘वास्मिन्नेतद्दि᳘शं दधाति स न᳘ सम्प्रति᳘ पश्चादा᳘हरेन्ने᳘द्यज्ञ᳘पथाद्र᳘समाह᳘राणी᳘तीत इवा᳘हरति॥
मूलम् - विस्वरम्
अथ पश्चात्- “अग्रे यत्ते शुक्रं यच्चन्द्रं यत्पूतं यच्च यज्ञियम्”- इति । इयं वा ऽअग्निः । अस्यै तदाह । “तदेवेभ्यो भरामसि”- (वा० सं० १२ । १०४) इति । तदस्मै दैवाय कर्मणे हराम इत्येतत् । तामाहृत्यान्तरेण पुच्छसन्धिमात्मन्नुपदधाति । स यः प्रतीच्यां दिशि रसो ऽत्यक्षरत्- तमस्मिन्नेतद्दधाति । अथो प्रतीचीमेवास्मिन्नेतद्दिशं दधाति । स न सम्प्रति पश्चादाहरेत् । नेद्यज्ञपथाद्रसमाहराणीति । इत इवाहरति ॥ २२ ॥
सायणः
प्रतीच्यां दिशि समन्त्रकं लोकेष्टकाया आहरणं विधत्ते- अथ पश्चादिति । ‘अथ’ अनन्तरं प्रतीच्या दिशः सकाशात् स्फ्येन लोकेष्टकामाहरतीति शेषः । तत्र मन्त्रः- “अग्ने यत्ते” इति । अत्राग्निशब्देन तदधिष्ठिता भूमिरेव अभेदोपचारेणोच्यत इत्याह- इयं वा अग्निरिति । ‘अस्यै’ पृथिव्यै । तादर्थ्ये चतुर्थी । पूर्वार्द्धर्च्चेन प्रार्थनं पृथिव्यर्थमित्यर्थः । तृतीयपादमनूद्य देवशब्दस्य विवक्षितमर्थमाह- तदस्मै दैवायेति । एतदग्निचयनाख्यं कर्मैवात्र देवशब्दस्यार्थः । चितिरूपावयवभेदापेक्षया बहुवचनमित्यभिप्रायः ॥
अर्थस्तु- हे पृथिवि ! त्वदीयं यत् ‘शुक्रं’ रसवदङ्गम्, यच्च ‘चन्द्रम्’ आह्रादकरं, तथा ‘पूतं’ शुद्धं, ‘यज्ञियं’ यज्ञार्हं च यदस्ति, ‘तत्’ ‘अस्मै’ अग्न्याख्याय ‘दैवाय कर्मणे’ आहराम इति । ‘ताम्’ लोकेष्टकाम् ‘आहृत्य’ इत्यादि पूर्ववत् । पुच्छसन्धिमिति । पक्ष्याकारस्य चित्याग्नेः पुच्छस्यात्मभागस्य च यः सन्धिः, ‘तम्’ ‘अन्तरेण’ तस्य मध्ये ‘आत्मन्’ आत्मनि अन्यद् गतार्थम् ॥
साक्षात् पश्चादाहरणं निषेधति- स न सम्प्रतीति । ‘सः’ अध्वर्युः ‘सम्प्रति’ मुख्या या प्रतीची दिक्, तत्सकाशात् ‘नाहरेत्’ । निषेद्धुरभिप्रायमाह- नेद्यज्ञपथादिति । यज्ञस्य पन्थाः ‘यज्ञपथः,’ अग्नेः पाश्चात्त्यो देशो हविर्द्धानादिः; ततः सकाशान्नैव ‘रसमाहराणि’ इति । यदि खलु तादृग्विधात् साक्षात् पश्चाद्भागादाहरेत्, तर्हि प्रजापतिसम्बन्धिनो विस्रस्तरसस्याहृतत्वात् तत्र करिष्यमाणो यज्ञो नीरसः स्यादित्यभिप्रायः । कथं तर्हि तत्राहरणमित्यत आह- इत इवेति । ‘इतः’ प्रतीच्या दिश ‘इव’ न तु साक्षात् प्रतीच्या दिशः, उत्तरापरस्या दिश आहरेदित्यर्थः । तदुक्तं कात्यायनेन- “उत्तरापरस्याः पश्चात्” इति (का. श्रौ. सू. १७ । ५६) ॥ २२ ॥
Eggeling
- Then from behind (he fetches one, with Vāj. S. XII, 104), ‘O Agni, what in thee is pure, what brilliant, what clean, what meet for sacrifice,’–Agni doubtless is this (earth): of her he says this;–’that do we bring to the gods,’ that is, ’that we bring for this divine work.’ Having brought it he puts it on the body (of the altar) inside the junction of the tail (and the body): he thereby puts into him what vital sap had flowed away from him in the western direction, and also the western region itself he bestows upon him. Let him not take it exactly from the back (west) lest he should take the vital sap from the path of the sacrifice: he takes it from about there 12.
२३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोत्तरतः[[!!]]॥
(त ऽइ᳘) इ᳘षमू᳘र्जमह᳘मित ऽआ᳘दमिती᳘षमू᳘र्जमह᳘मित ऽआ᳘दद ऽइ᳘त्येत᳘दृत᳘स्य यो᳘निमि᳘ति सत्यं वा᳘ ऽऋत᳘ᳫँ᳘ सत्य᳘स्य यो᳘निमि᳘त्येत᳘न्महिष᳘स्य धारामि᳘त्यग्निर्व्वै᳘ महिषः स᳘ हीदं᳘ जातो᳘ महान्त्स᳘र्व्वमै᳘ष्णादा᳘ मा गो᳘षु व्विशत्वा᳘ तनूष्वि᳘त्यात्मा वै᳘ तनूरा᳘ मा गो᳘षु चात्म᳘नि च व्विशत्वि᳘त्येतज्ज᳘हामि सेदिम᳘निराम᳘मीवामि᳘ति सि᳘कताः प्र᳘ध्वᳫँ᳭ सयति त᳘द्यैव᳘ सेदिर्या᳘ ऽनिरा या᳘ ऽमीवा ता᳘मेत᳘स्यां दिशि᳘ दधाति त᳘स्मादेत᳘स्यां दिशि᳘ प्रजा᳘ ऽअशना᳘युकास्ता᳘माहृत्या᳘न्तरेण पक्षसन्धि᳘मात्मन्नु᳘पदधाति स य ऽउ᳘दीच्यां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो ऽउ᳘दीचीमे᳘वास्मिन्नेतद्दि᳘शं दधाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोत्तरतः[[!!]]॥
(त ऽइ᳘) इ᳘षमू᳘र्जमह᳘मित ऽआ᳘दमिती᳘षमू᳘र्जमह᳘मित ऽआ᳘दद ऽइ᳘त्येत᳘दृत᳘स्य यो᳘निमि᳘ति सत्यं वा᳘ ऽऋत᳘ᳫँ᳘ सत्य᳘स्य यो᳘निमि᳘त्येत᳘न्महिष᳘स्य धारामि᳘त्यग्निर्व्वै᳘ महिषः स᳘ हीदं᳘ जातो᳘ महान्त्स᳘र्व्वमै᳘ष्णादा᳘ मा गो᳘षु व्विशत्वा᳘ तनूष्वि᳘त्यात्मा वै᳘ तनूरा᳘ मा गो᳘षु चात्म᳘नि च व्विशत्वि᳘त्येतज्ज᳘हामि सेदिम᳘निराम᳘मीवामि᳘ति सि᳘कताः प्र᳘ध्वᳫँ᳭ सयति त᳘द्यैव᳘ सेदिर्या᳘ ऽनिरा या᳘ ऽमीवा ता᳘मेत᳘स्यां दिशि᳘ दधाति त᳘स्मादेत᳘स्यां दिशि᳘ प्रजा᳘ ऽअशना᳘युकास्ता᳘माहृत्या᳘न्तरेण पक्षसन्धि᳘मात्मन्नु᳘पदधाति स य ऽउ᳘दीच्यां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो ऽउ᳘दीचीमे᳘वास्मिन्नेतद्दि᳘शं दधाति॥
मूलम् - Weber
अ᳘थोत्तरतः᳟॥
इ᳘षमू᳘र्जमह᳘मित आ᳘दमिती᳘षमू᳘र्जमह᳘मित आ᳘दद इ᳘त्येत᳘दृत᳘स्य यो᳘निमि᳘ति सत्यं वा᳘ ऋत᳘ᳫं᳘ सत्य᳘स्य यो᳘निमि᳘त्येत᳘न्महिष᳘स्य धारामि᳘त्यग्निर्वै᳘ महिषः सॗ हीदं᳘ जातो᳘ महान्त्स᳘र्वमै᳘ष्णादा᳘ मा गो᳘षु विशत्वा᳘ तनूष्वि᳘त्यात्मा वै᳘ तनूरा᳘ मा गो᳘षु चात्म᳘नि च विशत्वि᳘त्येतज्ज᳘हामि सेदिम᳘निराम᳘मीवामि᳘ति सि᳘कताः प्र᳘ध्वंसयति तॗद्यैव᳘ सेदिर्या᳘निरा या᳘मीवा ता᳘मेत᳘स्यां दिशि᳘ दधाति त᳘स्मादेत᳘स्यां दिशि᳘ प्रजा᳘ अशना᳘युकास्ता᳘माहृत्या᳘न्तरेण पक्षसंधि᳘मात्मन्नु᳘पदधाति स य उ᳘दीच्यां दिशि र᳘सो ऽत्य᳘क्षरत्त᳘मस्मिन्नेत᳘द्दधात्य᳘थो उ᳘दीचीमेॗवास्मिन्नेतद्दि᳘श दधाति॥
मूलम् - विस्वरम्
अथोत्तरतः- “इषमूर्जमहमित आदम्”- इति । इषमूर्जमहमित आदद ऽइत्येतत् । “ऋतस्य योनिम्”- इति । सत्यं वा ऽऋतम् । सत्यस्य योनिमित्येतत् । “महिषस्य धाराम्”- इति । अग्निर्वै महिषः । स हीदं जातो महान् सर्वमैष्णात् । “आ मा गोषु विशत्वा तनूषु”- इति । आत्मा वै तनूः । आ मा गोषु च, आत्मनि च विशत्वित्येतत् । “जहामि सेदिमनिराममीवाम्”- (वा० सं० १२ । १०५) इति सिकताः प्रध्वंसयति । तद्यैव सेदिः, या ऽनिरा, या ऽमीवा- तामेतस्यां दिशि दधाति । तस्मादेतस्यां दिशि प्रजा अशनायुकाः । तामाहृत्यान्तरेण पक्षसन्धिमात्मन्नुपदधाति । स य उदीच्यां दिशि रसो ऽत्यक्षरत्- तमस्मिन्नेतद्दधाति । अथो ऽउदीचीमेवास्मिन्नेतदिशं दधाति ॥ २३ ॥
सायणः
उत्तरस्या दिश आहरणं विधत्ते- अथोत्तरत इति । आहरतीति शेषः । “इषमूर्ज्जम्” इत्याहरणमन्त्रः । ‘आदम्’- इति क्रियापदस्यार्थमाह- आदद इत्येतदिति । मनसा यथार्थं सङ्कल्पनम् ‘ऋतम्,’ यथार्थभाषणम् ‘सत्यम्’ अत्र तु “ऋतस्य योनिम्”- इति मन्त्रभागे तादृशो भेदो न विवक्षित इत्यभिप्रेत्याह- सत्यं वा ऋतमिति । महिषस्य धारामिति । महिषशब्दस्यार्थमाह- अग्निर्वै महिष इति । कथमस्य महिषशब्दाभिधेयतेत्याशङ्क्य तन्निर्ब्रूते- स हीदं जात इति । ‘सः’ खल्वग्निः ‘इदम्’ इदानीम् ‘जातः’ जातमात्र एव ‘महान्’ अतिरिक्तो भूत्वा ‘सर्वं” जगद् ‘ऐष्णात्’ व्याप्नोत् । अतो महत्त्वादेषितृत्वाच्च महिषशब्दाभिधेयः संपन्न इत्यर्थः । “ऐष्णात्”- इति “इष आभीक्ष्ण्ये”- इत्यस्माल्लङ् (धा. पा. क्र्या. प. ५३) । तृतीयं पादमनूद्य तत्र तनूशब्दस्यार्थमभिधाय योजयति- आ मेति । तनूष्विति बहुवचनम्, तेन बह्ववयवोपेत आत्मा देह उच्यते । गतमन्यत् ॥
मन्त्रार्थस्तु- ‘इषम्’ इष्यमाणमन्नम् । ‘ऊर्ज्जम्’ बलकरं रसम् । ‘इतः’ अस्या उदीच्या दिशः सकाशादहम् ‘आददे’ । किंविशिष्टम् ? ‘ऋतस्य’ सत्यस्य यथार्थफलस्य यज्ञस्य ‘योनिम्’ कारणम्, “महिषस्य’ महतो ऽग्नेः ‘धाराम्’ धाराप्रवाहभूताम् तद्वत्साधिताम् । ईदृशी च सा, मामुद्दिश्य मदीयासु ‘गोषु’ “तनूषु’ शरीरेषु ‘आविशतु’- इति चतुर्थेन पादेन सम्बन्धः ॥
तस्यां दिशि सिकतानां प्रध्वंसनं विधत्ते- जहामीति । अत एवोक्तं कात्यायनेन- “उत्तरस्याः सिकताः प्रमार्ष्टि जहामि सेदिमिति” (का. श्रौ. सू. १७ । ५७) इति । मन्त्रस्यार्थमाह- तद्यैवेति । ‘तत्’ तत्र ‘यैव’ खलु ‘सेदिः’ अवसादापरपर्याया हानिः, या च ‘अनिरा’ इरा अन्नम् (निघं. २ । ७ । १३) तदभावरूपा पीडा, या च ‘अमीवा’ रोगात्मिका । ‘ताम्’ ‘एतस्याम्’ उत्तरस्याम् ‘दिशि’ एतन्मन्त्रकरणकेन सिकताप्रध्वंसनेन स्थापयति । इरादीनां तत आहृतत्वादिति भावः । एतच्च तत्कार्यदर्शनादवगम्यत इत्याह-तस्मादिति । यस्माद् अवसादादीनि स्थापितानि, तस्मादेतस्यामुत्तरस्यां दिशि सर्वाः ‘प्रजाः’ ‘अशनायुकाः’ अशनाया अशनेच्छा क्षुधा, तया पीडिता दृश्यन्त इत्यर्थः । तामाहृत्येत्यादि- पूर्ववत् ॥ २३ ॥
Eggeling
- Then from the north, with (Vāj. S. XII, 105), ‘Sap and strength have I taken from here 13,’–that is, ‘Sap and strength I take from here;’–’the womb of sacred law,’ the sacred law doubtless is the truth: thus, ’the womb of the truth;’–’the stream of the mighty,’ the mighty (buffalo, or
mahisha) doubtless is Agni, for he, being born here great (mahat), animated everything;–‘May it accrue to me in the cows, in the bodies,’–the body is the self: thus, ‘May it accrue to me both in the cows and in (my own) self;’–‘I leave behind decline, weakness, sickness!’ therewith he spreads the sand (by stroking): he thereby consigns to that (northern) region whatever decline, weakness, and sickness there is; whence hungry people (live) in that region. Having brought that (clod), he puts it on the body (of the altar) on the middle of the junction of the (left) wing (and the body): he thereby puts into him (Agni) what vital sap flowed away in the northerly direction; and also the northern region itself he bestows upon him.
२४
विश्वास-प्रस्तुतिः
ता᳘ ऽएता दि᳘शः॥
(स्ताः᳘) ताः᳘ सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्तद्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तो दि᳘शः सर्व्व᳘तः समी᳘चीः सर्व्व᳘तस्त᳘त्समी᳘चीर्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तः समी᳘च्यो दि᳘शस्ता ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना हि दि᳘शस्ति᳘ष्ठन्नु᳘पदधाति ति᳘ष्ठन्तीव हि दिशो᳘ ऽथो ति᳘ष्ठन्वै᳘ व्वी᳘र्यवत्तरः[[!!]]॥
मूलम् - श्रीधरादि
ता᳘ ऽएता दि᳘शः॥
(स्ताः᳘) ताः᳘ सर्व्व᳘त ऽउ᳘पदधाति सर्व्व᳘तस्तद्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तो दि᳘शः सर्व्व᳘तः समी᳘चीः सर्व्व᳘तस्त᳘त्समी᳘चीर्दि᳘शो दधाति त᳘स्मात्सर्व्व᳘तः समी᳘च्यो दि᳘शस्ता ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘ ऽधिवदति ना᳘ना हि दि᳘शस्ति᳘ष्ठन्नु᳘पदधाति ति᳘ष्ठन्तीव हि दिशो᳘ ऽथो ति᳘ष्ठन्वै᳘ व्वी᳘र्यवत्तरः[[!!]]॥
मूलम् - Weber
ता᳘ एता दि᳘शः॥
ताः सक्व᳘त उ᳘पदधाति सर्व᳘तस्तद्दि᳘शो दधाति त᳘स्मात्सर्व᳘तो दि᳘शः सर्व᳘तः समी᳘चीः सर्व᳘तस्त᳘त्समी᳘चीर्दि᳘शो दधाति त᳘स्मात्सर्व᳘तः समी᳘च्यो दि᳘शस्ता ना᳘नोपद᳘धाति ना᳘ना सादयति ना᳘ना सू᳘ददोहसा᳘धिवदति ना᳘ना हि दि᳘शस्ति᳘ष्ठन्नु᳘पदधाति ति᳘ष्ठन्तीव हि दिशो᳘ ऽथो ति᳘ष्ठन्वै᳘ वीर्य᳘वत्तरः॥
मूलम् - विस्वरम्
ता एता दिशः। ताः सर्वत उपदधाति । सर्वतस्तद्दिशो दधाति । तस्मात् सर्वतो दिशः । सर्वतः समीचीः । सर्वतस्तत् समीचीर्दिशो दधाति । तस्मात् सर्वतः समीच्यो दिशः । ता नानोपदधाति, नाना सादयति, नाना सूददोहसा ऽधिवदति । नाना हि दिशः । तिष्ठन्नुपदधाति । तिष्ठन्तीव हि दिशः । अथो तिष्ठन्वै वीर्यवत्तरः ॥ २४ ॥
सायणः
अथैताः सम्भूय प्रशंसति- ता एता दिश इति । ‘ताः’ प्राच्यादिदिक्षु क्रमेणोपहिताः ‘एताः’ इष्टका ‘दिशः’ दिगात्मिकाः, ‘ताः’ सर्वाभ्यो दिग्भ्यः आहृत्य ‘उपदधाति’ । तेन चोपधानेन ‘सर्वतः’ एव ‘दिशः’ ‘दधाति’ स्थापयति । तस्मादेव कारणादिदानीं सर्वतो दिशो दृश्यन्ते ॥
धर्मविशेषं विधाय स्तौति- सर्वतः समीची इति । सर्वासु दिक्षु ‘समीचीः’ सङ्गतदिगाभिमुख्यं गता उपदधाति, न तु तिर्यक्त्वेनेत्यर्थः । ‘तत्’ तेन ‘सर्वतः’ दिश एव ‘समीचीः’ अनूचीनाग्राः स्थापयति । ‘तस्माद्’ इति फलनिर्देशः । उपधानादीनां पृथगनुष्ठानं विधत्ते- ता नानोपदधातीति । प्रतीष्टकं समन्त्रकं स्थापनं पृथगेव कर्त्तव्यम्, “तया देवतया” इति सादनमपि पृथक् “ता अस्येति” सूददोहसा मन्त्रेणाधिवदनमपि पृथक् । तत्र कारणमाह- नाना हीति । ‘हि’ यस्मात् ‘दिशः’ परस्परं विभिन्नाः, अतो दिक्संस्तुतानामप्यासां पृथगुपधानादिकं युक्तमित्यर्थः । तस्मिन्नुपधाने स्थितिगुणं विधत्ते- तिष्ठन्निति । ‘तिष्ठन्’ न तु आसीन इत्यर्थः । तिष्ठन्तीव हि दिश इति । प्राच्याद्या ‘दिशः’ अपि ‘हि’ ‘तिष्ठन्तीव’ ऊर्ध्वाकारतया दृश्यमानाः स्थितियुक्ता इव लक्ष्यन्त इत्यर्थः । ‘अथो’ अपि च आसीनात् पुरुषात् ‘तिष्ठन्’ खलु ‘वीर्यवत्तरः’ अधिकवीर्यवान् । इतो ऽपि तिष्ठता उपधेया इत्यर्थः ॥ २४ ॥
Eggeling
- These same (clods) are the regions; he places them on all sides: he thus places the regions on all sides; whence the regions are on every side. [He places the clods so] as to face each other from every side: he thereby places the regions to face each other from every side, and hence the regions face each other from every side. He places them separately, ‘settles 14’ them separately, and separately pronounces the Sūdadohas upon them; for separate from each other are the regions. Standing he places them, for the regions, as it were, stand; and stronger, indeed, one is whilst standing.
२५
विश्वास-प्रस्तुतिः
(स्ता᳘) ता᳘ ऽएता य᳘जुष्मत्य ऽइ᳘ष्टकाः॥
(स्ता᳘) ता᳘ ऽआत्म᳘न्ने᳘वोपद᳘धाति न᳘ पक्षपुच्छे᳘ष्वात्म᳘न्ह्येव य᳘जुष्मत्य ऽइ᳘ष्टका ऽउपधीय᳘न्ते न᳘ पक्षपुच्छे᳘षु॥
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘ ऽएता य᳘जुष्मत्य ऽइ᳘ष्टकाः॥
(स्ता᳘) ता᳘ ऽआत्म᳘न्ने᳘वोपद᳘धाति न᳘ पक्षपुच्छे᳘ष्वात्म᳘न्ह्येव य᳘जुष्मत्य ऽइ᳘ष्टका ऽउपधीय᳘न्ते न᳘ पक्षपुच्छे᳘षु॥
मूलम् - Weber
ता᳘ एता य᳘जुष्मत्य इ᳘ष्टकाः॥
ता᳘ आत्म᳘न्नैॗवोपद᳘धाति न᳘ पक्षपुछे᳘ष्वात्मॗन्ह्येव य᳘जुष्मत्य इ᳘ष्टका उपधीय᳘न्ते न᳘ पक्षपुछे᳘षु॥
मूलम् - विस्वरम्
ता एता यजुष्मत्य इष्टकाः । ता आत्मन्नेवोपदधाति, न पक्षपुच्छेषु । आत्मन्ह्येव यजुष्मत्य इष्टका उपधीयन्ते, न पक्षपुच्छेषु ॥ २५ ॥
सायणः
अथासां समन्त्रकत्वमनूद्य अग्निक्षेत्रस्यात्मभाग एवोपधानं प्रतिपादयति- ता एता इति । यजुष्मत्य इति । करणभूतैर्यजुर्मन्त्रैर्युक्ता इत्यर्थः । ‘ताः’ ‘आत्मन्’ आत्मनि आत्मभागे एव ‘उपदधाति’ । अवधारणफलमाह- न पक्षेति । तत्र कारणमाह- आत्मन् ह्येवेति । आत्मभागे एव हि यजुर्मन्त्रोपधेया वक्ष्यमाणा इष्टका डपधीयन्ते; अत एवासामुपधानमपि समन्त्रकमित्यात्मन्येवेति नियमद्वयमुपपन्नमित्यर्थः ॥ २५ ॥
Eggeling
- These same (clods) are bricks having special prayers (yajushmatī 15): on the body (of the altar) he places them, not on the wings and tail; for bricks having special prayers are placed on the body, not on the wings or tail.
२६
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
कथ᳘मस्यैताः᳘ पक्वाः᳘ शृता ऽउ᳘पहिता भवन्ती᳘ति र᳘सो वा᳘ ऽएताः᳘ स्वयᳫँ᳭ शृत᳘ ऽउ वै रसो᳘ ऽथो यद्वै किं᳘ चैत᳘मग्निं᳘ वैश्वानर᳘मुपनिग᳘च्छति त᳘त ऽएव त᳘त्पक्व᳘ᳫँ᳘ शृतमु᳘पहितं भवति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
कथ᳘मस्यैताः᳘ पक्वाः᳘ शृता ऽउ᳘पहिता भवन्ती᳘ति र᳘सो वा᳘ ऽएताः᳘ स्वयᳫँ᳭ शृत᳘ ऽउ वै रसो᳘ ऽथो यद्वै किं᳘ चैत᳘मग्निं᳘ वैश्वानर᳘मुपनिग᳘च्छति त᳘त ऽएव त᳘त्पक्व᳘ᳫँ᳘ शृतमु᳘पहितं भवति॥
मूलम् - Weber
त᳘दाहुः॥
कथ᳘मस्यैताः᳘ पक्वाः᳘ शृता उ᳘पहिता भवन्ती᳘ति र᳘सो वा᳘ एताः᳘ स्वयंशृत᳘ उ वै रसो᳘ ऽथो यद्वै किं᳘ चैत᳘मग्निं᳘ वैश्वानर᳘मुपनिग᳘छति त᳘त एव त᳘त्पक्वं᳘ शृतमु᳘पहितम् भवति॥
मूलम् - विस्वरम्
तदाहुः- कथमस्यैताः पक्वाः शृता उपहिता भवन्तीति । रसो वा ऽएताः । स्वयं शृत उ वै रसः । अथ यद्वै किञ्चैतमग्निं वैश्वानरमुपनिगच्छति- तत एव तत् पक्वम्, शृतम्, उपहितं भवति ॥ २६ ॥
सायणः
अथेतरेष्टकावदासां श्रपणाभावादशृतत्वमाशङ्क्य निरस्यति- तदाहुरिति । ‘अस्य’ अग्नेः ‘एताः’ लोकेष्टकाः ‘कथं’ केन प्रकारेण ‘पक्वाः शृताः’ पाचनसंस्कारसंस्कृताः सुशृताः सत्य उपहिताः ‘भवन्ति’ इति ब्रह्मवादिनां प्रश्नः । ‘रसो वा एताः’- इति अस्योत्तरम् । विस्रस्तस्य प्रजापतिशरीरस्य रसरूपाः खल्वेता इष्टकाः ‘स्वयं शृताः’ खलु, अग्न्यादिपाकानपेक्षः खलु रसः । परिहारान्तरमाह- अथो इति । ‘अथो’ शब्दः पक्षान्तरद्योतने । एष एव हि चित्यो ऽग्निः जीव्यो भूत्वा विश्वनरसम्बन्धी वर्त्तते ‘यत्’ किञ्चिदप्यामद्रव्यम् ‘एतमग्निं वैश्वानरम्’ प्राप्तोति, ‘तत एव’ तस्मादेव संसर्गात् ‘तत्’ सर्वम् ‘पक्वं शृतम्’ पाकेन संस्कृतं सुशृतं सत् ‘तत्’ तत्र ‘उपहितम्’ ‘भवति’ इत्यर्थः ॥ २६ ॥
Eggeling
- As to this they say, ‘How do these (clod-bricks) come to be put on as baked, as heated (burnt) ones?’ Well, these (clods) are vital sap, and the vital sap (blood) is naturally-heated; and, moreover, whatever comes in contact with Agni Vaiśvānara, even thereby comes to be put on as baked, as heated.
२७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोत्तरवेदिं नि᳘वपति॥
(ती) इयं वै᳘ व्वे᳘दिर्द्यौ᳘रुत्तरवेदिर्दि᳘शो लोगेष्टकास्तद्यद᳘न्तरेण व्वे᳘दिं चोत्तरवेदिं᳘ च लोगेष्टका᳘ ऽउपद᳘धातीमौ त᳘ल्लोकाव᳘न्तरेण दि᳘शो दधाति त᳘स्मादिमौ᳘ लोकाव᳘न्तरेण दि᳘शस्तां᳘ युगमात्रीं᳘ वा सर्व्व᳘तः करो᳘ति चत्वारिᳫँ᳭श᳘त्पदां वा यतर᳘था काम᳘येता᳘थ सि᳘कता नि᳘वपति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोत्तरवेदिं नि᳘वपति॥
(ती) इयं वै᳘ व्वे᳘दिर्द्यौ᳘रुत्तरवेदिर्दि᳘शो लोगेष्टकास्तद्यद᳘न्तरेण व्वे᳘दिं चोत्तरवेदिं᳘ च लोगेष्टका᳘ ऽउपद᳘धातीमौ त᳘ल्लोकाव᳘न्तरेण दि᳘शो दधाति त᳘स्मादिमौ᳘ लोकाव᳘न्तरेण दि᳘शस्तां᳘ युगमात्रीं᳘ वा सर्व्व᳘तः करो᳘ति चत्वारिᳫँ᳭श᳘त्पदां वा यतर᳘था काम᳘येता᳘थ सि᳘कता नि᳘वपति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
अ᳘थोत्तरवेदिं नि᳘वपति॥
इयं वै᳘ वेदिर्द्यै᳘रुत्तरवेदिर्दि᳘शो लोगेष्टकास्तद्यद᳘न्तरेण वे᳘दिं चोत्तरवेदिं᳘ च लोगेष्टका᳘ उपद᳘धातीमौ त᳘ल्लोकाव᳘न्तरेण दि᳘शो दधाति त᳘स्मादिमौ᳘ लोकाव᳘न्तरेण दिशस्तां᳘ युगमात्रीं᳘ वा सर्व᳘तः करो᳘ति चत्वारिंश᳘त्पदां वा यतर᳘था कामयेता᳘थ सि᳘कता नि᳘वपति त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
अथोत्तरवेदिं निवपति । इयं वै वेदिः । द्यौरुत्तरवेदिः । दिशो लोगेष्टकाः । तद् यदन्तरेण वेदिं चोत्तरवेदिं च लोगेष्टका उपदधाति- इमौ तल्लोकावन्तरेण दिशो दधाति । तस्मादिमौ लोकावन्तरेण दिशः । तां युगमात्रीं वा सर्वतः करोति, चत्वारिंशत्पदां वा- यतरथा कामयेत । अथ सिकता निवपति । तस्योक्तो बन्धुः ॥ २७ ॥
सायणः
चोदकप्राप्तमुत्तरवेदिनिवपनमस्मिन् काले कर्त्तव्यमिति विधत्ते- अथेति 16 । लोकेष्टकोपधानानन्तर्यम् ‘अथ’ शब्दार्थः । एतदुपपादयति- इयं वा इत्यादिना । ‘इयम्’ भूमिरेव महावेदिः ‘उत्तरवेदिः’ द्युलोकात्मिका, लोकेष्टकात्मिका ‘दिशः’ । एवं च वेद्युत्तरवेद्योर्मध्ये लोकेष्टकोपधानं द्यावापृथिव्योर्मध्ये दिशां स्थापनाय भवति । ‘तस्मात्’ कारणादिदानीमनयोर्लोकयोमध्ये दिशो लक्ष्यन्त इत्यर्थः । उत्तरवेदेः परिमाणं विधत्ते- तां युगमात्रीमिति । षडशीत्यंगुलपरिमितं युगम्; 17 उक्तं ह्यापस्तम्बेन- “अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशतम् षडशीतिर्युगं चास्य” इति । ‘सर्वतः’ सर्वासु दिक्षु तावन्मात्रामुत्तरवेदिं कुर्यादित्येकं परिमाणम्, ‘चत्वारिंशत्पदां वेति’ परिमाणान्तरम् । चत्वारिंशत्पदानि प्रमाणमस्याः सा तथोक्ता । अनयोः प्रमाणयोर्मध्ये ‘यथा’ येन प्रकारेण ‘कामयेत’ तथा कुर्यादित्यर्थः ॥
सिकतानिवपनं विधत्ते- अथेति 18 । उत्तरवेदिनिवपनानन्तर्यम् ‘अथ’ शब्दार्थः । तस्योक्त इति । ‘तस्य’ सिकतानिवपनस्य स्तावको वाक्यशेषः “अग्नेरेतद् वैश्वानरस्य भस्म यत् सिकताः” इत्यादिः प्राणाम्नात इत्यर्थः (श. प. ७ । १ । १ । ९) ॥ २७ ॥
Eggeling
- He then throws up the Uttara-vedi 19 (high-altar),–the Vedi is this (earth), the Uttara-vedi the sky, and the clod-bricks are the regions: thus when he puts on the clod-bricks between (the preparation of) the Vedi and (that of) the Uttara-vedi, he thereby places the regions between these two worlds; whence the regions are between these two worlds. He makes it either a yoke long on each side, or forty feet,–whichever way he pleases. He then throws sand thereon: the meaning of this has been explained.
२८
विश्वास-प्रस्तुतिः
(स्ता᳘) ता᳘ ऽउत्तरवेदौ नि᳘वपति॥
यो᳘निर्व्वा᳘ ऽउत्तरवेदिर्यो᳘नौ तद्रे᳘तः सिञ्चति यद्वै यो᳘नौ रे᳘तः सिच्य᳘ते त᳘त्प्रजनिष्णु᳘ भवति ता᳘भिः स᳘र्व्वमात्मा᳘नं प्र᳘च्छादयति स᳘र्व्वस्मिंस्त᳘दात्मन्रे᳘तो दधाति त᳘स्मात्स᳘र्व्वस्मादे᳘वात्म᳘नो रे᳘तः स᳘म्भवति॥
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘ ऽउत्तरवेदौ नि᳘वपति॥
यो᳘निर्व्वा᳘ ऽउत्तरवेदिर्यो᳘नौ तद्रे᳘तः सिञ्चति यद्वै यो᳘नौ रे᳘तः सिच्य᳘ते त᳘त्प्रजनिष्णु᳘ भवति ता᳘भिः स᳘र्व्वमात्मा᳘नं प्र᳘च्छादयति स᳘र्व्वस्मिंस्त᳘दात्मन्रे᳘तो दधाति त᳘स्मात्स᳘र्व्वस्मादे᳘वात्म᳘नो रे᳘तः स᳘म्भवति॥
मूलम् - Weber
ता᳘ उत्तरवेदौ नि᳘वपति॥
यो᳘निर्वा᳘ उत्तरवेदिर्यो᳘नौ तद्रे᳘तः सिञ्चति यद्वै यो᳘नौ रे᳘तः सिच्य᳘ते त᳘त्प्रजनिष्णु᳘ भवति ता᳘भिः स᳘र्वमात्मा᳘नम् प्र᳘छादयति स᳘र्वस्मिंस्त᳘दात्मन्रे᳘तो दधाति त᳘स्मात्स᳘र्वस्मादेॗवात्म᳘नो रे᳘तः स᳘म्भवति॥
मूलम् - विस्वरम्
ता उत्तरवेदौ निवपति । योनिर्वा ऽउत्तरवेदिः । योनौ तद् रेतः सिञ्चति । यद्वै योनौ रेतः सिच्यते- तत्प्रजनिष्णु भवति । ताभिः सर्वमात्मानं प्रच्छादयति । सर्वस्मिंस्तदात्मन् रेतो दधाति । तस्मात्सर्वस्मादेवात्मनो रेतः सम्भवति ॥ २८ ॥
सायणः
तस्य निवपनस्य स्थानविशेषं विधाय स्तौति- ता उत्तरवेदाविति । अग्निवपनक्षेत्रे युगमात्रीत्यादिलक्षणा योत्तरवेदिर्नियुक्ता, तस्यां सिकताः निवपति । योनिर्वा उत्तरवेदिरिति । निखिलयागोत्पत्तिकारणाहवनीयस्थानत्वात् ‘उत्तरवेदिः’ अपि ‘योनिः’ । अत एवाग्निप्रणयनीयास्वाम्नायते- (ऐ. ब्रा. १ । ५ । २) “ऊर्णावन्तं प्रथमः सीद योनिम्” इति (ऋक् सं० ६ । १५ । १६) । ‘तत्’ तेन उत्तरवेदौ सिकतानां निवपनेन ‘योनौ’ एव ‘रेतः’ सिक्तं भवतीत्यर्थः । ‘यत्’ खलु, ‘योनौ’ गर्भाशये ‘रेतः’ ‘सिच्यते’ ‘तत्’ ‘प्रजनिष्णु’ प्रजननशीलम्, उत्पत्तिमद् ‘भवति’ ॥
अस्यात्मभागस्य ताभिः प्रच्छादनं विधत्ते- ताभिः सर्वमिति । ‘तत्’ तेन प्रच्छादनेन ‘सर्वस्मिन्नेव’ आत्मनि ‘रेतः’ ‘दधाति’ स्थापयति । ‘तस्मात्’ एव कारणात् ‘सर्वस्मादेव’ हस्तपादादिसर्वावयवसहितात् ‘आत्मनः’ देहात् ‘रेतः’ ‘सम्भवति’ उत्पद्यते । अत एव-मन्त्रवर्णः- “अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे”- इति (सा. वे. मं. ब्रा. १ प्र. ५ ख. १६ म.) ॥ २८ ॥
Eggeling
- He throws it on the Uttara-vedi;–the Uttaravedi is the womb: he thus infuses seed into the womb; and the seed which is infused into the womb becomes generative. He covers the whole body (of the altar) with that (sand): he thus puts seed into the whole body 20; whence the seed is produced from the whole body.
२९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘ग्ने त᳘व श्र᳘वो व्व᳘य ऽइ᳘ति॥
धूमो वा᳘ ऽअस्य श्र᳘वो व्व᳘यः स᳘ ह्येनममुष्मिंल्लोके᳘ श्राव᳘यति म᳘हि भ्राजन्ते ऽअर्च᳘यो व्विभावसावि᳘ति महतो᳘ भ्राजन्ते ऽर्च᳘यः प्रभूवसवि᳘त्येतद्बृ᳘हद्भानो श᳘वसा व्वा᳘जमु᳘क्थ्यमि᳘ति ब᳘लं वै श᳘वो बृ᳘हद्भानो ब᳘लेना᳘न्नमु᳘क्थ्यमि᳘त्येतद्द᳘धासि[[!!]] दाशु᳘षे कव ऽइ᳘ति य᳘जमानो वै᳘ दाश्वान्द᳘धासि य᳘जमानाय कव ऽइ᳘त्येत᳘त्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘ग्ने त᳘व श्र᳘वो व्व᳘य ऽइ᳘ति॥
धूमो वा᳘ ऽअस्य श्र᳘वो व्व᳘यः स᳘ ह्येनममुष्मिंल्लोके᳘ श्राव᳘यति म᳘हि भ्राजन्ते ऽअर्च᳘यो व्विभावसावि᳘ति महतो᳘ भ्राजन्ते ऽर्च᳘यः प्रभूवसवि᳘त्येतद्बृ᳘हद्भानो श᳘वसा व्वा᳘जमु᳘क्थ्यमि᳘ति ब᳘लं वै श᳘वो बृ᳘हद्भानो ब᳘लेना᳘न्नमु᳘क्थ्यमि᳘त्येतद्द᳘धासि[[!!]] दाशु᳘षे कव ऽइ᳘ति य᳘जमानो वै᳘ दाश्वान्द᳘धासि य᳘जमानाय कव ऽइ᳘त्येत᳘त्॥
मूलम् - Weber
अ᳘ग्ने त᳘व श्र᳘वो व᳘य इ᳘ति॥
धूमो वा᳘ अस्य श्र᳘वो व᳘यः सॗ ह्येनममु᳘ष्मिंलोके᳘ श्राव᳘यति म᳘हि भ्राजन्ते अर्च᳘यो विभावसावे᳘ति महतो᳘ भ्राजन्ते ऽर्च᳘यः प्रभूवसवि᳘त्येतद्बृ᳘हद्भानो श᳘वसा वा᳘जमुक्थ्यमि᳘ति ब᳘ल वै श᳘वो बृ᳘हद्भानो व᳘लेना᳘न्नमुक्थ्य᳘मि᳘त्येतद्द᳘धासि दाशु᳘षे कव इ᳘ति य᳘जमानो वै᳘ दाश्वान्द᳘धासि य᳘जमानाय कव इ᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“अग्ने तव श्रवो वयः”- इति । धूमो वा ऽअस्य श्रवो वयः । स ह्येनममुष्मिंल्लोके श्रावयति । “महि भ्राजन्ते अर्चयो विभावसो”- इति । महतो भ्राजन्ते ऽर्चयः प्रभूवसवित्येतत् । “बृहद्भानो शवसा वाजमुक्थ्यम्”- इति । बलं वै शवः । बृहद्भानो बलेनान्नमुक्थ्यमित्येतत् । “दधासि दाशुषे कवे”- (वा. सं. १२ । १०६) इति । यजमानो वै दाश्वान् । दधासि यजमानाय कव ऽइत्येतत् ॥ २९ ॥
सायणः
अस्मिन्निवपने, “अग्ने तव”- इति षडृचं सूक्तं (वा. सं. १२ । १०६-१११) करणत्वेन विधत्ते- अग्ने तव श्रवो वय इतीति । तत्र ‘श्रवः’ इति पदस्याभिप्रेतमर्थमाह- धूमो वा अस्येति । ‘अस्य’ अग्नेः ‘श्रवः’ श्रवणहेतुः ‘वयः’ स्वरूपम् ‘धूमो वै’ धूमः खलु । एतदुपपादयति- स ह्येनमिति । ‘एनम्’ अग्निम् ‘अमुष्मिन्’ स्वर्गे ‘लोके’ ‘सः’ खलु धूमः ‘श्रावयति’ प्रख्यापयति; आकाशे धूमं दृष्ट्वा यागार्थमग्नय आहिता इति द्युलोकवर्तिनो देवा बुध्यन्त इत्यर्थः । अतो ऽन्तर्भावितण्यर्थात् शृणोतेः श्रात्रयत्यनेनेति करणे “ऋदोरप्” (पा. सू. ३-३-५७) इत्यनेनाप्प्रत्यये श्रव इति रूपं भवति ॥
द्वितीयं पादमनूद्य तत्रत्यं पदद्वयं व्याचष्टे- महि भ्राजन्त इति । महत्प्रातिपदिकस्य अच्छब्दलोपे सति महीति सप्तम्यन्तं पदम् । अत्र “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इति व्यत्ययेन षष्ठ्यर्थो वर्त्तत इति व्याचष्टे- महतो भ्राजन्त इति । ‘विभा’ शब्दस्य तेजोवाचकत्वं प्रसिद्धम्, अत्र तु भूयस्त्वमेव तेन शब्देन विवक्षितमित्याह- प्रभूवसवित्येतदिति ॥
तृतीयपादमनूद्य शवसेत्यस्य बलमर्थः (निघं० २ ।९ ३) ‘वाज’ शब्दस्य चान्नमर्थः (निघं ० २ । ७ । २) इत्याह- बलं वै शव इत्यादिना ॥
चतुर्थपादमनूद्य दाशुष इति पदस्यार्थमाह- यजमानो वै दाश्वानिति । “दाशृ दाने”- (धा. पा. भ्वा. उ. ९०७) इत्यस्मात् क्वसौ “दाश्वान् साह्वान्”- (पा. सू. ६ । १ । १२) इति निपातनाद् दत्तवानित्यर्थो भवति, स चात्र प्रकरणाद् यजमान एवेत्यभिप्रायः ॥
ऋगर्थस्तु- हे ‘अग्ने’! ‘तव’ सम्बन्धी ‘श्रवः’ धूमः आहुतिपरिणामरूपत्वाद् ‘वयः’ देवानामन्नम् (निघं० २ । ७ । ७) । हे ‘विभावसो’ प्रभूतधनाग्ने ! ‘महि’ महतस्तत्र ‘अर्च्चयः’ अर्चींषि ‘भ्राजन्ते’ दीप्यन्ते । किंच हे ‘बृहद्भानो’ महादीप्ते ! हे ‘कवे’ क्रान्तदर्शिन् ! ‘शवसा’ बलेन सहितम् ‘उक्थ्यम्’ उक्थार्हं प्रशस्यं ‘वाजम्’ अन्नम् ‘दाशुषे’ दत्तवते यजमानाय ‘दधासि’ प्रयच्छसीति ॥ २९ ॥
Eggeling
- [He throws it on the high-altar, with Vāj. S. XII, 106-I11; R̥k S. X, 140] ‘Thine, O Agni, is glory and vigour,’–his glory (śravas) and vigour doubtless is the smoke, for that announces (śrāvaya) him in yonder world,–‘mighty shine forth the
flames, O rich-beamed one!’ that is, ’the flames of (thee), the mighty one, shine forth, O thou, abounding in wealth!’–‘With might, O wide-rayed one (thou bestowest) strength, worthy of song,’ might is power: thus, ‘By (thy) power, O wide-rayed one, (thou givest) food worthy of song;’–‘bestowest thou upon the worship, O sage!’ worship doubtless is the Sacrificer: thus, ‘Upon the worship thou bestowest, O sage!’
३०
विश्वास-प्रस्तुतिः
पावक᳘वर्चाः शुक्र᳘वर्चा ऽइ᳘ति॥
पावक᳘वर्चा᳘ ह्येष᳘ शुक्र᳘वर्चा ऽअ᳘नूनवर्चा ऽउ᳘दियर्षि भानुनेत्य᳘नूनवर्चा ऽउ᳘द्दीप्यसे भानुने᳘त्येत᳘त्पुत्रो᳘ मात᳘रा व्विच᳘रन्नु᳘पावसी᳘ति पुत्रो᳘ ह्येष᳘ मात᳘रा व्विच᳘रन्नुपा᳘वति पृण᳘क्षि रो᳘दसी ऽउभे ऽइ᳘तीमे वै द्या᳘वापृथिवी रो᳘दसी ते᳘ ऽएष᳘ ऽउभे᳘ पृणक्ति धूमे᳘नामूं व्वृ᳘ष्ट्येमाम्॥
मूलम् - श्रीधरादि
पावक᳘वर्चाः शुक्र᳘वर्चा ऽइ᳘ति॥
पावक᳘वर्चा᳘ ह्येष᳘ शुक्र᳘वर्चा ऽअ᳘नूनवर्चा ऽउ᳘दियर्षि भानुनेत्य᳘नूनवर्चा ऽउ᳘द्दीप्यसे भानुने᳘त्येत᳘त्पुत्रो᳘ मात᳘रा व्विच᳘रन्नु᳘पावसी᳘ति पुत्रो᳘ ह्येष᳘ मात᳘रा व्विच᳘रन्नुपा᳘वति पृण᳘क्षि रो᳘दसी ऽउभे ऽइ᳘तीमे वै द्या᳘वापृथिवी रो᳘दसी ते᳘ ऽएष᳘ ऽउभे᳘ पृणक्ति धूमे᳘नामूं व्वृ᳘ष्ट्येमाम्॥
मूलम् - Weber
पावक᳘वर्चाः शुक्र᳘वर्चा इ᳘ति॥
पवक᳘वर्चाॗ ह्येष᳘ शुक्र᳘वर्चा अ᳘नूनवर्चा उ᳘दियर्षि भानुनेत्य᳘नूनवर्चा उ᳘द्दीप्यसे भानुने᳘त्येत᳘त्पुत्रो᳘ मात᳘रा विच᳘रन्नु᳘पावसी᳘ति पुत्रोॗ ह्येष᳘ मात᳘रा विच᳘रन्नुपा᳘वति पृण᳘क्षि रो᳘दसी उभे इ᳘तीमे वै द्या᳘वापृथिवी रो᳘दसी ते᳘ एष᳘ उभे᳘ पृणक्ति धूमे᳘नामूं वृ᳘ष्ट्येमाम्॥
मूलम् - विस्वरम्
“पावकवर्चाः शुक्रवर्चाः”- इति । पावकवर्चा ह्येष शुक्रवर्चाः । “अनूनवर्चा उदियर्षि या भानुना”- इति । अनूनवर्चा उद्दीप्यसे भानुनेत्येतत् । “पुत्रो मातरा विचरन्नुपावसि”- इति । पुत्रो ह्येष मातरा विचरन्नुपावति । “पृणक्षि रोदसी ऽउभे”- (वा. सं. १२ । १०७) इति । इमे वै द्यावापृथिवी रोदसी । ते ऽएष उभे पृणक्ति- धूमेनामूम्, वृष्ट्येमाम् ॥ ३० ॥
सायणः
द्वितीयामृचमप्येवमेव पादशो व्याचष्टे- पावकवर्च्चा इति । ‘एषः’ अग्निः ‘पावकवर्च्चाः’ शोधकदीप्तिः, ‘शुक्रवर्च्चाः’ शुक्लवर्णतेजस्क इत्येतदुभयं प्रसिद्धम्; अतो न पृथग् व्याख्येयमिति ‘हि’- शब्दार्थः । ‘उदियर्षि’ इत्यस्यार्थमाह- उद्दीप्यस इति । अग्नेरुद्गमनं नामोर्ध्वज्वलनम्, अत उद्दीप्यस इत्यस्मिन्नर्थे पर्यवस्यतीत्यभिप्रायः । तृतीयपादार्थो ऽपि प्रसिद्ध इति ‘हि’- शब्देनैव व्याचष्टे- पुत्रो ह्येष इति । चतुर्थपादमनूद्य व्याचष्टे- इमे वा इति । ‘इमे’ खलु ‘द्यावापृथिव्यौ’ ‘रोदसी’- शब्देन वाच्ये । ‘एषः’ अग्निः ‘ते’ ‘उभे’ ‘पृणक्ति’ संयुक्ते करोति ॥ केन किमिति तदाह- धूमेनेति । द्यावापृथिव्योर्मध्ये वर्तमानो ऽयमग्निः धूमेन उद्गच्छता ‘अमूम्’ दिवं पृणक्ति; आहुतिद्वारा जनितया ‘वृष्ट्या’ च ‘इमाम्’ पृथिवीं संयोजयति ॥
मन्त्रार्थस्तु- ‘पावकवर्चाः’ शोधकदीप्तिः, ‘शुक्रवर्च्चाः’ निर्मलदीप्तिः, ‘अनूनवर्च्चाः’ न्यूनतारहिततेजस्कश्च सन्, हे अग्ने ! त्वम् ‘भानुना’ तेजसा ‘उदियर्षि’ उद्गच्छसि, उद्दीप्यसे, द्यावापृथिव्योर्मध्ये जातत्वात् तयोः ‘पुत्रः’ भूत्वा ‘मातरा’ सकलभूतानां निर्मात्र्यौ द्यावापृथिव्यौ ‘विचरन् उपावसि’ समीपगतो रक्षसि । यथा लौकिकः पुत्रो मातृसमीपे सञ्चरन् तां रक्षति, तद्वत् । रक्षणप्रकारो ऽभिधीयते- ‘उभे’ ‘रोदसी’ धावापृथिव्यौ क्रमाद् धूमेन वृष्ट्या च ‘पृणक्षि’ संयोजयसि । “पृची सम्पर्के”- (धा. पा. रु. प. २५) इति धातुः ॥ ३० ॥
Eggeling
- ‘Pure-flamed, bright-flamed,’ for pure-flamed and bright-flamed he (Agni) is; ‘full-flamed, didst thou burst forth with light,’ that is, ‘full-flamed shonest thou forth with light;’–‘running about as their son thou helpest the two mothers,’ for as their son he does help the two mothers;–’thou fillest both spheres,’ the two spheres doubtless are these two, heaven and earth, and these two he indeed fills,–with smoke yonder (sky), with rain this (earth).
३१
विश्वास-प्रस्तुतिः
(मू᳘) ऊ᳘र्जोनपाज्जातवेदः सुशस्ति᳘भिरिति[[!!]]॥
(त्यू᳘) ऊ᳘र्जोनपाज्जातवेदः सुष्टुति᳘भिरि᳘त्येतन्म᳘न्दस्व धीति᳘भिर्हित ऽइ᳘ति दी᳘प्यस्व धीति᳘भिर्हित ऽइ᳘त्येतत्त्वे ऽइ᳘षः सं᳘दधुर्भू᳘रिवर्पस ऽइ᳘ति त्वे ऽइ᳘षः सं᳘दधुर्बहुवर्पस ऽइ᳘त्येत᳘च्चित्रोत᳘यो[[!!]] व्वाम᳘जाता ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥
मूलम् - श्रीधरादि
(मू᳘) ऊ᳘र्जोनपाज्जातवेदः सुशस्ति᳘भिरिति[[!!]]॥
(त्यू᳘) ऊ᳘र्जोनपाज्जातवेदः सुष्टुति᳘भिरि᳘त्येतन्म᳘न्दस्व धीति᳘भिर्हित ऽइ᳘ति दी᳘प्यस्व धीति᳘भिर्हित ऽइ᳘त्येतत्त्वे ऽइ᳘षः सं᳘दधुर्भू᳘रिवर्पस ऽइ᳘ति त्वे ऽइ᳘षः सं᳘दधुर्बहुवर्पस ऽइ᳘त्येत᳘च्चित्रोत᳘यो[[!!]] व्वाम᳘जाता ऽइ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥
मूलम् - Weber
ऊ᳘र्जो नपाज्जातवेदः सु᳘शस्ति᳘भिरि᳘ति॥
ऊ᳘र्जो नपाज्जातवेदः सुष्टुति᳘भिरि᳘त्येतन्म᳘न्दस्व धीति᳘भिर्हित इ᳘ति दी᳘प्यस्व धीति᳘भिर्हित इ᳘त्येतत्त्वे इ᳘षः सं᳘दधुर्भू᳘रिवर्वस इ᳘ति त्वे इ᳘षः सं᳘दधुर्बहु᳘वर्पस इ᳘त्येत᳘च्चित्रोत᳘यो वाम᳘जाता इ᳘ति य᳘थैव य᳘जुस्त᳘था ब᳘न्धुः॥
मूलम् - विस्वरम्
“ऊर्जोनपाज्जातवेदः सुशस्तिभिः”- इति । ऊर्जोनपाज्जातवेदः सुष्टुतिभिरित्येतत् । “मन्दस्व धीतिभिर्हितः”- इति । दीप्यस्व धीतिभिर्हित इत्येतत् । “त्वे ऽइषः सन्दधुर्भूरिवर्पसः”- इति । त्वे ऽइषः सन्दधुर्बहुवर्पस इत्येतत् । “चित्रोतयो वामजाताः”- (वा० सं० १२ । १०८) इति । यथैव यजुस्तथा बन्धुः ॥ ३१ ॥
सायणः
तृतीयामृचं व्याचष्टे- ऊर्ज्जोनपादित्यादिना । सुशस्तिभिरिति पदं व्याचष्टे- सुष्टुतिभिरिति । द्वितीयतृतीययोः पादयोः ‘मन्दस्व’ ‘भूरि’ शब्दावनुवादेन व्याख्यातौ । चतुर्थपादस्तु निगदसिद्ध इत्याह- यथैव यजुरिति ॥
ऋगर्थस्तु- हे ‘जातवेदः’ जातानां वेदितः ! हे ‘ऊर्ज्जोनपात्’ बलकरस्य अन्नरसस्य न पातयितः ! पौत्र ! वा, ‘सुशस्तिभिः’ ‘सुष्टुतिभिः’ अस्मत्प्रयुक्ताभिः हृष्टो भूत्वा ‘हितः’ निहितस्त्वम् ‘धीतिभिः’ कर्मभिः, प्रभाभिर्वा ‘मन्दस्व’ दीप्यस्व । ‘त्वे’ त्वयि खलु ‘इषः’ इष्यमाणान्यन्नानि ‘सन्दधुः’ संहितानि बभूवुः । इषो विशेष्यन्ते- भूरिवर्पस इति । “वर्पः”- इति रूपनाम (निघं. ३ । ७ । ३ ।) ‘भूरिवर्पसः’ बहुरूपाः, ‘चित्रोतयः’ विचित्ररक्षणोपेताः, ‘वामजाताः’ प्रशस्तजननोपेताः ॥ ३१ ॥
Eggeling
- ‘Child of strength, knower of beings, in benedictions,’ that is, ‘child of strength, knower of beings, in praises,’–‘delight thou, kindly in thoughts,’ that is, ‘shine thou, kindly in thoughts;’–‘in thee have they brought together multiform nourishments,’ that is, ‘in thee have they brought together many-formed nourishments;’–‘of wondrous help are the fair-born,’ as the text, so the meaning.
३२
विश्वास-प्रस्तुतिः
(रि) इरज्य᳘न्नग्ने प्रथयस्व जन्तु᳘भिरि᳘ति॥
मनु᳘ष्या वै᳘ जन्त᳘वो दी᳘प्यमानो ऽग्ने प्रथस्व मनु᳘ष्यैरि᳘त्येत᳘दस्मे रा᳘यो ऽअमर्त्ये᳘त्यस्मे᳘ रयिं द᳘धदमर्त्ये᳘त्येतत्स᳘ दर्शत᳘स्य व्व᳘पुषो व्वि᳘राजसी᳘ति दर्शत᳘स्य᳘ ह्येष व्व᳘पुषो व्विरा᳘जति पृण᳘क्षि सानसिं क्र᳘तुमि᳘ति पृण᳘क्षि सनात᳘नं क्रतुमि᳘त्येत᳘त्॥
मूलम् - श्रीधरादि
(रि) इरज्य᳘न्नग्ने प्रथयस्व जन्तु᳘भिरि᳘ति॥
मनु᳘ष्या वै᳘ जन्त᳘वो दी᳘प्यमानो ऽग्ने प्रथस्व मनु᳘ष्यैरि᳘त्येत᳘दस्मे रा᳘यो ऽअमर्त्ये᳘त्यस्मे᳘ रयिं द᳘धदमर्त्ये᳘त्येतत्स᳘ दर्शत᳘स्य व्व᳘पुषो व्वि᳘राजसी᳘ति दर्शत᳘स्य᳘ ह्येष व्व᳘पुषो व्विरा᳘जति पृण᳘क्षि सानसिं क्र᳘तुमि᳘ति पृण᳘क्षि सनात᳘नं क्रतुमि᳘त्येत᳘त्॥
मूलम् - Weber
इरज्य᳘न्नग्ने प्रथयस्व जन्तु᳘भिरि᳘ति॥
मनुॗष्या वै᳘ जन्त᳘वो दी᳘प्यमानो ऽग्ने प्रथस्व मनु᳘ष्यैरि᳘त्येत᳘दस्मे रा᳘यो अमर्त्ये᳘त्यस्मे᳘ रयिं द᳘धदमर्त्ये᳘तत्स᳘दर्शत᳘स्य व᳘पुशो वि᳘राजसी᳘ति दर्शत᳘स्यॗ ह्येष व᳘पुषो विरा᳘जति पृण᳘क्षि सानसिं क्र᳘तुमि᳘ति पृण᳘क्षि सनात᳘नं क्रतुमि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“इरज्यन्नग्ने प्रथयस्व जन्तुभिः”- इति । मनुष्या वै जन्तवः । दीप्यमानो ऽग्ने प्रथस्व मनुष्यौरित्येतत् । “अस्मे रायो ऽअमर्त्य”- इति । अस्मे रयिं दधदमर्त्येत्येतत् । “स दर्शतस्य वपुषो विराजसि”- इति । दर्शतस्य ह्येष वपुषो विराजति । “पृणक्षि सानसिं क्रतुम्”- (वा. सं. १२ । १०९) इति । पृणक्षि सनातनं क्रतुमित्येतत् ॥ ३२ ॥
सायणः
चतुर्थीमृचमनूद्य व्याचष्टे- इरज्यन्नग्न इति । मनुष्या वै जन्तव इति । जायन्ते पुरुषार्थोपयोगित्वेनोत्पद्यन्त इति जन्तवो ऽत्र मनुष्याः; न तु क्रिमिकीटादय इत्यर्थः । “इरज्यतिः”- (धा. पा. कंड्वा० ९) कण्ड्वादिर्दीप्तिकर्मेत्यभिप्रेत्याह- दीप्यमान इति । द्वितीयपादे ‘रायः’ शब्दस्यार्थमाह- रयिं दधदिति । तृतीयपादार्थः प्रसिद्ध इति ‘हि’- शब्देन व्याचष्टे- दर्शतस्य ह्येष इति । चतुर्थपादे ‘सानसि’- शब्दः सनातनपर्याय इति च (उणा. ४ पा. सू. १०७) व्याचष्टे- सनातनं ऋतुमित्येतदिति ॥
ऋगर्थस्तु- हे ‘अग्ने’ ! ‘जन्तुभिः’ प्रशस्तजननैर्मनुष्यैर्ऋत्विग्भिः ‘इरज्यन्’ दीप्यमानः सन् ‘प्रथयस्व’ स्वार्थिको णिच् प्रथस्व, विस्तीर्णो भव । हे ‘अमर्त्य’ मरणरहिताग्ने ! त्वत्प्रसादाद् ‘अस्मे’ अस्माकम् ‘रायः’ धनानि सन्तु । ब्राह्मणे तु “अस्मे रयिं दधत्”- इत्यर्थतो व्याख्यानम् । तथाविधः ‘सः’ त्वम् ‘दर्शतस्य’ दर्शनीयस्य ‘वपुषः’ ज्वालारूपस्य शरीरस्य शोभातिशयेन ‘विराजसि’ विशेषेण दीप्यसे, तथा ‘सानसिम्’ सनातनं नित्यफलविषयम् ‘क्रतुम्’ यजमानसङ्कल्पम् ‘पृणक्षि’ फलेन संयोजयसीति ॥ ३२ ॥
Eggeling
- ‘Ruling, O Agni, spread thou by beings’–the beings are men: thus, ‘Shining, O Agni, spread thyself by men!’–‘riches amongst us, O immortal!’ that is, ‘bestowing wealth upon us, O immortal!’–‘Of beautiful form, shinest thou’–for he indeed shines, of beautiful form;–’thou
fillest (us with) profitable 21 wisdom;’ that is, thou fillest (us with) perennial wisdom.’
३३
विश्वास-प्रस्तुतिः
(दि) इष्कर्ता᳘रमध्वर᳘स्य प्र᳘चेतसमि᳘ति॥
(त्य) अध्वरो वै᳘ यज्ञः᳘ प्रकल्पयिता᳘रं यज्ञ᳘स्य प्र᳘चेतसमि᳘त्येतत्क्ष᳘यन्तᳫँ᳭ रा᳘धसो मह ऽइ᳘ति क्ष᳘यन्तᳫँ᳭ रा᳘धसि महती᳘त्येत᳘द्रातिं᳘ व्वाम᳘स्य सुभ᳘गां महीमि᳘षमि᳘ति रातिं᳘[[!!]] व्वाम᳘स्य सुभ᳘गां महतीमि᳘षमि᳘त्येतद्द᳘धासि सानसि᳘ᳫँ᳘ रयिमि᳘ति द᳘धासि सनात᳘नᳫँ᳭ रयिमि᳘त्येत᳘त्॥
मूलम् - श्रीधरादि
(दि) इष्कर्ता᳘रमध्वर᳘स्य प्र᳘चेतसमि᳘ति॥
(त्य) अध्वरो वै᳘ यज्ञः᳘ प्रकल्पयिता᳘रं यज्ञ᳘स्य प्र᳘चेतसमि᳘त्येतत्क्ष᳘यन्तᳫँ᳭ रा᳘धसो मह ऽइ᳘ति क्ष᳘यन्तᳫँ᳭ रा᳘धसि महती᳘त्येत᳘द्रातिं᳘ व्वाम᳘स्य सुभ᳘गां महीमि᳘षमि᳘ति रातिं᳘[[!!]] व्वाम᳘स्य सुभ᳘गां महतीमि᳘षमि᳘त्येतद्द᳘धासि सानसि᳘ᳫँ᳘ रयिमि᳘ति द᳘धासि सनात᳘नᳫँ᳭ रयिमि᳘त्येत᳘त्॥
मूलम् - Weber
इष्कर्ता᳘रमध्वर᳘स्य प्र᳘चेतसमि᳘ति॥
अध्वरो वै᳘ यज्ञः᳘ प्रकल्पयिता᳘रं यज्ञ᳘स्य प्र᳘चेतसमि᳘त्येतत्क्ष᳘यन्तं रा᳘धसो मह इ᳘ति क्ष᳘यन्तं रा᳘धसि महती᳘त्येत᳘द्रातिं᳘ वाम᳘स्य सुभ᳘गाम् महीमि᳘षमि᳘ति रा᳘तिं वाम᳘स्य सुभ᳘गाम् महतीमि᳘षमि᳘त्येतद्द᳘धासि सानसिं᳘ रयिमि᳘ति द᳘धासि सनात᳘नं रयिमि᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“इष्कर्तारमध्वरस्य प्रचेतसम्”- इति । अध्वरो वै यज्ञः । प्रकल्पयितारं यज्ञस्य प्रचेतसमित्येतत् । “क्षयन्तं राधसो महः”- इति । क्षयन्तं राधसि महतीत्येतत् । “राति वामस्य सुभगां महीमिषम्”- इति । रातिं वामस्य सुभगां महतीमिषमित्यतत् । “दधासि सानसिं रयिम्”- (वा. सं. १२ । ११०) इति । दधासि सनातनं रयिमित्येतत् ॥ ३३ ॥
सायणः
पञ्चमीमृचं व्याचष्टे- इष्कर्त्तारमिति । उपसर्गस्यादिलोपश्छान्दसः । निष्कर्तारम् । तथैव तैत्तिरीयैराम्नायते- (तै. सं. ४ । २ । ७ । ३) । ‘अध्वरस्य’ यज्ञस्य निःशेषेण कर्त्ता निष्कर्ता । तथाच यज्ञस्य प्रकल्पयितेत्यर्थः सिद्ध्यतीत्याह- अध्वरो वा इति । द्वितीयपादे राधसो मह इति षष्ठ्यन्तयोः सप्तम्यर्थतामाह- राधसि महतीति । तृतीयपादे ‘मही’- इति शब्दस्य ‘महती’- शब्दपर्यायतामाह- महतीमिषमित्येतदिति ॥
अयमर्थः- ‘इष्कर्त्तारम्’ यज्ञस्य निःशेषेण कर्त्तारम्, अत एव प्रकृष्टज्ञानवन्तम् । ‘राधः’- इति (निघं. २ । १० । २० ।) धननाम । महति प्रभूते ‘राधसि’ धने विषये ‘क्षयन्तम्’ “क्षयतिरैश्वर्यकर्मा”- (निघं. २ । २१ । ३ ।) ईश्वरत्वेन सन्तम्, ममेति शेषः । स त्वं ‘वामस्य’ वननीयस्य धनस्य ‘रातिम्’ दानम् ‘सुभगाम्’ शोभनाम् ‘महीम्’ महतीम् ‘इषम्’ इष्यमाणमन्नं च ‘सानसिम्’ सनातनं चिरन्तनं गवाश्वादिपशुरूपं ‘रयिम्’ च यजमानाय ‘दधासि’ धारयसीति ॥ ३३ ॥
Eggeling
- ‘Him, the wise arranger of the cult,’–the cult is the sacrifice: thus, ‘him, the wise preparer of the sacrifice;’–‘ruling over great wealth,’ that is, ‘ruling in great wealth;’–’the bestowal of good things,–prosperous, mighty (mah) nourishment,’–that is, ’the bestowal of good things; prosperous, ample (mahat) nourishment,’–‘givest thou, and profitable substance,’ that is, ‘givest thou, and perennial substance.’
३४
विश्वास-प्रस्तुतिः
(दृ) ऋता᳘वानमि᳘ति॥
सत्या᳘वानमि᳘त्येत᳘न्महिषमि᳘त्यग्निर्व्वै᳘ महिषो᳘ व्विश्व᳘दर्शतमि᳘ति व्विश्व᳘दर्शतो᳘ ह्ये᳘षो ऽग्नि᳘ᳫँ᳘ सुम्ना᳘य दधिरे पुरो ज᳘ना ऽइ᳘ति यज्ञो वै᳘ सुम्नं᳘ यज्ञा᳘य वा᳘ ऽएतं᳘ पुरो᳘ दधते श्रु᳘त्कर्णᳫँ᳭ सप्र᳘थस्तमं त्वा गिरा दै᳘व्व्यं मा᳘नुषा युगे᳘त्याशृण्व᳘न्तᳫँ᳭ सप्र᳘थस्तमं त्वा गिरा᳘ देवं᳘ मनु᳘ष्या हवामह ऽइ᳘त्येतत्[[!!]]॥
मूलम् - श्रीधरादि
(दृ) ऋता᳘वानमि᳘ति॥
सत्या᳘वानमि᳘त्येत᳘न्महिषमि᳘त्यग्निर्व्वै᳘ महिषो᳘ व्विश्व᳘दर्शतमि᳘ति व्विश्व᳘दर्शतो᳘ ह्ये᳘षो ऽग्नि᳘ᳫँ᳘ सुम्ना᳘य दधिरे पुरो ज᳘ना ऽइ᳘ति यज्ञो वै᳘ सुम्नं᳘ यज्ञा᳘य वा᳘ ऽएतं᳘ पुरो᳘ दधते श्रु᳘त्कर्णᳫँ᳭ सप्र᳘थस्तमं त्वा गिरा दै᳘व्व्यं मा᳘नुषा युगे᳘त्याशृण्व᳘न्तᳫँ᳭ सप्र᳘थस्तमं त्वा गिरा᳘ देवं᳘ मनु᳘ष्या हवामह ऽइ᳘त्येतत्[[!!]]॥
मूलम् - Weber
ऋता᳘वानमि᳘ति॥
सत्या᳘वानमि᳘त्येत᳘न्महिषमि᳘त्यग्निर्वै᳘ महिषो᳘ विश्व᳘दर्शतमि᳘ति विश्व᳘दर्शतोॗ ह्येॗषो ऽग्नि᳘ᳫं᳘ सुम्ना᳘य दधिरे पुरो ज᳘ना इ᳘ति यज्ञो वै᳘ सुम्नं᳘ यज्ञा᳘य वा᳘ एत᳘म् पुरो᳘ दधते श्रु᳘त्कर्णᳫं सप्र᳘थस्तमं त्वा गिरा दै᳘व्यम् मा᳘नुषा युगे᳘त्याशृण्व᳘न्तᳫं सप्र᳘थस्तमं त्वा गिरा᳘ देव᳘म् मनुॗष्या हवामह इ᳘त्येत᳘त्॥
मूलम् - विस्वरम्
“ऋतावानम्”- इति । सत्यावानमित्येतत् । “महिषम्”- इति । अग्निर्वै महिषः । “विश्वदर्शतम्”- इति । विश्वदर्शतो ह्येषः । “अग्निं सुम्नाय दधिरे पुरो जनाः- इति । यज्ञो वै सुम्नम् । यज्ञाय वा ऽएतं पुरो दधते । “श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा”- (वा. सं. १२ । १११) इति । आशृण्वन्तं सप्रथस्तमं त्वा गिरा देवं मनुष्या हवामह इत्येतत् ॥ ३४ ॥
सायणः
षष्ठीमृचमनूद्य पादशो व्याचष्टे- ऋतावानमिति । यद्यपि ऋतसत्ययोर्मानसवाचिकयथार्थसङ्कल्पनतद्भाषणरूपत्वाद् भेदो ऽस्ति, तथाप्यत्र तादृशो मेदो न विवक्षित इत्याह- सत्यावानमित्येतदिति । अग्निर्वै महिष इति । “स हीदं जातो महान्त्सर्वमेष्णादिति” (श. प. ७ । ३ । १ । २२) तन्नामनिर्वचनस्य प्रागाम्नातत्वादिति भावः । सर्वैर्देर्शनीयत्वमस्य प्रसिद्धमतो न पृथग्व्याख्यातव्यमित्यभिप्रेत्याह- विश्वदर्शतो ह्येष इति । यज्ञो वै सुम्नमिति । यद्यपि सुखवाची ‘सुम्न’- शब्दः (निघं. ३ । ६ । १६) तथाप्यत्र प्रकरणात्तत्साधनो यज्ञ एव तस्यार्थः । उत्तरार्द्धमनूद्य श्रुत्कर्णपदं व्याचष्टे- आशृण्वन्तमिति । श्रवणशीलकर्णोपेतम्, आ समन्तात् शृण्वन्तमिति यावत् । ‘गिरा’- इति विशिष्टसाधनश्रवणाद् योग्यक्रियाध्याहारेण वाक्यं पूरयति- मनुष्या हवामह इत्येतदिति ॥
ऋगर्थस्तु- सत्यवन्तं, महान्तं, सर्वेषां दर्शनीयम्, एवम्भूतमग्निम्, ऋत्विग्यजमानलक्षणाः ‘जनाः’ ‘सुम्नाय’ सुखसाधनाय यज्ञाय ‘पुरो दधिरे’ पुरस्कुर्वन्ति, वयमपि ‘श्रुत्कर्णम्’ अभिमतफलप्रार्थनं सम्यक् शृण्वन्तम्, ‘सप्रथस्तमम्’ अतिशयितकीर्तिमन्तम्, ‘दैव्यम्’ स्वार्थिकस्तद्धितः, देवम् ‘त्वा’ त्वाम् ‘गिरा’ स्तुतिरूपया वाचा ‘हवामहे’ आह्वयामः । कर्त्तारो विशेष्यन्ते- मानुषेति । मानुषाणि मनोः सम्बन्धीनि ‘युगा’ युगानि, युगलानि भूत्वा, जायापत्यात्मना युगलभूता मनुष्या इत्यभिप्रायः ॥ ३४ ॥
Eggeling
- ‘[Thee,] the righteous,’ that is, the truthful;’–’the mighty,’ the mighty (or buffalo) doubtless is Agni;–’the all-remarkable,’ for he (Agni) is indeed remarkable to all;–’(thee), Agni, men have placed foremost for happiness,’ happiness doubtless is the sacrifice, and for the sacrifice they indeed place him foremost;–’thee, the hearer, the far-ruling, divine one, with song the human tribes;’ that is, ’thee who hearest, thee, the far-ruling god, we men invoke.’
३५
विश्वास-प्रस्तुतिः
(त्स᳘) स᳘ ऽए᳘षो ऽग्नि᳘रेव᳘ व्वैश्वानरः᳘॥
(ऽ) एत᳘त्षडृच᳘मारम्भा᳘यै᳘वेमाः सि᳘कता᳘ न्युप्यन्ते ऽग्नि᳘मे᳘वास्मिन्नेत᳘द्वैश्वानरᳫँ᳭ रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति षडृचे᳘न ष᳘डृत᳘वः संव्वत्सरः᳘ संव्वत्सरो᳘ व्वैश्वानरः[[!!]]॥
मूलम् - श्रीधरादि
(त्स᳘) स᳘ ऽए᳘षो ऽग्नि᳘रेव᳘ व्वैश्वानरः᳘॥
(ऽ) एत᳘त्षडृच᳘मारम्भा᳘यै᳘वेमाः सि᳘कता᳘ न्युप्यन्ते ऽग्नि᳘मे᳘वास्मिन्नेत᳘द्वैश्वानरᳫँ᳭ रे᳘तोभूत᳘ᳫँ᳘ सिञ्चति षडृचे᳘न ष᳘डृत᳘वः संव्वत्सरः᳘ संव्वत्सरो᳘ व्वैश्वानरः[[!!]]॥
मूलम् - Weber
स᳘ एॗषो ऽग्नि᳘रेव᳘ वैश्वानरः᳟॥
एत᳘त्षडृच᳘मारम्भा᳘यैॗवेमाः सि᳘कताॗ न्युप्यन्ते ऽग्नि᳘मेॗवास्मिन्नेत᳘द्वैश्वानरं रे᳘तो भूतं᳘ शिञ्चति षडृचे᳘न ष᳘डृत᳘वः संवत्सरः᳘ संवत्सरो᳘ वैश्वानरः᳟॥
मूलम् - विस्वरम्
स एषो ऽग्निरेव वैश्वानरः । एतत्षडृचम् । आरम्भायैवेमाः सिकता न्युप्यन्ते । अग्निमेवास्मिन्नेतद्वैश्वानरं रेतोभूतं सिञ्चति । षडृचेन । षडृतवः संवत्सरः । संवत्सरो वैश्वानरः ॥ ३५ ॥
सायणः
इत्थं सिकतानिवपने करणभूतं षडृचं व्याख्याय तस्य वैश्वानराग्न्यात्मकतां प्रतिपादयन् स्तौति- स एष इति । यत् ‘एतत् षडृचम्’ सूक्तम्, ‘एषः’ साक्षाद् ‘वैश्वानरो ऽग्निरेव’, तथाविधस्याग्नेः ‘आरम्भाय’ उत्पादनाय ‘एव’ हि ‘इमाः सिकता न्युप्यन्ते’; तस्माद्वैश्वानरात्मकेन सूक्तेन तन्निवपनाद् ‘वैश्वानरम्’ तमग्निम् ‘रेतोभूतम्’ रेतोरूपेणावस्थितम्, ‘अस्मिन्’ चेष्यमाणे अग्नौ ‘सिञ्चति’ प्रक्षिपति । षडृचकरणकत्वमनूद्य तत्सङ्ख्याद्वारेण स्तौति- षडृचेनेति । न्युप्यन्त इति शेषः । संवत्सरो वैश्वानर इति । संवत्सरधारणेन जायमानत्वात् वैश्वानराग्नेः संवत्सरात्मकता ॥ ३५ ॥
Eggeling
- Now this hymn of six verses is that same Agni Vaiśvānara; and it is in order to make a beginning (in the building of the altar) that that sand is scattered,–he thereby pours into it Agni Vaiśvānara as seed;–(he does so) with a six-versed hymn: six seasons are a year and the year is Vaiśvānara (belonging to all men).
३६
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
(र्य) यद्रे᳘तः सि᳘कता ऽउच्य᳘न्ते कि᳘मासाᳫँ᳭ रे᳘तोरूपमि᳘ति शुक्ला ऽइ᳘ति ब्रूयाच्छुक्लᳫँ᳭ हि रेतो᳘ ऽथो पृ᳘श्नय ऽइ᳘ति पृ᳘श्नीव हि रे᳘तः॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
(र्य) यद्रे᳘तः सि᳘कता ऽउच्य᳘न्ते कि᳘मासाᳫँ᳭ रे᳘तोरूपमि᳘ति शुक्ला ऽइ᳘ति ब्रूयाच्छुक्लᳫँ᳭ हि रेतो᳘ ऽथो पृ᳘श्नय ऽइ᳘ति पृ᳘श्नीव हि रे᳘तः॥
मूलम् - Weber
त᳘दाहुः॥
यद्रे᳘तः सि᳘कता उच्य᳘न्ते कि᳘मासां रे᳘तो रूपमि᳘ति शुक्ला इ᳘ति ब्रूयाछुक्लᳫं हि रेतो᳘ ऽथो पृ᳘श्नय इ᳘ति पृ᳘श्नीव हि रे᳘तः॥
मूलम् - विस्वरम्
तदाहुः- यद्रेतः सिकता उच्यन्ते- किमासां रेतोरूपमिति । शुक्ला इति ब्रूयात् । शुक्लं हि रेतः । अथो पृश्नय इति । पृश्नीव हि रेतः ॥ ३६ ॥
सायणः
सिकतानां रेतस्त्वे तत्साम्यमवश्यं वर्णनीयमिति प्रश्नपूर्वकमाह- तदाहुरिति । यदीमाः सिकता रेतः- संस्तुताः, तर्ह्यवश्यं तत्साधर्म्यं वक्तव्यम्,- ‘किम्’ तद् ‘आसाम्’ सिकतानां सम्बन्धि ‘रेतोरूपम्’ रेतःसम्बन्धी धर्मविशेष इति प्रश्नार्थः । शुक्ला इत्याद्युत्तरम् । शौक्ल्यमासां रेतसश्च तादात्म्यहेतुः साधारणो धर्मः, अयमेकस्तादात्म्यहेतुः । ‘अथो’ अपि च ‘पृश्नयः’ सूक्ष्मपरिमाणबिन्दुरूपा हि सिकताः, ‘रेतः’ अपि ‘हि’ ‘पृश्नीव’ सिकतोपमैः सूक्ष्मपरिमाणबिन्दुभिर्युक्तमिव भवति; अयमपरस्तादात्म्यहेतुरित्यर्थः ॥ ३६ ॥
Eggeling
- As to this they say, ‘If the seed is said to be seed what is its seed characteristic?’–Let him say, ‘white;’ for seed is white;–or ‘speckled,’ for seed is, as it were, speckled.
३७
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
(र्य) य᳘दार्द्रᳫँ᳭ रे᳘तः शु᳘ष्काः सि᳘कता निव᳘पति कथ᳘मस्यैता᳘ ऽआर्द्रा᳘ रेतोरूपं᳘ भवन्ती᳘ति र᳘सो वै छ᳘न्दाᳫँ᳭स्यार्द्र᳘ ऽउ वै र᳘सस्तद्य᳘देनाश्छ᳘न्दोभिर्निव᳘पत्येव᳘मु हास्यैता᳘ ऽआर्द्रा᳘ रेतोरूपं᳘ भवन्ति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
(र्य) य᳘दार्द्रᳫँ᳭ रे᳘तः शु᳘ष्काः सि᳘कता निव᳘पति कथ᳘मस्यैता᳘ ऽआर्द्रा᳘ रेतोरूपं᳘ भवन्ती᳘ति र᳘सो वै छ᳘न्दाᳫँ᳭स्यार्द्र᳘ ऽउ वै र᳘सस्तद्य᳘देनाश्छ᳘न्दोभिर्निव᳘पत्येव᳘मु हास्यैता᳘ ऽआर्द्रा᳘ रेतोरूपं᳘ भवन्ति॥
मूलम् - Weber
त᳘दाहुः॥
य᳘दार्द्रं रे᳘तः शु᳘ष्काः सि᳘कता निव᳘पति कथ᳘मस्यैता᳘ आर्द्रा᳘ रेतोरूप᳘म् भवन्ती᳘ति र᳘सो वै छ᳘न्दांस्यार्द्र᳘ उ वै र᳘सस्तद्य᳘देनाश्छ᳘न्दोभिर्निव᳘पत्येव᳘मु हास्यैता᳘ आर्द्रा᳘ रेतोरूप᳘म् भवन्ति॥
मूलम् - विस्वरम्
तदाहुः- यदार्द्रं रेतः, शुष्काः सिकता निवपति- कथमस्यैता आर्द्रा रेतोरूपं भवन्तीति । रसो वै छन्दांसि । आर्द्र उ वै रसः । तद्यदेनाश्छन्दोभिर्निवपति- एवमु हास्यैता आर्द्रा रेतोरूपं भवन्ति ॥ ३७ ॥
सायणः
नन्वार्द्रं रेतः, शुष्काः सिकताः, कथमासामार्द्रत्वलक्षणं रेतोरूपं स्यादिति प्रश्नपूर्वकं प्रतिपादयति- तदाहुरिति । कथमस्यैता इति । ‘अस्य’ वैश्वानरस्याग्नेः ‘एताः’ सिकताः ‘कथमार्द्राः’ सत्यो ‘रेतोरूपं’ रेतसः सम्बन्धि आर्द्रत्वलक्षणं स्वरूपं ‘भवन्तीति’ प्रश्नः । रसो वा इत्याद्युत्तरम् । गायत्र्यादीनि हि ‘छन्दांसि’ ‘रसः’ सारवत्त्वात् । रसस्य चार्द्रत्वमन्यत्र प्रसिद्धमित्याह- आर्द्र उ वा इति । ततः किमित्याह- तद्यदेना इति । अस्मिन् षडृचे गायत्र्यादीनां सप्तानां छन्दसामन्तर्भावो ऽग्रे प्रतिपादयिष्यते; ‘तत्’ तथा सति ‘यत्’ यस्माद् ‘एनाः’ सिकताः शब्दरसात्मकैः ‘छन्दोभिर्निवपति’ ततः ‘एवमु’ अनेन प्रकारेण खलु ‘अस्य’ सम्बन्धिन्यः सिकताः ‘आर्द्राः’ सत्यो रेतःस्वरूपं प्रतिपद्यन्त इत्यर्थः ॥ ३७ ॥
Eggeling
- As to this they say, ‘As seed is moist, and he scatters dry sand, how does it become moist for him, after the manner of seed?’ Well, the metres are vital sap, and vital sap is moist; and inasmuch as he scatters that (sand) with metres, it is thus that it becomes moist for him, after the manner of seed.
३८
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
कथ᳘मस्यैता᳘ ऽअहोरात्रा᳘भ्यामु᳘पहिता भवन्ती᳘ति द्वे वा᳘ ऽअहोरात्रे᳘ शुक्लं᳘ च कृष्णं᳘ च द्वे सि᳘कते शुक्ला᳘ च कृष्णा᳘ चैव᳘मु हास्यैता᳘ ऽअहोरात्रा᳘भ्यामुपहिता[[!!]] भवन्ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
कथ᳘मस्यैता᳘ ऽअहोरात्रा᳘भ्यामु᳘पहिता भवन्ती᳘ति द्वे वा᳘ ऽअहोरात्रे᳘ शुक्लं᳘ च कृष्णं᳘ च द्वे सि᳘कते शुक्ला᳘ च कृष्णा᳘ चैव᳘मु हास्यैता᳘ ऽअहोरात्रा᳘भ्यामुपहिता[[!!]] भवन्ति॥
मूलम् - Weber
त᳘दाहुः॥
कथ᳘मस्यैता᳘ अहोरात्रा᳘भ्यामु᳘पहिता भवन्ती᳘ति द्वे वा᳘ अहोरात्रे᳘ शुक्लं᳘ च कृष्णं᳘ च द्व सि᳘कते शुक्ला᳘ च कृष्णा᳘ चैव᳘मु हास्यैता᳘ अहोरात्रा᳘भ्यामु᳘पहिता भवन्ति॥
मूलम् - विस्वरम्
तदाहुः – कथमस्यैता अहोरात्राभ्यामुपहिता भवन्तीति । द्वे वा ऽअहोरात्रे- शुक्लं च कृष्णं च । द्वे सिकते- शुक्ला च कृष्णा च । एवमु हास्यैता अहोरात्राभ्यामुपहिता भवन्ति ॥ ३८ ॥
सायणः
अथ सिकतानां शुक्लकृष्णरूपद्वयं स्तोतुं पृच्छति- तदाहुरिति । ननु चित्यो ऽग्निः संवत्सरात्मकः, संवत्सरश्चाहोरात्रात्मकः, तत्समुदायरूपत्वात्; अतः सिकतोपधानमप्यहोरात्राभ्यां करणभूताभ्यां निष्पादनीयम्, तत् कथमुपपद्यत इति ब्रह्मवादिनां प्रश्नः । द्वे वा इति- परिहारः । ‘द्वे’ एव हि ‘अहोरात्रे’ पर्यावर्त्तमाने तत्र ‘शुक्लम्’ अहः ‘कृष्णम्’ रात्रिः, सिकता अपि शुक्लकृष्णभेदेन द्विविधाः । अतस्तद्वर्णयोगादेतासामुपधानम् ‘अहोरात्राभ्याम्’ एव कृतं भवतीत्यर्थः । इत्थं वर्णतो ऽहोरात्रसाम्यमुक्तम् ॥ ३८ ॥
Eggeling
- As to this they say, ‘How does it come to be put on for him by means of the day and the night?’ Well, day and night are two, and there are two (kinds of) seed, the white and the black: as black and white it is thus put on for him by means of the day and the night.
३९
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
कथ᳘मस्यैता᳘ ऽअहोरात्रैः स᳘म्पन्ना ऽअ᳘न्यूना ऽअ᳘नतिरिक्ता ऽउ᳘पहिता भवन्ती᳘त्यनन्ता᳘नि वा᳘ ऽअहोरात्रा᳘ण्यनन्ताः सि᳘कता ऽएव᳘मु हास्यैता᳘ ऽअहोरात्रैः स᳘म्पन्ना ऽअ᳘न्यूना ऽअ᳘नतिरिक्ता ऽउ᳘पहिता भवन्त्य᳘थ क᳘स्मात्समुद्रि᳘यं छ᳘न्द ऽइ᳘त्यनन्तो वै᳘ समु᳘द्रो ऽनन्ताः सि᳘कतास्त᳘स्मात्समुद्रि᳘यं छ᳘न्दः॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
कथ᳘मस्यैता᳘ ऽअहोरात्रैः स᳘म्पन्ना ऽअ᳘न्यूना ऽअ᳘नतिरिक्ता ऽउ᳘पहिता भवन्ती᳘त्यनन्ता᳘नि वा᳘ ऽअहोरात्रा᳘ण्यनन्ताः सि᳘कता ऽएव᳘मु हास्यैता᳘ ऽअहोरात्रैः स᳘म्पन्ना ऽअ᳘न्यूना ऽअ᳘नतिरिक्ता ऽउ᳘पहिता भवन्त्य᳘थ क᳘स्मात्समुद्रि᳘यं छ᳘न्द ऽइ᳘त्यनन्तो वै᳘ समु᳘द्रो ऽनन्ताः सि᳘कतास्त᳘स्मात्समुद्रि᳘यं छ᳘न्दः॥
मूलम् - Weber
त᳘दाहुः॥
कथ᳘मस्यैता᳘ अहोरात्रैः स᳘म्पन्ना अ᳘न्यूना अ᳘नतिरिक्ता उ᳘पहिता भवन्ती᳘त्यनन्ता᳘नि वा᳘ अहोरात्रा᳘ण्यनन्ताः सि᳘कता एव᳘मु हास्यैता᳘ अहोरात्रैः स᳘म्पन्ना अ᳘न्यूना अ᳘नतिरिक्ता उ᳘पहिता भवन्त्य᳘थ क᳘स्मात्समुद्रि᳘यं छ᳘न्द इ᳘त्यनन्तो वै᳘ समु᳘द्रो ऽनन्ताः सि᳘कतास्त᳘त्समुद्रि᳘यं छ᳘न्दः॥
मूलम् - विस्वरम्
तदाहुः- कथमस्यैता अहोरात्रैः सम्पन्ना अन्यूना अनतिरिक्ता उपहिता भवन्तीति । अनन्तानि वा ऽअहोरात्राणि, अनन्ताः सिकताः । एवमु हास्यैता अहोरात्रैः सम्पन्ना अन्यूना अनतिरिक्ता उपहिता भवन्ति । अथ कस्मात्समुद्रियं छन्द इति । अनन्तो वै समुद्रः, अनन्ताः सिकताः- तस्मात् समुद्रियं छन्दः ॥ ३९ ॥
सायणः
अथ सङ्ख्यासम्पत्तिरपि कथमित्याशङ्कापूर्वकं प्रतिपादयति- तदाहुरिति । संवत्सरसम्बन्धिभिः ‘अहोरात्रैः’ समानसङ्ख्याकाः न्यूनाधिकसङ्ख्यारहिताः कथम् ‘उपहिताः’ ‘भवन्तीति’ प्रश्नः । अनन्तानि वा इत्युत्तरम् । संवत्सराणामानन्त्यात्तदवयवा अहोरात्रा अप्यनन्ताः । यद्यपि “रात्राह्नाहाः पुंसि”- (पा. सू. २ । ४ । २९) इति पुंल्लिङ्गेन भवितव्यम्, तथापि “हेमन्त शिशिरावहोरात्रे च च्छन्दसि”- (पा. सू २ । ४ । २८) इति निपातनाल्लिङ्गाद्बहुवचनान्तस्या ऽपि नपुंसकलिङ्गता । ‘एवमु हास्य’ इत्यादि स्पष्टम् ।
अथैतदुपधानकरणस्य षडृचस्य यच्छन्दस्तस्य ‘समुद्रियम्’ इति नाम कस्मान्निमित्तादिति पृच्छति- अथ कस्मादिति । तन्निमित्तमाह- अनन्तो वा इति । ‘अनन्तः’ अन्तरहितः समाप्तिरहितः खल्वयं ‘समुद्रः’ जलनिधिः ‘सिकताः’ च ‘अनन्ताः’ परिगणनानर्हत्वात् । अतस्तासामुपधानमन्त्रसम्बन्धिनश्छन्दसो ऽप्यन्तराहित्यात् समुद्रसाम्यात् समुद्रे भवं ‘समुद्रियम्’ इति व्युत्पत्त्या तन्नामधेयतेत्यर्थः ॥ ३९ ॥
Eggeling
- As to this they say, ‘How does that (sand), put on by the days and nights, become complete (or perfect) for him, neither deficient, nor superabundant?’ Well, endless are the days and nights, and endless is the sand: it is thus that, put on by the days and nights, it becomes complete for him, neither deficient, nor superabundant. ‘And wherefrom (is obtained) the oceanic (Samudriya 22) metre?’ The ocean is endless, and the sand is endless: that is the oceanic metre.
४०
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
कथ᳘मस्यैताः पृ᳘थङ्ना᳘ना य᳘जुर्भिरु᳘पहिता भवन्ती᳘ति म᳘नो वै य᳘जुस्त᳘दिदं म᳘नो य᳘जुः स᳘र्व्वाः सि᳘कता ऽअनु वि᳘भवत्येवमु[[!!]] हास्यैताः पृ᳘थङ्ना᳘ना य᳘जुर्भिरु᳘पहिता भवन्ति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
कथ᳘मस्यैताः पृ᳘थङ्ना᳘ना य᳘जुर्भिरु᳘पहिता भवन्ती᳘ति म᳘नो वै य᳘जुस्त᳘दिदं म᳘नो य᳘जुः स᳘र्व्वाः सि᳘कता ऽअनु वि᳘भवत्येवमु[[!!]] हास्यैताः पृ᳘थङ्ना᳘ना य᳘जुर्भिरु᳘पहिता भवन्ति॥
मूलम् - Weber
त᳘दाहुः॥
कथ᳘मस्यैताः पृ᳘थङ्ना᳘ना य᳘जुर्भिरु᳘पहिता भवन्ती᳘ति म᳘नो वै य᳘जुस्त᳘दिदम् म᳘नो य᳘जुः स᳘र्वाः सि᳘कता अनुवि᳘भवत्येव᳘मु हास्यैताः पृ᳘थङ्ना᳘ना य᳘जुर्भिरु᳘पहिता भवन्ति॥
मूलम् - विस्वरम्
तदाहुः-कथमस्यैताः पृथङ् नाना यजुर्भिरुपहिता भवन्तीति । मनो वै यजुः । तदिदं मनो यजुः सर्वाः सिकता अनु विभवति । एवमु हास्यैताः पृथङ् नाना यजुर्भिरुपहिता भवन्ति ॥ ४० ॥
सायणः
नन्वनन्तानां सिकतानामुपधानं पृथक्पृथक् कथं समन्त्रकं स्यादिति पृच्छति- तदाहुरिति । मनो वा इत्याद्युत्तरम् । ‘मनः’ एव हि सर्वासां सिकतानां साधारणम् ‘यजुः,’ तदुच्चारणहेतुत्वात् । मनसो यजुष्ट्वं ‘तदिदं मनो’- रूपं ‘यजुः’ ‘सर्वाः’ सिकताः ‘अनु’- लक्ष्य ‘विभवति’ प्रत्येकं व्याप्तुं शक्नोति, अनेनैव हि प्रकारेण । अतश्चित्यस्याग्नेः ‘एताः’ सर्वाः सिकताः ‘पृथङ् नाना यजुर्भिः’ विभिन्नैर्यजुर्मन्त्रैः ‘उपहिता भवन्ति’ ॥ ४० ॥
Eggeling
- As to this they say, ‘How is that (sand) of his put on separately with different prayers?’ Well, prayer is thought; this thought, prayer, comes to be equal to the whole sand 23: and thus that (sand) of his comes to be put on separately with different prayers.
४१
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
कथ᳘मस्यैताः स᳘र्व्वैश्छ᳘न्दोभिरु᳘पहिता भवन्ती᳘ति य᳘दे᳘वैना ऽएते᳘न षडृचे᳘न निव᳘पति या᳘वन्ति हि᳘ सप्तानां छ᳘न्दसामक्ष᳘राणि ता᳘वन्त्येत᳘स्य षडृच᳘स्याक्ष᳘राण्येव᳘मु हास्यैताः स᳘र्व्वैश्छन्दोभिरु᳘पहिता भवन्ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
कथ᳘मस्यैताः स᳘र्व्वैश्छ᳘न्दोभिरु᳘पहिता भवन्ती᳘ति य᳘दे᳘वैना ऽएते᳘न षडृचे᳘न निव᳘पति या᳘वन्ति हि᳘ सप्तानां छ᳘न्दसामक्ष᳘राणि ता᳘वन्त्येत᳘स्य षडृच᳘स्याक्ष᳘राण्येव᳘मु हास्यैताः स᳘र्व्वैश्छन्दोभिरु᳘पहिता भवन्ति॥
मूलम् - Weber
त᳘दाहुः॥
कथ᳘मस्यैताः स᳘र्वैश्छ᳘न्दोभिरु᳘पहिता भवन्ती᳘ति य᳘देॗवैना एते᳘न षडृचे᳘न निव᳘पति या᳘वन्ति हि᳘ सप्तानां छ᳘न्दसामक्ष᳘राणि ता᳘वन्त्येत᳘स्य षडृच᳘स्याक्ष᳘राण्येव᳘मु हास्यैताः स᳘र्वैश्छन्दोभिरु᳘पहिता भवन्ति॥
मूलम् - विस्वरम्
तदाहुः- कथमस्यैताः सर्वैश्छन्दोभिरुपहिता भवन्तीति । यदेवैना एतेन षडृचेन निवपति । यावन्ति हि सप्तानां छन्दसामक्षराणि तावन्त्येतस्य षडृचस्याक्षराणि । एवमु हास्यैताः सर्वैश्छन्दोभिरुपहिता भवन्ति ॥ ४१ ॥
सायणः
अथैतस्मिन् षडृचे सप्तानां छन्दसामन्तर्भावप्रदर्शनाय स्तौति- तदाहुरित्यादिना । ‘एताः’ सिकताः ‘सर्वैः’ गायत्र्यादिभिः सप्तभिः ‘छन्दोभिः’ ‘कथमुपहिताः’ ‘भवन्ति’ ? “अग्ने तव श्रवः” इत्यादीनां षण्णामृचां प्रतिनियतैकच्छन्दोरूपत्वात्, इत्यभिप्रायेण प्रश्नः । यदेवैना इत्युत्तरम् । ‘यत्’ यत एव कारणात् ‘एनाः’ ‘एतेन’ ‘षडृचेन’ सूक्तेन ‘निवपति’ तेन ‘एताः’ ‘सर्वैश्छन्दोभिरुपहिता भवन्ति’ । कथमिति चेदुच्यते- गायत्र्यादीनां जगत्यन्तानां ‘सप्तानाम् छन्दसाम्’ ‘यावन्ति’ ‘अक्षराणि’ मिलित्वा सम्पद्यन्ते तावन्त्येतस्य ‘षडृचस्याक्षराणि’ भवन्ति । तथा हि- गायत्री चतुर्विंशत्यक्षरा, उष्णिगष्टाविंशत्यक्षरा, अनुष्टुभो द्वात्रिंशदक्षराणि, बृहत्याः षट्त्रिंशदक्षराणि, पंक्तेश्चत्वारिंशत्, चतुश्चत्वारिंशत्त्रिष्टुभः, अष्टाचत्वारिंशज्जगत्याः, तानि च सम्भूय द्विपञ्चाशदधिकशतद्वयसंख्याकानि भवन्ति । अस्मिन् षडृचे प्रथमा चत्वारिंशदक्षरा, द्वितीया एकचत्वारिंशदक्षरा, तृतीया चतुर्थी च चत्वारिंशदक्षरा, पञ्चमीषष्ठ्योः द्विचत्वारिंशदक्षराणि, एवं पञ्चचत्वारिंशदधिकशतद्वयसङ्ख्याकानि भवन्ति । अन्यानि सप्ताक्षराणि क्षैप्रसंयोगविभागेन द्रष्टव्यानि । एवं सप्तच्छन्दांस्यक्षरसङ्ख्याद्वारेणास्मिन् षडृचे ऽन्तर्भवन्ति । एवमु हास्यैता इति प्रतिपादितार्थनिगमनम् ॥ ४१ ॥
Eggeling
- As to this they say, ‘How does that (sand) of his come to be put on by all the metres?’–Inasmuch as he scatters it with that hymn of six verses; for as many syllables as there are in the
seven metres, so many syllables there are in that hymn of six verses 24: thus that (sand) of his comes to be put on by all the metres.
४२
विश्वास-प्रस्तुतिः
य᳘द्वेव सि᳘कता निव᳘पति॥
प्रजा᳘पतिरे᳘षो ऽग्निः स᳘र्व्वमु ब्र᳘ह्म प्रजा᳘पतिस्त᳘द्धैतद्ब्र᳘ह्मण ऽउ᳘त्सन्नं यत्सि᳘कता ऽअ᳘थ यद᳘नुत्सन्नमिदं त᳘द्यो ऽय᳘मग्नि᳘श्चीय᳘ते तद्यत्सि᳘कता निव᳘पति य᳘देव तद्ब्र᳘ह्मण ऽउ᳘त्सन्नं त᳘दस्मिन्नेतत्प्र᳘तिदधाति ता ऽअ᳘सङ्ख्याता ऽअ᳘परिमिता नि᳘वपति को हि तद्वे᳘द या᳘वत्तद्ब्र᳘ह्मण ऽउ᳘त्सन्नᳫँ᳭ स᳘ ह वा᳘ ऽएतᳫँ᳭ स᳘र्व्वं कृत्स्नं᳘ प्रजा᳘पतिᳫँ᳭ सं᳘स्करोति य᳘ ऽएवं᳘ व्विद्वान्त्सि᳘कता निव᳘पति॥
मूलम् - श्रीधरादि
य᳘द्वेव सि᳘कता निव᳘पति॥
प्रजा᳘पतिरे᳘षो ऽग्निः स᳘र्व्वमु ब्र᳘ह्म प्रजा᳘पतिस्त᳘द्धैतद्ब्र᳘ह्मण ऽउ᳘त्सन्नं यत्सि᳘कता ऽअ᳘थ यद᳘नुत्सन्नमिदं त᳘द्यो ऽय᳘मग्नि᳘श्चीय᳘ते तद्यत्सि᳘कता निव᳘पति य᳘देव तद्ब्र᳘ह्मण ऽउ᳘त्सन्नं त᳘दस्मिन्नेतत्प्र᳘तिदधाति ता ऽअ᳘सङ्ख्याता ऽअ᳘परिमिता नि᳘वपति को हि तद्वे᳘द या᳘वत्तद्ब्र᳘ह्मण ऽउ᳘त्सन्नᳫँ᳭ स᳘ ह वा᳘ ऽएतᳫँ᳭ स᳘र्व्वं कृत्स्नं᳘ प्रजा᳘पतिᳫँ᳭ सं᳘स्करोति य᳘ ऽएवं᳘ व्विद्वान्त्सि᳘कता निव᳘पति॥
मूलम् - Weber
य᳘द्वेव सि᳘कता निव᳘पति॥
प्रजा᳘पतिरेॗषो ऽग्निः स᳘र्वमु ब्र᳘ह्म प्रजा᳘पतिस्त᳘द्धैतद्ब्र᳘ह्मण उ᳘त्सन्ने यत्सि᳘कता अ᳘थ यद᳘नुत्सन्नमिदं त᳘द्यो ऽय᳘मग्नि᳘श्चीय᳘ते तद्यत्सि᳘कता निव᳘पति य᳘देव तद्ब्र᳘ह्मण उ᳘त्सन्नं त᳘दस्मिन्नेतत्प्र᳘तिदधाति ता अ᳘संख्याता अ᳘परिमिता नि᳘वपति को हि तद्वे᳘द या᳘वत्तद्ब्र᳘ह्मण उ᳘त्सन्नᳫं स᳘ ह वा᳘ एतᳫं स᳘र्वं कृत्स्न᳘म् प्रजा᳘पतिᳫं स᳘ᳫं᳘स्करोति य᳘ एवं᳘ विद्वान्त्सि᳘कता निव᳘पति॥
मूलम् - विस्वरम्
यद्वेव सिकता निवपति । प्रजापतिरेषो ऽग्निः । सर्वेमु ब्रह्म प्रजापतिः । तद्वैतद्ब्रह्मण उत्सन्नं यत्सिकताः, अथ यदनुत्सन्नम्- इदं तद्- यो ऽयमग्निश्चीयते । तद् यत्सिकता निवपति । यदेव तद्ब्रह्मण उत्सन्नं तदस्मिन्नेतत्प्रतिदधाति । ता असंख्याता अपरिमिता निवपति । को हि तद्वेद- यावत्तद्ब्रह्मण उत्सन्नम् । स ह वा ऽएतं सर्वं कृत्स्नं प्रजापतिं संस्करोति- य एवं विद्वान्त्सिकता निवपति ॥ ४२ ॥
सायणः
उत्सन्नयज्ञभागस्य पुनराहरणार्थत्वेन सिकतानिवपनं स्तौति- यद्वेवेति । ‘एषः’ चित्यो ऽग्निर्विराडात्मकः ‘प्रजापतिः’ ‘सर्वम्’ निरवशेषमेव कृत्स्नम् ‘ब्रह्म’ मन्त्रजातं स ‘प्रजापतिः’ ‘तत्’ तथा सति तस्य ‘ब्रह्मणः’ यदेतद् ‘उत्सन्नम्’ विशीर्णं स्वरूपम् ‘तत्’ सिकतात्मना परिणतम् । ‘अथ’ तु ‘यदनुत्सन्नम्’ अविनष्टं ब्रह्मणो रूपं, चीयमानाग्निरूपं ‘तत्’ ‘अतः’ अनेन सिकतानिवपनेन ‘ब्रह्मणः’ ‘उत्सन्नमेव’ रूपं पुनरस्मिन् प्रजापत्यात्मके ऽग्नौ सन्दधातीति । तासामपरिमितत्वमनूद्य स्तौति- ता असंख्याता इति । ‘तद्’ ‘ब्रह्मण उत्सन्नम्’ रूपं यत्परिमाणविशिष्टमिति ‘तत्’ ‘को’ नाम जानीयात् । अतस्तासामपरिमितत्वमपरिमितस्योत्सन्नरूपस्य प्राप्तौ सम्पद्यत इत्यर्थः ॥
विद्वदनुष्ठानं प्रशंसति- स ह वा इति । ‘सर्वम्’ निरवशेषम् ‘कृत्स्नम्’ सर्वावयवसहितम् । स्पष्टमन्यत् ॥ ४२ ॥
Eggeling
- And as to why he scatters sand,–that Agni (fire-altar) is Prajāpati, and Prajāpati is the whole Brahman. Now that sand is (put) in (the place of) the lost part of the Brahman; and that part of it which has not been lost is this fire-altar which is now being built: thus when he scatters sand he restores to him that lost part of the Brahman. That (sand which) he scatters is unnumbered, unlimited; for who knows how great is that lost part of the Brahman? And verily he who, knowing this, scatters sand, restores the whole, complete Prajāpati.
४३
विश्वास-प्रस्तुतिः
त᳘दाहुः᳘॥
कैता᳘साम᳘संख्यातानाᳫँ᳭ संख्ये᳘ति द्वे ऽइ᳘ति ब्रूयाद्द्वे हि सि᳘कते शुक्ला᳘ च कृष्णा चा᳘थो सप्त᳘विᳫँ᳭शति᳘शतानी᳘ति ब्रूयादेता᳘वन्ति हि᳘ संव्वत्सर᳘स्याहोरात्राण्य᳘थो द्वे᳘ द्वापञ्चाशे᳘ शते ऽइ᳘त्येता᳘वन्ति᳘ ह्येत᳘स्य षडृच᳘स्याक्ष᳘राण्य᳘थो प᳘ञ्चविᳫँ᳭शतिरि᳘ति पञ्चविᳫँ᳭शᳫँ᳭ हि रे᳘तः॥
मूलम् - श्रीधरादि
त᳘दाहुः᳘॥
कैता᳘साम᳘संख्यातानाᳫँ᳭ संख्ये᳘ति द्वे ऽइ᳘ति ब्रूयाद्द्वे हि सि᳘कते शुक्ला᳘ च कृष्णा चा᳘थो सप्त᳘विᳫँ᳭शति᳘शतानी᳘ति ब्रूयादेता᳘वन्ति हि᳘ संव्वत्सर᳘स्याहोरात्राण्य᳘थो द्वे᳘ द्वापञ्चाशे᳘ शते ऽइ᳘त्येता᳘वन्ति᳘ ह्येत᳘स्य षडृच᳘स्याक्ष᳘राण्य᳘थो प᳘ञ्चविᳫँ᳭शतिरि᳘ति पञ्चविᳫँ᳭शᳫँ᳭ हि रे᳘तः॥
मूलम् - Weber
त᳘दाहुः᳟᳟॥
कैता᳘साम᳘संख्यातानाᳫं संख्ये᳘ति द्वे इ᳘ति ब्रूयाद्द्वे हि सि᳘कते शुक्ला᳘ च कृष्णा चा᳘थो सप्त᳘ विंशति᳘शतानी᳘ति ब्रूयादेता᳘वन्ति हि᳘ संवत्सर᳘स्याहोरात्राण्य᳘थो द्वे᳘ द्वापञ्चाशे᳘ शते इ᳘त्येता᳘वन्तिॗ ह्येत᳘स्य षडृच᳘स्याक्ष᳘राण्य᳘थो प᳘ञ्चविंशतिरि᳘ति पञ्चविंशᳫं हि रे᳘तः॥
मूलम् - विस्वरम्
तदाहुः- कैतासामसङ्ख्यातानां सङ्ख्येति । द्वे ऽइति ब्रूयात् । द्वे हि सिकते- शुक्ला च कृष्णा च । अथ सप्तविंशतिशतानीति ब्रूयात् । एतावन्ति हि संवत्सरस्याहोरात्राणि । अथो द्वे द्वापञ्चाशे शते ऽइति । एतावन्ति ह्येतस्य षडृचस्याक्षराणि । अथो पञ्चविंशतिरिति । पञ्चविंशं हि रेतः ॥ ४३ ॥
सायणः
अपरिमितानामप्येतासां सङ्ख्याविशेषप्रदर्शनेन स्तुतिश्चिकीर्षिता तदर्थं पृच्छात- तदाहुरिति । ‘असंख्यातानाम्’ अपरिमितानाम् ‘आसाम्’ सम्बन्धिनी ‘सङ्ख्या’ कीदृशीति प्रश्नः । चतुर्द्धा संख्यासद्भावं प्रशंसति- द्वे इत्यादिना । शुक्लकृष्णात्मना द्वैराश्यादपरिमितानां सिकतानां द्वित्वम् । सप्तविँशतिशतानीति । सिकतानामहोरात्ररूपता प्रागुक्ता (श. प. ७ । ३ । १ । ३८) । संवत्सरसम्बन्धिनामह्नां रात्रीणां च परिगणने सति विंशत्यधिकानि सप्त शतानि भवन्ति । अतस्तदात्मिकानां सिकतानामपि सैव सङ्ख्या भवतीत्यर्थः । द्वे द्वापञ्चाशे शते इति । द्विपञ्चाशदधिकद्विशतसङ्ख्यया सङ्ख्येयाः सिकता इति ‘ब्रूयात्’ । तदुपधानमन्त्रस्य ‘षडृचस्य’ तावत्सङ्ख्याकाक्षरोपेतत्वात्तेषामक्षराणां सिकतानां च तादात्म्यमित्यर्थः । अथो पञ्चविंशतिरिति । पञ्चविंशतिसङ्ख्यया सङ्ख्येयाः सिकताः । कुत इत्यत आह- पञ्चविंशं हीति । शरीरं हि प्रकृतिमहदादिचतुर्विंशतितत्त्वात्मकम्, तत उत्पन्नम् ‘रेतः’ पञ्चविंशतिसङ्ख्यापूरकम्, रेतःसंस्तुताश्च सिकताः । अतः पञ्चविंशतिसङ्ख्याकत्वं तासां प्रतिपत्तव्यमित्यर्थः ॥ ४३ ॥
Eggeling
- As to this they say, ‘What is the number of these unnumbered sand grains?’ Let him say, ‘Two;’ for there are two kinds of sand, the white and the black; or let him say, ‘Seven hundred and twenty,’ for so many days and nights there are in the year; or ‘Two hundred and fifty-two,’ for so many syllables there are in that hymn of six verses; or ‘Twenty-five,’ for seed is twenty-fivefold 25.
४४
विश्वास-प्रस्तुतिः
(स्ता᳘) ता᳘ ऽएता य᳘जुष्मत्य ऽइ᳘ष्टकाः॥
(स्ता᳘) ता᳘ ऽआत्म᳘न्ने᳘वोपद᳘धाति न᳘ पक्षपुच्छे᳘ष्वात्म᳘न्ह्येव य᳘जुष्मत्य ऽइ᳘ष्टका ऽउपधीय᳘न्ते न᳘ पक्षपुच्छे᳘षु न᳘ सादयति नेद्रे᳘तः प्र᳘जातिᳫँ᳭ स्थाप᳘यानीति[[!!]]॥
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘ ऽएता य᳘जुष्मत्य ऽइ᳘ष्टकाः॥
(स्ता᳘) ता᳘ ऽआत्म᳘न्ने᳘वोपद᳘धाति न᳘ पक्षपुच्छे᳘ष्वात्म᳘न्ह्येव य᳘जुष्मत्य ऽइ᳘ष्टका ऽउपधीय᳘न्ते न᳘ पक्षपुच्छे᳘षु न᳘ सादयति नेद्रे᳘तः प्र᳘जातिᳫँ᳭ स्थाप᳘यानीति[[!!]]॥
मूलम् - Weber
ता᳘ एता य᳘जुष्मत्य इ᳘ष्टकाः॥
ता᳘ आत्म᳘न्नेॗवोपद᳘धाति न᳘ पक्षपुछे᳘ष्वात्मॗन्ह्येव य᳘जुष्मत्य इ᳘ष्टका उपधीय᳘न्ते न᳘ पक्षपुछे᳘षु न᳘ सादयति नेद्रे᳘तः प्र᳘जातिᳫं स्थाप᳘यानी᳘ति॥
मूलम् - विस्वरम्
ता एता यजुष्मत्य इष्टकाः । ता आत्मन्नेवोपदधाति- न पक्षपुच्छेषु । आत्मन् ह्येव यजुष्मत्य इष्टका उपधीयन्ते- न पक्षपुच्छेषु । न सादयति । नेद्रेतः प्रजातिं स्थापयानीति ॥ ४४ ॥
सायणः
लोकेष्टकावत् सिकतानामप्यात्मभाग एवोपधानं विधत्ते- ता एता इति । इदमपि लोगेष्टकाप्रकरणस्थवाक्यवद् व्याख्येयम् । सिकतानामपीष्टकात्वादितरेष्टकास्विव प्रसक्तं सादनं निषेधति- न सादयतीति । “तया देवतया”- इति मन्त्रेण स्थापनं सादनम्, तन्न कर्त्तव्यम् । निषेधकारणमाह- नेद्रेत इति । प्रजोत्पत्तिकारणं ‘रेतः’ शुक्लं नैव क्वचिदेव ‘स्थापयानि’ इत्यनेनाभिप्रायेण; सादने हि तत् क्वचिदेव प्रतिष्ठितं स्यान्न तु चलितं सद् गर्भाशये प्रविशेदिति भावः ॥ ४४ ॥
Eggeling
- This same (sand represents) bricks with special prayers: he places it on the body (of the altar), not
on the wings and tail; for bricks with special prayers are placed on the body, not on the wings and tail. He does not ‘settle’ it, lest he should stop the seed, and generation.
४५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैना ऽआप्या᳘नवतीभ्यामभि᳘मृशति॥
(ती) इद᳘मे᳘वैतद्रे᳘तः सिक्तमा᳘प्याययति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तमा᳘प्यायते सौमी᳘भ्यां प्राणो वै सो᳘मः प्राणं तद्रे᳘तसि दधाति त᳘स्माद्रे᳘तः सिक्तं᳘ प्राण᳘मभिस᳘म्भवति पू᳘येद्ध य᳘दृते᳘ प्राणा᳘त्सम्भ᳘वेदे᳘षो हैवा᳘त्र सू᳘ददोहाः प्राणो वै सो᳘मः प्राणः सू᳘ददोहाः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैना ऽआप्या᳘नवतीभ्यामभि᳘मृशति॥
(ती) इद᳘मे᳘वैतद्रे᳘तः सिक्तमा᳘प्याययति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तमा᳘प्यायते सौमी᳘भ्यां प्राणो वै सो᳘मः प्राणं तद्रे᳘तसि दधाति त᳘स्माद्रे᳘तः सिक्तं᳘ प्राण᳘मभिस᳘म्भवति पू᳘येद्ध य᳘दृते᳘ प्राणा᳘त्सम्भ᳘वेदे᳘षो हैवा᳘त्र सू᳘ददोहाः प्राणो वै सो᳘मः प्राणः सू᳘ददोहाः॥
मूलम् - Weber
अ᳘थैना आप्या᳘नवतीभ्यामभि᳘मृशति॥
इद᳘मेॗवैतद्रे᳘तः सिक्तमा᳘प्याययति त᳘स्माद्यो᳘नौ रे᳘तः सिक्तमा᳘प्यायते सौमी᳘भ्याम् प्राणो वै सो᳘मः प्राणं तद्रे᳘तसि दधाति त᳘स्माद्रे᳘तः सिक्त᳘म् प्राण᳘मभिस᳘म्भवति पू᳘येद्ध य᳘दृते᳘ प्राणा᳘त्सम्भ᳘वेदेॗषो हैवा᳘त्र सू᳘ददोहाः प्राणो वै सो᳘मः सू᳘ददोहाः॥
मूलम् - विस्वरम्
अथैना आप्यानवतीभ्यामभिमृशति । इदमेवैतद्रेतः सिक्तमाप्याययति । तस्माद्योनौ रेतः सिक्तमाप्यायते । सौमीभ्याम् । प्राणो वै सोमः । प्राणं तद्रेतसि दधाति । तस्माद्रेतः सिक्तं प्राणमभिसम्भवति । पूयेद्ध- यदृते प्राणात् सम्भवेत् । एषो हैवात्र सूददोहाः । प्राणो वै सोमः । प्राणः सूददोहाः ॥ ४५ ॥
सायणः
अथ समन्त्रकमेतासामभिमर्शनं विधत्ते- अथैना 26 इति । ‘आप्यानवतीभ्याम्’ आप्यायनक्रियाप्रतिपादकः शब्दः आप्यानम्, उपचारात्, तद्वतीभ्याम् “आप्यायस्व, सन्ते” (वा. सं. १२ । ११२ । ११३) इत्येताभ्याम् । इदमेवैतदिति । ‘इदमेवैतत्’ सिकतात्मकं रूपं ‘सिक्तम्’ ‘रेतः’ ‘आप्यायतिधातुयुक्तमन्त्रकरणकाभिमर्शनेन ‘आप्याययति’ प्रवर्द्धयति । यत एवैवं यज्ञे ‘तस्माद्’ एव स्त्रीणां योनौ पुरुषैः ‘सिक्तम्’ ‘रेतः’ ‘आप्यायते’ शरीराकारेण परिणतं सद्वर्धते । मन्त्रसम्बन्धिदेवताद्वारेण प्रशंसति- सौमीभ्यामिति । सोमो ऽनयोर्देवता “सा ऽस्य देवता”- (पा. सू. ४ । २ । २४) इत्यर्थे- “सोमाट्ट्यण्”- (पा. सू. ४ । २ । ३० ।) “टिड्ढाणञ्द्वय”- (पा. सू. ४ । १ । १५) इति ङीप् । ऋग्भ्यामभिमृशतीति शेषः । प्राणो वै सोम इति । प्राणस्य तावदुदकमयत्वं प्रसिद्धम् । “आपोमयः प्राणः”- इति श्रुतेः । तथा च सोमो ऽपि अमृतमयरसात्मकतया प्राणोपादानत्वात् प्राण एव, ‘तत्’ तेन सौमीभ्यामभिमर्शनेन सिकतात्मके सिक्ते रेतसि सोमात्मकं प्राणमेव स्थापयति । तस्मादित्यादिना लोकस्थितिनिरूपणम् । यस्माद्वैदिके कर्मणि रेतसि प्राणः स्थापितः । तस्मादेव कारणात्- प्राणमभिलक्ष्य प्राणसहितमेव गर्भाशये ‘सिक्तम्’ ‘रेतः’ ‘अभिसम्भवति’ शरीराकारेण परिणमते । यत् तु ‘प्राणादृते’ रेतः सिच्यते तत् ‘पूयेद्’ एव न शरीराकारेण सम्पद्यत इत्यर्थः । एवमेवैतरेयकैश्चाम्नातम्- “न ह वा ऋते प्राणाद्रेतः सिच्यते, यद्वा ऋते प्राणाद्रेतः सिच्येत पूयेन्न सम्भवेत्” (ऐतरेय ब्रा.) इति । अस्याभिमर्शनस्य सूददोहसा ऽधिवदनकार्यकरत्वात्तदात्मकतामाह- एषो हैवात्रेति । यत् सौमीभ्यामभिमर्शनं एषैवात्र सिकतोपधाने सूददोहाः । “ता अस्य सूददोहसः” इति मन्त्रकरणकमधिवदनम् । कथमन्यस्यान्यात्मतेत्यत आह-प्राणो वा इति । अभिमर्शनमन्त्रप्रतिपाद्यस्य सोमस्य सूददोहसश्च प्राणात्मकत्वसाम्यादित्यर्थः ॥ ४५ ॥
Eggeling
- He then strokes it (the sand) even by means of two verses containing the verb ’to grow:’ he thereby causes that infused seed to grow, whence the seed infused into the womb grows;–with two (verses) relating to Soma (he strokes the sand); for Soma is breath: he thus puts breath into the seed; whence the infused seed becomes possessed of breath. But, indeed, were it to come forth without breath it would become putrid; and this indeed is the Sūdadohas 27 in this case; for Soma is breath, and the Sūdadohas is breath.
४६
विश्वास-प्रस्तुतिः
(०) आ᳘प्यायस्व स᳘मेतु ते॥
व्विश्व᳘तः सोम व्वृ᳘ष्ण्यमि᳘ति रे᳘तो वै व्वृ᳘ष्ण्यमा᳘प्यायस्व स᳘मेतु ते सर्व्व᳘तः सोम रे᳘त ऽइ᳘त्येतद्भ᳘वा व्वा᳘जस्य संगथ ऽइत्य᳘न्नं वै व्वा᳘जो भवा᳘न्नस्य सङ्गथ ऽइ᳘त्येतत्सं᳘ ते प᳘याᳫँ᳭सि स᳘मु यन्तु व्वा᳘जा ऽइ᳘ति र᳘सो वै पयो᳘ ऽन्नं व्वा᳘जाः सं᳘ ते र᳘साः स᳘मु यन्त्व᳘न्नानी᳘त्येतत्सं व्वृ᳘ष्ण्यान्यभिमातिषा᳘ह ऽइ᳘ति सᳫँ᳭ रे᳘ताᳫँ᳭सि पाप्मस᳘ह ऽइ᳘त्येत᳘दाप्या᳘यमानो ऽअमृ᳘ताय सोमे᳘ति प्र᳘जात्यां त᳘दमृ᳘तं दधाति त᳘स्मात्प्र᳘जातिरमृ᳘ता दिवि श्र᳘वाᳫँ᳭स्युत्तमा᳘नि धिष्वे᳘ति चन्द्र᳘मा वा᳘ ऽअस्य दिवि श्र᳘व ऽउत्तमᳫँ᳭ स᳘ ह्येनममु᳘ष्मिल्ँ लोके᳘ श्राव᳘यति द्वा᳘भ्यामा᳘प्याययति गायत्र्या᳘ च त्रिष्टु᳘भा च त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - श्रीधरादि
(०) आ᳘प्यायस्व स᳘मेतु ते॥
व्विश्व᳘तः सोम व्वृ᳘ष्ण्यमि᳘ति रे᳘तो वै व्वृ᳘ष्ण्यमा᳘प्यायस्व स᳘मेतु ते सर्व्व᳘तः सोम रे᳘त ऽइ᳘त्येतद्भ᳘वा व्वा᳘जस्य संगथ ऽइत्य᳘न्नं वै व्वा᳘जो भवा᳘न्नस्य सङ्गथ ऽइ᳘त्येतत्सं᳘ ते प᳘याᳫँ᳭सि स᳘मु यन्तु व्वा᳘जा ऽइ᳘ति र᳘सो वै पयो᳘ ऽन्नं व्वा᳘जाः सं᳘ ते र᳘साः स᳘मु यन्त्व᳘न्नानी᳘त्येतत्सं व्वृ᳘ष्ण्यान्यभिमातिषा᳘ह ऽइ᳘ति सᳫँ᳭ रे᳘ताᳫँ᳭सि पाप्मस᳘ह ऽइ᳘त्येत᳘दाप्या᳘यमानो ऽअमृ᳘ताय सोमे᳘ति प्र᳘जात्यां त᳘दमृ᳘तं दधाति त᳘स्मात्प्र᳘जातिरमृ᳘ता दिवि श्र᳘वाᳫँ᳭स्युत्तमा᳘नि धिष्वे᳘ति चन्द्र᳘मा वा᳘ ऽअस्य दिवि श्र᳘व ऽउत्तमᳫँ᳭ स᳘ ह्येनममु᳘ष्मिल्ँ लोके᳘ श्राव᳘यति द्वा᳘भ्यामा᳘प्याययति गायत्र्या᳘ च त्रिष्टु᳘भा च त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - Weber
आ᳘प्यायस्व स᳘मेतु ते॥
विश्व᳘तः सोम वृ᳘ष्ण्यमि᳘ति रे᳘तो वै वृ᳘ष्ण्यमा᳘प्यायस्व स᳘मेतु ते सर्व᳘तः सोम रे᳘त इ᳘त्येतद्भ᳘वा वा᳘जस्य संगथ इत्य᳘न्ने वै वा᳘जो भवा᳘न्नस्य संगथ इ᳘त्येतत्सं᳘ ते प᳘यांसि स᳘मु यन्ति वा᳘जा इ᳘ति र᳘सो वै पयो᳘ ऽन्ने वा᳘जाः सं᳘ ते र᳘साः स᳘मु यन्त्व᳘न्नानी᳘त्येतत्सं वृ᳘ष्ण्यभिमातिषा᳘ह इ᳘ति सं रे᳘तांसि पाप्मस᳘ह इ᳘त्येत᳘दाप्या᳘यमानो अमृ᳘ताय सोमे᳘ति प्र᳘जात्यां त᳘दमृ᳘तं दधाति त᳘स्मात्प्र᳘जातिरमृ᳘ता दिवि श्र᳘वांस्युत्तमा᳘नि धिष्वे᳘ति चन्द्र᳘मा वा᳘ अस्य दिवि श्र᳘व उत्तमᳫं सॗ ह्येनममु᳘ष्मिंलोके᳘ श्राव᳘यति द्वा᳘भ्यामा᳘प्याययति गायत्र्या᳘ च त्रिष्टु᳘भा च त᳘स्योक्तो ब᳘न्धुः॥
मूलम् - विस्वरम्
“आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्”- इति । रेतो वै वृष्ण्यम् । आप्यायस्व समेतु ते सर्वतः सोम रेत इत्येतत् । “भवा वाजस्य सङ्गथे”- (वा० सं० १२ । ११२) इति । अन्नं वै वाजः । भवान्नस्य संगथ इत्येतत् । “सं ते पयांसि समु यन्तु वाजाः”- इति । रसो वै पयः, अन्नं वाजाः । सं ते रसाः समु यन्त्वन्नानीत्येतत् । “सं वृष्ण्यान्यभिमातिषाहः”- इति । सं रेतांसि पाप्मसह इत्येतत् । “आप्यायमानो ऽअमृताय सोम”- (वा० सं० १२ । ११३) इति । प्रजात्यां तद् अमृतं दधाति । तस्मात्प्राजातिरमृता । “दिवि श्रवांस्युत्तमानि धिष्व”- इति । चन्द्रमा वा ऽअस्य दिवि श्रव उत्तमम् । स ह्येनममुष्मिंल्लोके श्रावयति । द्वाभ्यामाप्याययति- गायत्र्या च त्रिष्टुभा च । तस्योक्तो बन्धुः ॥ ४६ ॥
सायणः
तत्र प्रथमामृचमनूद्याप्रसिद्धार्थं पदं व्याचष्टे- आप्यायस्वेति । रेतो वै वृष्ण्यमिति । वृषा सेचनसमर्थो युवा, तत्र भवं वृष्ण्यमिति व्युत्पत्तेर्वृष्ण्यशब्देन रेतः प्रतिपाद्यत इत्यर्थः । पदार्थमुक्त्वा वाक्यार्थं योजयति- सर्वतः सोम रेत इत्येतदिति । अन्नं वै वाज इति । वाजशब्दस्य “वज व्रज गतौ”- (धा. पा. भ्वा. २५३) इत्यस्माद् व्युत्पन्नस्य गत्यर्थत्वादत्र च तत्प्रतिपादकत्वायोगाद् रूढ्या वाजशब्देनान्नमुच्यत इत्यर्थः । अत एव वाजशब्दो ऽन्ननामसु पठ्यते । “अन्धः वाजः पयः” इति (निघं. २ । ७ ।) । हे सोम ! त्वम् ‘आप्यायस्व’ वर्द्धस्व, अस्मान् वर्द्धय वा, त्वदीयं वृष्णः सम्बन्धि ‘रेतः’ इमम् अग्निम् ‘विश्वतः’ सर्वतः ‘समेतु’ प्राप्नोतु । अन्नस्य सङ्गमनाय त्वमस्माकं भवेति मन्त्रार्थः ॥
द्वितीयामाप्यानवतीमनूद्याप्रसिद्धार्थानि पदानि व्याचष्टे- सं ते पयांसीति । अत्र ‘पयः’ शब्दो रसपरः, ‘वाज’ शब्दो ऽन्नपरः । तथा चायमर्थ इत्याह- सं ते रसा इति । द्वितीयार्द्धे ‘अभिमाति’- शब्देन पाप्मोच्यत इत्याह- पाप्मसह इत्येतदिति । तृतीयपादे अमृतशब्दस्याभिप्रायमाह- प्रजात्यामिति । पुत्रपौत्रादिरूपेण यैव प्रजाति-लक्षणा प्रजोत्पत्तिरूपा क्रिया अमृता । आप्यायमान इति । अनेन मन्त्रभागेन तस्याम् ‘प्रजात्याम्’ अमृतत्वं स्थापयति । यस्मादेवम् ‘तस्मात्’ ‘प्रजातिः’ प्रजोत्पत्तिः ‘अमृता’ मरणरहिता अविच्छिन्ना सार्वकालिकी वर्तत इत्यर्थः ॥
चतुर्थपादे श्रवःशब्दस्यार्थमाह- चन्द्रमा वा ऽअस्य दिवि श्रव इति । ‘अस्य’ अधियज्ञं लतारूपेण वर्त्तमानस्य सोमस्य ‘दिवि’ द्युलोके ‘उत्तमम्’ उत्कृष्टम् ‘श्रवः’ नाम चन्द्रमा एवोच्यते । कथमस्य श्रवः-शब्दाभिधेयतेति तत् प्रतिपादयति- स ह्येनमिति । ‘अमुष्मिन्’ स्वर्गे ‘लोके’ ‘सः’ खलु चन्द्रमा ‘एनम्’ सोमम् । अमृतात्मना पीयमानः सन् ‘श्रावयति’ प्रख्यापयति; अतः श्रावयितृत्वात् श्रवःशब्देन स उच्यत इत्यर्थः । मन्त्रगतं द्वित्वं छन्दोविशेषं चानूद्य तस्य स्तावको वाक्यशेषः प्रागाम्नात इत्याह- द्वाभ्यामिति । द्विपाद्यजमान इत्यादिर्द्वित्वसंख्यास्तुतिः ॥ ४६ ॥
Eggeling
- [Vāj. S. XII, 112, 113; R̥k S. I, 91, 16, 18] ‘Grow thou! let manly power gather in thee from all sides, O Soma!’ manly power doubtless is seed: thus, ‘Grow thou! let seed gather in thee from every side, O Soma!’–‘Be thou in the gathering of strength!’ in food doubtless is strength: thus, ‘be thou in the gathering of food!’–‘Let the drinks, let the forces gather in thee!’–drink doubtless means vital sap, and in food are forces: thus, let vital sap, let food gather itself in thee!’–‘and manly powers in thee, the overcomer of enemies;’ that is, ‘and seed in thee, the overcomer of evil;’–‘growing, O Soma, for the sake of immortality,’ he thereby lays immortality into the generative power, whence generative power is immortal;–‘gain thou the highest glory in the heavens!’ his highest glory
in the heavens doubtless is the moon, for that one causes him to be celebrated in yonder world 28. With two (verses) he makes him grow, a gāyatrī and a trishṭubh one,–the significance of this has been explained.
४७
विश्वास-प्रस्तुतिः
(र) अथा᳘ताः सम्प᳘देव[[!!]]॥
च᳘तस्रो लोगेष्टका᳘ ऽउपद᳘धाति षडृचे᳘न नि᳘वपति द्वा᳘भ्यामा᳘प्याययति तद्द्वा᳘दश द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - श्रीधरादि
(र) अथा᳘ताः सम्प᳘देव[[!!]]॥
च᳘तस्रो लोगेष्टका᳘ ऽउपद᳘धाति षडृचे᳘न नि᳘वपति द्वा᳘भ्यामा᳘प्याययति तद्द्वा᳘दश द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - Weber
अथा᳘ताः सम्प᳘देव᳟॥
च᳘तस्रो लोगेष्टका᳘ उपद᳘धाति षडृचे᳘न नि᳘वपति द्वा᳘भ्यामा᳘प्याययति तद्द्वा᳘दश द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वत्त᳘द्भवति॥
मूलम् - विस्वरम्
अथातः सम्पदेव । चतस्रो लोगेष्टका उपदधाति । षडृचेन निवपति । द्वाभ्यामाप्याययति । तद्द्वादश, द्वादश मासाः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति ॥ ४७ ॥
सायणः
लोकेष्टकादिसङ्ख्यां सम्भूय स्तौति- अथातः सम्पदेवेति । स्पष्टो ऽर्थः । यावानग्निरित्यादि । प्रागुक्तार्थम् ॥ ४७ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे तृतीये ऽध्याये प्रथमं ब्राह्मणम् ॥ (७-३-१) ॥
Eggeling
- Now then the (mystic) correspondence,–four clod-bricks he puts on; with a six-versed (hymn) he scatters (the sand); with two (verses) he makes (the seed) grow; that makes twelve,–twelve months are a year, and the year is Agni: as great as Agni is, as great as is his measure, so great does this become.
-
342:1 That is, in performing the various rites of the Soma-sacrifice, and at the same time doing all that is necessary for the building of the fire-altar, on which the Soma-offering itself is ultimately to be performed. ↩︎
-
343:1 Viz. in consecrating the site of the Āhavanīya, as well as that of the Gārhapatya altar (see VII, 1, 1, 1). ↩︎
-
सिकताश्चाग्नेर्भस्मेत्यूषवत् । का० श्रौ० सू० १७ । ६ ॥ ↩︎
-
344:1 VII, 1, 1, 14. ↩︎
-
आप्यायस्वेति सिकतालंभनमृग्भ्याम् । का० श्रौ० सू० १७ । ६० । ↩︎
-
344:2 See paragraphs 45, 46. ↩︎
-
लोगेष्टकाः स्फ्येनाहृत्य बहिर्वेदरेनूकांतेषूपदधाति तिष्ठन् मा मा हिँसीदिति प्रत्यृचं प्रतिदिशं पुरस्तात्प्रथमम् । का. श्रौ. सू. । १७ । ५५ । ↩︎
-
345:1 He places a clod of earth on each end of the two ‘spines,’ that is to say, in the middle of each of the four sides of the square constituting the ‘body’ of the altar-site. ↩︎
-
345:2 Or, when they put him together (by building the fire-altar). ↩︎
-
346:1 Viz. when these worlds were plunged into the water, see VI, 1, 1, 12. ↩︎
-
इन्द्रो ह यत्र वृत्राय वज्रं प्रजहार स प्रहृतश्चतुर्धा ऽभवत्तस्य स्फ्यस्तृतीयं वा यावद्वा यूपस्तृतीयं वा यावद्वा रथस्तृतीयं वा यावद्वा ऽथ यत्र प्राहरत्तच्छकलो ऽशीर्यत स पतित्वा शरो ऽभवत्तस्माच्छरो नाम यदशीर्यतैवमु स चतुर्धा वज्रो ऽभवत् (श. प १ । २ । ४ । १ ।) इति । ↩︎
-
347:1 Viz. from some place towards north-west from the middle of the western side of the body of the altar. ↩︎
-
347:2 Mahīdhara takes ‘ādam’ here as the regular imperfect of ‘ad,’ I ate. ↩︎
-
348:1 See p. 301, note 3. ↩︎
-
348:2 See p. 153, note 1. ↩︎
-
उत्तरवेदिं निवपति चत्वारिंशत्पदां युगमात्रीं वा सर्व्वतः कुशस्तंबे । का. श्रौ. सू. १७ । ५८ । ↩︎
-
शुल्बपरिशिष्टे कात्यायनः- ईषामानम् १ अक्षमानं २ युगमानं ३ चेति त्रीणि मानान्याह । पूर्वसूत्रादंगुलैरित्यनुवृत्तौ अष्टाशीतिशतमीषा १ चतुःशतमक्षः २ षडशीतिर्युगमिति ३ । प्रकृते ईषामानमक्षमानं चानुपयुक्तमेव । अत्रोपयुक्तं तु युगमानं षडशीत्यंगुलानि ८६ । दशांगुलोनाश्चत्वारो हस्ताः ३ । १४ । तथाच सर्वतः सर्वासु दिक्षु युगमात्रीं वेदिं कुर्यादित्येकं परिमाणम् १ । अथ द्वितीयं मानं २ चत्वारिंशत्पदामिति । तदपि शुल्बे चोक्तं कात्यायनेन, “द्विपदा तिर्यङ्मानी, षट्पदा पार्श्वमानी, तस्याक्ष्णयारज्जुस्त्रिकरणी” इति । अक्ष्णयारज्जुर्नाम कर्णसूत्रम् । इयं कर्णरज्जुश्चत्वारिंशत्पदकरणी । चत्वारिंशत्पदक्षेत्रफलस्य चतुरस्रस्य संपादिका भवति । तृतीयांशसहिता षट्पदपरिमिता भवतीत्यर्थः ६ । ४ । एतया रज्ज्वोपरिमितं सयवचतुरस्रं क्षेत्रं चत्वारिंशत्पदफलकं भवतीति यावत् । विंशतिहस्तं समचतुरस्रमित्यर्थः । एवंविधा चत्वारिंशत्पदा इति द्वितीयं मानम् २। न तु, चत्वारिंशत्पदानि प्रमाणमस्याः सा तथोक्तेति साधारणं मानम् । अंगुलमानं पदमानं च चयनोक्तमेव । “यजमानेनोर्ध्वबाहुना प्रपदोच्छ्रितेन समस्थितेन वा” १६ । ७ । ३२ “पंचारत्निः पुरुषो दशपदो द्वादशांगुलं पदं” १६ । ८ । १६ । उभयसूत्रार्थस्तु पुरुषस्य ऊर्ध्वबाहोः प्रपदोच्छितस्य समविभक्तस्य वा यः पंचमो भागः सो ऽरत्निः । तस्य दशमो भागः पदं, पदस्य द्वादशो भागों ऽगुलम् इति । शुल्बे ऽपि “पंचारत्निर्दशवितस्तिर्विंशतिशतांगुलः पुरुष इत्येतस्मात् द्वादशांगुलं पदमिति चेति । पंचारत्नयो यस्य, दश वितस्तयो यस्य, विंशत्युत्तरशतमंगुलानि यस्य, स पुरुषः । अरत्निमानं, वितस्तिमानं, अंगुलमानं च एतस्मात् पुरुषात् ग्राह्यम् । द्वादशांगुलं पदमित्यपि च एतस्मादेव इति शुल्बार्थः । शुल्बं तु अरत्न्यादिमानांगीकारविधानार्थम् । ↩︎
-
अग्ने तवेति सिकता न्युप्य छादयत्यात्मानम् । का. श्रौ. सू. १७ । ५९ । ↩︎
-
349:1 See p. 325, note 6. ↩︎
-
349:2 That is to say, he first throws down sand on the Uttara-vedi, and then covers with it the whole of the body of the altar, so as to make it even with the Uttara-vedi. ↩︎
-
351:1 The author connects ‘sānasi’ with ‘sanātana’ (old, perpetual). ↩︎
-
352:1 The exact purport of this term is not clear. ↩︎
-
352:2 Sikatāḥ, sand, is plural, consisting as it does of a multiplicity of sand-grains. ↩︎
-
353:1 This is a somewhat loose calculation. As a matter of fact, the seven principal metres, viz. Gāyatrī (24), Ushṇih (28), Anushṭubh (32), Br̥hatī (36), Paṅkti (40), Trishṭubh (44), Jagatī (48), contain together 252 syllables. The hymn recited in scattering the sand, on the other hand, consists of one Vishṭārapaṅkti (40), three Satobr̥hatīs (3 × 40), the Uparishṭājjyotis (? 40), and one Trishṭubh (44), or together of 244 syllables. On similar cases of looseness in computing the syllables of metres, see p. 318, note 1. ↩︎
-
353:2 Viz. inasmuch as it emanates from the body (paragraph 28), and the body consists of twenty-five parts–the trunk, the four limbs, and twenty fingers and toes. Cf. VI, 2, 1, 23, where, however, the trunk is not taken into account. ↩︎
-
आप्यायस्वेति सिकतालंभनमृग्भ्याम् । का. श्रौ. सू. १७ । ६० । ↩︎
-
354:1 See p. 301, note 3. ↩︎
-
355:1 Sāyaṇa remarks,–The high glory, in the heaven, of Soma growing in the form of a creeper is said to be the moon: in yonder heavenly world that moon indeed, when being drunk (by the gods) in the form (?) of ambrosia, causes him, Soma, to be celebrated. ↩︎