०१

विश्वास-प्रस्तुतिः

अ᳘थोदचमसान्नि᳘नयति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना व्वृ᳘ष्टिमेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - श्रीधरादि

अ᳘थोदचमसान्नि᳘नयति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना व्वृ᳘ष्टिमेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थोदचमसान्नि᳘नयति॥
एतद्वै᳘ देवा᳘ अब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना वृ᳘ष्टिमेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - विस्वरम्

अपां निनयनं सर्वौषधवपनं च ।

अथोदचमसान्निनयति । एतद्वै देवा अब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । ते चेतयमाना वृष्टिमेव चितिमपश्यन् । तामस्मिन्नदधुः । तथैवास्मिन्नयमेतद्दधाति ॥ १ ॥

सायणः

अथ कृष्टे क्षेत्रे कर्षणक्रमेणोदचमसकरणकमपान्निनयनं विधत्ते- अथोदचमसान्निनयतीति । उदकपूर्णाश्चमसा उदचमसास्तानासिञ्चेदित्यर्थः । एतद्वै देवा इत्यादि- असकृद् गतम् (श. प. ७ । २ । ३ । १) वृष्टिमेवेति । वर्षणरूपां चितिमित्यर्थः ॥ १ ॥

Eggeling
  1. He then pours out jarfuls of water,–for the gods then said, ‘Meditate ye (cetay)!’ whereby they doubtless meant to say, ‘Seek ye a layer (citim)!’ Whilst meditating they saw the rain to be a (suitable) layer, and put it on that (altar-site); and in like manner does this (Sacrificer) now put it thereon.

०२

विश्वास-प्रस्तुतिः

(त्यु) उदचमसा᳘ भवन्ति॥
(न्त्या᳘) आ᳘पो वै व्वृ᳘ष्टिर्व्वृ᳘ष्टिमे᳘वास्मिन्नेत᳘द्दधात्यौ᳘दुम्बरेण चमसे᳘न त᳘स्योक्तो ब᳘न्धुश्च᳘तुःस्रक्तिना च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वास्मिन्नेत᳘द्दिग्भ्यो व्वृ᳘ष्टिं दधाति॥

मूलम् - श्रीधरादि

(त्यु) उदचमसा᳘ भवन्ति॥
(न्त्या᳘) आ᳘पो वै व्वृ᳘ष्टिर्व्वृ᳘ष्टिमे᳘वास्मिन्नेत᳘द्दधात्यौ᳘दुम्बरेण चमसे᳘न त᳘स्योक्तो ब᳘न्धुश्च᳘तुःस्रक्तिना च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वास्मिन्नेत᳘द्दिग्भ्यो व्वृ᳘ष्टिं दधाति॥

मूलम् - Weber

उदचमसा᳘ भवन्ति॥
आ᳘पो वै वृ᳘ष्टिर्वृ᳘ष्टिमेॗवास्मिन्नेत᳘द्दधात्यौ᳘दुम्बरेण चमसे᳘न त᳘स्योक्तो ब᳘न्धुश्च᳘तुःस्रक्तिना च᳘तस्रो वै दि᳘शः स᳘र्वाभ्य एॗवास्मिन्नेत᳘द्दिग्भ्यो वृ᳘ष्टिं दधाति॥

मूलम् - विस्वरम्

उदचमसा भवन्ति । आपो वै वृष्टिः । वृष्टिमेवास्मिन्नेतद्दधाति । औदुम्बरेण चमसेन । तस्योक्तो बन्धुः । चतुःस्रक्तिना । चतस्रो वै दिशः । सर्वाभ्य एवास्मिन्नेतद्दिग्भ्यो वृष्टिं दधाति ॥ २ ॥

सायणः

उदकनिनयने चमसकरणतां विधाय वृष्ट्यात्मना स्तौति- उदचमसा भवन्तीति । ‘वृष्टिरापः’ खलु अपां वृष्टिजन्यत्वात् । चमसस्य उदुम्बरविकारत्वं विधत्ते- औदुम्बरेणेति । तस्योक्त इति । उदुम्बरविकारत्वस्यार्थवादः “तदेतत् सर्वमन्नं यदुदुम्बरः, सर्वे वनस्पतयः” इत्यादिना षष्ठकाण्डे प्रपञ्चित इत्यर्थः (श. प. ६ । ६ । ३ । ३) । चमसस्य चतुष्कोणत्वं विधाय प्रशंसति- चतुःस्रक्तिनेति । सर्वाभ्य इति । चतसृभ्यो ऽपि दिग्भ्य इत्यर्थः ॥ २ ॥

Eggeling
  1. Jarfuls of water are (poured out); for rain is water: it is rain he thereby bestows on it. With an udumbara jar (he pours them on): the significance of this has been told;–with a four-cornered one;–four quarters there are: from all quarters he thus bestows rain thereon.

०३

विश्वास-प्रस्तुतिः

त्रीं᳘स्त्रीनुदचमसान्नि᳘नयति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद्वृ᳘ष्टिं दधाति॥

मूलम् - श्रीधरादि

त्रीं᳘स्त्रीनुदचमसान्नि᳘नयति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद्वृ᳘ष्टिं दधाति॥

मूलम् - Weber

त्री᳘ᳫं᳘स्त्रीनुदचमसान्नि᳘नयति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेतद्वृ᳘ष्टिं दधाति॥

मूलम् - विस्वरम्

त्रींस्त्रीनुदचमसान्निनयति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतद्वृष्टिं दधाति ॥ ३ ॥

सायणः

चतसृषु चतसृषु सीतासु त्रयाणां त्रयाणामुदचमसानां निनयनं विधाय प्रशंसति- त्रींस्त्रीनिति 1 । “नित्यवीप्सयोः”- (पा. सू. ८ । १ । ४) इति द्विर्वचनम् । त्रिवृदग्निः- इत्यादि- असकृदुक्तार्थम् (श. प. । ७ । २ । २ । १५) ॥ ३ ॥

Eggeling
  1. Three jarfuls he pours out each time 2,–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus bestows rain thereon.

०४

विश्वास-प्रस्तुतिः

द्वा᳘दशोदचमसा᳘न्कृष्टे नि᳘नयति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद्वृ᳘ष्टिं दधाति॥

मूलम् - श्रीधरादि

द्वा᳘दशोदचमसा᳘न्कृष्टे नि᳘नयति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद्वृ᳘ष्टिं दधाति॥

मूलम् - Weber

द्वा᳘दशोदचमसा᳘न्कृष्टे नि᳘नयति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैवास्मिन्नेतद्वृ᳘ष्टिं दधाति॥

मूलम् - विस्वरम्

द्वादशोदचमसान्कृष्टे निनयति । द्वादश मासाः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतद्वृष्टिं दधाति ॥ ४ ॥

सायणः

कृष्टप्रदेशे द्वादशभिरुदचमसैर्निनयनं विधाय स्तौति- द्वादशोदचमसानिति । “द्वादश मासाः”- इत्यादेः स्पष्टो ऽर्थः ॥ ४ ॥

Eggeling
  1. Twelve jarfuls of water he pours on the ploughed ground,–twelve months are a year, and the year is Agni: as great as Agni is, as great as is his measure, by so much he thus bestows rain thereon.

०५

विश्वास-प्रस्तुतिः

स वै᳘ कृष्टे नि᳘नयति॥
त᳘स्मात्कृष्टा᳘य व्वर्षति स य᳘त्कृष्ट᳘ ऽएव᳘ निन᳘येन्ना᳘कृष्टे कृष्टा᳘यैव व्व᳘र्षेन्ना᳘कृष्टाया᳘थ यद᳘कृष्ट ऽएव᳘ निन᳘येन्न᳘ कृष्टे᳘ ऽकृष्टायैव व्व᳘र्षेन्न᳘ कृष्टा᳘य कृष्टे चा᳘कृष्टे च नि᳘नयति त᳘स्मात्कृष्टा᳘य चा᳘कृष्टाय च व्वर्षति॥

मूलम् - श्रीधरादि

स वै᳘ कृष्टे नि᳘नयति॥
त᳘स्मात्कृष्टा᳘य व्वर्षति स य᳘त्कृष्ट᳘ ऽएव᳘ निन᳘येन्ना᳘कृष्टे कृष्टा᳘यैव व्व᳘र्षेन्ना᳘कृष्टाया᳘थ यद᳘कृष्ट ऽएव᳘ निन᳘येन्न᳘ कृष्टे᳘ ऽकृष्टायैव व्व᳘र्षेन्न᳘ कृष्टा᳘य कृष्टे चा᳘कृष्टे च नि᳘नयति त᳘स्मात्कृष्टा᳘य चा᳘कृष्टाय च व्वर्षति॥

मूलम् - Weber

स वै᳘ कृष्टे नि᳘नयति॥
त᳘स्मात्कृष्टा᳘य वर्षति स य᳘त्कृष्ट᳘ एव᳘ निन᳘येन्ना᳘कृष्टे कृष्टा᳘यैव व᳘र्षेन्ना᳘कृष्टाया᳘थ यद᳘कृष्ट एव᳘ निन᳘येन्न᳘ कृष्टे᳘ कृष्टायैव व᳘र्षेन्न᳘ कृष्टा᳘य कृष्टे चा᳘कृष्टे च नि᳘नयति त᳘स्मात्कृष्टा᳘य चा᳘कृष्टाय च वर्षति॥

मूलम् - विस्वरम्

स वै कृष्टे निनयति । तस्मात्कृष्टाय वर्षति । स यत् कृष्ट ऽएव निनयेत्-नाकृष्टे, कृष्टायैव वर्षेत्- नाकृष्टाय । अथ यदकृष्ट ऽएव निनयेत्- न कृष्टे, अकृष्टायैव वर्षेत्- न कृष्टाय । कृष्टे चाकृष्टे च निनयति- तस्मात् कृष्टाय चाकृष्टाय च वर्षति ॥ ५ ॥

सायणः

तस्योदकनिनयनस्य कृष्टक्षेत्राधिकरणत्वमनूद्य स्तौति- स वै कृष्टे इति । यस्मात् कृष्टप्रदेशे उदकनिनयनं क्रियते, तस्मादेव कारणाल्लोके ‘कृष्टाय’ कर्षणसंस्कारसंस्कृताय भूमिभागायार्थे ‘वर्षति’ वृष्टिर्भवति । स यत् कृष्ट एवेत्यादिना कृष्टाकृष्टस्थले उदकनिनयनायैकैकत्र निनयननिन्दा प्रतिपाद्यते; अर्थस्तु निगदसिद्धः ॥ ५ ॥

Eggeling
  1. On the ploughed ground he pours (water), whence it rains for (the benefit of) the ploughed land. Now were he only to pour it on the ploughed ground, and not on the unploughed, it would only rain for the ploughed land, not for the unploughed. And were he only to pour it on the unploughed ground, and not on the ploughed, it would only rain for the unploughed land, and not for the ploughed. He pours it both on the ploughed, and the unploughed, ground; whence it rains both for the ploughed, and the unploughed, ground.

०६

विश्वास-प्रस्तुतिः

त्री᳘न्कृष्टे चा᳘कृष्टे च नि᳘नयति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद्वृ᳘ष्टिं दधाति॥

मूलम् - श्रीधरादि

त्री᳘न्कृष्टे चा᳘कृष्टे च नि᳘नयति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद्वृ᳘ष्टिं दधाति॥

मूलम् - Weber

त्री᳘न्कृष्टे चा᳘कृष्टे च नि᳘नयति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्यावत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेतद्वृ᳘ष्टिं दधाति॥

मूलम् - विस्वरम्

त्रीन्कृष्टे चाकृष्टे च निनयति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतद्वृष्टिं दधाति ॥ ६ ॥

सायणः

कृष्टाकृष्टात्मके यदुदकनिनयनं विहितम्, तत्करणचमसानामपि त्रिसङ्ख्यामुपजीव्य स्तौति- त्रीन् कृष्टे 3 चेति । त्रिवृदग्निरित्यादि- असकृद् गतम् ॥ ६ ॥

Eggeling
  1. Three (jarfuls) 4 he pours both on the ploughed, and on the unploughed, ground;–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus bestows rain thereon.

०७

विश्वास-प्रस्तुतिः

य᳘द्वे᳘वोदचमसा᳘न्निन᳘यति॥
(त्ये) एतद्वा᳘ ऽअस्मिन्देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्ताद᳘पो ऽदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्तादपो᳘ दधाति॥

मूलम् - श्रीधरादि

य᳘द्वे᳘वोदचमसा᳘न्निन᳘यति॥
(त्ये) एतद्वा᳘ ऽअस्मिन्देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्ताद᳘पो ऽदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्तादपो᳘ दधाति॥

मूलम् - Weber

य᳘द्वेॗवोदचमसा᳘न्निन᳘यति॥
एतद्वा᳘ अस्मिन्देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्ताद᳘पो दधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्तादपो᳘ दधाति॥

मूलम् - विस्वरम्

यद्वेवोदचमसान्निनयति । एतद्वा ऽअस्मिन्देवाः संस्करिष्यन्तः पुरस्तादपो ऽदधुः । तथैवास्मिन्नयमेतत्संस्करिष्यन्पुरस्तादपो दधाति ॥ ७ ॥

सायणः

उक्ते ऽर्थे पुरावृत्तमवतारयति- यद्वेवेत्यादिना । ‘पुरस्तात्’ चयनात् प्रागेव ‘अपः’ उदकानि स्थापितवन्तः । शिष्टं स्पष्टम् ॥ ७ ॥

Eggeling
  1. And, again, why he pours out jarfuls of water;–at that time the gods, being about to put him (Agni-Prajāpati) together, in the first place put water into him; and in like manner does this one now, being about to put him together, in the first place put water into him.

०८

विश्वास-प्रस्तुतिः

त्रीं᳘स्त्रीनुदचमसान्नि᳘नयति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘दपो᳘ दधाति॥

मूलम् - श्रीधरादि

त्रीं᳘स्त्रीनुदचमसान्नि᳘नयति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘दपो᳘ दधाति॥

मूलम् - Weber

त्री᳘ᳫं᳘स्त्रीनुदचमसान्नि᳘नयति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेत᳘दपो᳘ दधाति॥

मूलम् - विस्वरम्

त्रींस्त्रीनुदचमसान्निनयति । त्रिवृदग्निः । यावानग्निः, यावत्यस्य मात्रा- तावतैवास्मिन्नेतदपो दधाति ॥ ८ ॥

सायणः

त्रींस्त्रीनित्यादि पूर्ववद् व्याख्येयम् ॥ ८ ॥

Eggeling
  1. Three jarfuls he pours out each time,–threefold is Agni: as large as Agni is, as large as is his measure, by so much he thus puts water into him.

०९

विश्वास-प्रस्तुतिः

द्वा᳘दशोदचमसा᳘न्कृष्टे नि᳘नयति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘दपो᳘ दधाति॥

मूलम् - श्रीधरादि

द्वा᳘दशोदचमसा᳘न्कृष्टे नि᳘नयति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘दपो᳘ दधाति॥

मूलम् - Weber

द्वा᳘दशोदचमसा᳘न्कृष्टे नि᳘नयति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेत᳘दपो᳘ दधाति॥

मूलम् - विस्वरम्

द्वादशोदचमसान्कृष्टे निनयति । द्वादश मासाः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतदपो दधाति ॥ ९ ॥

सायणः

द्वादशोदचमसानित्यादि च ॥ ९ ॥

Eggeling
  1. Twelve jarfuls he pours on the ploughed ground,–twelve months are a year, and the year is Agni: as great as Agni is, as great as is his measure, by so much he thus puts water into him.

१०

विश्वास-प्रस्तुतिः

स वै᳘ कृष्टे नि᳘नयति॥
प्राणे᳘षु त᳘दपो᳘ दधाति स य᳘त्कृष्ट᳘ ऽएव᳘ निन᳘येन्ना᳘कृष्टे प्राणे᳘ष्वेवा᳘पः स्युर्ने᳘तरस्मिन्नात्मन्न᳘थ यद᳘कृष्ट ऽएव᳘ निन᳘येन्न᳘ कृष्ट᳘ ऽआत्म᳘न्नेवा᳘पः स्युर्न᳘ प्राणे᳘षु कृष्टे चा᳘कृष्टे च नि᳘नयति त᳘स्मादिमा᳘ ऽउभयत्रा᳘पः प्राणे᳘षु चात्मं᳘श्च॥

मूलम् - श्रीधरादि

स वै᳘ कृष्टे नि᳘नयति॥
प्राणे᳘षु त᳘दपो᳘ दधाति स य᳘त्कृष्ट᳘ ऽएव᳘ निन᳘येन्ना᳘कृष्टे प्राणे᳘ष्वेवा᳘पः स्युर्ने᳘तरस्मिन्नात्मन्न᳘थ यद᳘कृष्ट ऽएव᳘ निन᳘येन्न᳘ कृष्ट᳘ ऽआत्म᳘न्नेवा᳘पः स्युर्न᳘ प्राणे᳘षु कृष्टे चा᳘कृष्टे च नि᳘नयति त᳘स्मादिमा᳘ ऽउभयत्रा᳘पः प्राणे᳘षु चात्मं᳘श्च॥

मूलम् - Weber

स वै᳘ कृष्टे नि᳘नयति॥
प्राणे᳘षु त᳘दपो᳘ दधाति स य᳘त्कृष्ट᳘ एव᳘ निन᳘येन्ना᳘कृष्टे प्राणे᳘ष्वेवा᳘पः स्युर्ने᳘तरस्मिन्नात्मन्न᳘थ यद᳘कृष्ट एव᳘ निन᳘येन्न᳘ कृष्ट᳘ आत्म᳘न्नेवा᳘पः स्युर्न᳘ प्राणे᳘षु कृष्टे चा᳘कृष्टे च नि᳘नयति त᳘स्मादिमा᳘ उभयत्रा᳘पः प्राणे᳘षु चात्मं᳘श्च॥

मूलम् - विस्वरम्

स वै कृष्टे निनयति । प्राणेषु तदपो दधाति । स यत् कृष्ट ऽएव निनयेत्- नाकृष्टे, प्राणेष्वेवापः स्युः- नेतरस्मिन्नात्मन् । अथ यदकृष्ट ऽएव निनयेत्- न कृष्टे, आत्मन्नेवापः स्युः- न प्राणेषु । कृष्टे चाकृष्टे च निनयति । तस्मादिमा उभयत्रापः प्राणेषु चात्मंश्च ॥ १० ॥

सायणः

कृष्टप्रदेशे उदकनिनयनस्य प्राणाधिकरणनिनयनरूपतामाह- स वै कृष्ट इति । कृष्टाकृष्टयोरुभयत्रोदकनिनयने प्राणशब्दाभिधेयेषु चक्षुरादिषु तदाश्रयभूते ‘आत्मनि’ शरीरे चापां निनयनं कृतं भवतीत्ययं सयत् कृष्ट 5 एवेत्यादेस्तात्पर्यार्थः ॥ १० ॥

Eggeling
  1. On the ploughed ground he pours it: he thereby puts water into the vital airs. But were he to pour (water) only on the ploughed ground, and

not on the unploughed, there would be water only in (the channels of) the vital airs, and not in the other (parts of the) body. And were he to pour (water) only on the unploughed ground, and not on the ploughed, there would be water only in (the other parts of) the body, and not in the vital airs. He pours it both on the ploughed, and the unploughed, ground, whence there is water here both in (the channels of) the vital airs and in the body.

११

विश्वास-प्रस्तुतिः

त्री᳘न्कृष्टे चा᳘कृष्टे च नि᳘नयति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘दपो᳘ दधाति॥

मूलम् - श्रीधरादि

त्री᳘न्कृष्टे चा᳘कृष्टे च नि᳘नयति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेत᳘दपो᳘ दधाति॥

मूलम् - Weber

त्री᳘न्कृष्टे चा᳘कृष्टे च नि᳘नयति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेत᳘दपो᳘ दधाति॥

मूलम् - विस्वरम्

त्रीन्कृष्टे चाकृष्टे च निनयति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतदपो दधाति ॥ ११ ॥

सायणः

कृष्टाकृष्टयोरुदकनिनयनचमसगतं त्रित्वमनूद्य तस्याप्यपां निधानहेतुतामाह- त्रीन् कृष्टे चेति । अर्थस्तु पूर्ववत् ॥ ११ ॥

Eggeling
  1. Three (jarfuls) he pours both on the ploughed, and on the unploughed, ground;–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus puts water into him.

१२

विश्वास-प्रस्तुतिः

प᳘ञ्चदशोदचमसान्नि᳘नयति॥
पञ्चदशो वै व्व᳘ज्र ऽएते᳘नै᳘वास्यैत᳘त्पञ्चदशे᳘न व्व᳘ज्रेण स᳘र्व्वं पाप्मा᳘नम᳘पहन्ति॥

मूलम् - श्रीधरादि

प᳘ञ्चदशोदचमसान्नि᳘नयति॥
पञ्चदशो वै व्व᳘ज्र ऽएते᳘नै᳘वास्यैत᳘त्पञ्चदशे᳘न व्व᳘ज्रेण स᳘र्व्वं पाप्मा᳘नम᳘पहन्ति॥

मूलम् - Weber

प᳘ञ्चदशोदचमसान्नि᳘नयति॥
पञ्चदशो वै व᳘ज्र एते᳘नैॗवास्यैत᳘त्पञ्चदशे᳘न व᳘ज्रेण स᳘र्वम् पाप्मा᳘नम᳘पहन्ति॥

मूलम् - विस्वरम्

पञ्चदशोदचमसान्निनयति । पञ्चदशो वै वज्रः । एतेनैवास्यैतत्पञ्चदशेन वज्रेण सर्वं पाप्मानमपहन्ति ॥ १२ ॥

सायणः

पृथग्विहितामुदचमससंख्यां सम्भूय प्रशंसति- पञ्चदशोदचमसानिति । पञ्चदशो वै वज्र इति । पञ्चदशस्तोमस्येन्द्रस्य च सह प्रजापतिबाहुसकाशादुत्पत्तेरिन्द्रसम्बन्धी वज्रो ऽपि पञ्चदशस्तोमात्मकः (तै. सं. ७ । १ । १ । ४ ।) । तादृशेनैतेन ‘वज्रेण’ अस्य यजमानस्य ‘सर्वम्’ अपि ‘पाप्मानम्’ अपहतवान् भवति ॥ १२ ॥

Eggeling
  1. Fifteen jarfuls of water he pours out,–fifteenfold is the thunderbolt: by that fifteenfold thunderbolt of his he thus drives away all evil.

१३

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ सर्व्वौषधं᳘ व्वपति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना ऽअ᳘न्नमेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ सर्व्वौषधं᳘ व्वपति॥
(त्ये) एतद्वै᳘ देवा᳘ ऽअब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिच्छते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना ऽअ᳘न्नमेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थै᳘वास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - Weber

अ᳘थ सर्वौषधं᳘ वपति॥
एतद्वै᳘ देवा᳘ अब्रुवंश्चेत᳘यध्वमि᳘ति चि᳘तिमिछते᳘ति वाव त᳘दब्रुवंस्ते᳘ चेत᳘यमाना अ᳘न्नमेव चि᳘तिमपश्यंस्ता᳘मस्मिन्नदधुस्त᳘थैॗवास्मिन्नय᳘मेत᳘द्दधाति॥

मूलम् - विस्वरम्

अथ सर्वौषधं वपति- एतद्वै देवा अब्रुवन्- चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवन् । ते चेतयमाना अन्नमेव चितिमपश्यन् । तामस्मिन्नदधुः । तथैवास्मिन्नयमेतद्दधाति ॥ १३ ॥

सायणः

अथ प्रकृत औदुम्बरचमसे सर्वधान्यावापं विधत्ते- अथ सर्वौषधं वपतीति । ‘अन्नमेव’ धान्यरूपामेव ‘चितिम्’ इत्यर्थः । गतमन्यत् ॥ १३ ॥

Eggeling
  1. He then sows all (kinds of) herb (-seed);–for the gods then said, ‘Meditate ye!’ whereby doubtless they meant to say, ‘Seek ye a layer!’ whilst meditating, they saw food to be a (suitable) layer, and put that on (or, into) him (Agni); and in like manner does this one now put it into him.

१४

विश्वास-प्रस्तुतिः

सर्व्वौषधं᳘ भवति॥
स᳘र्व्वमेतद᳘न्नं य᳘त्सर्व्वौषधᳫँ᳭ स᳘र्व्वमे᳘वास्मिन्नेतद᳘न्नं दधाति ते᳘षामे᳘कम᳘न्नमु᳘द्धरेत्त᳘स्य᳘ नाश्नीयाद्यावज्जी᳘वमौ᳘दुम्बरेण चमसे᳘न त᳘स्योक्तो ब᳘न्धुश्च᳘तुःस्रक्तिना च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वास्मिन्नेत᳘द्दिग्भ्यो᳘ ऽन्नं दधात्यनुष्टु᳘ब्भिर्व्वपति व्वाग्वा᳘ ऽअनुष्टु᳘ब्वा᳘चो वा ऽअ᳘न्नमद्यते॥

मूलम् - श्रीधरादि

सर्व्वौषधं᳘ भवति॥
स᳘र्व्वमेतद᳘न्नं य᳘त्सर्व्वौषधᳫँ᳭ स᳘र्व्वमे᳘वास्मिन्नेतद᳘न्नं दधाति ते᳘षामे᳘कम᳘न्नमु᳘द्धरेत्त᳘स्य᳘ नाश्नीयाद्यावज्जी᳘वमौ᳘दुम्बरेण चमसे᳘न त᳘स्योक्तो ब᳘न्धुश्च᳘तुःस्रक्तिना च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वास्मिन्नेत᳘द्दिग्भ्यो᳘ ऽन्नं दधात्यनुष्टु᳘ब्भिर्व्वपति व्वाग्वा᳘ ऽअनुष्टु᳘ब्वा᳘चो वा ऽअ᳘न्नमद्यते॥

मूलम् - Weber

सर्वौषध᳘म् भवति॥
स᳘र्वमेव तद᳘न्नं य᳘त्सर्वौषधᳫं स᳘र्वमेॗवास्मिन्नेतद᳘न्नं दधाति ते᳘षामे᳘कम᳘न्नमु᳘द्धरेत्त᳘स्यॗ नाश्नीयाद्यावज्जीवमौ᳘दुम्बरेण चमसे᳘न त᳘स्योक्तो ब᳘न्धुश्च᳘तुःस्रक्तिना च᳘तस्रो वै दि᳘शः स᳘र्वाभ्य एॗवास्मिन्नेत᳘द्दिग्भ्यो᳘ ऽन्नं दधात्यनुष्टु᳘ब्भिर्वपति वाग्वा᳘ अनुष्टु᳘ब्वाॗचो वा अ᳘न्नमद्यते॥

मूलम् - विस्वरम्

सर्वौषधं भवति । सर्वमेतदन्नम्- यत्सर्वौषधम् । सर्वमेवास्मिन्नेतदन्नं दधाति । तेषामेकमन्नमुद्धरेत्- तस्य नाश्नीयाद्- यावज्जीवम् । औदुम्बरेण चमसेन । तस्योक्तो बन्धुः । चतुःस्रक्तिना । चतस्रो वै दिशः । सर्वाभ्य एवास्मिन्नेतद्दिग्भ्यो ऽन्नं दधाति । अनुष्टुब्भिर्वपति । वाग्वा ऽअनुष्टुप् । वाचो वा ऽअन्नमद्यते ॥ १४ ॥

सायणः

सर्वत्वमनूद्य स्तौति- सर्वौषधं भवतीति । ओषधीनां समूहः औषधम् । “तस्य समूहः”- (पा. सू. ४ । २ । ३७) इत्यण् । ओषधयश्चात्र ग्राम्यारण्यादिबीजात्मिका द्रष्टव्याः (तै. सं. ५ । ४ । ९ । १) । यत् सर्वौषधम्, एतत् सर्वं निरवशेषमन्नम् । सर्वमेवेति । ‘एतत्’ एतेन सर्वौषधावापेन ‘अस्मिन्’ अग्नौ सर्वमेवान्नं निहितवान् भवति । तत्रोप्तानां प्रकृतानामन्नानां मध्ये एकस्य ओषधिरूपस्य बीजस्य वर्जनं विधत्ते- तेषामेकमिति । ‘तेषाम्’ ओषधिविकाराणामन्नानां मध्ये ‘एकमन्नमुद्धरेत्’ पृथक् कुर्यात्, न आवपेदित्यर्थः । तत्र च धर्मविशेषं विधत्ते- तस्य नाश्नीयादिति । ‘तस्य’ उद्धृतस्यान्नस्य ‘यावज्जीवं नाश्नीयात्’ अत एवोक्तं कात्यायनेन- “तस्मिन् सर्वौषधमावपत्येकवर्जमभोजनं तस्योच्छ्वासात्"- (का. श्रौ. सू. १७ । ५१) इति ॥

उदकनिनयन इव बीजावपने ऽपि चतुरस्रमौदुम्बरं चमसं करणत्वेन विधत्ते- औदुम्बरेण चमसेनेति । व्याख्यातं प्राक् चैतत् (श. प. ७ । २ । २ । १५) । सर्वाभ्य एवास्मिन्नित्यादि । ‘सर्वाभ्यः’ प्राच्यादिभ्यश्चतसृभ्यो दिग्भ्यः सकाशात् ‘एतेन’ चतुःस्रक्तिचमसकरणकेन बीजावापेन ‘अस्मिन्’ अग्नौ ‘अन्नं’ ‘दधाति’ स्थापयति । बीजावपनं मन्त्राणां छन्दोद्वारेण प्रशंसति- अनुष्टुब्भिरिति । “या ओषधीः” इत्याद्याः अनुष्टुप्छन्दस्कास्ताभिर्वपेदित्यर्थः । वाग्वा अनुष्टुब्- इत्यादि । सा तु “चतुरुत्तराणि छन्दांस्यसृजत”- इति श्रुतेः सर्वच्छन्दोरूपत्वादनुष्टुभो वाक्त्वम् (श. प. ३ । १ । ४ । २१) । अन्नमपि वाचैवाद्यमानमित्यन्नात्मकस्यौषधिवापस्य वाक्संस्तुता ऽनुष्टुप्करणकत्वं युक्तमिति भावः ॥ १४ ॥

Eggeling
  1. It is (seed) of all herbs,–all herbs means all food; he thus puts all (kinds of) food into him. Let him omit one of those kinds of food, and not eat thereof as long as he lives. By means of the udumbara jar (he sows the seed): the significance of this has been explained;–with a four-cornered one,–there are four quarters: from all quarters he thus puts food into him (Agni). He sows it with anushṭubh (verses),–the Anushṭubh (metre) is speech, and by means of speech (the mouth 6) food is eaten.

१५

विश्वास-प्रस्तुतिः

तिसृ᳘भिस्तिसृभिर्ऋग्भि᳘र्व्वपति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - श्रीधरादि

तिसृ᳘भिस्तिसृभिर्ऋग्भि᳘र्व्वपति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - Weber

तिसृ᳘भिस्तिसृभिरृग्भि᳘र्वपति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - विस्वरम्

तिसृभिस्तिसृभिर्ऋग्भिर्वपति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतदन्नं दधाति ॥ १५ ॥

सायणः

पञ्चतृचात्मको ह्यनुवाकस्तत्र 7 सर्वत्र क्रमेण तृचैरेवौषधिवापः कर्त्तव्य इति विधाय त्रित्वसंख्यां प्रशंसति- तिसृभिस्तिसृभिरिति 8 । “नित्यवीप्सयोः”- (पा. सू. ८ । १ । ४) इति द्विर्वचनम् । त्रिवृदग्निरित्यादि । व्याख्यातम् ॥ १५ ॥

Eggeling
  1. With three verses he sows each time 9,–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus puts food into him.

१६

विश्वास-प्रस्तुतिः

द्वादश᳘भिर्ऋग्भिः᳘ कृष्टे᳘ व्वपति॥
द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - श्रीधरादि

द्वादश᳘भिर्ऋग्भिः᳘ कृष्टे᳘ व्वपति॥
द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - Weber

द्वादश᳘भिरृग्भिः᳘ कृष्टे᳘ वपति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - विस्वरम्

द्वादशभिर्ऋग्भिः कृष्टे वपति । द्वादश मासाः संवत्सरः । सम्वत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतदन्नं दधाति ॥ १६ ॥

सायणः

कृष्टप्रदेशे द्वादशभिर्ऋग्भिर्वपनं विधाय स्तौति- द्वादशभिरिति । चतसृषु सीतास्वेकैकस्यां तिसृभिर्वपने सति द्वादशर्चः सम्पद्यन्ते, सैव द्वादशसंख्या ऽत्रानूद्य स्तूयते । निगदसिद्धमन्यत् ॥ १६ ॥

Eggeling
  1. With twelve verses he sows on the ploughed ground,–twelve months are a year, and the year is Agni: as great as Agni is, as great as is his measure, with so much he thus puts food into him.

१७

विश्वास-प्रस्तुतिः

स वै᳘ कृष्टे᳘ व्वपति॥
त᳘स्मात्कृष्टे᳘ ऽन्नं पच्यते य᳘त्कृष्ट᳘ ऽएव व्व᳘पेन्ना᳘कृष्टे कृष्ट ऽएवा᳘न्नं[[!!]] पच्ये᳘त ना᳘कृष्टे᳘ ऽथ यद᳘कृष्ट ऽएव᳘ व्वपेन्न᳘[[!!]] कृष्टे᳘ ऽकृष्ट ऽएवा᳘न्नं पच्ये᳘त न᳘ कृष्टे᳘ कृष्टे चा᳘कृष्टे च व्वपति त᳘स्मात्कृष्टे चा᳘कृष्टे चा᳘न्नं पच्यते॥

मूलम् - श्रीधरादि

स वै᳘ कृष्टे᳘ व्वपति॥
त᳘स्मात्कृष्टे᳘ ऽन्नं पच्यते य᳘त्कृष्ट᳘ ऽएव व्व᳘पेन्ना᳘कृष्टे कृष्ट ऽएवा᳘न्नं[[!!]] पच्ये᳘त ना᳘कृष्टे᳘ ऽथ यद᳘कृष्ट ऽएव᳘ व्वपेन्न᳘[[!!]] कृष्टे᳘ ऽकृष्ट ऽएवा᳘न्नं पच्ये᳘त न᳘ कृष्टे᳘ कृष्टे चा᳘कृष्टे च व्वपति त᳘स्मात्कृष्टे चा᳘कृष्टे चा᳘न्नं पच्यते॥

मूलम् - Weber

स वै᳘ कृष्टे᳘ वपति॥
त᳘स्मात्कृष्टे᳘ ऽन्नम् पच्यते य᳘त्कृष्ट᳘ एव व᳘पेन्ना᳘कृष्टे कृष्ट᳘ एवा᳘न्नम् पच्ये᳘त ना᳘कृष्टे᳘ ऽथ यद᳘कृष्ट एव व᳘पेन्न᳘ कृष्टे᳘ ऽकृष्ट एवा᳘न्नम् पच्ये᳘त न᳘ कृष्टे᳘ कृष्टे चा᳘कृष्टे च वपति त᳘स्मात्कृष्टे चा᳘कृष्टे चा᳘न्नम् पच्यते॥

मूलम् - विस्वरम्

स वै कृष्टे वपति । तस्मात्कृष्टे ऽन्नं पच्यते । स यत्कृष्ट ऽएव वपेत्- नाकृष्टे, कृष्ट ऽएवान्नं पच्येत- नाकृष्टे । अथ यदकृष्ट ऽएव वपेत्- न कृष्टे, अकृष्ट ऽएवान्नं पच्येत- न कृष्टे । कृष्टे चाकृष्टे च वपति- तस्मात्कृष्टे चाकृष्टे चान्नं पच्यते ॥ १७ ॥

सायणः

तस्य बीजावापस्य कृष्टक्षेत्राधिकरणत्वमनूद्य स्तौति- स वै कृष्ट इति । यस्मात् कृष्टप्रदेशे बीजावापः क्रियते, तस्मादेव कारणात् लोके ‘कृष्टे’ कर्षणसंस्कारसंस्कृते भूमिभागे व्रीहियवादिलक्षणम् ‘अन्नं पच्यते’ फलमिति । स यत् कृष्ट एवेत्यादिना- कृष्टाकृष्टक्षेत्रे वपनायैकैकत्र बीजावापनिन्दा प्रतिपाद्यते । निगदसिद्धो ऽर्थः ॥ १७ ॥

Eggeling
  1. On the ploughed ground he sows, whence food ripens on ploughed ground. Were he to sow only on the ploughed ground, and not on the unploughed, food would only ripen on ploughed ground, not on unploughed; and were he to sow only on unploughed ground, and not on ploughed ground, food would only ripen on unploughed ground, and not on ploughed ground. He sows on both the ploughed, and the unploughed, ground: hence food ripens both on ploughed, and on unploughed, ground.

१८

विश्वास-प्रस्तुतिः

तिसृ᳘भिः कृष्टे चा᳘कृष्टे च व्वपति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - श्रीधरादि

तिसृ᳘भिः कृष्टे चा᳘कृष्टे च व्वपति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - Weber

तिसृ᳘भिः कृष्टे चा᳘कृष्टे च वपति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवास्मिन्नेतद᳘न्नं दधाति॥

मूलम् - विस्वरम्

तिसृभिः कृष्टे चाकृष्टे च वपति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवास्मिन्नेतदन्नं दधाति ॥ १८ ॥

सायणः

कृष्टाकृष्टात्मके यद्बीजावपनं विहितम्, तत् करणमन्त्राणामपि त्रिसङ्ख्यामुपजीव्य स्तौति- तिसृभिः कृष्टे चाकृष्टे चेति ॥ १८ ॥

Eggeling
  1. With three (verses) he sows both on the ploughed, and on the unploughed, ground,–threefold is Agni: as great as Agni is, as great as is his measure, by so much he thus puts food into him.

१९

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ सर्व्वौषधं व्व᳘पति॥
(त्ये) एतद्वा᳘ ऽएनं देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्तात्स᳘र्व्वेण भेषजे᳘नाभिषज्यंस्त᳘थै᳘वैनमय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्तात्स᳘र्व्वेण भेषजे᳘न भिषज्यति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ सर्व्वौषधं व्व᳘पति॥
(त्ये) एतद्वा᳘ ऽएनं देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्तात्स᳘र्व्वेण भेषजे᳘नाभिषज्यंस्त᳘थै᳘वैनमय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्तात्स᳘र्व्वेण भेषजे᳘न भिषज्यति॥

मूलम् - Weber

य᳘द्वेव᳘ सर्वौषधं व᳘पति॥
एतद्वा एन देवाः᳘ संस्करिष्य᳘न्तः पुर᳘स्तात्स᳘र्वेण भेषजे᳘नाभिषज्यंस्त᳘थैॗवैनमय᳘मेत᳘त्संस्करिष्य᳘न्पुर᳘स्तात्स᳘र्वेण भेषजे᳘न भिषज्यति॥

मूलम् - विस्वरम्

यद्वेव सर्वौषधं वपति । एतद्वा ऽएनं देवाः संस्करिष्यन्तः पुरस्तात्सर्वेण भेषजेनाभिषज्यन् । तथैवैनमयमेतत्संस्करिष्यन्पुरस्तात्सर्वेण भेषजेन भिषज्यति ॥ १९ ॥

सायणः

एवमन्नचितिरूपेण बीजावापं संस्तुत्य भेषजरूपेणापि स्तौति- यद्वेवेत्यादिना । पुरावृत्तकथनम् । सर्वा ह्योषधयो यावदन्नमूलफलकन्दादिरूपेण भेषजानि भवन्ति तथा सति सर्वौषधिसम्बन्धिबीजावपनेन सर्वेणैव भेषजेन ‘देवाः’ ‘एनम्’ अग्निम् ‘अभिषज्यन्’ अचिकित्सन् । “भिषज् चिकित्सायाम्”- इति (पा. सू. ३ । १ । २७) (कं. गं. २३) धातुः । तद्वदयं यजमानो ऽपि ‘एतत्’ एतर्हि ‘एनम्’ अग्निं ‘संस्करिष्यन्,’ ततः प्रागेव सर्वौषधिबीजावापेन सर्वेणैव भेषजेन ‘भिषज्यति’ चिकित्सति । यथा करिष्यमाणश्चयनसंस्कारो वितथो न भवेत्, तथैनं भिषज्येदित्यर्थः ॥ १९ ॥

Eggeling
  1. And, again, why he sows all (kinds of) herb (-seed),–the gods at that time, being about to put him (Agni-Prajāpati) together, in the first place healed him by healing medicine; and in like manner does this one now, being about to put him together, first heal him with healing medicine.

२०

विश्वास-प्रस्तुतिः

सर्व्वौषधं᳘ भवति॥
स᳘र्व्वमेत᳘द्भेषजं य᳘त्सर्व्वौषधᳫँ᳭ स᳘र्व्वेणै᳘वैनमेत᳘द्भेषजे᳘न भिषज्यति॥

मूलम् - श्रीधरादि

सर्व्वौषधं᳘ भवति॥
स᳘र्व्वमेत᳘द्भेषजं य᳘त्सर्व्वौषधᳫँ᳭ स᳘र्व्वेणै᳘वैनमेत᳘द्भेषजे᳘न भिषज्यति॥

मूलम् - Weber

सर्वौषध᳘म् भवति॥
स᳘र्वमेत᳘द्भेषजं य᳘त्सर्वौषधᳫं स᳘र्वेणैॗवैनमेत᳘द्भेषजे᳘न भिषज्यति॥

मूलम् - विस्वरम्

सर्वौषधं भवति । सर्वमेतद्भेषजम्- यत्सर्वौषधम् । सर्वेणैवैनमेतद्भेषजेन भिषज्यति ॥ २० ॥

सायणः

सर्वत्वमनूद्य स्तौति- सर्वौषधं भवतीति । पूर्ववद् व्याख्येयम् ॥ २० ॥

Eggeling
  1. It is (seed) of all herbs;–all herbs is the

same as all (kinds of) medicine: by all (kinds of) healing medicine he thus heals him.

२१

विश्वास-प्रस्तुतिः

तिसृ᳘भिस्तिसृभिर्ऋग्भि᳘र्व्वपति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘द्भिषज्यति॥

मूलम् - श्रीधरादि

तिसृ᳘भिस्तिसृभिर्ऋग्भि᳘र्व्वपति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘द्भिषज्यति॥

मूलम् - Weber

तिसृ᳘भिस्तिसभिरृग्भि᳘र्वपति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘द्भिषज्यति॥

मूलम् - विस्वरम्

तिसृभिस्तिसृभिर्ऋग्भिर्वपति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्भिषज्यति ॥ २१ ॥

सायणः

तृचकरणकं बीजावपनमनूद्यैतदपि भेषजहेतुत्वेन स्तौति- तिसृभिस्तिसृभिर्ऋग्भिरिति ॥ २१ ॥

Eggeling
  1. With three verses he sows each time,–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus heals him.

२२

विश्वास-प्रस्तुतिः

द्वादश᳘भिर्ऋग्भिः᳘ कृष्टे᳘ व्वपति॥
द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘द्भिषज्यति॥

मूलम् - श्रीधरादि

द्वादश᳘भिर्ऋग्भिः᳘ कृष्टे᳘ व्वपति॥
द्वा᳘दश मा᳘साः संव्वत्सरः᳘ संव्वत्स᳘रो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘द्भिषज्यति॥

मूलम् - Weber

द्वादश᳘भिरृग्भिः᳘ कृष्टे᳘ वपति॥
द्वा᳘दश मा᳘साः संवत्सरः᳘ संवत्सॗरो ऽग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘द्भिषज्यति॥

मूलम् - विस्वरम्

द्वादशभिर्ऋग्भिः कृष्टे वपति । द्वादश मासाः संवत्सरः । संवत्सरो ऽग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद्भिषज्यति ॥ २२ ॥

सायणः

चतसृषु सीतासु करणमन्त्राणां द्वादशसङ्ख्यामनूद्य भेषजहेतुत्वेन स्तौति- द्वादशभिर्ऋग्भिरिति ॥ २२ ॥

Eggeling
  1. With twelve verses he sows on the ploughed ground,–twelve months are a year, and the year is Agni: as great as Agni is, as great as is his measure, with so much he thus heals him.

२३

विश्वास-प्रस्तुतिः

स वै᳘ कृष्टे᳘ व्वपति॥
प्राणांस्त᳘द्भिषज्यति स य᳘त्कृष्ट᳘ ऽएव व्व᳘पेन्ना᳘कृष्टे प्राणा᳘नेव᳘ भिषज्येन्ने᳘तरमात्मा᳘नम᳘थ यद᳘कृष्ट ऽएव व्व᳘पेन्न᳘ कृष्ट᳘ ऽआत्मा᳘नमेव᳘ भिषज्येन्न᳘ प्राणा᳘न्कृष्टे चा᳘कृष्टे च व्वपति प्राणां᳘श्च त᳘दात्मा᳘नं च भिषज्यति॥

मूलम् - श्रीधरादि

स वै᳘ कृष्टे᳘ व्वपति॥
प्राणांस्त᳘द्भिषज्यति स य᳘त्कृष्ट᳘ ऽएव व्व᳘पेन्ना᳘कृष्टे प्राणा᳘नेव᳘ भिषज्येन्ने᳘तरमात्मा᳘नम᳘थ यद᳘कृष्ट ऽएव व्व᳘पेन्न᳘ कृष्ट᳘ ऽआत्मा᳘नमेव᳘ भिषज्येन्न᳘ प्राणा᳘न्कृष्टे चा᳘कृष्टे च व्वपति प्राणां᳘श्च त᳘दात्मा᳘नं च भिषज्यति॥

मूलम् - Weber

स वै᳘ कृष्टे᳘ वपति॥
प्राणांस्तद्भिषज्यति स य᳘त्कृष्ट᳘ एव व᳘पेन्ना᳘कृष्टे प्राणा᳘नेव᳘ भिषज्येन्ने᳘तरमात्मा᳘नम᳘थ यद᳘कृष्ट एव व᳘पेन्न᳘ कृष्ट᳘ आत्मा᳘नमेव᳘ भिषज्येन्न᳘ प्राणा᳘न्कृष्टे चा᳘कृष्टे च वपति प्राणां᳘श्च त᳘दात्मा᳘नं च भिषज्यति॥

मूलम् - विस्वरम्

स वै कृष्टे वपति । प्राणांस्तद्भिषज्यति । स यत् कृष्ट ऽएव वपेत्- नाकृष्टे, प्राणानेव भिषज्येत्- नेतरमात्मानम् । अथ यदकृष्ट ऽएव वपेत्- न कृष्टे, आत्मानमेव भिषज्येत्- न प्राणान् । कृष्टे चाकृष्टे च वपति- प्राणांश्च तदात्मानं च भिषज्यति ॥ २३ ॥

सायणः

कृष्टप्रदेशे वपनस्य प्राणभैषज्यरूपतामाह- स वै कृष्ट इत्यादिना । अकृष्टप्रदेशस्य शरीरस्य च साम्यं गर्तराहित्यम् । कृष्टाकृष्टयोरुभयत्र बीजावापेन प्राणशब्दाभिधेयांश्चक्षुरादीन्, तदाश्रयभूतम् ‘आत्मानं’ शरीरं च एतेन भिषज्येदित्यर्थः ॥ २३ ॥

Eggeling
  1. On the ploughed ground he sows: he thereby heals the vital airs. And were he to sow only on the ploughed ground, and not on the unploughed, he would only heal the vital airs, and not the other (parts of the) body; and were he to sow only on the unploughed, and not on the ploughed, ground, he would only heal the body, and not the vital airs: he sows both on the ploughed, and on the unploughed, ground; and thus he heals both the vital airs and the body.

२४

विश्वास-प्रस्तुतिः

तिसृ᳘भिः कृष्टे चा᳘कृष्टे च व्वपति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘द्भिषज्यति॥

मूलम् - श्रीधरादि

तिसृ᳘भिः कृष्टे चा᳘कृष्टे च व्वपति॥
त्रिव्वृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतै᳘वैनमेत᳘द्भिषज्यति॥

मूलम् - Weber

तिसृ᳘भिः कृष्टे चा᳘कृष्टे च वपति॥
त्रिवृ᳘दग्निर्या᳘वानग्निर्या᳘वत्यस्य मा᳘त्रा ता᳘वतैॗवैनमेत᳘द्भिषज्यति॥

मूलम् - विस्वरम्

तिसृभिः कृष्टे चाकृष्टे च वपति । त्रिवृदग्निः । यावानग्निर्यावत्यस्य मात्रा- तावतैवैनमेतद् भिषज्यति ॥ २४ ॥

सायणः

कृष्टाकृष्टबीजावपने च मन्त्रगतं त्रित्वमनूद्य, तस्यापि भेषजहेतुतामाह- तिसृभिः कृष्टे चाकृष्टे चेति ॥२४॥

Eggeling
  1. With three (verses) he sows both on the ploughed, and on the unploughed, ground,–threefold is Agni: as great as Agni is, as great as is his measure, with so much he thus heals him.

२५

विश्वास-प्रस्तुतिः

प᳘ञ्चदशोदचमसा᳘न्निन᳘यति॥ पञ्चदश᳘भिर्ऋग्भि᳘र्व्वपति त᳘त्त्रिᳫँ᳭श᳘त्त्रिᳫँ᳭श᳘दक्षरा व्विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नᳫँ᳭ स᳘र्व्वमे᳘वास्मिन्नेत᳘त्कृत्स्नम᳘न्नं दधाति॥

मूलम् - श्रीधरादि

प᳘ञ्चदशोदचमसा᳘न्निन᳘यति॥ पञ्चदश᳘भिर्ऋग्भि᳘र्व्वपति त᳘त्त्रिᳫँ᳭श᳘त्त्रिᳫँ᳭श᳘दक्षरा व्विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नᳫँ᳭ स᳘र्व्वमे᳘वास्मिन्नेत᳘त्कृत्स्नम᳘न्नं दधाति॥

मूलम् - Weber

प᳘ञ्चदशोदचमसा᳘न्निन᳘यति पञ्चदश᳘भिरृग्भि᳘र्वपति त᳘त्त्रिंश᳘त्त्रिंश᳘दक्षरा विरा᳘ड्विरा᳘डु कृत्स्नम᳘न्नᳫं स᳘र्वमेॗवास्मिन्नेत᳘त्कृत्स्नम᳘न्नं दधाति॥

मूलम् - विस्वरम्

पञ्चदशोदचमसान्निनयति, पञ्चदशभिर्ऋग्भिर्वपति- तत्त्रिंशत् । त्रिंशदक्षरा विराट् । विराडु कृत्स्नमन्नम् । सर्वमेवास्मिन्नेतत् कृत्स्नमन्नं दधाति ॥ २५ ॥

सायणः

उदचमससङ्ख्यां बीजावापमन्त्रसङ्ख्यां चानूद्य सम्भूय प्रशंसति- पञ्चदशोदचमसानिति । त्रिँशदक्षरा विराडिति । द्वाभ्यामक्षराभ्यामनुष्टुभो न्यूनत्वात् त्रिंशदक्षरा ऋक् विराट्छन्दस्का भवति । “ऊनाधिकेनैकेन निचृद्भुरिजौ, द्वाभ्यां विराट्स्वराजौ”- (पिङ्गलसू. ४ खण्डे, ऋ. प्रा. ४ पटले, का. स. ५ । १) इति हि तल्लक्षणम् । सा च ‘विराट्’ ‘कृत्स्नमन्नम्’; भूरूपा हि तादृशी विराट् । अत एव श्रूयते- “इयं वै विराड्” (श. प. १ । ५ । २ । २० ।) इति । सा च स्वेप्सितव्रीहियवादिसर्वधान्योत्पत्तिहेतुत्वात् सर्वान्नरूपा । तथा च विराट्संम्पत्त्या ‘अस्मिन्’ अग्निक्षेत्रे ‘सर्वमेवान्नम् एतत्’ ‘कृत्स्नम्’ निरवशेषं ‘दधाति’ स्थापयति ॥ २५ ॥

Eggeling
  1. Fifteen jarfuls of water he pours out, and with fifteen verses he sows,–that makes thirty,–the Virāj (metre) consists of thirty syllables, and the Virāj (the far-shining, or far-ruling) is the whole food: the whole food he thus puts into him.

२६

विश्वास-प्रस्तुतिः

या ऽओ᳘षधीः पू᳘र्व्वा जाताः᳘॥
(०) देवे᳘भ्यस्त्रियुगं᳘ पुरे᳘त्यृत᳘वो वै᳘ देवास्ते᳘भ्य ऽएतास्त्रिः᳘ पुरा᳘ जायन्ते व्वसन्ता᳘ प्रावृ᳘षि शर᳘दि म᳘नै नु᳘ बभ्रू᳘णामहमि᳘ति सो᳘मो वै᳘ बभ्रुः᳘ सौम्या ऽओ᳘षधय ऽओषधः पुरुषः[[!!]] शतं धा᳘मानी᳘ति य᳘दिद᳘ᳫँ᳘ शता᳘युः शतार्घः᳘ शत᳘वीर्य्य ऽएता᳘नि हास्य ता᳘नि शतं धा᳘मानि सप्त चे᳘ति य᳘ ऽए᳘वेमे᳘ सप्त᳘ शीर्ष᳘न्प्राणास्ता᳘नेत᳘दाह॥

मूलम् - श्रीधरादि

या ऽओ᳘षधीः पू᳘र्व्वा जाताः᳘॥
(०) देवे᳘भ्यस्त्रियुगं᳘ पुरे᳘त्यृत᳘वो वै᳘ देवास्ते᳘भ्य ऽएतास्त्रिः᳘ पुरा᳘ जायन्ते व्वसन्ता᳘ 10 प्रावृ᳘षि शर᳘दि म᳘नै नु᳘ बभ्रू᳘णामहमि᳘ति सो᳘मो वै᳘ बभ्रुः᳘ सौम्या ऽओ᳘षधय ऽओषधः पुरुषः[[!!]] शतं धा᳘मानी᳘ति य᳘दिद᳘ᳫँ᳘ शता᳘युः शतार्घः᳘ शत᳘वीर्य्य ऽएता᳘नि हास्य ता᳘नि शतं धा᳘मानि सप्त चे᳘ति य᳘ ऽए᳘वेमे᳘ सप्त᳘ शीर्ष᳘न्प्राणास्ता᳘नेत᳘दाह॥

मूलम् - Weber

या ओ᳘षधीः पू᳘र्वा जाताः᳟॥
देवे᳘भ्यस्त्रियुग᳘म् पुरे᳘त्यृत᳘वो वै᳘ देवास्ते᳘भ्य एतास्त्रि᳘म् पुरा᳘ जायन्ते वसन्ता᳘ प्रावृ᳘षि शर᳘दि म᳘नै नु᳘बभ्रूणामहमि᳘ति सो᳘मो वै᳘ बभ्रुः᳘ सौम्या ओ᳘षधय ओषधः पु᳘रुषः शतं धा᳘मानी᳘ति य᳘दिदं᳘ शता᳘युः शतार्घः᳘ शत᳘वीय एता᳘नि हास्य ता᳘नि शतं धा᳘मानि सप्त चे᳘ति य᳘ एॗवेमे᳘ सप्त᳘ शीर्ष᳘न्प्राणास्ता᳘नेत᳘दाह॥

मूलम् - विस्वरम्

“या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा”- इति । ऋतवो वै देवाः । तेभ्य एतास्त्रिः पुरा जायन्ते- वसन्ता प्रावृषि शरदि । “मनै तु बभ्रूणामहम्”- इति । सोमो वै बभ्रुः, सौम्या ओषधयः, औषधः पुरुषः । “शतं धामानि”- इति । यदिदं शतायुः, शतार्घः, शतवीर्यः- एतानि हास्य तानि शतं धामानि । “सप्त च”- (वा. सं. १२ । ७५) इति । य ऽएवेमे सप्त शीर्षन् प्राणाः- तानेतदाह ॥ २६ ॥

सायणः

अथ बीजावापमन्त्रपदानामनुवादपूर्वकमभिप्रायं व्याचष्टे- या ओषधीरित्यादिना । “देवेभ्यस्त्रियुगं पुरा” इत्यस्य मन्त्रभागस्याभिप्रायमाह- ऋतवो वै देवा इति । ‘याः’ ‘ओषधीः’ ओषधयः सृष्ट्यादावुत्पन्नास्ताः ‘देवेभ्यः’ ऋतुभ्यो वसन्तादिभ्यः ‘पुरा’ पूर्वम् वसन्तप्रावृट्शरदामादिषु संवत्सरमध्ये ‘त्रियुगं’ त्रिकालं जायन्त इत्यर्थः ॥

उत्तरार्द्धमनूद्य व्याचष्टे- मनै नु बभ्रूणामिति । अमृतरूपेण सर्वेषां भरणात् ‘बभ्रुः’ सोमः, ओषधयो ऽपि सोमदेवताकत्वात् अत्र बभ्रुशब्दाभिधेयाः, तादृगोषधिपरिणामविशेष एव ‘पुरुषः’ मनुष्यशरीरमिति तत्तादात्म्यम् । अयमर्थः,- ‘बभ्रूणां’ सौम्यानाम् ओषधीनां सम्बन्धीनि वक्ष्यमाणानि, ‘अहं’ ‘नु’ अद्य ‘मनै’ मन्ये जानामि । कानि पुनस्तानि मन्तव्यानीत्याशङ्क्य चतुर्थपादं व्याचष्टे- शतं धामानीति । ओषधिपरिणामस्य पुरुषस्य शरीरस्य यदिदं शतसंवत्सरं जीवनम्, एवं शतसङ्ख्याका अर्घाः पूजाप्रयोजनानि, यानि च तन्निष्पादकानि शतसङ्ख्याकानि वीर्याणि सामर्थ्यानि, ‘एतानि’ खल्वस्य ओषधिविकारस्य शरीरस्य ‘तानि’ मन्त्रोक्तानि शतसङ्ख्याकानि ‘धामानि’ । धामशब्दस्य त्रयो ऽर्थाः यास्केनोक्ताः- “धामानि त्रयाणि भवन्ति,- स्थानानि, नामानि, जन्मानीति” (निरु. ९ । ३ । ७ ।) इति । सप्त चेति । ‘य एवेमे’ ‘सप्त’ सप्तसङ्ख्याकाः ‘शीर्षन्’ शीर्ष्णि सम्बद्धाश्चक्षुःश्रोत्रादिरूपाः ‘प्राणाः’ सप्त चेत्येतत् तानेव ‘प्राणान्’ प्रतिपादयतीत्यर्थः । उदीरितलक्षणानि शतसङ्ख्याकानि धामानि, सप्त शीर्षण्यान् प्राणांश्च ओषधीनां सम्बन्धित्वेन जानामीत्यन्वयः ॥ २६ ॥

Eggeling
  1. [He sows, with Vāj. S. XII, 75 seq.; R̥k S. X, 97] ‘The herbs first grown three ages before the gods 11,’–the gods doubtless are the seasons,

and from them those (herbs) used to grow thrice, in spring, in the rainy season, and in the autumn;–‘of the brown ones will I ponder,’–the brown one, doubtless, is Soma, and the herbs are related to Soma, and the Purusha (Prajāpati) is related to herbs 12;–’the hundred powers,’–inasmuch as he here lives a hundred (years), and has a hundred merits, and a hundred energies, there are in him those hundred powers;–‘and seven,’–he thereby speaks of those seven vital airs in the head.

२७

विश्वास-प्रस्तुतिः

शतं᳘ वो ऽअम्ब धा᳘मानि॥
सह᳘स्रमुत᳘ वो रु᳘ह ऽइ᳘ति य᳘दिद᳘ᳫँ᳘ शतधा᳘ च सहस्रधा᳘ च व्वि᳘रूढा ऽअ᳘धा शतक्रत्वो यूय᳘मिमं᳘ मे ऽअगदं᳘ कृते᳘ति य᳘मिमं᳘ भिषज्यामी᳘त्येतत्[[!!]]॥

मूलम् - श्रीधरादि

शतं᳘ वो ऽअम्ब धा᳘मानि॥
सह᳘स्रमुत᳘ वो रु᳘ह ऽइ᳘ति य᳘दिद᳘ᳫँ᳘ शतधा᳘ च सहस्रधा᳘ च व्वि᳘रूढा ऽअ᳘धा शतक्रत्वो यूय᳘मिमं᳘ मे ऽअगदं᳘ कृते᳘ति य᳘मिमं᳘ भिषज्यामी᳘त्येतत्[[!!]]॥

मूलम् - Weber

शतं᳘ वो अम्ब धा᳘मानि॥
सह᳘स्रमुत᳘ वो रु᳘ह इ᳘ति य᳘दिदं᳘ शतधा᳘ च सहस्रधा᳘ च वि᳘रूढा अ᳘धा शतक्रत्वो यूय᳘मिम᳘म् मे अगदं᳘ कृते᳘ति य᳘मिम᳘म् भिषज्यामी᳘त्येत᳘त्॥

मूलम् - विस्वरम्

“शतं वो ऽअम्ब धामानि, सहस्रमुत वो रुहः”- इति । यदिदं शतधा च सहस्त्रधा च विरूढाः । “अधा शतक्रत्वो यूयमिमं मे ऽअगदं कृत”- इति । यमिमं भिषज्यामीत्येतत् ॥ २७ ॥

सायणः

द्वितीयस्या ऋचः पूर्वार्द्धमनूद्य व्याचष्टे- शतं वो अम्बेति । ‘इदम्’ इदानीं ‘शतधा’ शतप्रकारेण ‘सहस्रधा’ सहस्रप्रकारेण च ‘विरूढाः’ ‘उत्पन्नाः’ ओषधयो दृश्यन्त इति ‘यत्’ ‘एतत्’ एतेनार्द्धर्चेन प्रतिपाद्यत इत्यर्थः । ‘अम्ब’ हे मातः ओषधयः ! ‘वः’ युष्माकं ‘धामानि’ स्थानानि ‘शतं’ शतसंख्याकानि । ‘उत’ शब्दो ऽप्यर्थे । तथा ‘वः’ युष्माकं ‘रुहः’ प्ररोहाः अङ्कुरा अपि ‘सहस्रं’ सहस्रसङ्ख्याका इति ॥

द्वितीयार्द्धमनूद्य तात्पर्यमाह- अधा शतक्रत्व इति । ‘अध’ शब्दो हेतौ । हे ‘शतक्रत्वः’ शतकर्माणः ओषधयः ! ‘यूयं’ मदीयम् ‘इमम्’ पुरुषम् ‘अगदं’ व्याधिरहितं ‘कृत’ कुरुत । ‘यम् इमम्’ आतुरमिदानीम् अहं ‘भिषज्यामि;’ तमेव कुरुतेत्येतदस्य वाक्यस्य तात्पर्यमित्यर्थः । “भिषज् चिकित्सायाम्”- (पा. सू. ३ । १ । २७ । धा. पा. कं. २३ ।) इति धातुः कण्ड्वादिः ॥ २७ ॥

Eggeling
  1. ‘Yours, O Mother, are a hundred powers, and yours a thousand growths,’–inasmuch as (the plants) here are shooting out a hundredfold, and a thousandfold;–‘Ye of a hundred virtues, render ye free from sickness this one of mine!’ that is, him whom I am now healing.

२८

विश्वास-प्रस्तुतिः

(त्ता᳘) ता᳘ ऽएता ऽए᳘कव्याख्यानाः॥
(ऽ) एत᳘मे᳘वाभि य᳘थैत᳘मेव᳘ भिषज्ये᳘देतं᳘ पार᳘येत्ता᳘ ऽअनुष्टु᳘भो भवन्ति व्वाग्वा᳘ ऽअनुष्टुब्वा᳘गु स᳘र्व्वं भेषजᳫँ᳭ स᳘र्व्वेणै᳘वैनमेत᳘द्भेषजे᳘न भिषज्यति॥

मूलम् - श्रीधरादि

(त्ता᳘) ता᳘ ऽएता ऽए᳘कव्याख्यानाः॥
(ऽ) एत᳘मे᳘वाभि य᳘थैत᳘मेव᳘ भिषज्ये᳘देतं᳘ पार᳘येत्ता᳘ ऽअनुष्टु᳘भो भवन्ति व्वाग्वा᳘ ऽअनुष्टुब्वा᳘गु स᳘र्व्वं भेषजᳫँ᳭ स᳘र्व्वेणै᳘वैनमेत᳘द्भेषजे᳘न भिषज्यति॥

मूलम् - Weber

ता᳘ एता ए᳘कव्याख्यानाः॥
एत᳘मेॗवाभि य᳘थैत᳘मेव᳘ भिषज्येदेत᳘म् पारयेत्ता᳘ अनुष्टु᳘भो भवन्ति वाग्वा᳘ अनुष्टुब्वा᳘गु स᳘र्वम् भेषजᳫं स᳘र्वेणैॗवैनमेत᳘द्भेषजे᳘न भिषज्यति॥

मूलम् - विस्वरम्

ता एता एकव्याख्यानाः- एतमेवाभि । यथैतमेव भिषज्येद्- एतं पारयेत् । ता अनुष्टुभो भवन्ति । वाग्वा ऽअनुष्टुप् । वागु सर्वं भेषजम् । सर्वेणैवैनमेतद्भेषजेन भिषज्यति ॥ २८ ॥

सायणः

एवमृग्द्वयं व्याख्याय उत्तरासामप्येवमेव व्याख्यानमित्यतिदिशति- ता एता एकव्याख्याना इति । ‘ता एताः’ बीजावपनार्था ऋचः ‘एकव्याख्यानाः’ समानव्याख्यानाः, अतो न पृथक्तया व्याख्यायन्त इत्यर्थः ॥

अतिदिष्टं व्याख्यानं योजयति- एतमेवाभीति । “इमं मे अगदं कृत” इति यो ऽयं पुरुषो ऽनुक्रान्तः, एतमेवाभिलक्ष्य उत्तरा ऋचो ऽप्याम्नाताः, तासाञ्चायं तात्पर्यगम्यो ऽर्थः- ‘यथा’ येन प्रकारेण ‘एतमेव’ पुरुषं चिकित्सको ‘भिषज्येत्’ भेषजैर्युक्तं कुर्यात्, तेन च भैषज्येन ‘एतं’ व्याधिग्रस्तं ‘पारयेत्’ पारमारोग्यं प्रापयेत्, हे ओषधयः ! तथा कुरुतेति शेषः ॥

तासां छन्दोद्वारेण भेषजहेतुतामाह- ता अनुष्टुभो भवन्तीति । वागु सर्वं भेषजमिति । ‘वाक्’ खलु ‘सर्वं भेषजम्’ तद्धेतुत्वात् । एवं सति ‘एनं’ पुरुषविधं चेष्यमाणमग्निम् ‘एतत्’ एतेनानुष्टुप्छन्दसः प्रयोगेण ‘सर्वेणैव भेषजेन’ ‘भिषज्यति’ भेषजं कृतवान् भवतीत्यर्थः ॥ २८ ॥

Eggeling
  1. These (verses) 13 have one and the same explanation

with regard to this (Agni-Prajāpati),how he may heal him, and preserve him. They are anushṭubh verses,–the Anushṭubh is speech, and speech is all healing medicine: by means of all healing medicine he thus heals him.

२९

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तो निरुक्तानिरुक्ता᳘नामेव[[!!]]॥
य᳘जुषा द्वा᳘वनड्वा᳘हौ युन᳘क्ति तूष्णीमि᳘तरान्य᳘जुषा च᳘तस्रः सी᳘ताः कृष᳘ति तूष्णीमि᳘तरास्तूष्णीं᳘ दर्भस्तम्ब᳘मुपद᳘धाति य᳘जुषा ऽभि᳘जुहोति[[!!]] तूष्णी᳘मुदचमसा᳘न्निन᳘यति य᳘जुषा व्वपति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तो निरुक्तानिरुक्ता᳘नामेव[[!!]]॥
य᳘जुषा द्वा᳘वनड्वा᳘हौ युन᳘क्ति तूष्णीमि᳘तरान्य᳘जुषा च᳘तस्रः सी᳘ताः कृष᳘ति तूष्णीमि᳘तरास्तूष्णीं᳘ दर्भस्तम्ब᳘मुपद᳘धाति य᳘जुषा ऽभि᳘जुहोति[[!!]] तूष्णी᳘मुदचमसा᳘न्निन᳘यति य᳘जुषा व्वपति॥

मूलम् - Weber

अथा᳘तो निरुक्तानिरुक्ता᳘नामेव᳟॥
य᳘जुषा द्वा᳘वनड्वा᳘हौ युन᳘क्ति तूष्णीमि᳘तरान्य᳘जुषा च᳘तस्रः कृष᳘ति तूष्णीमि᳘तरा स्तूष्णीं᳘ दर्भस्तम्ब᳘मुपद᳘धाति य᳘जुषाभिजु᳘होति तूष्णी᳘मुदचमसा᳘न्निन᳘यति य᳘जुषा वपति॥

मूलम् - विस्वरम्

अथातो निरुक्तानिरुक्तानामेव । यजुषा द्वावनड्वाहौ युनक्ति,- तूष्णीमितरान् । यजुषा चतस्रः सीताः कृषति, तूष्णीमितराः । तूष्णीं दर्भस्तम्बमुपदधाति, यजुषा ऽभिजुहोति । तूष्णीमुदचमसान्निनयति, यजुषा वपति ॥ २९ ॥

सायणः

अथ विहितानामनडुद्योजनादीनामोषधिवापान्तानां कर्मणां समन्त्रकामन्त्रकत्वं सम्भूय स्तौति- अथातो निरुक्तानिरुक्तानामेव- इति । ‘अथ’ अनन्तरं यतः समन्त्रकामन्त्रकभेदेन द्विविधानि विहितानि कर्माणि, अतः कारणात् तेषां ‘निरुक्तानिरुतानां’ समन्त्रकामन्त्रकाणां विहितानामेव कर्मणां स्तुतिः क्रियत इति शेषः । निरुक्तानिरुक्तानि कर्माणि क्रमेणानुक्रामति- ‘यजुषा’ मन्त्रेण “सीरा युञ्जन्ति”- (वा. सं. १२ । ६७, ६८) इत्यादिकेन ‘द्वौ धुर्यावनड्वाहौ युनक्ति,’ ‘इतरान्’ अनडुहो ऽग्रे बध्यमानान् ‘तूष्णीं’ युनक्ति । तथा ‘चतस्रः सीताः’ ‘यजुषा’ मन्त्रेण ‘कृषति,’ ‘इतराः’ द्वादश सीताः ‘तूष्णीं’ कृषति । ‘तूष्णीं दर्भस्तम्बम्’ इत्याद्येवं व्याख्येयम् ॥ २९ ॥

Eggeling
  1. Now, then, regarding the defined and the undefined (ceremonies);–with prayer he yokes two oxen, silently the others; with prayer he ploughs four furrows, silently the others; silently he puts on the grass-bush, with prayer he makes a libation thereon; silently he pours out the jarfuls of water, with prayer he sows.

३०

विश्वास-प्रस्तुतिः

प्रजा᳘पतिरे᳘षो ऽग्निः᳘॥
(रु) उभ᳘यम्वेत᳘त्प्रजा᳘पतिर्नि᳘रुक्तश्चा᳘निरुक्तश्च प᳘रिमितश्चा᳘परिमितश्च तद्यद्य᳘जुषा करो᳘ति य᳘दे᳘वास्यानि᳘रुक्तं प᳘रिमितᳫँ᳭ रूपं त᳘दस्य ते᳘न सं᳘स्करोत्य᳘थ य᳘त्तूष्णीं य᳘दे᳘वास्या᳘निरुक्तम᳘परिमितᳫँ᳭ रूपं त᳘दस्य ते᳘न सं᳘स्करोति स᳘ ह वा᳘ ऽएतᳫँ᳭ सर्व्वं कृत्स्नं᳘ प्रजा᳘पतिᳫँ᳭ सं᳘स्करोति य᳘ ऽएवं᳘ विद्वा᳘नेत᳘देवं᳘ करो᳘ति बा᳘ह्यानि रूपा᳘णि नि᳘रुक्तानि भवन्त्य᳘न्तराण्य᳘निरुक्तानि पुशु᳘रेष य᳘दग्निस्त᳘स्मात्पशोर्बा᳘ह्यानि रूपाणि[[!!]] नि᳘रुक्तानि भवन्त्य᳘न्तराण्य᳘निरुक्तानि॥

मूलम् - श्रीधरादि

प्रजा᳘पतिरे᳘षो ऽग्निः᳘॥
(रु) उभ᳘यम्वेत᳘त्प्रजा᳘पतिर्नि᳘रुक्तश्चा᳘निरुक्तश्च प᳘रिमितश्चा᳘परिमितश्च तद्यद्य᳘जुषा करो᳘ति य᳘दे᳘वास्यानि᳘रुक्तं प᳘रिमितᳫँ᳭ रूपं त᳘दस्य ते᳘न सं᳘स्करोत्य᳘थ य᳘त्तूष्णीं य᳘दे᳘वास्या᳘निरुक्तम᳘परिमितᳫँ᳭ रूपं त᳘दस्य ते᳘न सं᳘स्करोति स᳘ ह वा᳘ ऽएतᳫँ᳭ सर्व्वं कृत्स्नं᳘ प्रजा᳘पतिᳫँ᳭ सं᳘स्करोति य᳘ ऽएवं᳘ विद्वा᳘नेत᳘देवं᳘ करो᳘ति बा᳘ह्यानि रूपा᳘णि नि᳘रुक्तानि भवन्त्य᳘न्तराण्य᳘निरुक्तानि पुशु᳘रेष य᳘दग्निस्त᳘स्मात्पशोर्बा᳘ह्यानि रूपाणि[[!!]] नि᳘रुक्तानि भवन्त्य᳘न्तराण्य᳘निरुक्तानि॥

मूलम् - Weber

प्रजा᳘पतिरे᳘षो ऽग्निः᳟॥
उभ᳘यम्वेत᳘त्प्रजा᳘पतिर्नि᳘रुक्तश्चानिरुक्तश्च प᳘रिमितश्चा᳘परिमितश्च तद्यद्य᳘जुषा करो᳘ति य᳘देॗवास्य नि᳘रुक्तम् प᳘रिमितं रूपं त᳘दस्य ते᳘न स᳘ᳫं᳘स्करोत्य᳘श्च य᳘त्तूष्णीं य᳘देवास्या᳘निरुक्तम᳘परिमितं रूपं त᳘दस्य ते᳘न स᳘ᳫं᳘स्तरोति स᳘ ह वा᳘ एतᳫं सर्वं कृत्स्नम् प्रजा᳘पतिᳫं स᳘ᳫं᳘स्करोति य᳘ एवं᳘ विद्वा᳘नेत᳘देवं᳘ करो᳘ति बा᳘ह्यानि रूपा᳘णि नि᳘रुक्तानि भवन्त्य᳘न्तराण्य᳘निरुक्तानि पुशु᳘रेष य᳘दग्निस्त᳘स्मात्पशोर्बा᳘ह्यानि रूपा᳘णि नि᳘रुक्तानि भवन्त्य᳘न्तराण्य᳘निरुक्तानि॥

मूलम् - विस्वरम्

प्रजापतिरेषो ऽग्निः । उभयम्वेतत्प्रजापतिः- निरुक्तश्चानिरुक्तश्च, परिमितश्चापरिमितश्च । तद् यद्यजुषा करोति- यदेवास्य निरुक्तं परिमितं रूपम्- तदस्य तेन संस्करोति । अथ यत्तूष्णीं- यदेवास्यानिरुक्तमपरिमितं रूपं- तदस्य तेन संस्करोति । स ह वा ऽएतं सर्वं कृत्स्नं प्रजापतिं संस्करोति- य एवं विद्वानेतदेवं करोति । बाह्यानि रूपाणि निरुक्तानि भवन्ति, अन्तराण्यनिरुक्तानि । पशुरेषः- यदग्निः । तस्मात्पशोर्बाह्यानि रूपाणि निरुक्तानि भवन्ति, अन्तराण्यनिरुक्तानि ॥ ३० ॥

सायणः

एवं निरुक्तानिरुक्तभेदेन विहितानि कर्माण्यनूद्य चित्याग्निरूपस्य प्रजापतेरपि निरुक्तानिरुक्तात्मना परिमितापरिमितात्मना च द्वैरूप्यमाह- प्रजापतिरेषो ऽग्निरिति । यो ऽयमग्निः ‘एषः’ एव ‘प्रजापतिः’ । यदेतन्निरुक्तानिरुक्तात्मकमुभयविधं जगत्, असावेव स प्रजापतिः । अतो निरुक्तानिरुक्तजगत्तादात्म्यात् प्रजापतिरपि ‘निरुक्तश्च’ ईदृगाकार इति निःशेषेणोक्तश्च, ‘अनिरुक्तः’ तद्विपरीतः ‘च’ अत एव ‘परिमितः’ परिच्छिन्नश्च, ‘अपरिमितश्च’ अपरिच्छिन्नश्च भवति ॥

इत्थं प्रजापतिरूपस्यापि निरुक्तानिरुक्तभेदेन द्वैविध्यमुक्त्वा, समन्त्रकेण निरुक्तेनानडुद्योजनादिकर्मणा निरुक्तभागस्य, इतरेणेतरभागस्य च संस्कारं विभज्य योजयति- तद्यद्यजुषा करोतीत्यादिना । विद्वदनुष्ठानं प्रशंसति- स ह वा इति । ‘कृत्स्नं’ सर्वावयवसहितम्, ‘सर्वं’ निरवशेषम्; अतो न पौनरुक्त्यम् । बाह्याभ्यन्तरभावेन निरुक्तानिरुक्तत्वधर्मयोगात् चित्याग्नेः पशुरूपतामापाद्य स्तौति- बाह्यानि रूपाणीति । यान्येतानि निरुक्तानि कर्माण्यनुक्रान्तानि, तान्यग्नेः ‘बाह्यानि रूपाणि’ । अनिरुक्तानि ‘अन्तराणि’ अभ्यन्तरवर्त्तीनि भवन्ति । ईदृशो यदयमग्निः, ‘एषः’ ‘पशुः’ एव, ‘तस्मात्’ एव कारणात् लोके ‘पशोः’ ‘बाह्यानि’ बहिरवस्थितानि ‘रूपाणि’ रोमादीनि ‘निरुक्तानि,’ ‘अन्तराणि’ असृगादीनि ‘अनिरुक्तानि’ च दृश्यन्ते ॥ ३० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये सप्तमकाण्डे द्वितीये ऽध्याये चतुर्थं ब्राह्मणम् ॥ (७-२-४) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये सप्तमकाण्डे द्वितीयो ऽध्यायः समाप्तः ॥ ७-२ ॥

Eggeling
  1. This Agni is Prajāpati, and Prajāpati is both the defined and the undefined, the limited and the

unlimited. Now whatever he does with prayer thereby he restores that form of his which is defined, limited; and whatever he does silently, thereby he restores that form of his which is undefined, unlimited,–verily, whosoever, knowing this, performs thus, restores this whole and complete Prajāpati. The outer forms are defined, and the inner ones are undefined; and Agni is the same as an animal: hence the outer forms of the animal are defined, and the inner ones undefined.


  1. चतसृषु चतसृषु त्रींस्त्रीनुदचमसान्निनयति यथाकृष्टमौदुंबरेण चतुःस्रक्तिना । का० श्रौ० सू० १७ । ४९ । ↩︎

  2. 335:1 On every four of the sixteen furrows, in the order in which they have been ploughed, he is to empty three jarfuls of water, making altogether twelve jars of water. ↩︎

  3. त्रीन् कृष्टाकृष्टयोः । का. श्रौ. सू. १७ । ४९ । ↩︎

  4. 336:1 These are additional three jarfuls poured over the whole Agnikshetra, or site of the altar. ↩︎

  5. कृष्टमात्रे वा । का. श्रौ. सू. । १७ । ५० । ↩︎

  6. 337:1 See p. 200, note 3. ↩︎

  7. अनारभ्याधीता द्वादश वर्जयित्वेयं गणना । ↩︎

  8. या ओषधीरिति तृचैर्वपत्युदपात्रवत् । का. श्रौ. सू. १७ । ५२ । ↩︎

  9. 338:1 The sowing of the seed is done after the manner of the watering of the site, viz. so as to finish the sowing of every four furrows with the completion of the muttering of three verses (Vāj. S. XII, 75-86); whereupon the remaining seed is scattered over the whole site with additional three verses (87-89). ↩︎

  10. वसन्ता इति सप्तम्यन्तम् । “सुपां सुलुक्”- इति सप्तम्या डादेशे रूपम् । वसन्ते इत्यर्थः । ↩︎

  11. 339:1 Thus the St. Petersburg dictionary; while Professor Ludwig construes ’triyugam purā’ together,–’the herbs first come from the gods before the three ages;’–but is there any other example of ‘purā’ with the accusative? The author of the Brāhmaṇa, on the other hand, takes ’triyugam purā’ as adverbs independent of each other,–‘formerly at three periods.’ ↩︎

  12. 340:1 Or, consists of herbs. ↩︎

  13. 340:2 That is, the two verses just explained, as well as the remaining thirteen verses (Vāj. S. XII, 77 seq.; R̥k S. X, 97, 3 seq.), viz.:– ↩︎